Click on words to see what they mean.

वैशंपायन उवाच ।तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥ १ ॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥ २ ॥
वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान् ।मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥ ३ ॥
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः ।ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥ ४ ॥
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् ।अपि नो भागधेयानि शुभानि स्युः परंतप ॥ ५ ॥
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते ।इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥ ६ ॥
श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम ।ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥ ७ ॥
युधिष्ठिर उवाच ।मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥ ८ ॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ।याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥ ९ ॥
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता ।व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥ १० ॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।भवान्हि गुरुरस्माकं परमं च परायणम् ॥ ११ ॥
वैशंपायन उवाच ।ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥ १२ ॥
यत्नेन तु स तं हर्षं संनिगृह्य परंतपः ।अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥ १३ ॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा ।स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥ १४ ॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥ १५ ॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥ १६ ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥ १७ ॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥ १८ ॥
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः ।पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥ १९ ॥
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः ।ममापि दारसंबन्धः कार्यस्तावद्विशां पते ॥ २० ॥
द्रुपद उवाच ।भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥ २१ ॥
युधिष्ठिर उवाच ।सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति ।एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥ २२ ॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥ २३ ॥
एष नः समयो राजन्रत्नस्य सहभोजनम् ।न च तं हातुमिच्छामः समयं राजसत्तम ॥ २४ ॥
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥ २५ ॥
द्रुपद उवाच ।एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥ २६ ॥
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः ।कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ २७ ॥
युधिष्ठिर उवाच ।सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥ २८ ॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥ २९ ॥
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव ॥ ३० ॥
द्रुपद उवाच ।त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः ।कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥ ३१ ॥
वैशंपायन उवाच ।ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥ ३२ ॥
« »