<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीसरस्वतीदशश्लोकीस्तोत्रम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-10</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrisarasvatidashashlokistotram" xml:lang="sa">
    <body>
      <title n="title">२५. ॥ अथ श्रीसरस्वतीदशश्लोकीस्तोत्रम् ॥</title>
      <lg n="1">
        <l>ऋषय ऊचुः---</l>
        <l>कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।</l>
        <l>महासरस्वती येन तुष्टा भवति तद्वद ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>आश्वलायन उवाच---</l>
        <l>शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।</l>
        <l>दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।</l>
        <l>मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।</l>
        <l>सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।</l>
        <l>त्रिलोचनीं महादेवी वर्णनूपुरधारिणीम् ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।</l>
        <l>कम्बुकण्ठीं सुताम्रोष्ठीं सर्वाभरणभूषिताम् ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।</l>
        <l>शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।</l>
        <l>लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।</l>
        <l>प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।</l>
        <l>नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>या साङ्गोपाङ्गवेदेषु चतुर्वेकैव गीयते ।</l>
        <l>अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।</l>
        <l>अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।</l>
        <l>प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।</l>
        <l>रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४ ।</l>
      </lg>
      <lg n="15">
        <l>या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।</l>
        <l>व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।</l>
        <l>निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।</l>
        <l>सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>यां विदित्वाखिलं बन्धं निर्मध्यामलवर्त्मना ।</l>
        <l>योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।</l>
        <l>ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती<add>?</add>॥ १९॥</l>
      </lg>
      <lg n="20">
        <l>यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।</l>
        <l>सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।</l>
        <l>भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।</l>
        <l>गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।</l>
        <l>श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।</l>
        <l>अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।</l>
        <l>अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>एवं भावयता तेन बृहस्पतिरपि स्वयम् ।</l>
        <l>न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान् ।</l>
        <l>अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>सर्वत्रैव प्रियं ब्रूयात्<add rend="brackets">यथेच्छालब्ध</add>मात्मनः ।</l>
        <l>लोकैरेव तिरस्कृत्य द्विषन्तं प्रतिवादिनम् ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।</l>
        <l>यद्वागितिद्व्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ।</l>
        <l>प्रथमं भारती नाम द्वितीयं च सरस्वती ।</l>
        <l>तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।</l>
        <l>सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।</l>
        <l>एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।</l>
        <l>तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।</l>
        <l>सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>इत्याश्वलायनमुनिर्निजगाद देव्याः</l>
        <l>स्तोत्रं समस्तफलभोगनिधानभूतम् ।</l>
        <l>एतत् पठन् द्विजवरः शुचितामुपैति</l>
        <l>सन्ध्यासु वाञ्छितमुपैति न संशयोऽत्र ॥ ३५ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>