Click on words to see what they mean.

शृङ्ग्युवाच ।यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥ १ ॥
नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥ २ ॥
शमीक उवाच ।जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा ।नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥ ३ ॥
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु ।यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥ ४ ॥
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो ।वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥ ५ ॥
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥ ६ ॥
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् ।चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥ ७ ॥
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥ ८ ॥
शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥ ९ ॥
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥ १० ॥
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥ ११ ॥
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥ १२ ॥
सूत उवाच ।एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।परिक्षिते नृपतये दयापन्नो महातपाः ॥ १३ ॥
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥ १४ ॥
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥ १५ ॥
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः ।आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ।शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥ १६ ॥
शमीको नाम राजेन्द्र विषये वर्तते तव ।ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥ १७ ॥
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ।अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ।क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥ १८ ॥
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥ १९ ॥
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥ २० ॥
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥ २१ ॥
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥ २२ ॥
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा ।भूय एवाभवद्राजा शोकसंतप्तमानसः ॥ २३ ॥
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु ।पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥ २४ ॥
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥ २५ ॥
ततस्तं प्रेषयामास राजा गौरमुखं तदा ।भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥ २६ ॥
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा ।मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥ २७ ॥
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् ।प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥ २८ ॥
रक्षां च विदधे तत्र भिषजश्चौषधानि च ।ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥ २९ ॥
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥ ३० ॥
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम ।काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥ ३१ ॥
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् ।तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥ ३२ ॥
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥ ३३ ॥
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥ ३४ ॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् ।क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥ ३५ ॥
काश्यप उवाच ।नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥ ३६ ॥
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा ।पाण्डवानां कुलकरं राजानममितौजसम् ।गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥ ३७ ॥
तक्षक उवाच ।अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ ३८ ॥
काश्यप उवाच ।अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् ।करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥ ३९ ॥
« »