<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<pb n="2" />
<p>॥श्री:॥
विष्णुपादादि
केशान्तस्तोत्रम्॥</p>
<lg>
  <l>जात्याख्यागुणकर्मवर्जिततया निर्णीतमप्यागमै-</l>
  <l>र्जात्या यं पशुपालमाप्तवचसः कृष्णं गृणन्त्याख्यया ।</l>
  <l>श्रीशं ज्ञानिनमीश्वरं सुयशसं वीरं विरक्तं गुणै-</l>
  <l>स्त्रातारं जगतां च कर्मभिरहो देवाय तस्मै नमः ॥</l>
</lg>
<lg>
  <l>श्रीमच्छंकरपूज्यपादरचितं पादादिकेशावधि</l>
  <l>स्तोत्रं दात्रमघस्य नेत्रममलं गात्रं हरे: प्रेक्षितुम् ।</l>
  <l>व्याचिख्यासति मय्यहो सति सतामेषा विधा हासितुं</l>
  <l>व्यक्ता भक्तिरथापि विष्णुपदयोः पुष्णाति मे धृष्णुताम् ॥</l>
</lg>
<p>तत्र तावत् 'आत्मा वा अरे द्रष्टव्यः' इति स्वविहितस्य आ-
त्मदर्शनस्य साधनतया श्रुत्या 'श्रोतव्यो मन्तव्यो निदिध्यासि-
तव्यः' इति प्रतिपादितानां श्रवणमनननिदिध्यासनानां मध्ये</p>
<pb n="3" />
<p>यमादिषडङ्गनिष्पाद्यस्य परमेश्वरैक्यानुभवसमाधिमातुः निदि-
ध्यासनस्य प्राधान्यम् 'तद्रूपप्रत्ययैकान्तसंततिश्चान्यनिःस्पृहा ।
तद्ध्यानप्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप । तस्यैव कल्पनाहीनं
स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यः समाधिः सोऽ-
भिधीयते' इति वचनात्,'श्रेयो हि ज्ञानमभ्यासात् ज्ञाना-
द्ध्यानं विशिष्यते' इति भगवद्वचनात्, 'सर्वेषामेव यज्ञानां
ध्यानयज्ञः परः स्मृतः । बहिर्योगोपचारेण पूजयति शं-
करम् । ध्यानयज्ञेन सततं स याति परमां गतिम् । ज्ञानध्या-
नात्मक: सूक्ष्म: शिवयोगमहामखः । विशिष्टः सर्वयज्ञाना-
मसंख्यातैर्महागुणैः । जपेन पापसंशुद्धिर्ज्ञानध्यानेन मुच्यते'
इत्यादिवचनैः ज्ञानस्य कृतत्वात् तस्य च धारणामूलकत्वात्
तस्याश्च 'यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा
चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्' इति प्रशस्तत्वात्
'तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं
सा तु विज्ञेया शुद्धधारणा । अन्ये तु पुरुषव्याघ्र चेतसो ये
व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः '
इत्यादिवचनात् कर्मयोगित्वेनाशुद्धान् देवादीनपास्य कर्मपा-
रतन्त्र्यरहिते भक्तानुग्रहाय कृतपरिग्रहे विशुद्धतत्त्वात्मके स-
मस्तशक्त्याधारे सर्वावतारबीजभूते घृतकाठिन्यवत् परब्रह्मणो
विष्ण्वाख्ये विवर्ते सच्चिदानन्दैकरसे सकलमङ्गलप्रसोतरि</p>
<pb n="4" />
<p>समग्रदुरितकुलजालप्लोषजातवेदसि तापत्रयतरणिकिरणतप्तसं-सरणमरुधरणिसरणिसंचरणविधुरजनपरिश्रमहरणसुरविटपिनि
विग्रहरत्ने मनः स्थिरीकरणात्मकत्वात् मनसश्च तरलतरस्वभा-
वस्य परमेश्वरविग्रहः एवंप्रकारविशिष्टतया अनुसंधेय इति
प्रदर्शितमधुरप्रकारे तस्मिंस्तदितरविषयप्रत्याहृतस्य बाह्येन्द्रि-
यसहितस्य 'अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते '
इति भगवद्वचनात् अभ्यासेन विषयान्तरविरक्त्या च
स्थिरीकार्यत्वात् भुक्तिमुक्त्यभिलाषुकसुकृतिजनानुग्रहपरमकरु-
णापराधीनचेताः परमेश्वरावतारभेदभूतो भगवान् श्रीम-
च्छारीरकमीमांसाभाष्यकार: तद्विग्रहप्रकाशनाय भगवतः पु
रुषोत्तमस्य पादादिकेशान्तविग्रहवर्णनरूपं स्तोत्रमारभमाणः
तद्वारा सकलवेदधर्मशास्त्रपुराणेतिहासमीमांसान्यायाद्यर्थां श्च
प्रसङ्गतो व्युत्पिपादयिषुः प्रारिप्सितग्रन्थस्य अविघ्नपरिसमा-
त्यादिप्रयोजनसिद्धये निखिलदनुजनिशिचरकुलमुखदुरितभ-
रनिरसनेन भुवनपालनजागरूकाणामचिन्त्यमहिम्नां भगवतो
दिव्यायुधानामन्येषां च तदन्तरङ्गभूतानां परिवारविशेषाणां
स्तुत्या प्रथमतः प्रसादोन्मुखत्वमापादयति, तत्प्रसादमन्त-
रेण निरन्तरनिराकुलेन मनसा भगवद्विग्रहस्य प्रवेष्टुमशक्य-
त्वात् । न खलु प्रतिहारादिपरिवारावर्जनमन्तरेण नरपतिसे-
वाया: सौकर्यम् । तत्रापि 'भूतादिमिन्द्रियादिं च द्विधा-</p>
<pb n="5" />
<p>हंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् '
इति,   'भूतादिस्तु  विकुर्वाण:  शब्दतन्मात्रकं  ततः'   इति,
'शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम्' इत्यादि विशि-
ष्टार्थप्रतिपत्त्यर्थविवेचनैः समग्रज्ञानप्रकाशकस्य शब्दब्रह्मात्म-
कस्य शङ्खराजस्य प्रथमं वर्णनेनावर्जनं विशिष्टार्थप्रतिपत्त्यर्थं
करोति—</p>
<lg>
  <l>लक्ष्मी भर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं</l>
  <l>नीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।</l>
  <l>पायान्न: पाञ्चजन्य: स दितिसुतकुलत्रासनैः पूरयन्स्वै-</l>
  <l>र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराज: ‌‌‌॥ १ ‌॥</l>
</lg>
<p>ननु  'प्रसन्नवदनं चारुपद्मपत्रायतेक्षणम्'  इत्यादिभिः
पुराणेष्वेव धारणाधारस्य श्रीधरविग्रहस्य वर्णितत्वात् किमि-
दानीं वर्णनान्तरप्रयासेन ? अत्रोच्यते-  इह खलु उत्तमम-
ध्यममन्दभेदेन अधिकारिणो बहुविधा भवन्ति । तत्रोत्तमः
पुरातनजन्मशतोपार्जितपुण्यवासनावशात् प्रसन्नान्तःकरणो वा-
वाक्यश्रवणमात्राच्च शाकवदाप्नुयादित्याचार्योक्तक्रमेण संक्षिप्य
सत्कृतोपदेशेन करतलकलितमिव कनककटकमभिमतमर्थम-
नुभवति । मध्यमस्तु कविविस्तरमपेक्षते । मन्दमति: पुन-</p>
<pb n="6" />
<p>रपि महता विस्तरेण प्रकाशितमर्थं कथंचित्प्रतिपद्यते ।
किंचित्प्रतिपादनप्रकारभेदोऽपि कश्चन कस्मैचन रोचते ।
अतः परस्मै ततोऽपि संक्षेपविस्तरावपेक्ष्येते । 'इष्टं हि
विदुषां   लोके   समासव्यासधारणम् ' इति व्यासोक्तेः
' भिन्नरुचिर्हि लोक : ' इति  'रुचीनां  वैचित्र्यादृजुकु-
टिलनानापथजुषाम् ' इत्याद्याचार्यवचनात् रुच्यर्थित्वव्यु -
त्पत्तयश्चात्र मूलम् ।  तथा  च  आहु:-    'यथारुचि
यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।  आभासो  व्यर्थं
एकस्मिन्ननुसन्धानसाधित: ' इति । व्युत्पाद्यभेदापेक्षया हि
शास्त्राणि विचित्राणि विस्तीर्यन्ते । अन्यथा परिमिताक्षरोपदे-
श्येन तत्त्वेन सर्वेषां चरितार्थत्वात् किमर्थ एष विविधविक-
ल्पजल्पकल्पनाजटिलो ग्रन्थस्कन्धातिभारनिबन्ध: ? एकेनैव
मन्त्रेणाभिमतसकलार्थसिद्धौ किंप्रयोजना चेयं बहुविधमन्त्रत-
न्त्रपारतन्त्र्ययन्त्रणेत्यलमतत्त्वरसभावालंकारतरङ्गितभङ्गिप्रति-
पादनेन । सरसतामापाद्य मृदुलसरलमतीनामतिगहनेऽस्मि-
न्नर्थेऽवतारणार्थं सार्थक एव परानुग्रहैकसकलव्यापाराणामपा-
रज्ञानपारावाराणां भगवतामाचार्याणामारम्भ इति स्थितम् ।
प्रकृतमनुसराम: -
जलद वर्णवर्णनपरेण प्रबन्धेनैव प्रयुक्तेऽपि मङ्गले अभ्युच्चयार्थं</p>
<pb n="7" />
<p>मङ्गलोपक्रमाणि मङ्गलमध्यानि मङ्गलान्तानि च काव्यादीनि
कर्तुः श्रोत्रादीनां चैहिकामुष्मिकप्रसाधकानि च भवन्ति इति
द्योतयितुं मङ्गलदेवताया: कमलवासिन्याः प्रधाननाम्ना लक्ष्मी-
शब्देनोपक्रममाणः तत्प्राणेश्वरस्य मुकुन्दस्य भुक्तिमुक्तिप्रदत्वं
भक्तेभ्यः प्रकाशयति कविः ।   लक्ष्म्याः भर्ता ;     'डुभृञ्
धारणपोषणयो: ' इति धात्वर्थश्रवणात् सदा तदधिदेवतारू-
पामुरसा धारयति, भक्तेषु धनधान्यादिरूपेण ज्ञानरूपेण च
पोषयति च यः तस्येत्यर्थः । विशेषणमात्रप्रयोगो विशेष्य-
प्रतिपत्ताविति लक्षणात् लक्ष्मीभर्तुरित्युक्त्यैव विशेष्यस्य
विष्णोरञ्जसा प्रतीतेरनुपचरितस्य च लक्ष्मीधारणस्य भगवत्येव
संभवात् विशेषणमेव प्रयुक्तमित्यवगन्तव्यम् । भर्तुरिति योग-
रूढ्या पाणिग्राहकत्वं प्रतिपादयन् पतिव्रतायास्तस्याः तद्भ्रूक्षे-
पवशवर्तित्वं च द्योतयति । लक्ष्मीभर्तुः न तु लक्ष्म्या भर्तु-
रिति -  समासे गुणीभावेन तस्याः प्रतिपादनादप्ययमर्थो
व्यज्यते ।  'भुजाग्रे  बाहुशिखरे  बाहा   बाहुर्भुजा'     इति
स्कन्धादध: कूर्परादूर्ध्वं  च  यः प्रदेशः तस्य भुजसंज्ञा
यद्यप्यभिधानशास्त्रे पठिता, तथाप्यत्र स्कन्धादिः करान्तः
समुदाय उच्यते । 'तदेतदाजानुविलम्बिना ते ज्याघातरेखा
स्थिरलाञ्छनेन । भुजेन रक्षापरिघेण भूमे: ' इति, 'अस्पृ-
ष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः' इति,
,</p>
<pb n="8" />
<p>पततु शिरस्यकाण्डयमदण्ड इवैष भुज: ' इत्यादिप्र-
योगदर्शनात् । अग्रशब्देनात्र करतलमुच्यते । स्थितिक-
र्तुर्भगवतस्त्रिभुवनपालने प्रधानसाधनत्वात् प्रथमं भुजग्रह-
णम् । ततो जातत्वाद्धि क्षत्रवर्णस्य प्रजापालनेऽधिकारः,
यद्धि यस्य प्रधानसाधकतमं तस्य तत्स्तुतिः प्रीतये इति
भावः । भुजाग्रे, न तु कराग्रे इत्युक्तिः, वक्ष्यमाणोपमाघट-
नार्थम् । कृतवसति, अनुष्ठितनिवासम्; न तु कारितवस-
तीति । अनेन देवतात्मत्वाच्चेतनत्वेन स्वयमेव संनिहितत्व-
मुच्यते, 'हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्' इत्यादिवच-
नात् । सितम्, धवलम् । ननु तामसाहंकाररूपस्य कथं
सितत्वोक्तिः ? कारणगुणप्रक्रमेण कार्यगुणारम्भ इति न्यायात्
कार्ष्ण्यस्यैवोपपत्तेः । 'अजामेकां लोहितशुक्लकृष्णाम्' इति
तमसः कृष्णवर्णत्ववचनात्   इति   चेत्,    सत्यम्;       त-
थाप्युपासनोपयुक्तत्वेनैव तामसाहंकारत्ववासना अस्योच्यते,
न त्वनुभवतः । स तु धवलत्वमेव दर्शयति; न च अस्य
प्रत्यक्षस्य भ्रान्तित्वम्, बाधाभावात् । कारणप्रक्रमोक्तिस्तु प्रा-
यिकापेक्षा, लोके विरुद्धगुणकार्योक्तिदर्शनात् – श्वेतयोः
पित्रोः नीलवर्णपुत्रसूतिदर्शनात् । शाकाद्याहारपरिणति: तत्रो-
पाधिरनुमीयते  इति चेत्,   अत्रापि  ईश्वरेच्छैवोपाधिरनुमी-
यताम् इति न कश्चिद्विरोधः । गोमयादेर्वृश्चिकोत्पत्तिरपि
.</p>
<pb n="9" />
<p>साधितेऽर्थे प्रमाणमिति मन्तव्यम् । रूपं स्वाभाविक: संस्था-
नविशेषः । ' रूपं महत्ते बहुवक्त्रनेत्रम्' 'तथाप्यनेकरूपस्य
तस्य रूपोऽहर्निशम्' इत्यादिप्रयोगात् । ' रूपं शब्दे पशौ
श्लोके ग्रन्थावृत्तौ सितादिषु । सौन्दर्ये च स्वभावे च'
इति वैजयन्ती । विशालं विस्तीर्णम् । आयतेरप्युपल-
क्षणमिदम् । 'अहो विशालं भूपाल भुवनत्रितयोदरम्'
इतिवत् । 'विशालमुरु विस्तीर्णम्' इति वैजयन्ती ।
'वे: शालच्छङ्कटचौ' इति शालच्प्रत्ययः । नीलाद्रेः,
हिमवान् हेमकुटश्च निषधश्चेति दक्षिणे । नील: श्वेत-
श्च शृङ्गी च उत्तरे वर्षपर्वताः' इत्युत्तरस्य मेरुमुत्तरेण
वर्तमानस्य महानीलरत्नमयसर्वाङ्गकतया नीलनाम्नः पर्वतश्रे-
ष्ठस्येत्यर्थः । तुङ्गशृङ्गस्थितम्, तरणिरथसरणिरोधिनि शिखरे
निषण्णम् । रजनीनाथबिम्बम्; संपूर्णतया निशायाः सर्वस्याः
स्वामीति व्यपदेशयोग्यस्य । अन्यथा निशैकदेशस्वाम्यात्
तथा वचनस्यौपचारिकत्वात् । चन्द्रस्य बिम्बं मण्डलमिव
भाति प्रकाशते । ननु सितमिति स्वयमुक्तस्य कम्बुराजस्य
मलिनकलङ्कचुम्बनविडम्बितमिन्दुबिम्बं कथमुपमानत्वेनोपादी-
यते ? उच्यते - हन्त निरूपयत्वायुष्मान्, नवमेघश्यामस्य
दामोदरस्य भुजाग्रे इति तत्प्रभानिकुरुम्बकरम्बितत्वद्योतना-
दत्रापि कलङ्कप्रतिवस्तुकालिमानुबन्धः कविवादिसहृदयशिरो-</p>
<pb n="10" />
<p>मणिभिराचार्यैः प्रकाशित एव । विभाति, न तु श्रूयते इति ;
अनेन 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं
द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप '  इति,  'न तु मां शक्ष्यसे
द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे
योगमैश्वरम्'  इति, 'तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथाप-
रम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते '  इत्या-
दिवचनैः भक्तिज्ञानयोगात्मकदिव्यचक्षुर्गोचरतया भगवद्विग्र-
हस्य स्वस्य च गुरुप्रसादात् उक्तलक्षणदिव्यचक्षुःसंपन्नतया
तत्त्वतस्तस्यानुभूतत्वं व्यज्यते । विभाति, न तु विभातमिति
वर्तमाननिर्देशात् भवतामपि भक्त्यादिनिष्ठत्वे तथा प्रकाशत
एव । अतः अस्मिन्नर्थे निस्तन्द्रैः प्रयतितव्यं भवद्भिरिति
श्रोत्रादीन् प्रत्युपदेशः क्रियते । विभाति, न तु दृश्यते इति
स्वतो धवलस्यास्य हरिभुजप्रभानीलिम्ना परभागलाभात् विशे-
षदृश्यत्वम् नैसर्गिकश्वैत्यस्यापि शशिबिम्बस्य यथा 'लक्ष्म
लक्ष्मीं तनोति... किमिव हि मधुराणां मण्डनं नाकृतीनाम् '
इति न्यायादिति द्योत्यते । पायात् रक्षत्विति आशिषि प्रा-
र्थने वा लिङ् । पा रक्षणे इति धातुः । नः अस्मानिति स्वस्य
स्वमतानुसारेण भगवदुपासकानां च सर्वेषां संग्रहः । पाञ्च-
जन्यः, पञ्चजनाः मनुष्याः । 'स्युः पुमांसः पञ्चजनाः
पुरुषाः पुरुषा नरः ' इत्यमरः । तेषां हितः अनिष्टनिवा-
.</p>
<pb n="11" />
<p>रणात् । पञ्चजनो नाम शङ्खरूपी समुद्रान्तश्चरः कश्चिदसुर: ;
तद्वधेन गृहीतः तदस्थिसंभवत्वाद्वा पाञ्चजन्यः । हितार्थे भवार्थे
वा तद्धितः । सः, यस्येति  यच्छब्देन  यः  परामृष्टः  सः,
तादृश इत्यर्थः । दितिसुतकुलत्रासनैः, दाक्षायण्याः कश्यप-
दाराणां दितेः सुताः पुत्राः हिरण्यकशिपुप्रभृतयः तेषां कुल-
स्य सन्तानस्य विरोचनबलिबाणादीनामित्यर्थः । त्रासनैः,
भयकम्पसंपादकैः । प्रह्लादस्यापि तत्कुल्यत्वेऽपि प्रायिकत्वात्
त्रासनत्वोक्तिः । अथवा तस्यापि भगवतैवाप्रमादाय विनेयत्वा-
त् ; 'भीषा स्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्र-
श्च । मृत्युर्धावति पञ्चम इति ' इति श्रुतेः देवानामपि भगवता
त्रास्यत्वम् ; किं पुनरसुराणामिति द्योत्यते । ' कृत्यल्युटो बहु-
लम्'  इति कर्तरि ल्युट् । पूरयन् निर्विवरं कुर्वन् । स्वैः,
हरिमुखपवनपूरणस्य कादाचित्कत्वात् मन्दमारुतापूरणजनि-
तैरात्मीयैः निध्वानैः घोषैः । ' मन्दानिलापूरकृतं दधानो
निध्वानमश्रूयत पाञ्चजन्यः ' इति माघोक्तेः । नीरदौघध्व-
निपरिभवदैः, मेघपरम्पराया गर्जितानां परिभवं गर्वभङ्गं
दातुं शीलं येषां तैः । नीरदैर्बहुभिरपि अम्बरैकदेशस्यापि
पूरणस्याशक्यत्वात् दितिसुतकुलत्रासनस्याप्यकरणात् । अ-
नेन एकेनापि स्वनिध्वानैः सकलस्याप्यम्बरस्य पूरणात्
दितिसुतकुलत्रासनेन लोकानुग्रहाच्च नीरदौघध्वनिपरिभवद -</p>
<pb n="12" />
<p>त्वमिति भावः । कम्बुराजः, शङ्खजातेरेव सार्वभौम:
'राजाहःसखिभ्यष्टच् ' इति टच् । भगवत्करकमलसततसां-
निध्यस्य जगदनुग्रहपरत्वस्य च निरतिशयसुकृतकार्यस्य
शङ्खान्तरेष्वसंभवादिति भावः । ' त्रयी तु कम्बुः शङ्खोऽस्त्री '
इति वैजयन्ती । अत्र पूर्वार्धे उपमालंकारः, लक्ष्मीभर्तृभुजा-
ग्रकम्बुराजानां नीलाद्रितुङ्गशृङ्गरजनीनाथबिम्बानां च बिम्ब-
प्रतिविम्बभावेन निर्देशात् । उपमया भगवतो नीलस्नि-
ग्धप्रभुत्वादि, भुजस्य वृत्तोत्तुङ्गस्थिरत्वादि, कम्बुराजस्य
प्रसन्नधवलवृत्तत्वादि च प्रतीयते । उत्तरार्धे व्यतिरेकोऽधि-
कश्चालंकारः । नीरदौघादस्यातिशयप्रतिपादनात्, आश्रया-
दम्बरत आश्रितानां निध्वानानामाधिक्यकथनाच्चेति सन्त-
व्यम् ॥
इत्थं वागर्थप्रतिपत्तये शब्दब्रह्मात्मकं शङ्खराजमुपास्य
इदानीं सर्वतो रक्षासिद्धये भगवदायुधानां प्रधानं चक्ररा-
जमुपातुमुपक्रमते-</p>
<lg>
  <l>आहुरॽ य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं</l>
  <l>ध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।</l>
  <l>चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं</l>
  <l>शश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥</l>
</lg>
<pb n="13" />
<p>स्वरूपं स्वमनारोपितं रूपं विग्रहम्, आयुधत्वादीनां जग-
दनुग्रहायारोपितत्वात् । क्षणमुखम्, 'अष्टादशनिमेषास्तु काष्ठा
त्रिंशत्तु ताः कला: तास्तु त्रिंशत्क्षणस्ते । तु मुहूर्तो दाद-
शास्त्रियाम् ' इति लक्षित क्षण आदिर्यस्य । सूक्ष्मावयवत्व-
सामान्यात् क्षणशब्दो लक्षणया लवमाह । 'नलिनीपत्रसंहत्याः
कृते सूच्यभिवेधने । दले दले तु यः कालः स कालो लव
उच्यते' इति लवस्यैवाद्यावयवत्वेन व्यवहारात् । अखिलं
समग्रम् , प्रलयावसानमित्यर्थः । ' लवादिः प्रलयान्तश्च '
इति सूक्ष्मस्थूलयोराकारयोरागमेषु परिच्छिन्नत्वात् लवमारभ्य
परार्धब्रह्मायुरवसानप्रवृत्तप्राकृतलयावसानमित्यर्थः । अथवा
क्षण एव कालस्यान्त्योंशः; यथापकर्षपर्यन्तद्रव्यं परमाणुः,
एवमपकर्षपर्यन्तः : । कालः, 'प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य
मानव । चेष्टा यतः स भगवान् काल इत्युपलक्षित: ' इति श्री-
भागवते , 'अथ सूक्ष्मा परा शक्ति: कालात्मनि महदपनि ॽ।
अस्मान्निष्क्रम्य संक्रान्ता विप्रुडनेरिवायसी' इति शिवाय
वीये लक्षितं चिरमिति प्रत्ययात् साधारणकारणमाद्यन्त-
व्यापकं तत्त्वविशेषः । एतमिति, सर्वलोकप्रसिद्धत्वा सुनयः,ॽ
तिथिवारनक्षत्रादिरूपेण आबालगोपालं प्रसिद्धतममित्यर्थः ।
सूरयः, पराशरबादरायणप्रभृतयः सर्वज्ञा: आहुः कथयन्ति,
'त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके । संवत्सरमये कृत्स्नं
-</p>
<pb n="14" />
<p>का चक्रे प्रतिष्ठितम् इत्यादिवचनैः, दाशतेयसंहितायाम-
संश्वामीये 'त्रिनाभिचक्रमजरमनर्धम्' इति 'सप्त युञ्जन्ति '
भूतादिभिश्च तन्मूलभूतादिभिरित्यर्थः । ध्वान्तस्य तमसः ।
व शंधकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः ।
तिरिक्तन्तम्, एकप्रकारमन्तं नाशं बहिरन्तः सर्वदेशेषु सर्वका-
ज्ञानमुच्येत प्रतिकूलमित्यर्थः । अपि च न केवलं कालतत्त्वात्म-
तस्य विहुः, अन्यच्च वक्ष्यमाणमाहुरित्यर्थः । परम् उत्कृष्टं सर्व-
भाय)सर्वेषां तेजसां धाम आस्पदम् । 'चक्राभिधानो हरिः '
इत्यादिभिश्चक्रराजस्य विश्वात्मकत्वप्रसिद्धेः, ' येन सूर्यस्त-
पति तेजसेद्ध: ' ' यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्यादिभिश्च
श्रुतिवचनैः । अथवा सर्वधाम्नामिति निर्धारणे षष्ठी । सम-
स्तानां तेजसां मध्ये परममुत्कृष्टं तेज इत्यर्थः, 'तमेव भान्त-
मनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः ।
चक्रम्, रथाङ्गाकारेण विवृत्ततया चक्राख्यम्, 'चक्राभिधानो
हरिः' इत्याचार्योक्तेः । चक्रपाणेः, चक्रमुक्तरूपं पाणौ यस्येति ।
प्रहरणान्तरेभ्यः अस्य सदा धार्यमाणत्वं द्योत्यते । 'प्रहरणा-
र्थेभ्य: परे निष्ठासप्तम्यौ भवतः' इति सप्तम्यन्तस्य परनि-
पातः । दित्यां जाता: दितिजाः, असुराः । 'सप्तम्यां जने-
र्ड:' इति ड: । दितिजानां तनोः शरीरात् गलन्त्या खण्डि
।
;</p>
<pb n="15" />
<p>तत्वात्स्रवन्त्या रक्तस्य रुधिरस्य धारया स्रोतसा अक्ता ि
धारा शिततरः पर्यन्तभागो नेमिसंज्ञो यस्य तत् । '७४,
स्त्राग्रेऽम्बुसंतत्यां सैन्यादेश्च गतिष्वपि ' इति वैजयन्द-
अनेन विशेषणेन साधुजनपरित्राणेन धर्मसंस्थापना व
दुष्कृतिजनविनाशनताच्छील्यं ध्वन्यते । शश्वत् नित्यं वियाः
सर्वस्य लोकस्य वन्द्यं स्तुत्यं विश्वस्य परमोपकरणात् । लव
रतु ददातु । आशिषि प्रार्थने वा लोट् । 'विश्राणनं वलं
रणं स्पर्शनं प्रतिपादनम्' इत्यमरः । विपुलं विस्तीर्णतश्च'
वितरणक्रियाकर्मणः शर्मणो विशेषणम् । शर्म सुखम् । वि-
पुलं शर्मेत्यनेन सांसारिकस्य सर्वस्यापि सुखस्य मिश्रतया
नश्वरतया च संकुचितत्वात् भगवदुपासनेष्ववघातखेदवदा-
नुषङ्गिकत्वाच्च प्रेक्षावद्भिरप्रार्थनीयत्वम्, 'तस्मिन् प्रसन्ने
किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते', तस्यान्त-
रायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम्' इत्यादिवचनैः : अतो
विपुलस्य निरतिशयस्यापवर्गाख्यस्यैव परमसुखस्य प्रार्थ-
नीयत्वमिति व्यज्यते । घर्मांशुशोभम्, यस्य शोभा भक्तवि-
षये प्रसन्नावस्था, घर्मांशुरादित्य इव समस्तार्थप्रकाशकत्वात्
अतिदुःसहत्वाभावाच्च । दुष्टविषयायास्तु घोरावस्थाया दु:-
सहत्वात् । 'द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
एका घोरा शिवा चान्या ते वै च शतधा पुनः' इति,</p>
<pb n="16" />
<p>'दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्'
'आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा'
इत्यादिवचनैः भगवतो रूपद्वयप्रतिपादनात् । घर्मांशो: सूर्य-
स्येव शोभा यस्येति व्याख्याने सर्वधाम्नां परं धामेति सूर्याद्य
तिरिक्तत्वोक्तेर्व्याहतिः स्फुटैव । अथवा विपुलं शर्मेति तत्त्व-
ज्ञानमुच्यते, परमसुखसाधनत्वात्, कारणे कार्योपचारात् ।
तस्य विशेषणं घर्मांशुशोभमिति । आदित्यस्य शोभा प्रभेव
शोभा यस्य,समस्तार्थप्रकाशकत्वात् 'तेषामादित्यवत्
ज्ञानं प्रकाशयति तत्परम् । यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे
विवेकजम्' इत्यादिवचनैः । अस्मिन्नर्थे समाप्तपुनरात्तत्व-
दोषप्रसङ्गोऽपि परास्तः । अत्र पूर्वार्धे सूक्ष्मं व्यतिरेकश्चालं-
कार: कालरूपस्य सूक्ष्मार्थस्य प्रकाशनात् धामान्तरेभ्यो-
Sधिकप्रतिपादनाच्च । उत्तरार्धे पर्यायोक्तमुपमा च, रक्तधा-
गक्तत्वकथनभङ्गयादि भट्टिकायस्य प्रकाशनात् धर्मांशुसादृ-
"श्यकथनाच्च ॥ २ ॥
चक्रस्वरूपं च मनो विष्णुर्धत्ते करे स्थितम्' इति
वचनात् मनःप्रसादाय मनस्तत्त्वात्मकं भगवतः सुदर्शनम्
"मुपास्य इदानीं राजसाहंकारस्वरूपमिन्द्रियादिं शार्ङ्गधनु:-
ज्ञानकर्मेन्द्रियप्रसादनार्थमुपास्ते-</p>
<pb n="17" />
<lg>
  <l>अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-</l>
  <l>रस्मान्विस्मेरनेत्र त्रिदशनुतिवचः साधुकारैः सुतारः ।</l>
  <l>सर्वे संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः</l>
  <l>संयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥</l>
</lg>
<p>अव्यात् रक्षेत् इत्याशिषि लिङ् । अव रक्षणे इति धातुः ।
निर्घातघोरः निर्घातवत् भीषणः,निर्घातैःक्रूरश्च । 'पवनः
पवनाभिहतो गगनादवनीं यदा समापतति । भवति तदा
निर्घात :'  इति वराहमिहिर: । 'वातपातस्तु निर्घातश्चण्डको
ऽप्यशनिर्न षण् ' इति वैजयन्ती । हरिभुजपवनामर्शनाध्मात-
मूर्ते: नारायणस्य बाहुरेव वायुः, अप्रतिमबलत्वात्, पूतत्वाच्च,
तस्यामर्शनं स्पर्शनं तेन आध्माता आप्यायिता नभसि विस्ता
रिता व्यापारिता च मूर्तिर्यस्य ल्पकारथ माल्यादिशृङ्गाभमारु-
ह्यैरावतं गजम् । साहाय्यं कम्' इत्यामि वाय्वम्बूत्सर्गयोज-
कः' इति श्रीविष्णुपुराणोक्ते विस्मेरनेत्रत्रिदशनुतिवचः
साधुकारैः सुतारः, विस्मेराणि अद्भुतेन रिपुनिरसनेन धारासा
रेण च विस्मयशीलानि चक्षूंषि येषाम् । 'नमिकम्पिस्म्यजस
कमहिंसदीपो र : ' इति रप्रत्ययः । मध्ये पदानां चमत्कारप्र
युक्तैः साधु साध्विति वचनकरणैश्च । 'णु स्तुतौ' इत्यस्मात्
स्त्रियां क्तिन्; नुतिः । हाहाकारो महानभूदित्यादिवत् सा</p>
<pb n="18" />
<p>धुकार: । सुतार: सुष्ठूच्चैस्तरध्वनिः संमिश्रत्वात् । 'उच्चैस्तरो
ध्वनिस्तार: ' इत्यमरः । सर्वे निरवशेषमित्यमर्षातिशयः । सं-
हर्तुं नाशयितुम् इच्छोः इच्छावत: । 'विन्दुरिच्छुः' इति नि-
पातनात्साधुः । देवतात्मत्वादिच्छुत्वोपपत्तिः । अरिकुलभुवनं
शत्रूणां धर्मद्रुहां कुलमेव भुवनं लोकं बाहुल्यात्, शत्रुकुलसदृ-
शं भुवनं च युगावसानेष्वधर्मबहुलत्वात् संहार्यत्वमिति भावः ।
नैमित्तिकप्रलयश्चात्र प्रसज्यत इति मन्तव्यम् । त्रिदश-
नुतिवचः प्रतिपादनात् भूर्भुवः स्वर्लोकानामेव तदानीमेकार्णव-
मग्नत्वप्रसिद्धेः । 'एकार्णवं भवत्येतस्त्रैलोक्यमखिलं ततः ।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः । जनलोकगतैः सिद्धैः
सनकाद्यैरभिष्टुतः' इत्यादिश्रीविष्णुपुराणवचनात् । स्फार-
विष्फारनादः प्रवृद्धज्यास्फालनघोषः । 'धनुर्विष्फारनादस्य'
इत्यादि महाभारतप्रयोगात्, 'विष्फारयांचकारास्त्रं बबन्धाथ
च बाणधी' इति भट्टिकाव्योक्तेः । परस्परघट्टनध्वनिश्च ।
संयत्कल्पान्तसिन्धौ, ब्रह्मदिवसावसानक्षुभितससुद्रवत् भीष-
णायां संयति युद्धे 'संग्राम: समरोऽस्त्री स्त्री संयत् ' इति
वैजयन्ती । संयति समन्तात् व्याप्नुवति कल्पान्तसिन्धौ शर-
सलिलघटावार्मुचः, सलिलं जलमिव सर्वाङ्गाप्लावकत्वात्
अचेतितमेवान्तःप्रवेशित्वाच्च शरा बाणास्तेषां घटा घटन-
गविच्छिन्नमनवधिकं च मोक्षणं शरवदुद्वेजकानां घटा</p>
<pb n="19" />
<p>वर्षणं च तस्मिन् कार्ये वार्मुच: मेघस्य । अनायासेन शक्त-
त्वात् पुष्कलावर्तकादेश्च । कार्मुकस्य शार्ङ्गाख्यस्य धनुषः ।
कर्मसु लोकानुग्रहरूपेषु कार्येषु शक्तस्य, 'तत्कार्मुकं कर्मसु
यस्य शक्ति: ' इति भारविवचनात् । अत्र कार्मुकवर्णन-
प्रस्तावादाभिधाया नियन्त्रणादर्थान्तरप्रतीतिः शब्दशक्तिमूल-
