Click on words to see what they mean.

नारद उवाच ।जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥ १ ॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥ २ ॥
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ।निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥ ३ ॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः ।पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥ ४ ॥
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च ।यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥ ५ ॥
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले ।पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥ ६ ॥
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ ।वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥ ७ ॥
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः ।गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥ ८ ॥
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥ ९ ॥
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती ।शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ १० ॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥ ११ ॥
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता ।उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥ १२ ॥
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥ १३ ॥
वरप्रदानमत्तौ तावौरसेन बलेन च ।धनरत्नमदाभ्यां च सुरापानमदेन च ॥ १४ ॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।मदकामसमाविष्टौ परस्परमथोचतुः ॥ १५ ॥
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥ १६ ॥
नैषा तव ममैषेति तत्र तौ मन्युराविशत् ।तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥ १७ ॥
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ ।अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥ १८ ॥
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले ।रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥ १९ ॥
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा ।पातालमगमत्सर्वो विषादभयकम्पितः ॥ २० ॥
ततः पितामहस्तत्र सह देवैर्महर्षिभिः ।आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥ २१ ॥
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह ।वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥ २२ ॥
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि ।तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥ २३ ॥
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः ।इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥ २४ ॥
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ ।तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः ॥ २५ ॥
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् ।यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥ २६ ॥
वैशंपायन उवाच ।एवमुक्ता महात्मानो नारदेन महर्षिणा ।समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ।समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥ २७ ॥
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् ।स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥ २८ ॥
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥ २९ ॥
एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥ ३० ॥
« »