॥ ईशावास्योपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । 'ईशा वास्यम्' इत्यादयो मन्त्रा कर्मस्वविनियुक्ता, तेषामकर्मशेषस्यात्मनो याथात्म्यप्रकाशकत्वात् । याथात्म्य चात्मन शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषा कर्मस्वविनियोग । न ह्येवलक्षणमात्मनो याथात्म्यम् उत्पाद्य विकार्यम् आप्य सस्कार्यं वा कर्तृभोक्तृरूप वा, येन कर्मशेषता स्यात्, सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्, गीताना मोक्षधर्माणा चैवपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्ध कर्माणि विहि तानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरह न काणत्वकुणित्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मान मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषय स्वाभाविककर्मविज्ञान निवर्तयन्त शोकमोहादिससारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्तीति । एवमुक्ताधिकार्यभिधेय सबन्धप्रयोजनान्मत्रान्सक्षेपतो व्यारयास्याम ईशावास्यमिदꣳ सर्व यत्किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृध कस्य स्विद्धनम् ॥ १ ॥ ईशा ईष्टे इति ईट्, तेन ईशा । ईशिता परमेश्वर पर मात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छा दनीयम् । किम् ? इद सर्व यत्किं च यत्किंचित् जगत्या पृथिव्या जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेद सर्वमिति परमार्थसत्यरूपेणानृतमिद सर्वं चराचर- माच्छादनीय परमात्मना । यथा चन्दनागर्वादेरुदकादि- सबन्धजक्लेदादिजमौपाधिक दौर्गन्ध्य तत्स्वरूपनिघर्षणेना- च्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्य- ध्यस्त स्वाभाविक कर्तृत्वभोक्तृत्वादिलक्षण जग द्द्वैतरूप पृथि- व्याम्, जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्य विकारजात परमार्थसत्यात्मभावनया त्यक्त स्यात् । एवमी श्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसन्यासे एवाधिकार, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थ । न हि त्यक्तो मृत पुत्रो भृत्यो वा आत्मसबन्धिताभावादात्मान पालय- ति । अतस्त्यागेनेत्ययमेवाथ । भुञ्जीथा पालयेथा । एव त्यक्तैषणस्त्व मा गृध गृधिम् आकाङ्क्षा मा कार्षी धनविष याम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धन मा काङ्क्षीरित्यर्थ । स्विदित्यनर्थको निपात । अथवा, मा गृध । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थ । न कस्य चिद्धनमस्ति, यद्गृध्येत । आत्मैवेद सर्वमितीश्वरभावनया सर्वं त्यक्तम् । अत आत्मन एवेद सर्वम्, आत्मैव च सर्वम् । अतो मिथ्याविषया गृधिं मा कार्षीरित्यर्थ ॥