Click on words to see what they mean.

वैशंपायन उवाच ।दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः ।विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः ॥ १ ॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ।सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥ २ ॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः ।तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ॥ ३ ॥
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः ।दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ॥ ४ ॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा ।असंख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः ॥ ५ ॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् ।प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ॥ ६ ॥
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः ।कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ॥ ७ ॥
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः ।भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥ ८ ॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः ।करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः ॥ ९ ॥
असमाप्ते ततस्तस्य वचने वदतां वर ।यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥ १० ॥
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् ।ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥ ११ ॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा ।यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥ १२ ॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत ।कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥ १३ ॥
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद ।अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ॥ १४ ॥
कर्ण उवाच ।कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे ।द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥ १५ ॥
दुर्योधन उवाच ।भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव ।दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ॥ १६ ॥
वैशंपायन उवाच ।ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत ।कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥ १७ ॥
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् ।ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥ १८ ॥
कर्ण उवाच ।रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन ।वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥ १९ ॥
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत ।गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ॥ २० ॥
वैशंपायन उवाच ।ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः ।भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ॥ २१ ॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः ।परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ॥ २२ ॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः ।आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ॥ २३ ॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् ।भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ॥ २४ ॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः ।सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ॥ २५ ॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः ।भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ॥ २६ ॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत ।कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ॥ २७ ॥
तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित् ।कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ॥ २८ ॥
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ ।पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किंचन ॥ २९ ॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् ।द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ॥ ३० ॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः ।कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ॥ ३१ ॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम् ।कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ।ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ॥ ३२ ॥
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् ।बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ॥ ३३ ॥
दुर्योधन उवाच ।आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये ।तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ॥ ३४ ॥
यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति ।तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ॥ ३५ ॥
वैशंपायन उवाच ।ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः ।काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ।अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ॥ ३६ ॥
सच्छत्रवालव्यजनो जयशब्दान्तरेण च ।उवाच कौरवं राजा राजानं तं वृषस्तदा ॥ ३७ ॥
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते ।प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ।अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ॥ ३८ ॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत ।हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ॥ ३९ ॥
« »