ध्वनिविषयः रूपकालंकारपरिग्रहात् ध्वनेश्चमत्कारकारि
त्वात् । शरसलिलघटावार्मुच इति समस्तत्वात् हरिभुजेत्या-
दीनां संबन्धस्य क्लिष्टत्वादभवन्मतयोगदोषप्रसक्ति: व्याख्याता-
र्थस्य च कष्टकल्पनया प्रतीतिश्च अर्थपर्यालोचनपरैः सहृदयैः
सह्या, सर्वविदामाचार्याणामाशयस्यास्माभिर्दुरवगाहत्वात् ।
अथवा शरसलिलघटा इति व्यस्तं पदम् । शरसलिलस्य
घटां समूहमयते व्याप्नोतीति क्विबन्तव्युत्पत्त्या नादस्य विशे-
षणम् । 'धाराभिर्हस्तिहस्ताभिः इत्यत्र अमृततरङ्गिणीका-
रैस्तथा व्याख्यातत्वात् । वाक्यस्य असंबद्धार्थता मा भूदिति
वाच्यव्यङ्ग्ययोरर्थयोरुपमेयोपमानभावः कल्प्य इत्युपमालं-
कारो व्यङ्ग्यः ॥ ३ ॥
अथ 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इति
भगवद्वचनात् 'बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् ।
विद्यामयं तु तज्ज्ञानमविद्याचर्मसंस्थितम्' इति श्रीविष्णु-
पुराणवचनाच्च अविद्याकोशसंस्थितविशुद्धाद्वैतज्ञानात्मकमसि-</p>
<pb n="20" />
<p>रत्नम् अज्ञाननिरसनेन सम्यग्ज्ञानप्रकाशनाय वरिवसितुमा-
रमते-</p>
<lg>
  <l>जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती</l>
  <l>युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।</l>
  <l>सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृप्तो</l>
  <l>नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥</l>
</lg>
<p>अर्थान्नवमेघस्येव श्यामा नीला भाः प्रभा यस्य तेन
मुहुः अनुक्षणम् । अपिर्भिन्नक्रमः । भगवद्बाहुना पुरुषो
त्तमस्य भुजेन युद्धेषु मुहुरुद्धूयमाना प्रतिक्षणं कम्प्यमाना-
पीत्यन्वयः । अपिशब्देनैतदाह - प्रथमे द्वितीये वा
दर्शने तटिद्भ्रान्तिः पश्यतां भवतु नाम, शतशो दर्शनेऽपि
भुजस्य जीमूतसाम्यसंपत्तेरसिवरस्य च स्फुरद्रूपत्वात् पश्यतां
तटिद्भ्रान्तिः सर्वदा कथं भवतीत्याश्चर्यमेतदत्र दृष्टमिति ।
अमुमेवार्थं विवृणोति मोहयन्तीति । तरुणजलदे स्फुरन्ती
इयं तटित् मम शिरसि पतति मम शिरसि पतेदिति प्रत्येकं
रिपूणां भगवत्प्रचारशैध्य्रात् व्याकुलतामादधानेत्यर्थः । झ-
टिति शीघ्रम् । तटित् विद्युदिव आलक्ष्यते, समन्तात् दृश्यते ।
झटिति दृश्यते इत्यनेन तरणिकिरणप्रतिफलनाप्रतिफलनयोर्दर्श-
नादर्शनाभ्यां तटित्स्वभावस्फुटीभावः प्रकाश्यते। मूर्ति: उग्रत-</p>
<pb n="21" />
<p>राग्रः निशितोभयधारः स्पष्टमुष्टिः पट्टिकाकार संस्थानविशेषः ।
यस्य मूर्तिरित्यनेन मूर्तिमत्या देवतायाः पृथक्त्वं तत्संबन्धित्वं
च मूर्ते: प्रकाश्यते । असिः खड्गः । ' खड्गः प्रचारोऽसि : '
इति वैजयन्ती । त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्त:
प्राणापाये भयेनाकुलानि तरलान्यक्षीणि येषाम् । ननु महा-
वीराणामसुराणां कथं त्रासाकुलाक्षत्वम् ? कथं च भगवतो
धीरोदात्तशिखामणेः परमकारुणिकस्य भीतजनहिंसोद्यमश्चा-
चार्यै: प्रतिपाद्यत इति, उच्यते – 'भये सर्वेऽपि बिभ्यति '
इतिः श्रीरामायणोक्तरीत्या सर्वेषामपि प्रबलशत्रुवशवर्तित्वेन प्रा-
णापायनिर्णये स्वयमेव भयस्य प्रादुर्भाव उपपन्न: - यथा महा-
भारतसमरारम्भसमये महावीरस्य सव्यसाचिन: स्नेहकातर्यो-
दय:, यथा च तस्यैव भगवद्विश्वरूपदर्शनेन 'सगद्गदं भीत-
भीत: प्रणम्य' इत्यादिवचनैः भीतत्वप्रतिपादनम् । अत एव हि
त्रासाकुलाक्षेत्युक्तिः । न तु त्रासाकुलितेत्युक्तिः स्वारसिकत्वं
द्योतयितुम् । महावीरस्य करुणाकरस्यापि भगवतो धर्मत्राणाय
दुष्टजननिग्रहोद्यमोऽपि न दोषाय । 'वध्य: सर्प इवानार्य:'
इति, 'निपातनीया हि सतामसाधवः ' इति, 'अवध्ये यो
भवेद्दोषो वध्यमाने जनार्दन । स वध्यस्यावधे दृष्ट इति धर्म-
विदो विदुः' इत्यादिवचनैः प्रत्युत धर्मत्वावगमात् ।
' एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां</p>
<pb n="22" />
<p>भवति क्षेमस्तस्य पुण्यप्रदो वध: ' इति स्मृतेः ।
अत एव त्रिदशरिपुशब्देनोक्ति: । त्रिदशा देवाः तेषां
रिपव: शत्रव इति धर्मध्रुक्त्वोपलक्षणम्, 'वैषम्यनैर्घृण्ये
न सापेक्षत्वात् ' इति स्मृतेः । त्रिदशरिपूणां वपुः
'शरीरं तस्य यच्छोणितं रुधिरं तदास्वादेन तद्रसानुभ-
वेन तृप्तः प्रीतः ; दृप्त: इति वा पाठः, गर्वित इत्यर्थः ।
नित्यानन्दाय,शब्दादिविषयानुभवस्फुरितानामप्यात्मरूपत्वे-
ऽप्यौपाधिकत्वेनानित्यत्वात् निरुपाधेरात्मस्वरूपस्यैव नित्य-
त्वादानन्दत्वाच्च, 'अजो नित्यः शाश्वतोऽयं पुराण:''वि-
ज्ञानमानन्दं ब्रह्म ' इत्यादिश्रुतेः । तस्मै तं नित्यमानन्दम्
आत्मत्वेनानुभावयितुं 'तुमर्थाच्च भाववचनात् ' इति च-
तुर्थी । भूयादित्याशिषि लिङ् । मधुमथनमनोनन्दनः, मधु-
कैटभाख्ययोरसुरयोर्मध्ये मधुसंज्ञकस्य मथनः हिंसक इति
दुष्टमथनताच्छील्योपलक्षणम् । तस्य भगवतो मनो हृदयं
नन्दयितुं शीलं यस्य । स्वाशयानुरूपं रिपुविशसनानुष्ठाना-
दिति भावः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति
ल्युट् । नन्दक इति योगरूढ्या संज्ञा, 'नाम्नापि तस्यैव
स नन्दकोऽभूत् ' इति माघोक्तेः । 'कौमोदकी गदा खड्गो
नन्दक:' इत्यमरः । नन्दकस्य विद्यात्मकत्वात् अविद्या-
मयस्तस्य बन्धस्य विद्ययैव निवर्त्यत्वात् 'बन्धोऽस्याविद्यया</p>
<pb n="23" />
<p>पुंसो विद्यया च विमुच्यते' इति वचनैः, अतः तद्रूपो न
न्दकः । विदेहकैवल्यरूपनित्यानन्दप्रार्थनोपपत्तिः, 'पुण्य-
रज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा व्रजेदध: । द्वयं ज्ञानासिना
छित्वा विदेहः शान्तिमृच्छति' इत्यत्रापि विज्ञानात्मकं नन्द-
कमभिप्रेत्य ज्ञानासिनेत्युक्ति: । उपमा अत्र अलंकारः ॥ ४ ॥
विद्यातत्त्वात्मकमसिरत्नमुपास्य इदानीं 'बुद्धिरस्यास्ते गदा-
रूपेण माधवम्' इति वचनात् बुद्धितत्त्वात्मिकां गदामुपा-
सितुमुपक्रमते, विशुद्धबुद्धिविधेयत्वाद्विद्यायाः, 'नास्ति बुद्धि-
रयुक्तस्य न चाबुद्धस्य भावना' इत्यादिभगवद्वचनात् 'सर्वे-
षामेव लाभानां प्रज्ञालाभः परः स्मृतः' इति, 'शुद्धा हि
बुद्धिः किल कामधेनुः' इत्यादिवचनात् ॥</p>
<lg>
  <l>कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता</l>
  <l>सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।</l>
  <l>राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा</l>
  <l>कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥</l>
</lg>
<p>कम्रः सुन्दरः । 'कमुकान्तौ' इत्यस्मात् ' नमिकम्पिस्म्य-
जसकमहिंसदीपो र: ' इत्यादिना रः । आकार: संस्थान-
विशेषो यस्याः । करकमलतलेन पद्मवत् कोमलस्य पाणे-</p>
<pb n="24" />
<p>रुदरेण अनुरागात् निजपराक्रमानुगुणसाहाय्यकरणस्नेहात्
रत्याख्यभावबन्धप्रकर्षाच्च गृहीता धारिता परिणीता च सम्य-
ग्वृत्ता शोभनवर्तुलाकारा विशुद्धचारित्रा च । 'वृत्तं च
वर्तुलम् । आचारो वृत्तचारित्रचरित्रचरणानि च ' इति वै-
जयन्ती । अग्रे स्थिता सदा समरोन्मुखत्वेन पुरतः निहिता ;
आज्ञाप्यताम् किं करोमि इति नियोगानुगुण्येन दृष्टिगोचरे
स्थिता च । परेषां शत्रूणां दर्शनं रणोद्योगेनाभिमुखीभूयाग्रे
स्वप्रकाशनं सपदि न सहते शीघ्रं न क्षमते, समग्रदर्श-
नात् पूर्वमेव तेषामुपसंहरणात् ; परेषां भर्तुरन्येषां दर्शनं तैरा-
त्मनो विलोकनं स्वकर्तृकं वा तद्दर्शनं सपदि न सहते
कुलाङ्गनात्वादाशु तिरोभावात् । राजन्ती दीप्यमाना, तेजो-
मयत्वात्; मङ्गलालंकारविशिष्टतया शोभमाना च । दैत्य-
जीवासवमदमुदिता, असुराणां प्राणरूपेणासवेन स्वया तद्र-
सस्यादरेण पीयमानत्वादर्थात् पीतेन यो मदः चित्तोल्लास: तेन
मुदिता हृष्टा;  दैत्यानामतिवल्लभतया जीवभूतस्यासवस्य म-
देन मुदिता च । लोहितालेपनार्द्रा, प्रस्तावाद्दैत्यानामेव लोहि-
तेन रुधिरेण यदालेपनं रूषितत्वं तेनार्द्रा चिक्कणमूर्तिः ;
लोहितेन अरुणवर्णेन कुङ्कुमादिना लेपनेन अङ्गरागेण आर्द्रा
शीतलाङ्गी च । दीप्तांशुकान्ता, उज्ज्वलैरंशुभिः किरणैः
कान्ता अभिरामा, दीप्तो हंसादिशिल्पकल्पनोद्भासितः अंशु-</p>
<pb n="25" />
<p>कस्य दुकूलस्य अन्तः पर्यन्तभागो यस्याः दयितेव प्रिय-
तमा लक्ष्मीरिवेत्यर्थः । अथवान्वयः प्रियतमेवेति । पूर्वस्मि-
न्नर्थे श्लेषोऽलंकारः । उत्तरस्मिन्पुनः श्लेषानुगृहीतोत्प्रेक्षा ।
अस्येति मुरारेरिति प्रस्तुतत्वात् भगवतः । 'कौमोदकी
गदा' इत्यमरः । कामं काम्यते प्रार्थ्यते इत्यभिमतमर्थम्
ईश्वरैक्यानुभवरूपमित्यर्थः प्रदिशतु ददातु । अत्र कम्राकारे-
त्यादावर्थश्लेषः पर्यायपरिवृत्तिसहत्वात्, सम्यग्वृत्तेत्यादौ शब्द -
श्लेष: तदसहत्वात्, लोहितालेपनार्द्रेत्युभयश्लेषश्चोभयरूपत्वा-
दनुसन्धेयः । 'विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेष: '
इति लक्षणात् उपमानोपमेययोर्द्वयोरप्युपादानादविशिष्टोऽयं
श्लेषः ॥
इत्थं पञ्चश्लोक्या परमेश्वरस्य प्रपञ्चरक्षणैकसहायभूतां
पञ्चायुधीमुपास्य संप्रति तन्मूर्तिभेदं भगवन्तं गरुत्मन्तमुपा-
सितुमुपक्रमते-</p>
<lg>
  <l>यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो</l>
  <l>यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।</l>
  <l>चञ्चञ्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं</l>
  <l>वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णे सुपर्णम् ॥</l>
</lg>
<p>विश्वस्य ब्रह्माण्डस्यैव प्राणः प्राणयति जीवयतीति धार-</p>
<pb n="26" />
<p>क उच्यते प्राणः भूतः जातः विश्वात्मनो विश्वाधारस्य भग-
वतो धारणात् । अथवा प्राणः परमात्मा । 'प्राणस्तु प्रणवे
जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे ना बलान्तर्यामि-
णोरपि ' इति वैजयन्ती । प्राणहरणप्रवीणफणिनिरसनात् प्रण-
वात्मकत्वाद्वायुत्वाद्वा । अत एव हि निरतिशयवेगत्वम् ।
'सुपर्णो वायुवाहन: ' इति स्मृतेश्च । हरेस्तनुः मूर्तिभेदः ।
अपिशब्दो यच्छब्दानुकर्षणार्थ: । 'वैनतेयश्च पक्षिणाम्' इति
भगवद्वचनात् । चकारो भिन्नक्रमः यानकेतुस्वरूप इत्यनुकर्ष-
णार्थः यानं वाहनं तत्स्वरूपः, केतुः ध्वजः सामर्थ्यात् तचिह्न -
स्वरूपश्च । गरुडवाहनत्वात् गरुडध्वजत्वाच्च भगवतः । सं-
चिन्त्य, जगदण्डखण्डनपण्डितचण्डिमविशिष्टत्वेन निरूप्ये-
त्यर्थ: । एवेति दर्शनादीनामनपेक्षितत्वमाह । सद्यः तदन-
न्तरमेवेति क्षणान्तरविलम्बाभावः सूच्यते । उरगवधूवर्ग-
गर्भाः उरगाः नागाः तेषां वधूवर्गस्य भार्यासमूहस्य गर्भाः
कुक्षिस्था जन्तवः स्वयं पतन्ति । आघाताद्यन्तरेणापि भयव-
शात् स्वतो विलीय क्षरन्तीत्यर्थः । संचिन्त्य पतन्तीति पूर्व-
कालिकक्रियायाः संचिन्तनस्य उत्तरकालिकक्रियायाः पतनस्य
च 'समानकर्तृकयो : पूर्वकाले' इति स्मृतेः समानकर्तृकत्वं
प्रतीयते । संचिन्तनं च तेषामुदराभ्यन्तरवर्तिनामचेतनक-
म्पानामनुपपन्नम् । पतनं तु युज्यत एव । तत् कथमिति</p>
<pb n="27" />
<p>चेत्, उच्यते – ' द्विहृदयां नारीं दोहदिनीमित्याचक्षते' इति
वैद्यकोक्तेः गर्भस्य मातुश्च एकहृदयत्वात् मातॄणां संचि-
न्तनमेव गर्भाणां संचिन्तनमित्यभिप्रेत्योक्तम् । अतो न
कश्चिद्विरोधः । ईदृशस्य किं निमित्तमित्यत्राह – चञ्चच्चण्डो-
रुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं चञ्चता ग्रासग्रसनाच्च-
लता चण्डेन निशिततरशिखरतया कुलिशवत्  क्रूरेण उरुणा
विस्तीर्णेन तुण्डेन चञ्चुपुटेन त्रुटितानां खण्डितानां फणिनां
नागानां वसाया मेदसो रक्तस्य रुधिरस्य च पङ्केन पङ्क-
वत् सान्द्रेण द्रवेण अङ्कितं चिह्नितं कदाचिदप्यरहितमास्यं
मुखं यस्येति फणिविषयं वैरानुबन्धमाह । रौद्रश्च रसोऽत्र
ध्वन्यते । 'छन्दोमयं वेदप्रकृतिकम् ' 'सुपर्णोऽसि गरुत्मान्
त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनुर्वाम-
देव्यं बृहद्रथन्तरे पक्षौ' इत्यादिश्रुतेः वेदस्यैव भगवद्धा-
रणे सामर्थ्यमिति भावः । खगपतिं पक्षिराजत्वेन जगदनु-
ग्रहाय वालखिल्यानां तपसा प्रादुर्भूतम् । अमलस्वर्णवर्णम्
अग्निना बहुश: शोधितत्वात् श्यामिकारहितस्य काञ्चनस्येव
स्निग्धारुणोज्ज्वल: वर्णः शरीरकान्तिर्यस्येति प्रकृतिभूतो
वर्ण उच्यते । तत्तत्फलविशेषकामनया पञ्चवर्णत्वादीनाम-
ध्यस्तत्वात् । यथा जलदनीलस्य वासुदेवस्य सितपीतरक्त-
वर्णादिध्यानविशेष इति न कश्चिद्विरोध: । 'हेमपत्रप्रभा-</p>
<pb n="28" />
<p>जालं गगने च वितन्वता' इति रघुवंशोक्तेश्च । सुपर्णम्,
शोभनं पर्णं पक्षो यस्येति सुरमुनिविहितं गौणं नाम प्रति-
पादयन् सकलसुरबलसहचरितबलमथनकरतुलितकुलिशशि-
खरपतनमपि तृणवदविगणयदमृतहरणविहरणविजितगगन-
चरनिवहमतुलमस्य वैभवमनुस्मारयति कविः । वन्दे शरी-
रेण प्रणमामि वाचा स्तौमि च इत्यर्थः । मनःप्रावण्यं त्वर्थात्सि-
द्धमेव, तत्पूर्वत्वात् सर्वप्रवृत्तीनाम् । अत्र सूक्ष्मम् अप्रस्तुतप्र-
शंसा पर्यायोक्तं च अलंकाराः सूक्ष्मार्थप्रकाशनात्, गर्भप-
कार्यमुखेन कारणस्य क्रौर्यस्य प्रकाशनात्, फणिकुलवै-
रस्य पर्यायेण प्रतिपादनाच्च ॥ ६ ॥
' तं त्वौपनिषदं पुरुषं पृच्छामि, ' 'वेदान्तविज्ञानसु-
निश्चितार्था: ' इत्यादिवचनैर्वेदस्यैव सम्यग्ज्ञानसाधनत्वात्
तत्सिद्धये छन्दोमयं शकुन्तराजमुपास्य इदानीं भगवन्मूर्ति-
रूपं परमगुरुरूपं भगवन्तमनन्तमुपास्ते-</p>
<lg>
  <l>विर्ष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता</l>
  <l>सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।</l>
  <l>पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता</l>
  <l>सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥</l>
</lg>
<pb n="29" />
<p>विश्वस्य सर्वस्य जगतः ईश्वर: स्वामी तस्य । प्रवरशयन-
कृत्, मण्डलीकृतेन स्वभोगमण्डलेनोत्कृष्टतल्पनिर्माता । अ-
थवा 'शीङ् स्वप्ने' इति धात्वर्थाश्रयणात् प्रशस्तनिद्रासुख-
जनकः, शय्यात्वेनेत्यर्थात् । अनिद्रस्य भगवतो निजस्वरूपा-
नुसन्धानस्य निद्रात्वेन नाटितत्वात् प्रवरत्वम्, 'एकार्णवे
ततस्तस्मिन् शेषशय्यास्तृते प्रभुः । ब्रह्मरूपधरः शेते भगवा-
नादिकृद्धरि: ' 'आत्ममायामयीं दिव्यां योगनिद्रां समाश्रितः ।
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरम्' इति श्रीविष्णु-
पुराणवचनात् । विश्वेश्वरस्य प्रवरशयनकृदित्यनेन – आधे-
यानुगुण्येन ह्याधारेण भवितव्यम् । अतस्तद्वहने को-
ऽन्यः प्रगल्भते ? इति द्योत्यते । सर्वलोकैकधर्ता, सर्वस्य
चतुर्दशसंख्याकस्य भुवनस्य एकः असहायो धर्ता धा-
रक इत्यनेन कुक्षिनिक्षिप्तजगदण्डस्य पुण्डरीकाक्षस्य धा-
रणे शक्तिः प्रकाश्यते । 'आदिश्यते भूधरतामवेक्ष्य
कृष्णेन देहोद्वहनाय शेष: ' इति कुमारसंभवोक्तेः ।
प्रवरशयनकृत् सर्वलोकैकधर्तेत्याभ्यां विशेषणाभ्यामनन्यश-
क्ययोर्द्वयोः कार्ययोर्युगपदनुष्ठाने निरायासत्वं ध्वन्यते । अन्तः
परिच्छेदः तद्रहितोऽनन्तः इति यौगिकेन नामपदेन देश-
कालवस्तुपरिच्छेदरहितत्वमाह । सर्वभूतः, अपरिच्छिन्न एव
लीलया सर्वं परिच्छिन्नं जगत् भूतः जातः सर्वभूतः । न तु</p>
<pb n="30" />
<p>सर्वीभूतः इति, अभूततद्भावाभावात् । सदात्मन्यसतः प्रप-
ञ्चस्य अध्यस्तत्वात् सत एव शिष्यमाणत्वम्, शुक्तिशकलस्ये-
वेति ध्वन्यते । 'ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिर्ननु
वस्तुभूत: । अतो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानवि-
जृम्भितानि' इति वचनात् । पृथुविमलयशा: लोकविस्तीर्णं
सकललोकवलक्षभूतं च यशः कीर्तिर्यस्य सः ; पृथुतरयशसेति
वा पाठ: । इत्थंभूतलक्षणे तृतीया । सर्ववेदैः चतुर्भिरागमैः
'सहस्रशीर्षा पुरुष: ' इत्यादिवचनैः वेद्यः । अन्यैः प्रमाणैरवे-
द्यस्वरूप इत्यर्थः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति
श्रुतेः । 'वेदैश्च सर्वैरहमेव वेद्यः' इति भगवद्वचनाच्च ।
विश्वस्य लोकस्य शश्वत् सदा पाता रक्षिता । रक्षित्रन्तराभा-
वात् शश्वद्ग्रहणम् । तत्र हेतुः सकलसुररिपुध्वंसनः, समस्ता-
नामसुराणां प्रलम्बचाणूरमुष्टिकधेनुकादीनां नाशनः, कर्तरि
ल्युट् । अथवा 'फणामणिसहस्रेण यः स विद्योतयन् दिशः ।
सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान्' इत्युक्तप्र-
कारविशिष्टः । पापहन्ता, कीर्तनश्रवणादिना पातकान्निवर्तकः ।
'अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते
सद्यः सिंहत्रस्तैर्मृगैरिव' इत्यादिपुराणवचनात् । सर्वज्ञः सर्वं
जानातीति 'इगुपधज्ञाप्रीकिर: क: ' इति कः । पतञ्जल्यादि-
रूपेण जगति ज्ञानप्रतिष्ठापनात् । सर्वसाक्षी,सर्वस्य शुभाशु-</p>
<pb n="31" />
<p>भस्य कर्मणः साक्षादीक्षिता; अनिरुद्धदृक्, स्वरूपेण सदा
जागरूकत्वात् 'यः सर्वज्ञः सर्ववित् ' ' साक्षी चेता केवलो नि-
र्गुणः' इत्यादिश्रुतिवचनैः । सकलविषभयात्, विपूर्वात् षो-
ऽन्तकर्मणीत्यस्मात् कप्रत्यये विषशब्दसिद्धिः । अतो विशेषेण
हन्तीति विषम् – कालकूटादि ; ततो यद्भयमुद्वेगः तस्मात्
निमित्तात् पातु रक्षतु इति ऐहिकफलप्रार्थना । 'भीत्रार्थानां
भयहेतु : ' इति पञ्चमी । सकलग्रहणात् कालकूटादिभ्यो-
ऽपि क्रूरात् संसारविषभयात् पात्विति परलोकसुखप्रार्थना ।
मुक्तिं ददात्वित्यर्थः । तत्र हेतुः भोगीश्वर इति । भो-
गिनां नागानां स्वामी । अतस्तक्षकादिभ्यो भयं न संभ-
वति । तेषां तदधीनवृत्तित्वात् । भोगी परमसुखानुभवपर:
पालनैकशीलो वा ईश्वर: परब्रह्मरूपश्च । अतः संसारभय-
मपि नाशयितुं शक्त इत्यर्थः । भोग: सर्पाणां शरीरं फणा वा,
तद्वन्तो भोगिनः, सौख्यविशिष्टाश्च । 'भोगो रा ये गृहे सौख्ये
पालनाभ्यवहारयोः । फणे देहे च सर्पस्य ' इति वैजयन्ती ।
अत्र परिकरोऽलंकारः ॥ ७ ॥
इत्थं भगवन्तमनन्तमुपास्य इदानीं सकलपुरुषार्थकल्प-
वल्लीं जगन्मातरं महामायारूपां भगवतीं मङ्गलदेवतामुपास्ते-</p>
<pb n="32" />
<lg>
  <l>वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां</l>
  <l>कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः ।</l>
  <l>कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं</l>
  <l>वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥</l>
</lg>
<p>वाक् शब्दब्रह्मात्मिका सरस्वती । भूः सर्वभूतप्रकृतिः
पृथ्वी । गौरी परशक्तिरूपा पार्वती । आदिशब्दात् रतितु-
ष्टिपुष्टिकान्तिस्वाहास्वधादिसंग्रहः । एवंप्रकारनानात्वविशि-
ष्टतया मुनयः महर्षयः विदुः जानन्ति । 'अर्थो विष्णुरियं
वाणी श्रीर्भूमिर्भूधरो हरिः । शंकरो भगवाञ्छौरिर्गौरी लक्ष्मी-
र्द्विजोत्तम । देवतिर्यङ्मनुष्येषु पुंनामा भगवान्हरिः । स्त्री-
नाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ' इत्यादिपुराणवच-
नात् 'परास्य शक्तिर्विविधैव श्रूयते ' इत्यादिश्रुतेश्च । तथा-
च अम्बास्तवे – 'दाक्षायणीति कुटिलेति कुहारिणीति का-
त्यायनीति कमलेति कलावतीति । एका सती भगवती पर-
मार्थतोऽपि संदृश्यसे बहुविधा ननु नर्तकीव ' इति । यदीयैः
यस्याः संबन्धिभिः 'त्यदादीनि च ' इति वृद्धसंज्ञा ।
' वृद्धाच्छः ' इति छः । चकार: पूर्ववाक्यार्थसमुच्चये ।
पुसां पुरुषाणामित्यर्थान्तरसंक्रमितवाच्येन ध्वनिना पुराकृत
सुकृतशालित्वभक्तिमत्वादिकं द्योत्यते । कारुण्यार्द्रै:, कृपया</p>
<pb n="33" />
<p>शीतलैरित्यनेन प्रत्युपकारनिरपेक्षं स्वत एव भक्तानुग्रहप-
रत्वं व्यज्यते । कटाक्षैः नेत्राञ्चलैः । 'अपाङ्गे तारविक्षेपः
कटाक्ष इति कथ्यते' इति भावप्रकाशः । सकृत् एकवा-
रम् । अपिशब्दो विरोधद्योतकः । लोके सकृत्पतितानां
जलदधारादीनां बीजाङ्कुरादिनिष्पादनशक्त्यदर्शनादेतेषां त्व-
नुपमेयोऽचिन्त्यः प्रभाव इति भावः । पतितैः शरीरलग्नै: ।
संपदः समृद्धयः । बहुवचनेन तासां बाहुविध्यमाह ।
कुलीनत्वादीनां तत्त्वज्ञानपर्यन्तानां संपत्त्वात् 'स श्लाघ्य:
स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स
च विक्रान्तो यं त्वं देवि निरीक्षसे' इत्यादिवचनैः । सम-
ग्राः, प्रत्येकं निरवधिकाः एकत्र समुदिताश्च । स्युः भवेयु-
रिति संभावनायां लिङ् । तत्र नानुपपत्तिरित्यर्थः । कुन्देन्दु-
स्वच्छमन्दस्मितमधुरमुखाम्भोरुहां कुन्दपुष्पवत् धावल्यात् इ-
न्दुवत् प्रभाबाहुल्यात् स्वच्छेन निर्मलेन दशनप्रभाणां प्रसरात्
मन्देन उत्तमाङ्गनास्वाभाव्यादनुद्धतेन स्मितेन हासेन स्मिञ्
ईषद्धसने इति धात्वर्थत्वेऽप्यत्यधिक इति प्रयोगवत्, मधुरम्
अविकृतं सदा प्रसन्नमित्यर्थः, 'अनुल्बणत्वं माधुर्यम्' इति
वचनात् । मुखमेवाम्भोरुहं तामरसं यस्याः, सौकुमार्यसौर-
भ्यादिगुणयोगात् । सुन्दराङ्गी सुन्दराणि अङ्गानि यस्याः ।
'अन्यूनानतिरिक्तं यदङ्गप्रत्यङ्गसौष्ठवम् । सुश्लिष्टसन्धिबन्धं</p>
<pb n="34" />
<p>यत्तत्सौन्दर्यमिति स्मृतम्' इति भावप्रकाशः । अङ्गग्रहणं
प्रत्यङ्गोपलक्षणार्थम्, 'अङ्गं शिरः कटी वक्षः कुक्षिः
पादावितीरितम् । जङ्घोरुबाहुग्रीवादि प्रत्यङ्गमिति कथ्यते ।
उपाङ्गं नासिकानेत्रभ्रूकपोलाधरादिकम्' इति वचनात् ।
सुन्दराङ्गीमित्यनेन परब्रह्मरूपस्य भगवत इव तच्छक्तिरूपाया
देव्या अपि भक्तिज्ञानध्यानपूजनाद्यर्थं लीलागृहीतविग्रहत्वं
प्रकाश्यते । अशेषै: सर्वैः; अपिरभिव्याप्तौ । वन्द्याम् उपासयितुं
योग्याम् ; सर्वेषामपि सुखार्थित्वात् सुखस्य परदेवताप्रसादमन्त-
रेणाभावात् इति भावः । मुरभिदुरोमन्दिरां मुराख्यमसुरं विदा-
रितवानिति भगवान्, तस्य उरः वक्षःस्थलं मन्दिरं नियतं नि-
वासगृहं यस्याः । 'दक्षिणस्तनाद्धर्म: ' इति श्रीभागवतवचना-
त् ; धर्मोपत्तिस्थानतया भगवदुरसः, श्रियश्च धर्मेणैव रक्षणीय-
त्वादिति भावः । मुरभिदुरोमन्दिरामित्यनेनैतदप्याह यच्छक्ति-
मत्परतन्त्रत्वाच्छक्तेर्भर्तृवशवर्तिनीत्वाच्च धर्मपत्न्याः उभयथापि
भगवत्प्रसाद एव देव्युपासकानामपि फलप्रद इति, 'तेषां हि
प्रार्थितं सर्वे मत्प्रसादाद्भविष्यति' इति विष्णुपुराणवचनात् ।
इन्दिरां लक्ष्मीम् । 'इदि परमैश्वर्ये' इत्यस्मादौणादिक इर-
प्रत्ययः । परमैश्वर्यस्वभावेति गौणी संज्ञा । ' इन्दिरा लोकमाता
मा क्षीरोदतनया रमा' इत्यमरः । अत्र प्रथमे पादे सूक्ष्मं
स्वभावोक्तिश्च, द्वितीये अतिशयोक्तिः, तृतीये उपमा रूपके,</p>
<pb n="35" />
<p>चतुर्थे प्रस्तुतप्रशंसा च अलंकारः। अनुप्रासस्तु सर्वत्रानु-
वर्तत इति तत्र तत्र नोद्भाव्यते ॥ ८ ॥
'अथ काठिन्यवान्यो बिभर्ति जगदशेषत: । शब्दादि-
संश्रयो व्यापी तस्मै भूम्यात्मने नमः' इत्यादिवचनात्
भगवत एव धारशक्तिरूपां भगवतीं भूतधात्रीं प्रतिष्ठासौख्य-
लाभायोपास्ते--</p>
<lg>
  <l>या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो</l>
  <l>धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।</l>
  <l>धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं</l>
  <l>विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥</l>
</lg>
<p>सत्त्वानां द्रव्याणां समूहम् । 'सत्त्वोऽस्त्री जन्तुषु क्लीबे
व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्व-
भावयोः । प्राणे बलेऽन्तःकरणे' इति वैजयन्ती । सकलं
शरीरादिरूपं घटादिरूपं च । अपिर्व्याप्तौ । सदा सूते प्रवाह-
रूपेण नित्यं जनयति । तत्र हेतुः पुंसः पुरुषस्य नारायणस्य
संनिधानेन व्याप्तत्वात् संनिधिः सत्तामात्रेणेति निर्विकारत्व-
मीश्वरस्योक्तम् । जलदसंनिधौ यथा बलाका गर्भं धत्ते,</p>
<pb n="36" />
<p>अयस्कान्तसंनिधौ यथा चायश्चेष्टते, एवमेष पदार्थस्वाभा-
व्यात् एतत्संनिधौ प्रकृतिः सृष्ट्यादिभिश्चेष्टते इत्यर्थः ।
लोके पितरमन्तरेण मातु: प्रसवशक्त्यदर्शनात्, 'मम
योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्व-
भूतानां ततो भवति भारत । सर्वयोनिषु कौन्तेय मूर्तयः
संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता '
इति भगवद्वचनात् । अत्र ब्रह्मशब्देन प्रकृतिरुच्यते, भूमेश्च
प्रकृतिरूपत्वात्, 'क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् '
इति मनुवचनाच्च । ननु पञ्चीकरणाख्यसंयोगविशेषविशि-
ष्टानां पञ्चानामपि भूतानां कार्यं प्रति कारणत्वसाम्येऽपि कथं
'या सूते' इति भूमेः प्रसवं प्रति प्रधानकारणत्वमुच्यते ?
