Click on words to see what they mean.

ऋषय ऊचुः ।समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥ १ ॥
सूत उवाच ।शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः ।समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥ २ ॥
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥ ३ ॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ ४ ॥
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः ।पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम् ॥ ५ ॥
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् ।तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥ ६ ॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥ ७ ॥
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥ ८ ॥
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् ।समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥ ९ ॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते ।अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥ १० ॥
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः ।पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥ ११ ॥
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः ।यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥ १२ ॥
ऋषय ऊचुः ।अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥ १३ ॥
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् ।यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥ १४ ॥
सूत उवाच ।एको रथो गजश्चैको नराः पञ्च पदातयः ।त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ १५ ॥
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ १६ ॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ १७ ॥
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी ।अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ १८ ॥
अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः ।संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ १९ ॥
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः ।गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥ २० ॥
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव ।नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥ २१ ॥
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया ॥ २२ ॥
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः ।यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥ २३ ॥
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः ।अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥ २४ ॥
समेतास्तत्र वै देशे तत्रैव निधनं गताः ।कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥ २५ ॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥ २६ ॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥ २७ ॥
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः ।प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥ २८ ॥
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् ।आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥ २९ ॥
विचित्रार्थपदाख्यानमनेकसमयान्वितम् ।अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥ ३० ॥
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् ।इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥ ३१ ॥
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा ।स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥ ३२ ॥
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥ ३३ ॥
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः ।पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥ ३४ ॥
ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम् ।दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥ ३५ ॥
ततो बकवधः पर्व पर्व चैत्ररथं ततः ।ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥ ३६ ॥
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥ ३७ ॥
अर्जुनस्य वने वासः सुभद्राहरणं ततः ।सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥ ३८ ॥
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् ।सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥ ३९ ॥
जरासंधवधः पर्व पर्व दिग्विजयस्तथा ।पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥ ४० ॥
ततश्चार्घाभिहरणं शिशुपालवधस्ततः ।द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥ ४१ ॥
तत आरण्यकं पर्व किर्मीरवध एव च ।ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम् ॥ ४२ ॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥ ४३ ॥
जटासुरवधः पर्व यक्षयुद्धमतः परम् ।तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥ ४४ ॥
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् ।संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥ ४५ ॥
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः ।व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥ ४६ ॥
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः ।कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥ ४७ ॥
आरणेयं ततः पर्व वैराटं तदनन्तरम् ।कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥ ४८ ॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् ।उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥ ४९ ॥
ततः संजययानाख्यं पर्व ज्ञेयमतः परम् ।प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥ ५० ॥
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् ।यानसंधिस्ततः पर्व भगवद्यानमेव च ॥ ५१ ॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः ।निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥ ५२ ॥
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् ।उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥ ५३ ॥
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् ।भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥ ५४ ॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् ।भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥ ५५ ॥
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः ।द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥ ५६ ॥
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते ।जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥ ५७ ॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् ।मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥ ५८ ॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् ।ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥ ५९ ॥
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् ।अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥ ६० ॥
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् ।जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥ ६१ ॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् ।आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥ ६२ ॥
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः ।प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥ ६३ ॥
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् ।आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥ ६४ ॥
ततः पर्व परिज्ञेयमानुशासनिकं परम् ।स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥ ६५ ॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् ।अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥ ६६ ॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च ।नारदागमनं पर्व ततः परमिहोच्यते ॥ ६७ ॥
मौसलं पर्व च ततो घोरं समनुवर्ण्यते ।महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥ ६८ ॥
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् ।भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥ ६९ ॥
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना ।यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥ ७० ॥
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु ।समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः ॥ ७१ ॥
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् ।पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥ ७२ ॥
आस्तीके सर्वनागानां गरुडस्य च संभवः ।क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥ ७३ ॥
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च ।कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥ ७४ ॥
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि ।अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥ ७५ ॥
अंशावतरणं चात्र देवानां परिकीर्तितम् ।दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥ ७६ ॥
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् ।अन्येषां चैव भूतानां विविधानां समुद्भवः ॥ ७७ ॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् ।शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥ ७८ ॥
तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः ।राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥ ७९ ॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च ।हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥ ८० ॥
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् ।धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा ॥ ८१ ॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा ।धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः ॥ ८२ ॥
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च ।विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥ ८३ ॥
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् ।घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥ ८४ ॥
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि ।बकस्य निधनं चैव नागराणां च विस्मयः ॥ ८५ ॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा ।भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥ ८६ ॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् ।पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥ ८७ ॥
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च ।द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥ ८८ ॥
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च ।खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥ ८९ ॥
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया ।सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥ ९० ॥
पार्थस्य वनवासश्च उलूप्या पथि संगमः ।पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥ ९१ ॥
