श्रीत्रिविक्रमपण्डिताचार्य्यविरचिता वायुस्तुतिः [नरहरिस्तुतिसहिता] श्रीवेदात्मतीर्थयतिविरचितया कविकर्णामृताख्यया टीकया, आचार्य्यगोविन्दविरचितया स्तुतिचन्द्रिकया च समलङ्कृता । सम्पादकः डा. बन्नञ्जेपदोपाह्वः आचार्य्यगोविन्दः विद्यावाचस्पतिः, विद्यारत्नाकरः, पद्मश्रीपदभाक् प्रकाशनी तत्वसंशोधनसंसत् विद्यामान्यप्रकाशनम् श्रीहृषीकेशतीर्त्यसंस्थानम्, रजतपीठपुरम् (उडुपि) 1 VĀYU-STUTI of Trivikrama-panḍitātcārya [with the commentaries: Kavikarṇāmṛuta of Sri Vedātma-Tirtha and stuti-Candrika of Bannañje Govindācārya] Edited by : Vidyaratnākara Dr. Bannañje Govindācārya Published by Editor I Edition Copies Pages Price Cover design Typeset Printed at : : : Tatva-Samsodhana-Samsat Sri Vidyāmānya Prakasana Sri Hṛṣikesa-Tirtha-Samsthānam, (Sri Palimaru Matha) Udupi, Karnataka, (India) Tel.: 0820-2523402 2011 1000 44+84 : Rs-60 : K.M.Sheshagiri : Kaddi. S. Badarinarayanachar Poornaprajna vidyapeetha E-Mail : bnkaddi@gmail.com Rajaprakash Printes No. 142, I main road, Chamarajpet, Bangalore-560 018 Tel. (080) 26521515 कृष्णं वन्दे जगद्गुरुम् 2 संसदियं कृतज्ञतामर्पयति गहनार्थां श्रीवायुस्तुतिं प्राचीनटीकयोपबृंहितां साधु संशोध्य, स्वकृतया नवीनटीकया च संयोज्य ग्रन्थमिमं सम्पादितवते श्रीमते पद्मश्रीप्रशस्तिभाजनाय डा. बन्नञ्जेपदोपाह्वाय आचार्यगोविन्दाय । गणकयन्त्रद्वारा लिपिमुद्राङ्कनेन निर्व्याजमुपकृतवते विपश्चिते श्रीमते कड्डीपदोपाह्वाय बदरीनारायणाचार्याय । अक्षरशोधनकर्मणि सहकृतवते श्रीमते विजयसिंहाय कृष्णराजाय च । पुस्तकस्यास्य मुखपत्रविन्यासकर्मणि दर्शितकौशलाय चित्रकलापरिणताय श्रीमते के. एम्. शेषगिरिशर्मणे । मनोज्ञमुद्रणकर्मणि कृतसहकाराय 'राज्प्रकाश् प्रिण्ट्स्' मुद्रणालयाधिकृताय श्रीमते श्रीप्रकाशाय । ग्रन्थमेतं क्रीत्वा पिपठिषुभ्यः सर्वेभ्यश्च सहृदयेभ्यः । रजतपीठपुरम् (उडुपि) शा.श. १९३३, खरसंवत्स्वरसंवत्, वै. शु. त्रयोदशी 15.4.2011] तत्वसंशोधनसंसत् श्रीहृषीकेशतीर्थसंस्थानम् श्रीपलिमारुमठ: प्रास्ताविकम् (प्रथममुद्रणपीठिका) श्रीत्रिविक्रमपण्डिताचार्यकृता वायुस्तुतिः काव्येषु रमणीयकाव्यम्, मन्त्रेषु महान् मन्त्र इति सर्वैः समादृता । भगवत्पादैः नखस्तुतिसंयोजनेन समनुगृहीतेयं स्तुति: मन्त्रतुल्यतया प्रत्यहं पूजाकाले पठ्यते, पठनावृत्त्या च बहुभिरभीष्टसिद्धिरनुभूतेति च नापूर्वम् । सेयं भगवत्पादपरमप्रेमभाजनेन श्रीमता त्रिविक्रमपण्डिताचार्येण ग्रथिता हरेर्वायुदेवस्य च कृतावतारत्रयस्य स्तुतिरपूर्वव्याख्यानेन समुपबृंहिता चेदमुपज्ञं श्रीमध्वनवमीमहोत्सवावसरे प्रकाश्यत इति महानामोदः । व्याख्यानं चेदं कविकर्णामृतं नाम श्रीवेदात्मयतिभी रचितं श्रीवायुस्तुति व्याख्यानेषूपलब्धेष्वखिलेष्वपि प्राचीनतममपि नैतावत्पर्यन्तं प्रकाशितम् । तदिदमिदानीं बुभुत्सूनां पुरः प्रथममुपस्थाप्यते । एते व्याख्यातारश्च श्रीविष्णुतीर्थीयपरम्पराप्रवर्तकाः श्रीसोदामठीयगुरुपरम्परायां दशमाः मध्वविजयमहाभारततात्पर्यनिर्णयादिव्याख्यानेन प्रथितयशसां श्रीवेदाङ्गतीर्थानां परमगुरवः श्रीवेदात्मतीर्थाः । क्रिस्ताब्दीये चतुर्दशशतके पीठमधिष्ठिता इमे तपस्विनः व्याकरणकोशादिषु नितरां परिनिष्ठिता वेदवेदाङ्गविदुषः स्वयं सारस्वतसारग्राहिणोऽप्यासन्निति स्फुटमेतद्व्याख्यानदृशाम् । उपलब्धेषु वायुस्तुतिव्याख्यानेषु इदं प्रतनतममितीयदेव चास्य वैशिष्टयम् । व्याख्यानकौशलं रामणीयकं चात्र सर्वातिशायि दृश्यते । मन्ये यत् स्तुतिकर्तुर्हृदयं व्याख्यानेऽमुष्मिन् यथाऽऽविष्कृतं न तथा नूनमन्यव्याख्यानेष्विति । यत्र च मूलभावो न स्फुटः, व्याख्याने च ग्रन्थकारहृदयं नातीव प्रकटम्, व्याकरणकोशादिकं न विस्तारेण व्युत्पादितं तत्र जिज्ञासूनां सौकर्याय मूलविवरणेन, व्याकरणविशेषव्युत्पादनेन, कोशोद्धाटनेन च मूलव्याख्यानयोरर्थस्पाष्ट्याय तत्रतत्र यथानुकूलं समुचितां टिप्पणीं च समयोजयम् । अर्थविशेषबुभुत्सूनामिदमपि सन्दर्भोपयोगि भवेदित्याशासे । व्याख्यानस्यास्य संशोधने मूलकोशादिदानेन बहुपकृतवतां सोदामठाधीश्वराणां श्रीविश्वोत्तमतीर्थश्रीपादानां सहृदयतागर्भमनुग्रहं कथं नाम विस्मरामः? यदृते तेषां सहकारादिदं शोधितं प्रकाशनमेवासम्भावितकल्पमभविष्यत् । अन्ते च क्लृप्तसमये सुन्दरं च ग्रन्थस्यास्य मुद्रणाय दिवानिशं कृतश्रमाः धर्मबोधविद्युन्मुद्रणालयाधिकृता अप्यवश्यमभिनन्दनीयाः । शा.श. १८९४ ( उडुपि) माघशुद्धनवमी [24.1.1972] - बन्नञ्जे गोविन्दाचार्यः अम्बलपाडि उडुपि-३ स्तुतिभूमिका.... श्रीमध्वच्छात्रवारमणिहारे तरळहीरकायते कविराजराजः श्रीत्रिविक्रमपण्डिता- चार्यः । तस्य कश्चिदन्तःस्फुरणरणितः प्रतिभाविस्फुलिङ्गोऽयं वायुस्तुति- रिति । या गीर्वाणस्तोत्रवाङ्मये काचिदनुपमा निर्मितिः । काचिदपूर्वा शैली शैलूषीव चित्तरञ्जनी । काचिदनन्या रचना मान्या सन्न्यासिनामपि । महद्भिरपि मन्त्रतुल्येति सगौरवं समादृता ॥ रचयिता चास्याः स्तुतेः श्री त्रिविक्रपण्डितस्तौळवमण्डलमण्डनोऽभिजातः कविरास । अनेन चोन्मीलद्व्यञ्जने सद्य:समुद्यद्यौवने पुनरुपषोडश एव वयसि प्रबद्धं 'उषाहरणं' नाम प्रबुद्धं महाकाव्यं तौळवमण्डलस्य प्रथमः काव्याञ्जलिरिति प्रथामर्हति । प्रथममुपायनं काव्यप्रपञ्चस्य । वस्तुत इद- मुषाहरणं नाम षष्ठं महाकाव्यानां महाकाव्यम् ॥ पण्डिततल्लजोऽयं शालिवाहनशकस्य द्वादशे त्रयोदशे च शतके भूवलयम- लञ्चकार । अस्य जन्मभूमि: 'कबेनाडु' (ಕಬೆನಾಡು) इति तदात्वे प्रथितः, सम्प्रति 'कासरगोडु' (ಕಾಸರಗಗೋಡು) इति नाम्ना परिचितस्तौळवभूमि- भागः । यः पूर्वं तौळवराज्यस्य राजधानी बभूव । यत्र द्वितीयो जयसिंहाख्यो वीरराजस्तौळवराज्यं परिरक्षन् विरराज । सम्प्रति पुना राजकीयकातन्त्रवशात् केरळराज्यभागतां गतः । अस्य स्तुतिप्रबन्धुः श्रीत्रिविक्रमपण्डितस्य भव्य- मुदवसितं 'कावुमठ' (ಕಾವುಮಠ) इति प्रथितं सम्प्रत्यपि 'कासरगोडु'नगरे ददृश्यते । अद्यापि तद्वंशीया एव तत्र निवसन्ति ॥ कवेरस्य भगवानाचार्यमध्वः श्रीवत्सनारायणप्रतिमां प्रीत्या प्रददौ । सम्प्रत्यपि सा प्रतिमा तत्र सभक्तिश्रद्धं पूज्यमाना विलसति । नारायणस्याप्रतिमा प्रतिमा । तस्य च वक्षसि लक्षणभूता लक्ष्मीः । अपूर्वमिदं शिल्पकौशल- स्याद्भुतमुदाहरणम् ॥ तौळवोऽयं लिकुचकुलदीपकः कविकुलतिलकः । लिकुचस्तरुविशेषः, यं तौळवाः 'पेज' (ಪೆಜ) इति व्याहरन्ति । यस्य वाट्यां लिकुचविटपी बभूव तं लिकुचवानिति 'पेजत्ताय' (ಪೆಜತ್ತಾಯ) इति प्रणिजगदुः । एतद्वंशीयाः 'पेजत्ताय' (ಪೆಜತ್ತಾಯ) पदोपाह्वा बहवः सम्प्रत्यपि सन्ति तौळवमण्डले ॥ तौळवमण्डलस्य स्वर्णयुगं तत् सामाजिकतया चाऽध्यात्मिकतया च, यदा पण्डिताचार्यो जिजीव ॥ तदा 'कबेनाडु' (ಕಬೆನಾಡು) इति ख्यातोऽयं देशस्तौळवमण्डलस्य केन्द्र- स्थानमासीत् । या पूर्वं तौळवमण्डलराजधानी बभूव सा सम्प्रति केरळक्रोडे निपपातेति महानयं राजकीयदुरन्तः ॥ तदात्वे 'इम्मडि'(ಇಮ್ಮಡಿ) जयसिंहस्तौळवानां भूपतिर्बभूव । निरातङ्कं समृद्धं च जीवनम् । समकालीनो महाराजोऽयमाचार्यमध्वस्य, यो जगद्- दीपकमध्यात्मदीपं तौळवमण्डले प्रज्वलयामास । तेन तदा तौळवमण्डलं तौळवकुलपुत्ररत्नेन श्रीमदानन्दतीर्थभगवताऽध्यात्मप्रपञ्चस्य गौरीशङ्करमा- रुरोह ॥ त्रिविक्रमपण्डितस्तर्हि महाराजस्य जयसिंहस्याऽस्थानकविरास । अद्वैत- कृतान्ते पुनरयमद्वितीयः पण्डित इति विद्वन्मण्डलीषु प्रथितोऽमान्यत । समग्रा विद्वन्मण्डली स्वाभिमतमायावादरक्षार्थं त्रिविक्रमपण्डितमुखप्रेक्षमास ॥ एकदा त्रिविक्रमपण्डितस्य श्रीमध्वेन समागमः समजनि । दर्शन्दर्शं तमा- चार्यम्, श्रावंश्रावं तद्वचोविलासं च विषयमण्डनचातुरीं च, अनुपमामनु- भावभरितां वादवैखरीं च विस्मयजलधाववजगाहे । अन्तर्विजितोऽपि बहिः सप्ताष्टानि दिनानि तेन सह विवदमान इव वादकथां चकार । अभिद्यत अविद्यामयो हृदयग्रन्थिः । निःशेषमच्छिद्यन्त सर्वाः संशीतयः । गलितः पण्डितगर्वः । शिरो भगवत्पादपादसरोरुहे चुचुम्ब । एवं त्रिविक्रपण्डितः पूर्वाचार्यपरम्परयाऽनुसृतं मायावादं विधूयाऽचार्यमध्वस्यान्तेवासितामङ्गी- चकार । सानन्दं तत्ववादे दिदी ॥ सन्तुष्टो मध्वस्तस्याऽचार्यपदं ददौ । ततस्त्रिविक्रपण्डितः पण्डिताचार्यो बभूवेति वदन्ति । तस्यास्य तनयः श्रीनारायणपण्डिताचार्यः स्वरचिते श्रीमध्वविजये स्वतातमन्तरेण कानिचनापूर्वाणि प्रमेयाण्याविश्चकार । तस्यायं सङ्ग्रहः- सुब्रह्मण्याख्यः कश्चिद् विपश्चिद् आङ्गिरसगोत्रः 'पेजत्ताय' (ಪೆಜತ್ತಾಯ)- वंशभूषणो बभूव । स्वयं तपस्वी, चतुरः कविः, वादेन विनिर्जितनिखिल- विद्वन्निकुरम्बः सम्भावितः समाजप्रमुखैरास ॥ तस्य महान्तमनेहसं नाऽस तनयमुखलालनयोगः । जातानिजातान्यपत्यान्य- म्रियन्त । तदा साध्वी पण्डितदयिता चिररात्राय कुलदैवते हरिहरौ परि- सिषेवे । फलिता तस्याः सेवा । बहोः कालात् तनयो जज्ञे । प्रेमपाकस्य पोतस्य पिता नाम चकार त्रिविक्रम इति ॥ शैशव एव प्रदर्शितप्रतिभातिशयोऽयं वटुर्वृद्धानां जनितविस्मयः प्रवर्धमानो वेदे वेदान्ते काव्ये च प्रकटितविक्रमोऽन्वर्थं चकार पितृदत्तं नामधेयम् ॥ (अनयोर्दम्पत्योरथान्योऽपि कुमारो जज्ञे, यः शङ्कराह्वो बभूव । ऐतिह्यविदो वदन्ति - अन्या कन्याऽप्यजायत, यां कल्याणीदेवीमाहुः । नेयं सुब्रह्मण्य सूरिकुमारी, किन्तु त्रिविक्रमपण्डितात्मजेत्यन्ये ।) कौमार एव त्रिविक्रम चतुरः कविरास । विपश्चितामपि विस्मयजननी बभूव चास्यादृष्टाश्रुतपूर्वा प्रतिभा । तरुणः सन्नेव 'उषाहरणं' नाम महाकाव्यं विरचयामास । येन निखिला पण्डितमण्डली मूकविस्मिता नासायामङ्गुलिं विन्यास ॥ तदा जनास्तं साभिमानं त्रिविक्रमपण्डित इत्याजुहुवुः, कविकुलतिलक इति प्रशशंसुः ॥ शाङ्करं मायावादमालम्ब्य प्रवृत्तोऽयं वंशः । त्रिविक्रमपण्डितोऽपि मायिनां सपादलक्षमिते ग्रन्थजातेऽप्यधीती स्वसमयजलधिपारं जगाम । यद्यपि स्वसमयः । अथाप्यध्ययनकाल एव मायावादस्तस्य स्वभावतोऽसङ्गत इव, व्याकीर्णतया मनोविभ्रमहेतुरिव बभासे । मनसि समुद्भवतां शङ्काशङ्कनां निरासे न गुरवोऽपि प्रबभूवुः । सर्वेऽपि भणन्ति – प्रतनैरुक्तं न प्रष्टव्यम्, केवलं श्रद्धातव्यमिति । श्रद्धाजडानामयं वाद इति त्रिविक्रमस्य मनः प्रत्य- वर्तत । अथाप्यात्मानमन्तर्निगृह्य सहमान एव समग्रं मायाबादमध्यगीष्ट ॥ सुब्रह्मण्यपण्डितस्य परम्परागते मायावादे निर्मायं निहितश्रद्धस्यापि स्वान्तमन्तःशङ्काकलिलमेवाऽस । स कदाचित् तनयमाहूय स्वान्तर्वेदनामावेदयामास–'तात त्रिविक्रम, असकृञ्चिन्तितं मया । कः पुरुषार्थोऽनया निर्गुणोपासनया । पिपासितस्य मरौ मरीचिकाधावनमिदम् । न वयमिह निर्गुणां मुक्तिं समीहामहे । सुखमयी गौणी मुक्तिरेवेष्टा नः । तेन पूर्णगुणस्य नारायणस्योपासनमेव भवतरणोपाय इति मे मनीषा' इति ।। विचचाल पण्डितः पुनरपि जनकवचसा । विममर्श पुनरपि गाढं मायावा- दग्रन्थान् । विचचर्च साधकैः सार्धं वृद्धैः ॥ एकत्र परम्परागतायाः श्रद्धायाः कर्षणम् । अपरत्र तां विरुन्धाना मानसी तर्कतुमुलता । श्रद्धा परम्परामनुसरेति निरभान्त्सीत् । प्रज्ञा च तां व्यरुणत् तर्कजालं सृजन्ती ॥ स कदाचिदुपहरे स्थित एवं चिन्तयाञ्चकार- 'भगवान् किल बादरायणो वेदानामर्थनिर्णयाय ब्रह्मसूत्राणि व्यरीरचत् । तानि क्षुद्रबोधानां जनानां दुरधिगमान्येवाऽसन् । पाश्चात्याश्च विपश्चितस्तेषां भाष्याणि यथामनीषमभाषिषत । एकैकस्यापि विभिन्नः पन्थाः । परस्परमितरान् खण्डयन्तः स्वप्रज्ञावादं मण्डयामासुः । सर्वोऽपि स्वोक्त एव सूत्रार्थ इत्युवाद सर्वोऽपि स्वस्वमेव पन्थानमनुपपात । न कोऽपि प्रायो बादरायणाभिमतं पन्थानम् । कथङ्कारमेतेषु कोऽपि विश्वस्यात्, विश्वस्य वा श्रद्धधीत ? कथन्तरामेते प्रज्ञावादमात्रबला आध्यात्मिके पथि मार्गनिदर्शका इत्यङ्गीकरवाम? 