'पञ्चभूतात्मकैर्भावैः पञ्चभूतात्मकं वपुः । आप्याय्यते यदि
ततः पुंसो भोगोऽत्र किंकृत: ' इत्याद्याप्तवचनात् । उच्य-
ते – अमूर्तस्याकाशस्य तावदवकाशदानेनैव परिचितत्वात्,
पवनदहनसलिलानां तु प्रेरणार्द्रीकरणमात्रोपयुक्तत्वात् पृथि-
व्या एवोपादानत्वं काठिन्यगुणयोगात् धारशक्तिश्च तस्या
एवेति सैव प्रधानमिति वैद्यकादिषु स्थापितत्वात् ।
अत्र च मूलप्रकृतिरूपत्वेन देवतायाः स्तुतौ तात्पर्यान्न
कचिद्विरोधः । 'इयं हि भूमिर्भूतानां शाश्वती योनिरुच्यते'
इति मनुवचनं च अत्र प्रमाणम् । 'यामाहुः सर्वभूतप्रकृति</p>
<pb n="37" />
<p>रिति' इति तन्मूलमहाकविवचनाच्च । धत्ते आधारशक्तिरूपे-
णापतनाय धारयतीत्यर्थः । तत्त्वयोगात् महदादिपृथिव्यन्तानि
त्रयोविंशतितत्त्वान्यनुप्रविश्येत्यर्थः, कारणस्य कार्येष्वनुवृत्तेः ।
अथवा तत्त्वस्य परमार्थभूतस्य परमेश्वरस्य योगात् अनुप्र-
वेशात् । 'गामाविश्य च भूतानि धारयाम्यहमोजसा' इति
भगवद्वचनाच्च । अथवा पुंस इति प्रस्तुतत्वात् तच्छब्देने-
श्वरः परामृश्यते । तस्य भावस्तत्वं तस्य योगात् संबन्धात्
भगवदभिन्नत्वादित्यर्थः । 'नित्यैवैषा जगन्माता विष्णोः
श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम'
इति श्रीविष्णुपुराणवचनात् । 'यथा शिवस्तथा देवी यथा
देवी तथा शिवः । नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव '
इति श्रीवायवीये, 'अनन्या राघवेणाहं भास्करेण प्रभा
यथा' इति श्रीरामायणे चोक्ते: । चरं जङ्गमं मनुष्यादिकम् ।
अचरं स्थावरं वृक्षादिकम् । इदमिति पूर्वं स्मृतत्वेनोक्तम् ।
अथवा प्रत्यक्षगोचरस्याभिनय: । भूतये पुरुषस्य भोगमो-
क्षस्वरूपायै संपदे, 'वत्सवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्ति-
रज्ञस्य पुरुषस्य कार्यहेतोः प्रवर्तते तद्वदव्यक्तम्' इति सां-
ख्योक्तेः । सृष्टस्य स्थितये या सूते धत्ते इत्युभयत्रापि हेतुत्वेन
संबध्यते । भूतजातं द्रव्यसमूहं भूतशब्दस्य प्राण्यप्राणिसाधार-
णत्वात् 'भूतानां प्राणिनः श्रेष्ठाः ' इति वचनात् । धात्रीं धारणे</p>
<pb n="38" />
<p>पोषणे च समर्थाम् । स्थात्रीं स्थितिशीलाम् । कार्येषु नश्यत्स्वपि
कारणरूपेणानश्वररामिति यावत्, 'वाचारम्भणं विकारो नाम-
धेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः । जनित्रीं कार्यरूपेण विव-
र्तमानाम् । अथवा णिजर्थोऽन्तर्भूतः । ततश्च जनयित्री मातर-
मित्यर्थ: । ' बीजं पिता क्षेत्रमियं जनित्री ' इति महाभारत-
प्रयोगात् । प्रकृतिं मूलकारणभूताम् । अत एवाविकृतिं क-
दाचिदपि कार्यत्वमनुभवन्ती स्वव्यतिरिक्तप्रकृत्यन्तराभावात् ।
तदभ्युपगमे च अनवस्थानात् । अत एव हि मूलप्रकृतिरिति
सांख्योक्तिः । विश्वशक्तिं विश्वस्य सर्वस्य वस्तुनोऽग्न्यादेः
शक्तिमौष्ण्यादिकं सामर्थ्यम् 'शक्तयः सर्वभावानामचिन्त्यज्ञा-
नगोचराः' इति श्रीविष्णुपुराणवचनात् । ' त्वं चन्द्रिका
शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बल-
स्त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमे-
तदखिलं त्वदृते यदि स्यात्' इत्यम्बास्तवे चोक्तम् । विधा
त्रीं विधिर्नियमनं तत्कर्त्रीम् तत्पदार्थधर्मासंकरणकारणभू-
तां नियतशक्तिमित्यर्थः । 'ज्योतींषि यद्दिवि चरन्ति यदन्त-
रिक्षं सूते पयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलो
यदुदर्चिरास्ते तत्सर्वमम्ब तव केवलमाज्ञयैव ' इत्यम्बा-
स्तवोक्तत्वात् । विष्णोः सर्वव्याप्तत्वेन वेदान्तप्रतिपाद्यस्य पर-
ब्रह्मण इत्यर्थः । तस्यैव भक्तानुग्रहाय विश्वात्मनः अवल-</p>
<pb n="39" />
<p>म्बितस्थूलरूपस्येत्यनेन प्राणनाथत्वोपपत्तिः । विपुलगुणम-
यीम्, विस्तीर्णै: रूपशीलादिभिः प्रचुराम् । प्राचुर्यार्थे
मयट् । अथवा विपुला अनुजातत्वादसंकुचिता गुणाः सत्त्वा-
दय एव रूपं यस्यास्ताम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृ-
तिरिति लक्षणात् । 'दैवी ह्येषा गुणमयी मम माया दुरत्यया
इति भगवद्वचनाच । स्वसंबन्धिनां गन्धानामनुबन्धिभिश्च
शब्दादिभिः पञ्चगुणामित्यपि स्फुरति । प्राणनाथाम्, प्राणा-
नामीश्वरीम् । स्थितिकर्तुर्भगवतो जगद्धारणेन परमसाहाय्य-
करणात् सर्वथा हृदयानुवृत्तेश्च परमप्रेमास्पदभूतामित्यर्थः ।
प्रणौमि प्रकर्षेण स्तौमि । प्रकर्षश्च कायमनसोः प्रह्वीभावः ।
अतॊ वाङ्मनःकायैरुपासे इत्यर्थ: सिध्यति । 'णु स्तुतौ ' इति
धातुः । अत्र च कदाचित् पायान्न इति कदाचित् वन्दे
इति कदाचित् प्रणौमीत्यादिक्रियाविशेषप्रयोगः भक्तिरसा-
वेगेन भगवदनुसंधाने परमहृदयस्य प्रयोक्तु: संभ्रमवशा-
दिति मन्तव्यः । एवंविधे च स्थले प्रक्रमभेद: प्रत्युत
सहृदयचमत्कारकारीति गुण एव । 'शास्त्राणां विषयस्ता-
वद्यावन्मन्दरसा नराः । रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न
च क्रम: ' इति वात्स्यायनोक्तत्वात् । अत्र परिकरोऽलं-
कारः, विशेषणानां साभिप्रायत्वात् ॥ ९ ॥
इत्थं शङ्खराजादिकं भूमिदेव्यवसानमन्तरङ्गं परमेश्वरस्य</p>
<pb n="40" />
<p>परिवारवर्गमुपास्यतदनुग्रह प्रकाशितेऽन्तः करणे मणिमुकुर
इव प्रतिबिम्बितं भगवन्तमुपासितुमुपक्रममाणः प्रणयिजनक-
ल्पपादपयोः श्रीपादयोः संबन्धिनः पांसूनुपास्ते-</p>
<lg>
  <l>येभ्योऽसूयद्भिरुचैः सपदि पदमुरु त्यज्यते दैत्यवर्गै-</l>
  <l>र्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।</l>
  <l>नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः</l>
  <l>पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलया: पांसवः पापपङ्कम् ॥</l>
</lg>
<p>येभ्योऽसूयद्भिः यद्विषयेषु गुणेषु दोषाविष्करणरूपामसूयां
कुर्वद्भिः, 'क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोप: ' इति चतु-
र्थी । सकलमङ्गलप्रसावकान् पुरुषोत्तमपांसून् शिरसा वहेति
गुर्वादिभिरुपदिष्टे सति दुष्टतया तदवधीरयद्भिरित्यर्थः । यथा
ऋषिणा भगवदाराधनं प्रति याच्यमानेन वेनेन जल्पितम्
' मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः कोऽयं
हरिरिति ख्यातो यो वै यज्ञेश्वरो मतः ' इति । यथा प्रह्लादेन
भगवति स्तूयमाने हिरण्येन प्रलपितम् ' कोऽयं विष्णुः सुदुर्बुद्धे
यं ब्रवोषि पुनः पुनः' इत्यादि, तथेत्यर्थः । उच्चैः उन्नतम्,
चन्द्रादिभिरपि समग्रैश्वर्यतया उपास्यत्वात् । 'स संचरिष्णुर्भ-
वनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै
मकुटोपरि स्लखन्करैस्त्रिसन्ध्यां त्रिदशैर्दिशे नमः' इत्युक्तत्वा-</p>
<pb n="41" />
<p>त् । उरु विस्तीर्णम्, त्रैलोक्यविभवसामग्र्यात्  । पदं सार्वभौ-
मत्वाद्यधिकारः । दैत्यवर्गैः असुरसमूहैः सपदि त्यज्यते
तत्क्षणमेव मुच्यते, भ्रष्टश्रीवत्वात् - यथा वेनहिरण्यादि-
भिः । येभ्योऽसूयद्भिरित्युक्तेरनसूयद्भिभक्तैर्दैत्यैरपि महत्त्वं
प्राप्यते इति वैधर्म्येण प्रतीयते, प्रह्लादविभीषणादिषु तथा
दर्शनाच्च । मूर्ध्ना धर्तुं शिरसा धारयितुम् । तानिति
सामर्थ्यात्सिध्यति । आदाय शुक्तिषु वलाहकविप्रकी-
र्णै रत्नाकरो भवति वारिभिरम्बुराशि: ' इति मुरार्युक्तवत् ।
येभ्यः स्पृहयति यान् प्राप्तुमिच्छति । 'स्पृह ईप्सा-
याम्' इति चौरादिकः । 'स्पृहेरीप्सितः' इति चतुर्थी ।
सर्वगीर्वाणवर्गः सर्वः समस्त : गीर्वाणानां देवानां वर्ग: समूहः ।
सर्वशब्देन ब्रह्मादीनामपि संग्रह: । सततं स्पृहयतीत्यनेन ते-
षामपि कृच्छ्रलभ्यत्वं ध्वन्यते, 'देवा अप्यस्य रूपस्य नित्यं
दर्शनकाङ्क्षिणः ' इति भगवद्वचनात् । 'बर्हिर्मुखाः क्रतुभुजो
गीर्वाणा दानवारयः ' इत्यमरः । चकारो वाक्यार्थसमुच्चये ।
नित्यम्, सर्वदा भक्तिनिघ्नात्मनामित्यन्वयः । क्षणे क्षणे भग-
वदनुस्मरणेन पुलककुम्भस्तम्भबाष्पाम्भः संभारसूचितविवश-
हृदयानामित्यर्थ: । 'निघ्नः परवशः स्मृतः' इति हलायुधः ।
नित्यं भक्तिनिघ्नात्मनामित्यनुवादमुखेन विशिष्टा प्रार्थना क्रि-
यते । 'नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं</p>
<pb n="42" />
<p>सरसीरुहाक्ष सततं संपद्यतां जीवितम्' इति मुकुन्दमालो-
क्तवत् । निचिततरं जन्मान्तरसहस्रेषु भृशं संचितम् । अमी
पुरतोऽनुभूयमानाः । पद्माक्षस्य तत्कालविकसिततरुणारुण-
कमलवत् विपुलायतस्निग्धमुग्धारुणशीतलसुभगत्वादिविशिष्टे
अक्षिणी यस्य । अङ्घ्रिपद्मद्वयतलनिलया: पद्मवत् कोमला-
रुणयोरङ्घ्र्योश्चरणयोः युगस्य तलं उदरः निलयः आश्रयः
येषाम्, पांसवः रेणवः प्रणमदमरमौलिमालालग्नाः कुसुमपरा-
गाः कमलाकरकमलसंगेन सक्ताः, कर्पूरपट्टिकादिरेणवो वा,
अन्यथा भगवतो नारायणस्य पादयोर्धरणिरेणुस्पर्शस्यानुपप-
त्तेः । पापपङ्कं दुष्कर्मरूपं कर्दमम् । सन्मार्गसंचरणविरुद्ध-
त्वादन्तःकरणसलिलकलुषी करणान्मालिन्याच्च पङ्कत्वारोप: ।
निर्मूलयेयुः निरस्तमूलं कुर्युरिति प्रार्थनायां लिङ् । तत्करो-
तीति णिच् । पांसूनां लोके पङ्कशोषणसामर्थ्यदर्शनात् पाप-
पङ्कनिर्मूलनप्रार्थनेति मन्तव्यम् । 'संसाराब्धिं पिबेयुर्व: कं-
सारे: पादपांसवः' इत्याप्तैरब्धिशोषणसामर्थ्यं पांसूनां प्रका-
शितम्, पङ्कशोषणसामर्थ्यं किं पुनः । अत्र च लघीयांसोऽपि
महदाश्रयवशात् दुष्करं कार्यं साधयितुं प्रभवन्तीति वस्तु
व्यज्यते । रूपकमलंकार : पापे पङ्कत्वारोपणात् ॥
अथ पांसुभ्योऽन्तरङ्गभूता रेखा उपास्ते-</p>
<pb n="43" />
<lg>
  <l>रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः</l>
  <l>स्निग्धाः सूक्ष्मा: सुजातामृदुललिततरक्षौमसूत्रायमाणाः।</l>
  <l>दद्युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः</l>
  <l>कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥</l>
</lg>
<p>रेखाः वलयः । लेखादिवन्द्या: देवैरुपास्या: । 'आदिते-
या दिविषदो लेखा अदितिनन्दनाः' इत्यमरः । चरणतल-
गताः पादोदरवर्तिन्यः । चक्रमत्स्यादिरूपाः चक्रं रथाङ्गं
मत्स्यो मीनः आदिशब्दात् सृणिकुलिशदण्डकोदण्डपुण्डरी-
कादिग्रहणम् ; तत्संनिवेशविशिष्टाः, तेषां महापुरुषलक्षण-
त्वात् ; 'दण्डाङ्कुशौ चक्रचापौ श्रीवत्सं कुलिशं तथा ।
मत्स्यश्चैतानि चिह्नानि कल्प्यन्ते चक्रवर्तिनाम्' इति सामु-
द्रोक्तेः । स्निग्धाः अरूक्षवर्णाः । सूक्ष्माः तनुतराः ।
सुजाता: सौष्ठवात् व्यक्ताः । मृदुललिततरक्षौमसूत्रायमाणाः
सुकुमारसुन्दरतराणि क्षौमसूत्राणि त्रसरतन्तव इवाचरन्तः;
तत्तुल्या इत्यर्थः । ' कर्तु: क्यङ् सलोपश्च' इति क्यङ् ।
दद्यु: दिशेयुः । मङ्गलानि द्वयोरपि लोकयोः श्रेयांसीति द्यो-
तयति । भ्रमरमरजुषा आरुण्यसौरभ्यसौकुमार्यरूपसाम्यादियो-
गात् तत्कालविकसितारुणतामरससंभ्रमनिलीनमधुकरकुलं से-
वत इति भ्रमरभरजुट 'जुषी प्रीतिसेवनयोः' इत्यस्मात् क्रिप् ।</p>
<pb n="44" />
<p>तेन भ्रमरभरजुषेत्युक्ति: । पाणेश्चरणयोर्निजभरेण म्लानत्वशङ्क-
या संकोचं द्योतयति । कोमलेन मार्दवेन; मृदुललितकोमल-
स्वच्छधीरादयः शब्दा गुणे गुणिनि च वर्तन्ते । शनैः शनै-
राम्रेड्यमाना इति संबन्ध: । अनेन भगवच्चरणयोर्मार्दवाति-
शय उक्तः । धर्मपरत्वमन्तरेण धर्मिपरत्वेन व्याख्याने किस-
लयमृदुनेति पौनरुक्त्यप्रङ्गात्, मृदुत्वकोमलत्वयोः पर्याय-
त्वात् । अब्धिजाया: अब्धौ समुद्रे जातेत्यब्धिजा; 'सप्तम्यां
जनेर्ड: ' इति डप्रत्ययः तस्याः श्रियः । कम्रेण सुन्दरेण ।
किसलयमृदुना पल्लवसुकुमारेण । पाणिना करतलेन आम्रे-
ड्यमानाः 'आम्रेडनं द्विस्त्रिरुक्तम्' इत्यमरः । लक्षणया
पुनः पुनः संस्पृश्यमाना इत्यर्थः । चरणकमलयोः संवाहने
हि नान्तरीयकतया तद्गतानां रेखानामपि संवाहनं भवतीति
कृत्वा रेखानामाम्रेडनमुक्तम् । चक्रपाणेश्चरणतलगता रेखा
नः अस्माकं मङ्गलानि दद्युरित्यन्वयः । अत्रोपमा अतिशयो-
क्तिश्चालंकारः ॥ ११ ॥
अथ 'चरणं पवित्रम्' इत्यादिश्रुतिभिः 'यत्पादसंश्रयात्सूत
मुनयः प्रशमायना: इति,  'न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजः प्रपन्नाः' इति, 'भवत्पादाम्भोरुहनाव-
मत्र ते निधाय याता: सदनुग्रहो भवान् ' इत्यादिभिः
स्मृतिभिश्च भक्तपरित्राणं प्रति शेषाङ्गेभ्यः प्रधानभावं तु</p>
<pb n="45" />
<p>ययोः प्रकाशैरिति भगवतः श्रीपादौ त्रिभिः श्लोकैरुपास्ते-</p>
<lg>
  <l>यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना-</l>
  <l>दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।</l>
  <l>भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नः</l>
  <l>पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥</l>
</lg>
<p>द्यामाक्रामतः वामनरूपेण विरोचनसुतात् बले: पदत्रये
याचिते भगवतस्तत्क्रमणारम्भसमये इत्यर्थः । आक्रामत
इति, न त्वाक्रान्तवत इति । शत्रा ब्रह्मलोकं गतस्य ब्रह्मणा
निजकमण्डलुजलैरभिषिच्यमानस्य तत्क्षण एव सुरसरित्प्रादु-
र्भावात् उत्प्रेक्षया उपपत्तिः । ततः अण्डकटाहमपि भित्वा
ऊर्ध्वं गतस्य कुत उत्प्रेक्षावकाश इति द्योत्यते ।' तस्य
विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे । नभः प्रक्रममाणस्य
नाभ्यां किल यदास्थितौ । दिवमाक्रममाणस्य जानुभ्यां
तौ व्यवस्थितौ । विष्णोरमितवीर्यस्य वदन्त्येव द्विजातयः'
इति हरिवंशोक्तेः । गरुडमणिशिलाकेतुदण्डायमानात्,
'गारुत्मतं मरकतमश्मगर्भं हरिन्मणिः' इत्यमरः । मरक-
तरत्नरूपया शिलया निर्मितः । क्यङ् । यस्मादपादानात्
आश्च्योतन्ती क्षरन्ती । सुरसरित् देवनदी गङ्गा । अमला</p>
<pb n="46" />
<p>शुद्धधवलवर्णा । कान्ता नीलधवलवर्णयोर्योगे परभागलाभा-
द्दर्शनीया । वैजयन्ती ध्वजपटीव । 'वैजयन्ती पताकायां
जयन्त्यां केशवस्रजि' इति वैजयन्ती । बभासे अशोभिष्ट ।
भक्तानां सकलमङ्गलार्थमुक्तमभितः सपटीको ध्वजस्तम्भ
इवेति । भूमिष्ठः भूमण्डलं क्रान्त्वा स्थितः 'अम्बाम्ब-
गोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिभ्यःस्थ:'
इति षत्वम् । तथेति वृत्तानुपूर्वत्वादिगुणातिदेशः । अन्यः
पूर्वोक्तादपरः । भुवनगृहबृहत्स्तम्भशोभां ब्रह्माण्डमण्डपस्य
यो महान् समग्रभरसह: स्तम्भः स्थूणादण्डः तस्य शोभां
तत्सदृशीं कान्तिमित्यर्थः । दधौ धारयति स्म । अत्रान्यस्य
शोभामन्यः कथं वहतीति तत्सदृशीं शोभामिति निदर्शना
यद्यप्युपमा परिकल्प्यते, तथाप्यर्थगतिपर्यालोचनया पुनरु-
त्प्रेक्षायां पर्यवस्यति । भगवत्पदस्यैव तथाविधस्तम्भत्वे-
नोत्प्रेक्ष्यमाणत्वात् । न हि स्तम्भस्तथाविधः कश्चित् पूर्वं
प्रसिद्धः ; येनोपमीयेत । केतुदण्डायमानादित्यन्यत्रापि न्याय
एषोऽनुसन्धेयः । एतौ यस्मादिति य इति च यच्छब्दद्व-
येन परामृष्टयोरेकदा समं परामर्श: । 'यश्चाधर्मेण वि-
ब्रूयात् यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं
चाधिगच्छति ' इत्यादिप्रयोगात् । पयोजोदरललिततलौ
पद्माभ्यन्तरवत् मृदुतलौ पङ्कजाक्षस्य पुण्डरीकसदृशनयनस्य</p>
<pb n="47" />
<p>पादौ । नः पाताम् अस्मान् रक्षेताम् । पा रक्षणे'
इत्यस्माल्लोटि प्रथमपुरुषद्विवचनमिदम् । एताविति इत्थंभू-
तयोः पादयोर्ग्रहणं तदानीं तयोर्जगदनुग्रहाय प्रबुद्धनिजप्र-
भात्वात् रक्षणस्य सुकरतां द्योतयितुम् । उपरितनश्लोकेऽप्य-
यमर्थोऽनुसन्धेयः । उत्प्रेक्षा निदर्शना च अत्राप्यलंकारः ॥</p>
<lg>
  <l>आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ</l>
  <l>याभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।</l>
  <l>ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यां</l>
  <l>प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥</l>
</lg>
<p>त्रिलोकीं भूम्यन्तरिक्षस्वर्गात्मकं लोकत्रयसमाहारम् । आ-
क्रामद्भयां समन्तान्मिमानाभ्याम् । असुरसुरपती वैरोचनीन्द्रौ
यथासंख्यमसुराणां पतिर्वैरोचनिः बलिः, ' विरोचनश्च प्रह्ला-
दाद्बलिर्जज्ञे विरोचनात्' इति पुराणवचनात् । सुराणां
पतिरिन्द्रश्च । 'अल्पाच्तरम्' इति इन्द्रशब्दस्य पूर्वनिपाते
प्राप्ते त्रैलोक्यैश्वर्यादिन्द्रात् समग्रैश्वर्यपरमधार्मिकस्य वैरोचनेः
अभ्यर्हितत्वद्योतनार्थं पूर्वनिपातः । विशेषणेन सपक्षसहितयो-
र्निग्रहानुग्रहावाह । आक्रामद्भ्यामिति शत्रा प्रारम्भं सूचयन्
तत्क्षणादेवेत्यप्रतीकारत्वबुद्धिं प्रकाशयति । नीतौ प्रापितौ ।</p>
<pb n="48" />
<p>युगपत् तुल्यकालम् । अपिर्भिन्नक्रमः । विपत्संपदोरपीति
संबन्धः । विपदः असमग्रैश्वर्यरूपाया आपदः, संपदस्तद्वि-
पर्ययरूपाया: समृद्धेरपि । एकधाम परां काष्ठाम् । ताम्रो-
दराभ्याम् अरुणतलाभ्याम् । मुहुः अनुक्षणम् । अजितस्य
विष्णो:, 'जय जय जह्यजामजित दोषगृभीतगुणाम्' इत्या-
दिपुराणवचनात् । अञ्चिताभ्याम् अविशेषेण सर्वै: पूजिता-
भ्याम् । द्विवचनेन द्वित्वे सिद्धेऽपि उभाभ्यामिति संख्याग्रहणं
वक्ष्यमाणसंख्याधिक्यकटाक्षीकारेण पूर्वं प्रकृतिभूतद्वित्व-
विषयप्रावण्यद्योतनार्थम् । प्राज्यैश्वर्यप्रदाभ्यां प्रकृष्टमीश्व-
रत्वं भगवद्भावमेव प्रदातुं समर्थाभ्याम् । 'प्रे दाज्ञ:'
इति कः । पादपङ्केरुहाभ्यां मुहुः प्रणतिमुपगतः अ-
नुक्षणं प्रकृष्टां नतिं मनोवाक्कायप्रावण्यं प्राप्तोऽस्मीत्यर्थः ।
'नमः स्वस्तिस्वाहास्वधालंवषट्योगाच्च ' इति चतुर्थी । अत्र
विशेषो विरोधश्चालंकारः, त्रिलोक्याक्रमणेन प्रस्तुतेन विप
त्संपद्रूपवस्त्वन्तरकरणात् युगपद्विरुद्धकार्यकरणाच्च ॥ १३ ॥
अथोपासनाभेदात् फलभेदं प्रापयंस्तावेवावस्थाभेदात्
बहुत्वं प्राप्तावुपास्ते-
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां
साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।</p>
<pb n="49" />
<p>व्याप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो
विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥
येभ्योऽपादानभूतेभ्यश्चतुर्थो वर्ण: शूद्राख्यः ' वर्णा: स्यु -
र्ब्राह्मणादयः ' इत्युक्तक्रमेण ब्राह्मणक्षत्रियविशाख्यानां चतुर्थ-
त्वात् वर्णत्रये मुखबाहूरुभ्य उद्भूते पश्चादित्यर्थः । उदभूत्
उद्भूतः । उदभूदित्यनेन संकल्पमात्रादनायासेनाविर्भूतत्वं
ध्वन्यते, ' सिद्धार्थ: सिद्धसंकल्प: ' इति वचनात् । ' अव्यक्तं जा-
यते चास्य मनसा यद्यदिच्छति । वशीकृत्वा तु त्रैगुण्यात् साका-
ङ्क्षत्वात् स्वभावतः'  इति वायुवचनात् । प्रजानामादिसर्गे
महाप्रलयावसाने कल्पस्य प्रथमकृतयुगारम्भे ब्रह्मादिकर्तृक-
सर्गात् पूर्वे भगवत्कर्तृकजगन्निर्माणकाल इत्यर्थः, 'चतुर्यु-
गान्यशेषाणि सदृशानि स्वरूपतः । अन्यं कृतयुगं मुक्त्वा
मैत्रेयान्त्यं तथा कलिम् । आद्ये कृतयुगे सर्गः क्रियते
ब्रह्मणा यतः । क्रियते चोपसंहारस्तथान्त्ये च कलौ
युगे ' इति श्रीविष्णुपुराणवचनात् । 'वर्णत्रयशुश्रूषया
धर्मस्थापनादनायासधर्मार्जनत्वात् शूद्रः साधुः ' इति व्या-
सादिमहर्षिभिः स्तुतस्य तुरीयवर्णस्योत्पत्तिस्थानकथनं भग-
वत्पादानां स्तुतित्वेन परिणमति । 'पद्भ्यां शूद्रो अजा-
यत' इति श्रुतेः । तत्र पद्भ्यामिति द्विवचनप्रयोगेऽपि प्रकृ-</p>
<pb n="50" />
<p>तिभूतपादद्वयविकृतितः विलक्षणादन्येषां येभ्य इति बहुवच-
नप्रयोगः । कथं बहुत्वमवगम्यते इत्यत्राह - साहस्रीति,
सहस्रपरिमिता ' तपः सहस्राभ्यां विनीनौ, अण् च ' इत्यण् ।
चकारः अपिवत् समुच्चयार्थः । संख्या गणना प्रकटं
स्पष्टं लिङ्गवाक्यादिव्यतिरेकेण श्रुत्यैव साक्षादित्यर्थ: । अभिहि-
ता उक्ता । सर्ववेदेषु ऋग्यजुः सामाख्ये वेदत्रये 'सहस्रशीर्षा
पुरुषः । सहस्राक्षः सहस्रपात् ' इत्यादिवचनैः । पुरुषसूक्तस्य
सर्ववेदेषु साम्यात् सर्ववेदेष्वित्युक्तिः । 'उद्धृतासि वराहेण
कृष्णेन शतबाहुना' इति मन्त्राच्च । विश्वंभरा भूमि-
र्यैव्याप्ता सर्वतः समाक्रान्ता । अतिवितततनोः स्थूल-
रूपेण विवृत्तस्य । कथं विवृत्तत्वमित्यत्राह - विश्वं चराच-
रभूतविशिष्टं ब्रह्माण्डं मूर्तिर्विग्रहो यस्य । तदानीं विराज:
विविधं राजतो विराट्संज्ञस्य हिरण्यगर्भस्येत्यर्थः । 'हिरण्य-
गर्भ: समवर्तताग्रे' इति श्रुतेः । 'सहस्रसंख्यैर्गगनं शिरोभिः
पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि-
निशाकरं साधु हिरण्यगर्भम्' इति माघोक्तेः । विष्णोरिति
विशेष्यनिर्देशः । 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण:
स्थित : ' इति श्रुतेः व्याप्तस्य अरूपस्य परमात्मन इति अनेन
लीलाविग्रहत्वं प्रकाश्यते, 'अजोऽपि सन्नव्ययात्मा भूता-
नामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममा-</p>
<pb n="51" />
<p>यया ' इति भगवद्वचनात्, 'समस्तशक्तिरूपाणि तत्क-
रोति महामते । देवतिर्यङ्मनुष्याद्याश्चेष्टावन्ति स्वलीलया '
इति श्रीविष्णुपुराणवचनाच्च । महद्भयः सकलपुरुषार्थप्रसा-
वकतया प्रत्युपक्रियानिरपेक्षपरोपकारैकनिरतेभ्यः भगवदनपे-
क्षया स्वातन्त्र्येण भक्तानुग्राहकेभ्यश्च । भगवतस्तु पादप्रणा-
मसापेक्षतयैवोपकारकत्वात् 'अवाप्तव्यान्यपास्तानि यस्य स-
र्वाणि देहिनः । परोपकारव्यसनी स महात्माभिधीयते'
इति भावप्रकाशः । विश्वंभराव्यात्यैवाकारमहत्त्वस्योक्त
त्वात् । सततं सर्वदा । अपिरभिव्याप्तौ । नमः प्रणामः
अस्तु अविच्छिन्नसत्ताकं वर्तताम् । अङ्घ्रिपङ्केरुहेभ्यः पाद-
पद्मेभ्यः । 'नमः स्वस्ति' इत्यादिना चतुर्थी । अत्र स्वभावो-
क्तिरलंकारः ॥ १४ ॥
पातालमेतस्य हि पादमूलम्' इत्युक्तेः पातालरूपं पाद-
द्वयमुपास्य इदानीं पादद्वयस्याङ्गिन अङ्गभूताः प्रसङ्गात् पाता-
लप्रदेश विशेषभूताः अङ्गुलीरुपास्ते -</p>
<lg>
  <l>विष्णो: पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या</l>
  <l>राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली ।</l>
  <l>अस्माकं विस्मयार्हाण्यखिलजनमनःप्रार्थनीयानि सेयं</l>
  <l>दद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥</l>
</lg>
<pb n="52" />
<p>पादद्वयस्य पादयोर्द्वयस्य अग्रे विमलनखमणिभ्राजिता
विशुद्धैर्नखरूपै: रत्नै: मुक्तामणिभिरित्यर्थः, भ्राजिता दीप्ता,
'भ्राजृ दीप्तौ' इति धातुः । राजते शोभते, 'राजृदीप्तौ '
इति धातुः । राजीवस्य पद्मस्य, अग्रे इत्यर्थादायाति, पाद-
द्वयाग्रे  इत्युक्तेः । तत्रापि द्वयस्येति वक्तव्ये समासो गमक-
त्वात् कृतः । 'बिसप्रसूनं राजीवं कमलम्' इत्यमरः । रम्या
कालविकासेन हृद्या । हिमजलकणिकालंकृताग्रा हिमजलस्य
शीकरैर्भूषतान्यग्राणि यस्याः । दलाली पत्राणां पङ्किः, 'वी-
थ्यालिरावलिः पङ्क्ति: श्रेणी लेखास्तु राजयः' इत्यमरः ।
विस्मयार्हाणि, अहो अस्य सुकृतपरिणति: - इति सर्वेषामाश्च -
