Click on words to see what they mean.

तक्षक उवाच ।दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥ १ ॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ २ ॥
काश्यप उवाच ।दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे ।अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ॥ ३ ॥
सूत उवाच ।एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ ४ ॥
स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते ।आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ ५ ॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥ ६ ॥
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥ ७ ॥
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ ।अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥ ८ ॥
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥ ९ ॥
अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् ।पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ १० ॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥ ११ ॥
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥ १२ ॥
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् ।अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥ १३ ॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ १४ ॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥ १५ ॥
काश्यप उवाच ।धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम ।ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥ १६ ॥
तक्षक उवाच ।यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥ १७ ॥
सूत उवाच ।तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥ १८ ॥
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ।लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥ १९ ॥
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ।जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥ २० ॥
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ।मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ॥ २१ ॥
स चिन्तयामास तदा मायायोगेन पार्थिवः ।मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥ २२ ॥
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान् ।फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥ २३ ॥
तक्षक उवाच ।गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ।फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥ २४ ॥
सूत उवाच ।ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः ।उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ॥ २५ ॥
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ।कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥ २६ ॥
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ।अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥ २७ ॥
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ।तापसैरुपनीतानि फलानि सहिता मया ॥ २८ ॥
ततो राजा ससचिवः फलान्यादातुमैच्छत ।यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ।ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥ २९ ॥
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ ३० ॥
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् ।तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ ३१ ॥
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ।कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥ ३२ ॥
हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः ।तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥ ३३ ॥
« »