Click on words to see what they mean.

वैशंपायन उवाच ।ततः सत्यवती काले वधूं स्नातामृतौ तदा ।संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ॥ १ ॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति ।अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ॥ २ ॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुंगवान् ॥ ३ ॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ॥ ४ ॥
तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने ।बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ॥ ५ ॥
संबभूव तया रात्रौ मातुः प्रियचिकीर्षया ।भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥ ६ ॥
ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् ।अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥ ७ ॥
निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् ।प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥ ८ ॥
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ।महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥ ९ ॥
तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः ।किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ॥ १० ॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् ।नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥ ११ ॥
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥ १२ ॥
स तथेति प्रतिज्ञाय निश्चक्राम महातपाः ।सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥ १३ ॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ॥ १४ ॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत ।अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ।विषण्णा पाण्डुसंकाशा समपद्यत भारत ॥ १५ ॥
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य पार्थिव ।व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ॥ १६ ॥
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि ।तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ॥ १७ ॥
नाम चास्य तदेवेह भविष्यति शुभानने ।इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ॥ १८ ॥
ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत ।शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥ १९ ॥
तं माता पुनरेवान्यमेकं पुत्रमयाचत ।तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥ २० ॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया ।तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ॥ २१ ॥
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ।नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ॥ २२ ॥
ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् ।प्रेषयामास कृष्णाय ततः काशिपतेः सुता ॥ २३ ॥
दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ।संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ॥ २४ ॥
कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः ।तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ॥ २५ ॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि ।अयं च ते शुभे गर्भः श्रीमानुदरमागतः ।धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥ २६ ॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ॥ २७ ॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः ।माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥ २८ ॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥ २९ ॥
एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि ।जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ ३० ॥
« »