Click on words to see what they mean.

वैशंपायन उवाच ।ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः ।गतां रैवतके कन्यां विदित्वा जनमेजय ॥ १ ॥
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ।कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥ २ ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ ३ ॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ ४ ॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।मृगयाव्यपदेशेन यौगपद्येन भारत ॥ ५ ॥
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् ।दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥ ६ ॥
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति ।तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥ ७ ॥
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् ।रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥ ८ ॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः ।विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥ ९ ॥
ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥ १० ॥
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः ।समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ ११ ॥
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा ।अन्नपानमपास्याथ समापेतुः सभां ततः ॥ १२ ॥
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ १३ ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ १४ ॥
तेषां समुपविष्टानां देवानामिव संनये ।आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥ १५ ॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः ।अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः ॥ १६ ॥
योजयध्वं रथानाशु प्रासानाहरतेति च ।धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ १७ ॥
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥ १८ ॥
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत् ॥ १९ ॥
वनमाली ततः क्षीबः कैलासशिखरोपमः ।नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥ २० ॥
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने ।अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥ २१ ॥
एष तावदभिप्रायमाख्यातु स्वं महामतिः ।यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥ २२ ॥
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥ २३ ॥
समं वचो निशम्येति बलदेवस्य धीमतः ।पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥ २४ ॥
ततोऽब्रवीत्कामपालो वासुदेवं परंतपम् ।किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥ २५ ॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ २६ ॥
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति ।मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥ २७ ॥
ईप्समानश्च संबन्धं कृतपूर्वं च मानयन् ।को हि नाम भवेनार्थी साहसेन समाचरेत् ॥ २८ ॥
सोऽवमन्य च नामास्माननादृत्य च केशवम् ।प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥ २९ ॥
कथं हि शिरसो मध्ये पदं तेन कृतं मम ।मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥ ३० ॥
अद्य निष्कौरवामेकः करिष्यामि वसुंधराम् ।न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥ ३१ ॥
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ ३२ ॥
« »