र्यबुद्धियोग्यानि । अखिलजनमनः प्रार्थनीयानि सर्वेषां जनानां
मनोभिरेषणीयानि । मनोग्रहणेन 'मनोरथानामगतिर्न विद्यते '
इति न्यायात् दुर्लभेऽपि वस्तुनि मन: प्रवृत्तेस्तथाविधत्वमेतेषां
द्योत्यते । सा यच्छब्देन परामृष्टा अनुभूयमाना । आद्या
आदौ भवा भगवन्मूर्तेरनादित्वात् । अनवद्या अवद्यमप्रशस्तं
लक्षणमन्योन्यन्यूनातिरिक्तत्वादि तद्रहिता । अतिरुचिरा । उ-
क्तलक्षणविशिष्टतया अत्यन्तं मनोहरा । मङ्गलानि अभ्युदयानि
श्रेयः साधनानि अङ्गुलीनां ततिः पादशाखानामावलिः । अत्र
दृष्टान्तोऽलंकारः, पादद्वयाङ्गुलीनखमणीनां राजीवदलाली-
हिमजलकणिकानां च बिम्बप्रतिबिम्बभावेन निर्देशात् ॥१५॥</p>
<pb n="53" />
<p>अश्वाश्वतर्युष्ट्रगजा नखानि' इत्युक्तेस्तद्रूपां नखालीमुपास्ते -</p>
<lg>
  <l>यस्यां दृष्ट्वामलायां प्रतिकृतिममराः स्वां भवन्त्यानमन्तः</l>
  <l>सेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।</l>
  <l>सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-</l>
  <l>श्चञ्चच्चार्वांशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥</l>
</lg>
<p>अमलायां स्फटिकमुकुरवत् स्वच्छरूपायामिति स्फुटप्रति-
बिम्बालम्भे हेतुः । स्वां प्रतिकृतिं स्वशब्देन अमराः परामृश्य-
न्ते । आत्मसंबन्धीनि प्रतिबिम्बानि 'प्रतिमानं प्रतिकृतिः
प्रतिच्छायम्' इति हलायुधः । आनमन्त: नमस्कुर्वाणा इति
दर्शने हेतुः । सेन्द्राः इन्द्रेण सहिताः । अमरा: देवा: आ-
दित्यवसुरुद्राश्विप्रमुखास्त्रयस्त्रिंशत्कोटिसंख्याः । सान्द्रीकृतेर्ष्याः
दर्शनेन बहुलीकृता ईर्ष्या अक्षमा येषाम् ; 'अक्षान्तिरीर्ष्या '
इत्यमरः । भगवदुपासनायागतानां कथमीर्ष्याप्रसङ्ग इत्य-
त्रा - तुर्विशेषे; अपरसुरकुलाशङ्कया अस्मद्व्यतिरिक्तं सुराणां
देवानां कुलं वंशः कथमत्र वर्तते इत्याशङ्कया चिन्तया । न तु
स्वप्रतिकृतिबुद्धिस्तेषामित्यनेन स्पष्टदृष्टत्वात् प्रतिबिम्बबुद्धिः
किंचिदपि नोत्पन्नेति भावः । आतङ्कवन्तः भयभूयिष्ठाः
'आतङ्को भयम्' इति वैजयन्ती। भगवच्चरणयोरुपास-</p>
<pb n="54" />
<p>काभीष्टदानव्यसनित्वादेतेषां च तदानीं तत्पादपतितत्वाच्च अ-
स्माकं पदमेतैर्हृतं भविष्यति हन्त हता वयमित्याकुलहृदया
भवन्तीत्यर्थः । 'अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्' इति
शाकुन्तलोक्तेः । सद्यः स्वध्यानानन्तरमेव सातिरेकाम् अति-
रेकः अतिशयः अविशेषात् सर्वेभ्यः संपदन्तरेभ्योऽतिरेकेण
संहितामित्यर्थः । तत्र हेतुः सकलसुखकरीं संपूर्णसुखहेतुभूताम्,
'कृञो हेतुताच्छील्यानुलोम्येषु' इति हेतौ टः । संपदन्तराणां
दुःखशबलितसुखसाधनत्वात् । संपदं तत्त्वज्ञानसामग्र्यरूपां
श्रियम् । तस्या एव निःशेषदुःखनिवृत्तिनिरतिशयानन्दा-
नुभवरूपकैवल्यसाधनत्वात् । साधयेत् निर्विघ्नं पोषयतु ।
तत्र सामर्थ्यमाह – चञ्चच्चार्वांशुचक्रा प्रसरन्तश्चारवो निर्मल-
त्वात् मनोहराश्चांशवः किरणाः तेषां चक्रं मण्डलं यस्या इति ।
'विशुद्धं सत्त्वमूर्जितम्' इति विशुद्धात्मिकाया भगवन्मूर्ते-
रवयवत्वात् विशेषतस्तेजोमयत्वाच्च मोहान्धकारनिराकरणेन
ज्ञानसंपत्संपादने निरर्गलं सामर्थ्यमस्यास्तीति अनुमानालं-
कार: । सादृश्याद्वस्त्वन्तरप्रतीतेः तत्कार्यस्य भयादेश्च प्रति-
पादनात् ॥ १६ ॥
अथ पादपृष्ठभागपर्यायम् 'पार्ष्णिप्रपदे रसातलम्' इत्यु-
क्ते: रसातलत्वेनोपास्यं प्रपदद्वयमुपास्ते -</p>
<pb n="55" />
<lg>
  <l>पादाम्भोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट-</l>
  <l>प्रत्युप्तोच्चावचाश्मप्रकरकरगणैश्चित्रितं यद्विभाति ।</l>
  <l>नम्राङ्गानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि-</l>
  <l>च्छायं श्रेयः प्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥</l>
</lg>
<p>पादाम्भोजन्मनो: चरणसरसिजयोः सेवायै उपासनार्थे
समवनतस्य सम्यक्कृतनमस्कारस्य सुव्रातस्य देवसमूहस्य
भास्वत्सु जाम्बूनदमयत्वेन दीप्तेषु किरीटेषु मकुटेषु प्रत्युप्तानां
न्यस्तानाम्, रत्नन्यासस्य प्रत्युप्तत्वप्रसिद्धेः 'तस्योल्लसत्काञ्चनकु-
ण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ' इत्यादि प्रयोगात् । उच्चावचा-
नां नानाविधवर्णसंस्थानजातिभेदानाम् 'उच्चावचं नैकभेदम् '
इत्यमरः । अश्मनां रत्नानां प्रकरस्य संघातस्य करा: किर-
णाः तेषां गणैः संचयैः चित्रितं संजातलेखं विभाति, तद्वि-
शिष्टत्वेन शोभत इत्यर्थः । अथवा द्योतकशून्योत्प्रेक्षया चित्रि-
तमिव भातीत्यर्थः । नम्राङ्गानां भक्तिवशात् स्वयमेव नमन-
शीलं शरीरं येषाम् । नः अस्माकम् । हरिदुपलं मरकतशि-
ला ; 'गारुत्मतं मरकतमश्मगर्भं हरिन्मणिः ' इति वैजयन्ती ;
तेन निर्मितः उरुः कच्छप: हरिदुपलमहाकूर्म: तस्य सौ-
न्दर्यं कान्तिं हर्तुं चोरयितुं शीलं यस्याः सा; 'छायानातपशो-
भयोः' इति वैजयन्ती । कूर्मशब्देनात्र कूर्मपृष्ठकपालमौचि</p>
<pb n="56" />
<p>त्याल्लक्ष्यते । कूर्मपृष्ठवत् वृत्तोत्तुङ्गमसृणमित्यर्थः । 'प्रपदा-
ज्जितकच्छपात्' इत्यादिप्रयोगात् कूर्मग्रहणम् । श्रेयःप्रदायि
स्मरणादिभिर्लोकद्वयसुखप्रदानशीलम् । हरे: भक्तानामात-
ङ्कहरणात् हरिशब्दवाच्यस्य भगवतः, ' मामेव ये प्रपद्यन्ते
मायामेतां तरन्ति ते । तेषामहं समुद्धर्ता मृत्युसंसारसागरात् '
इत्यादिस्मृतेः । प्रपदयुगं पादयोः पृष्ठभागद्वयम् ; 'प्रपदं
चरणाग्रम् ' इति वैजयन्ती । इदं यच्छब्देन यत्परामृष्टं
तदिदमित्यर्थः । प्रापयेत् गमयतु । पापं वाङ्मनःकायोपा-
र्जितं दुष्कर्म कर्मभूतम् । अन्तम् अवसानं प्रापयेत् पुनरनुत्था-
नाय विलापयेत् इति प्रार्थनायां लिङ् । 'अन्तोऽस्त्र्यवसिते
मृत्यौ' इति वैजयन्ती । 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्मा-
कर्मकाणामणि कर्ता स णौ ' इति गत्यर्था द्विकर्मकाः । अत्र
पूर्वार्धे उत्प्रेक्षा उत्तरार्धे निदर्शनालंकारः । अत्र च ' पार्ष्णि-
प्रपदे रसातलम्' इति वचनात् गुल्फयोश्च तदङ्गभूतत्वात्
'महातलं विश्वसृजोऽस्य गुल्फौ' इत्युक्तत्वात् प्रपदोपासनेनैव
पार्ष्णिगुल्फयोरुपासनं कृतमिति वेदितव्यम् ॥ १७ ॥
अथ क्रमप्राप्तं 'तलातलं वै पुरुषस्य जङ्घे ' इति स्मृतं
जङ्घाद्वयमुपास्ते-
श्रीमत्यौ चानुवृत्ते करपरिमलनानन्दहृष्टे रमाया:
सौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे ।</p>
<pb n="57" />
<p>सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे
जङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ।
श्रीशब्देनात्र समुदायशोभा उच्यते । श्रिया सर्वप्रकारया
कान्त्या नित्ययुक्ते । नित्ययोगे मतुप् । तस्यार्थस्य प्रपञ्चनमु
पक्रियते । चकारो वाक्यार्थान्तरसमुच्चये । जङ्घे च जयता-
मित्यन्वयः । अनुवृत्ते पूर्वभागानुसारेण वर्तुलाकारे; 'वृत्तं च
वर्तुलम् ' इत्यमरः । ' वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे उभे
सृष्टवतस्तदीये' इति कुमारसंभवोक्तेः । चारुवृत्ते च इत्यर्थः ।
रमायाः पद्मवासिन्या: । करपरिमलनं हस्ताभ्यां संवाहनं तज्ज-
नितेनानन्दसुखानुभवेन हृष्टे रोमाञ्चिते । सौन्दर्याढ्येन निर्दो-
षतया समग्रगुणतया च शोभया पूर्णेन इन्द्रनीलोपलेन महा-
नीलाख्यरत्नविशेषेण रचितयोः निर्मितयोः दण्डयो: यष्ट्यो:
कान्तिचोरे शोभाया मोषिके, वृत्तायतस्निग्धस्थूलनीलमसृण-
त्वादिगुणयोगात् । सूरीन्द्रै: ज्ञानिश्रेष्ठैः सनकादिभिः स्तूय-
माने प्रशस्यमाने । तत्र हेतु: सुरकुलसुखदे सुरशब्द: सा-
त्त्विकजनोपलक्षणार्थ: । सुराणां कुलस्य वंशस्य सुखं दातुं
शीलं ययोः । तत्र हेतु: सूदितारातिसंघे सूदिताः शीघ्रं
धावित्वा निर्दयाघातैर्मारिताः अरातीनां धर्मद्रुहां संघाः
समूहा याभ्याम् । जङ्घे जानुगुल्फयोरन्तरालप्रदेशौ 'प्रसृते जा-</p>
<pb n="58" />
<p>नुनी जङ्घे ' इति वैजयन्ती । नारायणीये जलशायिनो
भगवतः संबन्धिन्यौ ।'वृद्धाच्छ: ' इति छः ।' आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः' इति स्मृतेः । नार: नरसमुदाय: तस्य अयनम् आश्रयः इत्युक्तरीत्या परमात्मा वा नारायणः । मुहुः क्षणेन अनुक्षणं वा; 'मुहुः क्षणेऽनुक्षणे च' इति वैजयन्ती । शीघ्रमस्मदंहः अस्मत्संबन्धि दुरितं हरन्त्यौ;
' अंहो दुरितदुष्कृते' इत्यमरः । वाङ्मनःकायैर्बुद्धिपूर्वम-
बुद्धिपूर्वं वा क्रियमाणमनुक्षणं हरन्त्याविति वा । क्षणेन
हरन्त्याविति तत्कालविशेषणं वा विशिष्टस्यैव प्रार्थना ।
जङ्घे अपि जयतां सर्वोत्कर्षेण वर्तताम् । लोटि परस्मैपदप्र-
थमपुरुषद्विवचनम् । अत्र स्वभावोक्तिर्निदर्शना च अलं-
कारः ॥ १८ ॥
अथ 'ऊरुजङ्घान्तरालवर्तिनी जानुनी सुतलं विश्वमूर्ते: '
इत्याद्युक्तं जानुद्वयमुपास्ते-</p>
<lg>
  <l>सम्यक्साह्यं विधातुं सममिव सततं जङ्घयो: खिन्नयोर्ये</l>
  <l>भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते ।</l>
  <l>चित्तादर्शं निधातुं महितमिह सतां ते समुद्गायमाने</l>
  <l>वृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥</l>
</lg>
<pb n="59" />
<p>सम्यक् समीचीनमिति विधानक्रियाविशेषणम् । सम्यक्त्वं
च खिन्नतया सहायापेक्षसमये प्रवृत्तत्वात् । साह्यं सहभाव-
मित्यर्थः । विधातुं कर्तुम् । समं तुल्यमिति क्रियाविशेषणम् ।
सततं नित्यम्। खिन्नयोः तान्तयोः अर्थादूरुभारवहनाद्धेतोः ।
भारीभूतोरुदण्डद्वयभरणकृतोत्तम्भस्य भावस्तत्त्वम् । गुरुत्वात्
भारीभूतस्य दुर्वहत्वं प्राप्तस्य ऊरुदण्डद्वयस्य भरणार्थं वहनार्थं
कृतस्योत्तम्भस्य भाव तत्त्वम् । उत्तम्भो नाम गृहादिधारणा-
र्थस्य महास्तम्भस्यानवसादार्थोऽवान्तरस्तम्भः । भजेते प्रा-
प्नुतः । चित्तादर्शं मनोरूपं मुकुरं स्वच्छतया भगवत्तत्त्वप्रति-
बिम्बधारत्वादादर्शस्य रूपणम् । निधातुं निक्षेप्तुम् । महितं
पूजितम्, विषयाभिषङ्गकलङ्कराहित्यात् । इह काले । सतां
योगिनाम् । अथवा इह अजिते । समुद्गायमाने समुद्गवदाच-
रती ; 'समुद्ग:  संपुट: पुटः' इति वैजयन्ती । द्विरददन्तादिनि-
र्मित: सपिधानो भूषणादिनिधानार्थो भाजनविशेषः समुद्गः ।
वृत्ताकारे वर्तुलसंस्थाने इत्युत्प्रेक्षाहेतुः । अजितस्य भगवतः
जानुनी ऊरुजङ्घान्तराले; पर्वफलके 'जानुरष्ठीवदस्त्रियाम्' इति
वैजयन्ती । अस्माकं हृदि हृदये । मुदं हर्षम् । स्वानुभूत्या
विधत्तां कुर्वताम्, 'विपूर्वो धाञ् करोत्यर्थे ' इति वचनात् ।
लोटि परस्मैपदप्रथमपुरुषद्विवचनमिदम् । अत्र पूर्वार्धे उत्प्रेक्षा
स्पष्टैव । उत्तरार्धे 'उपमानादाचारे कर्तु: क्यङ्सलोपश्च'</p>
<pb n="60" />
<p>इत्युपमार्थपर्यालोचने उत्प्रेक्षायां पर्यवस्यति, वृत्ताकारत्वहेतुना
चित्तादिनिधानसाधनत्वेनोत्प्रेक्ष्यमाणत्वात् । सदा सज्जनहृद-
यस्य तत्र धार्यमाणत्वं च व्यज्यते ॥ १९ ॥
अथ 'ऊरुद्वयं वितलं चातलं च ' इत्युक्तमूरुद्वयमुपास्ते-</p>
<lg>
  <l>देवो भीतिं विधातुः सपदि विद्धतौ कैटभाख्यं मधुं चा-</l>
  <l>प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।</l>
  <l>वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला-</l>
  <l>वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥</l>
</lg>
<p>देवः नारायणः, भीतिं भयम्, विधातुः ब्रह्मणः, सपदि
झटिति अचिन्तितोपगतं व्यसनमसहायस्य भयातिशयहेतुरि-
त्यर्थ: । विदधतौ कुर्वाणौ, 'तदा द्वावसुरौ घोरौ विख्यातौ
मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ' इति
पुराणवचनात् विधातृभीतिविधानोक्तिः । कैटभाख्यं कैटभ
इति आख्या नामपदं यस्य, मधु मधुसंज्ञं च, आदिदैत्यौ
सर्वेषां दैत्यानामादिभूतौ विष्णुकर्णमलोद्भूतत्वेऽपि तयोर्दैत्य-
त्वोक्तिरसुरपर्यायत्वेन दैत्यशब्दस्य प्रसिद्धिविवक्षया, न तु दि-
त्यपत्यत्वादिति ज्ञेयम् । आरूढगर्वो बलपराक्रमातिशयेन सम-</p>
<pb n="61" />
<p>न्तात् प्रकाशितस्वकार्यतया निरतिशयो दर्पपर्यायो गर्वाख्यो
भावो ययोः; ' प्रीतिनिर्वृतिनिघ्नानामरागविषयेऽपि यः । प्रवृ-
त्तिं कुरुते भावः पुंसां दर्पः स उच्यते ' इति दिवाकरः । अधि-
जलधि जलधौ प्रलयसमुद्रे इत्यर्थः । ययोरारोप्य हठादाकृष्य
स्थापयित्वा जघान हिंसितवान् । 'आपज्जहि न यत्रोर्वी सलि-
लेन परिप्लुता' इति ताभ्यां प्रार्थितेन 'तथेत्युक्त्वा भगवता
शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने ऊरुस्थे शिरसी
तयोः' इति पुराणवचनमनयोक्तिभङ्ग्यानुस्मारयति कविः ।
अन्योन्यतुल्यौ परस्परेण सदृशाविति तृतीयसब्रह्मचारिनिवृत्त्य-
र्थमुक्ति: । चतुरं विदग्धं अन्यूनानतिरिक्तत्वात् अनुपूर्वत्वाच्च
उपचयं बिभ्रतौ दधानौ । अभ्रनीलौ मेघवदाकाशवद्वा श्याम-
वर्णौ । चारू प्रशस्तलक्षणविशिष्टतया मनोहरौ । हरे: ऊरू
मानसे हृदये । अतिशयिनीं भगवद्विग्रहानुभूत्यतिरिक्तस्य
सुखहेतोरभावात् परां कोटिमधिरूढाम् । अत्र परिक-
रोऽन्योन्यं च अलंकारः, विशेषणानां साभिप्रायत्वात् अ-
न्योन्यस्य उपमानोपमेयभावाच्च ॥ २० ॥
अथ 'महीतलं तज्जघनं महीपते' इत्युक्तं भगवतो जघ-
नमण्डलमुपास्ते--
पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं
जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः ।</p>
<pb n="62" />
<p>एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥
पीतेन कनकमयत्वेन हारिद्रवर्णेन 'वासस्तु सन्ध्या नृप-
वर्य भूम्न: ' इति भागवतोक्तेः सन्ध्यात्वानुसंधानाय पीत-
त्वोक्तिः । द्योतते दीप्यते । चतुरपरिहितेन विदग्धं यथा तथा
संवीतेन । अम्बरेण वाससा । अत्युदारम् अतिशयेन मनोहरम् ।
जातालंकारयोगं जातः संभूतः अलंकारेण अलंकृत्या योग: संब-
न्धो यस्य । भावसाधन: अत्रालंकारशब्दः शोभामात्रवाचकः ।
बाडबाग्निप्रभाभिः बडबामुखाग्निद्युतिभिः । जलधेर्जलमिवे-
त्युपमया विपुलनीलस्निग्धत्वादि जघनस्य व्यज्यते । पातित्य-
दात्, श्रुतिस्मृतिविहितस्य स्ववर्णाश्रमानुगुणस्य कर्मणो
विधिपूर्वकमनुष्ठानं निषिद्धस्य च अननुष्ठानं द्वयात् परिभ्रश्य
निरयतमसि पतितत्वात् पतित इत्युच्यते, तस्य भाव: पाति-
त्यम्, तत् ददातीति पातित्यदात् । तत्र हेतुः अतिघनात्
अतिशयेन सान्द्रात् । अतिशयत्वं च महतः पातकस्य बुद्धिपू-
र्वमनुष्ठानात् अनुतापाच्च प्रायश्चित्तस्यायोग्यत्वम् । अबुद्धिपूर्वत्वे
अनुतापस्यैव प्रायश्चित्तता 'अकामतः कृते पापे प्रायश्चित्तं
विदुर्बुधाः' इति मनुवचनात् 'प्रायश्चित्तमकुर्वाणाः पापेषु
निरता नराः । अपश्चात्तापिन: कष्टान्नरकान्यान्ति दारुणान् '</p>
<pb n="63" />
<p>इति याज्ञवल्क्यवचनाच्च । एनस: पापात् । माननीयं सर्व-
लोकैः पूज्यम्, ब्रह्माण्डस्यैवोत्पादकत्वात् ; ' अप एव ससर्जादौ
तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् '
इति स्मृतेः । ' काञ्चीपदं कलत्रं च कटि: श्रोणिः ककु-
द्मकी । पुरोभागोऽस्य जघनं नितम्बोऽपरभागत: ' इति
वैजयन्ती । अत्र जघनशब्दोऽपरभागस्याप्युपलक्षणपरः ।
नितम्बस्य पृथगनभिधानात् । एनसः पातु रक्षतु । 'भीत्रा-
र्थानां भयहेतु: ' इति अपादानत्वम् । रक्षणं च पूर्वजन्मा
र्जितस्य अस्मिन् जन्मनि प्रामादिकस्य च निरसनेन वा,
इतः परं तत्राप्रवर्तनायोपाययोजनेन वा इत्युभयथा भवति ।
कथमनेन रक्षणं क्रियते इत्यत्राह – सातत्येनेति । सततभावेन
नैरन्तर्येणेत्यर्थः । एवकारो भिन्नक्रमः । चेतोविषयं मनसो
गोचरम् । अवतरत् अवगाहमानमेवेति हेतौ शता । न
प्रकारान्तरापेक्षा । तावन्मात्रेणास्माकं चरितार्थत्वादिति भावः ।
' उपपातकेषु सर्वेषु पातकेषु महत्सु च । रजन्या: पादमेकं
तु ब्रह्मध्यानं समाचरेत् । अतिपापप्रसक्तोऽपि ध्यायन्निर्विष-
योऽच्युतम् । भूयस्तपस्वी भवति पङ्क्तिपावनपावनः । यथा-
ग्निरुद्धतशिख: कक्षं दहति सानिलः । तथा चित्तस्थितो
विष्णुर्योगिनां सर्वकिल्बिषम्' 'न क्रोधो न च मात्सर्यं न
लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरु-</p>
<pb n="64" />
<p>षोत्तमे' इत्यादिस्मृतिपुराणादिवचनैः । पीताम्बरस्य पीतं
कबलीकृतमम्बरमाकाशं येन, 'आत्मन आकाशः संभूतः '
इति श्रुतेः । कारणेन कार्यस्य व्याप्यत्वात् । अम्बरग्रहणं भू-
तान्तराणामप्युपलक्षणम् । पारम्पर्येण तेषां तत्कार्यत्वात् । अतः
सर्वजगद्व्याप्तस्य विष्णोरित्यर्थः । पीतं कपिलवर्णं वसनं यस्ये-
ति वा तस्य संबन्धीति । अत्र पूर्वार्धे दृष्टान्तोऽलंकारः,
उपमानोपमेयानां बिम्बप्रतिबिम्बभावेन निर्देशात् । उत्तरार्धे
अतिशयोक्तिः, चेतोविषयावतरणमात्रेणातिघनदुरितनिरसन-
सामर्थ्यप्रतिपादनात् ॥ २१ ॥
अथ महीमण्डलात्मनो जघनमण्डलस्य प्रधानमण्डनं स-
मुद्रवेलात्वेन सन्ध्यात्मनो वाससः सावित्र्यात्मना उपास्यं -
काञ्चीकलापमुपास्ते–</p>
<lg>
  <l>यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-</l>
  <l>र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।</l>
  <l>काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता</l>
  <l>कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥</l>
</lg>
<p>दाम्ना सूत्रेण, सूत्रप्रोतमणिगणसन्निवेशविशेषरूपत्वात् का-
द्या: , 'कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा'</p>
<pb n="65" />
<p>इत्यादिवचनैः । ' स्त्रीनपुंसकलिङ्गयोर्दृश्यत्वे दामन् सी-
मन् प्रभृतयः ' इति स्त्रियां गणितत्वात् । 'दामानि सन्तु
भुवनेषु पर: सहस्रम्' 'दामनि भुवनवनतां प्रपन्ने' इ-
त्यादिप्रयोगात् । त्रिधाम्नः त्रीणि धामानि यस्य जागर-
स्वप्नसुषुप्त्याख्यानि तत्साक्षित्वात् । 'स्वप्नजागरिते सुप्तिं
भावाभावौ धियां तथा । यो वेत्त्यविक्रिय: साक्षात् सोऽहमित्य-
वधारय' इत्याचार्यवचनात् ; ऋग्यजु:सामाख्यानि वा
'सर्वे वेदा यत्पदमामनन्ति' इति श्रुतेः सूक्ष्मवेद्यत्वात् ।
भूर्भुव:स्वराख्यानि त्रिलोकीव्याप्तत्वात् । अथवा त्रीणि
धामानि तेजांसि यस्येत्यर्थः । रविशशिदहनाख्यानि ' यदा-
दित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ
तत्तेजो विद्धि मामकम्' इति भगवद्वचनात् । तस्य विष्णोः
जघनकलितया जघनशब्देन सर्वमेव कटितटं लक्ष्यते तस्मिन्
बद्धया तत्परिवेष्टितयेत्यर्थः । अथवा जघने कटीपुरोभागे कृत-
ग्रन्थिबद्धया । भ्राजते दीप्यते । अङ्गं सर्वा मूर्तिः । अब्धेर्म-
ध्यस्थः क्षीरसागरान्तर्वर्ती तन्मथनारम्भे इत्यर्थात् । एतच्च वि-
शेषणं भुजगपतिबद्धमध्यत्वे हेतुत्वेनोपात्तम्, अन्यथा तद्वन्धा-
भावादुपमानत्वानुपपत्तेः । भुजगपतिमहाभोगसंनद्धमध्यः, स-
र्पराजस्य वासुके: महता पूर्वस्मात् सविशेषं गुरुणा, देवकार्यार्थं
तदानीं भगवच्छक्त्याप्यायितत्वात्, भोगेन शरीरेण नेत्रीभूतेन</p>
<pb n="66" />
<p>सनद्धः सम्यक् बद्ध: मध्य: मेखलाप्रदेशो यस्य । मन्दरो
यथा, यथेववाशब्दाः उपमाद्योतकाः । उपमानेनोत्तुङ्गत्ववि-
पुलत्वस्थिरत्वादयो भगवदङ्गस्य प्रकाश्यन्ते, सार्धद्वयलक्ष-
प्रमाणत्वेन भगवन्मूर्ते: पुराणेषु प्रतिपादनात् । काञ्ची,
' स्त्रीकट्यां सप्तकी काञ्ची पुंस्कट्यां शृङ्खला त्रयी' इत्यभि-
धानेऽपि काञ्चीशब्देनोक्तिरुपचारात्, पीतांशुके पृथुनि-
तम्बमधि स्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च '
इति पुराणवचनाच्च । काञ्चनाभा मध्ये मध्ये गुलिकाकारेण
संनिविष्टजाम्बूनदस्य प्रभया । महार्घाणां रत्नानां च प्रोतानां
रश्मिभिः शाबल्येन प्रकर्षादुज्ज्वलद्भिः, अनेन कनकवर्णत्वात्
फणामणिघृणिपटलभासुरत्वाच्च वासुकिभोगस्य साम्यसाम्राज्यं
प्रतिपाद्यते । उल्लसद्भिः, ऊर्ध्वं प्रसरद्भिः । कल्याणदात्री
स्मरणादिभिरभ्युदयनिःश्रेयससाधिका । कम्ररूपा विविध-
शिल्पकल्पनात् शोभनसंनिवेशा । मम मतिं बुद्धिम् । अनिशं
सर्वदा । कल्यां संशयविपर्ययनिरसनेन भगवत्स्वरूपतत्त्वज्ञाने
दक्षां करोतु, 'सर्वेषामेव लाभानां प्रज्ञालाभः परः स्मृतः '
इति, 'न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं यं रक्षितु-
मिच्छन्ति बुद्ध्या संयोजयन्ति तम्' इति च महाभारतोक्तेः ।
बुद्धिलाभस्य सर्वलाभेभ्यो विशिष्टत्वात् तस्य च भगवत्प्रसाद-
जन्यत्वादिति भावः । प्रार्थने लोट् । दृष्टान्तोऽत्रालंकारः ॥</p>
<pb n="67" />
<p>अथ 'नभःस्थलं नाभिसरो गृणन्ति' इत्युक्तं भगवतो
नाभिदेशमुपास्ते-</p>
<lg>
  <l>उन्नम्रं कम्रमुञ्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः</l>
  <l>पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।</l>
  <l>यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या</l>
  <l>नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥</l>
</lg>
<p>उन्नम्रम् उत्तुङ्गस्वभावम् । कम्रमुच्चैः अतिशयेन सुन्दरं
पद्मान्तरेषु तादृशशोभाभावात् । उपचितं समन्तात् परिवृतं
समृद्धं वा । पत्रैः दलैः । विचित्रै : नानारूपैः सप्तद्वीपनवखण्डा-
दिभेदविशिष्टत्वात् । पूर्वम् आदौ भवम् गीर्वाणपूज्यं देवैरर्चनी -
यम् । तत्र हेतुः कमलजमधुपस्य ब्रह्मरूपस्य भ्रमरस्य भगव-
त्स्वरूपानुभवरूपपरमरसास्वादनशीलस्य च । विष्णोः पदे परे ।
आस्पदम् आधारभूतम् । कमलजेत्याद्यास्पदमिति तत एव
जातत्वं तदाधारत्वं च आह । अत एव सकलजगत्स्रष्टुरुत्पत्ति-
स्थानत्वात् गीर्वाणानामपि पूज्यमिति भावः । पयोजत्वान्मधु-
परूपणं तत्र स्थितो ब्रह्मा भगवदनुभवानन्दरूपमकरन्दमास्वा-
दयतीति द्योतयितुं मधुपेत्युक्ति: । 'विष्णोः पदे परमे मध्व
उत्स: ' इति श्रुतेः । आतोऽनुपसर्गे कः । तदभिश्रुतिमूलस्मृ</p>
<pb n="68" />
<p>तिप्रसिद्धिं प्रकाशयति । तां च अनन्तरश्लोके दर्शयिष्यामः ।
पयोजम् पद्मं यत्रोदभूत् यस्मिन्नुत्पन्नम् । नीलाश्मनीलै:
इन्द्रनीलरत्नवत् नीलवर्णैः । तरलरुचिजलै : चञ्चलैरुपर्युपरि
प्रवणताच्छील्यात् स्वभावरूपैः सलिलैः । जलस्य 'यच्छुक्लं
तदपाम्' इति श्रुतेः शुक्लवर्णस्वभावेऽपि कालिन्द्यादि-
जलवत् नैल्योक्तावपि नानुपपत्तिः । अपह्नुतनिम्नभावे नाली-
काक्षस्य नालीकं पद्ममिव अरुणायतविमलशीतमक्षि यस्य ।
नाभीसरसि नाभिरूपे तटाके चित्तहंसः 'मनस्तु संकल्पवि-
कल्पकारि बुद्धिस्तु संकल्पितनिश्चयात्मा । अहंकृतिर्नाम
स योऽभिमानश्चित्तं तु तद्यत्त्रयमप्यवैति' इत्याचार्यवच-
नात् चित्तशब्देनात्र मूलान्तःकरणमुच्यते । तद्रूपो हंस:
सदसद्विवेचनशीलत्वात् । केलिबुद्ध्या लीलेयमित्यभिप्रायेण
न तु यन्त्रणयेत्यर्थः । अनेन च 'या प्रीतिरविवे-
कानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृद-
'यान्मापसर्पतु' इत्युक्तरीत्या भोग्यविषयविरक्त्या साति-
शयभक्तिरसप्रार्थनां द्योतयति । चिराय वसतु सदा तिष्ठतु !
