Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः ।प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥ १ ॥
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः ।आसने काञ्चने शुभ्रे निषसाद महामनाः ॥ २ ॥
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥ ३ ॥
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः ।पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥ ४ ॥
कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः ।एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥ ५ ॥
व्यास उवाच ।अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके ।यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥ ६ ॥
द्रुपद उवाच ।अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥ ७ ॥
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः ।न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥ ८ ॥
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति ।धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥ ९ ॥
धृष्टद्युम्न उवाच ।यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥ १० ॥
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन ।अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥ ११ ॥
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् ।पञ्चानां महिषी कृष्णा भवत्विति कथंचन ॥ १२ ॥
युधिष्ठिर उवाच ।न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन ॥ १३ ॥
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी ।ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥ १४ ॥
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम ।गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥ १५ ॥
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥ १६ ॥
कुन्त्युवाच ।एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः ।अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥ १७ ॥
व्यास उवाच ।अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः ।न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥ १८ ॥
यथायं विहितो धर्मो यतश्चायं सनातनः ।यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥ १९ ॥
वैशंपायन उवाच ।तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥ २० ॥
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः ।विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥ २१ ॥
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने ।आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥ २२ ॥
« »