'अहं तु साम्प्रतं शाङ्करं सम्प्रदायमनुसरन् वर्ते । मदीयोऽयं मायावाद इत्येतं विधूय पूर्वाग्रहं मुक्तहृदयं सर्वमैचिक्षिषे । तदा मदनुसृतमेव मतं स्वव्याहतं कोलाहलकलुषितं भासते । अथापि न सहसा परम्परां विचिच्छित्सामि । पुनरपि गाढमन्तः प्रविश्य शाङ्करं हृदयमन्वेषणीयम्, अन्विष्य चावगन्त- व्यमिति निरन्तरं प्रयते ॥ 'उपनिषदः किमुपदिशन्ति ? भेदम्, आहोस्विदभेदम् ? अल्पधिषणानामग- म्योऽयमुदन्तः । गाढं विमर्शेऽपि निकामं निगूढमेव तिष्ठत्यौपनिषदं तत्वम् । न जातु स्वहृदयं विवृत्य ताः प्रकटयन्ति । सकृदित्थमिति, सकृन्नेत्यमिति विभ्रमजाले निपातयन्ति ॥ 'अथापि भगवदुपासनयैव बन्धमुक्तिरिति सर्वशास्त्राणामैककण्ठ्यम् । का नामोपासना? कीदृशी चेयमुपासना ? किं निराकारो निर्गुणो भगवानिति? उत साकारः सगुण इति? किमहं ब्रह्मेति ? उत मम स्वामी परं ब्रह्म नारायण इति? 'विदन्तो वदन्ति–सच्चिदानन्दात्मा भगवानद्वितीय इति । सत्यं ज्ञानमनन्तं ब्रह्मेति । एकमेवाद्वितीयं ब्रह्मेति । स कथं निराकारः स्यात् ? चिदानन्दमयं कल्याणतमं हि रूपमामनन्ति तस्य । अथच ज्योतिर्मयः पुरुष इति परमात्मानं गिरन्ति । प्रकाशात्मा भगवानिति च । आकारविशेष एव हि प्रकाशो नाम । यदि स निराकारः, तर्हि न स्यात् प्रकाशरूपोऽपि ॥ 'किं तर्हि भगवानिति पुञ्जीभूतं तमः ? तमस उपासनया प्रायस्तम एव शरणम् । नूनं वयमपि मायावादे विश्वस्य तमसि निपतेम । नहिनहि, नेयमुपासना मनसि लगति । नायं मायावादश्चित्तमावर्जयति ॥ 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति निगदन्ति । भारतपुराणादिभिः समुपबृंह्य, सर्वमविरोधेन समन्वित्य वेदवचसामर्थानुसन्धाने कृते भगवतो गुणानुध्यानमेव शास्त्रानुमतमिति प्रतीयते । अयमिह प्रायः शास्त्रपरमार्थः– आचारवता भाव्यम् । निरन्तरं भगवद्गुणपारम्यचिन्तानिरतेन भाव्यम् । तथा च भगवदाराधनमेव श्रेयःसाधनमिति भाति । तेनायमेव मया चरितव्यः साधीयानध्वा' ॥ एवं विचिन्तयति त्रिविक्रमपण्डिते भगवत्पादेन श्रीमध्वेनानावृतस्य तत्व- वादस्य विसृता प्रथा तस्य कर्णपथं पपात । तच्चिन्तनसरणेः पुष्टिकराणि समग्रसंशयहराणि तत्ववादे वचांसि बभूवुः । लिकुचपण्डितस्यान्तरङ्गं तदैव श्रीमध्वस्य तत्ववादमालिलिङ्ग ॥ तस्मिन्नेवानेहसि श्रीमध्वभगवान् समग्रे भारते विहितसञ्चारः प्रतनस्य अथापि स्वोपज्ञमाविष्कृतस्य तत्ववादस्य जयघोषमुज्जुघोष । मायावादे बद्धादराः पण्डितास्तेनाऽतङ्किता बभूवुः । तेषामिदं गलदाहि खण्डखाद्यं समपद्यत । ते त्रिविक्रमपण्डितं शरणमीयुः । एत्य च तं विज्ञापयाञ्चक्रिरे 'एकः प्रचण्डतमो वाग्ग्मी किलाऽजग्मिवान्, मध्वोमध्व इति, पूर्णप्रज्ञ इति, आनन्दतीर्थ इति । स परम्परागतां दृढनिबद्धां श्रद्धामेवाद्धा विध्वंस - यति । इलथयति सनातनं सम्प्रदायम् । शिथिलयति विश्रम्भसौधम् । स तत्रभवता वादे विजित्य शिक्षणीयः । तं पराभाव्य मायावादो रक्षणीयः । भवन्तमृते हन्त न कोऽपि तस्य सम्प्रति प्रतिवादी दृश्यते । अप्रत्यनीकं तस्य वादपाटवम् । अप्रतिहता सर्वकषा शेमुषी । न कोऽपि तस्य प्रत्यवस्थातु- मीष्टे । कष्टे पतिता वयम् । ऋते भवन्तं न कोऽपि रक्षिताऽस्मत्पक्षस्य । गलितमाना वयं भवन्तं शरणमागताः । अहो, विषण्णा वयमिदं वदामः- अस्मन्मतस्यास्तिता भवद्धस्ते निषण्णा । तत्रभवतः प्रतिभटः कोऽपि नैतावन्तं दिष्टमजनिष्ट । भवतैव पण्डितपञ्चास्येन स दमनीयस्तत्ववाद- मत्तमातङ्गः । तं परिपन्थिनं पराभाव्य भवतैव वितानयितव्यो मायावाद- यशःपटहः । निवारयितव्यो नः सर्वेषामन्तराविष्टः पराभूतिभीतिग्रहः । तदर्थमियमिह समग्रा पण्डितमण्डली भवन्तमनन्यं त्रातारमुपागता' ॥ त्रिविक्रमपण्डितस्तान् कथञ्चित् सान्त्वयामास । किन्तु स्वयमन्तःस्वान्ते चिन्ताक्रान्तो बभूव – 'किमहमाचार्यमध्वं विजेतुं प्रभवेयम् ?' इति ॥ अथापि न तूष्णीमास्त । स्वीकृततत्ववादानाचार्यमध्वस्यान्तेवासिनो बहून् पण्डितान् खण्डयामास वादे । व्याकुलयामास तेषां चित्तम् । इलथयामासान्तःसत्वम् । गलयामास गर्वम् । ( अथापि स्वस्यानुजः शङ्करपण्डितः श्रीमध्वशिष्यो बभूव । स्वगृह एव तत्ववादश्चञ्चुं निचिक्षेप । तन्निवारणाय स्वयमप्रभवन् पण्डितः प्रकटं सङ्कटमनुबभूव । साकमेव कल्याणी च तत्ववादे निष्ठां परिजग्राह । स्वनिशान्तान्तर्व्यापिनीं तत्ववादवात्यां प्रतिरोद्धुमशक्तः, कथमथ दिगन्तव्यापिनीं तत्प्रसृतिं स्वयमहं निरुणधानीति मुधानीतिमाकलयन् ध्यानमग्नो बभूव लिकुचपण्डितः ।) पण्डितानुजः शङ्करपण्डितो मध्वशिष्यो न केवलम् । तदीयग्रन्थपालोऽपि किलाऽस । स च माध्वो ग्रन्थनिचयस्त्रिविक्रमपण्डितनिलय एवाऽस ।। नक्तमेकान्ते, यदा सर्वेऽपि निद्रावशाः, त्रिविक्रमपण्डितः श्रीमध्वस्य ग्रन्थान् कुतूहलाकुलित आलोकयामास । पाठम्पाठमनवधौ विस्मयजलधौ निममज्ज । तन्मनसि निरूढानां सर्वेषां विशयानां तत्र स्फुटमुत्तरमासीत् । लिकुचपण्डितो गलितविशयो मिलिताशयो बभूव । ॥ अथापि नैतावन्तं कालं तस्य साक्षाद् भगवत्पाददर्शनमासीत् । बहिर्मायावादं समर्थयमानइवैवावर्तत । आचार्यमध्वं दृष्ट्वा तेन सह सर्वं विमृश्य तथ्यं विजिज्ञासितव्यमित्यन्ते निर्दधार ॥ आचार्यमध्वोऽपि दिष्ट्या तं देशमाजगाम । स्वयं राजा जयसिंहस्तमाहूय स्वराज्यं 'कबेनाडु' (ಕಬೆನಾಡು)देशमानाययामास । आचार्यमध्वस्तत्र विष्णु- मङ्गलायतने न्यवात्सीत् ॥ राजगुरुस्त्रिविक्रमपण्डितो भगवत्पाददर्शनाय विष्णुमङ्गलमाजगाम । दृष्ट्वा भगवत्पादं भक्तिविवश: पपात पादयोः । पण्डितमण्डलीनिबिडं महापुरुषदिदृक्षासमागतजनसन्दोहसन्दृब्धं नृपसभमलञ्चकार भगवत्पादः । निकट एव विनीतवेषो मूर्तिमानिव विनयः स्वयं महाराज: । दृष्ट्वेदमपूर्वं दृश्यमानन्दतुन्दिलस्त्रिविक्रमपण्डितः कविसहजया वाण्या समभिननन्द महाराजं जयसिंहम् स्वःसुन्दरीभुजलतापरिरम्भणी धू: पौरन्दरी भवति यं भजतां भुजिष्या । आनन्दतीर्थभगबत्पदपद्मपरेणुः स्वानन्ददो भवतु ते जयसिंहभूप ॥ एवमद्भुतोऽयं समजनि राजगुरोर्जगद्गुरुणा प्रथमः समागमः । अथ चातीतानि कतिचन दिनानि । श्रीमध्ववचनानि प्रतिक्षणं परीक्षमाण एवाऽस त्रिवि क्रमपण्डितः । श्रीमध्व एनमयस्कान्त इवाऽचकर्ष ॥ आचार्यमध्वो यत्रोवास तस्य ग्रामस्य तदानीन्तनं नाम 'कूडेलू' (ಕೂಡೇಲ್) इति । सम्प्रति 'कूड्लु' ( ಕೂಡ್ಲು) इति व्यपदिशन्ति । भगवानाचार्यस्तत्र देवमन्दिरे प्रत्यहं ब्रह्मसूत्रभाष्यं प्रवाचयाञ्चकार । त्रिविक्रमपण्डितः प्रतिपदं सश्रद्धमाकर्णयामास । एकदा प्रवचनमारभमाणो भगवत्पादः पुरःस्थितं लिकुचपण्डितं साकूतमालोकयामास समन्दहासम् ॥ फलितस्त्रिविक्रमपण्डितस्य चिरमाचीर्णः पुण्यनिचयः । तस्य मनसि चिर- रात्राय निरूढं संशीतिजातं भगवत्पादः स्वयं पश्यन्निव क्रमश एकैकश उद्भावयामास । उद्भाव्य चैकैकं सयुक्तिकं निरास । निरस्य च तत्ववादं स्थापयामास ।॥ अथायमिदानीं त्रिविक्रमपण्डितस्य पर्यायः । सर्वथा प्रयतितव्यं यथाकथाच मायावादस्य रक्षार्थम् । न युक्तं तूष्णीकामवस्थातुम् । आत्मानमेवावलम्ब्य विश्रब्धमासीनायाः पण्डितपटल्याः कृतेऽपि स्वेन भणितव्यम् । एवं कृत- निश्चयो राजगुरुः स्वयं राजसभायां वादायोत्तस्थौ ॥ लोकैकजयिना भगवत्पादेन सह वादकथा । त्रिविक्रमपण्डितोऽपि न सर्व- साधारणः । स्वयं विपश्चितामपश्चिमः । यस्याग्रतः पण्डितसभा वदनं व्यादातुमपि बिभाय तेनाऽचार्येण सह पण्डितः प्रचण्डं वादं वितेने ॥ पण्डिमण्डली निरुद्धश्वासा विस्मृतनिमेषा तस्थौ मुर्मुरोपरिगतेव तहतहा- यमाना । दिनान्यतिगतानि । न विरराम लिकुचपण्डितः । न विषसाद । नापि निवृत्तवादकथो निषसाद । निरन्तरं तर्कजालं वितानयामास । भग- वानाचार्योऽपि मनाक् स्मितेनैव तस्य मनस्कारं शिथिलयन् तत्प्रयुक्तानां तर्काणां मूलमेवोत्कृत्य सलीलमुत्तरं ददौ । ततः प्रववृते वेदार्थपरिचर्या, अहम्ब्रह्मास्मिना च तत्वमसिना च निशितेनेव कृपाणेन । भगवत आचा- र्यस्यापूर्वं मन्त्रवर्णनिर्वर्णनं मेधाविनां मनोहरणमास ॥ एवं सप्ताष्टान् दिवसान् प्रचचाल कथा । अन्ते त्रिविक्रमपण्डितो बभूव निरुत्तरः । छिन्नसर्वसंशयश्च । आनन्दाबहोऽयमहो पराभवोऽपि । ईदृशं लोकोत्तरमाचार्यं लब्ध्वा जितोऽहमिति सम्मुमुदे । पपात च भुवनगुरोः पादयोः । व्यजिज्ञपच सविनयम्- 'भगवन् गुरुतम, भगवतो विनेयकोटिषु परिगणय्यानुग्रहीतव्योऽयमपि जनः । दातव्यं च भगवत्पादरजःसेवाभाग्यम्' इति ॥ इममेव स्वपुराणशिष्यस्य परिवर्तनक्षणं निरीक्षमाणो बभूव भगवत्पादः । ततःप्रभृति लिकुचपण्डितो भगवत्पादस्य प्रीतिपात्रमन्तरङ्गशिष्यो बभूव । श्रीमध्वगुरुमुखेनैव तदीयभाष्यसुषमामासस्वदे । सर्वाणि च तत्ववादरहस्यान्यधिजगे । महानतुलोऽनुग्रहो मध्वगुरोस्तस्मिन् । स तच्छिष्येषु निकटतम आस । तत्फलमिदम्– यदन्यान् सर्वानपि स्वशिष्यान् विहाय स्वभाष्यटीकारचने भगवत्पादस्त्रिविक्रमपण्डितमेव न्ययुङ्क्त ॥ पण्डितोऽपि गुरोराज्ञां शिरसि निधाय तत्वप्रदीपाख्यमप्रख्यं व्याख्यानं विरचय्य गुरुचरणयोः समार्पिपत् । रम्याद्भुतमिदं शास्त्रकाव्यम् ॥ एवं भगवानाचार्यः पण्डितेनैकं ग्रन्थरत्नराजं निरमापयत । पण्डितोऽप्या- चार्येण । तदभ्यर्थनयैव भगवत्पादो ब्रह्मसूत्रस्य पद्यात्मकमनुभाष्यम्, अनु- व्याख्यानमिति वैदिकाभिधानभूषितम्, किमप्यनुपमं प्रबन्धरत्नं प्रबबन्ध । तत्र सूचितानामधिकरणयुक्तीनां विवरणार्थं पुनर्न्यायविवरणं नामापरं च ग्रन्थ- रत्नम् । एवमहो महागुरुशिष्ययोरन्योन्यमयमनन्यः सम्बन्धः ॥ एवमेतावान् नारायणपण्डितेन स्वकृते श्रीमध्वविजये सङ्गृह्य निरूपितः स्वतातस्य परिचयः ॥ लिकुचपण्डितान्ववाय एव पण्डितमयः । त्रिविक्रमपण्डितस्य जनक: सुब्रह्मण्याख्यः सूरिरपि विद्वन्मूर्धन्य आस, स्वयं कविरासेति श्रूयते । तत्कृतयस्तु का अपि नोपलभ्यन्ते ।। त्रिविक्रमपण्डितस्यानुजन्मा शङ्करपण्डितोsपि महान् विपश्चिदेव । अग्रज इवायमनुजोऽपि विशिष्य भगवत्पादानुग्रहभाजनं बभूव । आचार्यस्य ग्रन्थ- पालोऽप्ययमास । वस्तुतस्त्वयमेवाग्रजस्य मनःपरिवर्तनबीजम् ॥ अस्य द्वे कृती सम्प्रत्युपलभ्येते । एका त्वनुव्याख्यानस्य व्याख्या–'अनु- व्याख्यानसम्बन्धदीपिका' । नातिवितता, अथापि विशदार्था । अपराऽनु- व्याख्यानन्यायमालां न्यायविवरणेन संयोजयन्ती तनुतरा कृति:- 'अनु- व्याख्यानन्यायविवरणसम्बन्धदीपिका' । अतीवोपयुक्ता सूत्राधिकरणयुक्ति- मालामनुसन्दधताम् । तदिह विस्मयावहमेतत्, यन्नारायणपण्डितः स्वक्षुल्ल- तातस्य कृती इमे नोल्लिलेखैव श्रीमध्वविजये, स्वकृतायामनुव्याख्यानटीकायां नयचन्द्रिकायां वा ।॥ एतेन शङ्केयमुद्भवति– द्वौ शङ्करार्यौ लिकुचकुलशेखरौ मध्वशिष्यावुद- लिख्येतां श्रीमध्वविजये । एकस्तत्र नारायणपण्डितस्य पितृव्यः । अन्यो दूरतः सम्बन्धी । ततश्चायं सम्बन्धदीपिकायाः प्रबन्धा कश्चिदन्य एव दूरतः सम्बन्धी शङ्करार्यः स्याद्वेति । भगवाननिश्चय एवं शरणम् ॥ (कल्याणी देवीति काचिदनुजा, केषाश्चिन्मते तनुजा, त्रिविक्रमपण्डितस्य बभूवेत्यैतिह्यविदो वदन्ति । एषाऽपि विदुषी, श्रीमदाचार्यसिद्धान्ते बद्धदीक्षा निवृत्तिमार्गनिरताऽनूढैव जिजीवेति चाऽभाणकम् । नारायणपण्डितस्त्वस्या विषयेऽपि दिव्यं मौनमुवाह । तत्कृतय इति द्वित्राः स्तुतयोऽपि पठ्यन्ते । इयमाचार्यमध्वस्याग्रजेत्यन्ये । निश्चितप्रमाणानुपलम्भात् इदमित्थमिति तथ्यनिर्णयः सम्प्रति दुःशक एव ।) त्रिविक्रमपण्डितस्य त्रयस्तनयाः । नारायणपण्डितस्य स्वसरयोराद्ययोर्द्वयो- र्नाम न क्वापि निरदिश्यत । तृतीय एव नारायणपण्डितः । अयमेव लिकुचान्ववाये महान् ग्रन्थकारः । महाकाव्यखण्डकाव्यस्तोत्रयमककाव्या- दिभिरयं भूयिष्ठं गीर्वाणसाहित्यसरस्वतीमलञ्चकार ॥ गीर्वाणवामये जीवनचरितं नाम काव्यप्रकारं प्रायोऽयमेव स्वोपक्रममाविश्च- कार । तस्येयमपूर्वा कृतिरितिहासकाव्यं श्रीमध्वविजय इति । साक्षादाचार्यं दृष्टवत: कृतिरिति विजयकाव्यमिदमैतिहासिकतायां महत्त्वमाधत्ते ॥ एवं महतां चरितमनुवर्णयन्ती विजयकाव्यपरम्परा पुनरेतदुपक्रममेव प्रास्तू- यतेति ज्ञायते । मध्वविजयेन प्रभाविताः पश्चादनेके शङ्करविजया अहम्पूर्विकया निरमीयन्त । तेषु नैकोऽपि तथ्यवर्णने दत्तभरः । एकत्रैका कथा । अपरत्रापरा तद्विपरीता । तदेवं शङ्करविजयैरेव शङ्करजीवनकथा परस्परमतथ्यखचिता दुःशकनिर्धारा चाविश्वसनीया च संवृत्ता । सर्वं व्याकुलं किंवदन्तीसङ्कुलं बभूव ॥ नारायणपण्डितः स्वयमेवास्य मध्वविजयस्य भावप्रकाशिकामत्युपयुक्तां लघु- टीकामप्यटीकत । मध्वचरितमेव च पुनर्नित्यपारायणोपयोगितया सञ्जग्राह प्रमेयनवमालिकेति । यमणुमध्वविजय इति च व्यपदिन्ति ॥ अपरा च तस्योद्धकृतिः सङ्ग्रहरामायणम् । यत्रायं पण्डितसूनुः श्रीवाल्मीकि- रामायणं च श्रीमध्वरामायणं च चतुरतरं समन्त्रियाय ॥ मणिमञ्जरी, शुभोदयः, यमकबद्धं पारिजातहरणं च तद्विरचितानि खण्ड- काव्यानि । शिवस्तुतिः, नरसिंहस्तुतिरिति द्वे छन्दोलयभव्ये स्तोत्रकाव्ये । (केचिदिमां नृसिंहस्तुतिं त्रिविक्रमपण्डिताचार्यकृतिं मन्यन्ते । प्राचीनहस्त- लिखतकोशानुगुणं नारायणपण्डितकृतिरित्येव सूक्तम् । तौळवदेशे सम्प्रदा- यज्ञास्तथैव मन्यन्ते ।) उपासनामार्गदर्शन्यौ द्वे कृती योगदीपिका च ध्यान- माला च । कृष्णमाला चान्या कृतिः कृष्णकथायाः कालानुक्रमणिका ॥ द्वे च वेदान्तकृती, एका तत्वमञ्जरी तत्वनिर्णयटीका, अपरा नयचन्द्रिका चानुव्याख्यानटीका ॥ अथापरः प्रबन्धा वामनपण्डितः । नारायणपण्डिततनूजोऽयमिति प्रायः सर्वेषां विदुषां मतम् । स त्वात्मानं त्रैविक्रमार्यदास इत्येव केवलं स्वग्रन्थेष्वाख्या- पयामास । अथापि तदीया भाषाशैली वंशगुणवाहिनी तथ्यं ढौकयति । रुचिरं च नामधेयम्–त्रिविक्रमपण्डितः पितामहः, वामनपण्डितः पौत्र इति ॥ अनेन रचिता सर्वशास्त्रार्थसङ्ग्रहाभिधस्य सङ्ग्रहभाष्यस्य टीका 'आनन्दमाला' नाम नूनमानन्दमालैव श्रवसोश्च मनसश्च । षण्णामणूपिनषदां च सभाष्याणां तैत्तिरीयवर्जं तत्कृता टीका मध्वाभिमतानपूर्वतमानर्थविशेषानाविष्कुर्वन्ती विदुषां चित्तरसायनम् । स यदि न टीकां प्राणेष्यत न व्यज्ञास्यतैव मन्त्रेषु पिहितं मध्वाभिमतमौपनिषदं रहस्यम् ॥ पण्डितः संसारः । कृतार्थः सूरिजनसार्थः । मण्डितस्तौळवभूमिभागः । एभिर्लिकुचान्वयसुपुत्रैस्तौळवमही नूनममहीयत ॥ सर्वेषामेषां मूलस्फूर्तिस्त्रिविक्रमपण्डितः । सर्वमूलं तौळवमण्डलपण्डितपर- म्परायाः । सर्वेषां माध्वपण्डितानामयमाचार्य इति तमेतं पण्डिताचार्यमाचक्षत शास्त्रविचक्षणाः ॥ अस्य पण्डिताचार्यस्य प्रथमा कृति: 'उषाहरणं' नाम महाकाव्यम् । कौमार एव प्रबुद्धा रचना ज्ञानवृद्धानामपि विस्मयजननी । चेतश्चमत्कारिणी काव्य- चातुरी ॥ तस्मिन्नेव तरुणे वयसि, 'अस्मिन् काव्योद्योगे पूर्णसुखस्य विष्णोः पापापहे पदारविन्दे सङ्गन्तुकामस्य भक्तिरसः सखा मे' इति घोषयन्नयं तदानीम- परिचितमध्वोऽपि स्वयमाश्लिष्टशाङ्करसमयोऽपि स्वान्तरङ्गे माध्वमेवाध्वा- नमनुपपातेव ॥ सम्प्रत्युपलब्धासु पण्डिताचार्यस्य द्वितीया कृतिर्विष्णुस्तुतिः । प्रतिक्रियेयं शाङ्कर्या विष्णुस्तुतेः । प्रत्यादेशः पूर्वाचार्यस्य पूर्वाचारस्य च । अत- स्तेनैव च्छन्दसा तयैव शैल्या तत्स्पर्धिनीमिव स्तुतिमन्यां स्वयं रचयामासेति प्रतिभाति ॥ तस्य तृतीया कृतिर्वायुस्तुतिः । तामन्तरेणोपरिष्टाद् विवेचयामः ॥ अपरमणुस्तोत्रं मध्वाष्टकं नाम पण्डिताचार्यकृतमिति प्रथितमस्ति । तदीया भाषारीतिश्छन्दसो गतिश्च तस्य पण्डिताचार्यकृतितां न समर्थयेते ॥ पूर्णबोधाष्टकमित्यपरं रम्यं स्तोत्रं पठ्यते । तत् कल्याणीदेवीरचितमिति च जनश्रुतिः । अयुक्तेयं किंवदन्ती । यतस्तस्य ध्रुवपदम्-'प्रणतवान् प्राणिनां प्राणभूतम्' इति तत्प्रणेतुः पुंस्त्वं द्रढयति । स्यादियं पण्डिताचार्यकृतिः ॥ अथ ब्रह्मसूत्रभाष्यटीका तत्वदीपिका पण्डिताचार्यस्य मेरुकृतिः । आचार्य- मध्वस्याऽज्ञयैव रचिताऽनुपमा टीका । अशुष्कतर्कखचिता श्रुतिसमुचिता च वादवैखरी, भाष्ये प्रतिपदं नवनवार्थगवेषणचतुरा मधुरा निर्वहणधुरा, ललितगम्भीरा पिहितार्थभारा प्रौढतरपदविन्यासा भाषागतिः, शैलूषीव भावा- भिव्यञ्जनलोला चित्तहरणशीला शैली । एतादृशो रसमयः स्वसमयबद्धदीक्षः प्रबन्धोऽपरः प्रायस्तत्वशास्त्रपरम्परायामेव दुर्लभदर्शनः । द्वित्रा एव यदि स्युरेतत्समानकक्ष्यायां निक्षेपार्हाः- श्रीजयतीर्थमुनेर्न्यायसुधा, उदयनस्य न्याय- कुसुमाञ्जलिः, पार्थसारथिमिश्रस्य शास्त्रदीपिकेति । काव्यानां काव्यमिदम् । शास्त्राणां शास्त्रम् । मित्रधेयं विद्वज्जनस्य । भागधेयं भुवनस्य ॥ सद्यःकवितारचनचतुरोऽयं वाचोयुक्तिपटुः पण्चिताचार्यः । प्रतिभातवागयं प्रतिवादिभयङ्करः । स्मरामो भवभूतेर्वचनस्य - 'शब्दब्रह्मविदः कवेः परिणत- प्रज्ञस्य वाणीमिमाम्' इति ॥ तिथिनिर्णयो नाम कश्चन प्रबन्धः पण्डिताचार्यकृतिरिति श्रूयते । श्रूयते केवलम्, न दृश्यते । भगवत्पादकृतस्य तिथिनिर्णयस्य व्याख्यानरूपोऽयं स्यादपि । कृष्णाचार्यकृतायां स्मृतिमुक्तावळ्यां श्रीवादिराजयतिकृते एकादशीनिर्णये चास्योल्लोखादृते नान्यत् किमप्येतत्सम्बद्धं वृत्तमुपलभ्यते ॥ वायुस्तुतिः - काऽपि किंवदन्ती पण्डिताचार्यकृतां वायुस्तुतिमन्तरेण काऽपि किंवदन्ती प्रचलिता वर्तते । केचिदित्थमाभणन्ति भगवत्पादः रजतपीठे पूजानिरत आसीत् । नैवेद्यसमर्पणं प्रावर्तत । देवा- गारस्य द्वारं पिहितारमासीत् । चन्द्रशालायां निषण्णाः सर्वे समर्पणसमा- प्तिसूचकं घण्टानादं निरीक्षमाणा बभूवुः । पण्डिताचार्योऽपि ॥ अतीयाय महाननेहा । नाश्रूयत घण्टानादः । कुतोऽयमद्य विलम्ब इति सर्वेऽपि व्यस्मयन्त । पण्डिताचार्योऽप्यन्तःकुतूलहं निग्रहीतुमप्रभवन् कपाटकुहरेणा- न्तर्निरैक्षत । अहो ऐक्षत च विस्मयावहं दृश्यम् । भगवत्पादस्त्रिभी रूपैर्भगवन्तमर्चति स्म । अहो इहाऽञ्जनेयः, तत्पुरतो रामभद्रः । अयमिह भीमसेनः, तत्पुरतो वासुदेवः, पुनरिह पूर्णप्रज्ञः, पुरतो वेदव्यासः । सपद्याशुपद्यस्य कवेराननादनवद्या स्तुतिरियं निरर्गळमुदगच्छत्-'श्रीमद्- विष्ण्वङ्घ्रिनिष्ठातिगुणगुरुतमश्रीमदानन्दतीर्थत्रैलोक्याचार्यपादोज्ज्वलजलज- लसत्पांसवोऽस्मान् पुनन्तु……'॥ अन्यादृशीं किंवदन्तीमन्ये पठन्ति । उक्ताया एव कथायाः किञ्चिदिव रूपान्तरम् । पूर्वा विश्वपतितीर्थीया । इयं छलारीयटीकायामुदाहृता, रायपाळ्यं राघवेन्द्राचार्यविरचितायां कर्णाटकभाषाटीकायां च बदर्यां भगवत्पादः पिहितकवाटे देवागारे पूजानिरत आस । अलौकिकीमा- चार्यपूजासरणिं दिदृक्षमाणः पण्डिताचार्यः कुतूहलबलात् खटक्किकायाः कवा- टस्यान्तरे चक्षुर्निचिक्षेप । तदा स भगवत्पादपूजापीठे स्थापितायां कृष्णार्चायां रामरूपं ददर्श । स्वयमाचार्यश्च हनुमानिव ददृशे । तेनापूर्वदर्शनेन विस्म- यप्रोद्वलितः परमानन्दतुन्दिलः कविराजः स्तुतिमेतां सद्यो विरचय्य स्वगुरुं तुष्टावेति ॥ अनयोर्द्वैरूप्यमेव याथार्थ्ये सन्देहं जनयति । येनयेन यथायथा श्रुतं तथाविधं कथ्यते । इयं शङ्करविजयकथैवाऽसीत् । द्वयमप्यश्रद्धेयं स्यादाहोस्विदेकतरं प्रमाणम् । तत्रापि कतरत् प्रमाणमित्यनिश्चय एव । बहव एतादृशाः श्रद्धामूलाः प्रज्ञावादा भवन्ति । न वयं कथायां कृतभराः । किन्तु वास्तवे धृतधुराः ॥ एतावदिह शक्यं वक्तुम् - पण्डिताचार्य: प्रथमं किल विष्णुस्तुतिं प्रणि- नाय । प्रायस्तदैवं मनसि चिन्तयामास - भगवतः स्तुतिरिव गुरोरपि स्तुतिः साधकानामवश्यमपेक्ष्यते निरन्तरं निरन्तरायं च साधनपथे पुरः पतितुम् । 'यथा देवे तथा गुरौ' इति हि वदति श्रुतिः । ततः, येन भुवनगुरुणा वयं भगवत्तत्वमज्ञा अपि व्यज्ञासिष्मतराम्, सुतमां सुज्ञाः, तस्य भगवत्पाद- स्यापि स्तुतिः काचन प्रस्तोतव्येति ॥ तादृशस्य चिन्तनस्य फलमियं वायुस्तुतिः । सम्प्रति द्वयमपि सम्पन्नम्– हरिस्तुतिश्च गुरुस्तुतिश्च । तदनेन परितुष्टमनाः समुज्जुघोष स्तोत्रावसाने– 'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इति । नखस्तुतिः - अत्रापि किंवदन्ती वायुस्तुतेराद्यन्तयोः सम्पुटीकरणेन पठ्यमानं नखस्तुतिरिति प्रख्यायमानं पद्यद्वयमन्तरेणापि काचन जनश्रुतिः सर्वतः प्रसृता श्रूयते । तदेवमाभाणकज्ञा भणन्ति– पण्डिताचार्यः स्वरचितां वायुस्तुतिं गुरुचरणयोः समार्पयत् । तदा भगवत्पाद उवाद–'केवलमिह गुरुं तुष्टोथ । आदौ भगवत्स्तुतिः, ततः किल गुरुस्तुतिः करणीया' इति ॥ तस्य परिहारसरणिं च भगवत्पाद एव दर्शयामास । स्वयं श्रीनरसिंहस्य प्रार्थनारूपं नखस्तुतिं व्यररचत । विरचय्य चोवाच- भवतो गुरुस्तुतेरियं नखस्तुतिः सम्पुटायताम् । एवमाद्यन्तयोरिमां स्तुतिं पठित्वा मध्ये वायुस्तुतिं पठन्तोऽस्मदनुग्रहभाजनं भूयासुरिति । ततः परं वायुस्तुतेः नखस्तुत्या सम्पुटीकरणं नियतं प्रचलितमासीदिति ॥ अत्रेदं वास्तवम्– पण्डिताचार्य: प्रथमं विष्णुस्तुतिं विधाय पश्चादेव वायुस्तुतिं विरचयाम्बभूव । अस्यामेव स्तुतौ प्रथमं पृथग् विष्णुस्तुतिर्नास्तीत्येता- वदेव । पश्चात्तना अपि विपश्चितो वायुस्तुतीः प्रणिन्युः । तत्र न क्वाप्यादौ विष्णुस्तुतिः श्रूयते । पण्डिताचार्यकृतिरिति प्रथितायामपरस्यामपि मध्वस्तुतौ नास्त्यादौ विष्णुस्तुतिः । नारायणपण्डितरचितायां शिवस्तुतावपि शिव एवाऽदितः प्रस्तूयते–स्फुटं स्फटिकसप्रभमिति, ऋते विष्णुस्तुतेः । तस्मा- दसाम्प्रदायिकोऽयं वाद इति निश्चीयेत । अथ नातिश्रद्धेयेयं कथा कथङ्कारं केन कदा वा जनिमलभतेति न ज्ञायते ॥ अत्रान्यदपि वैयाकुल्यमस्ति- सम्प्रति साम्प्रदायिकम्मन्या अभिदधति- पद्यद्वयात्मिका नखस्तुतिरिति । किन्तु श्रीहृषीकेशतीर्थेन साक्षाच्छ्रीमध्वमुखत एव श्रुतसर्वमूलग्रन्थेन भगवत्पादशिष्यप्रवरेण लिखिते मूलपाठे पुनरेकमेव पद्यमुपलभ्यते- पान्त्वस्मानिति । न द्वितीयम् । तस्य नखस्तुतिरिति नामापि न तत्र निरदिश्यत । भगवत्पादरचितानां स्तोत्राणां मध्ये तावदिदमपि लिखितम् । न पृथक् किमप्युपसंहारवाक्यम् । अथ श्रीहृषीकेशतीर्थलिखित- मूलपाठानुसारिणि श्रीहृषीकेशतीर्थसंस्थानमधिरूढेन विद्वत्तल्लजेन श्रीरघुव- र्यतीर्थयतिना लिखितेऽपि ताळपत्रमये कोशे पान्त्वस्मानित्येकमेव पद्य- मुदलेखि । न द्वितीयं लक्ष्मीकान्तेत्यादिकम् ॥ अथच द्वितीये पद्ये नरसिंहनखानामुल्लेखवार्ताऽपि नास्ति । तेन स्फुटमवगम्यते नानयोः पद्ययरैकग्रन्ध्यमिति । श्रीवादिराजयतिविरचिते 'एकादशीनिर्णये' चेत्थं पठ्यते 'पान्त्वस्मानिति पद्यस्य वन्दे वन्द्यमिति स्तुतेः । 'अन्यथा मध्वकृतितानिर्णयः किङ्कृतस्तव' ॥ अत्रापि पद्यस्येत्येकवचनं नखस्तुतेरैकपद्यं कटाक्षयतीव । स्यादिदमपि सम्भावकं प्रमाणम् ॥ इदं चावधानीयम्– सम्प्रत्युपलब्धासु वायुस्तुतिटीकासु प्रतनतमा श्रीवेदात्म- तीर्थविरचिता यः श्रीविष्णुतीर्थसंस्थानमधिरुह्य वेदान्तसाम्राज्यधुरामुवाह । वेदात्मतीर्थश्च नखस्तुतिं न व्याचख्यौ । तत्कृता वायुस्तुतिटीकैव केवल- मुपलभ्यते । न तत्र नखस्तुतिसम्पुटीकरणवार्ताऽपि । तेन तदानीं नायं सम्पुटीकरणसम्प्रदायः प्रचलित आसीदिति ज्ञायते ॥ आस्तां तावदियं कथा । अथ केन रचितं नखस्तुत्या सह पठ्यमानं द्वितीयं पद्यम्? कदा वा नखस्तुत्या सह समगम्यत ? ऋतेऽधिकृतस्य प्रमाणस्या- धिगमान्न किमपि शक्यं निचेतुम् ॥ इदमिह सम्भावितम् । द्वितीयमपि पद्यं प्रसङ्गान्तरे भगवत्पादेनैव रचि- तम् । तेन न नखस्तुतिभागः । किन्तु स्वतन्त्रं स्तुत्यन्तरम् । इलोकद्वयमपि हरिस्तुतिपरमिति, तत्रापि द्वितीयं पद्यं वायुस्तुतिच्छन्दसैव ग्रथितमिति पश्चात् साम्प्रदायिकैः द्वयोरपि वायुस्तुतेः सम्पुटीकरणेन पठनसम्प्रदायः समारब्ध इति । ततः परमपि गतः कतिपयः कालः । अथापि नूनं नातिप्राचीनोऽयं सम्प्रदायः ॥ अयमिह मथितार्थः– पान्त्वस्मानित्यादि मिलितं पद्यद्वयं नैको ग्रन्थः । किन्तु स्तुतिद्वयम् । प्रथमा नखस्तुतिः । द्वितीया लक्ष्मीकान्तस्तुतिः । वायुस्तुतेः पूर्वं सहपाठनैयत्येन चैकग्रन्थ्यप्रथा । छत्रिन्यायेन च नखस्तुतिरित्याख्या । वस्तुतस्तु उभयोरपि संहत्य नरहरिस्तुतिरिति नाम युक्तं स्यादिति ग्रन्थेऽ- स्मिन् तथैवोल्लिखितम् । क्वचित् 'हरिवायुस्तुतिः' इति व्यवहारोऽप्येतमेवार्थं समर्थयते ॥ अत्र स्मराम्येकस्य प्रसङ्गस्य । तदात्वे श्रीरामतीर्थसंस्थाने श्रीकाणियूरुमठे श्रीविद्यासमुद्रतीर्थो यतिराड् वेदान्तसिंहासनमारूढ आसीत् । अन्वर्थनामा स कर्मन्दिपुङ्गवो विद्यासमुद्र एवाऽस । यस्याऽस्यरङ्गे सकलमपि शास्त्रजातं समुल्ललास, यस्य च वाचमर्थोऽनुदधाव । अथाप्यन्तर्मुखो मुग्ध इवावधूत इवाप्रकटितात्मसाधनो ज्ञानधनो जिजीव । तदा चाहमुपविंशः किञ्चिदङ्कुरि- तश्मश्रुरकिणस्कन्धो गलिरिवाऽसम् । मम प्रथमा कृतिः श्रीकृष्णामृत- महार्णवस्य कर्णाटभाषानुवादो नखस्तुत्या सह तर्हेव मुद्रणालयमुखं ददर्श ॥ तत्रेदमुपज्ञं मया प्रास्तूयत नखस्तुतिरित्येकमेव पद्यमिति । रूप्यपीठे पण्डित- समवाये समजनि महान् कोलाहलः । केचिद् विस्मिता अप्यसहमानाः ससम्भ्रममुच्चुक्रुशुः । केचित् क्रुद्धाः साटोपमनलबिस्फुलिङ्गानेवोदवमन् । ते जूटं बद्ध्वा जजल्पु:- 'एतावन्तमनेहसं नखस्तुतिरिति पठन्ति स्म सर्वेऽपि विपश्चितः । किं ते सर्वेऽनधिगततथ्या मिथ्याचारा अनभिज्ञाः पामराः ? किमयमेकस्तथ्यदर्शी पण्डितवर इदमुपक्रममवतीर्णः? नोपेक्षणीयमिदं क्षुल्लं बालिश्यम् । न क्षन्तव्योऽयमपराधः । किमिदमेवंविधानां महदुपक्रमाणां समुदाचाराणां प्रत्याख्यानं नाम' इति ॥ केचिदेतच्छ्रुत्वा हर्षोत्फुल्लाः शूनगल्ला जीर्णमल्ला इवान्तःश्मश्रु जहसुः । 'अन्धेनैव नीयमाना यथाऽन्धाः' ॥ सम्प्रदायान्धानामनेनाऽक्रोशावेशेन नाहमीषदपि विचचाल । मम वादसौधस्य सुदृढाऽस्ति मूलशिलान्यासरचना । अस्ति संशोधनबलम् । अस्ति केवलं सत्यान्वेषभरः । नाऽस दुराग्रहलेशोऽपि न सम्प्रदायद्वेषोऽपि । किमित्यहं भीयासम्? यन्मया संशोधनेनावगतं तद्विमर्शर्थं महाजनानां पुर उपस्थापनीयमित्याशामात्रं मम प्रवृत्तिमूलम् । चर्च्यतां पण्डितैः, चर्चया च कश्चन निश्चयः, नवनीतमिव मथनेन, समुद्भवेदित्युद्देशमात्रं तत्राऽसीत् । तेन किमित्यहं सङ्कुचानि? महदिदं दौर्भाग्यम्– यत् सर्वेऽपि स्वाभिमतमेव तथ्यमिति कत्थन्ते विना- विमर्शं छलाक्रान्तस्वान्ताः । किमप्यपूर्वं प्रमेयं नूतनमपि मुक्तं स्वीकृत्य विम्रष्टुमपेक्षिता हृदयालुता दयालुता च प्रायो लुप्तप्रायैव । यथा तदानीं तथेदानीमपि । मुक्तचिन्तनमेव हन्त नष्टप्रायम् । सत्यस्य शिरसि परि- नरीनृत्यदसत्यं विजयमानं विजृम्भते ॥ एवङ्गते लोकवृत्ते श्रीविद्यासमुद्रतीर्थयतिः कञ्चन पुरुषं प्रेषयामास । स मामेत्याह- 'गुरवस्त्वां दिदृक्षन्ते' इति ॥ श्रीपादोऽयं तपसा जीर्णः । ज्ञानेन पूर्ण: । निरन्तरस्वाध्यायेन सर्वं वयो यापयामास । प्रायोऽयमपि वृद्धो यतिः, 'किमिदमसङ्गतं भणित्वा श्लथयसि जनानां श्रद्धाम्', इति भत्सयितुमेव मामाह्वापयामासेति शङ्कमान एवाहं सातङ्कं तत्समीपमुपागमम् । आगत्य च तत्पादयोः प्राणमम् ॥ स तु प्रीतिनिर्भरया सनारायणस्मरणं वाचा सान्त्वयन्निवोवाच–'एहि, उपविश' । तेन सञ्जातधैर्यस्तत्सविधे विनीत उपाविशम् । स पुनः साकूतं जगाद–'अपश्यं नखस्तुतिमन्तरेण त्वयोदितम्' । नूनं तत्कृते भत्सना कुत्सना वा श्रोतव्येति मन्वान उत्तानकर्ण आकर्णने सज्जोऽभवम् । स निरैक्षत मां पिबन्निव विकसिताभ्यां नयनाभ्याम् । तया चक्षुःप्रभया स्नात इव पूतः पुलकितोऽभवम् । अथापि किमिदानीं विवक्षतीति स्वान्तमन्तरबिभेदिव ॥ स ममाऽन्तरं वैयाकुल्यं पश्यन्निव जगाद - 'समतुष्यं दृष्ट्वा त्वदुदितम्' । मम हर्षो न पारं ददर्श । मम प्रथमकृतेः प्रथमं श्रवणपथमागता प्रशंसा । तदपि यस्यकस्यचन । एकस्य विपश्चितामपश्चिमस्य, तपस्विनामग्रण्यः, यतिकुलशिरःशेखरस्य ॥ अश्वयमहमानन्देन । इतः परं यः कोऽपि कामं भत्सयतु नाम । न मे काचन भीः । नहि क्षुद्रपण्डितानामप्रबुद्धमसूयागर्भं वचोऽहं लक्षयेयम्, मानयेयं वा । नहि कुकुरो बुकतीति नाकोऽश्रु विमुञ्चति ॥ अथापि सातङ्कमिवाधीरं मनः नखस्तुतिमन्तरेण कस्तस्याऽशय इति । मम मनोगतं पठन्निव स यतिराड् जगाद- 'नखस्तुतिविषये सूक्तमुक्तं त्वया । नितरां ललाग मे चित्ते' ॥ सर्वाङ्गं चक्षुर्भूत्वा तमैक्षे । सर्वाङ्गं श्रवणीकृत्य तद्वचनं निरैक्षे । स पुनराह'श्रीहृषीकेशतीर्थलिखिते मूलपाठे त्वेकमेव पद्यमुपलभ्यते । बहुधा किलाहमभ्यधां विबुधानां सविधे हृषीकेशतीर्थीयो मूलपाठः समाद्रियताम्, सर्वत्र प्रचुरः क्रियतामिति । स किल भगवत्पादकृतीनामधिकृतः परिशुद्धश्च पाठ इति । न कोऽपि तत् परिजग्राह । सर्वेऽपि प्रचलितपाठपरित्यागे बिभ्यति । अहो सत्यं वक्तुं कियद् भयमसत्ये मग्नानाम् । न कोऽपि तथ्यं पथ्यं मन्यते । अतथ्यमेवानुवर्तयति सम्प्रदायमिषेण । सोऽयमहो सम्प्रदायवादिनां मूलसम्प्रदायभङ्गः । तदियमन्धनेतृकाऽन्धपरम्परा' ॥ विस्मितोऽहमभवम् । किमिदं तथ्यमाहो स्वप्नदर्शनम्? स पुनराह– 'महान् सन्तोष: समजनि । धीरोऽसि । अस्ति ते धृतिस्तथ्य- माख्यातुम् । अभीः प्रतिरुध्यस्व सम्प्रदायच्छद्मना प्रसृतामसत्यपरम्पराम् । एवमेव भव बद्धदीक्षः श्रीहृषीकेशतीर्थेन विलिख्य रक्षितस्य मूलपाठस्य प्रसारणे । सदा त्वय्यस्ति ममाऽशीःपरम्परा' ॥ अविद्यायामन्तरे वेष्ट्यमानानां पण्डितम्मन्यानां मध्ये कश्चनाद्भुतोऽयं विद्या- समुद्रः । अपूर्वोऽयमनुभवः । न पारयामि शब्दैस्तं विवरीतुम् । इदं तु पुनः सत्यम् । ततः परमीषादन्तः सन्नाह्यो गज इव सर्वमूलपाठरक्षायां समर- सज्जोऽभवम् ॥ तथाच नखस्तुतिरित्येकमेव पद्यमिति स्थितम् । अत्र पश्यत किञ्चिच्चित्रम्, अन्यत्र क्वापि काव्येष्वदृष्टपूर्वं वैशिष्टयम् । समग्रमिदं पद्यं नैकेन च्छन्दसा बद्धम् । पूर्वार्धे शार्दूलविक्रीडितमुत्तरार्धे स्रग्धरा ॥ शार्दूलविक्रीडितेन स्तुतिं प्रस्तुत्य स्रग्धरया पद्यमवसाययति भगवत्पादः । अपूर्वोऽयं छन्दसोः समागमः ॥ इन्द्रवज्रोपेन्द्रवज्राभ्यां च वंशस्थेन्द्रवंशाभ्यां च संसृष्ट्या काचिदुपजातिर्नाम च्छन्दोभेदः काव्येषु प्रचुरः । शार्दूलविक्रीडितस्रग्धरयोरपूर्वेयमुपजातिः । स्यादियं विक्रीडितस्रग्धरा नाम । भगवत्पादोपज्ञमिदमाविष्करणम् । उल्लिलेख चेदमपूर्वमुदाहरणमिति मन्दारमरन्दचम्प्वां कृष्णावधूतपण्डितः । अत्र काचन चमत्कृतिरन्तर्गता चकास्ति । तदिदमुपसर्जनमेव च्छन्दसोः स्फुटं कथयतीव नरसिंहनखरलीलाम् ॥ आदौ नृहर्यक्षस्य नखरैर्हिरण्यकशिपोर्वक्षोविपाटनं नाम शार्दूलविक्रीडितम् । (सिंहमपि शार्दूलमाह यादवप्रकाशः-'व्यादीर्णास्यो महानादः शार्दूलस्तुल्य- विक्रमः' इति ।) ततश्चारेरान्त्रस्रग्धरा लीला भगवतः । एवं श्रीनृसिंहावतारस्य विचित्रामहो मृगराजखेलां छन्दसोः संसर्जनेनैवाऽविष्कुर्वन्ती चमत्कृतिरिय- मदृष्टपूर्वा समग्रे संस्कृतवाङ्मये । भगवत्पादेनास्मिन् पद्ये ग्रथ्यमाने मन्ये छन्दोमानिन्यो देवता ननृतुरानन्दतुन्दिलाः ॥ सेयं शार्दूलविक्रीडितस्य चैकान्नविंशत्यर्णस्य गणसञ्चारः- 'शार्दूलविक्रीडितं तु यत्र मः सजसाः पुनः । ततगा: सूर्यऋषिभिर्विरतिः -' इति । मगणः । सगणः । जगणः । सगणः । तगणः । तगणः । गुरुः पान्त्वस्मान् । पुरुहू । तवैरि । बलवन् । मातङ्ग । माद्यद्ध । टा । कुम्भोच्चा । द्रिविपा । टनाधि । कपटु- । प्रत्येक । वज्रायि । ताः । सूर्य(१२)ऋषि(७)भिर्विरतिः पान्त्वस्मान् पुरुहूतवैरिबलवन् । मातङ्गमाद्यद्धटा । कुम्भोच्चाद्रिविपाटनाधिकपटु । प्रत्येकवज्रायिताः । स्रग्धराया एकविंशत्यक्षराया लक्षणं च 'मरभनया यौ मुनिमुनिमुनिभिः स्यात् स्रग्धरा विभिन्नाङ्गी' इति । मगणः । रगणः । भगणः । नगणः । यगणः । यगणः । यगणः । श्रीमत्कं । ठरवा । स्यप्रत । तसुन । खरादा । रितारा । तिदूर- । प्रध्वस्त- । ध्वान्तशां । तप्रवि । ततम । नसाभा । विताभू । रिभागैः । मुनि(७)मुनि(७)मुनि(७)भिर्यतिः– श्रीमत्कण्ठीरवास्य । प्रततसुनखरा । दारितारातिदूर । प्रध्वस्तध्वान्तशान्त । प्रविततमनसा । भाविताभूरिभागैः । नखस्तुतेरनन्तरं पठ्यमानं द्वितीयमपि पद्यं स्रग्धराबद्धम् । अथ समग्रा च वायुस्तुतिः ॥ पण्डिताचार्येण पूर्वं रचिता विष्णुस्तुतिरपि स्रग्धराबद्धैव । विस्तरेण वर्ण- नानुगुणं छन्दः । भगवतो गुरोश्च गुणस्रग्धरा नृत्यन्तीव नटी । प्रतिपाद- मुच्छ्वस्य, आ पादान्तं प्राणानायम्य, पठितुमनुकूलम् । अत एव प्राणतत्वस्य प्रियं छन्दः । अत एव विष्णोरपि प्रियम् ॥ मन्त्रकाव्यम् नेदं केवलं स्तोत्रकाव्यम् । मन्त्रकाव्यमपि । पठन्ति च मन्त्रतुल्यतयैव । एकैकमपि पद्यमेकैकाभीष्टलाभाय पठित्वा पुनश्चरणरूपः सम्प्रदायोऽपि प्रचलितोऽस्ति । छलारीशेषाचार्यस्तु स्वटीकायामयं पुनश्चरणसम्प्रदायो भगवत्पादमूल एवेत्याह त्रिविक्रमपण्डितचार्यवर्यः..... वायुस्तुतिपुनश्चरणकारिणां तत्तत्काम्यफलप्रदत्वरूपं वरं प्रार्थयामास । ततः श्रीमध्वाचार्याः.....ग्रन्थं दृष्ट्वा प्रसन्नाः सन्त एकैकश्लोकस्यैकैकाभीष्टप्रदत्वरूपं वरं दत्वा .. श्रीनरसिंहनखस्तुतिप्रतिपादकं... श्लोकद्वयं ददुरिति । मृग्यमस्याः प्रथाया मूलम् । श्लोकद्वयं न नृसिंहस्तुतिप्रतिपादकमिति स्फुटम् । नापि श्लोकद्वयस्यैकग्रन्थ्यमिति च सप्रमाणमुपपादितम् ॥ फलापेक्षामृते केवलं गुरुदेवतयोः प्रीत्यै पठनमेव युक्तः पन्थाः ॥ अयं चास्याः स्तुतेर्महिमातिशय :- यद् गृहस्थेन रचितेयं सन्यासिभिरपि मन्त्रतुल्यतयाऽमान्यत, नित्यमपठ्यत । नहि येकेऽपि सन्न्यासिनः । स्वयं श्रीवादिराजयतिराजः स्तवस्यास्य नित्यपारायणनिरत इति महताऽऽदरेण प्रशशंस–'वायुस्तुतिरतिर्नित्यम्' इति ॥ टीका अनुवादाच स्तुतेरस्याः चतुष्पञ्चाष्टीका: प्रचलिता दृश्यन्ते ॥ तत्र सर्वप्रथमा सर्वोत्कृष्टा च श्रीवेदात्मतीर्थयतिना रचिता टीका कवि- कर्णामृतं नाम । विद्वदग्रणीः पदवाक्यप्रमाणज्ञोऽयं यतिशेखरः पूर्वं कुम्भा- सिमठ इति, सम्प्रति सोदामठ इति प्रथितं श्रीविष्णुतीर्थसंस्थानमधिरूढः परम्परायां दशमः । यत्र श्रीवादिराजयतिर्विंशः । स च वादिराजयतिः शालिवाहनशकस्य १४०२ तमे वर्षे (A.D.1480) जनिमाप । प्रायः १४१२तमे शकवर्षे (A.D.1490) तस्य तुरीयाश्रमस्वीकारः । १२३९तमे हि शकवर्षे (A.D.1317) श्रीमध्वो बदरीं ययौ । तेन श्रीमध्वस्य तस्य चान्तरा व्यवधानं १७३वर्षाणि । तस्मिन्नन्तराळे विंशतिर्यतयः संस्थानमशिषन् । तेनैकैकस्य पीठाधिपत्यकालः प्रायोऽष्टनवाः केवलमब्दाः । तथाच दशमस्य वेदात्मती - र्थयतेः पीठाधिपत्यकालः स्थूलतया शकाब्दाः १३२०-९ पर्यन्ताः। (A.D.1398- 1407 ) । अशीतिवत्सरास्तस्याऽयुःकालः स्युरिति ग्रहणे, यस्मिन् हायने श्रीमध्वो बदरीं ययौ तस्मिन् तत्परारि वा हायनेऽयमजायतेति सम्भाव्येत । तेनेदं ज्ञायते-- यद् वायुस्तुतिकर्तुः पण्डिताचार्यस्य तनयो नारायणपण्डितश्चायं च स्तुतिव्याख्याता मस्करी समकालीनौ, यदा युवाऽयं प्रवयास्तदा स इति ॥ तस्मादस्याष्टीकायाः मूलकृता देशतो न केवलम्, कालतश्च सन्निकर्षादतीव महत्त्वम् । नैकट्यं ह्यधिकृततामादधाति । प्रौढा चेयं टीका विबुधप्रिया । व्याकरणमलङ्कारान् कोशं चोल्लिखन्ती कविभावं विशदयन्ती यतेरस्य बहु- श्रुततां स्फुटयति । रमणीया पाठतोऽर्थतश्च प्रामाणिकी टीका । मुद्रिता चेयं सकृत्, मयैव संशोध्य सम्पादिता १८९४मिते शकाब्दे (A.D.1972) । नात्र नखस्तुतिटीका दृश्यते ॥ द्वितीया कूर्मनृसिंहाचार्यकृताऽतितरां विस्तृता टीका भावप्रदीपिका नाम । स्तुतिगतानां पदानां निर्वचनम्, धातुपाठस्य विविधकोशानां चोद्धरणम्, व्याकरणविशेषविमर्शश्च व्याख्यायाः प्रौढतामादधाति । अथापि विस्तरस्य बाहुल्यमेवास्या न्यूनता । अहो ग्रन्थगौरवमपि ग्रन्थस्य लाघवमादधाति । एतस्य जीवितकालादिकमन्तरेण न किमपि ज्ञायते । अन्ते च व्याख्याता स्वनाम व्यापयामास- कूर्मपूर्वपदाख्येन विदुषा मारुतस्तुतेः । नृसिंहेन कृता व्याख्या तया प्रीणातु माधवः ॥ उपसंहारवाक्ये च स्तुतिकर्तुस्त्रिविक्रमपण्डितस्य विषये किमप्यपूर्वं प्रमेय माविश्चकार- श्रीमत्कविकुलचूडामणि-सर्वविद्यापारावारपारीणसर्वदुर्वादिमत्त-मातङ्ग- सिंहायमान-अध्यात्मविद्याप्रवर्तकसाक्षाच्छ्रीभगवत्पादाचार्यलब्धाचार्य- पदत्रिविक्रमपण्डिताचार्यकृतवायुस्तुतिटीका भावप्रदीपिका कूर्मनृसिंहेन विरचिता समाप्तिमिता ॥ अपूर्वमिदं कूर्मनृसिंहोपज्ञमाविष्कृतं प्रमेयम्- यदाचार्यपदगौरवं भगवत्पाद एव त्रिविक्रमपण्डितस्य प्रीतिपूर्वं प्रददाविति । अनेनापि नखस्तुतिर्न व्याख्याता । तेन तर्क्येत--वेदात्मयतिरिवायं च पण्डितो वायुस्तुतेराद्यन्तयो- र्नखस्तुतिपठनसम्प्रदायस्य प्रारम्भात् पूर्वतन इति ॥ प्रकटिता चेयं टीका 'हैदराबाद' नगरे 'उस्मानिया'विश्वविद्यानिलयस्य संस्कृतपरिषदा ॥ तृतीया टीका, सम्प्रति श्रीपेजावरमठ इति प्रथितं श्रीमदधोक्षजतीर्थसंस्थान- मधिरूढेन श्रीविश्वपतितीर्थाख्ययतिना विरचिता । यतिरयं श्रीपेजावरमठीय- गुरुपरम्परायां विंशः पीठाधिपतिः, शा. श. षोडशे शतके बभूव (स्थूलतया १५२०) । अयं तावत् प्रथमं नखस्तुतिरिति पद्यद्वयमपि व्याचख्यौ । नात्र किञ्चिदप्यपूर्वं वैशिष्ट्यम् । बालानामपि सुखबोधाय श्रीवेदात्मतीर्थीयस्यैव सरळविवरणमिव । इयमपि पूर्वं प्रकटिता श्रीपेजावरमठेनैव ॥ तुरीया छलारिशेषाचार्यकृता टीका । क्वचित्कचिद् रुचिरं पदकृत्यनिरूपणं भवति । क्वचित्क्वचिद् भाषादोषोऽपि । स यथा- प्रदर्शयित्वा । लिपिका- रदोषोऽपि स्यात् । अनेनापि पद्यद्वयी नखस्तुतिरिति व्याख्यातेत्युक्तम् ॥ अनेनाऽदृतः पाठोऽपि नातिशुद्धः । नखस्तुतेरन्ते, 'भाविता भूरिभागैः' इत्या हृषीकेशतीर्थात् सर्वैः प्रतनैरुद्धृतः पाठः । एवं स्थितेऽयं शेषाचार्य:, 'भाविता नाकिवृन्दैः' इति पाठं पठति । प्रमादजनितोऽयं पाठः । अदृष्टमूलपाठास्तमेव पाठमनुसस्रुः । सैवैका परम्परा बभूव । परम्पराप्राप्त इति परे च तमेव पाठमवलम्ब्य व्याचक्षते चानुवदन्ति च । एवं क्वचिदपपाठ एव मूलपाठस्य शिर आरुह्य नृत्यन् शुद्धपाठमपहसन् विजृम्भते । 'ग्रन्थोऽप्येवं विलुळितः किम्वर्थो देवदुर्गमः?' पञ्चमी व्यारजासभट्टोपाध्यायकृता टीका पदार्थचन्द्रिका नाम । अनेनापि नखस्तुतिर्न व्याख्याता । वायुस्तुतेरपि विष्णुपरतयाऽर्थं विववार । न वायुपरतया ॥ तदिदं तस्य मङ्गलपद्यम्- श्रीनृसिंहं प्रणम्याथ पूर्णबोधादिकान् गुरून् । विष्णोः परतया वायुस्तुतिर्व्याख्यायते मया ॥ प्रायो वायुस्तुतेर्विष्णुपरतया व्याख्यानव्यसनचापलमेतदुपज्ञमेव प्रक्रान्तमिति प्रतीयते ॥ अयं स्वटीकायां वेदात्मतीर्थीयं व्याख्यानमुल्लिखति– वेदात्मयतीश्वरप्रभृतिभिर्वायुपरतया व्याख्याता । मया तु प्रायेण हरिपरतया...यथामति व्याख्यायते' ॥ अस्यामपि व्याख्यायां बहवः प्रयोगदोषा दृश्यन्ते । स्यादपि लिपिकाराणां प्रमादः । स्वात्मानमन्तरेण स एवोपसंहारवाक्य एवमाह - इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भागवततात्पर्यनिर्णय- प्रकाशिकाकर्तुः श्रीनिवास भट्टोपाध्यायप्रपौत्रस्य आनन्दभट्टोपाध्यायस्य पुत्रेण व्यासराजेन विरचिता कविकुलतिलकश्रीमत्त्रिविक्रमपण्डिता- चार्यविरचितवायुस्तुतिव्याख्या पदार्थचन्द्रिका समाप्ता ॥ किञ्चिदिवास्फुटमिदं वाक्यम् । एतदनुसारेण भागवततात्पर्यनिर्णयप्रकाशि- काकर्ता आनन्दभट्टोपाध्यायः । श्रीनिवासभट्टोपाध्यायस्य प्रपौत्रोऽयं स्तुति- व्याख्यातुर्व्यासराजस्य जनकः ॥ प्राय एवं वक्तव्यमासीदिति भाति- 'भागवततात्पर्यनिर्णयप्रकाशिकाकर्तुः श्रीनिवासभट्टोपाध्यायस्य प्रपौत्रेण, आनन्द भट्टोपाध्यायस्य पुत्रेण व्यासराजेन' इति । अथवा 'भागवततात्पर्यनिर्णयप्रकाशिकाकर्तुः श्रीनिवासभट्टोपाध्यायस्य प्रपौत्रस्य आनन्दभट्टोपाध्यायस्य पुत्रेण' इति ॥ प्रथमपक्षे व्यासराजो भागवतात्पर्यनिर्णयव्याख्यातुः प्रपौत्रः । द्वितीयपक्षे तत्पिता पौत्रः । भगवान् सन्देह एव शरणम् ॥ अन्या च लिङ्गेरीव्यासाचार्यकृता टीका कुम्भकोणस्थपुस्तकालये विद्यत इति श्रुतम् । ता इमाः पञ्चषाः संस्कृतटीकाः । अथच त्रिचतुराः कर्णाटकभाषानुवादा अपि वर्तन्ते । प्रायोऽर्वाचीनाः । मुख्यत उल्लेखनीयं तु भाषाव्याख्यानं महीशूरराजगृहधर्माधिकारिणा रायपाळ्यं राघवेन्द्राचार्येण विरचितम् । तत्र तेनैवेदमुदलेखि– ಹರಿವಾಯೂಭಯಪರವಾಗಿ ಅರ್ಥದ್ವಯವನ್ನು ಕನ್ನಡದಲ್ಲಿ ತಿಳಿಸುವ ಸ್ವಕೃತವ್ಯಾಖ್ಯಾನ. प्रायः कर्णाटभाषायां वायुस्तुतेर्विष्णुपरतयाऽप्यर्थवर्णनमेतदुपक्रमम् ॥ केनचिद्धरिदासेन कर्णाटभाषायां पद्यात्मना वायुस्तुतेरनुवादः कृतः पुरा मया दृष्टः । सङ्ग्रहानुवादः । न किञ्चिद् वैशिष्ट्यम् ॥ डा. जि. वि. कुलकर्णिमहोदयः कर्णाटभाषायामाङ्ग्लभाषायां च पद्य- रूपेणानूवाद । लयबद्धः सरळसुन्दरोऽनुवादः । सोऽप्यानन्दतीर्थप्रतिष्ठानेन प्रकटितः । इदम्प्रथमश्चायमाङ्ग्लानुवादः ॥ हरिवायुस्तुतिः एवमस्याः स्तुतेरर्थद्वयपरतानिरूपणचापलेन स्तुतिरियं हरिवायुस्तुतिरिति नूतनं नामधेयं लेभे । 'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इति कवेरुद्गार एवैतच्चापलमूलं बभूव ॥ एतेन वचसा जातस्फूर्तयः केचिदर्वाचीनाः पण्डिताः वायुस्तुतेश्चत्वारिंशतोऽपि पद्यानां विष्णुपरतया व्याख्यानाय प्रायतन्त । व्यासराजभट्टोपाध्यायस्तु मुखत एतदाह - 'नन्वेवमपि ग्रन्थकर्तृभिर्विष्णुपरतया स्तुतिर्न कृतेति विष्णुपरतया व्याख्यानं तेषामनभिमतमिति चेत्, न । तैरेव 'सुब्रह्मण्ये 'ति चरम- श्लोके 'हरेर्वायुदेवस्य च स्तुतिमकृत' इति विशिष्योक्तेः' इति ॥ इदमित्थं स्यात्- हरिपरमादौ पठ्यमानं पद्यद्वयम्, तत इमां वायुस्तुतिं च समाहृत्य 'हरिवायुस्तुतिः' इति व्यवहारः प्रारब्धः स्यात् । एवमेतद्व्यवहार- मूलमजानतां केषामपि पण्डितानां वायुस्तुतिरेव हरिपरतया प्रत्यभात् । सर्वेऽपि दुराग्रहमूला अपलापा एवमेवोत्पत्तिं लभन्ते ॥ इदमिह कुतूहलावहम् । यच्छलारीशेषाचार्यस्य नायं कल्पनागन्धोऽप्यास । तदाशयानुसारेण - इयं केवला वायुस्तुतिः, न हरिस्तुतिरित्यसन्तुष्यता, एतन्यूनतापरिहाराय भगवत्पादेन हि नखस्तुतिर्व्यरच्यत । तथाहि तद्वचनम्- 'विष्णुस्तुतिं विना केवलमात्मस्तुतिमसहमानाः सर्वारिष्टनिवर्तक- श्रीनरसिंहनखस्तुतिप्रतिपादकं श्लोकद्वयं विरचय्य मङ्गलाचरण- रूपत्वेन तदादौ निबन्धनं कुरु, सम्पुटाकारेणाऽदावन्ते च पठतां फलं भविष्यतीत्युक्त्वा श्लोकद्वयं ददुः' इति ॥ एतेन विज्ञायते यच्छलारीशेषाचार्यात् पाश्चात्योऽयं कल्पनाविलासः हरि- वायुस्तुतिरियमिति ॥ एवमन्यान्यस्थलेषु श्रवणाच्छ्रवणमाक्रमन्ती किंवदन्तीशैलूषी काले व्यतियति विविधरूपतां धत्ते । तत्तत्कालभवाष्टीकाकारास्तान्तां श्रवणपथमागतां कथां स्वग्रन्थेषु यथायथं जग्रन्थुः । संशोधकानां तथ्यमन्वेष्टुकामानामिमाः सर्वाः सोपानानि भवन्ति ॥ केचित्पुनरधिरोहणीमेवाट्टालिकां मन्यमानाः सोपानेष्वेव दृढमुपविशन्ति स्म । शोचनीयास्ते । अनुकम्पनीयास्ते । तत्पुच्छावलम्बिनां तु का कथा शोचनीयतमानां परप्रत्ययनेयनिर्णयानाम् ॥ दिष्ट्चा कूर्मनरसिंहाचार्यः प्रथमपद्यव्याख्यानान्ते पुनरेतामेव शङ्कामुद्भाव्यान्यथैव समाधत्त । तथाहि तद्वचनम्- 'नन्वस्मन्मते स्वातन्त्र्येण भगवदितरदेवतोपासनस्यानङ्गीकारादस्य ग्रन्थस्य वायुदेवताकत्वेऽपसिद्धान्तः । विष्णुदेवताकत्वे तु वायुस्तुतित्वप्रसिद्धिव्याघातः । अतः किन्देवताकोऽयं ग्रन्थ इति? उच्यते । अन्तर्यामितया विष्णुः, तत्प्रतिमात्वेन तु वायुः प्रतिपाद्यत इति परममुख्यदेवता विष्णुः, वायुश्च मुख्यदेवता प्राणसंवादादिप्रतिपादकवाक्यवदित्युभयदेवताकोऽयं ग्रन्थः । कुतः ? 'श्रीमद्विष्णबङ्घ्रिनिष्ठा-' इत्युपक्रमात् 'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इत्युपसंहारात् । मध्येऽपि तत्रतत्र भगवद्गुणनिरूपणाच्च' इत्यादि । वायुस्तुतेरर्थद्वयपरतावादिनां विश्वासमूलं किञ्चिद्विचिन्तयामः । समस्तमपि वाङ्मयमन्ततो भगवत्परमिति भगवत्पादसिद्धान्तः । तदनुगुणं वायुस्तुतेरपि हरिपरताचिन्तनं युक्तं च शास्त्रानुमतं च । सामान्यवचनमेतत् । अनया दिशा सर्वा अपि स्तुतयो विष्णुस्तुतयोऽपि भवन्ति । न केवलमियं विशिष्य वायुस्तुतिरेव ॥ मम तु संशीतिरन्यैव । प्रतना विपश्चितो व्याख्यातारः किमिति नैतां वाचमुल्लिलिखुः ? मूलकर्तुः कालतो नेदीयान् वेदात्मतीर्थोऽपि किमिति नास्यार्थस्य सम्भावनामपि सूचयामास ? आस्तां प्राचामाचार्याणां चर्याचिन्ता । ततोऽर्वाचीनश्छलारिशेषाचार्योऽपि 'विष्णुस्तुतिं बिना केवलमात्मस्तुतिमसहमानाः' इत्येव बभाण । एतेनैतावत् तावन्निर्विवादम्- यदियं केवला वायुस्तुतिरित्येव शेषाचार्यपर्यन्तः सम्प्रदाय इति ॥ केचिदन्यथा वर्णयन्ति छलारिवचनमपि - 'केवलं विष्णुस्तुतिं विना आत्म- स्तुतिमसहमानाः' इति । तदिदं व्याख्यानकौशलं नाम । त एवमपि व्याख्येयासुः–'पार्वतीपश्च रमेश्वरच पार्वतीपरमेश्वरावित्येव काळिदासाभि- मतोऽर्थः' इति । तदिदं मूलवाक्यस्य स्वाभिमतार्थपरताबलात्करणमेव । गीर्वाणवाणीवधूटी नूनं बिभेत्येतेभ्यो दुःशासनेभ्यः । तस्मादतिवादोऽयमु- पेक्षणीयः । प्रायः सर्वत्रापि शक्यमेवं यस्यकस्यापि वाक्यस्य स्वापेक्षिता- र्थपरतया व्याकरणम् ॥ सर्वाण्यपि पदानि, सर्वाण्यपि गुञ्जनानि, कूजनानि च हरिगुणगानानीति साधारणं वचः । न केवलं स्तुतिवचनानाम्, नापि संस्कृतभाषायाः, प्राकृतभाषाणामपि समानमेतत् । तथाऽपि न तत्र हरिपरतामनुसन्दधते । वक्तुर्विवक्षा हि वाक्यार्थं निर्धारयति । न व्याख्यातुर्विवक्षा ॥ ये मूलं स्वानुकूलमन्यथयन्ति गन्धाखवन्ति ते शालिशाण्याम्, मत्कुणन्ति ते हंसतूलिकातल्पे ॥ सत्यमेतदेवम् । अथापि वायुपराणि वचनान्यपोद्यन्ते । वेदगतानामिव सूक्तानामस्या अपि स्तुतेरवश्यमभ्युपेया विष्णुपरतेति केचित् । नायमपि वादश्चित्ते लगति । यतः सर्वत्रापि वक्तृविवक्षैव तात्पर्यनिर्णयनी भवति । यदाहोदयनः–'तात्पर्यगर्भ एव श्रुतिकुमार्याः पुंयोगे मानम्' इति । नहि वायुपराणीति सूक्तेषु स्तोत्रेषु वा कोऽपि विशेषः । नात्र ग्रन्थकर्तुस्तादृशी विवक्षाऽस्तीत्यत्र किमपि निरवकाशं मानं पश्यामः ॥ अपरथा महदिदमापद्येत वैयाकुल्यम्- वायुस्तुतेरिव श्रीमध्वविजयस्यापि हरिपरतया व्याख्यानान्तरं करणीयमापतितम् । भवतु तदपि प्रयत्यताम् । सुवर्णावकाशोऽयं बलादर्थान्तरकरणचपलानां शब्दव्यायामो नाम ॥ सन्ति लिकुचवंशीयै रचिता बह्व्यो वायुस्तुतयः । पाश्चात्या बहवो गृहस्थाश्च यतयश्च कृतिनो वायुस्तुतिमरचयन् । न केऽपि द्व्यर्थतामनुसन्दधुः । न कोऽपि व्याकर्ता तथा व्याख्यातुं प्रायतत । तेन विज्ञायते वक्तृविवक्षाभावे न वायुस्तुतेरपि हरिपरतावर्णनं सम्प्रदायाभिमतमिति । यत्र वायुः स्तूयते तत्र तदन्तर्यामितया हरिश्च स्तूयत इति पर्याप्तमेतावता ॥ अतो नायमस्याः स्तुतेरपि हरिपरतावादः प्राचीनः । प्रायो व्यासराजभट्टा- दनन्तरमेवायं द्व्यर्थताचापलारम्भः । ततः प्राक्तनाः केऽपि व्याख्यातारो न चक्रुद्व्ययर्थतासम्भावनामपि । ततो निश्चयप्रचमेतत् यदिदमर्वाचां चपलवाचां पण्डितानां कौशलप्रदर्शनरूपात् कपिचापलाहते नान्यत् किमपीति ॥ अथ - कथं तर्हीदमुपपद्येत 'स्तुतिमकृत हरेर्वायुदेवस्य च' इति ग्रन्थ- कृद्वचनमिति । अयि, सावकाशं वचःकाशमालम्ब्य कूपादुत्पिपतिषति तत्र- भवान् । नहि केऽपि प्रतनाष्टीकाकारा अस्य वाक्यखण्डस्यैतमर्थमाचक्षत । अयमिह ग्रन्थकृतो भावः- वायोरवतास्त्रयस्य स्तुतिर्भगवत्स्तुतिगर्भिणी च भवतीति । आञ्जनेयस्तुत्या राममहिमा हि महीयते । भीमस्तवनेन कृष्ण- महिमा । श्रीमध्वस्तवनेन च व्यासमहिमा । एवमन्तत इयं त्रेधाऽवतीर्णस्य हरेरपि स्तुतिर्भवेदेव ॥ 'युवयोः पादपद्मं प्रपद्ये' (२४), 'तुभ्यं च क्षेमदेभ्यः सरसिजविलसल्लोचनेभ्यो नमोऽस्तु' (२६) इत्यादिषु साक्षाद् भगवत्स्तुतिरपि प्रास्तूयत । 'सानु- क्रोशै:-' (३६), 'अस्तव्यस्तम्- ' (३७) इति च पद्ये समग्रं वेदव्यास- स्तुतिरेव । अत आह हि पण्डिताचार्यः, 'हरेश्च स्तुतिमकृत' इति । तेन तद्वचनस्योपपन्नतायै समग्राणां चत्वारिंशतः श्लोकानां द्व्यर्थतावर्णनचापलं व्यर्थमेव साहसम् ॥ शक्यमन्यथाऽपि स वाक्यखण्डो विवरीतुम्- पण्डिताचार्यः प्रथमं विष्णुस्तुतिं प्रणिनाय । अथ वायुस्तुतिम् । आदौ विष्णुस्तुतिः पठनीया । पश्चाद् वायुस्तुतिः । तेनोभावपि प्रीणाते । तमेतमर्थं ग्राहयन् पण्डिताचार्य उभय- स्तोत्रान्त एतदुवाच - प्रथमं विष्णुस्तुत्या 'स्तुतिमकृत हरे:', अथचानया स्तुत्या 'स्तुतिमकृत वायुदेवस्य च' इति ॥ मम तु प्रतिभाति - अयमेव पण्डिताचार्याभिमतो मुख्योऽर्थ इति । तदेभि- र्बहुभिः कारणैद्व्यर्थतया व्याख्यानाय प्रयतनं व्यर्थः श्रम एव हि केवल- मिति । शुद्धप्रज्ञा जानीयुरेव - नेदं द्वैयर्थ्यम्, किन्तु वैयर्थ्यं शेमुषीप्रस- रस्येति ॥ अथ केचिदर्वाचीना आदृतचीना आशङ्कन्ते । स्तोत्रेऽस्मिन् पण्डिताचार्यो मायावादं च मायावादिनश्च तेषामाचार्यं च सटट्टरं विकटकटुवचनैः प्रकटं न्यक्करोति । सात्विके, तत्रापि मन्त्रतुल्यतया पठ्यमाने स्तोत्रे कथमियं परुषा रुशती वाणी? कथमिदं विभाषणं स्यात् सतां विभूषणम् ? कथमियं कर्णपाटना पोटना? सात्विके पथि पततां कथमुपपन्नमिदं परेषां परि- हासचापलमिति ॥ उपपन्ना शङ्का । उपपन्ना पृच्छा । बहवः पन्थानः । येनकेनापि पथा यथामति गम्यताम् । प्राप्नुवन्ति गम्यम् । यतः सर्वेऽपि पन्थान एकमेव गम्यं गमयन्तीति वदतां नेदं वचो जीर्येदिति च सत्यम् ॥ ते गदन्ति– हरिर्वा स्यात्, हरो वा स्यात् । अन्ततः सर्वमेकम् । द्वैतं वा स्यात्, अद्वैतं वा स्यात् । अन्ततः सर्वमेकम् । एकं वा स्यात्, अनेकं वा स्यात् । अन्ततः सर्वमेकम् ॥ तदिदं सर्वमद्वैतावरणस्यान्तरपिधाय श्रोतॄन् विस्मापयद् वञ्चनजालमृते नान्यत् किमपि ॥ अन्यादृशी बभूव प्रतनानां श्रद्धा । अन्यादृशो विश्वासः ॥ तेषां मते पुनरन्यः सत्यस्य पन्थाः । अन्य एवासत्यस्य ॥ ते सशपथमुद्धृतबाहुयुगमैरयन्त-'सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः' इति ॥ सत्यं चेद् गम्यं सत्येनैव पथा गन्तव्यम् । असत्येन पथा चिरं पतन्नपि न सत्यमाप्नुयात् ॥ येनकेनापि पथा गच्छेत्, गम्यं त्वेकमेवेति तु वञ्चनार्थोऽयमुपन्यासः । गम्यमिव पन्था अपि निश्चित एव । साधनमिति न वृत्तभ्रमणम् । येन यथाकथाच पतन्नपि गम्यमेवानुपतेत् । साधनं नाम संसारचक्रभ्रमणमतिहाय सरळरेखायां निरन्तरमूर्ध्वगमनम्, यावता गम्यलाभः । परस्परं विरुद्धायां दिशि पततोर्न कदाऽपि समागमः स्यात् । ततो दूराद् दूरतरं यातः । दूरत एव सर्वदा भवतः । यदाह भगवान् वासुदेवः- ' द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एवच' इति । एको दैवः पन्थाः । अपर आसुरः । एको विद्यायाः । अपरश्चाविद्यायाः । एकः सत्यस्य । अपरोऽसत्यस्य । एक: प्रकाशस्य । अपरस्तमसः । विभिन्नः पन्थाः । विभिन्नं च गम्यम् । पण्डिताचार्यः पूर्वं मायावादिकुले जातः । प्रथमं मायावाद एव सत्यस्य पन्था इति श्रद्दधान एव जीवनं यापयामास न केवलम् । स्वयं मायावादस्य प्रवक्ता मायावादिनामग्रणीर्नायकवास ॥ ततः कदाचिदस्य तत्ववादः पर्यचीयत । पण्डिताचार्यस्तेन गाढमाकृष्टचेताः श्रीमध्वस्यान्तरङ्गशिष्यो बभूव । अनुबभूव च तत्ववादसुषमाम् । तत एवं निर्दधार– तत्ववाद एव सत्यस्य पन्थाः । सात्विकः पन्थाः । विद्यायाः पन्थाः । प्रकाशस्य पन्थाः । उन्नयनस्य दिव्यः पन्था इति ॥ पूर्वमेव तस्यान्ततो मायावादे जिहासा जाता । सम्प्रति सा दृढा बभूव । अत एवं विचिन्तयामास- विरुद्धं द्वयमपि तथ्यमित्यसम्भवं वचः । यदि मायावादः सत्यः, असत्यस्तर्हि तत्ववादः । यदि तत्ववादस्तथ्यः, अतथ्यस्तर्हि मायावादः । इदं चेद् दैवमद आसुरम् । अदश्चेद् दैवमिदमासुरम् । त्रिविक्रमपण्डितः शास्त्रसारं माथम्माथमन्ते कृतनिश्चयो बभूव तत्ववाद एव सत्यस्य पन्थाः । सात्विको दैवः पन्थाः । अतः स निष्ठुरमाह- मायावाद इति मिथ्यावादोऽयम् । तामसानामासुरः पन्थाः । एष पाषण्डवादः । तमनुसृत्य मा मुधा पाषण्डिनो भूतेति । लोककारुण्यमिदम् । नायं परमत- द्वेषः । अविद्यानिरासोऽपि हि साधनमार्गः । 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते' ॥ अतो जागरयति पण्डिताचार्य :- आचार्यमध्वस्य तत्ववादसिंहनादं श्रुत्वाऽपि मायिगोमायूनामशिवे रुते मा रुचिं कार्ष्टेति ॥ सोऽयं तस्य हृदयान्तराळादागतोऽदम्यः सन्देशः । तं निरोद्धुमप्रभवन् साधुलोकमुद्दिधीर्षुरेवमुज्जगार । अत एव सात्विक स्तोत्रे निबबन्ध ॥ अथापि मायावादिनामिदं स्तोत्रं तोत्रमिव वेदनां जनयामासेति तु वास्त- वम् । तस्यायं परिणामः– वायुस्तुतिखण्डनपरायाः श्रीमध्वनिन्दामात्रपर- मार्थाया ईशानस्तुतेरुद्भवः । सत्यस्य सौधमारोढुं परस्परनिन्दानिःश्रेणिका । ईदृशामसूयाकाव्यानामुपेक्षैव भेषजम् । पण्डिताचार्यस्य निष्ठुरा सत्यनिष्ठा नूनमभिनन्दनीया । किं करणीयम् ? बुक्कन्ति गोष्ठश्वाः ॥ वेदान्ते दाक्षिण्यपरता नाम स्वपरवञ्चनैव किल । धर्मराजस्येव धर्मे दाक्षिण्यं न पण्डिताचार्यस्य पन्थाः । किन्तु भीमसेनस्येव नैष्ठुर्यम् ॥ तेन दुर्योधनसमकक्ष्यस्य व्यथा जायते । जायताम्, नन्विष्टं तत् । तेन शत्रुजनस्तं द्विषीत । द्विष्टाम्, इष्टापत्तिरियम् । फलितं तर्हि नैष्टुर्यम् ॥ प्राचीनेषु सर्वत्रेमां तत्वनिष्ठुरतां पश्यामः । अर्वाक्तनोऽयं दुर्बलानामकृतशा- स्त्रव्यवसायानां स्वयमनिश्चिततत्वपथानां लोकायतकथानां वेदान्तेषु वृथा समन्वयाध्वा ॥ ग्रन्थेऽस्मिन् आदौ नखस्तुतितया प्रथिते 'पान्त्वस्मान्-' इत्यादिनी द्वे पद्ये भवतः । ततः पण्डिताचार्यकृता वायुस्तुतिः । सहैव च प्रतनतरा टीका 'कविकर्णामृतं' नाम श्रीवेदात्मतीर्थकृता । तेन पान्त्वस्मानित्याद्याद्यपद्य- द्वयटीका न कृतेति मदीया टीका तत्र समयोजि । तथैव वायुस्तुतेः प्राचीनटीकायामस्फुटानामर्थानां प्रकाशनाय लघ्वी वायुस्तुतिटीका स्तुति - चन्द्रिका नाम । तदियं निर्मत्सराणां सतामुपदा ॥ इमामाचार्यगोविन्दः श्रीवायुस्तुतिभूमिकाम् । मृष्टां वितेने विमलां विनेयजनवाञ्छया ॥ श्रीमदानन्दतीर्थभगवत्पादैः स्वप्रियशिष्याय श्रीत्रिविक्रमपण्डिताचार्याय दत्तेति प्रथिता, तद्वंशीयैरधुनाऽपि पूज्यमाना श्रीवत्सनारायणप्रतिमा प्रणतवान् प्राणिनां प्राणभूतं प्रणतिभिः प्रीणये पूर्णबोधम् ।। श्रीनरहरिस्तुतिः स्तुतिचन्द्रिका च ॐ पान्त्वस्मान् पुरुहूत- वैरि-बलवन्मातङ्ग-माद्यद्-घटा- कुम्भोच्चाद्रि-विपाटनाधिक-पटु- प्रत्येक बज्रायिताः । श्रीमत्-कण्ठीरवास्य-प्रतत-सु-नखरा दारिताराति दूर- प्रध्वस्त-ध्वान्त-शान्त-प्रवितत-मनसा भाविता भूरि-भागैः ॥ ॥ १॥ ॐ ॥ हरिचरणं गुरुचरणं परिचरणेन प्रसाद्य भवतरणम् । कृतमुखहृदयाभरणं वितन्यते नरहरिस्तवनम् ॥ * ॥ भगवत्पादकृता नरहरिनखस्तुतिराद्यं पद्यम् । अपूर्वा चेयं छन्दोविचितिः । शार्दूलविक्रीडितेन पूर्वार्द्धं निबबन्ध । स्रग्धरया चोत्तरार्द्धम् । मसजसततगाः शार्दूलविक्रीडितम् । मरभना यत्रयं च स्रग्धरा । अपूर्वेण चानेन च्छन्दोविलासेन रक्षोवक्षोविपाटने विचक्षणं नृहर्यक्षस्य शार्दूलविक्रीडितं कटाक्षयति । अथ पुनरन्त्रस्रग्धरां नरहरिमूर्तिं च । पुरन्दरवैरिणोऽसुरा एव बलवन्मातङ्गाः । 'मातङ्गद्विरदद्विपाः' इत्यभिधानम् । तेषां माद्यन्ती घटा । 'बहूनां घटना घटा' इति च । तस्याः करोटिकल्पाः कुम्भा एव उच्चाद्रयः । 'मूर्ध्नि पिण्डौ स्मृतौ कुम्भौ' इति च । तेषां विपाटने वज्रवत् पटवः । तदपि न समष्टितः । प्रत्येकं वज्रायिताः । तादृशाः श्रीमतः कण्ठादुपरिकण्ठीरवस्य प्रतताः सुनखरा अस्मान् पान्तु । 'हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः' इति च । श्रीमन्तो वा नखराः । स्विति नखरा अपि चिदानन्दमया इत्याह । दारितबहिरन्तररातितया निरातङ्केन दूरविद्राविताविद्याध्वान्तेन, तत एव शान्तेन भगवदेकान्तेन बहुगुणग्राहितया प्रविततेन च मनसा भूरिभागधेयैर्ब्रह्मादिभिर्भाविताः ध्याताः । 'अभियातिररातिरमित्ररिपू' इति च । अथ च हे श्रीमत्कण्ठीरवास्य, प्रतत सर्वंगत, दारितारातितया दूरनिरस्त - सज्जनहृदयान्धकार, शान्त भक्तानामभयप्रद, सर्वग्राहितया प्रविततेन, प्रकृष्टे विष्णौ त्वयि ततेन वा मनसा, भूरिभागैर्ध्यातास्ते सुनखराः पान्त्वस्मान् । अथच प्रविततमनसा प्रवितततमया नासया उपलक्षित । उदञ्चितक्षतजगन्धेन विकचघोण । 'ब्रह्म ततमम्' इतिवदेकतकारलोपः । 'लोप: समाने' इति च सूत्रम् । तदेतदृचाऽभ्युक्तम्- 'सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम्' (ऋ.९.८९.२) इति । सिंहं नसन्त मध्व इति । नृसिंहं नसते मध्व इत्युक्तं भवति । नस गतौ । स्तोतुं मनसा जगाम । बिन्दुरवधारणे । भीमत्वेऽपि नृसिंहं मनसा नसमानो मन्युसूक्तं ददर्श । रूपत्रयसमाहाराय च नसन्तेति बहुवचनम् । अयासमिति । अनायासं पुरुहूतवैरिविपाटन- क्रियायाम् । हरिमिति । अरातीन् ध्वान्तं च हरति नृहरिः । अरुषमिति । शान्तमित्युक्तं भवति । दिवो अस्य पतिमिति । देवगणस्य पातारमित्युक्तं भवति । अत एव देवगणैर्भावितम् । 'विस्तृतनसोऽन्तः यस्य तं नसन्तम् । सुपो लोपः' इति तु युक्तिमल्लिकायाम् ॥ * ॥ लक्ष्मी कान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तम-वस्तु दूर-तरतोऽपास्तं रसो योऽष्टमः । यद्रोषोत्कर- दक्ष नेत्र-कुटिल प्रान्तोत्थिताग्नि- स्फुरत्- खद्योतोपम-विस्फुलिङ्ग-भसिता ब्रह्मेश-शोत्कराः ॥ २ ॥ द्वितीयं प्रसङ्गान्तरे भगवत्पादप्रबद्धं पृथक् स्तोत्रमिति भाति । कलयन् अन्वेषयन् । उत्तमं वस्तु दूरापास्तं यथा रसो योऽष्टमः । सममेव नोपलभामहे सप्तमरसोपमम् । का कथाऽष्टमरसोपमस्योत्तमस्य । यस्य तव रोषस्य उत्करेण सञ्चयेन शत्रुक्षपणदक्षयोः नेत्रयोः कुटिलौ कुञ्चितौ प्रान्तावपाङ्गौ । तत उत्थितस्याग्नेः स्फुरद्भिः खद्योतकीटोपमैर्विस्फुलिङ्गैः कणैर्भस्मीकृता ब्रह्मेशशक्रादीनामुत्कराः सङ्घाताः । 'प्रकरगणौघसङ्घसङ्घातव्रातकुलोत्कराः' इति च ॥ * ॥ इमामाचार्यगोविन्दः श्रीमन्नरहरिस्तुतेः । वितेने विमलां व्याख्यां विनेयजनवाञ्छया ॥ * ॥ इत्याचार्यगोविन्दस्य कृतिषु नरहरिस्तुतिचन्द्रिका समाप्ता श्रीवायुस्तुतिः कविकर्ण्णामृतम्, स्तुतिचन्द्रिका च ॐ श्रीमद्-विष्ण्वङ्घ्रि-निष्ठातिगुण-गुरुतम-श्रीमदानन्दतीर्थ- त्रैलोक्याचार्य्य-पादोज्ज्वल-जलज-लसत्-पांसवोऽस्मान् पुनन्तु । वाचां यत्र प्रणेत्री त्रिभुवन महिता शारदा शारदेन्दु- ज्योत्स्ना-भद्र-स्मित-श्री-धवळित-ककुभा प्रेम-भारं बभार ॥ १ ॥ (कविकर्णामृतम्) ॐ ॥ चिदानन्दतनुं वन्दे सदा पद्मालयान्वितम् । वदावदं[^१] च सूत्राणां पदा मितजगत्त्रयम्[^२] ॥ * ॥ त्यागी चाशेषदोषाणां भोगी बहुगुणोन्नतेः । रागी[^३] विश्वस्य भासाऽयं शार्ङ्गी कुर्यात् सुखोदयम्[^४] ॥ * ॥ [^१] वदावदमिति वक्तारम् । प्रणेतारम् । 'चरिचलिपतिवदीनां वा द्वित्वम्' (वा.६.१.१२) । [^२] पादत्रयस्याप्यैकात्म्यात् पदेत्येकवचनम् । यद्वा सकलमपि विश्वमस्य पादैकपरिमितमित्याह– पदा मितजगत्त्रयमिति। 'पादोऽस्य विश्वा भूतानि' इति हि श्रुतिः । [^३] तृतीयचरणोऽयमप्रकटार्थः । लिपिकृत्प्रयुक्तः पाठव्यत्ययोऽपि सम्भाव्यते । सवितरि सन्निधाय स्वभासा रागी रञ्जनशील इति तु भवेत् । 'तस्य भासा सर्वमिदं विभाति' इति श्रूयते हि । रागो रञ्जनम् । 'सम्पृच–'(अ.सू.३.२.१४२) इत्यादिना शीलार्थे घिनुण् । [^४] 'सुखोन्नतिम्' इति पा. निघ्नानो[^१] नोऽस्तु विघ्नौघं भग्नभक्ताघको हरिः । निघ्नो निरस्तदोषाणां भग्नभूतेशकार्मुकः[^२] ॥ * ॥ यो वै बैकुण्ठभर्तुः सकलसुरशिरःश्रेणिसल्लाळिताज्ञां धृत्वा भूमिं च गत्वा श्रुतिनिकरपुराणादिभिर्वादिवृन्दम्। जित्वा भाष्यं च कृत्वा प्रकरणनिकरं[^३] स्थापयामास[^४] तत्वं मध्वाचार्याय तस्मै नतशिरसि भवत्वेष बद्धोऽञ्जलिर्मे[^५] ॥ * ॥ व्याख्यानच्छद्मना मुख्यप्राणसद्गुणचिन्तानाम्[^६] । करोम्यालोक्य[^७] पूर्वेषां व्याख्यानं बुद्धिशुद्धये ॥ * ॥ अस्या[^८] वायुस्तुतेर्गुढभावार्थाय यथामति । वेदात्मयतिना व्याख्या क्रियतेऽन्वयवर्त्मना[^९] ॥ * ॥ इह हि पूर्वापरदक्षिणोत्तराशाध्वनि निरर्गळकीर्तिस्तत्वप्रदीपिकाकर्ता सकल [^१] निपूर्वो हन्तिरात्मनेऽपिभाषः । प्रयोगात् । तथाहि राजराजेश्वरयतिः- 'गत्वाऽरण्यं मुनिवरयुतस्ताटकां यो निजघ्ने' इति । अथवा परस्मैभाषादेव हन्तेरयं चानश् । 'ताच्छील्यवयोवचनशक्तिषु चानश्'(अ.सू.३.२.१२९) । तेन भागवतो भक्तविघ्ननिरसनताच्छील्यं तत्सामर्थ्यं च द्योतितम् । 'विघ्नानः' इति पा. । इदमाद्यपद्यतया च क्वचित् पठ्यते । [^२] 'भुग्नभूतेशकार्मुकः' इति तु ह्रद्यम् । द्वितीयचरणे सकृद्भग्नपदप्रयोगात्। [^३] प्रकरणनिकरं च कृत्वा । [^४] 'ख्यापयामास' इति पा. । [^५] इतः परं 'व्याख्यानच्छद्मना' इत्यतः पूर्वं क्वचिदनुष्टुबेकाऽधिका पठ्यते । आनुपूर्वी तु गलितत्वान्न स्फुटमवगम्यते। '....वृन्दैरहं मन्दः सन्दोहं स्तावयामहे (?) । प्राचां विपश्चिताम्…………' इतीयत् प्रतीयते। [^६] 'मुख्यप्राणस्य गुणचिन्तनाम्' इति पा . । [^७] 'करोम्यालोच्य' इति पा . । [^८] लिखितकोशे 'अस्य वायुस्तुतेः' इत्यस्ति । न किल न लिपिकाराः प्रमाद्यन्ति । वायोर्यत्र स्तुतिः कृता तस्यास्य ग्रन्थस्येति वा । [^९] 'अन्वयवर्तिना' इति पा . । कविकुलशिरोमणिः सकलाचार्यवर्यो भगवांस्त्रिविक्रमाचार्यः प्रधानवायोरवतारत्रयतत्प्रयोजनज्ञानदानेन सज्जीवानुज्जीवयितुं वायुस्तुतिं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्त्यादि[^१] प्रयोजनसाधकम्,[^२] 'आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् प्रबन्धमुखे शिष्यशिक्षणार्थमाशीर्वादरूपं मङ्गलमादावङ्गीकरोति - श्रीमद्विष्णिवति[^३] ॥ श्रीरस्यास्तीति श्रीमान् । 'तदस्यास्त्यस्मिन्निति मतुप्' (अ.सू.५.२. ९४) । लक्ष्मीसमेतः । स चासौ विष्णुश्च । तस्य अङ्ग्री । तयोर्निष्ठा नितरामवस्थितिः । सैवातिगुणः । तेन गुरुतमाः। ते च ते श्रीमदानन्दतीर्थाश्च । त्रयो लोकाः त्रैलोक्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्[^४] । तस्याऽचार्याः । श्रीमदानन्दतीर्था एव त्रैलोक्याचार्याः । तेषां पादौ । तावेवोज्ज्वलजलजे । तत्र लसन्तः भासमानाः । ते च ते पांसवश्च । एतादृशाः पादपांसवः अस्मान् पुनन्तु पावयन्तु[^५] विगलितकलुषान् कुर्वन्त्विति वाक्ययोजना । क्र्यादिकात् 'पूञ् पवने' इत्यस्माद्धातोः 'एरु:' (अ.सू. ३.४.८६) इत्युत्वे कृते आशिषि लोट् प्रथमपुरुषबहुवचनम् । पुनस्तानेव विशिनष्टि । यत्र पांसुषु । वाचां प्रणेत्री स्रष्ट्री[^६], प्रसुप्ता वाचः सञ्जीवयन्तीत्यर्थः । अन्यार्थश्च – वाचां सकलश्रुतिस्मृतीतिहासपुराणादीनां द्विजफणिपमृडेन्द्रादीन् प्रत्युपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गैर्मुख्यवृत्त्या श्रीविष्णुपरत्वेन प्रणेत्री प्रतिपादयन्ती । तदुक्तं ब्रह्माण्डे– 'यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः । 'माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ' इति । [^१] 'चिकीर्षितग्रन्थपरिसमाप्त्यादि' इति पा. । [^२] '–साधनकम्' इति पा. । [^३] 'श्रीमद्विष्ण्वनीति' इति पा. । [^४] तथाहि वार्तिकम्- 'चातुर्वर्ण्यादिभ्यः स्वार्थ उपसङ्ख्यानम्' (५.१.१२४) इति । व्याचख्यौ च जयादित्यः–'चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम्। त्रैलोक्यम्' इत्यादि। [^५] 'पावयन्तु' इत्येतत् क्वचिन्न पठ्यते । [^६] ' प्रणेत्री सरस्वती' इति पा. । पुनः किम्भूताः ? त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । 'पात्रादिभ्यः प्रतिषेधो वक्तव्यः' (वा.२.४.१७) इति, 'द्विगो:' (अ.सू. ४.१.२१) इति ङीप् न भवति[^१] । त्रिभुवनेन महिता। मह पूजायामिति धातोः कर्मणि निष्ठा। शरदि भवः शारदः । स चासाविन्दुश्च । तस्य ज्योत्स्ना । तद्वद् भद्रा स्मितस्य श्रीः[^२] । तया धवळिताः ककुभो यया तथोक्ता । 'टापं चैव हलन्तानां यथा वाचा निशा दिशा' इति 'ककुभ्' शब्दात् टाप् । शारदा भारती प्रेमभारं अनुरागसमृद्धिं बभार भृतवती । अत्रायमभिप्रायः । उद्यदादित्यचण्डप्रभा, अभयवरज्ञानपुस्तकावितदोर्दण्डषण्डा[^३] भारती एतेष्वशेषदोषनिराकरणचणेषु श्रीमदानन्दतीर्थपादपांसुष्वनुरक्तवतीत्युक्तौ तदवरगरुडकुण्डलीशमृडादिसुर- सेव्यत्वमेषां (सुतरां ) प्रतीयत इति । अत्र जलजलेति द्वयोः स्वरव्यञ्जन- योरनुवृत्त्या वृत्त्यनुप्रासो नामालङ्कारः[^४] । आदौ लक्ष्मीदेवताकमगणप्रयोगादयं स्तवो न केवलं कैवल्यप्रदः किन्तु क्षित्याद्यनेक श्रेयस्करश्चेति द्रष्टव्यम् । तदुक्तम् – 'लक्ष्मीर्मस्त्रिगुरुः क्षितिं वितनुते' इति ॥ १ ॥ (स्तुतिचन्द्रिका) लक्ष्मीशं तमनीशं परिपूर्णमनीपं च भारतीशम् । नत्वा त्रिविक्रमार्यं विहर मनस्तत्कृतावीषत् ॥ * ॥ अथ कृतविष्णुस्तुतिः पण्डिताचार्यः सम्प्रति गुरुगुणस्रग्धरां स्तुतिमारचयति । श्रीमान् विष्णुः । श्रीमन्तौ वा कान्तिमन्तौ विष्णवङ्घ्रि । विष्ण्वङ्घ्रिनिष्ठैव अतिगुणः । तेन गुरुतमः । निष्ठयाऽतिगुणो गुणाधिक इति वा । विष्ण्वङ्घ्रिनिष्ठः अतिगुणः गुणाधिक: गुरुतमश्च वा । अतिगुणः, भगवदनुग्रहेण त्रीन् गुणानतिगत इव । विष्ण्वष्टिया वाऽतिगुणः । भगवतो गुणभूतेषु [^१] तथाह्युदाजहार जयादित्यः- 'पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम्' इति । [^२] 'स्मितश्रीः' इति क्वचित् पाठः । [^३] '– दोर्दण्डा' इति पा. । [^४] 'स्वरव्यञ्जनयोरेकदैवानुवृत्त्याऽनुप्रासो नामालङ्कारः' इति पा. । जीवेष्वयमतिरिच्यते च । अत एव गुरुतमः । यत्र पांसुषु वाचां प्रणेत्री वाग्देवता । वेदवाचां रुद्रादिषूपदेशेन च प्रणेत्री । शारदा भारती । शारं विद्यया स्वातन्त्र्यं ददातीति । 'शरः स्वतन्त्र उद्दिष्टः शारं स्वातन्त्र्यमुच्यते' इति ह्यभिदधति । शारं हिंसाकरत्वात् संसारमविद्यां वा द्यतीति वा । प्रेमभारं बभार । शरदि भवस्येन्दोः विमलतया चन्द्रिकयेव भद्रया स्मितशोभया धवळीकृतदिशा । 'भव्यं भद्रं च मङ्गलम्' इति, 'शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः' इति, 'शुभ्रो वलक्षो धवळः' इति, 'आशा ककुभः काष्ठाः' इति च । ककुभेति तु यथा वाचा दिशा निशा ॥ १ ॥ उत्कण्ठाकुण्ठ-कोलाहल - जब- विदिताजस्र सेवानु- वृद्ध- प्राज्ञात्म-ज्ञान- धूतान्धतमस-सुमनो मौळि- रत्नावलीनाम् । भक्त्युद्रेकाबगाढ - प्रघटन-सधटात्कार सङ्घृष्यमाण- प्रान्त-प्राग्य्राङ्घ्रि-पीठोत्थित-कनक-रजः- पिञ्जरारञ्जिताशाः ॥ ॥ २ ॥ ( कविक.) पुनः किम्भूता इत्याकाङ्क्षायां तानेव विशिष्टि- उत्कण्ठेति ॥ उत्कण्ठा रणरणिका । अलब्धविषयवेदना । तदुक्तम्- 'रागे त्वलब्धविषये[^१] वेदना महती तु या । 'संशोषणी च गात्राणां तामुत्कण्ठां विदुर्बुधाः' इति । तया अकुण्ठौ प्रवृद्धौ । कोलाहलजवौ[^२] कलकलसम्भ्रमवेगौ । ताभ्यां विदिता ज्ञाता । अजस्रसेवा अनवरतपरिचर्या । तया अनुवृद्धं आनुपूर्व्येण प्रवृद्धम् । प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्रज्ञादित्वात्स्वार्थेऽण् प्रत्ययः[^३] । [^१] 'अलब्धविषया' इति पा. । अलब्धवस्तुविषयके रागे सति या वेदना । [^२] 'कोलाहल: कलकलस्तुमुलो व्याकुलो रव:' इति, 'वेगो रयो जवो वाज:' इति चाभिधानम् । [^३] प्रज्ञादित्वात् प्रज्ञादिगणपठितत्वादित्यर्थः । तथाहि पाणिनिः- 'प्रज्ञादिभ्यश्च' (अ.सू.५.४.३८) इति । प्रज्ञ इत्यादिभ्यः स्वार्थेऽण् प्रत्ययो भवतीत्यर्थः। प्राज्ञः। प्राज्ञी। अतति व्याप्नोतीत्यात्मा । औणादिको मनिण् प्रत्यय:[^१] । स चासावात्मा च । परमात्मेत्यर्थः । तस्मिन् ज्ञानं अध्यात्मज्ञानम् । तेन धूतं निरस्तं अन्धतमसमज्ञानं येषाम् । धूतपापा वा धूतान्धतमसाः । 'किल्बिषं तमः कल्कम्' इत्यभिधानम् । अन्धतमसं महानरकविशेषो वा । 'अवसमन्धेभ्य- स्तमसः' (अ.सू.५.४.७९) इति समासान्तोऽच् प्रत्ययः । ते च ते सुमनसश्च । सुमनसो देवाः । 'मालत्यां पण्डिते पुष्पे देवे च सुमनोऽभिधा' इति विश्वप्रकाशः । तेषां मौळयः किरीटाः । तेषु रत्नानि उत्कृष्टमणयः । तेषामावलयः । तासां तथोक्तानाम् । भक्तेरुद्रेकः उत्कर्षः तेनावगाढं दृढम् । प्रघटनं सङ्घट्टनम् । तेन सधटात्कारम् । घटात्कारोऽनुकरणशब्दः । तेन सह वर्तनं यथा भवति तथा सङ्घृष्यमाणः सम्पीड्यमानः प्रान्तः पर्यन्तः यस्य तत् । प्राग्र्यं श्रेष्ठम् । 'तत्र साधुः' (अ.सू.४.४.९८) इति यत्प्रत्ययः[^२] । अङ्घ्रिपीठं पादपीठम् । तस्मादुत्थितानि ऊर्ध्वं गतानि कनकस्य रजांसि । तैः पिञ्जरं यथा भवति तथा आरञ्जिताः समन्तादरुणीकृताः आशाः दिशो यैस्ते तथोक्ताः । एवंविधप्रौढिमाटीकमानाः[^३] श्रीमदानन्दतीर्थ- श्रीमच्चरणनळिनरेणवोऽस्मान् पुनन्त्विति पूर्वेण सम्बन्धः[^४] ॥ २ ॥ (स्तुतिचं.) द्वितीयं द्विपदा स्रग्धरा । पूर्वार्धमेकमुत्तरार्धमपरमिति । उत्तरार्धे रजःपिञ्जराः रञ्जिताशाः इति भिन्ने वा पदे । औत्सुक्येन अमन्दाभ्यां कोलाहलजवाभ्याम् । अमन्दकलकलेन वा जवेन । 'कुण्ठो मन्दः क्रियासु' इति च । विजितया लब्धया सन्ततसेवया पवमानस्य । अनुक्षणं प्रवृद्धेन प्राज्ञात्मनो नारायणस्य ज्ञानेन धूतान्धतमसाः सुमनसः सुराः । प्राज्ञ आत्मा चेति प्राज्ञात्मा । प्राज्ञानामात्मा, प्राज्ञो यस्य वाऽत्मा । 'ज्ञानी त्वात्मैव मे मतम्' इति हि भगवानाह । अन्धतमसं व्रजिनमज्ञानं वा । अन्धं तमो [^१] तथाहि दशपादिका–'सातिभ्यां मनिन्मनिणौ' (६.८१) इति । स्यतीति साम । अततीत्यात्मा । [^२] सामान्यविधिरयम् । अग्रे भवः अग्य इति वक्तव्यम् । तथाहि पाणिनिः–'अग्राद् यत्' (अ.सू.४.४.११६) इति । [^३] ' प्रौढमहिमानः' इति पा. । [^४] 'पूर्वेण योजना' इति पा. । वा । 'आदित्यास्त्रिदशाः सुराः सुमनसः' इति च । तेषां शिरसि भूषायि- तानां मणिगणानाम्। 'मौळिशिरःशीर्षमूर्धकानि स्युः' इति च । मौळिः किरीटं वा । भक्त्युद्रेकः सुराणाम् । तेनावगाढं दृढं प्रघटनं सङ्घट्टनं रत्नाव- लीनाम् । तेन सधटात्कारम् । तद् यथा 'ಧಡಾರನೆ' इति भाषायाम् । सङ्घृष्यमाणप्रान्तभागं प्राग्र्यं च कनकमयमङ्घ्रिपीठम् । तत उत्थितैः कनककणैः पिञ्जरतया आरञ्जितदिशाः । कनकरजः पिञ्जराः रञ्जिताशाश्च वा पांसवोऽस्मान् पुनन्तु । 'पिञ्जरः पीतरक्तः स्यात्' इति च ॥ २ ॥ जन्माधि-व्याध्युपाधि-प्रतिहति-विरह-प्रापकाणां गुणाना- मग्य्राणामर्प्पकाणां चिरमुदित-चिदानन्द-सन्दोह-दानाम् । एतेषामेष दोष-प्रमुषित - मनसां द्वेषिणां दूषकाणां दैत्यानामार्त्तिमन्धे तमसि विदधतां संस्तवे नास्मि शक्तः ॥ ॥ ३ ॥ (कविक.) कविरिदानीं स्वाहङ्कारं परिहरति - जन्माधीति । एषः स्तुतिप्रवृत्तोऽहम् । जन्म जननम् । आधिर्मानसी व्यथा । 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । व्याधिर्भगन्दरादिः[^१] । तेषामुपाधयः कारणानि अविद्याऽस्मितादयः । तेषां प्रतिहतिः प्रत्यावृत्तिः । हन हिंसागत्योरित्यस्मात् गत्यर्थे क्तिन् प्रत्ययः[^२] । तस्याः विरहः विच्छेदः, तस्य प्रापकाणां यापकानाम् । उपाधिः शरीरम् तस्य प्रतिहतिर्नाशः तस्या विरहः प्रध्वंसः तस्य प्रापकाणामिति वा । पुनः किम्भूतानाम्[^३] ? अग्य्राणां श्रेष्ठानां गुणानां भक्तिज्ञानादीनां अर्पकाणां प्रदातॄणाम् । पुनः किंविशिष्टानाम् ? उदितः उदयमारभमाणः । 'आदिकर्मणि क्तः कर्त्तरि च' (अ.सू. ३.४.७१) इति कर्तरि क्तः । चित् ज्ञानम् । आनन्दो हर्षः । तयोः सन्दोहः समूहः । तं ददतीति तेषां तथोक्ता [^१] अत्र सर्वत्रापि कोशेष्वस्फुटः पाठः । क्वचित् 'व्याधिर्भगज्वरादयः' (?) इति पठ्यते । [^२] तथाहि सूत्रम्–'स्त्रियां क्तिन्' (अ.सू.३.३.९४) इति । [^३] 'किंविधानाम्' इति पा. । नाम् । पुनः कीदृशानाम्? दोषेणान्यथाज्ञानादिना प्रमुषितं कलुषितं मनो येषां तेषाम्[^१] , द्वेषिणां द्वेषणशीलानाम् । 'सम्पृचानु–' (अ.सू. ३.२.१४२) इत्या- दिना शीलार्थे घिनुण् । दूषकाणां असत्प्रळापैर्दूषणं कुर्वतां दैत्यानामन्धे तमसि आर्तिं व्यथां चिरं निरवधिककालं विदधतां कुर्वाणानाम् । एतेषां पूर्वप्रस्तुतानां श्रीमदानन्दतीर्थश्रीमच्चरणरनळिनरेणूनां संस्तवे[^२] सम्यक् स्तोत्र- विषये शक्तो नास्मि । अत्र शक्त इति भूतकालः । अस्मीति वर्तमान- कालः । अतः कालभेदे सत्यपि 'धातुसम्बन्धे प्रत्ययाः'(अ.सू.३. ४. १) इति भूतकालो वर्तमानकालेनाभिसम्बध्यमानः साधुर्भवति । विशेषणं गुण- त्वाद्द्विशेष्यमेवानुरुध्यत इति । एवं बहुविधसामर्थ्याचार्यवर्यश्रीमत्पादपद्म- परागान् प्रस्तोतुमल्पज्ञस्य मे सामर्थ्य नास्तीत्यर्थः ॥ ३ ॥ (स्तुतिचं.) जन्मत आमृत्योराधिव्याधी । 'आधिस्तु मानसी पीडा' इति च । जन्मादीनामुपाधिः शरीरम् । तस्य प्रतिजन्म हतिः । निरन्तरजनिमृतिरूपः संसारः । तस्या विरहो मुक्तिः । उपाधिरविद्या वा । तेन प्रतिहतिः प्रतिरोधः साधनस्य । विरहप्रापकाणां शमदमादिगुणानां साधकेष्वर्पका पांसवः । तेन च नित्याभिव्यक्तज्ञानानन्दसन्दोहदाः । सन्दोहः समुच्चयः सम्यग्दोहो वा । भगबद्भागवतद्वेषिणां तद्दूषकाणां च पीडामन्धे तमसि विदधतां पांसूनां परिचयने परिचित्य च स्तवने नास्मि शक्तः ॥ ३ ॥ अस्याविष्कर्त्तुकामं कलि-मल - कलुषेऽस्मिन् जने ज्ञान मार्ग्गं वन्द्यं चन्द्रेन्द्र-रुद्र-द्युमणि-फणि-वयो-नायकाद्यैरिहाद्य । मध्वाख्यं मन्त्र - सिद्धं किमुत कृतवतो मारुतस्यावतारं पातारं पारमेष्ठ्यं पदमप - विपदः प्राप्तुरापन्न - पुंसाम् ॥ ४ ॥ [^१] 'तेषां तथा द्वेषिणाम्' इति पा. । [^२] सम्पूर्वोऽपि स्तौतिः स्तुतौ वर्तते । 