Click on words to see what they mean.

वैशंपायन उवाच ।ततो राज्ञां चरैराप्तैश्चारः समुपनीयत ।पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा ॥ १ ॥
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना ।सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ २ ॥
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली ।त्रासयंश्चापि संक्रुद्धो वृक्षेण पुरुषान्रणे ॥ ३ ॥
न चापि संभ्रमः कश्चिदासीत्तत्र महात्मनः ।स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥ ४ ॥
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा ।कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥ ५ ॥
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ।पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥ ६ ॥
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥ ७ ॥
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥ ८ ॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ ९ ॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥ १० ॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम् ॥ ११ ॥
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् ।धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥ १२ ॥
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् ।विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥ १३ ॥
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥ १४ ॥
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम् ।द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥ १५ ॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ १६ ॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते ।उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥ १७ ॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ १८ ॥
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ १९ ॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ २० ॥
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् ।सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ।तेषां संबन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥ २१ ॥
धृतराष्ट्र उवाच ।यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम ।सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ।यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥ २२ ॥
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥ २३ ॥
वैशंपायन उवाच ।तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥ २४ ॥
ततो दुर्योधनश्चैव राधेयश्च विशां पते ।धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥ २५ ॥
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः ।विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥ २६ ॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥ २७ ॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ ।तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥ २८ ॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥ २९ ॥
« »