Click on words to see what they mean.

नारद उवाच ।ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥ १ ॥
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।पितामहस्य भवनं जगतः कृपया तदा ॥ २ ॥
ततो ददृशुरासीनं सह देवैः पितामहम् ।सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥ ३ ॥
तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥ ४ ॥
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ।ऋषयः सर्व एवैते पितामहमुपासते ॥ ५ ॥
ततोऽभिगम्य सहिताः सर्व एव महर्षयः ।सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥ ६ ॥
यथाकृतं यथा चैव कृतं येन क्रमेण च ।न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥ ७ ॥
ततो देवगणाः सर्वे ते चैव परमर्षयः ।तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥ ८ ॥
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ।मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम् ॥ ९ ॥
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ।दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥ १० ॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥ ११ ॥
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥ १२ ॥
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् ।तां रत्नसंघातमयीमसृजद्देवरूपिणीम् ॥ १३ ॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ १४ ॥
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥ १५ ॥
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती ।जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ १६ ॥
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता ।तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥ १७ ॥
पितामह उवाच ।गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ १८ ॥
त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै ।विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥ १९ ॥
नारद उवाच ।सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ २० ॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥ २१ ॥
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् ।इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥ २२ ॥
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा ।अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥ २३ ॥
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् ।गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥ २४ ॥
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः ।रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥ २५ ॥
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ २६ ॥
तथा देवनिकायानामृषीणां चैव सर्वशः ।मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥ २७ ॥
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् ।सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥ २८ ॥
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः ।कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥ २९ ॥
तिलोत्तमायां तु तदा गतायां लोकभावनः ।सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ ३० ॥
« »