विग्रहव्यावर्तनी सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ १ ॥ यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्याञ्च पृथक् च सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । नहि बीजे हेतुभूतेऽङ्कुरोऽस्ति न पृथिव्यप्तेजोवाय्वादीनामेकैकस्मिन् प्रत्ययसंज्ञिते, न प्रत्ययेषु समग्रेषु, न हेतुप्रत्ययसामग्र्याम्, न हेतुप्रत्ययविनिर्मुक्तः पृथगेव च । यस्मादत्र सर्वत्र स्वभावो नास्ति तस्मान्नि:स्वभावोऽङ्करः । यस्मान्निःस्वभावस्तस्माच्छून्यः । यथा चायमङ्कुरो निःस्वभावो निःस्वभावत्वाच्च शून्यस्तथा सर्वभावा अपि निःस्वभावत्वाच्छून्या । अत्र वयं ब्रूमः । यद्येवम्, तवापि वचनम् यदेतच्छून्याः सर्वभावा इति तदपि शून्यम् । किं कारणम् । तदपि हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्त्युर:कण्ठौष्ठजिह्वादन्तमूलतालुनासिकामूर्द्धप्रभृतिषु यत्नेषु उभयसामग्र्यां नास्ति, हेतुप्रत्ययविनिर्मुक्तं पृथगेव च नास्ति । यस्मादत्र सर्वत्र नास्ति तस्मान्निःस्वभावम् । यस्मान्निः स्वभावं तस्माच्छून्यम् । तस्मादनेन सर्वभावस्वभावव्यावर्तनमशक्यं कर्तुम् । न ह्यसताग्निना शक्यं दग्धुम् । न ह्यसता शस्त्रेण शक्यं छेत्तुम् । न ह्यसतीभिरद्भिः शक्यं क्लेदयितुम् । एवमसता वचनेन न शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुम् । तत्र यदुक्तं सर्वभावस्वभावः प्रतिषिद्ध इति तन्न । अथ सस्वभावमेतद् वाक्यं पूर्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥ अथापि मन्यसे मा भूदेष दोष इति सस्वभावमेतद्वाक्यं सस्वभावत्वाच्चाशून्यम् तस्मादनेन सर्वभावस्वभाव: प्रतिषिद्ध इति, अत्र ब्रूमः । यद्येवम्, या ते पूर्वा प्रतिज्ञा, शून्याः सर्वभावा इति, हता सा । किं चान्यत् । सर्वभावान्तर्गतञ्च त्वद्वचनम् । कस्माच्छून्येषु सर्वभावेषु त्वद्वचनम शून्यम्, येनाशून्यत्वात् सर्वभावस्वभावः प्रतिषिद्धः ? एवं षट्कोटिको वादः प्रसक्तः १६ स पुनः कथमिति । हन्त चेत् पुनः शून्याः सर्वभावाः, तेन त्वद्वचनं शून्यम्, सर्वभावान्तगंतत्वात् । तेन शून्येन प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्याः सर्वभावा इति सोऽनुपपन्नः। उपपन्नश्चेत् पुनः शून्याः सर्वभावा इति प्रतिषेधः, तेन त्वद्वचनमपि (प्य? - ) शून्यम् । ( अ ) शून्य त्वादनेन प्रतिषेधोऽनुपपन्नः । अथ शून्याः सर्वभावास्त्वद्वचन. ञ्चाशून्यम्, येन प्रतिषेधः, तेन त्वद्वचनं सर्वत्रासंगृहीतम् । तत्र दृष्टान्तविरोधः। सर्वत्र चेत्पुनः संगृहीतं त्वद्वचनं सर्वभावाश्च शून्याः, तेन तदपि शून्यम् । शून्यत्वादनेन नास्ति प्रतिषेधः । अथ शून्यमस्ति चानेन प्रतिषेधः शून्याः सर्वभावा इति, तेन शून्या अपि सर्वभावाः कार्यक्रयासमर्था भवेयुः । न चैतदिष्टम् । अथ शून्या: सर्वभावाः, न च कार्यक्रियासमर्था भवन्ति मा भूद् दृष्टान्तविरोध इति कृत्वा, शून्येन त्वद्वचनेन सर्वभावस्वभावप्रतिषेधो नोपपन्न इति । किञ्चान्यत् । एवं तदस्तित्वाद् वैषमिकत्वप्रसङ्गः किञ्चिच्छून्यम् किञ्चिदशून्यमिति । तस्मिंश्च वैषमिकत्वे विशेषहेतुर्वक्तव्यो येन किञ्चिच्छून्यम् किञ्चिदशून्यं स्यात् । स च नोपदिष्टो हेतुः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न । किञ्चान्यत् । मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् ॥ शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥ ३ ॥ स्यात्ते बुद्धिः, यथा नाम कश्चिद् ब्रूयान्मा शब्द कार्षीरिति स्वयमेव शब्दं कुर्यात्तेन च शब्देन तस्य शब्दस्य व्यावर्तनं क्रियेत, एवमेव शून्याः सर्वभावा इति शून्येन वचनेन सर्वभावस्वभावस्य व्यावर्तनं क्रियत इति । अत्र वयं ब्रूमः । एतदप्यनुपपन्नम् । किं कारणम् । सता ह्यत्र शब्देन भविष्यतः शब्दस्य प्रतिषेधः क्रियते। न पुनरिह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि मतेन वचनमप्यसत् सर्वभावस्वभावोऽप्यसन् । तस्मादयं मा शब्दवदिति विषमोपन्यासः । प्रतिषेधप्रतिषेधोऽप्येवमिति मतं भवेत्तदसदेव ॥ एवं तव प्रतिज्ञा लक्षणतो दूप्यते न मम ॥ ४ ॥ स्यात्ते वुद्धिः, प्रतिषेधप्रतिषेधोऽप्यनेनैव कल्पेनानुपपन्न:, तत्र यद्भवान् सर्वभावस्वभावप्रतिषेधवचनं प्रतिषेधयति तदनुपपन्नमिति । अत्र वयं ब्रूमः । एतसदप्यसदेव । कस्मात् । तव हि (एतत् ? ) प्रतिज्ञालक्षणप्राप्तं न मम । भवान् ब्रवीति शून्याः सर्वभाव । इति नाम् । पूर्वकः पक्षो न मम । तत्र यदुक्तं प्रतिषेधप्रतिषेधोप्येवं सत्यनुपपन्न इति तन्न । किञ्चान्यत् प्रत्यक्षेण हि तावद् यद्युपलभ्य विनिवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५॥ यदि प्रत्यक्षतः सर्वभावानुपलभ्य भावान्निवर्तयति शून्याः सर्वभावा इति तदनुपपन्नम्। कस्मात् । प्रत्यक्षमपि हि प्रमाणं सर्वभावान्तर्गतत्वाच्छून्यम् । यो भावानुपलभते सोऽपिां शून्यः । तस्मात् प्रत्यक्षेण प्रमाणेन नोपलंभभावः, अनुपलब्धस्य च प्रतिषेधानुपपत्तिः । तत्र यदुक्तं शून्याः सर्वभावा इति तदनुपपन्नम् । स्यात्ते बुद्धिः, अनुमानेनागमेनोपमानेन वा सर्वभावानुपलभ्य सर्वभावव्यावर्तनं क्रियत इति, अत्र ब्रूमः । अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमान च ॥ अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥६॥ • अनुमानोपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यम्, सर्वभावानां शून्यत्वादेवमनुमानोपमानागमा अपि शून्याः सर्वभावानां शून्यत्वात् । येऽनुमानसाध्या अर्था आगमसाध्या उपमानसाध्याश्च तेऽपि शून्याः । सर्वभावानां शून्यत्वात् । अनुमानोपमानागमैश्च यो भावानुपलभते सोऽपि शून्य: तस्माद्भावानामुपलम्भाभावोऽनुपलब्धानाञ्च स्वभावप्रतिषेधानुपपत्तिः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न । किञ्चान्यत " १८ कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते । कुशलं जनाः स्वभावं शेषेष्वप्येष विनियोगः ॥ ७॥ इह जना धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणामेकोनविंशशतम् । तद्यथैकदेशो विज्ञानस्य वेदनायाः संज्ञायाश्चेतनाया: स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तेरध्याशयस्याप्रतिघस्य रतेर्व्यवसायस्यौत्सुक्यस्योन्मुग्धेरुत्साहस्याविधातस्य वशितायाः प्रतिघातस्याविप्रतिसारस्य परिग्रहस्यापरिग्रहस्य... धृतेरध्यवसायस्यानौत्सुक्यस्थानुन्मुग्धेरनुत्साहस्य प्रार्थनायाः प्रणिधेमंदस्य विषयाणां विप्रयोगस्यानैर्याणिकताया उत्पादस्य स्थितेरनित्यतायाः समन्वागमस्य जरायाः परितापस्यारतेवितर्कस्य प्रीते: प्रसादस्य.. प्रेम्ण: प्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यस्य गौरवस्य चित्रीकारस्य भक्तेरभक्तेः शुश्रुषाया आदरस्यानादरस्य प्रश्नव्वेसिस्य वाचो विस्पन्दनाया: सिद्धस्याप्रसादस्याप्रश्रब्धेः. दाक्षस्य सौरत्यस्य विप्रतिसारस्य शोकस्योपायासायासस्य... अप्रदक्षिणग्राहस्य संशयस्य संवराणां परिशुद्धेरध्यात्मसंप्रसादस्य भीरुतायाः, श्रद्धा हीरार्जवमवञ्चनमुपशमोऽचापलमप्रमोदो मार्दवं प्रतिसंख्यानं निर्वैरपरिदाहावमदोऽलोभोऽदोषोऽमोहः सर्वज्ञताप्रतिनिःसर्गो विभवोऽपत्राप्यमपरिच्छादनं मननं कारुण्यं मैत्र्यदीनतारणा... अनुपनाहोऽनीर्ष्या चेतसोऽपर्यादानं क्षन्तिर्व्यवसर्गोऽसौरत्यं परिभोगान्वयः पुण्यमसंज्ञिसमापत्तिनैर्याणिकतासर्वज्ञतासंस्कृता धर्मा इत्येकोनविंशशतं कुशलानां धर्माणां कुशलः स्वभावः तथाऽकुशलानां धर्माणामकुशलः स्वभावः, निवृताव्याकृतानां निवृताव्याकृतः, प्रकृतव्याकृतानां प्रकृताव्याकृतः, कामोक्तानां कामोक्त: रूपोक्तानां रूपोक्तः, आरूप्योक्तानामरूप्योक्तः, अनात्रवाणामनास्रवः, दुःखसमुदयनिरोधर्मार्गोक्तानां दुःखसमुदयनिरोधमार्गोक्तः, भावनाप्रहातव्यानां भावनाप्रहातव्यः, अप्रहातव्यानामप्रहातव्यः यस्मादेवमनेकप्रकारो धर्मस्वभावो दृष्टस्तस्माद् यदुक्तं निःस्वभावाः सर्वभावा निःस्व भावत्वाच्छून्या इति तन्न । किञ्चान्यत् । नैर्याणिकस्वभावो धर्मा नैर्याणिकारच ये तेषाम् । धर्मावस्थोक्तानामेवमनैर्याणिकादीनाम् ॥ ८॥ १९ इह च धर्मावस्थोक्तानां नैर्याणिकानां धर्माणां नैर्याणिक: स्वभावः, अनैर्याणि कानामनैर्याणिक: बोध्यंगिकानां बोध्यंगिकः, अबोध्यंगिकानामबोध्यंगिकः, बोधिपक्षिकाणां बोधिपक्षिकः, अबोधिपक्षिकाणामबोधिपक्षिक: । एवमपि शेषाणाम् । तद्यस्मादेवमनेकप्रकारो धर्माणां स्वभावो दृष्टस्तस्माद् यदुक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वाच्छून्या इति तन्न । किञ्चान्यत् । यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येव । नामापि भवेन्नैवं नाम हि निर्वस्तुकं नास्ति ॥ ६॥ यदि सर्वधर्माणां स्वभावो न भवेत्तत्रापि निःस्वभावो भवेत् । तत्र निःस्वभाव इत्येवं नामापि न भवेत् । कस्मात् । नाम हि निर्वस्तुकं किञ्चिदपि नास्ति । तस्मानामसद्भावात् स्वभावो भावानामस्ति स्वभावसद्भावाच्चाशून्याः सर्वभावा: । तस्माद् • यदुक्तं निःस्वभावाः सर्वभावा निःस्वभावत्वाच्छून्या इति तन्न । किञ्चान्यत् । अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ॥ धर्मविना स्वभावः स यस्य तद्युक्तमुपदेष्टुम् ॥ १० ॥ अथ मन्यसे मा भूदवस्तुकं नामेति कृत्वास्ति स्वभावः, स पुनर्धर्माणां न संभवति, एवं धर्मंशून्यता निःस्वभावत्वाद् धर्माणां सिद्धा भविष्यति, न च निर्वस्तुकं नामेति, अत्र वयं ब्रूमः । एवं यस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य स युक्तमुपदेष्टुमर्थः। स च नोपदिष्टः । तस्माद् या कल्पनास्ति स्वभावो न स पुनर्धर्माणामिति सा होना । किञ्चान्यत् । सत एवप्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ॥ दृष्ट: प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥ ** २० इह च सतोऽर्थस्य प्रतिषेधः क्रियते नासतः । तद्यथा नास्ति घटो गेह इति सतो घटस्य प्रतिषेधः क्रियते नासतः । एवमेव नास्ति स्वभावो धर्माणामिति सतः स्वभावस्य प्रतिषेधः प्राप्नोति नासतः । तत्र यदुक्तं निःस्वभावाः सर्वभावा इति तन्न । प्रतिषेधसंभवादेव सर्वभावस्वभावोऽप्रतिषिद्धः । किञ्चान्यत् । अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात्प्रतिषेधः सिध्यति ( १ ) ह्यसतः ॥ १२ ॥ अथ नास्त्येव स स्वभावः अनेन वचनेन 'निःस्वभावाः सर्वभावा' इति किं भवता प्रतिषिध्यते । असतो हि वचनाद्विना सिद्धःप्रतिषेधः, तद्यथाग्नेः शैत्यस्य अपामौष्ण्यस्य । किञ्चान्यत् । •बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः । एवं मिथ्याग्राहः स्यात्ते प्रतिषेधतो (२) ह्यसतः ॥१३॥ स्यात्ते बुद्धिः, यथा बालानां मृगतृष्णायां मिथ्या जलमिति ग्राहो भवति, ननु निर्जला सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते तस्य ग्राहस्य विनिवर्तनार्थम् । एवं निःस्वभावेषु यः स्वभावे ग्राहः सत्त्वानां तस्य व्यावर्तनार्थं निःस्वभावाः सर्वभावा त्युच्यत इति । अत्र ब्रूमः । नन्वेवं सत्यस्ति ग्राहो ग्राह्य च तद्ग्रहीता च ॥ प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कम्तत् ॥ १४ ॥ यद्येवम् अस्ति तावत्सत्त्वानां ग्राहः, अस्ति ग्राह्यम्, सन्ति च तद्ग्रहीतारः, अस्ति प्रतिषेधस्तस्यापि मिथ्याग्राहस्यास्ति प्रतिषेध्यं यदिदं मित्र्याग्राहो नाम, सन्ति च प्रतिषेद्धारो युष्मदादयोऽस्य ग्राहस्येति सिद्धं षट्कम् । तस्य षट्कस्य सिद्धत्वाद् यदुक्तं शन्याः सर्वभावा इति तन्न । १, सिद्धयते (JK) २ प्रतिबेध्यतो - ॥ (JK) २१ अथ नैवास्ति ग्राहो नैव ग्राह्यं न च ग्रहीतारः । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ननु न सन्ति ॥ १५ ॥ अथ मा भूदेष दोष इति कृत्वा नैव ग्राहोऽस्ति नैव ग्राह्यं न च ग्रहीतार इत्येवं सति हस्य यः प्रतिषेधो निःस्वभावाः सर्वभावा इति सोऽपि नास्ति, प्रतिषेध्यमपि नास्ति, प्रतिषेद्धारोऽपि न सन्ति । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति । सिद्धा हि सर्वभावास्तेषामेव स्वभावश्च ॥ १६॥ • यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्त्यप्रतिषिद्धाः सर्वभावा अस्ति च सर्वभावानां स्वभावः । किञ्चान्यत् । हेतोश्च ते न सिद्धिः स्वाभाव्यात् कुतो हि ते हेतुः । निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ॥१७॥ निःस्वभावाः सर्वभावा इत्येतस्मिन्नर्थे ते हेतोरसिद्धिः । किं कारणम् । निःस्व मावत्वाद्धि सर्वभावानां शून्यत्वात्ततो हेतुः कुतः । असति हेतौ निर्हेतुकस्यार्थस्य शून्या: सर्वभावा इति कुत एव प्रसिद्धिः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न । किञ्चान्यत् । यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ॥ स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ १५॥ अथ मन्यसे निर्हेतुकी (का) सिद्धिनिःस्वभाववत्वस्य भावानामिति यथा तव स्वभावविनिवर्तनं निर्हेतुकं सिद्धं तथा ममापि स्वभावसद्भावो निर्हेतुकः सिद्धः । २२ अथ हेतोरस्तित्वं भावास्वाभाव्यम् इत्यनुपपन्नम् ॥ लोकेषु निःस्वभावो न हि कश्चन विद्यते भावः ॥ १६॥ यदि हेतोरस्तित्वं मन्यसे निःस्वभावाः सर्वभावा इति, तदनुपपन्नम् । किं कारणम् । न हि लोके निःस्वभावः कश्चिद्भावोऽस्ति । किञ्चान्यत् । पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमित्यनुपपन्नम् ॥ पश्चाच्चानुपपन्नो युगपच्च यतः स्वभावः सन् ॥२०॥ इह पूर्वं चेत्प्रतिषेधः पश्चाच्च प्रतिषेध्यमिति नोपपन्नम् । असति हि प्रतिषेध्य कस्य प्रतिषेधः । अथ पश्चात्प्रतिषेधः पूर्वं प्रतिषेध्यमिति च नोपपन्नम्। सिद्धे हि प्रतिषेध्ये किं प्रतिषेधः करोति । अथ युगपत् प्रतिषेधप्रतिषेध्ये इति तथापि न प्रतिषेधः प्रतिषेध्यस्यार्थस्य कारणम्, प्रतिषेध्यो न प्रतिषेधस्य च यथा युगपदुत्पन्नयोः शशविषाणयोनैव दक्षिणं सव्यस्य कारणं सव्यं वा दक्षिणस्य कारणं भवतीति । तत्र यदुक्तं निःस्वभावाः सर्वभावा इति तन्न २ । अत्रोच्यते । यत्तावद्भवतोक्तं सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ इति अत्र ब्रूमः । हेतुप्रत्ययसामग्र्यां च पृथक् चापि मद्वचो न यदि ॥ ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥२१॥ यदि मद्वचो हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्त्युर:कण्ठौष्ठजिह्वादन्तमूलतालुनासिकामूर्द्धप्रभृतिषु यत्नेषु, नोभयसामग्र्यामस्ति, हेतु१ प्रतिषेधषेध्य इति (J K) २–cf. NS. II. १-१२-१४ Po Pemung wie keing २३ प्रत्ययसामग्रीविनिर्मुक्तं पृथगेव च नास्ति, तस्मान्निः स्वभावम्, निःस्वभावत्वाच्छून्यम् । ननु शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतन्मद्वचनं निःस्वभावत्वाच्छून्यं तथा सर्वभावा अपि निःस्वभावत्वाच्छून्या इति । तत्र यद्भवतोक्तं त्वदीयवचसः शून्यत्वाच्छून्यता सर्वभावानां नोपपद्यत इति तन्न । किञ्चान्यत् । यश्च प्रतीत्यभावो भावानां शून्यतेति सा प्रोक्ता । यश्च प्रतीत्यभावो भवति हि तस्यास्वभावत्वम् ॥ २२ ॥ शून्यतार्थं च भवान् भावानामनवसाय प्रवृत्त उपालम्भं वक्तु त्वद्वचनस्य निःस्व● भावत्वाद्भावानां स्वभावप्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्यभावो भावानां सा शून्यता । कस्मात् । निःस्वभावत्वात् । ये हि प्रतीत्यसमुत्पन्ना भावास्ते न सस्वभावा भवन्ति स्वभावाभावात् । कस्मात् । हेतुप्रत्ययसापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयुः, प्रत्याख्यायापि हेतुप्रत्ययञ्च भवेयुः । न चैवं भवन्ति । तस्मानिःस्वभावा निःस्वभावत्वाच्छून्या इत्यभिधीयन्ते । एवं मदीयमपि वचनं प्रतीत्यसमुत्पन्नत्वान्निः स्वभावं निःस्वभावत्वाच्छून्यमित्युपपन्नम् । यथा च प्रतीत्यसमुत्पन्नत्वात् स्वभावशून्या अपि रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठतृणमृत्तिकाहरण मधूदकपयसां धारणे शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते, एवमिदं मदीयवचन प्रतीत्यसमुत्पन्नत्वान्निःस्वभावमपि निःस्वभावत्वप्रसाधने भावानां वर्तते । तत्र यदुक्तं • निःस्वभावत्वात् त्वदीयवचनस्य शून्यत्वं, शून्यत्वात्तस्य च तेन सर्वभावस्वभावप्रतिषेधो नेपपन्न इति तन्न । किञ्चान्यत् । निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ॥ प्रतिषेधयेत यद्वत् प्रतिषेधोऽयं तथैव स्यात् ॥२३॥ यथा निर्मितकः पुरुषोऽन्यं निर्मितकं पुरुषं कस्मिंश्चिदर्थे वर्तमानं प्रतिषेधयेत् मायाकारेण वा सृष्टो मायापुरुषोऽन्यं मायापुरुषं स्वमायया सृष्टं कस्मिंश्चिदर्थे वर्तमान fr प्रतिषेधयेत् तत्र यो निर्मितकः पुरुषः प्रतिषिध्यते सोऽपि शून्यः । यः प्रतिषेधयति सोऽपि शून्य: । यो मायापुरुषः प्रतिषिध्यते सोऽपि शून्यः । यः प्रतिषेधयति सोऽपि शन्य: । एवमेव मद्वचनेन शून्येनापि सर्वभावानां स्वभावप्रतिषेध उपपन्नः । तत्र यद्भवतोक्तं शून्यत्वात्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्न इति तन्न । तत्र यो भवता षट्कोटिको वाद उक्तः सोऽपि तेनैव प्रतिषिद्धः । नैव ह्येवं सति न सर्वभावान्तर्गतं मद्वचनं, नास्त्य शून्यम्, नापि सर्वभावा अशून्याः । यत्पुनर्भवतोक्तम् २४ अथ सस्वभावमेतद्वाक्यं पूर्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ इति अत्रापि ब्रूमः । न स्वाभाविकमेतद्वाक्यं तस्मान्न वादहानिमें । नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगाद्यः ॥ २४ ॥ न तावन्मसंतद्वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नम्। यथा पूर्वमुक्तं स्वभावा नुपपन्नत्वाच्छून्यमिति । यस्माच्चेदमपि मद्वचनं शून्यं शेषा अपि सर्वभावाः शून्याः तस्मान्नास्ति वैषमिकत्वम् । यदि हि वयं ब्रूम इदं वचमशून्यं शेषाः सर्वभावाः शून्या इति ततो वैषमिकत्वं स्यात् । न चैतदेवम् । तस्मान्न वैषमिकत्वम् । यस्माच्च वैषमिकत्वं न संभवतीदं वचनमशून्यं शेषाः पुनः सर्वभावाः शून्या इति, तस्मादस्माभिविशेषहेतुर्न वक्तव्योऽनेन हेतुनेदं वचनमशून्यं सर्वभावाः पुनः शून्या इति । तत्र यद्भवतोक्तं वादहानिस्ते वैषमिकत्वं च विशेषहेतुश्च त्वया वक्तव्य इति तन्न । यत्पुनर्भवतोक्तम् मा शब्दवदित्येतत्स्यात्ते बुद्धिर्न चैतदृपपन्नम्। शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥ इति अत्र ब्रूमः । मा शब्दवदिति नायं दृष्टान्तो यस्त्वया समारब्धः ॥ शब्देन तच्च शब्दस्य वारणं नैवमेवैतत् ॥२५॥ नाप्ययमस्माकं दृष्टान्तः । यथा कश्चिन् मा शब्दं कार्षीरिति ब्रुवन् शब्दमेव करोति शब्दं च प्रतिषेधयति, तद्वत् तच्छून्यं वचनं न शून्यतां प्रतिषेधयति । किं कारणम् । अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतदेवम् । वयं ब्रूमो निःस्वभावाः सर्वभावा निःस्वभावत्वाच्छून्या इति । कि कारणम् । नैःस्वाभाव्यानां चेन्नै:स्वाभाव्येन वारणं यदि हि । नै:स्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥ यथा मा शब्दं कार्षीरिति शब्देन शब्दस्य व्यावर्तनं क्रियते, एवं यदि नैः स्वाभाव्येन वचनेन नैःस्वाभाव्यानां भावानां व्यावर्तनं क्रियते ततोऽयं दृष्टान्त उपपन्न: स्यात् । इह तु नैःस्वाभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते । यदि नैःस्वाभाव्येन वचनेन भावानां नैःस्वाभाव्यप्रतिषेधः क्रियते नै:स्वाभाव्यप्रतिषिद्धत्वादेव भावाः सस्वभावा भवेयुः । सस्वभावत्वादशून्याः स्युः । शून्यतां च वयं भावानामाचक्ष्महे नाशून्यतामित्यदृष्टान्त एवायमिति । अथवा निर्मितकायां यथा स्त्रियां स्त्रीर्यामित्यसद्ग्राहम् ॥ निर्मितक: प्रतिहन्यात् कस्यचिदेवं भवेदेतत् ॥ २७॥ अथवा यथा कस्यचित्पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतु स्त्रीयमित्यसद्ग्राहः स्यात्, एवं तस्यां तेनासद्ग्राहेन स रागमुत्पादयेत् । तथागतेन वा तथागतश्रावकेण वा निर्मितको निर्मित: स्यात् । तथागताधिष्ठानेन वा तथागतश्रावकाधिष्ठानेन वा स तस्य तमसद्ग्राहं विनिवर्तयेत् । एवमेव निर्मितकोपमेन शून्येन मद्वचनेन निर्मितकस्त्रीसदृशेषु सर्वभावेषु निःस्वभावेषु योऽयं स्वभावग्राहः स निवर्त्यते । तस्मादयमत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः । ( २६ ) अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता ॥ संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥२८॥ मा शब्दवदिति साध्यसम एवायं हेतुः । कस्मात् । सर्वभावानां नैः स्वाभाव्येनाविशिष्टत्वात् । न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् स्वभावसत्ता विद्यते । तस्याः स्वभावसत्ताया अविद्यमानत्वाद्यदुक्तं शब्देन ह्यत्र सता भविष्यतो वारणं तस्येति तद्व्याहन्यते । अपि च न वयं व्यवहारसत्यमनभ्युपगम्य व्यवहारसत्यं प्रत्याख्याय कथयामः शून्या: सर्वभावा इति । न हि व्यवहारसत्यमनागम्य शक्या धर्मदेशना कर्तुम् । यथोक्तंव्यवहारमनाश्रित्य परमार्थो न देश्यते । परमार्थमनागम्य निर्वाणं नाधिगम्यत । इति तस्मान्मद्वचनवच्छून्याः सर्वभावाः सर्वभावानां च निःस्वभावत्वमुभयथोपपद्यमानमिति । यत्पुर्नभवतोक्तम् प्रतिषेधप्रतिषेधोऽप्येवमिति मतं भवेत् तदसदेव । एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ इति अत्र ब्रूमः । यदि काचन प्रतिज्ञा स्यान्मे तत एष मे भवेद्दोषः । नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥२६॥ यदि च काचन मम प्रतिज्ञा स्यात् ततो मम प्रतिज्ञालक्षणप्राप्तत्वात्पूर्वको दोषो यथा त्वयोक्तस्तथा मम स्यात् । न मम काचिदस्ति प्रतिज्ञा । तस्मात् सर्वभावेषु शून्येष्वत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञा । कुतः प्रतिज्ञालक्षणप्राप्तिः । कुतः प्रतिज्ञालक्षणप्राप्तिकृतो दोषः । तत्र यद्भवतोक्तं तव प्रतिज्ञालक्षणप्राप्तत्वात्तवैव दोष इति तन्न । यत्पुर्नभवतोक्तम २७ प्रत्यक्षेण हि तावद्यधुपलभ्य विनिवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ • अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ इति अत्र वयं ब्रूमः । यदि किञ्चिदुपलभेय प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थेस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥ यद्यहं किञ्चिदर्थमुपलभेय प्रत्यक्षानुमानोपमानागमैश्चतुर्भिः प्रमाणैश्चतुर्णां वा प्रमाणानामन्यतमेन, अत एव प्रवर्तयेयं वा निवर्तयेयं वा । यतोऽर्थमेवाहं किञ्चिन्नो पलभे तस्मान्न प्रवर्तयामि न निवर्तयामि । तत्रैवं सति यो भवतोपालम्भ उक्तो यदि प्रत्यक्षादीनां प्रमाणानामन्यतमेनोपलभ्य भावान्विनिवर्तयसि तानि प्रमाणानि न सन्ति, तैश्च प्रमाणैरपि गम्या अर्था न सन्तीति स मे भवत्येवानुपालम्भः । किश्वान्यत् । यदि च प्रमाणतस्ते तेषां तेषां प्रसिद्धिरर्थानाम् । तेषां पुनः प्रसिद्धि ब्रूहि कथं ते प्रमाणानाम् ॥ ३१॥ यदि च प्रमाणतस्तेषां तेषामर्थानां प्रमेयाणां प्रसिद्धि मन्यसे यथा मानैर्मेयानाम्, तेषामिदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः । यदि तावन्निष्प्रमाणानां प्रमाणानां स्यात्प्रसिद्धिः, प्रमाणतोऽर्थानां प्रसिद्धिरिति हीयते प्रतिज्ञा । तथापि । अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवेत्तदनवस्था । यदि पुनमंन्यसे प्रमाणैः प्रमेयाणां प्रसिद्धिस्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिरेवमनवस्थाप्रसंगः । अनवस्थाप्रसङ्ग को दोषः । 00 २८ नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्त्यस्य ॥