Click on words to see what they mean.

नारद उवाच ।शृणु मे विस्तरेणेममितिहासं पुरातनम् ।भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ १ ॥
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥ २ ॥
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥ ३ ॥
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ।एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥ ४ ॥
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ ।त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥ ५ ॥
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः ।तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥ ६ ॥
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ।मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥ ७ ॥
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ।ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ ८ ॥
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥ ९ ॥
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः ।तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥ १० ॥
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः ।न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ ११ ॥
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥ १२ ॥
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा ।स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥ १३ ॥
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥ १४ ॥
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥ १५ ॥
ततः पितामहः साक्षादभिगम्य महासुरौ ।वरेण छन्दयामास सर्वलोकपितामहः ॥ १६ ॥
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥ १७ ॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।आवयोस्तपसानेन यदि प्रीतः पितामहः ॥ १८ ॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥ १९ ॥
पितामह उवाच ।ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति ।अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥ २० ॥
करिष्यावेदमिति यन्महदभ्युत्थितं तपः ।युवयोर्हेतुनानेन नामरत्वं विधीयते ॥ २१ ॥
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥ २२ ॥
सुन्दोपसुन्दावूचतुः ।त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् ।सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥ २३ ॥
पितामह उवाच ।यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥ २४ ॥
नारद उवाच ।ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥ २५ ॥
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ ।अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥ २६ ॥
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ ।सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥ २७ ॥
ततस्तौ तु जटा हित्वा मौलिनौ संबभूवतुः ।महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥ २८ ॥
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् ।दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥ २९ ॥
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति ।पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥ ३० ॥
तत्र तत्र महापानैरुत्कृष्टतलनादितैः ।हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥ ३१ ॥
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।समाः संक्रीडतां तेषामहरेकमिवाभवत् ॥ ३२ ॥
« »