<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीतुरीयाषोडशीश्रीराजराजेश्वरीकवचम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-10</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrituriyashodashishrirajarajeshvarikavacam" xml:lang="sa">
    <body>
      <note type="footnote" n="note1">१७. ॥ अथ श्रीतुरीयाषोडशीश्रीराजराजेश्वरीकवचम् ॥</note>
      <lg n="1">
        <l>कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।</l>
        <l>शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>श्रीस्कन्द उवाच—</l>
        <l>जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन ।</l>
        <l>कवचं षोडशाक्षर्या वद मे परमेश्वर ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>श्रीईश्वर उवाच—</l>
        <l>शृणु पुत्र महाभाग कवचं मन्त्रविग्रहम् ।</l>
        <l>गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>तव स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।</l>
        <l>ब्रह्मेशविष्णुशक्रेभ्यो मया यत् कथितं पुरा ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>देवाग्रे नैव दैत्याग्रे न शौनकगुणाग्रके ।</l>
        <l>तव भक्त्या सु कवचं गोप्यं कर्तुं न शक्यते ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>एकादशमहाविद्या सवर्णा सद्गुणान्विता ।</l>
        <l>सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।</l>
        <l>पञ्चतत्त्वादिसर्वेषां वामावर्तेन तुष्यताम् ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।</l>
        <l>त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>श्रीस्कन्द उवाच—</l>
        <l>कवचं परमं देव्याः श्रोतुमिच्छाम्यहं प्रभो ।</l>
        <l>यत्सूचितं त्वया पूर्वं धर्मकामार्थमोक्षदम् ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>तद्विनाराधनं नास्ति जपं ध्यानादिकर्मणि ।</l>
        <l>तस्याश्च कवचं यस्मात् तस्मात्तद्वद मे प्रभो ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>श्री ईश्वर उवाच---</l>
        <l>शृणु पुत्र महाप्राज्ञ रहस्यातिरहस्यकम् ।</l>
        <l>तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>न पुत्राय न शिष्याय न भक्ताय कदाचन ।</l>
        <l>सपुत्रशिष्यभक्ताय कवचं यत् प्रकाशयेत्<add>?</add>॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>पूजान्ते तु जपात् पूर्वं कवचं समुदीरयेत् ।</l>
        <l>अस्य श्रीकवचस्यास्य ऋषिरानन्दभैरवः ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>श्रीविद्या देवता च्छन्दो गायत्री रुचिवृत्तिकम् ।</l>
        <l>रामा बीजं पराशक्तिर्वाग्भवं कीलकं स्मृतम् ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>मम सर्वार्थसिद्ध्यर्थे जपे तु विनियोगतः ।</l>
        <l>अङ्गुष्ठाग्रे वाग्भवं च हृल्लेखा तर्जनी न्यसेत् ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>लक्ष्मीबीजं मध्यमायामङ्गिराऽनामिका तथा ।</l>
        <l>परा बीजं कनिष्ठायां लक्ष्मीं करतले न्यसेत् ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>हृदये वाग्भवं न्यस्यात् परां शिरसि च न्यसेत् ।</l>
        <l>लक्ष्मीबीजं शिखायां च सर्वाङ्गे वाग्भवं न्यसेत् ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>हृल्लेखं नेत्रयोर्न्यस्यात् अस्त्रं तु कमलां न्यसेत् ।</l>
