Click on words to see what they mean.

वैशंपायन उवाच ।अथ रात्र्यां व्यतीतायामशेषो नागरो जनः ।तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ॥ १ ॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः ।जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ॥ २ ॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा ।पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ॥ ३ ॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः ।दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ॥ ४ ॥
नूनं शांतनवो भीष्मो न धर्ममनुवर्तते ।द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ॥ ५ ॥
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः ।संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ॥ ६ ॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् ।निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ॥ ७ ॥
खनकेन तु तेनैव वेश्म शोधयता बिलम् ।पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ॥ ८ ॥
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः ।पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ॥ ९ ॥
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् ।विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ॥ १० ॥
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः ।तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ॥ ११ ॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् ।सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ॥ १२ ॥
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च ।ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ॥ १३ ॥
एवंगते मया शक्यं यद्यत्कारयितुं हितम् ।पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ॥ १४ ॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः ।उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ॥ १५ ॥
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः ।विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ॥ १६ ॥
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् ।जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ॥ १७ ॥
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।यतमाना वनं राजन्गहनं प्रतिपेदिरे ॥ १८ ॥
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः ।पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥ १९ ॥
इतः कष्टतरं किं नु यद्वयं गहने वने ।दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ॥ २० ॥
तं च पापं न जानीमो यदि दग्धः पुरोचनः ।कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ॥ २१ ॥
पुनरस्मानुपादाय तथैव व्रज भारत ।त्वं हि नो बलवानेको यथा सततगस्तथा ॥ २२ ॥
इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः ॥ २३ ॥
« »