Click on words to see what they mean.

सूत उवाच ।ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।मन्दरं पर्वतवरं लताजालसमावृतम् ॥ १ ॥
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥ २ ॥
एकादश सहस्राणि योजनानां समुच्छ्रितम् ।अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥ ३ ॥
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा ।विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥ ४ ॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥ ५ ॥
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥ ६ ॥
अथ पर्वतराजानं तमनन्तो महाबलः ।उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥ ७ ॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥ ८ ॥
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥ ९ ॥
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः ।गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥ १० ॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥ ११ ॥
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् ।देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥ १२ ॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ।विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥ १३ ॥
अनन्तो भगवान्देवो यतो नारायणस्ततः ।शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥ १४ ॥
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः ।सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥ १५ ॥
ते धूमसंघाः संभूता मेघसंघाः सविद्युतः ।अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥ १६ ॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥ १७ ॥
बभूवात्र महाघोषो महामेघरवोपमः ।उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ १८ ॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥ १९ ॥
वारुणानि च भूतानि विविधानि महीधरः ।पातालतलवासीनि विलयं समुपानयत् ॥ २० ॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ २१ ॥
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥ २२ ॥
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् ।विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ २३ ॥
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः ।वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥ २४ ॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ २५ ॥
तेषाममृतवीर्याणां रसानां पयसैव च ।अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥ २६ ॥
अथ तस्य समुद्रस्य तज्जातमुदकं पयः ।रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥ २७ ॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥ २८ ॥
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा ।चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥ २९ ॥
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् ।विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥ ३० ॥
विष्णुरुवाच ।बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥ ३१ ॥
सूत उवाच ।नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥ ३२ ॥
ततः शतसहस्रांशुः समान इव सागरात् ।प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥ ३३ ॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥ ३४ ॥
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः ।मरीचिविकचः श्रीमान्नारायणउरोगतः ॥ ३५ ॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥ ३६ ॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥ ३७ ॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥ ३८ ॥
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ।स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥ ३९ ॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ ४० ॥
« »