Click on words to see what they mean.

सूत उवाच ।एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥ १ ॥
स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् ।अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥ २ ॥
कृश उवाच ।राज्ञा परिक्षिता तात मृगयां परिधावता ।अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः ॥ ३ ॥
शृङ्ग्युवाच ।किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः ।ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥ ४ ॥
कृश उवाच ।स राजा मृगयां यातः परिक्षिदभिमन्युजः ।ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥ ५ ॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥ ६ ॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥ ७ ॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥ ८ ॥
शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः ।सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥ ९ ॥
सूत उवाच ।श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः ।कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥ १० ॥
आविष्टः स तु कोपेन शशाप नृपतिं तदा ।वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥ ११ ॥
शृङ्ग्युवाच ।योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च ।स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ॥ १२ ॥
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः ।आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥ १३ ॥
सप्तरात्रादितो नेता यमस्य सदनं प्रति ।द्विजानामवमन्तारं कुरूणामयशस्करम् ॥ १४ ॥
सूत उवाच ।इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् ।आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ॥ १५ ॥
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ॥ १६ ॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ।श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥ १७ ॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् ।यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥ १८ ॥
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ।वैवस्वतस्य भवनं नेता परमदारुणम् ॥ १९ ॥
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् ।न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ॥ २० ॥
वयं तस्य नरेन्द्रस्य विषये निवसामहे ।न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥ २१ ॥
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा ।क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥ २२ ॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत् ।न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥ २३ ॥
रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः ।चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥ २४ ॥
परिक्षित्तु विशेषेण यथास्य प्रपितामहः ।रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥ २५ ॥
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना ।अजानता व्रतमिदं कृतमेतदसंशयम् ॥ २६ ॥
तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ २७ ॥
« »