अनया च उक्तिभङ्ग्या धारणासिद्धिं प्रार्थयते । 'गच्छत-
स्तिष्ठन्तोऽन्यद्वा स्वेच्छया कर्म कुर्वतः । नापयाति यदा</p>
<lg>
  <l>चित्तात्सिद्धान्मन्येत तांस्तदा ' इति श्रीविष्णुपुराणवचनात् ।</l>
  <l>॥ समस्तवस्तुविषयं सावयवरूपकमलंकार: ॥ २३ ॥</l>
</lg>
<pb n="69" />
<p>अथ प्रसङ्गात्पुण्डरीकरूपं नाभिकमलमुपास्ते -</p>
<lg>
  <l>पातालं यस्य नालं वलयमपि दिशां पत्रपङ्क्तीर्नगेन्द्रा-</l>
  <l>न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।</l>
  <l>भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो</l>
  <l>नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरे: ॥</l>
</lg>
<p>पातालमिति अधोवर्तिनाम् अतलादीनां पातालान्तानां
सप्तानां लोकानामुपलक्षणम् । 'अतलं वितलं चैव नितलं च
गभस्तिमत् । महच्च सुतलं चान्यत्पातालं चैव सप्तमम्' इति
श्रीविष्णुपुराणवचनात् । यस्य नालीकस्य नालं दण्डम् अ-
धोवर्तित्वात् तद्गतानन्ताधारत्वाच्च नालत्वारोपः । दिशां
पूर्वादीनां वलयं कर्णिकां परितः स्थितं वर्तुलत्वेन प्रतिभास-
मानं संस्थानं प्रतिबद्धमध्यमिव दिग्वलयमिति माघोक्त-
वत् दिक्शब्देनात्र दिग्वर्तिनो देशा उच्यन्ते । पत्रपङ्क्ती:
दलावलीः ।    'भारताः केतुमालाश्च भद्राश्वाः कुरव-
स्तथा । पत्राणि लोकपद्मस्य मर्यादालोकबाह्यतः ' इति
वचनात् भारतभद्राश्वकेतुमालकुरुसंज्ञानि क्रमात् पूर्वदक्षि-
पश्चिमोत्तरवर्तीनि चत्वारि वर्षाणि पत्रत्वेन रूप्यन्ते । नगे-
न्द्रान् पर्वतश्रेष्ठान् केसराली: किञ्जल्कश्रेणी: 'वीथ्यालि</p>
<pb n="70" />
<p>रावलिः पङ्क्तिश्रेणीलेखास्तु राजयः' इत्यमरः । 'शीतान्तश्च
कुमुद्वांश्च कुररी माल्यवांस्तथा । वैकङ्कप्रमुखा मेरो: पूर्वतः
केसराचला: । त्रिकूट: शिखरश्चैव पतङ्गो रुचकस्तथा ।
निषधादयो दक्षिणतस्तस्य केसरपर्वताः । शिखिवासाः सवैडूर्यः
कपिलो गन्धमादनः । जारुधीप्रमुखास्तद्वत् पश्चिमे केसरा-
चलाः । शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापर: । काला-
ञ्जनाद्याश्च तथा उत्तरे केसराचला: ' इति वचनात् । वि-
पुलां विस्तीर्णां लक्षयोजनोन्नतत्वात् द्वात्रिंशद्योजनविस्तीर्ण-
शिखरत्वाच्च । कर्णिकां बीजकोशं स्वर्णशैलं कनकपर्वतं सुमे-
रुम्, भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थित : ' इति वच-
नात् । इह जगत्त्रये विद्वांसः दिव्येन चक्षुषा प्रत्यक्षीकृतभग-
वत्तत्त्वाः पराशरपाराशर्यादयः । विदुः जानन्ति । गायत्स्वयंभू-
मधुकरभवनं प्रशंसासामानि गायतो गीत्या प्रयुञ्जानस्य झङ्का-
रमुखस्य च स्वयंभूः ब्रह्मा तद्रूपस्य मधुकरस्य भृङ्गस्य
वासभूतं कमलजमधुपस्यास्पदमित्यनन्तरोक्तेऽपि पुनस्तद्भव-
नत्वोक्तिः पूर्वमकथितस्य भगवत्प्रसादनाय प्रयुज्यमानस्य
तत्कार्यस्य प्रकाशनार्थेति मन्तव्यम्, 'नाभिप्ररूढाम्बुरुहासनेन
संस्तूयमानः प्रथमेन धात्रा' इत्यादिवचनात् । स्वयंभूशब्देन
भगवत एव रजोगुणावलम्बनेन जगत्सर्गाय स्वयमेव स्रष्टृ-
रूपेण विवृत्तत्वं कमलजत्वोक्तिस्त्वौपचारिकीति च द्यो-</p>
<pb n="71" />
<p>त्यते । भूमयं पञ्चाशत्कोटिविस्तीर्णधरणीमण्डलात्मकं नालीकं
पद्मं नाभिपद्माकरभवं नाभिरूपे पद्मसरसि जातम्,
'यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभि-
ह्रदाम्बुजादासीत् ब्रह्मा विश्वसृजां पतिः । यस्यावयवसं-
स्थानैः कल्पितो लोकविस्तर: ' इति श्रीभागवतोक्तेः ।
यस्यावयवेति नाभिह्रदाम्बुजस्य परामर्श: ।' यदम्बु  वै-
ष्णवः कायस्ततो विप्र वसुंधरा । पद्माकारा समुत्पन्ना
पर्वताब्ध्यादिसंयुता' इति श्रीविष्णुपुराणवचनाच्च । उरु
विस्तीर्णं नागशय्यस्य नागः अनन्तः शय्या शयनं य-
स्य । शौरे: शूरनाम्नो यदुराजस्यापत्यभूतस्य । नाग-
शय्यस्य शौरेरित्यनयोक्त्या भगवान्नारायण एव साक्षा-
त्कृष्णरूपेण प्रादुर्भूतः । न तु कर्मपरतन्त्रतया देवक्यां
जात इति सूचयति । 'परब्रह्म नराकृति गूढं परं ब्रह्म मनु-
ष्यलिङ्गं कृष्णस्तु भगवान् स्वयम्' इत्यादिवचनैः । का-
मान् इष्टान् पुरुषार्थान् ददातीति कामदं भूयादित्याशी-
र्लिङ् । अत्र समस्तवस्तुविषयसावयवरूपकमलंकारः ॥ २४ ॥
अथावयवयोर्नाभिनलिनयोरवाचीनं क्रोडभागमुपास्ते-
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः
कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।</p>
<pb n="72" />
<p>अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे
तस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥
कल्पस्य चतुर्युगसहस्रात्मकस्य ब्रह्मदिनस्य आदौ प्रार-
म्भकाले प्राकृतप्रलयावसानकाले इत्यर्थः । यस्मात् प्रभवति
प्रादुर्भवति न तु येन क्रियत इति । अनेन 'निमित्तमात्र-
मेवासौ सृज्यानां स्वस्वकर्मणि । प्रधानकारणीभूतो........वै
सृज्यशक्तयः' इति 'यथर्तुष्वङ्ग लिङ्गानि नानारूपाणि पर्यये ।
वर्तन्ते तानि तान्येव तथा भावा युगादिषु' इत्यादिवचनैः
समर्थितं ब्रह्मणो निमित्तत्वमात्रं स्वत एव उत्पत्तिं च प्रकाश-
यति । महदादितत्त्वात्मना विवर्तते इत्यर्थ: । विकल्पै: विवि-
धाभिर्द्रव्यगुणकर्मादिकल्पनाभि: विततं व्याप्तं विश्वं जगत् ।
एतदित्यभिनयेन दृश्यत्वान्मिथ्यात्वं सूचयति, 'ततः प्रबुद्धो
रात्र्यन्ते पुनः सृष्टिं करोत्यज: ' इति वचनात् । कल्पान्ते परसं-
शस्य ब्रह्मायुषः ब्रह्मदिनस्यावसानकाले इत्यर्थः । अतश्च प्राकृत-
प्रलयोऽत्र कल्पान्तशब्देनाभिधीयते । न तु नैमित्तिकः सकलं
स्थावरं जङ्गमं चेत्यविशेषेण प्रतिपादनात् । कल्पान्तग्रहणेन
मध्यकालेऽस्थितमित्यर्थः सामर्थ्याल्लभ्यते, आद्यन्तयोरभावप्र-
तिपादनात् । शुक्तिरूप्यस्येव मध्यकालेऽप्यज्ञानाप्रतिभातत्वं च
प्रकाश्यते, 'आदावन्तेऽपि यन्नास्ति वर्तमानेऽपि तत्तथा '</p>
<pb n="73" />
<p>इत्याचार्यवचनात् । अन्तः अभ्यन्तरे प्रविशति तिरोभवति,
' एवं सप्त महाबुद्धे क्रमात् प्रकृतयः स्मृताः । प्रत्याहारेण
ताः सर्वाः प्रविशन्ति परस्परम्' इति पुराणवचनात् । चका-
रः सर्गसंहारयोरैकाधिकरण्यं द्योतयति । कदल्या: कदाचित्
स्वजाते: कदाचित् वेत्रमूलात् उत्पत्तेः । घटस्य कदाचित्
कपालेषु कदाचित् चूर्णेषु च नाशस्य दर्शनात् तथा नेत्यर्थः,
'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ' इत्यादिश्रुतिभ्यः । सकलं सर्वमेव ।
स्थावरं स्थितिः गतिनिवृत्तिः तच्छीलम् 'स्थेशभासपिसकसो-
वरच्' जङ्गमं भूयो गमनशीलम् । विश्वमिति विशेष्यनिर्देशः ।
'यस्माद्विश्वमुदेति' इत्यादिदर्शनात् । अत्यन्ताचिन्त्यमूर्तेः
सदसद्भिन्नाभिन्ननित्यानित्यादिरूपेण केनचिदपि प्रकारेणाचि-
न्त्या निर्वक्तुमशक्या मूर्तिः मायाख्योपाधिर्यस्य । ' कार्योपा-
धिरयं जीवः कारणोपाधिरीश्वरः' इत्याचार्यवचनात् । अथवा
भक्तानुग्रहमन्तरेण यत्परिग्रहस्य कारणान्तरं निरूपयितुं न शक्यं
सा मूर्ति: विग्रहो यस्येत्यर्थः, 'नाकारणात् कारणाद्वा कारणा-
कारणान्न च । शरीरग्रहणं व्यापि धर्मत्राणाय केवलम्' इति वच-
नात् । अन्तरिक्षस्वरूपे आकाशात्मनि 'आकाशमुदरं नाभिर-
श्मिः' इति सावित्रीहृदये । 'आवपनमाकाशः आकाशे हि
सर्वं समाप्यते' इत्यैतरेयोपनिषदि च आम्नानात् कार्यजातं</p>
<pb n="74" />
<p>व्याप्य वर्तमानत्वादाकाशत्वोक्ति: । क्रोडभागे उदरप्रदेशे,
' शय्याधूसरक्रोडरोमराजिषु' इति कादम्बरीप्रयोगात् । अत्र
क्रोडशब्देन मूलप्रकृतिर्भगवत उदरत्वेन उच्यते इति
गम्यते, तस्यामेव जगत्प्रभवप्रवेशोपपत्तेः । 'अहीन्द्रतल्पे
ऽधिशयान एकः कृतक्षणश्चात्मरतावहीनः । योऽन्तःश-
रीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयानः ' इति
'लोकानपीमान्ददृशे स्वदेहे ' इति भागवतोक्तेः । 'विपुलेन
सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये' इति
माघोक्तेः, 'दामोदरो निजोदरगह्वरनिक्षिप्तजगदण्ड : ' इति
वेणीसंहारोक्तेः क्रोडग्रहणम् । अन्त:करणम् अन्तः चक्षुरा-
दिभ्योऽभ्यन्तरसंकल्पविकल्पात्मकत्वाच्च करणमिन्द्रियं मन
इत्यर्थ: । अतिमुदा अतिशयितेन हर्षेण भक्तिरसामृतास्वादा-
च्चिरतरं क्रीडतात् । निर्विघ्नतया निरन्तरं विहरतु 'क्रीडृ
विहारे ' इति धातुः 'तुह्योस्तातङाशिष्यन्यतरस्याम्' इति
आशिषि लोट् । अत्र सूक्ष्मं स्वभावोक्तिर्वा अलंकारः ॥
पूर्व सात्त्विकरूपेणोपास्य इदानीं विग्रहावयवत्वेन उदर-
मेवोपास्ते -
कान्त्यम्भः पूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे
गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे ।</p>
<pb n="75" />
<p>क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये
कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
कान्तिः प्रभा तद्रूपस्य जलस्य प्रवाहेण निर्भरे । लस-
दसितवलीभङ्गभास्वत्तरङ्गे स्फुरन्तो नीलवर्णाश्च ये वली-
भङ्गा रेखाविभागाः वलित्रयमित्यर्थः । त एव भास्वन्तः
शोभमानाः कल्लोला यस्मिन् । गम्भीराकारा निम्नस्वरूपा
नाभ्येव चतुरतर: अतिसुन्दर: महांश्चावर्तः जलभ्रम : तेन
शोभितुं शीलमस्य । उदारे आयामविस्ताराभ्यामनवद्ये ।
उदरनहनम् उदरबन्धनम् 'केयूरोदरबन्धहार' इति मुकुन्द -
मालोक्तेः । तस्य महः तेजः तद्रूपया बाडबाग्निप्रभया
बडबामुखानलज्वालया आढ्ये समृद्धे । काममवधारणे
क्रीडत्वेवेत्यर्थः । दामोदरीयोदरसलिलनिधौ दामोदरो
भगवान् विष्णुः, तत्संबन्धिन्युदररूपे समुद्रे, 'वृद्धाच्छः
इति छ: । चित्तमत्स्य: चित्तरूपो मीन:, मत्स्यत्वारोपेणै-
तदाह — यथा जलात् पृथग्भूतो मत्स्यः परां वेदनामनु-
भवति तद्वदिदं चित्तमपि भगवद्विग्रहाद्विनाकृतं यथा संतप्यते</p>
<lg>
  <l>तत्संनियोगे च निर्वृतं भवति तथा तस्मिन् रमतामिति ।</l>
  <l>अत्र समस्तवस्तुविषयकं सावयवरूपकमलंकारः ॥ २६ ॥</l>
</lg>
<p>अथान्तरिक्षस्वरूपस्योदरस्य मेघमाला त्वेनोपास्याम्, अथ-</p>
<pb n="76" />
<p>वा 'नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहाः' इत्युक्त-
रीत्या रोमराजीमुपास्ते -</p>
<lg>
  <l>नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां</l>
  <l>माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।</l>
  <l>रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-</l>
  <l>श्चित्तस्था मा विरंसीञ्चिरतरमुचितां साधयन्ती श्रियं नः ॥</l>
</lg>
<p>नाभीपद्मस्याधोभागात् वक्त्रपद्मोन्मुखी यान्ती मुखकमलं
लक्ष्यीकृत्य गच्छन्ती । अलीनां भृङ्गाणां । अलिशब्द इका-
रान्तो नकारान्तश्च दृश्यते, 'चूतनालिरलिनामतिरागात् '
इति 'मंक्षूदपाति परितः पटलैरलीनाम्' इति च माघप्रयो-
गात् । नीला माला श्रेणीव याने हेतुः । अधिकपरिमलोन्मो-
हितानां नाभीनलिनपरिमलादधिकेन वक्त्रपद्मपरिमलेन पर-
वशीकृतानामिति । रुचिमती प्रीतिशालिनी । स्फुरति भासते ।
रम्या अन्यूनानतिरिक्ततया स्निग्धनीलबहुलतया च हृदयं-
गमा मध्यभागस्य उदरप्रदेशस्य महितरुचिकरी सहृदयश्ला-
घ्यायाः शोभायाः हेतु: । 'कृञो हेतुताच्छील्यानुलोम्येषु'
इति हेतुत्वे टः । उचितां श्रियं साधयन्ती अधिकारविशेषव-
शात् तत्तद्योग्यां बुभुक्षोरुपासकस्य भुक्तिरूपां मुमुक्षोर्मुक्ति-</p>
<pb n="77" />
<p>रूपाम् उभयाभिलाषिणश्चोभयरूपामित्यर्थः । संपदं पोषय-
न्ती । चित्तस्था मनसि धारणया संनिहिता सती चिरं मा</p>
<lg>
  <l>विरंसीत् अर्थात् चित्तावस्थितेर्विरता मा भूदित्यर्थः ।</l>
  <l>अत्रोत्प्रेक्षालंकारः ॥ २७ ॥</l>
</lg>
<p>अथ 'उरः स्थलं ज्योतिरनीकमध्ये ' इति वचनात्
स्वर्लोकत्वेनोपास्यं वक्षःस्थलं क्रमप्राप्तमुपास्ते–</p>
<lg>
  <l>संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं</l>
  <l>श्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्रुजान्तम् ।</l>
  <l>वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणे:</l>
  <l>संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥२८॥</l>
</lg>
<p>संस्तीर्णम् आच्छादितम् । कौस्तुभांशुप्रसरकिसलयैः अमृ
तमथनसमये क्षीरसागरादुद्भूतः माणिक्यविशेषः कौस्तुभं
तस्यांशुप्रसराः प्रसृताः किरणा: प्रसरशब्द: सामीप्यात् द्रव्यं
लक्षयति 'दन्तच्छदकान्तिं कपोल:' इत्यादिवत् । त एव
किसलयानि अरुणकोमलबहुलप्रभतया पल्लवानि तैः । तत्स-
दृशैः किसलयैश्च । मुग्धमुक्ताफलाढ्यं शोभनैर्मुक्ताफलैर्मौक्ति-
करत्नैः सामर्थ्याद्धारयष्ट्याकारेण स्थितैः तत्सदृशैः उज्ज्व-</p>
<pb n="78" />
<p>मङ्गलदेवताया वासेन सदा संनिधानेन शोभया व्याप्त्या
च शोभितुं शीलं यस्य । फुल्लप्रतिनववनमालाङ्कि फुल्लया
विकसितया प्रतिनवया नित्यमम्लानत्वात् नूतनया वनमालया
अञ्चित इति भागवतोक्तेः । पुष्पितस्य बालतरुवनस्य मालया
रेखया चिह्नितं च समुदायिनः उपवनस्याप्यवयवत्वेन चम्पक-
बकुलचन्दनादिवीथीविशिष्टत्वात् । राजद्भुजान्तं शोभमानः
बाह्वोरन्तः मूलप्रदेशः यस्मिन् वक्षःसंबन्धित्वात् भुजान्तस्य, रा-
जन्तः भुजाः भूर्जवृक्षा अन्ते समीपे यस्य च । श्रीवृक्षकान्तं
श्रीवत्सेन सुन्दरम् । अश्वत्थैः पिप्पलैर्वा शोभितं च 'भूजा
भूर्जे ' इति 'श्रीवृक्षः पिप्पलोऽश्वत्थ : ' इति च वैजयन्ती ।
'श्रीवृक्षो मालूरश्रीफलावपि ' इत्यमरः । मधुकरनिकरश्या-
मलं भ्रमरमालावन्नीलवर्णम् । भ्रमरैः श्यामलं च । संसारा-
ध्वश्रमार्तैः अनादिसिद्धे संसारमार्गे अनवरतं भ्रमेण खिन्नैः,
आध्यात्मिकादितापत्रयपीडितैरित्यर्थः । अनेन 'अनेकज-
न्मसाह्रस्रीं संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासना-
रेणुकुण्ठितः' इति श्रीविष्णुपुराणोक्तमनुसंधत्ते । संसारार्थेन
मार्गगमनेन यः श्रमः तेनार्तेश्च । उपवनम् आरामः कृत्रि-
मभवनतया छायादिभिः सपदि श्रमशमनापादनात् तद्ग्रहणम् ।
सेवितम् आश्रितम्, श्रमहरणायेत्यर्थः, 'एवं संसारदुःखा-
र्ततापतापितचेतसाम् । विमुक्तिपादपच्छायामृते कुत्र सुखं</p>
<pb n="79" />
<p>नृणाम्' इति, 'निरस्तानुशयाह्लादिसुखभावैकलक्षणा । भेषजं
भगवद्भक्तिरेका त्वात्यन्तकी मता' इति च श्रीविष्णुपुराणव-
चनात् । प्रपद्ये इदमेवास्माकं सर्वस्वं नान्यत् किंचिदिति
बुद्ध्या प्राप्नोमि । अत्र श्लेषोऽलंकारः । समासद्वयाश्रये -
ण विशेषसाम्यप्रतिपादनात् उपमानोपमेययोर्द्वयोरुपादानाच्च
उभयश्लेषश्चायं भङ्गाभङ्गवत्वेन शब्दार्थश्लेषयोर्विद्यमान-
त्वात् ॥ २८ ॥
'हृदयं पर्जन्य: ' इति सावित्रीहृदयोक्तरीत्या समस्ताभीष्ट-
वर्षणात् पर्जन्यत्वेन वा 'अव्यक्तमाहुर्हृदयं मनस्तु स चन्द्रमा: '
इति भागवतोक्तरीत्या सकलजगदुपादानत्वात् अव्यक्तरूप-
त्वेन वा भगवतो वक्षःस्थलमुपास्य इदानीं तल्लक्ष्मभूतं श्रीव
त्समुपास्ते-</p>
<lg>
  <l>कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-</l>
  <l>रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः ।</l>
  <l>श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानैः</l>
  <l>श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥</l>
</lg>
<p>श्रीपतेः वक्षः नितान्तम् अतिशयेन कान्तं शोभमानं
विदधत् कुर्वाण: स्वत एव कान्तत्वात् नितान्तग्रहणम् ।</p>
<pb n="80" />
<p>तत्रोपमानमाह — कालशत्रो: चिरादिप्रत्ययासाधारणकारणस्य
सकलजगद्ग्रसान्यूनस्य तत्त्वविशेषस्य शत्रुः परिपन्थी तद्विर-
हात् यः तस्य । अथवा अन्तकस्य भक्तानुग्रहार्थं दमनं कृत-
वतः त्र्यम्बकस्येत्यर्थः । गलं कण्ठम् । कालिमा नीलवर्ण इव
कालकूटकबलतः संभूत इति प्रसिद्ध्या लभ्यते अतश्च जगदु-
ज्जीवननिमित्ततया कान्तत्वकरणम् । इन्दो: चन्द्रस्य बिम्बं
मण्डलम् अङ्कः कलङ्को यथा । तस्यापि कारुण्यकृतशशत्राणमू-
लत्वात् 'सिंहिकासुतसंत्रस्त: शश: शीतांशुमाश्रितः' इति
'अङ्काधिरोपितमृगश्चन्द्रमाः शशलाञ्छनः' इत्यादिवचनैः,
'मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति' इति शाकुन्तलो-
क्तेश्च । मधुपः भ्रमर इव तरोरित्यर्थान्तरसंक्रमितवाच्येन
ध्वनिना सहृदयसदसि वृक्षत्वव्यपदेशयोग्यस्य पारिजातादे-
रिति द्योत्यते । मञ्जरीं कुसुममल्लिकाम् । कान्तामिति लिङ्ग-
विपरिणामः । तस्यापि बहुलमधुरसपरिमलभरसूचकत्वात् प-
रभागजनकत्वं तु सर्वत्र स्फुटमेव । श्रीमान् स्वयं निरतिशय-
शोभाविशिष्टः । आहार्यशोभाप्यस्यास्तीत्याह कौस्तुभश्रीप्रतानैः
कौस्तुभस्य श्रीः प्रभा तस्याः प्रतानैः विस्तारैः अविरलमि-
लितः निरन्तरं घटितः सदा समीपवर्तित्वात् । श्रीवत्सः
उत्तमलक्षणभूतो रोमावर्तविशेषः 'श्रीवत्सेनोरसि श्रीमान्
रोमावर्तेन राजते ' इति श्रीहरिवंशोक्तेः । श्रियः कमलायाः</p>
<pb n="81" />
<p>वत्सः पुत्र इव दयितः स्नेहभूमि: 'दक्षिणस्तनाद्धर्म: '
इति भागवतोक्तेः दक्षिणस्तनसमीपवर्तित्वात् श्रीवत्सस्य त-
त्स्थानवासनाच्च श्रिय इति भावः । नित्यम् उच्चैः श्रियं सर्वदा
निरतिशयां संपदं भगवदनुभूतिलक्षणां विधेयात् कुर्यात् इत्या-
शीर्लिङ् । अत्र श्री - शब्दस्य बहुश आवृत्तावपि न कथितपद-
त्वदोषप्रसङ्गः । संबन्धिभेदादर्थभेदस्य दर्शितत्वात् लाटानुप्रा-
सत्वेन चमत्कारकारितेन 'द्विपानामिव पुण्डरीको राज्ञाम-
जय्योऽजनि पुण्डरीक: ' 'शान्ते पिताहृतपुण्डरीकोऽयम् '
'पुण्डरीकाक्षमिवाश्रिता श्रीः' इत्यादि महाकविप्रयोगात् ।
अत्र च श्रीपतेः संबन्धी श्रीवत्सनामा स्वयं श्रीमान् कौस्तु-
भश्रीप्रतानैराप्यायितः श्रियो दयितश्च तस्येत्यर्थः । सर्वतः
श्रीमयानामस्माकं श्रीविधाने कोऽतिभारः इति तात्पर्यात् ।
लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये हि तस्यानुवाद्यत्वेन च
कथितपदस्य गुणत्वकथनाच्च । अत्रोपमा उत्प्रेक्षा च अलं-
कारः ॥ २९ ॥
'श्रीवत्ससंस्थानधानेऽन्ते च समाश्रितम् । प्रधानं बुद्धिरध्यास्ते
गदारूपेण माधवम्' इति वचनात् प्रधानतत्त्वात्मकश्रीवत्समु-
पास्य, इदानीम् 'आत्मानमस्य च जगतो निर्लेपं गुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः' इति वचनात्
आत्मतत्त्वात्मना अनुसंधेयं कौस्तुभमणिराजमुपास्ते-</p>
<pb n="82" />
<p>संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते
नीले नारायणोर:स्थलगगनतले हारतारोपसेव्ये ।
आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-
स्याश्चर्यस्याकरोनोद्युमणिरिवमणिःकौस्तुभः सोऽस्तुभूत्यै।
संभूय जनित्वा अम्भोधिमध्यात् समुद्रगर्भात् । सपदीत्य-
चिन्त्याविर्भावं द्योतयति । सहजया, तस्या अप्यमृतमथन-
काले स्वेन सह जातत्वात् सोदर्यत्वम् । सदा श्रिया मङ्गल-
देवतया सहेत्यायाति । संनिधत्ते सदा अवतिष्ठते । नीले
असितवर्णे हारतारोपसेव्ये ताराभिर्नक्षत्रैरिव मुक्तावलीभिराश्र-
यणीये । नारायणोर:स्थलगगनतले शेषशायिनो विपुलाय-
तत्वादाकाशतुल्ये वक्षसि । आशाः दिश: । प्रकाशा:
प्रकर्षेण व्यक्तरूपाः, प्रकाशशब्दो धर्मिणि धर्मे च वर्तते ।
'श्रुतप्रकाशं यशसा प्रकाश: ' इति 'तिमिरनिकरमुद्य-
न्नैन्दवः प्राक् प्रकाश: ' इति च प्रयोगात् । विदधत्
कुर्वन् । अपिदधत् तिरस्कुर्वन् । आत्मभासा स्वस्य तेजसा
अन्यतेजांसि आदित्यादिप्रभाः । आश्चर्यस्य विस्मयजननस्य
कर्मण: अमृतवर्षणादे: । आकर: उत्पत्तिस्थानम् । 'किं
नाम्नो वा पितुरयममृतवर्षी कौस्तुभमणिरिव हरेर्हृदयमा-
ह्लादयति' इति हर्षोक्तेः । कौस्तुभः तदाख्यया ख्यातः ।</p>
<pb n="83" />
<p>मणि: माणिक्यम् । भूत्यै समृद्ध्यै । अस्तु भवतु इति
प्रार्थने लोट् । मणिः दिवसस्य दीपो वा प्रकाशकत्वात्
आदित्यः स इव । सोऽपि समुद्रात् संभूय सहजया तुल्य-
कालमाविर्भवन्त्या लक्ष्म्या श्रिया उदयरागशोभया ना-
रायणोर:स्थलतुलिते गगनतले हारसदृशतारोपसेव्ये संनिध-
त्ते । अन्यतेजांसि चन्द्रादिप्रकाशान् आश्चर्यस्य चिन्तनीयस्य
कोष्णवारिवृष्टिकर्मणः आकर: द्युमणिरिवेत्यर्थः । आत्मरूपे
ऽभ्युपास्ये तदनुगुणतया अस्यार्थो योज्यते । संसारसागरग-
र्भात् सोपाधित्वेन प्रादुर्भूय नित्यसिद्धया सत्यज्ञानानन्द-
स्वरूपया संपदा सह कदाचिदप्यविरहित एवेत्यर्थ: । 'स्व
भावोऽन्यविपर्ययः' इत्युक्तस्वरूपस्यानपायात् कर्तृत्वादेश्चा-
ध्यस्तत्वात् । सपदि अचिन्तनीयमित्यनिर्वचनीयमायावशात्,
न तु कर्मपारतन्त्र्यादिति व्यज्यते । नीले पुण्यपापाभ्यां मलिने
अथवा रलयोरभेदात् नीरे जले इति व्यधिकरणसप्तमी ।
उरःस्थलशब्देन उदरं लक्ष्यते, 'आकाशमुदरम्' इति श्रुतेः
भगवदुदरभूते नभसि ब्रह्माण्डभाण्डगर्ते इत्यर्थः । हारतानां
सततदुःखभाजनतया हेति विपादद्योतके शब्दे रतानां वैषयि-
कसुखस्याभिमानिकत्वात् दुःखस्यैव स्वभावत्वात् हारतत्वो-
क्ति: । आरोपेण अहमाद्यध्यासेन सेव्ये व्यवहारगोचरीभूते
'मिथ्याज्ञानानिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेद-</p>
<pb n="84" />
<p>मिति नैसर्गिकोऽयं लोकव्यवहार:' इत्याचार्यवचनात् ।
संनिधत्ते इति चैतन्यात्मना स्फुरति न तु जायते 'न
जायते म्रियते वा कदाचित्' इति श्रुत्या षण्णां भाववि-
काराणां प्रतिषिध्यमानत्वादिति द्योत्यते संनिधिः सत्तामा-
त्रेण भ्रामको वा मनश्चक्षुरादिप्रेरक इत्यर्थः । आशाशब्देन
संकल्पादिमनोवृत्तय उपलक्ष्यन्ते आशाया रागविशेषात्मक-
त्वात् तन्मूलत्वाच्च द्वेषादीनाम् आत्मभास्वररूपभूतेन चैतन्येन
प्रकाशा विषयीकृता 'विदधुः स हरये बुद्धिसाक्षिणे नतो
स्मृते सर्वधीसाक्षिभूतम्' इत्याचार्यवचनात् । सर्वथा इति
क्रमदर्शनान्यथादर्शनादर्शनानामात्मन्यसंभवः प्रकाश्यते 'न
हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते' इति 'नमतेर्मन्तारं मन्वीथा '
इत्यादिश्रुतिवचनैः 'क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भा-
रत' इति भगवद्वचनात् । 'अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा' इत्याद्याचार्यवचनाच्च।
अन्यतेजांसि सूर्यादिप्रकाशान् अपिदधत् अध:कुर्वन्, आ-
त्मभासेत्यत्रापि संबध्यते । तेषामपि तदधीनप्रकाशत्वात्
'तस्य भासा सर्वमिदं विभाति' इत्यादिश्रुतिभ्यः । आश्च-
र्यस्य अद्भुतस्य बुद्धे: आस्पदीभूतः अनुभवसमये अनवय-
गत्वप्रतीते: आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति ते-
गोऽन्तराणि तिरस्करोति च तथायमपीत्युक्तमर्थं दृष्टान्तेन</p>
<pb n="85" />
<p>द्रढयति । य एवंभूतः स आत्मा कौस्तुभो मणिः उपास-
नाय भक्तानां कौस्तुभः सन् परमेश्वरे स्वातिरिक्तो वर्त-
मानः अस्माकं भूत्यै भवत्वित्यर्थः । अत्रार्थश्लेषोऽलंकारः,
सूक्ष्मश्च ॥ ३० ॥
इत्थं मणिराजमुपास्य इदानीं महाभूतपञ्चकस्वरूपां मा-
लामुपास्ते -</p>
<lg>
  <l>या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना</l>
  <l>साकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।</l>
  <l>सारं सारङ्गसङ्घैर्मुखरितकुसुमा मेचकान्ता च कान्ता</l>
  <l>माला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥</l>
</lg>
<p>या वायौ मारुते आनुकूल्यात् मनोगुणत्वेन दिव्यस्पर्श-
गन्धविशिष्टतया प्रशस्तदिग्भागप्रवृत्तैश्च सरति वीजमाने म
णिरुचा भूषणरत्नप्रभया साकं सह तस्या अपि नानावर्ण-
त्वात् बहुलकुसुमारचितत्वाच्च तया तुल्यमित्यर्थः । साकम्पम्
आकम्पेन ईषच्चलनेन सहितम् यथा तथा । अंसे स्कन्ध-
देशे या वसति सदा वर्तते इति संबन्ध: । भासमाना
दिव्यवर्णपञ्चकयुक्ततया दीप्यमाना असमाना समानं सदृशं
वस्तु मालान्तरम् अर्थान्न विद्यते यस्याः । अथवा मानेन</p>
<pb n="86" />
<p>'मत्तः कोऽन्यो मान्यः' इत्यभिमानेन सहिता । तत्र हेतुः
वासुभद्रं वसति वासयतीति वासुः औणादिक उप्रत्ययः ।
साधनात् साधुरितिवत् । ' प्रत्ययतः प्रकृतेश्च तदूह्यम्' इति
वचनात् । भद्रः कल्याण: , निरतिशयज्ञानशक्त्यादिकल्या-
णगुणसागरत्वात् । 'वसनात् देवनाच्चैव वासुदेवं ततो
विदुः' इति मोक्षधर्मे 'भूतेषु वसते सोऽन्तर्वसन्त्यत्र च
तानि यत् । धाता विधाता जगतां वासुदेवस्ततः स्मृतः'
इति श्रीविष्णुपुराणे च पृथक्पदावयवस्य निरुक्तत्वात् ।
अथवा सुशब्देन स्थितिकर्तृत्वभङ्ग्या प्रतिपादनात् भद्राश-
ब्देन सृष्टिकर्तृत्वं संहर्तृत्वं च प्रकाश्यते । तथा हि
'भूभृञोर्भ छन्दसि ' इति सूत्रात् 'संहर्तेति तथाहर्ता हका-
रार्थद्वयान्वितः' इति पुराणवचनाच्च भकारेण संहर्ता स्रष्टे-
त्युच्यते । द्रशब्देन द्रावयति विलापयतीति संहर्ता रो-
दयति द्रावयतीति यथा द्रः तमित्यर्थः । सुभद्रं सुष्ठु सु-
खितम् । विदधती दिव्यस्पर्शरूपरससौरभ्यसंपन्नत्वात् ।
'भद्र कल्याणे सुखे च' इति धात्वर्थानुसरणात् । सा
कम्पमंसे वसतीति स्पर्शः सूचितः । सेति यच्छब्द-
प्रतियोगी तच्छन्दः सूचितः । अरं शीघ्रम् ' लघु क्षिप्रमरं
द्रुतम्' इत्यमरः । सुखैर्योजयन्तीत्युपरि संबन्धः । अथ-
वा रलयोरविशेषादलं पर्याप्तमिति मुखरणक्रियाविशेषणम् । 'सा-</p>
<pb n="87" />
<p>रङ्गः शबलो वर्णश्चातकः षट्पदो मृगः' इति वैजयन्ती ।
षट्पदानां समूहै: । बहुवचनात् उपर्युपरि परिमलपरिमो-
हितानामनास्वादितपूर्वममृतरसनिन्दकं मकरन्दनिष्यन्दमभि-
नन्दतां भ्रमराणां वृन्दसमापतनं द्योत्यते । मुखरितकुसुमा
वाचालितानि पुष्पाण्यङ्गभूतानि यस्याः । मेचकान्ता च
श्यामलपरिसरा चकार: सारङ्गसङ्घैरित्यनुकर्षणार्थः । कान्ता
अत एव परभागलाभेन रमणीयतरा । आभ्यां विशेषणा-
भ्यां शब्दरसगन्धरूपातिशयः प्रकाशितो वेदितव्यः । माला-
लिता मया लक्ष्म्या पुत्रवत्संभाविता हरिपरिरम्भसंरम्भेष्वपि
सदयं परिपाल्यमानेत्यर्थः । 'इन्दिरा लोकमाता मा' इ-
त्यमरः । जयन्ती देव्याः श्रियः देवस्य श्रीपतेश्च निरति-
शयस्नेहभाजनत्वजनकैः सुकृतैः सर्वं जगदभिभूय वर्त-
माना माला वैजयन्त्याख्या स्रक् ' पञ्चरूपा तु या
माला वैजयन्ती गदाभृतः । सा   भूता   नेतृसंघाता
भूतमाला च वै द्विज' इति श्रीविष्णुपुराणवचनात् ।
सुखैरिति बहुवचनेन ऐहिकैर्मोक्षसुखपर्यन्तैरिति द्योतयति ।
योजयन्ती श्लेषयन्ती सती । न विरमतु अस्मात् व्या-
पारात् निवृत्ता माभूत् । अत्र पादाद्यन्तयमकं शब्दालं-
कारः । व्यापकप्रथमपादे त्वर्थालंकारः स सहोक्तिरेकवाच-
कानुप्रवेशेन लक्षणेन संकरेण वर्तते साकम् इत्येकस्मिन्</p>
<pb n="88" />