        <l>भूर्भुवःस्वेति मनुना दिग्बन्धनमथाचरेत् ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>ध्यानं तस्य प्रवक्ष्यामि धर्मकामार्थमोक्षदम् ।</l>
        <l>न्यासध्यानादिकं सर्वं कृत्वा तु कवचं पठेत् ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>क्षीरसागर<subst>
            <del>मन्मध्ये</del>
            <add>मध्यस्थे</add>
          </subst>रत्नद्वीपे मनोहरे ।</l>
        <l>रत्नसिंहासने दिव्ये तत्र देवीं विचिन्तयेत् ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>कोटिसूर्यप्रतीकाशां चन्द्रकोटिनिभाननाम् ।</l>
        <l>दाडिमीपुष्पसंकाशां कुंकुमोदरसन्निभाम् ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>जपाकुसुमसंकाशां त्रिणेत्रां च चतुर्भुजाम् ।</l>
        <l>पाशाङ्कुशधरां रम्यामिक्षुचापरान्विताम् ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ।</l>
        <l>सर्वशृङ्गारवेषाढ्यां सर्वावयवशोभिनीम् ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>सर्वायुधसमायुक्तां प्रसन्नवदनेक्षणाम् ।</l>
        <l>सपरीवारसावर्णां सर्वोपचारपूजिताम् ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>एवं ध्यायेत्ततो वीर कवचं सर्वकामदम् ।</l>
        <l>आवर्तयेत् स्वदेहे तु सर्वरक्षाकरं शुभम् ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>शिखायां मे<subst>
            <del>ह्लौः</del>
            <add>हलौ</add>
          </subst>पातु<subst>
            <del>रहौ</del>
            <add>सहौ</add>
          </subst>मे चक्ररन्ध्रके ।<subst>
            <del>वामदक्षिणभागे च ह्लौ पातु मां सर्वदा ॥</del>
            <add>सर्वदा ह्रौ च मां पातु वामदक्षिणभागयोः</add>
          </subst>॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>ऐं ह्रीं श्रीं सर्वदा पातु षोडशी सुन्दरी परा ।</l>
        <l>श्रीं ह्रीं क्लीं सर्वदा पातु ऐं सौं ओं पातु मे सदा ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>ह्रीं श्रीं ऐं पातु सर्वत्र क्नौं रं लं ह्रीं सदा मम ।</l>
        <l>क्लीं हसकहल ह्रीं पातु सदा सौः क्लीं मम<add>?</add>॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>सौ ऐं क्लीं ह्री श्रिया पातु सबीजा षोडशाक्षरी ।</l>
        <l>आपादमस्तकं पातु महात्रिपुरसुन्दरी ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>श्रीजयन्ती मस्तके मां पातु नित्यं विभूतये ।</l>
        <l>ह्रीं मङ्गला सदा नेत्रे पातु सर्वार्थसिद्धये ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>क्लीं कालिका कर्णयुग्मं पातु सर्वशुभावहा ।</l>
        <l>ऐं भारती घ्राणयुग्मं पातु सर्वजयाप्तये ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>सौः कराली मुखं पातु सर्वलोकवशाप्तये ।</l>
        <l>ऐं शारदा सदा वाचं पातु साहित्यसिद्धये ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>ओं कपालिनि मे कर्णौ पातु सद्गानसिद्धये ।</l>
        <l>ह्रीं दुर्गासहिता पातु स्कन्धदेशौ सदा मम ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>श्रीं क्षमासहिता पातु हृदयं मम सर्वदा ।</l>
        <l>ककारसहिता धात्री पार्श्वयुग्मं सदावतु ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>एकारसहिता स्वाहा पातु मे जठरं सदा ।</l>