द्वारकायां सुभद्रा च कामयानेन कामिनी ।वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥ ९२ ॥
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने ।संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥ ९३ ॥
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः ।मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम् ।महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥ ९४ ॥
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम् ।अध्यायानां शते द्वे तु संख्याते परमर्षिणा ।अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥ ९५ ॥
सप्त श्लोकसहस्राणि तथा नव शतानि च ।श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥ ९६ ॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते ।सभाक्रिया पाण्डवानां किंकराणां च दर्शनम् ॥ ९७ ॥
लोकपालसभाख्यानं नारदाद्देवदर्शनात् ।राजसूयस्य चारम्भो जरासंधवधस्तथा ॥ ९८ ॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् ।राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥ ९९ ॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च ।दुर्योधनस्यावहासो भीमेन च सभातले ॥ १०० ॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् ।यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥ १०१ ॥
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् ।तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ।पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥ १०२ ॥
एतत्सर्वं सभापर्व समाख्यातं महात्मना ।अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया ॥ १०३ ॥
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च ।श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥ १०४ ॥
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् ।पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ १०५ ॥
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः ।यत्र सौभवधाख्यानं किर्मीरवध एव च ।अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥ १०६ ॥
महादेवेन युद्धं च किरातवपुषा सह ।दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥ १०७ ॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः ।युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥ १०८ ॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् ।दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥ १०९ ॥
वनवासगतानां च पाण्डवानां महात्मनाम् ।स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥ ११० ॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् ।जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥ १११ ॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने ।यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥ ११२ ॥
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः ।यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥ ११३ ॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् ।लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥ ११४ ॥
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् ।इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥ ११५ ॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः ।जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥ ११६ ॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते ।सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥ ११७ ॥
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ ।ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥ ११८ ॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः ।पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥ ११९ ॥
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् ।विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥ १२० ॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना ।निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥ १२१ ॥
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने ।घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥ १२२ ॥
पुनरागमनं चैव तेषां द्वैतवनं सरः ।जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥ १२३ ॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे ।मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥ १२४ ॥
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया ।व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥ १२५ ॥
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च ।रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥ १२६ ॥
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् ।आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ।जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥ १२७ ॥
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् ।अत्राध्यायशते द्वे तु संख्याते परमर्षिणा ।एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥ १२८ ॥
एकादश सहस्राणि श्लोकानां षट्शतानि च ।चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥ १२९ ॥
अतः परं निबोधेदं वैराटं पर्वविस्तरम् ।विराटनगरं गत्वा श्मशाने विपुलां शमीम् ।दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥ १३० ॥
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते ।दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥ १३१ ॥
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि ।गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥ १३२ ॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः ।अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥ १३३ ॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् ।अत्रापि परिसंख्यातमध्यायानां महात्मना ॥ १३४ ॥
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु ।श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ।पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा ॥ १३५ ॥
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् ।उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ।दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥ १३६ ॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति ।इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥ १३७ ॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ ।अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥ १३८ ॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥ १३९ ॥
संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति ।यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥ १४० ॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् ।प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ १४१ ॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि च ।श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥ १४२ ॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् ।मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥ १४३ ॥
प्रभाते राजसमितौ संजयो यत्र चाभिभोः ।ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥ १४४ ॥
यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः ।स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥ १४५ ॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै ।शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥ १४६ ॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् ।योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥ १४७ ॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः ।उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥ १४८ ॥
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् ।नगराद्धास्तिनपुराद्बलसंख्यानमेव च ॥ १४९ ॥
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति ।श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ।रथातिरथसंख्यानमम्बोपाख्यानमेव च ॥ १५० ॥
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते ।उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम् ॥ १५१ ॥
अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् ।श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥ १५२ ॥
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना ।व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥ १५३ ॥
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते ।जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह ॥ १५४ ॥
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् ।यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥ १५५ ॥
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः ।मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥ १५६ ॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः ।विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥ १५७ ॥
षष्ठमेतन्महापर्व भारते परिकीर्तितम् ।अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥ १५८ ॥
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च ।श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ।व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि ॥ १५९ ॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते ।यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥ १६० ॥
भगदत्तो महाराजो यत्र शक्रसमो युधि ।सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥ १६१ ॥
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः ।जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥ १६२ ॥
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे ।अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।संशप्तकावशेषं च कृतं निःशेषमाहवे ॥ १६३ ॥
अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान् ।सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ।घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥ १६४ ॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते ।अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥ १६५ ॥
सप्तमं भारते पर्व महदेतदुदाहृतम् ।अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ।द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥ १६६ ॥
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा ।अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥ १६७ ॥
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना ।पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि ॥ १६८ ॥