३२॥ अनवस्थाप्रसङ्ग आदे: सिद्धिर्नास्ति । किं कारणम् । तेषामपि हि प्रमाणानामन्यै प्रमाणै: प्रसिद्धिस्तेषामन्यैरिति नास्त्यादिः । आदेरस झावात् कुतो मध्यं कुतोऽन्तः । तस्मात्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिरिति यदुक्तं तन्नोपपद्यत इति । तेषामथ प्रमाणविना प्रसिद्धिविहीयते वादः ॥ वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥३३ ॥ अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः, प्रमेयाणां पुनरर्थानां प्रमाणै: प्रसिद्धिरिति, एवं सति यस्ते वादः प्रमाणैः प्रसिद्धिरर्थानाम् इति स हीयते । वैषमिकत्वं च भवति केषांचिदर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन्नेति । विशेषहेतुश्च वक्तव्यो येन हेतुना केषांचिदर्थानां प्रमाणैः प्रसिद्धिः केषांचिन्नेति । स च नोपदिष्टः । तस्मादियमपि कल्पना नोपपन्नेति । अत्राह । प्रमाणान्येव स्वात्मानं परात्मानञ्च प्रसाधयन्ति । यथोक्तं द्योतयति स्वात्मानं यथा हुताशस्तथा परात्मानम् । स्वपरात्मानावेवं प्रसाधयन्ति प्रमाणानि ॥ इति यथाग्निः स्वात्मानं परात्मानञ्च प्रकाशयति तथैव प्रमाणानि प्रसाधयन्ति स्वात्मानं परात्मानञ्चेति । अत्रोच्यते विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः ॥ न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ।॥ ३४ ॥ विषम एवोपन्यासोऽग्निवत् प्रमाणानि स्वात्मानञ्च प्रसाधयन्ति परात्मानञ्च प्रसाधयन्तीति । न ह्यग्निरात्मानं प्रकाशयति । यथा प्रागेवाग्निना प्रकाशितस्तमसि कुम्भो नोपलभ्यतेऽथोत्तरकालमुपलभ्यतेऽग्निना प्रकाशितः सन्, एवमेव यद्यप्रकाशित २९ प्रागग्निस्तमसि स्यादुत्तरकालमग्ने: प्रकाशनं स्यात्, अतः स्वात्मानं प्रकाशयत् । न चैतदेवम् । तस्मादियमपि कल्पना नोपपद्यत इति । किञ्चान्यत् । यदि च स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः । परमिव नन्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ ३५॥ यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्यग्निरेवमेव स्वात्मानमपि प्रकाशयति, ननु यथा परात्मानं दहत्येवमेव स्वात्मानमपि धक्ष्यति । न चैतदेवम् । तत्र यदुक्तं परात्मानमिव स्वात्मानमपि प्रकाशयत्यग्निरिति तन्न । यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः ॥ प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ ३६ ॥ यदि च भवतो मतेन स्वपरात्मानी प्रकाशयत्यग्निः, नन्विदानीं तत्प्रतिपक्षभूतं तमोऽपि स्वपरात्मानौ छादयेत् । न चैतद् दृष्टम् । तत्र यदुक्तं स्वपरात्मानौ प्रकाशयत्यग्निरिति तन्न । किञ्चान्यत् । नास्ति तमश्च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः ॥ कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवधः ॥ ३७॥ इह चाग्नौ नास्ति तमो नापि च यत्राग्निस्तत्रास्ति तमः । प्रकाशश्च नाम तमसः प्रतिघातः । यस्माच्चाग्नौ नास्ति तमो नापि च यत्राग्निस्तत्रास्ति तमः, तत्र कस्य तमसः प्रतिघातमग्निः यस्य प्रतिघातादग्निः स्वपरात्मानौ प्रकाशयतीति । अत्राह । ननु यस्मादेवं नाग्नौ तमोऽस्ति नापि यत्राग्निस्तत्र तमोऽस्ति, तस्मादेव स्वपरात्मानौ न प्रकाशयत्यग्निः कुतः । तेन ह्यत्पद्यमानेनैवाग्निना तमसः प्रतिघातः । तस्मान्नाग्नौ तमोऽस्ति नापि यत्राग्निस्तत्र तमोऽस्ति यस्मादुत्पद्यमान एवोभयं प्रकाशयत्यग्निः स्वात्मानं परात्मानंचेति । अत्रोच्यते । C ** उत्पद्यमान एवं प्रकाशयत्यग्निरित्यसद्वादः ॥ उत्पद्यमान एवं प्राप्नोति तमो न हि हुताशः ॥ ३८॥ अयमग्निरुत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानं चेति नायमुपपद्यते वादः । कस्मात् । नह्य त्पद्यमान एवाग्निस्तमः प्राप्नोति, अप्राप्तत्वान्नैवोपहन्ति तमसश्चानुपघातान्नास्ति प्रकाशः । किञ्चान्यत् । अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् ॥ सर्वेषु लोकधातुषु तमोऽयमिह संस्थितो हन्यात् ॥३६॥ अथापि मन्यसेऽप्राप्तोप्यग्निरन्धकारमुपहन्तीति नन्विदानीमिह संस्थितोऽग्निः सर्वलोकधातुस्थमुपहनिष्यति तमस्तुल्यायामप्राप्तौ । न चैतदेवं दृष्टंम् । तस्मादप्राप्यैवाग्निरन्धकारमुपहन्तीति यदिष्टं तन्न । किञ्चान्यत् । यदि स्वतश्च प्रमाणसिद्धिरनपेक्ष्य तव प्रमेयाणि ॥ भवति प्रमाणसिद्धिर्न परापेक्षा स्वतः सिद्धिः ॥४०॥ यदि चाग्निवत् स्वतः प्रमाणसिद्धिरिति मन्यसे, अनपेक्ष्यापि प्रमेयानर्थान् प्रमाणानां प्रसिद्धिर्भविष्यति । कि कारणंम् । न हि स्वतः सिद्धिः परमपेक्षते । अथापेक्षते न स्वतः सिद्धिः । अत्राह यदि नापेक्षन्ते प्रमेयानर्थान् प्रमाणानि को दोषो भविष्यतीति । अत्रोच्यते । अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिरिति ॥ भवन्ति कस्यचिदेवमिमानि तानि प्रमाणानि ॥४१॥ यदि प्रमेयानर्थाननपेक्ष्य प्रसिद्धिर्भवति प्रमाणानामित्येवं तानीमानि प्रमाणानि न 1 कस्यचित् प्रमाणानि भवन्ति । एवं दोषः । अथ कस्यचिद्भवन्ति प्रमाणानि नैवेदानीमनपेक्ष्य प्रमेयानर्थान् प्रमाणानि भवन्ति । SARA AN अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र भवति को दोषः । सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत् ॥४२॥ अथापि मतमपेक्ष्य प्रमेयानर्थान् प्रमाणानां सिद्धिर्भवतीति एवं सिद्धस्य प्रमाणचतुष्टयस्य साधनं भवति । कि कारणम् । न ह्यसिद्धस्यार्थस्यापेक्षणं भवति । न ह्यसिद्धो देवदत्तः कंचिदर्थमपेक्षते । न च सिद्धस्य साधन मष्टं कृतस्य कारणानुपपत्तेरिति । किञ्चान्यत् । सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ॥ भवति प्रमेयसिद्धिर्नापेक्ष्यैव प्रमाणानि ॥४३॥ यदि प्रमेयाण्यपेक्ष्य प्रमाणानि सिध्यन्ति नेदानीं प्रमाणान्यपेक्ष्य प्रमेयाणि सिध्यन्ति कि कारण म्। न हि साध्यं साधनं साधयति साधनानि च किल प्रमेयाणां प्रमाणानि । किञ्चान्यत् । यदि च प्रमेयसिद्धिर्नापेक्ष्यैव भवति प्रमाणानि । कि ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥४४॥ यदि च मन्यसेऽनपेक्ष्यैव प्रमाणानि प्रमेयाणां प्रसिद्धिर्भवतीति किमिदानीं ते प्रमाण सिद्ध्या पर्यन्विष्टया । किं कारणम् । यदर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् ते प्रमेया अर्था विनापि प्रमाणैः सिद्धाः । तत्र कि प्रमाणैः कृत्यम् । अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥४५॥ अथापि मन्यसेऽपेक्ष्यैव प्रमेयानर्थान् प्रमाणानि भवन्तीति मा भूत्पूर्वोक्तदोष इति कृत्वा, एवं ते सति व्यत्ययः प्रमाणप्रमेयाणां भवति । प्रमाणानि ते प्रमेयाणि भवन्ति प्रमेयैः साधितत्वात् । प्रमेयाणि च प्रमाणानि भवन्ति प्रमाणानां साधकत्वात् । अथ ते प्रमाणसिद्धूया प्रमेयसिद्धिः प्रमेयसिद्ध्या च ॥ भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥४६॥ ३२ अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर्भवति प्रमाणापेक्षत्वात् प्रमेयसिद्ध्या च प्रमाणसिद्धिर्भवति प्रमेयापेक्षत्वादिति, एवं ते सत्युभयस्यापि सिद्धिनं भवति । किं कारणम् । सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव ॥ साध्यानि च प्रमेयैस्तानिथं साधयिष्यन्ति ॥४७॥ यदि हि प्रमाणैः प्रमेयाणि सिध्यन्ति तानि च प्रमाणानि तैरेव प्रमेयैः साधयितव्यानि नन्वसिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमेयाणि । सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव ॥ साध्यानि च प्रमाणैस्तानि कथं साधयिष्यन्ति ॥४८॥ यदि च प्रमेयः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैरेव प्रमाणैः साधयितव्यानि नन्वसिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमाणानि । पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ॥ उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ ४६॥ । यथापि नाम कश्चिद् ब्रूयात्पित्रा पुत्र उत्पादनीयः सच पिता तेनैव पुत्रेणोत्पादनीय इति, तत्रेदानीं ब्रूहि केन के उत्पादयितव्य इति । तथैव खलु भवान् ब्रवीति प्रमाणैः प्रमेयाणि साधयितव्यानि तान्येव च पुनः प्रमाणानि तैरेव प्रमेयैरिति तत्रेदानीं ते कतमैः कतमानि साधयितव्यानि । कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपिच । पितापुत्रलक्षणधरौ यतो भवति नोऽत्रसंदेहः ॥ ५० ॥ तयोश्च पूर्वोपदिष्टयोः पितापुत्रयोः कतरः पुत्रः कतरः पिता उभावपि तावुत्पा दकत्वात् पितृलक्षणधरावुत्पाद्यत्वाच्च पुत्रलक्षणधरी । अत्र नः संदेहो भवति कतरस्त त्रपिता कतरः पुत्र इति । एवमेव यान्येतानि भवतः प्रमाणप्रमेयाणि तत्र कतराणि २ -पितृ 'jK' ३३ प्रमाणानि कतराणि प्रमेयाणि उभयान्यपि ह्येतानि साधकत्वात् प्रमाणानि साध्यत्वात् प्रमेयाणि । अत्र नः संदेहो भवति कतराण्यंत्र प्रमाणानि कतराणि प्रमेयाणीति । नैव स्वतः प्रसिद्धिर्न परस्परतः परप्रमाणैर्वा ॥ न भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम् ॥५१॥ न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेण, अनुमानस्य तेनैवानुमानेन, उपमानस्थ तेनैवोपमानेन, आगमस्य तेनैवागमेन । नापि परस्परतः प्रत्यक्षस्यानुमानोपमानागमैः अनुमानस्य प्रत्यक्षोपमानागमैः, उपमानस्य प्रत्यक्षानुमानागमै: आगमस्य प्रत्यक्षानुमानोपमानैः नापि प्रत्यक्षानुमानोपमानागमानामन्यैः प्रत्यक्षानुमानोपमागमैर्यथास्वम् । नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषयसंगृहीतः । नाप्यकस्मात् । नापि समुच्चयेनैतेषां कारणानां पूर्वोद्दिष्टानां विशत्रिशच्चत्वारिंशत्ष द्विशते (?)र्वा । तत्र यदुक्तं प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति च ते प्रमेया भावास्तानि च प्रमाणानि यैस्ते प्रमाणैः प्रमेयाभावाः समधिगता इति तन्न । यत्पुर्नभवतोक्तम् । कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ॥ कुशलं जनाः स्वभावं शेषेष्वप्येष विनियोग ॥ इति अत्र ब्रूमः । कुशलानां धर्माणां धर्मावस्थाविदो ब्रुवन्ति यदि ॥ कुशलं स्वभावमेवं प्रविभागेनाभिधेय: स्यात् ॥५२॥ कुशलानां धर्माणां धर्मावस्थाविदः कुशलं स्वभावं मन्यन्ते । स च भवता प्रविभागेनोपदेष्टव्यः स्यात् । अयं स कुशलः स्वभावः । इमे ते कुशला धर्माः । इदं तत्कुशलं विज्ञानम् । अयं स कुशलविज्ञानस्वभावः । एवं सर्वेषाम् । न चैतदेवं दृष्टम् । तस्माद्यदुक्तं यथास्वमुपदिष्टः स्वभावो धर्माणामिति तन्न । किञ्चान्यत् । यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ॥ धर्माणां परभावः स्वभाव एवं कथं भवति ॥५३॥ *0 ३४ यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते स परभावादुत्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति । एवमेवाकुशलप्रभृतीनाम् । तत्र यदुक्तं कुशलानाम् धर्माणां कुशलः स्वभावोऽप्युपदिष्टः, एवमकुशलादीनां चाकुशलादिरिति तन्न । किञ्चान्यत् । अथ न प्रतीत्य किञ्चित् स्वभाव उत्पद्यते स कुशलानाम् ॥ धर्माणामेवं स्याद्वासो न ब्रह्मचर्यस्य ॥५४॥ अथ मन्यसे न किञ्चित्प्रतीत्य कुशलानां धर्माणां कुशलः स्वभाव उत्पद्यते, एवमकुशलानां धर्माणामकुशल: अव्याकृतानामव्याकृत इति एवम् सत्यब्रह्मचर्यवासो भवति । किं कारणम् । प्रतीत्यसमुत्पादस्य ह्येवं सति प्रत्याख्यानं भवति । प्रतीत्यसमुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शन प्रत्याख्यानं भवति। न ह्यविद्यमानस्य प्रतीत्यसमुत्पादस्य दर्शनमुपपद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शन न भवति । उक्तं हि भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यतीति । धर्मदर्शनाभावाद् ब्रह्मचर्यवासाभावः । अथवा प्रतीत्यसमुत्पादप्रत्याख्यानाद् दुःखसमुदयप्रत्याख्यानं भवति । प्रतीत्यसमु त्पादो हि दुःखस्य समुदयः । दुःखसमुदयस्य प्रत्याख्यानाद् दुःखप्रत्याख्यानं भवति । असति हि समुदये तत्कुतो दुःख समुदेष्यति । दुःखप्रत्याख्यानात् समुदयप्रत्याख्यानाच्च दुःखनिरोधस्य प्रत्याख्यानं भवति । असति हि दुःखसमुदये कस्य प्रहाणान्निरोधो भविष्यति । (दुःखनिरोधप्रत्याख्यानान्मार्गस्य प्रत्याख्यानं भवति) । असति हि दुःखनिरोधे कस्य प्राप्तये मार्गो भविष्यति दुःखनिरोधगामी एवं चतुर्णामार्यसत्यानामभावः । तेषामभावाच्छ्रामण्यफलाभावः । सत्यदर्शनाच्छ्रामण्यफलानि हि समधिगम्यन्ते। श्रामण्यफलानामभावादब्रह्मचर्यवास इति । किञ्चान्यत् । नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः ॥ नित्याश्च सस्वभावाः स्युनित्यत्वादहेतुमतः ॥५५॥ ३५ एवं सति प्रतीत्य समुत्पादं प्रत्याचक्षाणस्य भवतः को दोषः प्रसज्यते । धर्मो न भवति । अधर्मो न भवति। संव्यवहारााश्च लौकिका न भवन्ति । कि कारणम् । प्रतीत्यसमुत्पन्नं ह्येतत्सर्वमस्ति प्रतीत्यसमुत्पादे कुतो भविष्यति । अपि च सस्वभावोप्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् । किं कारणम् । निर्हेतुका हि भावा नित्याः । स एव चाब्रह्मचर्यवासः प्रसज्येत । स्वसिद्धान्तविरोधश्च । किं कारणम् । अनित्या हि भगवता सर्वसंस्कारा निर्दिष्टाः । ते सस्वभावनित्यत्वान्नित्या हि भवन्ति । अत्र ब्रूमः । एवमकुशलेष्वव्याकृतेषु नैर्याणिकादिषु च दोषः ॥ तस्मात्सर्वं संस्कृतमसंस्कृत ते भवत्येव ॥५६॥ यश्चैष कुशलेषु धर्मेषु निर्दिष्ट: कल्पः स एवाकुशलेषु, स एवाव्याकृतेषु, स एनैर्याणिकप्रभृतिषु । तस्मात्ते सर्वमिदं संस्कृतमसंस्कृतं संपद्यते । कि कारणम् । हेतौ ह्यसत्युत्पादस्थितिभंगा न भवन्ति । उत्पादस्थितिभंगेष्वसत्सु संस्कृतलक्षणाभावात् सर्व संस्कृतमसंस्कृत संपद्यते । तत्र यदुक्तं कुशलादीनां भावानां स्वभावसद्भावादशून्याः सर्वभावा इति तन्न । यत्पुर्नभवतोक्तं यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येव । नामापि भवेन्नैवं नाम हि निर्वस्तुकं नास्ति । यः सद्भूतं नामात्र ब्रूयात्सस्वभाव इत्येवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश्च न वयं तत् ॥ ५७॥ यो नामात्र सद्भूतं ब्रूयात्सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् । यस्य सद्भूतं नाम स्वभावस्य तस्मात्तेनापि स्वभावेन सद्भूतेन भवितव्यम् । न ह्यसद्भूतस्य स्वभावस्य सद्भूतं नाम भवतीति । न पुनर्वयं नाम सद्भूतं ब्रूमः । तदपि हि भावस्व भावस्याभावान्नाम निःस्वभाम्, तस्माच्छून्यम्, शून्यत्वादसद्भूतम् । तत्र सद्भवतोक्त । नामसद्भावात् सद्भूतः स्वभाव इति तन्न । किञ्चान्यत् । नामासदिति च यदिदं तत्कि नु सतो भवत्युताप्यसतः ॥ यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ ५५॥ यच्चैतन्नामासदिति तल्कि सतोऽसतो वा । यदि हि सतस्तन्नाम यद्यसत उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत्सतो नामासदिति प्रतिज्ञा हीयते। न हीदानीं तदसदिदानीं सत् । अथासतोऽसदिति नाम, असद्भूतस्य नाम न भवति । तस्माद्या प्रतिशा नाम्नः सद्भूतः स्वभाव इति सा होना । किञ्चान्यात् । अत्र ब्रूमः सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस्तस्माद् भवत्ययं चाप्रतिज्ञायाः ॥५६॥ इह चास्माभिः पूर्वमेव सर्वेषां भावानां विस्तरतः शून्यत्वमुपपादितम् । तत्र प्राङ्नाम्नोऽपि शून्यत्वमुक्तम् । स भवानशून्यत्वं परिगृह्य परिवृत्तो वक्तुं यदि भावानां स्वभावो न स्यादस्वभाव इति नामापीदं न स्यादिति तस्मादप्रतिज्ञोपालम्भोऽयं भवतः संपद्यते । न हि वयं नाम सद्भूतमिति ब्रूमः । यत्पुनर्भवतोक्तम् अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् । धर्मविना स्वभावः यस्य तद्युक्तमुपदेष्टुम् ॥ इति अथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् ॥ आशङ्कतं यदुक्तं भवत्यनाशङ्कितं तच्च ॥६० ॥ न हि वयं धर्माणां स्वभावं प्रतिषेधयामो धर्मविनिर्मुक्तस्य वा कस्यचिदर्थस्य स्वभावमभ्युपगच्छामः । नन्वेवं सति य उपालम्भो भवतो यदि धर्मा निःस्वभावाः कस्य खल्विदानीमन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति स युक्तमुपदेष्टुमिति दुरापकृष्टमेवैतद्भवति, उपालम्भो न भवति । पुनर्भवतो 2 अत्र ब्रूमः । ३७ सत एवं प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् । दृष्ट: प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ इति सत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धमिदम् ॥ प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ ६१ ॥ यदि सत एव प्रतिषेधो भवति नासतो भवांश्च सर्वभावानां निःस्वभावत्वं प्रतिषेधयति, ननु प्रसिद्धं सर्वभावानां निःस्वभावत्वम् । त्वद्वचनेन प्रतिषेधसद्भावान् निःस्वभावत्वस्य च सर्वभावानां प्रतिषिद्धत्वात् प्रसिद्धा शून्यता । प्रतिषेधय सेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ॥ प्रतिषेधः सत इति ते नन्वेष विहीयते वादः ॥ ६२॥ अथ प्रतिषेधयसि त्वं सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच्च शून्यत्वम्, या तहि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा होना । किञ्चान्यत् । प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यमस्ति न च किञ्चित् ॥ तस्मात्प्रतिषेधयसीत्यधिलय एष त्वया क्रियते ॥ ६३ ॥ यद्यहं किञ्चित्प्रतिषेधयामि ततस्तदपि त्वया युक्तमेव वक्तु स्यात् । न चैवाहं किञ्चित् प्रतिषेधयामि, यस्मान्न किञ्चित्प्रतिषेद्धव्यमस्ति । तस्माच्छून्येषु सर्वभावेव्वविद्यमाने प्रतिषेध्ये प्रतिषेधे च प्रतिषेधयसीत्येष त्वया प्रस्तुतोऽधिलयः क्रियत इति । यत्पुनर्भवतोक्तम् । अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन । वचनेनर्ते वचनात्प्रतिषेधः सिध्यति (१) ह्यसत इति ॥ अत्र ब्रूमः । १ सिद्धूयते (JK). *0 ३८ यच्चाहर्ते वचनादसतः प्रतिषेधवचनासिद्धिरिति ॥ अत्र ज्ञापयते वागसदिति तन्न तच्च न प्रति निहन्ति ॥ ६४ ॥ यच्च भवान् ब्रवीति, ऋतेऽपि वचनादसतः प्रतिषेधः प्रसिद्धः, तत्र कि निःस्वभावाः सर्वभावा इत्येतत्त्वद्वचनं करोतीति, अत्र ब्रूमः । निःस्वभावाः सर्वभावा इत्येतत्खलु वचनं न निःस्वभावानेव सर्वभावान् करोति । किंतु असति स्वभावे भावा निःस्वभावा ति ज्ञापयति । तद्यथा कश्चिद् ब्रूयादविद्यमानगृहे देवदत्तेऽस्ति गृहे देवदत्त इति । तत्रैनं कश्चित्प्रतिब्रूयान् नास्तीति । न तद्वचनं देवदत्तस्यासद्भावं करोति किंतु ज्ञापयति केवलमसंभवं गृहे देवदत्तस्य । तद्द्वन्नास्ति स्वभावो भावानामित्येतद्वचनं न भावानां निःस्वभावत्वं करोति किंतु सर्वभावेषु स्वभावस्याभावं ज्ञापयति । तत्र यद्भवतोक्तं किमसति स्वभावे नास्ति स्वभाव इत्येतद्वचनं करोति, ऋतेऽपि वचनात् प्रसिद्धः स्वभा वस्याभाव इति तन्न युक्तम् । अन्यच्च । बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः । एवं मिथ्याग्राहः स्यात्तं प्रतिषेधतो ह्यसतः ॥ इत्यादयो या पुनश्चतस्रो गाथा भवतोक्ता अत्र ब्रूमः । मृगतृष्णादृष्टान्ते यः पुनरुक्तस्त्वया महारचर्चः ॥ तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥६५॥ य एष त्वया मृगतृष्णादृष्टान्ते महांश्चचं उक्तस्तत्रापि यो निर्णयः स श्रूयतां यथोपपन्न एष दृष्टान्तो भवति । यदि स्वभावतः स्याद् ग्राहो न स्यात्प्रतीत्य संभूतः । यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ ६६॥ यदि मृगतृष्णायां स यथा जलग्राहः स्वभावतः स्यान्न स्यात्प्रतीत्यसमुत्पन्नः यतो मृगतृष्णाञ्च प्रतीत्य विपरीतञ्च दर्शनं प्रतीत्यायोनिशोमनस्कारञ्च प्रतीत्य स्यादुद्भूतोऽत: प्रतीत्यसमुत्पन्न: । यतश्च प्रतीत्यसमुत्पन्नोऽत: स्वभावतः शून्य एव । ** यथा पूर्वमुक्तं तथा । किञ्चान्यत् । अत्र ग्रूमः । ३९ यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राहम् ॥ शेषेष्वप्येष विधिस्तस्मादेषोऽनुपालम्भः ॥ ६७ ॥ यदि मृगतृष्णायां जलग्राहः स्वभावतः स्यात् क एव तं विनिवर्तयेत् । न हि स्वभावः शक्यो विनिवर्तयितुं यथाग्नेरुष्णत्वमपां द्रवत्वमाकाशस्य निरावरणत्वम् । दृष्टं चास्य विनिवर्तनम् । तस्माच्छून्यस्वभावो ग्राहः । यथा चैतदेवम् शेषेष्वपि धर्मेष्वेष क्रमः प्रत्यवगन्तव्यो ग्राह्यप्रभृतिषु पञ्चसु । तत्र यद्भवतोक्तं षट्कभावादशून्याः सर्वभावा इति तन्न । यत्पुनर्भवतोक्तं अत्र ब्रूमः । हेतोश्च ते न सिद्धिनःस्वभाव्यात्कुतो हि ते हेतुः ॥ निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्येति ॥ अथ ते हेत्वभाव: प्रत्युक्तः पूर्वमेव स समत्वात् ॥ मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्त: प्राक् ॥६८॥ एतेन चेदानी चर्चेन पूर्वोक्तेन हेत्वभावोऽपि प्रत्युक्तोऽवगन्तव्यः । य एव हि चर्च: पूर्वस्मिन् हेतावुक्तः षट्कप्रतिषेधस्य स एवेहापि चर्चयितव्यः । पुनर्भवतो. पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमित्यनुपपन्नम् ॥ पश्चाच्चानुपपन्नो युगपच्च यतः स्वभावः सन् ॥ इति यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् । त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः ॥६६॥ य एव हेतुस्त्रैकाल्ये प्रतिषेधवाची स उक्तोत्तरः प्रत्यवगन्तव्यः । कस्मात् । साध्यसमत्वात । तथा हि त्वद्वचनेन प्रतिषेधस्त्रैकाल्येऽनुपपन्न प्रतिषेधवत्स प्रतिषेष्योऽपि । to ४० तस्मात् प्रतिषेधप्रतिषेध्येऽसति यद्भवान् मन्यते प्रतिषेधः प्रतिषिद्ध इति तन्न । यस्त्रिकालप्रतिषेधवाची हेतुरेष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधकत्वान्न भवतः । अथवा कथमेतदुक्तोत्तरम् । प्रेतिषेधयामि नाहं किञ्चित्प्रतिषेव्यमस्ति न च किञ्चित् ॥ तस्मात्प्रतिषेधयसीत्यधिलय एष त्वया क्रियते ॥ इति प्रत्युक्तम् । अथ मन्यसे त्रिष्वपि कालेषु प्रतिषेधः सिद्धः, दृष्टः पूर्वकालीनोऽपि हेतुः, उत्तरकालीनोऽपि, युगपत्कालीनोऽपि हेतुः, तत्र पूर्वकालीनो हेतुर्यथा पिता पुत्रस्य, पश्चात्कालीनो यथा शिष्य आचार्यस्य, युगपत्कालीनो यथा प्रदीपः प्रकाशस्येत्यत्र ब्रूमः । न चैतदेवम् । उक्ता ह्येतस्मिन् क्रमे त्रयः पूर्वदोषाः । अपि च यद्येवम्, प्रतिषेधसद्भावस्त्वयाभ्युपगम्यते प्रतिज्ञाहानिश्च ते भवति । एतेन क्रमेण स्वभावप्रतिषेधोऽपि सिद्धः । प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थः ॥ प्रभवति न तस्य किञ्चिन्न प्रभवति शून्यता यस्य ॥ ७० ॥ यस्य शून्यतेयं प्रभवति तस्य सर्वार्था लौकिकलोकोत्तराः प्रभवन्ति । किं कारणम् । यस्य हि शून्यता प्रभवति तस्य प्रतीत्य समुत्पादः प्रभवति । यस्य प्रतीत्यसमुत्पाद: प्रभवति तस्य चत्वार्यार्यसत्यानि प्रभवन्ति । यस्य चत्वार्यार्यसत्यानि प्रभवन्ति तस्य श्रामण्यफलानि प्रभवन्ति, सर्वविशेषाधिगमाः प्रभवन्ति । यस्य सर्वविशेषाधिगमाः प्रभवन्ति तस्य त्रीणि रत्नानि बुद्धधर्मसंघाः प्रभवन्ति । यस्य प्रतीत्यसमुत्पादः प्रभवति तस्य धर्मो धर्महेतुर्धर्मफलं च प्रभवन्ति, तस्याधर्मोऽधर्महेतुरधर्मफलं च प्रभवन्ति । यस्य धर्माधर्मो धर्माधर्महेतू धर्माधर्मफले च प्रभवन्ति तस्य क्लेश: क्लेशसमुदयः क्लेशवस्तूनि च प्रभवन्ति । यस्यैतत्सर्वं प्रभवति पूर्वोक्तं तस्य सुगतिदुर्गतिव्यवस्था सुगतिदुर्गतिगमनं, सुगतिदुर्गतिगामी मार्ग,: सुगतिदुर्गतिव्यतिक्रमणं, सुगतिदुर्गतिव्यतिक्रमोपाय: सर्वसंव्यवहाराश्च लौकिका व्यवस्थापिताः । स्वयमधिगन्तव्या अनया ४१ दिशा किञ्चिच्छक्यं वचनेनोपदेष्टुमिति । भवति चात्र । यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदं च । एकार्थं निजगाद प्रणमामि तमप्रतिमबुद्धम् ॥ इति कृतिरिमानागार्जुनपादानाम् ॥