Click on words to see what they mean.

वैशंपायन उवाच ।ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः ।ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥ १ ॥
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः ।रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥ २ ॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् ।आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥ ३ ॥
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् ।पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥ ४ ॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् ।संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥ ५ ॥
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥ ६ ॥
बहुमायासमाकीर्णो नानादोषसमाकुलः ।लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥ ७ ॥
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने ।मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः ॥ ८ ॥
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् ।अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ।सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥ ९ ॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् ।वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥ १० ॥
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता ।वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥ ११ ॥
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम ।देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥ १२ ॥
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा ।अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥ १३ ॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि ।बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥ १४ ॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे ।धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥ १५ ॥
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने ।शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥ १६ ॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् ।एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥ १७ ॥
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली ।चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥ १८ ॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः ।आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥ १९ ॥
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा ।तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥ २० ॥
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः ।सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥ २१ ॥
न ते नियुद्धे न जवे न योग्यासु कदाचन ।कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥ २२ ॥
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः ।अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥ २३ ॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् ।भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥ २४ ॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः ।मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥ २५ ॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः ।मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥ २६ ॥
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् ।प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम् ॥ २७ ॥
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा ।नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥ २८ ॥
ततो जलविहारार्थं कारयामास भारत ।चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥ २९ ॥
प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च ।क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः ।सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥ ३० ॥
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः ।विहारावसथेष्वेव वीरा वासमरोचयन् ॥ ३१ ॥
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा ।वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ।प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥ ३२ ॥
शीतं वासं समासाद्य श्रान्तो मदविमोहितः ।निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥ ३३ ॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः ।गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥ ३४ ॥
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् ।उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥ ३५ ॥
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥ ३६ ॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥ ३७ ॥
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् ।सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ ३८ ॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् ।कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम् ॥ ३९ ॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया ।तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥ ४० ॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् ।भीमसंहननो भीमस्तदप्यजरयत्ततः ॥ ४१ ॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ ४२ ॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः ।उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ ४३ ॥
« »