Click on words to see what they mean.

और्व उवाच ।उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा ।सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ १ ॥
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे ।अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥ २ ॥
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति ।नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥ ३ ॥
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता ।स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥ ४ ॥
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥ ५ ॥
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः ।आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥ ६ ॥
आपूर्णकोशाः किल मे मातरः पितरस्तथा ।भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥ ७ ॥
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत ।यदा तदा दधारेयमूरुणैकेन मां शुभा ॥ ८ ॥
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते ।तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ ९ ॥
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥ १० ॥
जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते ॥ ११ ॥
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम ।शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥ १२ ॥
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् ।भवतां तु वचो नाहमलं समतिवर्तितुम् ॥ १३ ॥
मम चापि भवेदेतदीश्वरस्य सतो महत् ।उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥ १४ ॥
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ १५ ॥
भवतां च विजानामि सर्वलोकहितेप्सुताम् ।तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ १६ ॥
पितर ऊचुः ।य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥ १७ ॥
आपोमयाः सर्वरसाः सर्वमापोमयं जगत् ।तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ १८ ॥
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ ।मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ १९ ॥
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥ २० ॥
वसिष्ठ उवाच ।ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये ।उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ २१ ॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः ।तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥ २२ ॥
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि ।पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥ २३ ॥
« »