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् ।सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ।आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥ १६९ ॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः ।हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥ १७० ॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः ।द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥ १७१ ॥
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः ।एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥ १७२ ॥
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् ।हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥ १७३ ॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः ।विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥ १७४ ॥
शल्यस्य निधनं चात्र धर्मराजान्महारथात् ।गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ।सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥ १७५ ॥
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् ।एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः ॥ १७६ ॥
संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते ।त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ।मुनिना संप्रणीतानि कौरवाणां यशोभृताम् ॥ १७७ ॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् ।भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥ १७८ ॥
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः ।कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥ १७९ ॥
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः ।अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ।पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥ १८० ॥
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः ।पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥ १८१ ॥
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् ।सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥ १८२ ॥
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता ।कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् ॥ १८३ ॥
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः ।अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् ॥ १८४ ॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः ।अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥ १८५ ॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः ।यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥ १८६ ॥
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ।तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥ १८७ ॥
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ।सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥ १८८ ॥
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना ।श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥ १८९ ॥
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया ।सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना ॥ १९० ॥
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् ।विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ।क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥ १९१ ॥
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः ।पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥ १९२ ॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः ।राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥ १९३ ॥
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् ।सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥ १९४ ॥
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते ।संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ।प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥ १९५ ॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् ।यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ।घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान् ॥ १९६ ॥
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः ।राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥ १९७ ॥
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः ।यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ।मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥ १९८ ॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् ।पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ।त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥ १९९ ॥
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश ।पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया ॥ २०० ॥
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् ।यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ।भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥ २०१ ॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः ।विविधानां च दानानां फलयोगाः पृथग्विधाः ॥ २०२ ॥
तथा पात्रविशेषाश्च दानानां च परो विधिः ।आचारविधियोगश्च सत्यस्य च परा गतिः ॥ २०३ ॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् ।भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता ॥ २०४ ॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् ।अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ।श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥ २०५ ॥
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् ।तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥ २०६ ॥
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः ।दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः ॥ २०७ ॥
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ।तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥ २०८ ॥
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः ।संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ।अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥ २०९ ॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ।अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥ २१० ॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च ।विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २११ ॥
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् ।यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ।धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥ २१२ ॥
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा ।पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥ २१३ ॥
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् ।लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥ २१४ ॥
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् ।त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥ २१५ ॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः ।संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥ २१६ ॥
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः ।नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥ २१७ ॥
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् ।द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया ॥ २१८ ॥
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च ।षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २१९ ॥
अतः परं निबोधेदं मौसलं पर्व दारुणम् ।यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ।ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ २२० ॥
आपाने पानगलिता दैवेनाभिप्रचोदिताः ।एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥ २२१ ॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ ।नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥ २२२ ॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् ।दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥ २२३ ॥
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः ।ददर्श यदुवीराणामापाने वैशसं महत् ॥ २२४ ॥
शरीरं वासुदेवस्य रामस्य च महात्मनः ।संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥ २२५ ॥
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् ।ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥ २२६ ॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् ।नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥ २२७ ॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः ।धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥ २२८ ॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् ।अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥ २२९ ॥
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् ।यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ।द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥ २३० ॥
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा ।विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २३१ ॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् ।अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया ।श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः ॥ २३२ ॥
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः ।खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥ २३३ ॥
एतदखिलमाख्यातं भारतं पर्वसंग्रहात् ।अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ।तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥ २३४ ॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः ।न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ २३५ ॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते ।पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥ २३६ ॥
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः ।पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥ २३७ ॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः ।अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥ २३८ ॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः ।इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥ २३९ ॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते ।आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ २४० ॥
इदं सर्वैः कविवरैराख्यानमुपजीव्यते ।उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥ २४१ ॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ २४२ ॥
आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्वसंग्रहेण ।श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन ॥ २४३ ॥
« »