Click on words to see what they mean.

सूत उवाच ।एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः ।नीलजीमूतसंघातैर्व्योम सर्वं समावृणोत् ॥ १ ॥
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ।परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ॥ २ ॥
संघातितमिवाकाशं जलदैः सुमहाद्भुतैः ।सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ॥ ३ ॥
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः ।मेघस्तनितनिर्घोषमम्बरं समपद्यत ॥ ४ ॥
नागानामुत्तमो हर्षस्तदा वर्षति वासवे ।आपूर्यत मही चापि सलिलेन समन्ततः ॥ ५ ॥
« »