Click on words to see what they mean.

वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् ।भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥ १ ॥
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् ।सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥ २ ॥
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् ।शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥ ३ ॥
ननन्द माता कौसल्या तमप्रतिमतेजसम् ।जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥ ४ ॥
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः ।अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥ ५ ॥
संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ ।जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥ ६ ॥
हित्वा प्रासादनिलयं शुभानि शयनानि च ।अरण्यनित्यः सततं बभूव मृगयापरः ॥ ७ ॥
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः ।उवास गिरिपृष्ठेषु महाशालवनेषु च ॥ ८ ॥
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् ।करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥ ९ ॥
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् ।विचित्रकवचं वीरं परमास्त्रविदं नृपम् ।देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥ १० ॥
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः ।उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥ ११ ॥
अथ पारशवीं कन्यां देवकस्य महीपतेः ।रूपयौवनसंपन्नां स शुश्रावापगासुतः ॥ १२ ॥
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः ।विवाहं कारयामास विदुरस्य महामतेः ॥ १३ ॥
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः ।पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः ॥ १४ ॥
« »