Click on words to see what they mean.

रुरुरुवाच ।कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः ।सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ॥ १ ॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे ।आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ॥ २ ॥
ऋषिरुवाच ।श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ॥ ३ ॥
सूत उवाच ।रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः ।तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥ ४ ॥
लब्धसंज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा ।पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ ५ ॥
« »