Click on words to see what they mean.

जनमेजय उवाच ।एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥ १ ॥
वैशंपायन उवाच ।एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥ २ ॥
रमणीयानि पश्यन्तो वनानि विविधानि च ।पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥ ३ ॥
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते ।बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥ ४ ॥
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि ।तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥ ५ ॥
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः ।अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥ ६ ॥
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् ।अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥ ७ ॥
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः ।संगत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥ ८ ॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥ ९ ॥
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा ।कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥ १० ॥
मथ्यमानेव दुःखेन हृदयेन पृथा ततः ।उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥ ११ ॥
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने ।अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥ १२ ॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ।प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥ १३ ॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥ १४ ॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥ १५ ॥
भीम उवाच ।ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ १६ ॥
वैशंपायन उवाच ।तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् ।आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥ १७ ॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥ १८ ॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।दुहित्रा चैव सहितं ददर्श विकृताननम् ॥ १९ ॥
ब्राह्मण उवाच ।धिगिदं जीवितं लोकेऽनलसारमनर्थकम् ।दुःखमूलं पराधीनं भृशमप्रियभागि च ॥ २० ॥
जीविते परमं दुःखं जीविते परमो ज्वरः ।जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥ २१ ॥
एकात्मापि हि धर्मार्थौ कामं च न निषेवते ।एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥ २२ ॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥ २३ ॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ २४ ॥
न हि योगं प्रपश्यामि येन मुच्येयमापदः ।पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥ २५ ॥
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि ।यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥ २६ ॥
इह जाता विवृद्धास्मि पिता चेह ममेति च ।उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥ २७ ॥
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव ।बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥ २८ ॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥ २९ ॥
अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन ।परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥ ३० ॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥ ३१ ॥
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥ ३२ ॥
कुलीनां शीलसंपन्नामपत्यजननीं मम ।त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ।परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥ ३३ ॥
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ।बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥ ३४ ॥
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ।यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ ३५ ॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥ ३६ ॥
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥ ३७ ॥
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः ।त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥ ३८ ॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥ ३९ ॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् ।अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ।सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥ ४० ॥
« »