Click on words to see what they mean.

वैशंपायन उवाच ।ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥ १ ॥
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः ।भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥ २ ॥
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥ ३ ॥
वादित्राणि च तत्र स्म वादकाः समवादयन् ।ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥ ४ ॥
अलंकृताः कुमाराश्च वृष्णीनां सुमहौजसः ।यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥ ५ ॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥ ६ ॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥ ७ ॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥ ८ ॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥ ९ ॥
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः ।निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥ १० ॥
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ ।हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥ ११ ॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥ १२ ॥
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे ।वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥ १३ ॥
तत्र चङ्क्रम्यमाणौ तौ वसुदेवसुतां शुभाम् ।अलंकृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥ १४ ॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥ १५ ॥
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत ।वनेचरस्य किमिदं कामेनालोड्यते मनः ॥ १६ ॥
ममैषा भगिनी पार्थ सारणस्य सहोदरा ।यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥ १७ ॥
अर्जुन उवाच ।दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।रूपेण चैव संपन्ना कमिवैषा न मोहयेत् ॥ १८ ॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥ १९ ॥
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन ।आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥ २० ॥
वासुदेव उवाच ।स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ ।स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥ २१ ॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥ २२ ॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम ।हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥ २३ ॥
वैशंपायन उवाच ।ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥ २४ ॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥ २५ ॥
« »