Click on words to see what they mean.

जनमेजय उवाच ।कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः ।अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥ १ ॥
नामधेयानि चाप्येषां कथ्यमानानि भागशः ।त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥ २ ॥
ते हि सर्वे महात्मानो देवराजपराक्रमाः ।त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥ ३ ॥
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् ।तेषामाजननं सर्वं वैशंपायन कीर्तय ॥ ४ ॥
वैशंपायन उवाच ।राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते ।वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥ ५ ॥
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः ।निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥ ६ ॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः ।भार्यया सह तेजस्वी मृगरूपेण संगतः ॥ ७ ॥
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् ।क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥ ८ ॥
मृग उवाच ।काममन्युपरीतापि बुद्ध्यङ्गरहितापि च ।वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥ ९ ॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः ।विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥ १० ॥
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत ।कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥ ११ ॥
पाण्डुरुवाच ।शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता ।राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥ १२ ॥
अच्छद्मनामायया च मृगाणां वध इष्यते ।स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥ १३ ॥
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः ।आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥ १४ ॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे ।अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥ १५ ॥
मृग उवाच ।न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् ।रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥ १६ ॥
पाण्डुरुवाच ।प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा ।उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥ १७ ॥
मृग उवाच ।नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् ।मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥ १८ ॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा ।को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ।पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥ १९ ॥
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् ।वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥ २० ॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् ।अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥ २१ ॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् ।नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम् ॥ २२ ॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः ।निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥ २३ ॥
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् ।मुनिं मूलफलाहारं मृगवेषधरं नृप ।वसमानमरण्येषु नित्यं शमपरायणम् ॥ २४ ॥
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् ।द्वयोर्नृशंसकर्तारमवशं काममोहितम् ।जीवितान्तकरो भाव एवमेवागमिष्यति ॥ २५ ॥
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः ।व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥ २६ ॥
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने ।न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ।मृगरूपधरं हत्वा मामेवं काममोहितम् ॥ २७ ॥
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि ।प्रियया सह संवासं प्राप्य कामविमोहितः ।त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥ २८ ॥
अन्तकाले च संवासं यया गन्तासि कान्तया ।प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ।भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥ २९ ॥
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया ।तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति ॥ ३० ॥
वैशंपायन उवाच ।एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत ।मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥ ३१ ॥
« »