Click on words to see what they mean.

अर्जुन उवाच ।राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे ।कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ॥ १ ॥
जानता च परं धर्मं लोक्यं तेन महात्मना ।अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ।कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥ २ ॥
गन्धर्व उवाच ।धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि ।वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥ ३ ॥
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः ।शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ ४ ॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।निर्जगाम पुराद्राजा सहदारः परंतपः ॥ ५ ॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे ।नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ॥ ६ ॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ।अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥ ७ ॥
स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः ।ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ।ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ ॥ ८ ॥
तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ ।तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥ ९ ॥
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ।शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥ १० ॥
आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः ।अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥ ११ ॥
शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि ।ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता ॥ १२ ॥
अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् ।प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ॥ १३ ॥
एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् ।भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥ १४ ॥
तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि ।सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥ १५ ॥
ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता ।कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥ १६ ॥
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ।प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥ १७ ॥
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ।पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥ १८ ॥
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ।तेन संगम्य ते भार्या तनयं जनयिष्यति ।स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥ १९ ॥
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा ।तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥ २० ॥
वसिष्ठश्च महाभागः सर्वमेतदपश्यत ।ज्ञानयोगेन महता तपसा च परंतप ॥ २१ ॥
मुक्तशापश्च राजर्षिः कालेन महता ततः ।ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥ २२ ॥
न हि सस्मार नृपतिस्तं शापं शापमोहितः ।देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ।तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥ २३ ॥
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् ।स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥ २४ ॥
« »