Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः ।धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा ॥ १ ॥
योऽसौ युवा स्वायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः ।यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥ २ ॥
असज्जमानश्च गतस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः ।चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैरृषिभिश्च जुष्टः ॥ ३ ॥
कृष्णा च गृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा ।अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु तं तत्र समापतत्सु ॥ ४ ॥
ततोऽपरः पार्थिवराजमध्ये प्रवृद्धमारुज्य महीप्ररोहम् ।प्रकालयन्नेव स पार्थिवौघान्क्रुद्धोऽन्तकः प्राणभृतो यथैव ॥ ५ ॥
तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ ।विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम् ॥ ६ ॥
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः ।तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥ ७ ॥
तस्यास्ततस्तावभिवाद्य पादावुक्त्वा च कृष्णामभिवादयेति ।स्थितौ च तत्रैव निवेद्य कृष्णां भैक्षप्रचाराय गता नराग्र्याः ॥ ८ ॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा कृत्वा बलिं ब्राह्मणसाच्च कृत्वा ।तां चैव वृद्धां परिविष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त ॥ ९ ॥
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा तु तेषां चरणोपधानम् ।आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥ १० ॥
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयां बभूवुः ।न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजातेः कथयन्ति वीराः ॥ ११ ॥
निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन् ।आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥ १२ ॥
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य ।यथा च भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥ १३ ॥
ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषयां तत्र चक्रे ।विद्याम युष्मानिति भाषमाणो महात्मनः पाण्डुसुताः स्थ कच्चित् ॥ १४ ॥
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् ।वाक्यं यथावन्नृपतेः समग्रमुवाच तान्स क्रमवित्क्रमेण ॥ १५ ॥
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हाः ।लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः ॥ १६ ॥
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं पदं शिरःसु द्विषतां कुरुध्वम् ।प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य सहानुगस्य ॥ १७ ॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव ।तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिति कौरवस्य ॥ १८ ॥
अयं च कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः ।यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममेति ॥ १९ ॥
तथोक्तवाक्यं तु पुरोहितं तं स्थितं विनीतं समुदीक्ष्य राजा ।समीपस्थं भीममिदं शशास प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥ २० ॥
मान्यः पुरोधा द्रुपदस्य राज्ञस्तस्मै प्रयोज्याभ्यधिकैव पूजा ।भीमस्तथा तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिसंगृहीत्वा ॥ २१ ॥
सुखोपविष्टं तु पुरोहितं तं युधिष्ठिरो ब्राह्मणमित्युवाच ।पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथानुकामम् ॥ २२ ॥
प्रदिष्टशुल्का द्रुपदेन राज्ञा सानेन वीरेण तथानुवृत्ता ।न तत्र वर्णेषु कृता विवक्षा न जीवशिल्पे न कुले न गोत्रे ॥ २३ ॥
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण च संनिसृष्टा ।सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसंघमध्ये ॥ २४ ॥
नैवंगते सौमकिरद्य राजा संतापमर्हत्यसुखाय कर्तुम् ।कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य ॥ २५ ॥
अप्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये ।न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि ।न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम् ॥ २६ ॥
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य ।न चापि तत्पातनमन्यथेह कर्तुं विषह्यं भुवि मानवेन ॥ २७ ॥
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः ।तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् ॥ २८ ॥
« »