Click on words to see what they mean.

जनमेजय उवाच ।किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते ।तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥ १ ॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च ।कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥ २ ॥
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् ।कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥ ३ ॥
वैशंपायन उवाच ।यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते ।तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥ ४ ॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥ ५ ॥
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् ।स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥ ६ ॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत ।जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥ ७ ॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥ ८ ॥
किमर्थमावृता लोका ममैते तपसार्जिताः ।किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥ ९ ॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।फलमेतस्य तपसः कथयध्वं दिवौकसः ॥ १० ॥
देवा ऊचुः ।ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥ ११ ॥
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः ।तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥ १२ ॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥ १३ ॥
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने ।तस्मादपत्यसंताने यतस्व द्विजसत्तम ॥ १४ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् ।क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥ १५ ॥
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् ।शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥ १६ ॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।तानपास्य स तत्रैव जगाम लपितां प्रति ।बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥ १७ ॥
तस्मिन्गते महाभागे लपितां प्रति भारत ।अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥ १८ ॥
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने ।नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ।बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा ॥ १९ ॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥ २० ॥
तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् ।सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ।पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥ २१ ॥
मन्दपाल उवाच ।त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् ।त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥ २२ ॥
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः ।त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥ २३ ॥
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः ।त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥ २४ ॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् ।गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ २५ ॥
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः ।दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥ २६ ॥
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते ।तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥ २७ ॥
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् ।त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ॥ २८ ॥
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः ।त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥ २९ ॥
वैशंपायन उवाच ।एवं स्तुतस्ततस्तेन मन्दपालेन पावकः ।तुतोष तस्य नृपते मुनेरमिततेजसः ।उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥ ३० ॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥ ३१ ॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥ ३२ ॥
« »