        <l>ईकारसहिता नाभिं स्वधा मां सर्वदावतु ॥ ३५ ॥</l>
      </lg>
      <lg n="36">
        <l>लकारसहिता ब्राह्मी पृष्ठदेशं सदावतु ।</l>
        <l>ह्रींकारसहमाहेशी कटिं पातु सदा मम ॥ ३६ ॥</l>
      </lg>
      <lg n="37">
        <l>हकारसहिता गुह्यं कौमारी पातु सर्वदा ।</l>
        <l>सकारसहिता पातु वैष्णवी गुददेशकम् ॥ ३७ ॥</l>
      </lg>
      <lg n="38">
        <l>ककारयुक्ता वाराही ह्यरुयुग्मं सदावतु ।</l>
        <l>हकारसहिता जानुयुग्मं माहेन्द्रि मेऽवतु ॥ ३८ ॥</l>
      </lg>
      <lg n="39">
        <l>लकारयुक्ता चामुण्डा जङ्घायुग्मं सदावतु ।</l>
        <l>ह्रींकारसहिता गुल्फयुग्मं लक्ष्मीः सदावतु ॥ ३९ ॥</l>
      </lg>
      <lg n="40">
        <l>सकारयुक्ता मे पादयुग्मेऽव्यात् शिवदूतिका ।</l>
        <l>ककारसहिता प्राच्यां चण्डा रक्षतु सर्वदा ॥ ४० ॥</l>
      </lg>
      <lg n="41">
        <l>लकारसहिताग्नेय्यां प्रचण्डा सर्वदावतु ।</l>
        <l>ह्रींकारसहिता पातु दक्षिणे चण्डनायिका ॥ ४१ ॥</l>
      </lg>
      <lg n="42">
        <l>सौःकारसहिता चण्डवेगिनी नैर्ऋतेऽवतु ।</l>
        <l>ऐंकारसंयुता चण्डप्रकाशा पातु पश्चिमे ॥ ४२ ॥</l>
      </lg>
      <lg n="43">
        <l>क्लींकारसहिता पातु चण्डिका वायुगोचरे ।</l>
        <l>ह्रींकारसहिता पातु चामुण्डा चोत्तरे मम ॥ ४३ ॥</l>
      </lg>
      <lg n="44">
        <l>श्रीकारसहिता रौद्री पायादैशान्यके मम ।</l>
        <l>ऊर्ध्वं ब्रह्माणि मे रक्षेत् षोडशी सह सर्वदा ॥ ४४ ॥</l>
      </lg>
      <lg n="45">
        <l>अवस्थाद्वैष्णवी रक्षेत् पुनः षोडशिसंयुता ।</l>
        <l>सर्वाङ्गं सर्वदा पातु सहिता भुवनेश्वरी ॥ ४५ ॥</l>
      </lg>
      <lg n="46">
        <l>जले दावानलेऽरण्ये महोत्पाते च सागरे ।</l>
        <l>दिवारात्रौ च मे रक्षेत देवी तारत्रयी मम ॥ ४६ ॥</l>
      </lg>
      <lg n="47">
        <l>इदं तुरीयासहितं पोडशाक्षरिकात्मकम् ।</l>
        <l>अभेद्यं कवचं त्वेदं मन्त्रबीजसमन्वितम् ॥ ४७ ॥</l>
      </lg>
      <lg n="48">
        <l>योगिनीचक्रसहितं तव प्रीत्या प्रकाशितम् ।</l>
        <l>धारयस्व मया दत्तं गोपनीयं सुपुत्रक ॥ ४८ ॥</l>
      </lg>
      <lg n="49">
        <l>न पुत्राय न शिष्याय बन्धुभ्यो न प्रकाशयेत् ।</l>
        <l>इदं त्रिपुरसुन्दर्यास्तुरीयं कवचं शुभम् ॥ ४९ ॥</l>
      </lg>
      <lg n="50">
        <l>गोपनीयं प्रयत्नेन मन्त्रवर्णक्रमोदितम् ।</l>
        <l>प्रातरारभ्य सायान्तं कर्म वेदान्तमौक्तिकम् ॥ ५० ॥</l>
      </lg>
      <lg n="51">
        <l>तत् फलं समवाप्नोति तुरीयकवचव्रतम् ।</l>
        <l>दशधा मातृकान्यासं लघुषोढा ततः परम् ॥ ५१ ॥</l>
      </lg>
      <lg n="52">
        <l>शक्तिन्यासं महापोढां कृत्वा बाह्यान्तरं न्यसेत् ।</l>
        <l>श्रीविद्यायां महान्यासं क्रमात् सावर्णतां गतम् ॥ ५२ ॥</l>
      </lg>
      <lg n="53">
        <l>पूजान्ते यत् फलं प्राप्तं तत् फलं कवचव्रते ।</l>
        <l>सवत्सां दुग्धसहितां साधकः कामधेनुवत् ॥ ५३ ॥</l>
      </lg>
      <lg n="54">
        <l>त्रैलोक्यविजयायेदं कवचं परमाद्भुतम् ।</l>
        <l>यथा चिन्तामणौ पुत्र मनसा परिकल्पिते ॥ ५४ ॥</l>
