Click on words to see what they mean.

भीम उवाच ।स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ॥ १ ॥
युधिष्ठिर उवाच ।क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ॥ २ ॥
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् ।रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ॥ ३ ॥
वैशंपायन उवाच ।हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ॥ ४ ॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ॥ ५ ॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।सोऽयमभ्यागतः कालो भविता मे सुखाय वै ॥ ६ ॥
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ॥ ७ ॥
वरेणापि तथानेन त्वया चापि यशस्विनि ।तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ॥ ८ ॥
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा ।भर्त्रानेन महाभागे संयोजय सुतेन ते ॥ ९ ॥
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ॥ १० ॥
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा ।वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ॥ ११ ॥
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः ।यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ॥ १२ ॥
आपदस्तरणे प्राणान्धारयेद्येन येन हि ।सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ॥ १३ ॥
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः ।व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ॥ १४ ॥
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते ।येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ॥ १५ ॥
युधिष्ठिर उवाच ।एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः ।स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ॥ १६ ॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ॥ १७ ॥
अहःसु विहरानेन यथाकामं मनोजवा ।अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ॥ १८ ॥
वैशंपायन उवाच ।तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा ।भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ॥ १९ ॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ।मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ॥ २० ॥
कृत्वा च परमं रूपं सर्वाभरणभूषिता ।संजल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥ २१ ॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु ।सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥ २२ ॥
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च ।सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥ २३ ॥
सगरस्य प्रदेशेषु मणिहेमचितेषु च ।पत्तनेषु च रम्येषु महाशालवनेषु च ॥ २४ ॥
देवारण्येषु पुण्येषु तथा पर्वतसानुषु ।गुह्यकानां निवासेषु तापसायतनेषु च ॥ २५ ॥
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च ।बिभ्रती परमं रूपं रमयामास पाण्डवम् ॥ २६ ॥
रमयन्ती तथा भीमं तत्र तत्र मनोजवा ।प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ॥ २७ ॥
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ।भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ॥ २८ ॥
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् ।महाजवं महाकायं महामायमरिंदमम् ॥ २९ ॥
अमानुषं मानुषजं भीमवेगं महाबलम् ।यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ॥ ३० ॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते ।सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ॥ ३१ ॥
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च ।कामरूपधराश्चैव भवन्ति बहुरूपिणः ॥ ३२ ॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥ ३३ ॥
घटभासोत्कच इति मातरं सोऽभ्यभाषत ।अभवत्तेन नामास्य घटोत्कच इति स्म ह ॥ ३४ ॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।तेषां च दयितो नित्यमात्मभूतो बभूव सः ॥ ३५ ॥
संवाससमयो जीर्ण इत्यभाषत तं ततः ।हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ॥ ३६ ॥
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ॥ ३७ ॥
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना ।कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ॥ ३८ ॥
« »