<p>वाचके द्वयोरनुप्रवेशात् ॥ ३१ ॥
अथ भगवतो बाहुमूलमुपास्ते-</p>
<lg>
  <l>हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैः</l>
  <l>श्रीभिश्चाप्यङ्गदानांशबलितरुचि यनिष्कभाभिश्च भाति ।</l>
  <l>बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त-</l>
  <l>द्बन्धार्ति बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥</l>
</lg>
<p>हारस्य मुक्तावल्या: उरुप्रभाभि: विस्तीर्णाभिर्द्युतिभिः
प्रतिनवाया वनमालाया अंशुभिः किरणै: दिव्यतया तेजो-
मयत्वात् प्रांशुभि: आयताकारैः उत्सर्पिभिः प्रांशुभिरिव
अंशुजालैरिति, 'प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः'
इत्यादिप्रयोगात् । अङ्गदानां दोर्मूलभूषणानाम् 'केयूरमङ्गदं
भूषा दोर्मूले ' इति वैजयन्ती । श्रीभिः शोभाभिः निष्क-
भाभिः उरोभूषणद्युतिभिः 'निष्कोऽस्त्री हेम्नि दीनारे साष्ठे
कर्षशते पले । उरोविभूषणे' इति वैजयन्ती । शबलितरुचि
नानावर्णीकृतं स्वाभाविकं वर्णं तद्योजितमिति यावत् ।
यत् भाति केवलं प्रकाशमयते न दीप्यते न पुनरुपमोत्प्रे-
क्षादिविषय इत्यर्थः । बाहुल्येन अतिशयेनेति याचने
संबध्यते बाधने वा । बद्धाञ्जलिपुटं घटिताञ्जलिकु-</p>
<pb n="89" />
<p>ड्मलं यथा तथेति याचनक्रियाविशेषणम् । अभि-
याचामहे आभिमुख्येन प्रार्थयामहे इति सामान्येन
याचनसूचनम् । मध्ये वाक्यान्तरप्रवेशश्च दीनतातिशयद्यो-
तकः 'त्वामसि वच्मि पंतिअतं किण्णपम्मुसिमि' इत्यादि-
वत् । सूचितो याच्याविशेष: क इत्यत्राह बन्धार्तिमिति ।
पुण्यपापरूपकर्मनिगलबन्धनजनितां पीडाम् । बहुविहतिक-
रीम् बहोरनेकस्य पुरुषार्थस्य प्रतिबन्धहेतुम् । बाधतां विलो-
पयतु खण्डयत्वित्यर्थ: । बन्धुरं सुन्दरं बाहुमूलं भुजानां
साधारणं प्ररोहाधिष्ठानं स्कन्धदेश इत्यर्थ: । जात्येकवचन-
मिदम् बाहुमूलयोर्विद्यमानत्वात् । अत्र तद्गुणः स्वभावोक्ति-
श्चालंकारः ॥ ३२ ॥
मरुतो बाहुरिति सावित्रीहृदयोक्तेः बलाधिष्ठानतया मरु-
दूपं बाहुमूलमुपास्य इदानीम् 'इन्द्रादयो बाहव आहुरस्य '
इति वचनात् इन्द्रादिदेवतात्वेनोपास्यान् बाहूनेवोपास्ते--</p>
<lg>
  <l>विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः</l>
  <l>कर्तारो दुर्निरूपस्फुटगुरुयशसां कर्मणामद्भुतानाम् ।</l>
  <l>शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रं</l>
  <l>बिभ्राणा: शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥</l>
</lg>
<pb n="90" />
<p>विश्वस्य जगतस्त्राणे पालने एकस्मिन्नेव दीक्षा व्रतधा
रणं येषाम् । पूर्णकामस्य प्रयोजनान्तरानुद्देशेन धर्मसंस्था-
पनमेवापेक्षितमिति एकशब्देन द्योतयति । 'न मे पार्थास्ति
कर्तव्यं त्रिषु लोकेषु किंचन । अनवाप्तमवातव्यं वर्तते न च
कर्मणि', 'धर्मसंस्थापनार्थाय संभवामि युगे युगे' इत्यादि-
भगवद्वचनात् । तदुपायप्रयोगवैदग्ध्यमाह तदनुगुणगुणक्षत्र-
निर्माणदक्षाः । तदिति त्राणं परामृश्यते । तस्मिंस्त्राणे अनु-
गुणाः अनुकूला: गुणा: यस्य रजोऽधिकसत्त्वविशिष्टत्वात्
क्षत्रस्य क्षत्रियवर्गस्य ' स क्षत्रं नाम वर्ण: इति मुरारिप्र-
योगात् । निर्माणे सर्गे विदग्धा : 'ब्राह्मणोऽस्य मुखमासीत् ।
बाहू राजन्यः कृतः ' इति श्रुतेः । 'ब्राह्मणक्षत्रियविशां शू-
द्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः'
'शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वर-
भावश्च क्षात्रं कर्म स्वभावजम् ' इति भगवद्वचनात् । 'व
क्षसश्च रजोद्रिक्तास्तथान्या ब्राह्मणाभवन्' इति श्रीविष्णु-
पुराणवचनाच्च । तर्हि प्रयोजककर्तृत्वमेव न स्वयं कर्तृत्व-
माह - स्फुटगुरुयशसां स्फुटं सार्वलौकिकं गुरु अनल्पं यशः
कीर्तिर्येषु तत्र हेतुः अद्भुतानाम् अन्यैर्मनसाप्यचिन्त्यत्वात्
कर्मणां कार्याणां भूमण्डलोद्धरणदितिजभुजषण्डखण्डनादी-
नाम् ' उद्धृतासि वराहेण कृष्णेन शतबाहुना' इति मन्त्रव-</p>
<pb n="91" />
<p>र्णात् हिरण्यादिनिरसनप्रसिद्धेश्च । कर्तारः अनुष्ठातारः ।
तथापि दुर्निरूपाः कुतोऽयमेतेषामीदृशः प्रभाव इति चिन्त-
यितुमशक्या: अचिन्त्यशक्तित्वात् 'किमीह: किंकाय: स
खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादानं
इति च । अतर्क्यैश्वर्ये  त्वय्यनवसरदुःस्थो हतधियः कुतर्को-
ऽयं कांश्चिन्मुखरयति मोहाय जगतः' इति भट्टाचार्योक्त-
वत् । शार्ङ्गं धनुःश्रेष्ठं बाणं शरं जात्येकवचनम् । कृपाणं
खड्गं फलकं खेटम् । अरिगदे चक्रं गदां च । पद्मशङ्खौ
कमलं शङ्खं च । अत्राष्टसु गणितेषु दिव्यायुधेषु चक्रबाणकृ-
पाणपद्मानां दक्षिणत ऊर्ध्वभागमारभ्य धारणम् ; शङ्खशार्ङ्ग-
फलकगदानां तु वामत ऊर्ध्वादितो धारणं चेति क्रमो मन्त-
व्यः । अक्रमोक्तिस्तु भक्तिसंभ्रमद्योतिका । अत एत्र प्रक्रान्तस्य
गणनस्य परित्यागतः शस्त्रजालमित्युक्तम् । गणितव्यतिरिक्तं
शक्तिमुसलपरशुमुद्गरभिण्डिपालादीनां शस्त्राणाम् आयुधा-
नां समूहं बिभ्राणा धारयन्तः । तत्र हेतुः सहस्रम् अनेक
संख्योपलक्षणार्थमिदम्, सहस्रं बहव इति संख्येयविषय-
त्वात् । 'संख्याया द्योतने बहुता संख्येयेषु सदैकता' इति
वैजयन्ती । सहस्रमित्यनेन 'शान्तं पापम् हन्त सापराधा
वयम्, अनन्तदिव्यायुधधारिणामपरिगण्यानां भगवद्भुजानां
गणने प्रवृत्ताः' इति भयं व्यज्यते । 'अनेक दिव्याभरणं</p>
<pb n="92" />
<p>दिव्यानेकोद्यतायुधम्,' अनादिमध्यान्तमनन्तवीर्यमनन्त-
बाहुं शशिसूर्यनेत्रम्' इति श्रीगीतावचनात् । 'सहस्रास्यं
सहस्राक्षं सहस्रचरणं च यम् । सहस्रशिरसं देवं सहस्रकर-
मव्ययम् ' इति श्रीहरिवंशोक्तेश्च । मोहहानिम् अज्ञानस्य सम-
स्तानर्थबन्धोः उन्मूलनम्। सम्यग्ज्ञानमन्तरेण तन्निवृत्यनुप-
पत्तेर्विमुक्तिमातरं तत्त्वज्ञानं पोषयत्विति प्रार्थनायां लोट् ।
अत्र वीराद्भुतयोर्व्यक्तिः । अङ्गाङ्गिनोरभेदोपचारात् कर्तृत्वा
द्युक्तिः स्वभावोक्तिरलंकारः ॥
इत्थमिन्द्रादिदेवतारूपान् बाहूनुपास्य इदानीम् 'ग्रीवा
महः' इत्युक्तं महर्लोकत्वेनोपास्यं कण्ठनालमुपास्ते -</p>
<lg>
  <l>कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थैरुदारै-</l>
  <l>रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।</l>
  <l>कण्ठाश्लेषे रमाया: करवलयपदैर्मुद्रिते भद्ररूपे</l>
  <l>वैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥</l>
</lg>
<p>कण्ठाकल्पाः कण्ठभूषणानि हारादीनि तेभ्यः उद्गतैः
प्रवृत्तै: । कनकमयाभ्यां लसद्भयां कुण्डलाभ्यामुत्थैः उ-
स्थितैः । 'कल्पद्रुमोत्थैरवकीर्यं पुष्पैः' इतिवत् । उदारैः
अनल्पैः शोभनैर्वा । कौस्तुभस्याप्युरुभिः विस्तीर्णैः । उद्यो-</p>
<pb n="93" />
<p>तैरिति सर्वत्र संबध्यते । प्रकाशै: उपचितः समन्तादावृतः ।
चित्रवर्ण: निजं नीलिमानमपास्य शबलवर्णो भूतः । वि-
भाति विशेषेण शोभते । कण्ठाश्लेषे दृढतरकण्ठग्रहे । कण्ठा-
कल्पकण्ठाश्लेषशब्दौ आभरणविशेषालिङ्गनयोः रूढौ । अतो
न कथितपदवत्वदोषः । रमायाः करवलयपदैः पाणिसंनिहि-
तकङ्कणगाढीभावजनिताभिः रेखाभिः । वलयशब्देन गता-
र्थत्वेऽपि करग्रहणं तत्संनिधानबोधनार्थम् । असंनिधा-
नेऽपि वलयस्याविरोधात् । मुद्रिते चिह्निते कण्ठाश्ले-
षमुद्रित इत्यनेन प्रतिकण्ठाश्लेषं मौग्ध्यात् मुद्रितत्वम् ।
क्षणान्तरे मुद्रणस्य फलस्यासिद्धेश्च स्मरदुर्ललितस्य पल्लव-
कोमलवल्लभाजनस्य भुजवल्लीभिर्निर्दयविमर्देन यथेष्टमुच्छे-
षणादिति सोत्प्रासं वचनं तत्र हेतुः । भद्ररूपे जगन्मो-
हनसौन्दर्य इति । अतः कथमनङ्गसंकुलादङ्गनाजनादनेन
रक्ष्यतामिति भावः । अनेन शृङ्गाररससर्वस्वभृङ्गारत्वमस्य द्यो-
त्यते । विगतकुण्ठीभावे संततभजनजागरूकेषु सुकृतिजनेषु
इति वा विकुण्ठाख्याया मातुरपत्यमिति वा विकुण्ठ एवेति
स्वार्थे वा तद्धितप्रत्ययः वैकुण्ठः पुरुषोत्तमः । तत्संबन्धीनि
वैकुण्ठीये 'वृद्धाच्छ: ' इति छः । अत्रेति यच्छब्दप्रतियोगी
इदंशब्द: । 'सप्तम्यास्त्रल्' अस्मिन्नित्यर्थ: । कण्ठे ग्रीवाना-
ले । कुण्ठ: प्रतिहतस्य भावः कुण्ठशब्दश्च निशितारेष्वायु-</p>
<pb n="94" />
<p>धप्रतिहतेषु प्रयुज्यते । 'पूर्व तपोवीर्यमह:सु कुण्ठः,'आ- शस्त्रग्रहणादकुण्ठपरशो:' इत्यादिप्रयोगात् । स चात्र लक्ष-
णया मान्द्यमाह । तमोगुणोद्रेकजनितं मान्द्यं विहाय
त्यक्त्वा । मम मतिः बुद्धिः । वसतु गृहत्वेन तमभिमन्यता-
मिति प्रार्थने लोट् । अत्र तद्गुणालंकारः ॥ ३४ ॥
अथ 'वीडोत्तरोष्ठोऽधर एव लोमः इति तत्त्वेनोपास्यं
दन्तच्छदमुपास्ते–</p>
<lg>
  <l>पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभाग:</l>
  <l>काले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीण: ।</l>
  <l>वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभां</l>
  <l>श्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥</l>
</lg>
<p>पद्मायाः श्रियः निजरसामृतेन परमं सुखं प्रदातुं शीलं यस्य
पद्मानां कमलानां विकाससुखं च । परिलसदरुणश्रीपरीता-
ग्रभागः परिस्फुरन्त्या रक्तवर्णया परीतः प्राप्तः अग्रभागः
अर्थान्मुखस्य पुरोदेशो यस्य । अरुणस्य गरुडाग्रजस्य
रुचा परिवृताग्रदेशश्च, तस्य सारथित्वेन रथपुरोभागवर्ति-
त्वात् । काले काले यदा यदा दनुजसमरसंरम्भादिकार्यं
प्रसज्यते तदेत्यर्थः । चकार: पूर्वविशेषणसमुच्चयार्थः ।</p>
<pb n="95" />
<p>कम्बुप्रवरः शङ्खराज: पाञ्चजन्यः तद्रूपस्य शशधरस्य
प्रसन्नधवलमण्डलत्वात् आपूरणे मुखानिलेन ध्मापने प्रवीण:
समर्थ: कर्मणि कुशल इत्यादिवल्लाक्षणिक: प्रयोगः । अध-
रस्य पूरणकर्तृत्वोक्तिः तत्र निवेश्य पूर्यमाणत्वात् । 'स
उच्चकाशे धवलोदरो दरो ह्युरुक्रमस्याधरशोणशोणित: ' इति,
'ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः'
इत्यादिप्रयोगात् । यदा यदा क्षीयते तदा तदा कम्बुप्रवर-
सदृशस्य शशधरस्य स्वसंगृहीतेनामृतरसेन रजतकलशस्येव
क्षीरपूरेण पूरणाच्च । 'क्षीणं पीतं सुरैः सोममाप्याययति
दीप्तिमान्' इति श्रीविष्णुपुराणवचनात् । 'यस्मिन् सोमः
सुरपितृनरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति यतो
वर्धते चापि भूयः' इति साम्बोक्तेश्च । वक्त्राकाशान्त-
रस्थ: मुखविवरसमीपवर्ती अन्तरशब्दोऽत्र समीपं लक्ष-
यति । राज्ञोऽयमभ्यन्तर इतिवत् । वक्त्रशब्देनारम्भो
लक्ष्यते । मुखभूतस्याकाशस्य मध्ये स्थितः उदितमात्र
इत्यर्थः । उदयरागरूषितस्येवाधरसम्योक्तेः । दन्ततारौ-
घशोभां दशनत्वेन स्थितानां ताराणाम् 'दंष्ट्रा यमश्चोडुगणा
द्विजानि' इति भागवतवचनात् । दन्तानां ताराधवलानां वा
'आकाशमापूरिततारतारम्' इतिवत् । द्विरददन्तवलर्क्षणां
नक्षत्राणां कान्तिं च स्वारुण्योपरागात् तेषां धावल्यस्य त्या-</p>
<pb n="96" />
<p>जितत्वात् रश्मिभिरभिभूतत्वाच्च । नितरां तिरयति अत्यन्तं
क्लादयति यः असाविति तच्छब्दार्थमाह --श्रीभर्तुः विष्णोः
दन्तवासोद्युमणिः दन्तच्छदरूपः सूर्य: अघतमोनाशनाय
'दुःखैनोव्यसनेष्वघम्' इति वैजयन्ती । अत्रान्येऽप्यर्थास्तन्त्रे-
णोपात्ताः । एनसः पापस्य तत्कार्यस्य अकार्यनिबन्धनस्य
दुःखस्य तज्जन्यस्य निरययातनादेश्च तिमिरस्य निरसनं क-
र्तुम् । अस्तु प्रवर्तताम् । कृभ्वस्तीनां क्रियासामान्यवाचि-
त्वात् अत्र श्लेषनिबन्धनं रूपकमलंकारः ॥ ३५ ॥
'दंष्ट्रा यमश्चोडुगणा द्विजानि' इति वचनादुडुगणात्मनो-
पास्यां दन्तावलीमुपास्ते</p>
<lg>
  <l>नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या</l>
  <l>वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।</l>
  <l>लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-</l>
  <l>र्दन्ताली सन्ततं सा नतिनुतिनिरतानक्षतान्रक्षतान्न: ॥</l>
</lg>
<p>स्नेहातिरेकात् प्रणयातिशयात् निजकमितुः स्वविषये प्रेम-
शालिनः । 'अनुकाभिकाभीकः कमिता' इति सूत्रम् । अलम्
अतितराम् । विप्रयोगाक्षमा विरहं सोढुमशक्ता । वक्त्रेन्दोः
मुखरूपस्य चन्द्रस्य । अन्तराले औचित्यादुत्सङ्गे । नित्यं</p>
<pb n="97" />
<p>कृतवसतिः सदा वासं कुर्वाणा । नक्षत्रराजि: तारकाणां मा-
लेव या भाति, चन्द्रस्य तारापतित्वप्रसिद्धेः । कान्ताकृतिः
सुन्दरसंस्थाना, अन्यूनानतिरिक्तत्वात् । अतिविलसन्त्याः प्र-
भाबाहुल्यात् मुग्धायाः कोमलायाः मुक्तावल्या: हारलतायाः
श्री: शोभेव शोभा यस्याः क्रमावस्थितेः प्रसन्नधवलस्निग्ध-
वर्णतया च । दन्ताली दशनानामावलिः जात्येकवचनमि-
दम् । नतिनुतिनिरतान् प्रणामे स्तुतौ च निरतान् सक्तान् ।
अक्षतान् दुःखैरबाधितान् इत्यनुवादेऽपि विधिपर्यवसायी ।
'लोहितोष्णीषा ऋत्विजः प्रचरन्ति ' इतिवत् । रक्षणप्रका-
रकथनं चेदम् । इत्थंभूतान् कृत्वा रक्षत्वित्यर्थः । आशिषि
लोट् । अत्रोत्प्रेक्षालंकारः ॥ ३६ ॥
अथ 'छन्दांस्यनन्तस्य शिरो गृणन्ति' इति वचनात् छ-
न्दोमयीं भगवतो वाचं मुखप्रस्तावगतामुपास्ते -</p>
<lg>
  <l>ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां</l>
  <l>शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।</l>
  <l>इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-</l>
  <l>स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्रादयेन्मानसं नः ॥</l>
</lg>
<p>ब्रह्मन् हे स्रष्टः ब्रह्मणि सच्चिदानन्दैकरसे निष्कले परमा-</p>
<pb n="98" />
<p>त्मस्वरूपे । अजिह्माम् अकुटिलां यथार्थज्ञानेन विगतसंशय-
विपर्ययाम् । अथवा अन्तरायरूपालस्यादिरहिताम् । मतिं
बुद्धिं ध्यानरूपामित्यर्थः । सृष्टिशक्त्युद्बोधनायेति भावः, 'अ-
थाभिध्यायिनस्तस्य सत्याभिधायिनः' इति श्रीविष्णुपुराण-
वचनात् । अपिः प्रश्ने सानुनये । कुरुषे योजयसि ; कर्त्र-
भिप्रायक्रियाफलद्योतकमात्मनेपदम् । देव क्रीडाशीलेति
सोत्प्रासं वचनम् । पितृवनधरणीविचरणादिकं तव मम-
त्वबुद्धयो न जानन्ति । मादृशा एव तव प्रभावमा-
त्मारामत्वं निःस्पृहत्वं च प्रतियन्तीति भावः । तत्र हेतुः-
शंभो शं सुखं भक्तानामस्मात् भवति अयं वा भावयतीति
निरुक्त्या परमानन्दरूपमिति द्योतयति । 'हसन्ति यस्याच-
रितं हि दुर्भगा: स्वाभाविकस्याविदुषः समीहितम् । यैर्वस्त्र-
मालाभरणानुलेपनैः श्वभोजनं स्वादुतयोपलालितम्' इति
श्रीभागवतोक्तेः । अतस्त्वां संभावये इतरेभ्यो विशेषादा-
सनस्वागतादिना सत्करोमि । 'णिचश्च' इत्यात्मनेपदम् ।
शक्र हे देवेन्द्र अमरैः अग्न्यादिभिः सह त्रिलोकीं त्रया-
णां लोकानां समाहारः; 'अकारान्तोत्तरपदो द्विगुः स्त्रियां
भाष्यते' इति द्विगुसमासे स्त्रीत्वम् । अवसि किम् ?
किंशब्द: प्रश्ने । अहरहस्तदर्थमुद्यच्छसे किम् ? विरुद्धोपनि-
पातश्च न विद्यते ? इत्यर्थ: । अन्यथा तत् प्रतिकुर्महे</p>
<pb n="99" />
<p>इति भावः । नारदाद्याः नारदः आदिर्येषाम् : आदि- शब्द:
प्रकारवाची । तत्प्रकारविशिष्टाः सनकसनन्दनादयो मदात्म-
भूताः हे परमयोगिनः, वः सुखम् ,युष्माकं सदा सुखानु-
भूतिरेव । न लोकवत् तत्र प्रष्टव्यत्वं भवताम् । आत्माराम-
त्वान्निःस्पृहत्वाच्चेति भावः ; 'मद्भक्ता मद्गतप्राणा बोधयन्तः
परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च '
इति स्वोक्तेः । अत्र च अधिकारयोगात् ब्रह्मणोऽपि कुशल-
प्रश्नावकाश: । कर्तृत्वाभिमानिनां शक्रादीनां किं पुनः ।
नारदादीनां तु ब्रह्मभावनासक्तानां कृतकृत्यतया न तत्प्रश्नो-
पपत्तिरिति सूचितम् । 'सनकादयो वै ब्रह्मभावनायुताः ।
कर्मभावनया चान्ये देवाद्या: स्थावरावराः । हिरण्यग-
र्भादिषु च ब्रह्मकर्मात्मिका द्विधा । अधिकारबोधयुक्तेषु
विद्यते भावभावना' इति श्रीविष्णुपुराणवचनात् । इत्थम्
अनेन प्रकारेण आस्येन्दोरास्रवन्तीत्यन्वयः । सेवावनम्रम्
अनुवर्तनार्थं प्रवणम् । सुरमुनिनिकरं सुराणां ब्रह्मादीनां
मुनीनां च समाजम् प्रेक्ष्य प्रकर्षेण दृष्ट्वा । तत्र प्रसन्नस्येति
तेषां धर्मसंस्थापनस्वविभूतित्वादनुग्रहोन्मुखस्येत्यर्थः । आ-
स्येन्दोः मुखचन्द्रात् । आस्रवन्ती परितः प्रवर्तमाना ।
आस्येन्दुग्रहणेन 'वदनं वै जनोऽस्य' इत्युक्तेः जनोलोक
त्वेनोपास्यस्य श्रीमुखस्यैवोपासनमपि कृतं वेदितव्यम् । वर-</p>
<pb n="100" />
<p>वचनसुधा, सप्रसादस्य भगवद्वचनस्य निरतिशयतपःप्रार्थ्य-
त्वात् । 'देवाद्वृते वर: श्रेष्ठ: ' इत्यमरः । आस्ये चन्द्रत्वारो-
पात् वचने सुधात्वारोप: । ह्लादयेत् सुखयतु अत्र भाविकं
परंपरितरूपकं च अलंकारः ॥ ३७ ॥
अथ जनोलोकरूपमुखावयवभूतं गण्डमण्डलमुपास्ते-</p>
<lg>
  <l>कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-</l>
  <l>न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।</l>
  <l>प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे:</l>
  <l>गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥</l>
</lg>
<p>कर्णस्थयोः श्रवणपालीसंनिहितयोः स्वर्णकम्रयोः कनक-
मयत्वेन रम्ययोः अत एवोज्ज्वलयोः भासुरयो: मकरप-
त्राकारेण निर्मितयोः महतो: कर्णभूषणयो: ; 'विद्युत्क्षिपन्म-
करकुण्डलमण्डनार्हगण्डस्थल: ' इत्यादिपुराणोक्तेः । प्रोतानां
न्यस्तानां दीप्यतां द्योतमानानां माणिक्यानां पद्मरागरत्नानां
श्रीप्रतानैः प्रभाविस्तारैः । परिमिलितं संजातपरिमलं सच्छा-
यमिति यावत् ; 'सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्'
'न्यस्तं सिद्धाञ्जनपरिमलम्' इत्यादिप्रयोगात् । अलिश्या-
मलं भ्रमरवन्नीलवर्णम् । कोमलं मुग्धसंस्थानम् । प्रोद्यतः</p>
<pb n="101" />
<p>उदयमानस्य बालस्येति यावत् ; तदानीं मण्डलतया मणिसा-
म्यसिद्धेः ;सूर्यस्यांशुभिः किरणै: राजतः; तेषां तत्प्रतिफ-
लनेन स्फुरणात्; 'दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्यो-
तिषि रूप्यभित्तिषु पुरः प्रतिफलति मुहुः' इति माघो-
क्तवत् ; मरकतमुकुरस्य मरकतनिर्मितस्य दर्पणस्य य आका-
र: संस्थानं तस्यैव तस्करं हर्तृ; न तु शोभामात्रस्येति ;
अनेन साम्यसंपत्तिर्द्यौत्यते; प्रतिफलितत्वश्यामलत्वे साधारणौ
धर्मौ । गाढां महतीम् । आगामिनीम् उपर्यागन्तुमुन्मुखीम् ।
विपदं दुःखम् । शमयतु नाशयतु, सशरीरत्वस्वाभा-
व्यात् ;'न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिर-
स्ति ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः'
इति श्रुतेः । 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरा-
पाये तदनन्तरापायादपवर्ग: ' इति स्मृतेः सम्यग्ज्ञानदानेन
शरीरान्तरपरिग्रहमस्माकं निवारयत्वित्यर्थः प्रकाश्यते । गण्ड-
योः कपोलयोर्मण्डलं वृत्तं संस्थानम् । अत्र दृष्टान्तोऽलंकारः ।
माणिक्यश्रीगण्डमण्डलयोः सूर्यांशुमरकतमुकुरयोश्च बिम्बप्रति
बिम्बभावेन निर्देशात् ; निदर्शना च, आकारधारणस्य साम्ये
पर्यवसानात् ॥ ३८ ॥
अथ 'नासावश्विनौ ' इति सावित्रीहृदयोक्तेः 'नासत्य-
दसौ परमस्य नासे घ्राणं च गन्धः ' इति श्रीभागवतोक्तेश्च</p>
<pb n="102" />
<p>नासत्यत्वेनोपास्यौ नासापुटौ गन्धतन्मात्रत्वेनोपास्यं घ्राणं च
उपास्ते-</p>
<lg>
  <l>वक्त्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामं</l>
  <l>दृष्ट्वा दष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः ।</l>
  <l>घोण: शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारे:</l>
  <l>प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नःस्तात् ॥</l>
</lg>
<p>वक्त्राम्भोजे मुखकमले मुहु: लसन्तम् अनुक्षणं स्फुरन्तम्,
स्फुरणस्याधरगुणत्वात् ; 'कामप्यभिख्यां स्फुरितैरपुष्यदासन्न -
लावण्यफलोऽधरोष्ठ : ' इत्याद्युक्तेः । अधरमाणिं पक्वबि-
म्बाभिरामं परिणतबिम्बिकालताफलमिव स्निग्धारुणत्वात्
मध्ये स्थूलत्वात्, उभयतः क्रमप्रभूततनुत्वाच्च रमणीयम् ।
अत एव तत्फलवत् भ्रमजनकत्वं सिध्यति । तदा
तं दृष्ट्वा दष्टुं खण्डयितुम् अवतरतः, शुकानां बिम्बफ-
लप्रियत्वात् 'तरुणि येन तवाधरपाटलं दशति बिम्ब-
फलं शुकपोतकः' इत्याद्युक्तेः । शुकस्य ताम्रतुण्डस्य ।
स्फुटं तुण्डायते चञ्चुवदाचरति, वृत्तोत्तुङ्गताम्रतया च नील-
वर्णस्य भगवद्घ्राणदण्डस्य स कथमुपमानत्वमर्हति, इत्यत्राह -
श्रवणयुगलसत्कुण्डलोस्रैः कर्णपालीद्वये स्फुरतोः कुण्डलयोः,
तयोर्माणिक्यमयत्वेन पूर्वश्लोके प्रतिपादितत्वात् शोणवर्णै:</p>
<pb n="103" />
<p>किरणै: शोणीकृतात्मा अरुणीकृतमूर्तिः । घोण: नासा-
दण्डः । 'शिरोवदनवृत्ते दृक्शब्दश्रवणघोणगण्डोष्ठद्वयेषु
सशिरोमुखेषु च इति न्यसेन्मन्त्रवित्' इत्याद्यभियुक्तोक्तेः पुं-
लिङ्गतोपपद्यते । प्राणाख्यस्य नाभेरूर्ध्वं प्रवर्तनात् प्राणनाम्नः ।
अनिलस्य वायोरित्यनेन एकस्यैव वायोरूर्ध्वाधोगमनादिवृत्ति-
भेदात् प्राणापानादिव्यवहार इति व्यञ्जयति । प्रसरणसरणिः
प्रवृत्तिमार्गः उत्पत्तिस्थानमित्यर्थः । 'नासिके निरभिद्येतां
नासिकाभ्यां प्राणः प्राणाद्वायुः प्राणो भूत्वा नासिके प्रावि-
शत्' इति श्रुतेः, 'अनन्तवीर्यश्वसितं मातरिश्वा' इति
पुराणवचनाच्च । य इत्युक्ते स इत्यायाति । नः प्राणदानाय
जीवितं दातुम् । स्तात् भवतु । आशिषि लोट् । भगवद्भक्ते-
रेव जन्मफलत्वात् तदभावे श्वसच्छवत्वात् तद्दानमेव प्राण-
दानमिति भावः । 'तं सत्यमानन्दनिधिं भजेत नान्यत्र
सज्जेद्यत आत्मघातः' 'आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्न-
सौ । तस्यर्ते यः क्षणो नीत उत्तमश्लोकवार्तया' इत्यादिपुराण-
वचनात् । अत्र वक्त्राम्भोजे अधरमणिमिति च केवलं नियम-
रूपकम् । पक्वबिम्बाभिराममित्यत्र भ्रान्तिभ्रान्तं दृष्ट्वा तुण्डदण्ड
इवेत्युत्प्रेक्षा । क्यङोऽप्युपमा उत्प्रेक्षायां पर्यवस्यति । शोणी-
कृतात्मेत्यत्र तद्गुणः, स च भ्रान्तिमुत्थापयतीति अङ्गाङ्गिभा-
वेन संकरोऽलंकारः ॥ ३९ ॥
-</p>
<pb n="104" />
<p>अथ रवीन्दुरूपेणोपास्ये श्रीमल्लोचने उपास्ते-
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दू
त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।
अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे
पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ।
दिश: प्राच्याद्याः कालमहोरात्रादिम् । वेदयन्तौ स्वचा-
रेण ज्ञापयन्तौ ; स्वोदयास्तमयोपाधिजन्यत्वात् प्राच्यादि-
व्यवहारस्य । यथाह मुरारि: – 'औपाधिकप्राच्यादिव्यवहा-
रबीजविरहाद्दिङ्मात्रमेव स्थितम् –' इति । मूलत्वाच्च
अहोरात्रादिव्यवहारस्य, 'उदयास्तमयाभ्यां हि स्मृते पूर्वा-
परे दिशौ' इति, 'अहोरात्रव्यवस्थानकारणं भगवान् रवि : '
इति च श्रीविष्णुपुराणवचनात् । चन्द्रस्याप्युपलक्षणमेतत् । तत्र
हेतुः जगति मुहुः संचरन्तौ, लोके अनुक्षणमविश्रान्त्या
पर्यटन्तौ । वेदयन्तावित्यनेन दिक्कालापेक्षत्वात् वैदिकता-
न्त्रिककर्मानुष्ठानस्य तज्ज्ञानस्य च एतदधीनत्वात् आमुष्मि-
कसुखरूपपरमोपकारकर्तृत्वं द्योत्यते । विपर्यये धर्मोच्छेदात्
जगदुच्छेदः । संचरन्तावित्यनेन परोपकारैकतात्पर्यं स्वसुखनि
रभिलाषत्वं च व्यज्यते । इमाविति देवतान्तरवत्</p>
<pb n="105" />
<p>नानुमानसाध्यत्वमात्रमनयोः; अपि तु प्रत्यक्षप्रमाणसिद्धत्वात्
नास्तिकनिवहनिरसनरभसशरभत्वं च प्रकाश्यते । ते-
भ्योऽनयोः कोऽतिशय:, इत्यत्राह - त्रैलोक्यालोकदीपौ,
त्रैलोक्यस्य भूर्भुवःस्वरात्मनः लोकत्रयस्य आलोके
प्रकाशने दीपवत् प्रवृत्तेर्दीपौ । अतः अनयोः प्रवृ-
त्त्यभावे सर्वस्य व्यवहारोच्छेदप्रसङ्गः इति दृष्टमुखेनाप्युप-
कारगौरवं प्रकाश्यते । रवीन्दू सूर्याचन्द्रमसौ; अभ्यर्हितत्वात्
पूर्वनिपातः । ययोः नेत्रयोः । रूपं तात्त्विकं स्वरूपमेव ; तत्र
न कस्यचिद्विमतिरित्यर्थ: । मुनीन्द्राः दिव्यचक्षुः संपन्नतया
मुनीनां श्रेष्ठाः पराशरादयः । मौनान्मुनिर्भवति न
अरण्यवासान्मुनिः, 'अक्षरं तत्तु यो वेद स मुनिश्रेष्ठ
उच्यते' इति महाभारतोक्तेः । अभिदधति कथय-
न्तीति, 'चक्षुषी चन्द्रादित्यौ' अक्ष्णोः सूर्यो अजा-
यत' इत्यादिश्रुतिमुखेन 'अक्ष्णोः सूर्योऽनिलः प्रा-
णात्' 'अनन्तबाहुं शशिसूर्यनेत्रम्' इत्यादिस्मृतिमुखेन
च इत्यर्थ: । 'विभुरिन्द्वर्कविलोचनः किलासौ' 'कोकप्रीति-
चकोरपारणपटुज्योतिष्मती लोचने' इत्यादि महाकविवच-
नात् । अब्जप्रभे पद्मसदृशशोभे ; अब्जशब्देनात्र सिताम्भोज-
मुच्यते, सामर्थ्यात् । अत आह — आताम्रशुक्लासितरुचिरुचिरे
अपाङ्गदेशे सितभागे तारकायां च क्रमात् रक्तया शुक्लया</p>
<pb n="106" />
<p>कृष्णया च रुच्या रुचिरे शोभने; पुण्डरीकस्यापि केसरदल-
भ्रमरविशिष्टतया वर्णत्रययोगादौपम्योपपत्तिः । नेत्रे लोचने ।
पातां रक्षताम् । कथं रक्षणं क्रियत इत्यत्राह- प्रचुरतरकृपानि-
र्भरम्, देवतान्तरेभ्यो भगवतः कारुणिकत्वातिशयात् स्वतः
प्रचुरया अत्यन्ताधिकया कृपया दयया 'हन्त दुःखितोऽयं
तपस्वी तदस्माभिः पालनीय : ' इति बुद्ध्या निर्भरं समग्रं
यथा तथा । न तु कटाक्षमात्रेण ; किंतु प्रेक्षमाणे प्रकर्षेण पश्य-
तः इति हेतौ शानच् । अथवा, वर्तमाननिर्देशात् तथाविधस्य
स्वाभाव्यमाह तत्र । रूपकम् उपमा च अत्र अलंकारः ॥
अथ 'तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम्' इति वचनात् ब्रह्म-
लोकत्वेनोपास्यं भ्रूयुगमुपास्ते-</p>
<lg>
  <l>पातात्पातालपातात्पतगपतिगते भ्रूयुगं भुग्नमध्यं</l>
  <l>येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसङ्घाः ।</l>
  <l>नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदाते</l>
  <l>कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥</l>
</lg>
<p>पातात् रक्षतात् । पातालपातात् रसातलोपलक्षिते निरये
यः पातः दुष्कर्मपरतन्त्रतया गमनं तस्मात् । 'ततश्च नरका
विप्र भूयो वै... । पापिनो येषु पात्यन्ते ताञ्छृणुष्व महा-</p>
<pb n="107" />
<p>मुने' इति श्रीविष्णुपुराणवचनात् । पतगपतिगतेः पक्षिरा-
जेन गरुडेन वाहनभूतेन गमनं यस्य तस्य भगवतः ।
भ्रूयुगं चिल्लीद्वयम् । भुग्नमध्यं कुटिलमध्यम् । 'भुजकौटि-
ल्ये' इत्यस्मान्निष्ठा । तदित्यायाति । ईषच्चालितेन कोपसूच-
कतया किंचित् कम्पितेन स्वपदनियमिताः स्वे पदे निजे
