Click on words to see what they mean.

शौनक उवाच ।किमर्थं राजशार्दूलः स राजा जनमेजयः ।सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ॥ १ ॥
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः ।मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥ २ ॥
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् ।स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥ ३ ॥
सूत उवाच ।महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज ।सर्वमेतदशेषेण शृणु मे वदतां वर ॥ ४ ॥
शौनक उवाच ।श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् ।आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥ ५ ॥
सूत उवाच ।इतिहासमिमं वृद्धाः पुराणं परिचक्षते ।कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ॥ ६ ॥
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः ।शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥ ७ ॥
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् ।इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ॥ ८ ॥
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः ।ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ॥ ९ ॥
जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः ।यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥ १० ॥
अटमानः कदाचित्स स्वान्ददर्श पितामहान् ।लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ॥ ११ ॥
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् ।के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ॥ १२ ॥
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते ।मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ॥ १३ ॥
पितर ऊचुः ।यायावरा नाम वयमृषयः संशितव्रताः ।संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ॥ १४ ॥
अस्माकं संततिस्त्वेको जरत्कारुरिति श्रुतः ।मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ॥ १५ ॥
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति ।तेन लम्बामहे गर्ते संतानप्रक्षयादिह ॥ १६ ॥
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा ।कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ॥ १७ ॥
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः ।किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥ १८ ॥
जरत्कारुरुवाच ।मम पूर्वे भवन्तो वै पितरः सपितामहाः ।ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥ १९ ॥
पितर ऊचुः ।यतस्व यत्नवांस्तात संतानाय कुलस्य नः ।आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥ २० ॥
न हि धर्मफलैस्तात न तपोभिः सुसंचितैः ।तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥ २१ ॥
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु ।पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ॥ २२ ॥
जरत्कारुरुवाच ।न दारान्वै करिष्यामि सदा मे भावितं मनः ।भवतां तु हितार्थाय करिष्ये दारसंग्रहम् ॥ २३ ॥
समयेन च कर्ताहमनेन विधिपूर्वकम् ।तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥ २४ ॥
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः ।भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥ २५ ॥
दरिद्राय हि मे भार्यां को दास्यति विशेषतः ।प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥ २६ ॥
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः ।अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ॥ २७ ॥
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ॥ २८ ॥
सूत उवाच ।ततो निवेशाय तदा स विप्रः संशितव्रतः ।महीं चचार दारार्थी न च दारानविन्दत ॥ २९ ॥
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् ।चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥ ३० ॥
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥ ३१ ॥
सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि ।मनो निविष्टमभवज्जरत्कारोर्महात्मनः ॥ ३२ ॥
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः ।किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम ॥ ३३ ॥
वासुकिरुवाच ।जरत्कारो जरत्कारुः स्वसेयमनुजा मम ।त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥ ३४ ॥
सूत उवाच ।मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर ।जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ॥ ३५ ॥
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः ।स्वसारमृषये तस्मै सुव्रताय तपस्विने ॥ ३६ ॥
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥ ३७ ॥
तपस्वी च महात्मा च वेदवेदाङ्गपारगः ।समः सर्वस्य लोकस्य पितृमातृभयापहः ॥ ३८ ॥
अथ कालस्य महतः पाण्डवेयो नराधिपः ।आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥ ३९ ॥
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै ।मोचयामास तं शापमास्तीकः सुमहायशाः ॥ ४० ॥
नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् ।पितॄंश्च तारयामास संतत्या तपसा तथा ।व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥ ४१ ॥
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः ।ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान् ॥ ४२ ॥
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः ।जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥ ४३ ॥
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः ।जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥ ४४ ॥
एतदाख्यानमास्तीकं यथावत्कीर्तितं मया ।प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥ ४५ ॥
« »