      </lg>
      <lg n="55">
        <l>तत् सर्वं लभते शीघ्रं मम वाक्यान्न संशयः ।</l>
        <l>सायुरारोग्यमैश्वर्यं सदा सम्पत्प्रवर्धनम् ॥ ५५ ॥</l>
      </lg>
      <lg n="56">
        <l>कवचस्य प्रभावेण त्रैलोक्ये विजयी भवेत् ।</l>
        <l>अदीक्षिताय नो देयं श्रद्धाविरहितात्मने ॥ ५६ ॥</l>
      </lg>
      <lg n="57">
        <l>नाख्येयं यस्य कस्यापि कृतघ्नायाततायिने ।</l>
        <l>शान्ताय गुरुभेक्ताय देयं शुद्धाय साधवे ॥ ५७ ॥</l>
      </lg>
      <lg n="58">
        <l>अज्ञात्वा कवचं चेदं यो जपेत् परदेवताम् ।</l>
        <l>यद्यत् पुराद्यादिशतं यथेन्दुश्च तयो रविः<add>(?)</add>॥ ५८ ॥</l>
      </lg>
      <lg n="59">
        <l>स एव च गुरुः साक्षात् कवचं यस्तु पुत्रक ।</l>
        <l>त्रिसन्ध्यं च पठेन्नित्यमिदं कवचमुत्तमम् ॥ ५९ ॥</l>
      </lg>
      <lg n="60">
        <l>निशार्धे जपकाले वा प्रत्यहं यन्त्रमग्रतः ।</l>
        <l>सदा भवति तस्याग्रे पश्चाद्धावति धेनुवत् ॥ ६० ॥</l>
      </lg>
      <lg n="61">
        <l>जगद्वश्यं भवेच्छीघ्रं नात्र कार्या विचारणा ।</l>
        <l>वेदी पुत्रो भवेच्छान्ते त्वं सदा मम सुव्रत<add>(?)</add>॥ ६१ ॥</l>
      </lg>
      <lg n="62">
        <l>सप्तकोटिमहामन्त्राः सवर्णाः सगुणान्विताः ।</l>
        <l>सर्वे प्रसन्नतां यान्ति सत्यं सत्यं न संशयः ॥ ६२ ॥</l>
      </lg>
      <lg n="63">
        <l>इति ते कथितं दिव्यं सगुणे भजनक्रमम् ।</l>
        <l>निर्गुणं परमं वक्ष्ये तुरीयं कवचं शृणु ॥ ६३ ॥</l>
      </lg>
      <lg n="64">
        <l>येन विज्ञातमात्रेण पारम्पर्यं च लभ्यते ।</l>
        <l>यथा च विमलं तोयं तपन्तीं तारयत्यपि ॥ ६४ ॥</l>
      </lg>
      <lg n="65">
        <l>कवचस्यास्य माहात्म्यं वर्णितुं नैव शक्यते ।</l>
        <l>मूलादिब्रह्मरन्धान्तं श्रीचक्रं समुदीरयेत् ॥ ६५ ॥</l>
      </lg>
      <lg n="66">
        <l>परिचाराच्च नः सर्वं सर्वावरणसंयुतम् ।</l>
        <l>आदिमध्यान्तकं सर्वं पश्चमं पञ्चमं भवेत्<add>(?)</add>॥ ६६ ॥</l>
      </lg>
      <lg n="67">
        <l>देहमध्ये च सर्वस्वं श्रीचक्रं चिन्तयेत् सुत ।</l>
        <l>पञ्चविंशतितत्त्वं च सुतलं तलमेव च ॥ ६७ ॥</l>
      </lg>
      <lg n="68">
        <l>गभस्तिमानपातालं सप्तमं च रसातलम् ।</l>
        <l>भूर्भुवःस्वर्लोकमतो महल्लोकजनस्तथा ॥ ६८ ॥</l>
      </lg>
      <lg n="69">
        <l>तपश्च सत्यलोकच भुवनानि चतुर्दश ।</l>
        <l>सर्वं श्रीभुवनं चैव निराकारं विचिन्तयेत् ॥ ६९ ॥</l>
      </lg>
      <lg n="70">
        <l>मानसे पूजयेत् ध्यायेद्ज्योतीरूपं सुचिन्मयम् ।</l>
        <l>कवचं प्रजपेद्वत्स राजराजेश्वरो भवेत् ॥ ७० ॥</l>
      </lg>
      <lg n="71">
        <l>इति परमरहस्यं सर्वमन्त्रार्थसारं</l>
        <l>भजति परमभक्त्या निश्चलं निर्मलत्वम् ।</l>
        <l>विलसति भुवि मध्ये पुत्रपौत्राभिवृद्धिं</l>
        <l>धनसकलसमृद्धिं भोगमोक्षप्रदं च ॥ ७१ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीचूडामणौ श्रीशिवस्कन्दसर्गपादे त्रैलोक्यविजयाभेद्यं नाम
श्रीतुरीयाषोडशीश्रीराजराजेश्वरीमहात्रिपुरसुन्दरीकवचं
सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>