अधिकारे नियन्त्रिताः अस्वातन्त्र्येण स्थापिता इत्यपि ।
विनयोपक्रमात् भगवद्भयाच्च स्वाधिकारादचलत्वं च द्यो-
त्यते, 'भीषास्माद्वातः पवते । भीषोदेति सूर्यः'
इति श्रुतेः । सासुरा: असुरैः वैरोचन्यादिभिः सहिताः ।
देवसंघाः इन्द्रादिदेवसमूहाः । देवासुरग्रहणं प्राधान्यात् ;
अन्येषां कैमुतिकन्यायेन नियमनसिद्धेः; 'तेन विना तृणा-
ग्रमपि न चलति' इति वचनात् । नृत्यत् विलासेन चलत्
लालाटरङ्गे लालाटं ललाटस्यादूरभवं तत्प्रान्तमित्यर्थः ।
तन्मये नृत्यमण्डपे 'अदूरभवः' इत्यण् । स्वार्थे वा ललाट-
मेव लालाटम् – प्रतिभैव प्रातिभमित्यादिवत् । रजनिकर-
तनोः पूर्णचन्द्रमूर्तेः । अर्धखण्डावदाते 'अर्धं नपुंसकम्'
इति स्मृतेः समोंऽशोऽर्धखण्ड: । 'शकलखण्डे वा पुंस्यर्धो-
ऽर्धं समेंऽशके' इत्यमरः । प्रान्तार्थत्वे मूर्धन्यखण्ड एक-
देश इत्यर्थ: तद्वच्छुद्धलावण्ये अष्टमीचन्द्रसुन्दरे इत्यर्थः ।
महापुरुषललाटस्याष्टमीचन्द्रसाम्यप्रसिद्धेः । कालव्यालद्वयं वा</p>
<pb n="108" />
<p>कृष्णसर्पयोर्युगमिव । 'वा विकल्पोपमानयोः समुच्चये
च' इति वैजयन्ती । शोभते लसति । चकारो येनेत्युक्त-
स्य विपरिणामेन यच्चेत्यनुकर्षणार्थ: । वालिका कर्णभू-
षणविशेष: 'वालिका कर्णपृष्ठे स्वे' इति वैजयन्ती ; 'वकुल-
फलानुकारिणीभिस्तिसृभिर्मुक्ताभिर्विरचितेन वालिकायुगलेन'
इति हर्षप्रयोगाच्च । सैव माता जननी कालव्यालद्वयस्येत्यर्था-
त् ; वालिकायाः कुटिलायतत्वात् व्यालीसाम्यात् । तां समया
तस्याः समीपे ; ' अभितः परितः समयानिकषाहाप्रतियोगेषु
च दृश्यते' इति द्वितीया । अयमर्थः – कर्णपृष्ठस्थयोर्वालिक-
योः समीपे ललाटरङ्गे नृत्यत् यच्च भ्रूयुगं स्वजनन्योर्वालिकयोः
परिसरे हर्षानृत्यतोः कालव्यालयोर्द्वयवत् लसति, तत् भ्रूयुगं
नः पातु इति । अत्रोत्प्रेक्षालंकारः । स्वाभाविकस्निग्धनीलाय-
तत्वं भुग्नमध्यत्वं च उत्प्रेक्षानिमित्तम् । सौम्यत्वेऽपि सकल-
प्रपञ्चभयजनकत्वं च व्यङ्ग्यम् ॥ ४१ ॥
पुनः प्रकारान्तरेण भ्रूलते उपास्ते--</p>
<lg>
  <l>लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसंदर्शमील-</l>
  <l>न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे ।</l>
  <l>लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध-</l>
  <l>च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥</l>
</lg>
<pb n="109" />
<p>लक्ष्म लाञ्छनं तस्य आकार: संस्थानं स इव आकारो
यस्यास्तया अलकाल्या कुन्तलावल्या स्फुरतः शोभमानस्य अ-
लिकरूपस्य शशाङ्कार्धस्य; 'अर्धं नपुंसकम्' इति समांशवा-
चिनो अर्धशब्दस्य पूर्वनिपाते प्राप्तेऽपि 'प्रेम्णा शरीरार्धहरां
हरस्य' इति, 'दिनार्धभाजः परिवेषिणोऽर्कात् ' इत्यादिप्रयोग-
बाहुल्यदर्शनात् साधुत्वम्; संदर्शनेन सम्यग्दर्शनेन मीलतोः
मुकुलीभवतोः, मीलतोरित्युक्तेरसमग्रमीलनत्वमुच्यते, स्वरूपा-
नुसंधानत्वान्निद्रायाः ; नेत्राम्भोजयो : नयनरूपयो: पद्मयोः ;
संदर्शनमीलनमिति योगनिद्रावशात् स्वतो मीलनं संदर्श-
नहेतुकमिति संनिकर्षणादतिशयोक्त्या अध्यवसीयते; 'चन्द्र-
दर्शननन्दितायाः स्मितप्रभामिव वनश्रियः' इति काद-
म्बरीप्रयोगवत् । चन्द्रदर्शने पद्मस्य मीलनं प्रसिद्धम् ।
प्रबोधे विकासे उत्सुका उत्कण्ठिताः; अत एव निभृत-
तरालीना अतिनिश्चलं समीपलग्ना; तत्प्रतिपालनेनेत्य-
र्थात् गम्यते । भृङ्गच्छटा भ्रमरमाला तस्या आभा
शोभेव आभा ययो: ; स्निग्धनीलायतत्वात् समीपगत-
त्वाच्च उत्प्रेक्षा । लक्ष्यीकृतः शरव्यं कृतः सेवार्थमागतो
विबुधगणो देवसमूहो येन  तस्यापाङ्गस्य कटाक्षस्य
बाणासनार्धं धनुरेकदेश: तस्य छायेव छाया शोभा ययोः ।
अर्धग्रहणमपाङ्गमोक्षस्य भ्रूकोटिमात्रसंबन्धात् । बाणास-</p>
<pb n="110" />
<p>नर्धच्छाये इति वा पाठ: ; बाणासनवद्वा छाया ययोरित्यर्थः ।
भ्रूलताया बाणासनत्वोत्प्रेक्षणात् एकदेशविवर्तनादपाङ्गस्य
बाणत्वप्रसिद्धिः । अथवा, अपाङ्गबाणस्य आसनम् आस:
धनुः तदर्धच्छाये इति योजना ; 'अस्त्रियौ चापधनुषौ
आसेष्वासौ धनुर्भ्रुवोः ' इति वैजयन्त्यामास इत्युक्तेः,
'असु क्षेपणे' इति धातोर्घञि ल्युटि वा आसासनयोः सि-
द्धेरर्थाभेदाच्च आसनमिति प्रयोगः; 'इष्वास इष्वसनम् '
इति च प्रयोगात् । भूरिभूतिप्रसवकुशलते भूतिप्रसवे अभ्यु -
दयनिःश्रेयसरूपपरमैश्वर्यसृष्टौ भक्तानामित्यर्थात् कुशलता
वैदग्ध्यं भूरिः बह्वी । अथवा भूरे: भूते: प्रसवे कुशलता
ययोः । भ्रूलते भ्रुवोर्लते । अग्रे इति अर्ध इति वा पाठे तनु-
तरत्वात्पक्ष्मणाम् । ऋद्धे इति तु पाठे लतातुल्ये चिल्ल्यावि
त्यर्थः । पालयेतामित्याशिषि प्रार्थने वा लिङ् । अत्र लक्ष्मा-
कारालकालीत्युपमया अथवा अपह्नुत्या अलिकशशाङ्कार्धेति
रूपकमुत्थाप्यते । तेन च भ्रान्तिमान् । तन्मूलेन मीलनेन
नेत्राम्भोजे रूपकम् । ततश्च उत्प्रेक्षा इत्यङ्गाङ्गिभावेन संकरो-
ऽलंकारः । प्रबोधोत्सुकत्वम् उत्प्रेक्षानिमित्तं जात्युत्प्रेक्षा
चेयम् । अपाङ्गबाणेत्यत्रापि रूपकोत्थापितोत्प्रेक्षा । आभा-
च्छायाभ्यामुपक्रान्ता आपाततः प्रतीतापि उपमा पुनरर्था-
नुसरणवशादुत्प्रेक्षायां पर्यवस्यति ॥ ४२ ॥</p>
<pb n="111" />
<p>अथ भगवतः सावित्रीरूपं तिलकमुपास्ते
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-
प्रोत्फुल्लत्पद्ममालाविकसितमहितस्फाटिकैशानलिङ्गम् ।
भूयाद्भूयोविभूत्यै मम भुवनपतेर्भ्रूलताद्वन्द्वमध्या-
दुत्थं तत्पुण्ट्रमूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ।
रूक्षत्वं स्नेहगुणरहितत्वम् । तेनात्र निर्दयत्वं लक्ष्यते ।
रूक्षैर्निर्दयै: मर्मणां तुद्यमानत्वात् । स्मारात् कामसंबन्धिनः ।
इक्षुचापात् इक्षुकाण्डमयाद्धनुष: । च्युतैः प्रवृत्तैः । शरनि-
करैः बाणसमूहैः, निकरग्रहणं द्रावणक्षोभणवशीकरणाकर्षण-
संमोहनरूपकर्मपञ्चकनिपुणपञ्चविधबाणत्वेन निमित्तेन पञ्च-
बाणप्रवृत्तेः, तथाविधानां शराणामनन्तत्वाच्चेति ग्राह्यम् ।
स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणश-
तैश्च ददाति दुःखम् ' इति, 'स्मरशरशतप्रहारजर्जरिते हि
मनसि जलमिव गत्युपदिष्टम्' इत्यादिमहाकविप्रयोगानाम-
न्यथा वैयर्थ्यापातात् । क्षीणाया: क्लेशिताया:; भगवत आत्मा-
रामत्वात् स्वतन्त्रत्वाच्च तस्यास्तद्रूपादिगुणगणवशीकृततया
स्त्रीस्वभावाच्च, भोगलिप्सो: स्वेच्छोपभोगसुखस्य दौर्लभ्यात्
क्षीणत्वकथनम् । 'न श्रीर्विरक्तमपि मां विजहाति तस्याः
प्रेक्षालवार्थ इतरानियमोऽर्हणेन' इति श्रीभागवतोक्तेः । 'दि-</p>
<pb n="112" />
<p>ट्ठोरुवि आणेणविआ सहस्सत्थ णवेल्लणेविविसहिअजस्स णि-
स्सणावि इतरे विरीएउरेपेम्मेण उहूइओ अप्पाणो ' इत्यादि-
वचनैः । लक्ष्म्याः यः कटाक्षः तद्रूपया प्रोत्फुल्लत्पद्ममालया वि-
कसितमिति शत्रा नवविकाससुभगत्वं व्यज्यते । कमलानां मा-
लया विकसितं शोभितम् । महितं पूजितम् । स्फाटिकं स्फटिक-
मणिनिर्मितम् ऐशानम् ईशानः शिवः तदीयम् । लिङ्गं वृत्तोन्न-
तनिर्विवरविमलत्वात् दीपाकारत्वाच्च अतिशयोक्त्यानुद्भावो-
ऽध्यवसीयते । स्फाटिकत्वोक्तेः कर्पूरपङ्कादिविरचितत्वं पुण्ट्रस्य
प्रतीयते । नयनवदनपुण्डरीकस्य पुण्ट्रकवशात् सविशेषकम-
नीयत्वेन साग्रहं सलज्जं च कटाक्षैर्यद्दर्शनं तत् स्मरविजयिने
भगवते परमेश्वराय स्मरदुर्विलसितं तन्नियमनाय निवेदय -
न्त्यास्तत्प्रसादनार्थे पद्ममालया समर्चनमेवेत्यध्यवसीयते । अ-
थवा लिङ्गमिवेति द्योतकशून्योत्प्रेक्षा । भूयः बहुतरमिति क्रिया-
विशेषणम्, 'बहोर्लोपो भू च बहो: ' इति भूभावे ईयसुनि
च रूपम् । विभूत्यै विशिष्टैश्वर्याय; कैवल्यसुखायेत्यर्थः ।
भुवनपतेः ब्रह्मादिस्तम्बपर्यन्तस्य जगतो नियन्तुः ।
भ्रूलताद्वन्द्वमध्यात् उत्थं भ्रूयुगस्य मध्यात् नासादण्डमूलदे-
शोपरिभागादुद्भूतम् । ऊर्ध्वमलिकान्तं यावदुपरि प्रसृतम् ।
अनेनाज्ञासंज्ञात् भ्रूमध्याधारमूर्ध्वं प्रवृत्तस्य परतेजसोऽनुसं-
धानाय तत्प्रतिमारूपेणेदं सद्भिर्धार्यत इति पुण्ट्रधारणवास-</p>
<pb n="113" />
<p>नापि सूचिता । अत आह जनिमरणतमःखण्डनं भक्तानां
जननमरणरूपस्य तिमिरस्य नाशकं स्वरूपतिरोधायकत्वात्
तमस्त्वारोप: । मण्डनं सविशेषशोभाजनकत्वात् भगवन्मुखे-
न्दोर्भूषणान्तरेभ्यः प्रकृष्टं भूषणं च पुण्ट्रं तिलकविशेषः</p>
<lg>
  <l>' तिलकं तमालपत्रकमुक्ताविशेषकं पुण्ट्रम्' इति हलायुधः ।</l>
  <l>अत्र रूपकमतिशयोक्तिरुत्प्रेक्षा चालंकारः ॥ ४३ ॥</l>
</lg>
<p>अथ सावित्रीरूपतिलकाधारत्वेनोपास्यं ललाटतटमुपास्ते ।
'तपोललाटं विदुरादिपुंसः' इति पुराणवचनात् -</p>
<lg>
  <l>पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठे</l>
  <l>लालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।</l>
  <l>प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गं</l>
  <l>पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥</l>
</lg>
<p>पीठीभूतं पीठं जातम् अलकान्तं ललाटस्यावसानमलक-
मूलं यथा तथेति क्रियाविशेषणम् । कृता अनुष्ठिता मकुटं
किरीटं तद्रूपस्य महादेवलिङ्गस्य परमेश्वरज्योतिर्लिङ्गप्रति
च्छन्दस्य प्रतिष्ठापनं यत्र मकुटस्यापि वृत्तोन्नतप्रभामयत्वा-
दिभिर्लिङ्गत्वारोपः । लालाटे ललाटात्मके नाट्यरङ्गे नृत्तम-
ण्डपे । विकटतरतटे अतिविस्तीर्णस्थले । कैटभारेः भगवतः ।</p>
<pb n="114" />
<p>प्रोद्घाट्य प्रकर्षेण दूरतोऽपसार्य । एवकारेण तदभावे
नटनदर्शनस्याशक्यत्वात् प्रथमतः प्रोद्घाटनमवश्यं क-
र्त्तव्यमिति प्रकाश्यते । आत्मतन्द्रीप्रकटपटकुटीं स्वीयां
तन्द्रीं कर्तव्याकर्तव्येष्वप्रवृत्तिरूपां मन्दतामेव प्रकटां स्पष्टां
पटकुटीशब्देन पटमण्डपवाचकेनापि अत्र यवनिका विवक्ष्यते ।
यवनिकाप्रोद्घाटनफलमाह - स्फुटाङ्गं प्रस्फुरन्ती रजस्तमोविर-
हात् स्पष्टावयवं यथा तथा प्रकर्षेण प्रकाशमाना । मतेरवयवा
भक्तिविरक्त्यादिगुणाः नट्या: करचरणाद्यङ्गानि । पट्वी अन्त-
रायनिरसनेन सबला भूत्वेति शेषः । चटुलमतिनटी 'चञ्चलं
हि मनः कृष्ण प्रमाथि बलवदृढम्' इत्युक्तक्रमेण विषयेषु
लोला मतिरेव नटी लासिका । भावनाख्यां सदानुसंधानसं-
ज्ञाम् । 'नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना' 'स-
नन्दनादयो भूप ब्रह्मभावनया पुरा' 'ये भावयन्त्यमृ-
तवाहिभिरंशुजालै : ' इत्यादिवचनैः भावनाया वासनार्थत्वा-
वगमात् । नाटिकां नाटकप्रकरणलक्षणविशेषसंकीर्णं प्रबन्ध-
विशेषम् । 'तत्र वस्तुप्रकरणान्नाटकान्नायको नृपः । देवी
तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा । नायिका तादृशी मुग्धा
दिव्या वातिमनोहरा । कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्कैरिव ना-
टिका' इति धनिकोक्तेः। नर्मतत्पुञ्जतत्स्फोटतद्गर्भैश्चतुरङ्गिका'
इत्युक्तानि कैशिक्यङ्गानि । नाटयेत् अभिनयेत् प्रयुङ्क्तामि-</p>
<pb n="115" />
<p>त्यर्थः । 'स्फटिककटकभूमिं नाटयत्येष शैल: ' इति माघो-
क्तवत् । पट्वी सती चिराय भावनाख्यां नाटिकां नाटये-
दिति विशिष्टे प्रार्थना । उत्तमदेवतासंनिधावेव देवताप्रीण-
नस्य नाट्यप्रयोगस्य मुख्यत्वम्, अन्यत्रामुख्यत्वमिति द्योत-
यितुं कृतमकुटमहादेवलिङ्गप्रतिष्ठे इत्युक्तम् । अत्र समस्त-
वस्तुविषयं सावयवरूपकमलंकारः ॥ ४४ ॥
अथ 'ईशस्य केशान् विदुरम्बुवाहान्' इत्युक्तरीत्या
उपास्यामलकावलीमुपास्ते, केशसंस्थानविशेषत्वात्तस्याः-</p>
<lg>
  <l>आलालीवालिधाम्न: कुवलयकलिता श्रीपतेः कुन्तलाली</l>
  <l>कालिन्द्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु ।</l>
  <l>राहुर्वायाति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मा</l>
  <l>लोकैरालोच्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥</l>
</lg>
<p>अलिधाम्नः भ्रमरवन्नीलप्रभस्य श्रीपतेः कुन्तलाली कु-
न्तलपङ्क्तिः, 'कुटिलकुन्तलस्तबकमालिना मौलिना' इत्या-
दिप्रयोगात् । सा कुन्तलाली मङ्गलं प्रदिशत्वित्यन्वयः ।
या लोकैरित्थमालोक्यते । आलोकनप्रकारमाह- कुवल-
यकलिता नीलोत्पलैर्ग्रथिता मालाली मालानामावलिः ।
वा- शब्दो विकल्पे । हरशिरः स्वर्धुनीस्पर्धया, लोके हि तु</p>
<pb n="116" />
<p>व्यगुणयोरेकस्योत्कर्षमन्यो यथा न सहते तथा गाङ्गा
च यमुना च' इति सहपठितयोरावयोर्मध्ये गङ्गा पर-
मेश्वरस्य त्रिभुवनदुर्लभं कपर्दभारमावसति, अतोऽहमपि
ततः परं स्थानमध्यासिष्ये- इति शिवमौलिगतया स्वर्धु-
न्या स्वर्गनद्या गङ्गया स्पर्धा संघर्ष: तया हेतुना ।
आरुह्य अधिरुह्य मूर्धानमेवेत्यर्थात् । कालिन्दी यमु-
ना । मूर्ध्न: शिरस: । श्रीपतेरिति सर्वत्र संबध्यते ।
गलति प्रवाहबाहुल्यात् सर्वतः क्षरति । नुर्विकल्पे । सकल-
शशिकलाभ्रान्तिलोलान्तरात्मा सकला समुदिता शशिनः
चन्द्रस्य कला पूर्णमण्डलमिति यावत्, कलासामग्र्या एव
मण्डलत्वात् । तद्भ्रान्त्या चन्द्रमाः - इत्यन्यथाबुद्ध्या लोल:
अमृतास्वादवाञ्छया तरल: अन्तरात्मा मनो यस्य । राहुः
सैंहिकेयः । वा-शब्दोऽत्र विकल्पे । वक्त्रं मुखमायाति प्रा-
प्नोति । इति - शब्दोऽध्याहार्यः । लोकै: लोकयन्ति दिव्यच-
क्षुषा भगवन्मूर्तिं पश्यन्तीति लोकाः परमयोगिनः तैः । आ-
लोच्यते विवक्ष्यते 'मुह्यन्ति यत्सूरयः' इति, 'सैषा भगवतो
माया ज्ञानिनामपि मोहिनी' इत्यादिवचनैः तैरप्यद्यापि निर्णे-
तुमशक्यत्वात् । प्रदिशतु ददतु । सततं सदा अखिलं 'खि-
लमप्रहतं स्थानम्' इत्यमरः । खिलं न भवतीत्यखिलम्;
उपभोगार्हम्, अथवा संपूर्णम् । मङ्गलं भक्तिज्ञानादिरूपं</p>
<pb n="117" />
<p>कल्याणम् । अत्र तु शुद्धसंदेहोऽलंकारः । उत्प्रेक्षा वा ॥
अथ भगवतः केशानेव संस्थानभेदविशिष्टानुपास्ते-</p>
<lg>
  <l>सुप्ताकारा: प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाः</l>
  <l>व्याप्तव्योमान्तरालास्तरलमणिरुचारञ्जिताःस्पष्टभासः ।</l>
  <l>देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याः</l>
  <l>केशा: केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥</l>
</lg>
<p>सुप्ताकारा: शोभनजटारूपाः, भगवतः परमतपस्वित्वात् ;
'समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् । जटाया मण्डलं
कृत्स्नं बिभ्रत् कृष्णवपुर्हरि: ' इति श्रीहरिवंशोक्तेः । 'सुप्ता
जालिनी गरुडा जटा' इति वैजयन्ती । प्रसुप्ते स्वप्तुमारब्धे ।
आदिकर्मणि क्तः । भगवति तस्मिन्निति विशेष्योऽध्याहार्यः ।
तस्मिन् केशिद्रुहीत्यर्थः; केशिद्विषोऽन्यत्र प्रतीतेः । विबुधैः
देवैरप्यदृष्टस्वरूपाः, ईदृक्तया च न प्रत्यक्षीकृतं स्वरूपं तात्त्वि-
कं संस्थानं येषाम्, तैरपि स्थूलाकारस्यैव दृश्यमानत्वात् ।
बुध अवगमने इत्यस्मात् 'इगुपधज्ञाप्रीकिरः कः ' इति के
रूपम् । विशेषेण सर्वं बुध्यन्त इति प्रसिद्धानामियं दशा ।
किं पुनरन्येषामित्यपिना व्यज्यते । 'यन्नायं भगवान्ब्रह्मा
जानाति परमं पदम्' इति, 'नान्तं न मध्यं न पुनस्त-</p>
<pb n="118" />
<p>वादिं पश्यामि विश्वेश्वर सर्वरूप ' इत्यादिवचनैः । तत्र हेतु:-
व्याप्तव्योमान्तरालाः निर्विवरीकृतो गगनमध्यप्रदेशो यैः । वि
बुधानामपि स्वशक्त्यनुरूपं व्योमैकदेश एव संचरणादिति भा-
वः । तरलमणिरुचा औचित्याल्ललाटबन्धादिभूषणमध्यनाय-
कभूतमहानीलप्रभया । रक्षिताः स्पष्टभासः रञ्जिताः रूषिताः ।
अप्यदृष्टस्वरूपा इत्यनेन श्रीहरिवंशकथा अनुस्मार्यते । य
था— 'तारकामयसमरभुवि सकलमसुरकुलमतिनिशितरथ-
चरणमुखशिखिनिवहविरहिहुतममरगणमपि निजपदमनुनिहि
तमतिमुदितहृदयमलमलघुविदधदुदधिदुहितृपतिरमृतजलधि-
सलिललहरिविहरणरसिकमृदुलसुरभिपवनशिशिरितबृहदुपव-
नसततविततषडृतुविभवमनवरतनितरसनकमुखविबुधमुनिजन
नमरणशरणमनुपमरुचिनिजपदमुपगतोरुफणफलकमणितरणि-
ततघृणिपटलमजटिलितहरिदुदरमुरगशयनमभजत । तदवसर
उपचितबलमजितहतमसुरकुलममितविभवनृपतिसुतमिषमव-
नितलमवतरदतुलबलविततिभिरधिकभरजनकममरजनसुहृद -
मवनिपुरसुरभिनिवहमवनिवलयमपि भृशविधुरमकुरुत । तत
उदितहृदयरुजमनिमिषकुलयमममृतजलधिमुपगतमजितविच-
यपरमपरिमितशरनटनपरमसुररिपुवपुरधिगमविधुरमतिकदन-
ममृततदवगमजनितकरुणमतिरसुररिपुरथ निजवपुरखिलदु-
रितशमनममृतमयमिव पुरत उपदधदमरपरिषदरमयत्'-</p>
<pb n="119" />
<p>इति । श्रीहरिवंशे 'तत्रायं प्रविशन्नेव जटाभारं समुद्वहन् ।
स सहस्रशिरो भूत्वा शयनायोपचक्रमे । विवृतात्तस्य वद-
नान्निश्वासपवनेरिताः । मेघानां पङ्क्तयो व्योम्नि निष्पतन्ति सह-
स्रश: । तन्न वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽमलाः । विष्णु-
र्निद्रामयं योगं प्रविष्टस्तमसावृतम्' इति । देहच्छायोद्गमाभाः
भगवन्मूर्तेः स्निग्धनीलवर्णत्वादूर्ध्वं प्रवृत्ताः तत्प्रभा इवेति
संभाव्यमानाः । रिपुवपुरगरुप्लोषरोषाग्निधूम्या: शत्रुशरीररूप-
मगरुं कालागरुद्रुमं प्लोष्टुं दग्धुं शीलं यस्य । ''लुष दाहे' इत्य-
स्मात् 'सुप्यजातौ णिनिस्ताच्छील्ये ' इति णिनिः । तस्य रोषाग्नेः
कोधात्मकस्य वह्नेः धूम्या : धूमस्य संचया: 'धूम्या वात्या तु
तद्वृन्दे सर्वम् ' इति वैजयन्ती । रोषाग्नेरान्तरत्वात् धूमस्योर्ध्व-
प्रवृत्त्यौचित्यम् । अगरुधूम्याग्रहणं भगवत्केशानामपि परिमल-
बहुलत्वात् कार्ष्यातिशयाच्च । केशाः शिरोरुहा: । केशि-
द्विष: केशिसंज्ञं तुरगरूपमसुरं हृतवत: । केशिद्विष इति
रोषाग्निना केशैश्च संबध्यते । विपुलक्लेशपाशप्रणाशम् ।
विपुला विस्तीर्णा: अनेकजन्मानुभाव्यदु:खहेतुत्वात्, बहुल-
भेदत्वाच्च । अविद्यास्मितारागद्वेषाभिनिवेशा: क्लेशा: – इति
स्मृताः तमोमोहमहामोहतामिस्रान्धतामिस्रापरपर्यायाः पञ्च क्ले-
शाः । प्रकृतिमहदहंकारतन्मात्ररूपेऽनात्माष्टके आत्मधीस्तमः
अविद्या च, अणिमाद्यैश्वर्याष्टके लब्धे ममत्वं मोहोऽस्मिता च,</p>
<pb n="120" />
<p>दिव्यमानुषत्वेन दशविधेषु शब्दादिविषयेषु सक्ति: महामोहो
रागश्च, ऐश्वर्याष्टकस्य च प्रतिहत्या विकारस्तामिस्रो द्वेषश्च,
एषामेव भोगान्तराले नाशभीति: अन्धतामिस्रोऽभिनिवेशश्च ।
अथवा, अनित्याशुचिदु:खानात्मसु नित्यशुचिसुखात्मख्यातिः
अविद्या, दृग्दर्शनशक्त्योरेकात्मिकेव स्मिता, सुखानुशयी रागः,
दुःखानुशयी द्वेषः, स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवे-
शः - इति लक्षिताः क्लेशा: । तद्रूपाणां पाशानां बन्धरज्जूनाम्,
ऊर्ध्वाध:कर्षणसाधनत्वात् ; 'पुण्यरज्ज्वा व्रजेदूर्ध्वं पापरज्ज्वा
व्रजेदध: । द्वयं ज्ञानासिना छित्वा विदेहः शान्तिमृच्छति ' इति
पुराणवचनात् । प्रणाशम् अत्यन्तोच्छेदम् । विदधतु कुर्वन्तु ।
सम्यग्ज्ञानमन्तरेण तदनुपपत्तेस्तत्संपादयन्त्वित्यर्थः । केशान् प्र-
त्येतत्प्रार्थनं च एषां विशेषतो भक्तानुग्रहसामर्थ्यात् ; 'उवाच
च सुरानेतौ मत्केशौ वसुधातले । अवतीर्य भुवो भारं क्लेशहानिं
करिष्यत: ' इत्यादिपुराणवचनात् । 'ईशस्य केशान् विदुरम्बु-
वाहान्' इति वचनात् मेघपरत्वेनाप्ययं श्लोको योज्यते - सु-
प्ताकारा: पूर्वमव्यक्तरूपाः, यत्र कुत्रचिन्निलीनत्वात् । भगवति
प्रसुप्ते स्वप्तुमारब्धे जगत्प्रलयायोद्यते इत्यर्थ: । 'यदा जागर्ति
विश्वात्मा स तदा नेष्टते जगत् । निमीलत्येतदखिलं माया-
शय्यागतेऽच्युते' इति श्रीविष्णुपुराणवचनात् । 'यो स्वप्न-
बोधौ तावेव भूतानां प्रलयोदयौ' इत्यादि महाकविवचनाच्च ।</p>
<pb n="121" />
<p>विबुधैरप्यदृष्टस्वरूपाः तेषामपि हस्तिहस्तप्रमाणधारासावित्री-
हतत्वात् । तत्र हेतुः - व्याप्तव्योमान्तरालाः कुतश्चिदागत्य
गगनतलं व्यावृण्वानाः इत्यर्थ: । तरलमणिरुचा चञ्चलया
माणिक्यवद्दीप्रप्रभया तटितेत्यर्थः । 'तटित्सौदामिनी विद्युच्चञ्च-
ला चपला अपि' इत्यभिधानात् 'न प्रभातरलं ज्योतिरुदेति
वसुधातलात्' इति शाकुन्तलोक्तवत् । रञ्जिताः अरुणिताः ।
अत एव स्पष्टभासः लब्धपरभागतया व्यक्तनैल्या: भगवद्दे-
हप्रभाप्रसरवत् नीलाः । दाह्यत्वेन विपक्षभूतानामगरूणां
लघूनां शुष्ककाष्ठादीनां दाहको रोषः संरम्भो यस्य तस्या-
ग्नेर्धूम्याः धूमसंघातरूपा: 'नालैर्विक्षिपताभ्रेषु धूमाग्न्यनिल-
मूर्तिषु' इति पुराणवचनात् । जलस्य स्वामिनः स्वायत्तवृष्टि-
कार्यत्वात् केशा: मेघरूपा: केशाः शिरोरुहा इत्यावृत्या
योजनीयम् । 'यो वर्षमिव भारतम्' इत्यादिवत् । अत्र श्लेष
उत्प्रेक्षा आश्लिष्टशब्दनिबन्धनपरंपरितरूपकं चालंकारः ॥
अथ ' सत्यं तु शीर्षाणि सहस्रशीर्ष' इत्यादिवचनात् स-
त्यलोकात्मकं भगवत उत्तमाङ्गं भङ्ग्या उपासमानस्तदलंका-
रभूतं दीपात्मकं किरीटमुपास्ते-
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-
स्फूर्त्या मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।</p>
<pb n="122" />
<p>कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां
शश्वन्नः शर्म दिश्यात्कलिकलुषतमः पाटनं तत्किरीटम् ॥
यत्र यस्मिन् । प्रत्युप्तानां विन्यस्तानां रत्नप्रवराणां पद्म-
रागादिरत्नश्रेष्ठानां परिलसतो भूरिणो रोचिष्प्रतानस्य प्रभापट-
लस्य स्फूर्त्या प्रसरेण । मुरारे: मूर्तिर्विग्रहः द्युमणिशतचित -
व्योमवत् सूर्याणां शतेन निबिडमाकाशमिव दुर्निरीक्ष्या निरी-
क्षितुमशक्या । भवतीति शेषः । अतिशयोक्तिश्चेयं यद्यर्थ-
गर्भिणी । ' दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भा:
सदृशी सा स्याद्भासस्तस्य महात्मनः ' इति श्रीभागवतोक्त-
वत् । रत्नानां प्रभाबाहुल्यात् मूर्तेः स्निग्धत्वान्महत्वाच्च ।
पारेपयोधि समुद्रस्य तीरे 'क्षीराब्धेरुत्तरे तीरे' इति
पुराणवचनात् क्षीरोदोत्तरतीरवर्तिनि शाकद्वीपे भगवतो
निवासप्रसिद्धेः । 'पारेमध्ये षष्ठ्या वा ' इति समासः अ-
लुक् च । ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कां दीप्यमाना-
भिर्महतीभिर्ज्वालाभिः बहुलप्रभस्य बडबामुखाग्नेः शङ्कां
संभावनाम् । कुर्वत् शङ्कां जनयत्; स्वप्रभापटलतरङ्गपिश-
ङ्गीकृतदिगुत्सङ्गनभोऽङ्कणत्वात् । पारेपयोधिभूतत्वादाश्चर्यबु-
द्धिर्द्योत्यते । मध्येसमुद्रमेव बडबाग्निज्वलनप्रसिद्धेः । कलि-
कलुषतम: पाटनम्, कलिर्धर्ममिश्रं चतुर्थं युगम्, तेन जनितं</p>
<pb n="123" />
<p>यत् कलुषं कालुष्यं रागद्वेषादिशाबल्यान्मनसोऽप्रसाद इ-
त्यर्थः । तद्रूपस्य तिमिरस्य  खण्डनं तेजसस्तिमिरप्रतिभटत्वात्
तमस्त्वारोपः । किरीटं मकुटम् । शश्वत् शर्म नित्यसुखम्
आत्मानन्दानुभवमित्यर्थः । दिश्यादिति 'दिश अतिसर्जने'
इत्यस्मात् आशिषि लिङ् । अत्रातिशयोक्तिरुत्प्रेक्षा चालं-
कारः ॥ ४७ ॥
इत्थं श्रीपतेः श्रीपादद्वयमारम्य श्रीमत्केशान्तं प्रत्येकम-
वयवानुपास्य, इदानीमवयविनं संपूर्णं विग्रहमुपास्ते–</p>
<lg>
  <l>भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका</l>
  <l>गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।</l>
  <l>उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं</l>
  <l>देहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥</l>
</lg>
<p>भ्रान्त्वा भ्रान्त्वा अनवस्थानेनाटित्वा, वीप्सया प्रतिप्रलया-
वसानं भ्रमः प्रकाश्यते । यदन्तः यस्य देहाम्भोधेरुदरे, त्रिभुवन
मिति उत्तरार्धगतमत्र भ्रान्तिक्रियाकर्मत्वेन संबध्यते । त्रिभुवन-
गुरुः स्रष्टृत्वेन त्रैलोक्यस्य पितृवत् पूज्य: । अपिना प्रजाप
त्यादीनां का वार्तेति द्योत्यते । अनेकाः बह्वी: । अब्दकोटी:
संवत्सराणां दश अयुतानि । असंख्येयत्वोपलक्षणं चैतत् ।</p>
<pb n="124" />
<p>'कालाध्वनोरत्यन्तसंयोगे' इत्युभयत्र द्वितीया । अन्तमव-
सानं गन्तुं प्राप्तुम्, त्रिभुवनस्येत्यर्थात्, न समर्थः अशक्तः
पुनः पश्चात् भ्रमर इव भृङ्ग इवेत्यनेन यथा निष्पर्यन्ते
गगने स्वशक्त्यविज्ञानेन दूरं भ्रमितुमुद्यच्छमानो भ्रमरः खिन्न-
खिन्नः सन्नपक्ष: क्षितितले विवशः पतति एवमसावपीति
द्योतयति । ' नभः पतन्त्यात्मसमं पतत्रिणस्तथा समं विष्णु-
गतिं विपश्चितः' इति वचनात् । नाभिनालीकनालात्
नाभिकमलस्य नालात् अधोदेशात् । उन्मज्जन् इत्यनेन तस्य
श्रान्तिं विज्ञाय परमकारुणिकेन भगवता स्वतत्त्वज्ञानसाधन-
तयोपदिष्टं तपश्चिरं तप्त्वा प्राप्तं सृष्टिसामर्थ्यं प्रकाश्यते । तत्सदृ-
क्षम्, तच्छब्देनान्तर्गतं भुवनं परामृश्यते । तेन तुल्यम् । अ-
परमन्यत् बहिर्वृत्ति त्रिभुवनमित्यर्थ: । निर्ममे निर्मितवान् ; प्रति-
मानभूतेन हृदये निहितेन तेन तेनोपायेन इदमिदमधिकरणम्
इदमिदं रूपम् इदमिदं नामकमिति निर्णीय स्थावरजङ्गमात्मकं
जगत्ससर्जेत्यर्थः । 'इत्थं समुद्वीक्ष्य तदब्जनालनाडीभिरन्त-
र्जलमाविवेश । नावग्गतस्तत्खरनालनाडी: स वै विचिन्वंस्त-
दविन्दताजः । तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभू-
त्स महांस्त्रिणेमिः । ततो निवृत्त्या प्रतिलब्धकामः स धिष्ण्य-
मासाद्य पुनः स देवः । शनैर्जितश्वासनिवृत्तचित्तो न्यषीद-
दारुद्धसमाधियोगः । स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्य-</p>
<pb n="125" />
<p>त यन्नपूर्वम्' इति, 'प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते'
इति श्रीभागवतवचनात् । 'विरमति महाकल्पे नाभीप-
थैकनिकेतनस्त्रिभुवनपुर: शिल्पी यस्य प्रतिक्षणमात्मभूः ।
किमधिकरणं कीदृक्कस्य व्यवस्थितिरित्यसावुदरमविशद्द्रष्टुं
तस्मै जगन्निधये नमः' इति मुरार्युक्तेश्च । देहाम्भोधिः
समुद्र इव विग्रहः । उपमायाः हेतुमाह - निरवधिः परिच्छे-
दरहितः । 'विष्णोरिवास्यानवधारिणीयमीदृक्तया नूनमियत्त-
या वा' इति रघुवंशोक्ते: । अमृतम्, मृतं मृतिः त-
दभावः अमृतम् । 'अमृतस्य च ' इति भगवद्वच-
नात् जननाभाव एवामृतम् । तस्य च मुक्तिमन्तरे-
णासंभवात् मुक्तिरित्यर्थः । 'अथ मर्त्यो मृतो भवत्यत्र ब्रह्म
समश्नुते' ' एष त आत्मान्तर्याम्यमृतः' इति श्रुतेः । 'अमृत-
त्वाय कल्पन्ते ' इति स्मृतेश्च । अम्भोधित्वारोपात् अमृत-
दानोपपत्तिश्च । देयादित्याशिषि लिङ् । अत्रातिशयोक्तिरु-
पमा चालंकारः ॥ ४८ ॥
अथ 'समस्तशक्तिरूपाणि तत्करोति जनेश्वरः । देवतिर्य-
ङ्मनुष्याख्याश्चेष्टापयति लीलया' इति 'एतन्नानावताराणां
निधानं बीजमव्ययम्' इत्यादिवचनैः जगदनुग्रहाय भगव-
