Click on words to see what they mean.

सूत उवाच ।मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः ।वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥ १ ॥
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥ २ ॥
वासुकिरुवाच ।अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः ।तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥ ३ ॥
सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ॥ ४ ॥
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः ।शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥ ५ ॥
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः ।न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥ ६ ॥
तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् ।यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ॥ ७ ॥
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे ।यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥ ८ ॥
यथा स यज्ञो न भवेद्यथा वापि पराभवेत् ।जनमेजयस्य सर्पाणां विनाशकरणाय हि ॥ ९ ॥
सूत उवाच ।तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः ।समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥ १० ॥
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥ ११ ॥
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः ।मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥ १२ ॥
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् ।तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥ १३ ॥
स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः ।यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ॥ १४ ॥
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् ।हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥ १५ ॥
अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति ।सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥ १६ ॥
तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति ।तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥ १७ ॥
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः ।तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥ १८ ॥
तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः ।अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥ १९ ॥
सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा ।अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥ २० ॥
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥ २१ ॥
स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः ।प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥ २२ ॥
यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः ।जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥ २३ ॥
अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः ।स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥ २४ ॥
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ।वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥ २५ ॥
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ।गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥ २६ ॥
अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः ।दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ।छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥ २७ ॥
एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता ।यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥ २८ ॥
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् ।वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान् ॥ २९ ॥
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः ।सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥ ३० ॥
किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् ।अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ ३१ ॥
« »