Click on words to see what they mean.

वैशंपायन उवाच ।ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय ।धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥ १ ॥
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः ।देवेभ्यः समपद्यन्त संतानाय कुलस्य वै ॥ २ ॥
जनमेजय उवाच ।कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।कियता चैव कालेन तेषामायुश्च किं परम् ॥ ३ ॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ।आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥ ४ ॥
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ।समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥ ५ ॥
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन ।कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥ ६ ॥
वैशंपायन उवाच ।क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् ।तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥ ७ ॥
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ।ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥ ८ ॥
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् ।अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥ ९ ॥
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥ १० ॥
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः ।सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥ ११ ॥
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ।द्विवर्षसंभृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥ १२ ॥
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥ १३ ॥
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् ।सा चात्मनो मतं सत्यं शशंस परमर्षये ॥ १४ ॥
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।दुःखेन परमेणेदमुदरं पातितं मया ॥ १५ ॥
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा ।इयं च मे मांसपेशी जाता पुत्रशताय वै ॥ १६ ॥
व्यास उवाच ।एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १७ ॥
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥ १८ ॥
वैशंपायन उवाच ।सा सिच्यमाना अष्ठीला अभवच्छतधा तदा ।अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥ १९ ॥
एकाधिकशतं पूर्णं यथायोगं विशां पते ।मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥ २० ॥
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा ।स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥ २१ ॥
शशास चैव भगवान्कालेनैतावता पुनः ।विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥ २२ ॥
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च ।जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥ २३ ॥
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः ।जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥ २४ ॥
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् ।समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥ २५ ॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥ २६ ॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥ २७ ॥
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत ।क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥ २८ ॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥ २९ ॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥ ३० ॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥ ३१ ॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३२ ॥
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ।न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥ ३३ ॥
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव ।मासमात्रेण संजज्ञे कन्या चैका शताधिका ॥ ३४ ॥
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ।धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥ ३५ ॥
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः ।जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥ ३६ ॥
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।महारथानां वीराणां कन्या चैकाथ दुःशला ॥ ३७ ॥
« »