द्विग्रहस्यैव मत्स्याद्याकाररूपेण विवर्तमानत्वात् तानेवावतार -
विशेषानुपास्ते । व्यष्टिभूततदुपासनस्यापि समष्टिभूतवासुदेवो-</p>
<pb n="126" />
<p>पासनत्वेन परिणामात्-</p>
<lg>
  <l>मत्स्य: कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्य:</l>
  <l>काकुत्स्थःकंसघातीमनसिजविजयीयश्चकल्किर्भविष्यन् ।</l>
  <l>विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः</l>
  <l>पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥</l>
</lg>
<p>मत्स्यः मीनः । कूर्मः कच्छपः । वराहः सूकरः । नरह-
रिणपति: नरः पुरुषः हरिणपतिः सिंह: 'सिंहो मृगेन्द्रः
पञ्चास्यः' इत्यमरः । 'भ्रूणान् हन्ति हरिणानिव हरिणेश:
किशोरकम्' इति हर्षोक्तेः । नरश्चासौ हरिणपतिश्च नरहरि-
णपति: नरसिंहः, कण्ठादुपरि सिंहाकारत्वादधः पुरुषाका-
रत्वाच्च । वामनः अदित्यां कश्यपाज्जातो मायावटु:।
जामदग्न्यः जमदग्ने: भार्गवस्थापत्यं परशुराम: । काकुत्स्थ:
ककुत्स्थ इति प्रसिद्धः कश्चिदैक्ष्वाको राजर्षिः, तद्गोत्रभवो दा-
शरथी राम इत्यर्थ: । कंसघाती कालनेमेरवतारमुग्रसेनसुतं कं-
साख्यं हतवान् देवकीपुत्रः कृष्ण इत्यर्थः । मनसिजविजयी
मनस इन्द्रियाणां च निग्रहात् कामं जितवानिति बुद्धमुनिः;
' मारजिल्लोकजिज्जिन: ' इत्यभिधानात् । जिनमुनेरपि भग-
वदवतारेषु दशस्वन्यतमत्वेन भागवतादिप्रसिद्धेः ' लोकान्</p>
<pb n="127" />
<p>तामिति विमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्य-
म्' इति भागवतोक्तेः । ' इत्युक्ते भगवांस्तेभ्यो मायामोहं
शरीरतः । समुत्पाद्य ददौ विष्णु: प्राह चेदं वचः सुरान् ' इति
श्रीविष्णुपुराणवचनात् । बलभद्रस्य तु शेषावतारत्वेन प्रसिद्धे-
श्चेयमुक्तिः । 'मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः । रामो
रामश्च बुद्धश्च कृष्ण: कल्की च ते दश इति गणनात् ।
अत्रापि 'रामो रामश्च रामश्च' इति कैश्चित्पठ्यते । स तु
पाठोऽनन्तस्यापि भगवन्मूर्तित्वात् तदवतारस्यापि भगवद-
वतारविवक्षयेति मन्तव्यम् ; कृष्णबलभद्रयोस्तुल्यकालत्वा-
देकस्मिन् काले अवतारद्वयस्यानुपपत्तेः अङ्गभूतानामवता-
रस्य चं प्राधान्याङ्गीकारे लक्ष्मणाद्यवतारेष्वपि ताथाभाव
इति त्रयोदशत्वप्रसङ्गात् । कल्किः भविष्यन्, कल्कि: 'भविता
विष्णुयशसो नाम्ना कल्किर्जगत्पतिः' इति दिव्यदृष्टिभिर्दृष्ट्वा
जगत्यागामित्वेन आदिष्टः कल्किनामा यः स चेति पूर्वोक्तस-
मुच्चयार्थश्चकारः । इतिरध्याहार्यः । इत्यनेन प्रकारेण ये वि-
ष्णोर्वासुदेवस्य अंशावतारा: - दीपस्येव दीपान्तरावताराः,
अपरिलुप्तस्वसामर्थ्यस्यैव कालरूपेण जगति प्रादुर्भावात् । गुरु-
तरकरुणाभारखिन्नाशया: अलघीयसा दयया भारेण दुर्वहेन
अतिशयेन खिन्नः आक्रान्त आशयो हृदयं येषाम् । खिन्न-
त्वेन कार्येण आक्रमणं कारणं लक्ष्यते । तथात्वं कथं ज्ञायत</p>
<pb n="128" />
<p>इत्यत्राह- भुवनहितकरा: भुवनस्य स्थावरजङ्गमात्मकस्य
हितं श्रेयः तस्य करा: ; न तु प्रीतिमात्रं तत्र पित्रोरिवेत्यर्थः ।
स्तनंधयस्येव भुवनस्य हितापरिज्ञानात् । 'कृञो हेतुताच्छी-
ल्यानुलोम्येषु' इति ताच्छील्ये टः । तत्र हेतु: धर्मसंस्था-
पनार्था: धर्मस्य वर्णाश्रमाद्यानुगुण्येन श्रुत्या कर्तव्यत्वेन चो-
दितस्यार्थस्य सम्यक् स्थापनं स्थिरीकरणं प्रयोजनं येषाम् ।
'स्वे स्वे कर्मण्यभिरतः सिद्धिं विन्दति मानव : ' इति,
'धर्मो माता पिता धर्मो धर्मा ज्ञातिस्तथा सुहृत् ।
धर्मः स्वर्गश्च मोक्षश्च धर्मः स्वामी परंतप ' इत्यादि-
वचनैः यथा यथा धर्मानुष्ठानस्यैव विहितत्वात्, धर्म-
स्य च परिपन्थिनिरासेन स्वयमनुष्ठानेन च भगवदवतारे-
णैव संस्थाप्यमानत्वादिति भावः । 'परित्राणाय साधूनां
विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे
युगे' इति, 'यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः । मम
वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः' इत्यादिभगवद्वचनात् ।
दानवापहृतत्रयीप्रत्याहरणादिभिर्मात्स्यस्य, मन्दरोद्धारणादि-
भि: कौर्मस्य, धरणीमण्डलोद्धरणादिभिर्वाराहस्य, हिरण्यव-
धादिभिर्नारसिंहस्य, बलिबन्धनादिभिर्वामनस्य, दुष्टक्षत्रक्षप-
णादिमिर्जामदग्न्यस्य, रावणप्रमापणादिभिः काकुत्स्थस्य, पूत-
नापातनादिभिः कार्ष्णस्य, त्रिपुरासुरविप्रलम्भादिभिः बौद्धस्य,</p>
<pb n="129" />
<p>कलियुगकलुषनिरसनेन कृतयुगस्थापनादिभिः काल्क्यस्य चा-
वतारस्य जगद्धितकरणप्रसिद्धेश्च । ते यच्छब्देन परामृष्टाः ।
एते अतीतानागतत्वेऽपि भावनावशात् वर्तमानत्वेन भक्तेरनु-
मीयमाना इत्यर्थः । पायासु: रक्षन्त्विति आशिषि लिङ् । अत्र
स्वभावोक्तिरतिशयोक्तिर्भाविकं चालंकारः । अवतारस्वभाव-
वर्णनात् कारुणिकत्वातिशयस्य भारखिन्नत्वेनाध्यवसायादती-
तानागतानां प्रत्यक्षायमाणत्वाच्च ॥ ४९ ॥
अथ भक्ताभ्यवपत्तये मूर्तत्वेन विवृत्तमूर्तं सकलजगदधि-
ष्ठानं सच्चिदानन्दैकरसं वस्तु भङ्ग्योपास्ते । अमूर्तानुप्रवेशा-
न्मूर्तोपासनस्य ; 'संधानस्य तु लक्षार्थं तस्य रूपमिदं स्मृतम्'
इति, 'यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते पृथक् । नाग्नि-
रानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः' इति वायूक्तेः ।
'क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गति-
र्दुःखं देहवद्भिरवाप्यते' इति भगवद्वचनात् । 'उपाय: सोऽ-
वताराय नास्ति भेदः कथंचन' इत्याचार्यवचनाच्च-</p>
<lg>
  <l>यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः</l>
  <l>स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।</l>
  <l>नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब-</l>
  <l>च्छायापत्त्यापिनित्यंसुखयतियमिनोयत्तदव्यान्महो नः ॥</l>
</lg>
<pb n="130" />
<p>वाचः वागिन्द्रियशक्तयः । निवृत्ताः पराचीनं प्रसृताः,
स्वकर्मभूतवचनव्याप्यत्वाभावात् । जात्यादिद्वारा हि वाचो
वक्तव्याभिव्याप्तिः । जात्यादिहीनमनुभवैकगोचरं सा कथं
विषयीकुर्यात्, 'यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव
ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' इति श्रुतेः । निवृत्तेर्वि-
रामार्थत्वात् यस्मादिति पञ्चमी । 'अगोचरे वागिव चोप-
रेमे' इति, 'इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् । तथापि
न तदाख्यातुं सरस्वत्यापि शक्यते' इत्याद्याप्तवचनात् ।
मनसेत्यन्तःकरणोपलक्षणम्, 'यन्मनसा न मनुते येनाहुर्मनो
मतम् ' 'न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजा-
नीयाः ' इति श्रुतिभ्यः । मनसा समं सहेति तस्यापि मूर्ति-
मेवानुध्यातुं सामर्थ्यादत्र च तदभावादिति भावः । मनसा
संकल्पितस्यापि 'वचनलिङ्गाद्धि वक्तुरभिप्राय: ' इति न्या-
यात् वाग्व्यापारमन्तरेण बालमूकादिविज्ञानसदृशत्वाद्वाच एव
प्राधान्यमिति मनसा सममित्युक्तिः, 'सहयुक्तेऽप्रधाने
इति स्मरणात् । अनया चोक्त्या 'यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सह ' इति श्रुतिवाक्यमनुस्मार्यते । तर्हि
' तं त्वौपनिषदं पृच्छामि', 'वेदान्तविज्ञानसुनिश्चितार्थाः',
' सर्वे वेदा यत्पदमामनन्ति', 'वेदैश्च सर्वैरहमेव वेद्यः
इत्यादिश्रुतिस्मृतिवचनानां संगतार्थत्वं कथं नामाभूत् इत्य-</p>
<pb n="131" />
<p>त्राह – स्वार्थालाभात् स्वं मुख्यम् अर्थं वाच्यम्, अलाभात्
जात्यादिद्वारविरहात् अप्राप्य । ततो हेतोः लक्षणामीक्षमाणाः
मुख्यां वृत्तिं परित्यज्य लक्षणावृत्तिमङ्गीकुर्वाणाः, 'मानान्त-
रविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूतप्रतीते-
र्लक्षणेष्यते ' इति ' मुख्यार्थबाधे तद्योगे रूढितोऽर्थप्रयोजनात् ।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया' इत्यादिना
आचार्यैर्लक्षिता लक्षणावृत्तिः । सा च त्रिविधा; जहत्स्वार्था
अजहत्स्वार्था जहदजहत्स्वार्था चेति । तत्र तृतीया द्विधा
श्रुत्या कटाक्ष्यते, 'तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सेयमित्यादिवाक्यस्थपदयोरिव नापरा' इत्याचार्यवचनात् ।
'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'अयमात्मा ब्रह्म इत्यादिब्र-
ह्यात्मपरेषु महावाक्येषु मुख्यार्थबाधमूलत्वं च तत्प्रवृत्तेर्दर्शि-
तम् । 'प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते
यतस्तस्माल्लक्षणा संप्रवर्तते' इति, 'सोऽयं विद्वानित्यव-
बोधस्तव यद्वद्देशं कालं चापि विरुद्धं प्रविहाय । तद्वत्कर्तृत्वा-
दिविरुद्धं यदिहास्तीत्युक्त्वा सर्वं तत्सदसि त्वं परिशिष्टम् '
इत्यादिवचनैः महावाक्यानामियं गतिर्दर्शिता । तत्राप्यत-
द्व्यावृत्तिरूपेण कथमपि प्रतिपादयति, साक्षाद्विधेस्तावदगोचर-
त्वादित्याह- परार्थव्यपगमकथनश्लाघिनः परस्य अन्यस्य त-
स्मादित्यर्थात्, अतद्भूतस्येत्यर्थः । अर्थस्य वस्तुनः स्थूलसूक्ष्म</p>
<pb n="132" />
<p>देहयोस्तद्धर्माणां चेत्यर्थः । व्यपगमः अविद्याध्यस्तत्वेन मि-
थ्यात्वम् । तेन कथनं तद्वारेण प्रतिपादनम्, बाध्यानामधिष्ठाने
नाबाध्यमानत्वात् सत्यम्, अपरिलुप्तदृक्स्वरूपत्वात् ज्ञानम्, प-
रमप्रेमास्पदत्वादानन्दम्,अपरिच्छिन्नत्वादनन्तं च यत्परिशिष्टं
तदिति भङ्ग्या प्रकाशनमित्यर्थः, 'अवचनेन प्रोवाच इति
श्रुतेः। श्लाघयितुमभिनन्दितुं येषाम् । वेदवादाः श्रुत्यन्तोक्तयः
इत्यनेन परस्वरूपनिरूपणपराणां च तटस्थस्वरूपलक्षणप्रतिपा-
दकानामवान्तरवाक्यानां प्रवृत्तिः प्रतिपादिता । 'यतो वा इ-
मानि भूतानि जायन्ते' 'सत्यं ज्ञानमनन्तं ब्रह्म ' ' आनन्दो
ब्रह्म ' ' नेति नेत्यात्मा' 'नेह नानास्ति किंचन' 'अस्थूलम-
नण्वह्रस्वमदीर्घम्' इत्यादिवचनैः । यस्मादित्युक्तेर्यस्मिन्निति
विभक्तिविपरिणामेन योजनीयम् । यस्मिन् विषये वर्तन्त इति
शेषः । अथवा, निवृत्ता इति अत्रापि संबध्यते, तेषामपि फलतो
निवृत्तत्वात् । पूर्वभागस्य कर्मप्रतिपादकस्य ज्ञानप्रतिपादको-
त्तरभागशेषत्वात् शेषिण एव मुख्यत्वम् । अतो वेदान्ताना-
मेव मुख्यं वेदत्वमित्यभिप्रेत्य वेदवादाः इत्युक्ति: । अतो वा-
ङ्मनसागोचरत्वोक्तिरौपनिषदत्वाद्युक्तिश्च न विजाघटीतीति भा-
वः । आगमोऽप्यात्मन्यध्यारोपिताविद्यानिवर्तकत्वेन ब्रह्मात्म-
नोरेकत्वप्रतिपत्तिं प्रति प्रमाणत्वं प्रतिपद्यत इति आचार्य-
वचनात् । प्रमाणाद्धेयातिशयत्वं हि परप्रकाश्यत्वं तच्च ब्रह्म-</p>
<pb n="133" />
<p>णि नास्तीति भाव: । अतीतः पन्थानं तव च महिमा
वाङ्मनसयोरतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इति
भट्टाचार्यैरप्ययमर्थः प्रतिपादित: । वाङ्मनसागोचरत्वं सा-
धितं चेत्, तर्हि प्रमाणशून्यत्वात् तुरगशृङ्गादिवन्निरुपाख्यत्वं
प्रसक्तमित्यत्राह – स्वसंविदिति; स्वप्रकाशम् अवेद्यत्वे सति
अपरोक्षव्यवहारयोग्यमित्यर्थः, 'अत्रायं पुरुषः स्वयंज्योतिः '
'आत्मनैवायं ज्योतिषास्ते' इत्यादिश्रुतिभ्यः । अत: स्वानु-
भवसिद्धे वस्तुनि कः खल्वनुन्मत्तस्तुच्छत्वाशङ्कातङ्कपङ्कमङ्कुरय-
ति । न हि नाहमस्मीति किंचित्प्रत्येति । सुषुप्तेऽपि ' न किंचि
दवेदिषम्' इति वेद्यस्यैव निषेधो न वेदितु: 'यानुभूतिरजामे-
या' 'स्वानुभूत्यैकमानाय' इत्याद्याचार्यवचनात् । तथा चाहु-
रभियुक्ताः — 'यत्सिद्ध्या बहु सिध्यात् स्वानुसंधिविडम्बना ।
तत्कृते मीलिताक्षेभ्यो महद्भयः क्रियते नमः ' इति । स्वयं
विदिति स्वयं ज्ञानस्वरूपमित्यपि ज्ञानादिगुणत्वोक्तिनिरसनाय
साधितं ज्ञेयम्, 'तद्यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृ-
त्स्नो रसघन एव एवं वा अरे अयमात्मानन्तरोऽबाह्य:
कृत्स्न: प्रज्ञानघन एव इति श्रुतेः । नित्यानन्दम् अनश्वर-
सुखं परमप्रेमास्पदत्वात् 'आत्मनस्तु कामाय सर्वं प्रियं
भवति' इति श्रुतेः । नित्येति भङ्गुरसुखव्यावृत्तिः ।
अबाध्यत्वपर्यायेण नित्यत्वेन सत्यत्वमप्युक्तम्, 'सत्यम्</p>
<pb n="134" />
<p>बाह्यं बाह्यमिवेति तद्विवेकः' इत्याचार्योक्तेः । निरवधि
अवधि: परिच्छेदः देशकालवस्तुभिः परिच्छेदरूपादवधेर्य-
न्निष्क्रान्तमित्यर्थः । 'निरादयः कान्ताद्यर्थे पञ्चम्या' इति
समास: । अनेन अनन्तमित्युक्तम् । 'सत्यं ज्ञानमनन्तं ब्रह्म ',
' विज्ञानमानन्दं ब्रह्म ' इति श्रुतिगतानां सत्यज्ञानानन्तानन्द-
पदानामनृतजडपरिच्छिन्नदुःखव्यावृत्तिमुखेन ब्रह्मणि प्रवृत्तिः
न स्वरूपभेदेनेत्यखण्डार्थता प्रकाशितेति ग्राह्यम् । तदेव जगद-
नुग्रहाय दिव्यां मूर्तिमवलम्ब्य भक्तान् प्रमोदयतीत्याह–वि-
मलस्वान्तसंक्रान्तबिम्बच्छायापत्त्या, मैत्र्यादिभावनावशात् भ-
क्तिविद्याभ्यां च क्षालितरागद्वेषादिकलङ्के स्वान्ते मनसि दर्प-
णस्थानीये संक्रान्तस्य प्रविष्टस्य बिम्बस्य धारणायान्तःस्थिरीकृ-
तस्य विष्णुविग्रहस्येत्यर्थात् छाया शोभा, अथवा बिम्बस्य प्र-
तिबिम्बस्य प्रकृतिभूतस्य छाया प्रतिबिम्बः 'बिम्बोऽस्त्री मण्डल-
समप्रतिमासु च लक्ष्मसु । प्रतिबिम्बे तत्प्रकृतौ ' इति; 'छाया-
त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः' इति वैजयन्ती । तस्या
आपत्त्या स्वस्य तद्भावप्राप्त्या, अथवा तदनुभूत्या, अमृतरसतृ-
षितस्येव मोदकात् एतत्स्वरूपभूतानन्दकन्दलितस्य विग्रह-
स्य स्वाद्यमानस्य यदा अयं प्रभावः, तदा किं ब्रूमो वयममृ-
तस्यैव साक्षादनुभूयमानस्य इत्यपिना द्योत्यते । यमिनः
परमयोगिनः सनकादीन् । योगाभ्यासमन्तरेण तदनुभवस्या-</p>
<pb n="135" />
<p>प्यशक्यत्वात् । नित्यं सुखयति दुःखोदर्कसुखव्यतिरेकेण एका-
न्ततोऽत्यन्तं च सुखयति तदात्वे निर्वृतिजनकत्वात् उपरि
विदेहकैवल्यानन्दहेतुत्वाच्च सदा सुखितान् करोतीत्यर्थः ।
तन्महः 'ज्योतिषां ज्योतिः' 'आत्मनैवायं ज्योतिषास्ते' इत्या-
दिश्रुतेः । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्च-
न्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्यादिस्मृतेश्च ।
अव्यात् स्वानुभूत्या संसारदु:खेभ्यो रक्षतु इति । अत्र सूक्ष्मा-
तिशयोक्तिरर्थापत्तिश्चालंकार: ॥ ५० ॥
एवं सकलनिष्कलाभ्यां परमेश्वरमुपास्य इदानीमित्थंभा-
वेनोपासमानमपि यो भजते तस्यापि कृतार्थता भवति, किं
पुन: स्वयमुपासमानस्येति वा, सकलोपासकस्यायं प्रभावः
किं पुनर्निष्कलोपासकस्येति वा व्यञ्जयितुमुपास्यमहात्मानमु-
पास्ते । 'बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः
सर्वमिति स महात्मा सुदुर्लभ: । क्लेशोऽधिकतरस्तेषामव्य-
क्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते'
इति भगवतैव तस्य स्तुतत्वात् । 'मद्भक्तजनवात्सल्यं पूजायां
चानुमोदनम्' इत्यादीनां भक्तिलक्षणत्वेन प्रकाशितत्वात् ।
त्वद्भक्तभृत्यपरिचारकभृत्यभृत्यभृत्यस्य भृत्य इति मां स्मर
लोकनाथ ' इति परमभागवतश्रीकुलशेखरमहाराजवचनाच्च ।</p>
<pb n="136" />
<lg>
  <l>आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते</l>
  <l>धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्त:प्रमोदः ।</l>
  <l>जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमन्त्रानुपाठै-</l>
  <l>स्तत्पादाम्भोरुहाभ्यांसततमपिनमस्कुर्महेनिर्मलाभ्याम् ॥</l>
</lg>
<p>आपादादिति जात्येकवचनम् 'तत्कुर्यात् गरुडसमं नरस्य
चक्षुः' इत्यादिवत् । पादादारभ्य । आङभिविधौ । आशी-
र्षात् शीर्षात् शिरस: ' उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः ।
शीर्षमवधि कृत्वेति साकल्यमुक्तम् । आङत्र मर्यादायाम् ।
वपुः मूर्तिः । इदं समनन्तरवर्णितम् । अनघम् अघस्य पा-
पस्य विरुद्धम्, तदन्यतद्विरुद्धतदभावद्योतकत्वान्नञः, अधर्म
इत्यादिवत् । वैष्णवं विष्णो: संबन्धि । 'तस्येदम्' इत्यण् ।
स्वचित्ते स्वीयत्वेन निश्चिते मनसि । निरस्ताखिलकलिकलुषे दूर-
तः क्षिप्तं कलिकालजनितं कलुषं कालुष्यं यस्मात् तत् । काल-
विशेषणं चैतत् । 'यथाग्निरुद्धतशिख: ' इतिवत् । 'आयास-
स्मरणे कोऽन्यः स्मृतौ यच्छति शोभनम् । पापक्षयश्च भवति
स्मरतां तमहर्निशम्' इति पुराणवचनात् । सन्ततान्त:-
प्रमोदः अविच्छिन्नहृदयाह्लादः सन्नित्यर्थः । अनेन द्रव-
च्चित्तप्रेमाश्रुपुलकोत्सवसंपत्त्या बहिः स्पष्टक्षोभः इति
सूचितम् । धत्ते धारयतीति अनेन मानससंताप उक्तः ।</p>
<pb n="137" />
<p>वाचिकमाह - जिह्वाकृशानौ रसनाधिदेवतारूपेऽग्नौ 'वह्नीन्द्रौ-
चेन्द्रमित्रका' इति भागवतोक्तेः । हरिचरितहविः भगवतो
वेदाहरणादिरूपवृत्तान्तात्मकं हव्यं पवित्रत्वात् दिव्यत्वेन स्वा-
द्यत्वात् उपरि महाफलप्रसोतृत्वाच्च हविष्ट्वारोपः । 'यच्छृण्वतां
रसज्ञानां स्वादु स्वादु पदे पदे' इत्यादिवचनैः । स्तोत्रमन्त्रा-
नुपाठै: वैदिकपुरुषसूक्तादिपौराणिकब्रह्मपरादिस्तुतिमन्त्रजपपु-
रःसर: जुह्वत् समर्पयन् सन्निति तत्कालविशेषणम् । उभा-
भ्यां च नान्तरीयकतया हिंसादिवर्जनभगवत्प्रणामादिरूपं शा-
रीरं तपः सिद्धमेव । जुह्वदित्यनेन 'शब्दादीन् विषयानस्य
इन्द्रियाग्निषु जुह्वति' इति, 'श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानय-
ज्ञ: परंतप ' इति, 'ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् '
इति भगवद्वचनमनुसंधत्ते । अत्र वैष्णवं वपुरिति शुद्धधार-
णास्पदत्वम् , इदमिति वर्णितमधुरप्रकारविशिष्टत्वम्, अनघ-
मिति पापक्षयरूपं धारणाफलम्, स्वचित्त इति 'योगश्चित्त-
वृत्तिनिरोध: ' इति वचनात् योगस्य च यमाद्यनुष्ठानरूपत्वा-
त् यमादिप्रत्याहारान्तपञ्चाङ्गीवशीकृतत्वं चित्तस्य, धत्त इति
' धारणान्नित्यम्' इति प्रत्ययान्तरतिरस्काराद्ध्यानम्, निरस्ता-
खिलेति मैत्र्यादिभावनाफलम् , सन्ततान्तःप्रमोद इति पर-
मेश्वरैक्यानुसंधानजनितपरमानन्दानुभवरूपः समाधिश्च प्र-
काश्यते । वपुर्धत्त इति सबीजसमाधित्वम् जुह्वद्धत्ते</p>
<pb n="138" />
<p>इति सगर्भत्वानुसंधेयम्, ध्यानेन च जपेन च विशिष्टत्वात् ।
अस्मिंश्च पक्षे अद्य परिसमापितस्य प्रबन्धस्य अधिकारिवि-
षयसंबन्धा अपि प्रदर्श्यन्ते । तथा हि - वपुरिदमिति भगव-
द्विग्रहो विषय इत्युक्तम् । सन्ततान्तःप्रमोद इति नित्यसुखा-
पेक्षी मुमुक्षुर्मुख्याधिकारीति सूचितम् । प्रतिपाद्यप्रतिपादक-
भाव: संबन्ध: प्रसिद्धः । एवं परमप्रयोजनमनन्तरश्लोके
प्रतिपादयिष्यते । तत्पादाम्भोरुहाभ्यां तस्य धर्तुश्चरणकम-
लाभ्याम् । सततं नमस्कुर्महे नित्यं नमस्कुर्मः । आत्मने-
पदप्रयोगात् कर्त्रभिप्रायक्रियाफलत्वं सूचयति । 'स्वरित
ञितः कर्त्रभिप्राये क्रियाफले' इति स्मरणात् । 'नम:
स्वस्ति' इत्यादिना चतुर्थी । निर्मलाभ्यां निरस्तसकल-
पापाभ्याम् इति नमस्कारे महाफलत्वं सूचयति निष्कल-
ङ्कमित्यादिवत् । अपि-शब्देन सकलोपासकस्य पादाम्भोरु-
हाभ्यामपि नमस्कुर्महे, किंपुनर्निष्कलोपासकस्येति द्योत्यते ।
अथवा अपि-शब्दोऽनुक्तसमुच्चयार्थ: ; तद्भृत्यादिपादाम्भोरु-</p>
<lg>
  <l>हाभ्यामपि नमस्कुर्मह इति भक्त्या अतिशयः प्रकाश्यते ।</l>
  <l>अत्र पर्यायोक्तं रूपकमतिशयोक्तिश्चालंकारः ॥ ५१ ॥</l>
</lg>
<p>इत्थं प्रारब्धं प्रबन्धं भगवत्प्रसादादविघ्नेन परिसमाप्य
इदानीं परमदयामृतरससरस्वन्तः श्रीमन्तो भगवन्तः शारी-</p>
<pb n="139" />
<p>रकमीमांसाभाष्यकारा : शंकरभगवत्पादाः स्वयं परमतपस्वि-
तया परमेश्वरावतारभेदतया च स्तोत्रस्यास्य जप्तॄणां परमं
प्रयोजनमुपस्थापयंति 'ऋषीणां पुनराद्यानां वाचमर्थोऽनुधा-
वति' 'न हीश्वरव्याहृतयः कथंचित् पुष्णन्ति लोके विप
रीतमर्थम्' इत्याद्यभियुक्तोक्तेः । 'एतदाख्यानमायुष्यं पठन्
रामायणं नरः । सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते'
इति, 'भजत्यविकलं यद्वा वाजिमेधफलं लभेत्' इत्यादि-
प्राचेतसपराशरादिवचनात् -</p>
<lg>
  <l>मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः</l>
  <l>पादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।</l>
  <l>उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-</l>
  <l>र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥</l>
</lg>
<p>मोदात् भगवद्विग्रहानुभवजातात् प्रहर्षात् 'नेत्रे जलं गा-
त्ररुहेषु कम्प: ' इत्यादि विकारजनकाद्धेतोः न तु ख्यात्यादि-
लोभादित्यर्थः । इतिरचिताम् अनेनानन्तरोक्तेन कम्बुराजादि-
परिवारावर्जनपुरःसरेण प्रकारेण ग्रथिताम्, मोदादितिरचि -
तामित्यनेन उद्वेलस्य भक्तिसुधासिन्धोस्तरङ्गरूपेणाविर्भूतत्वं
द्योत्यते । पादादिकेशस्तुतिं पादादिकेशान्तविग्रहसमग्रवर्णन-
परत्वात् पादादिकेशान्तसंज्ञितं स्तोत्रम्, अन्तशब्द: प्रसि</p>
<pb n="140" />
<p>द्ध्या नोपात्तः । कीर्तयित्वा उच्चार्येति वागिन्द्रियप्रावण्यमु-
क्तम्, त्रिधाम्नः भगवतः । पादाब्जद्वन्द्वसेवासमयनतमति:
श्रीमदष्टाक्षरादिभिर्मन्त्रमुख्यैः या पादकमलद्वयस्य सेवा उपा-
सनं तत्काले नता प्रवणा मति: बुद्धिर्यस्य । अनेनान्तः-
करणस्थैर्यं प्रकाशितम् । मस्तकेन शिरसा । आनमेत् । त्रि-
धामानं पादाब्जद्वन्द्वं वा अर्थात् प्रणमेत् पूजासाधन इत्यौचि-
त्यात् । अनेन शरीरप्रावण्यं दर्शितम् । मनोवाक्कायानां सम-
प्रह्वीभावे परमेश्वरस्य सर्वथा करुणाकटाक्षः पतिष्यतीति
भावः । कीर्तयित्वेत्यवीप्सया सकृदुच्चारणस्यायं प्रभावः । क्रि-
यासमभिहारस्य तु कथं कथ्यतामिति व्यञ्जयति । आनमेदि-
ति संभावनायां लिङ् । मनुष्याणां सहस्रेषु हि स पुण्यात्मा
संभवतीति द्योतयति । आत्मनेति विभक्तिप्रतिरूपकमव्ययम् ।आत्मानमात्मना वेत्सि ' इत्यादिवत् । स्वयमित्यर्थः । अनेन
स्वरूपपरित्राणे तस्य परमनिरपेक्षत्वमुक्तम् । एनोनि-
चयकवचकं बहुजन्मसमार्जितपापपुण्यरूपं कञ्चुकम्, स-
र्वत आवारकत्वात् मलिनत्वात् पारतन्त्र्यकरणत्वाच्च
कवचत्वारोपः । कुत्सायां कप् ।उन्मुच्य सर्पस्त्व-
चमिवावधूयेत्यनेन दारिद्र्यव्याधिशत्रुपीडाद्यनर्थानामेनोनिच-
यकार्यत्वात् तस्य च निवृत्तत्वात् समग्रसंपदारोग्यरिपुजया-
द्यैहिकसुखानुभूत्या दीर्घस्यायुषः प्रतिपत्तिः तत्त्वज्ञानप्राप्तिश्च</p>
<pb n="141" />
<p>प्रकाशिता । पञ्चतां पञ्चभूतसमष्टिरूपत्वाच्छरीरस्य तत्परिग्रहस्य
च कर्मफलभोगाद्यर्थत्वात् भोगेन प्रारब्धे कर्मणि क्षीणे
तच्छरीरं पुनः प्रकृतिभूतभूतपञ्चके लीयते इति पञ्चता
मृतिः । 'वियति वियन्मरुति मरुद्वह्नौ वह्निर्जलं जले भुवि
भूः । लीयन्ते स्वप्रकृतावहमपि मय्येव' इत्याद्यभियुक्तोक्तेः ।
तां पञ्चताम् एत्य इति ' लशुनं गृञ्जनं चैव भुक्त्वा चान्द्रायणं
चरेत्' इत्यत्र यथा प्रमादात् भुक्तं चेत् तदानीमियन्नि-
ष्कृतिरित्यनुवादोऽर्थः, न पुनरवश्यं कृत्वा पश्चाच्चान्द्रायणं
चरेदिति 'स्नात्वा भुञ्जीत' इत्यादिवद्विधिः । अतश्च मार्क-
ण्डेयादिवत् परमेश्वरोपासकानामाप्रलयमवस्थितेः 'प्रभुरहम-
न्यनृणां न वैष्णवानांम्' इति वचनात् न प्राकृतवत् पार-
तन्त्र्येण मृतिः । अपि तु संसारवैराग्यात् परानुग्रहादिना वा
'कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्' इत्युक्तत्वात्
शरभङ्गदधीचादिवत् स्वेच्छोत्क्रमणादिभिः शरीरं त्यजन्ति
चेत्यर्थः । भानोः सूर्यस्य बिम्बान्तर्गोचरं मण्डलान्तर्वर्ति ।
परमानन्दं सर्वस्मादुत्कृष्टं सुखम् इतः परस्य सुखस्याभावात्।
मानुषमानन्दमुपक्रम्य तारतम्येनानन्तराण्यनुक्रम्य ब्रह्मानन्दे
तारतम्याश्रयत्वस्यौपाधिकत्वे घटाकाशत्वस्येवातात्त्विकत्वं स्या-
त् आत्मस्वरूपं भानोर्बिम्बान्तर्गोचरं परमानन्दं प्रविशति
उपाधिविधूननेन तदेव भवतीत्यर्थः । 'स यश्चायं पुरुषे ।</p>
<pb n="142" />
<p>यश्चासावादित्ये । स एकः' इति श्रुतेः । भक्त्या त्वनन्यया
शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च
परंतप ' इति, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्'
इति च भगवद्वचनात् । 'संदृश्यते वाप्यथ गम्यते वा
तज्ज्ञानमज्ञानमतोऽन्यदुक्तम्' इति, 'विभेदजनके ज्ञाने
नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करि-
ष्यति' इति च श्रीविष्णुपुराणवचनात् । परमानन्दं विशती-
त्यनेन पूर्वश्लोकप्रतिपादितस्य सबीजसमाधेः फलभूतं निर्बी-
जसमाधिं प्राप्य तत्फलं कैवल्यं लभत इत्यपि दर्शितम् ।
अत्र परिसंख्या रूपकं चालंकारः । अस्य च प्रबन्धस्य
धारणाधारभगवद्विग्रहपरत्वाधारयानुध्यानपरत्वात् समाधेश्च
विदेहकैवल्यपरमानन्दप्रयोजनत्वादैहिकसुखानां च 'तस्या-
न्तरायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम् ' ' तस्मिन् प्रपन्ने
किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते' इत्यादिवच-
नैरानुषङ्गिकत्वेनावर्जनीयत्वादैहिकसुखानुभूतिरात्मलाभश्च प्र-
योजनमिति बुभुक्षुभिर्मुमुक्षुभिश्च श्रोतव्यत्वं पाठ्यत्वं जप्य-
त्वमनुसंधेयत्वं चेति सिद्धम् । कीर्तयित्वा नमेद्यः इत्य-
विशेषोक्तश्चतुर्णां वर्णानां यस्य भक्तिः स चात्राधिकारीति
सूचितम् । 'मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । न मे
6
;</p>
<p>6 भक्त्या त्वनन्यया</p>
<pb n="143" />
<p>प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि यः । तस्मै यस्मै ततो ग्राह्यः
स च पूज्यो यथा ह्यहम्' इति स्मृतिवचनैः ॥ इत्यशेष-
मतिमङ्गलम् ॥</p>
<lg>
  <l>इत्थं पादादिकेशस्य भगवत्पादनिर्मितेः ।</l>
  <l>भक्तिमन्दाकिनीं व्याख्यां चक्रे पूर्णसरस्वती ॥</l>
</lg>
<lg>
  <l>मृद्वङ्घ्रिश्लिष्टजङ्गं विकटकटितटं निम्ननाभिस्थपद्मं</l>
  <l>सत्कुक्षिव्यूढवक्षः पृथुलभुजमुरुस्कन्धमुद्दामकण्ठम् ।</l>
  <l>बिम्बोष्ठं सुष्टुगण्डं सितरदमरुणापाङ्गमुत्तुङ्गघोणं</l>
  <l>शोणाक्षं सुश्रु चोत्थालिकलुठदलकं पातु विष्णोर्वपुर्वः ॥</l>
</lg>
<lg>
  <l>भक्तिर्विष्णुपदाम्बुजप्रणयिनी वाणी सुधावर्षिणी</l>
  <l>निर्धूतप्रतिहस्तिमुक्तिविरतौ यस्य प्रतीक्ष्यं मतम् ।</l>
  <l>व्याख्यानं वटमूलनस्य महसस्तस्यापि विस्मापनं</l>
  <l>तं वन्दे यतिसिंहमागमफलक्षेमंकरं शंकरम् ॥</l>
</lg>
<p>इति श्रीपूर्णसरस्वत्याः कृतिः श्रीमत्पादादिकेशव्याख्या
भक्तिमन्दाकिनी नाम संपूर्णा ॥</p>
</body>
</text>
</TEI>