'संस्तव: स्यात्परिचयः' इति त्वर्थान्तरविधिरेव । न प्रतनार्थप्रतिषेधः । तथाहि भगवता बादरायणेन प्रायोजि - 'एवं श्रीः संस्तुता सम्यक् प्राहादृश्या शतक्रतुम्' (विष्णुपु. १.६.१२१) इति । (कविक.) श्रीमच्चरणनळिनरेणूनपि स्तोतुमशक्तस्य प्रधानवायोः स्तुतिकरणे शक्तिः सुतरां नास्तीत्याह- अस्येति । अद्येदानीम् । इह भुवि । कलिकृतं मलं मिथ्याज्ञानम् । तेन ( कलुषे) कलुषिते, मलिनीभूते । अस्मिन् जने ज्ञानयोग्ये जने, लोके[^१] । ज्ञानमार्गं तत्वज्ञानसरणिम् । आविष्कर्तुं प्रकटीकर्तुं कामः इच्छा यस्य तं तथोक्तम् । 'समानकर्तृकेषु तुमुन्' (अ.सू.३.३.१५८) इति इच्छार्थोपपदे तुमुन् । 'तुङ्काममनसोरपि' इति मकारलोपः[^२] । अनेनावतारप्रयोजनं सूचितं भवति । चन्द्रेन्द्ररुद्राः प्रसिद्धाः । द्युमणिः सूर्यः । नायक इत्युभयत्र सम्बध्यते । फणिनां नायकः शेषः, वयसां पक्षिणां नायको गरुडः । 'खगबाल्यादिनोर्वयः' इत्यमरः । ते आद्या येषां तैर्देवैः । वन्द्यं अभिवादनस्तुतियोग्यम् । मन्त्रसिद्धम्– मन्त्रो वेदो बळित्थादिः । तत्र सिद्धं प्रसिद्धम् । मध्वाख्यं मध्वनामकम् । अवतारं प्रादुर्भावं कृतवतः । आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारम्[^३] । 'कर्तृकर्मणोः कृति' (अ.सू.२.३.६५) इति कर्मणि षष्ठी । पदं व्यवसितम् । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्मणादित्वात् ष्यञ् प्रत्ययः[^४] । 'कर्तृकर्मणोः कृति' इति षष्ठी न भवति । 'न लोका[^५] —–'(अ.सू.२.३.६९) इत्यादिना प्रतिषेधात् । प्राप्तुः गन्तुः । शीलार्थे तृन् । वायोर्ब्रह्मपदप्राप्तौ प्रमाणम्- 'वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स [^१] अत्र क्वचित् पाठन्तरम्– 'कलिकृतं मलं मिथ्याज्ञानम् । तदेव कलुषं दुरितं यस्य तस्मिन् । 'कलुषं वृजिनैनोघमंहोदुरितदुष्कृतम्' इत्यमरः । अस्मिन् युगवर्तिनि जने ज्ञानमार्गम्–' इत्यादि । [^२] तथाहि समग्रं वचनम् – 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । 'समो वा हितततयोर्मांसस्य पचि युङ्घञो:' इति । [^३] सर्वत्र कोशेष्वेवमेव पाठः । परन्तु अन्वयासङ्गतेः 'आपन्नपुंसां आर्तस्वभावानां पातारं रक्षितारं अवतारं प्रादुर्भावं कृतवतः' इति पूर्वोत्तरवाक्यव्यत्यासेन पठनीयम्। [^४] तथाहि सूत्रम्–'गुणवचनब्राह्मणादिभ्य: कर्मणि च' (अ.सू.५.१.१२४) इति । चकाराद् भावे च । तेन परमेष्ठिनो भावः पारमेष्ठ्यं ब्रह्मत्वम् । ब्राह्मणादिषु परमेष्ठिपदं न पठ्यते । आकृतिगणत्वात् तदपि पठनीयमित्यर्थः। [^५] क्वचित् 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति समस्तं सूत्रं पठ्यते । स्मृतः' इति । श्रुतिश्च –' पवमानः प्रजापतिः' इति । अपगता विपद् यस्मात् तस्य मारुतस्य संस्तवे शक्तो नास्मीति किमु वक्तव्यमित्यर्थः ॥ ४ ॥ (स्तुतिचं.) किमुत अस्य तादृशपांसुपरिगुण्ठितपादस्य पवमानस्य संस्तवे? इहाद्य मध्वाख्यं मन्त्रसिद्धमवतारं कृतवतः । श्रूयते हि मन्त्रवर्णः–'यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति' इति । कलिमलेन पिहितज्ञाने सज्जने ज्ञानमार्गमाविष्कर्तुकामम् । 'घुमणिरंशुमानंशुः' इति च । फणिनायकः शेषः । वयोनायको वैनतेयः । 'वयो विहाया विहगो विहङ्गः' इति च । आपन्नपुंसां पातारमवतारम् । पारमेष्ठ्यं पदं प्राप्तुरपगतविपदो मारुतस्य संस्तवे ॥ ४ ॥ उद्यद्-विद्युत्-प्रचण्डां निज- रुचि - निकर व्याप्त लोकावकाशो बिभ्रद् भीमो भुजे योऽभ्युदित- दिनकराभाङ्गदाढ्य-प्रकाण्डे । वीर्य्योद्धार्य्यां गदाग्र्यामयमिह सुमतिं वायु- देवो विदद्ध्या- दद्ध्यात्म-ज्ञान-नेता यति बर महितो भूमि-भूषा-मणिर्मे ॥ ॥ ५ ॥ (कविक.) एवं संस्तवे शक्त्यभावमुक्त्वाऽथ संस्तवादिसामर्थ्यहेतुं सद्बुद्धिं[^१] प्रार्थयते– उद्यदिति ॥ निजाः आत्मीयाः ये रुचीनां निकरास्तैर्व्याप्तः[^२] रूषितः लोकावकाशो भुवनप्रदेशो यस्य स तथोक्तः । यो वायुदेवो भीमः सन् । भृतानि[^३] माः प्रमाणानि ऋगादयोऽस्मिन्निति व्युत्पत्त्याऽन्वर्थाऽस्य भीमसञ्ज्ञेत्यर्थः[^४] । तथाहि भाववृत्ते[^५]- 'भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः । 'ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् । 'प्रोक्ताः सप्त शिवास्तत्र शयो भीमस्ततः स्मृतः' इति । [^१] 'सुबुद्धिम्' इति पा. । [^२] 'व्याप्तः लोकावकाशः' इति पा. । [^३] 'भृता: मा: प्रमाणानि' इति वक्तव्यम् । नियोगपर्यनुयोगविधुरा लिपिकाराः। [^४] 'भीमसञ्ज्ञेत्यवगन्तव्या' इति पा. । [^५] 'भाववृत्तवचनम्' इति पा. । उद्यन्ती या विद्युत् तद्वत्प्रचण्डां भासमानाम् । वीर्येण बलेन उद्धार्यां उद्धर्तुं शक्याम् । 'ऋहलोर्ण्यत्' (अ.सू. ३.१.१२४) इति ण्यत् । गदाग्र्यां श्रेष्ठ- गदाम् । अभ्युदितः अभ्युदयमारभमाणो[^१] यो दिनकरस्तस्य आभेव आभा यस्य तत् । अङ्गदं केयूरम् । 'केयूरमङ्गदं तुल्ये' इत्यमरः । तेनाऽढ्यः उज्ज्वलः प्रकाण्डः कराग्रांसमध्यप्रदेशो यस्य[^२] । अथवा प्रकाण्डः श्रेष्ठः। 'प्रकाण्ड- मुद्धतल्लजौ' इत्यमरः[^३] । तस्मिन् भुजे बिभ्रद् दधानः । अध्यात्मं परमात्मविषयं ज्ञानम् । तस्य नेता प्रापकः । अत्र कर्मणः शेषत्वविवक्षायां षष्ठी । तस्मात्तृजन्तेन[^४] समासो युज्यते । न कृल्लक्षणषष्ठ्या । 'तृजकाभ्यां कर्तरि'(अ.सू.२.२.१५) इति कृल्लक्षणषष्ठीसमासप्रतिषेधात् । यतिवरेषु यतिश्रेष्ठेषु महितः महान् । अत एव भूमिभूषामणिः भूमण्डलमण्डनमणि- र्भवति । सोऽयमवतारोचितव्यापारो वायुदेवः श्रीमुख्यप्राणनाथः मे मम सुमतिं स्तुत्यादिकरणचातुरीचणां बुद्धिं विदध्यात् । दधातेर्लिङि यासुटि 'इनाभ्यस्तयोरातः' (अ.सू.६.४.११२) इत्याकारलोपे रूपम् । गदाग्य्रां बिभ्रदित्यनेन दुष्टनिग्रहार्थो भीमावतारो दर्शितः । अध्यात्मज्ञाननेतेत्यनेन 'ज्ञानानन्दाद्यखिलगुणमूर्तिः सर्वदा[^५] सर्वजीवादिभ्योऽत्यन्तभिन्नः सर्वान्त- र्यामी श्रीनारायणः' इत्येवंरूपस्य ज्ञानस्य प्रकाशकत्वं मध्वावतारस्य प्रयो- जनमिति प्रकटितम् ॥ ५ ॥ (स्तुतिचं.) रुचीनां रोचिषां निकरः । उद्यद्विद्युत्प्रखरां गदाग्य्रां भुजे बिभ्रद् भीमावतारो वायुदेवो मे सुमतिं विदध्यात् । मूलरूपे च गदां बिभ्रद् [^१] 'अभ्युदितः अतिशयेन उदितः' इति पा । [^२] अत्र कराग्रपदेन कपोणिपर्यन्तः करावयवो गृह्यते। 'यस्य तस्मिन् । अथवोज्वल एव प्रकाण्ड:' इति पा. । [^३] प्रकाण्डमिति नपुंसकत्वमशिष्यम् । अत एव 'प्रकाण्डो विटपे शस्ते' इति विश्वप्रकाशः । अस्त्रियामिति तु वक्तव्यम् । तथा ह्यन्यत्र - 'अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः' इति । [^४] 'तस्य तृजन्तेन' इति पा. । [^५] 'सदा' इति पा. । [^६] 'मध्वावतारप्रयोजनमिति' इति पा. । दैत्यभयङ्करः । तथाहि ध्यानम्-'ध्यायेद् गदाभयकरम्' इति । गदया तमसि पातनादसतां भयङ्करम् । अभयप्रदकरं च सताम् । सम्भृतमानश्च भीमः । 'भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः' इति हि स्मरन्ति । समुदित- भानुभासा अङ्गदेनाऽढ्यः प्रकाण्डः स्कन्धाधोभागो यस्य तस्मिन् भुजे । 'केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम्' इति, 'मणिबन्धः पाणिमूलं कफणिः कूर्परः स्मृतः । तयोर्मध्यं प्रकोष्ठं स्यात् प्रकाण्डः कूर्परांसयोः' इति च । अङ्गदाढ्यः प्रकाण्डश्च वा भुजः । 'प्रकाण्डोद्धौ प्रशंसायाम्' इति च । यतिवरेषु महितो महान्, यतिवरैरपि महितः पूजितो वा । अध्यात्मज्ञानं परविद्या ॥ ५ ॥ संसारोत्ताप-नित्योपशम-द-सदय-स्नेह-हासाम्बु-पूर- प्रोद्यद् - विद्यानवद्य-द्युति-मणि-किरण-श्रेणि-सम्पूरिताशः । श्रीवत्साङ्काधि- वासोचित तर सरळ - श्रीमदानन्दतीर्थ- क्षीराम्भोधिर्बिभिन्द्याद् भवदनभि-मतं भूरि मे भूति-हेतुः ॥ (कविक.)संसारसञ्जातसन्तापशान्तिकरत्वात् तमेव दुग्धाम्भोधित्वेन [^१]रूपयन्नाध्यात्मिकाद्यनेकानिष्टशान्तिं प्रार्थयते- संसारेति । संसारे य उत्तापः आध्यात्मिकाद्युत्कृष्टव्यथा तस्य नित्यं अनवरतं उपशमदः उपशान्तिप्रदः । स चासौ सदयः कृपासहितः स्नेहहासः भक्तानुरागजनितो हासश्च । स एवाम्बुपूरो जलसमृद्धिर्यस्य । स चासौ, प्रोद्यन्त्यः प्रादुर्भवन्त्यो विद्यास्तत्वज्ञानादय एवानवद्यद्युतिमणयः अनर्घ[^२]प्रभारत्नानि तेषां किरणाः स्फुरणानि तेषां श्रेणयः पतयः ताभिः सम्पूरिताः सम्यग्व्याप्ताः आशाः दिशो यस्य स तथोक्तश्च । 'आशाश्च हरितश्च ताः' इत्यमरः । भूतिहेतुः भक्तिज्ञानादिसम्पद्धेतुः । अन्यत्र भूतेर्लक्ष्म्या हेतुराविर्भावाधिष्ठानम् । श्रीवत्सः शरीर [^१] 'निरूपयन्' इति पा. । [^२] 'अनर्घ्य–' इति पा.। 'अनघप्रभारत्नानि' इति तु साधुः पाठः । स्थितावर्तविशेषः । स एवाङ्क: चिह्नं यस्य तस्य[^१] श्रीविष्णोरधिवासः सन्निधानम् । अन्यत्राऽश्रयः । तस्योचिततराः अत्यन्तयोग्या गरुडमृडा- दयः । तेषु सरळ: उदार: । 'दक्षिणे सरळोदरौ' इत्यमरः[^२] । 'पूर्वेपूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम्' इति । [^३]अन्यत्र उचिततरा: श्वेतद्वीपा- दयः । तेषु सरळः हृद्यः[^४] । 'हृद्यं वैवाहिकं गृहम्' इति लोकप्रसिद्धेः । स चासौ श्रीमदानन्दतीर्थश्च । स एव क्षीराम्भोधिः क्षीरसमुद्रः । भवत् जायमानं भूरि बहु मे मम अनभिमतं अनिष्टम् । अथवा मे मम च भवतां श्रीविष्णु- भक्तानामिति वा योजना[^५] । विभिन्द्यात् छिन्द्यात् । रुधादेर्भिदेर्लिङ् ॥६॥ ( स्तुतिचं.) संसारे उत्कटा उद्दामाश्च ये तापास्तेषां नित्योपशमदः सदयश्च स्नेहसम्भृतो हासः । स एवाम्बुपूरो मध्ववारिधेः । 'पूरः स्यादम्भसो वृद्धिः' इति च । तत्र प्रोद्यन्त्यो विद्या एवानवद्यद्युतयो मणयः । 'अधममवद्यं निकृष्टमपकृष्टम्' इति च। 'श्रीवत्साङ्कः श्रीपतिः पीतवासाः' इति च । वक्षसि श्रीवत्सेनाङ्कितः । श्रियो वत्सः प्राणो यस्य चाङ्के । श्रीर्दयिता वत्सः प्राणश्च यस्याङ्क इति वा । स्मरन्ति च 'अङ्कं श्रिता श्रीः' इति, 'अच्युताङ्के स्वासीनम्' इति च । तस्याधिकसन्निधानायोचिततमः। 'यत्रोभयोः प्रयोगो न तत्रैकार्थी तरप्तमौ' इति च स्म हि स्मरन्ति । सरळः ऋजुरकुटिलः । भूतेः श्रिय उद्भवहेतुः क्षीराम्भोधिः । भूतेरुन्नतेर्हेतुर्मध्वदुग्धाब्धिः । विशेषतश्च मे । स मम भवत् सम्भावितं अनभिमतं दुरितं विभिन्द्यात् । भवतामनभिमतं मम चेति वा ॥ ६ ॥ [^१] 'तस्य विष्णोः' इति पा. । [^२] प्रकृते नातितरामुपयुज्यते कोशवचनमिदम् । उत्कर्षः किलात्र विवक्षितोऽर्थः । न दाक्षिण्यम् । 'उदारो दातृमहतो:' इति हि मेदिनी । उचिततरा गरुडमृडादयः । आनन्दतीर्थ उचिततम इत्यर्थः । [^३] 'इतरत्र' इति पा. । [^४] आर्जवं हि सरलार्थः । तदेव च हृद्यं यदृजु । आर्जवं हि हृदयमावर्जयति । [^५] मे भूतिहेतुरिति यथाश्रुतं वा योजनीयम् । मूर्द्धन्येषोऽञ्जलिर्म्मे दृढ-तरमिह ते बद्ध्यते बन्ध-पाश- च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्-विधात्रे द्यु-भर्त्त्रे । अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्ताप-भाजा- मस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायोः ॥ ॥ ७॥ (कविक.) कारुण्यकटाक्षवीक्षामात्रेण[^१] संसारबन्धच्छेदकं[^२] मोक्षसुखदायकं भविष्यद्ब्रह्माणं श्रीमद्भगवद्भारतीनाथं प्रणमन् श्रीविष्णौ श्रीवायौ च मुक्तिहेतुं भक्तिं याचते– मूर्धनीति । हे श्रीवायो । भुवि भूलोके[^३]। भजति सेवके जने । अधिकरणविवक्षायां सप्तमी । बध्यते येन स बन्धः संसारः । स एव पाशः । तस्य च्छेत्रे छेदकाय । सुखानामानन्दानां दात्रे प्रदायकाय । भविष्यद्विधात्रे भाविब्रह्मणे[^४] । दिवः ज्ञानादिगुणसम्पन्नायाः भारत्याः । दीव्यतेः क्विप् । भर्त्रे पत्ये । ते तुभ्यम् । एषः वर्तमानविशिष्टः[^५] । मे मम सम्बन्धी । अञ्जलिः करकमलमुकुलीभावः । मूर्धनि शिरसि । दृढतरं अतिदृढं सन्ततं निरन्तरं बध्यते ध्रियते[^6] । हन्तेति हर्षे । अनेन प्रणामेनाहो अद्य खलु मे जन्म सफलमिति हर्षः । त्वं, भगवतः माधवस्य श्रीपतेः । वायोः मुख्यप्राणस्य[^७] ते तव उत । उतेति चार्थे । अव्ययानामनेकार्थत्वात् । पदयुगे चरणयुगले[^८] । एकां मुख्याम् । निर्व्याजां निश्चलां नित्यानन्दस्वरूपिणीमित्यर्थः[^९] । भक्तिं माहात्म्यज्ञानपूर्वकं सुदृढं सर्वाधिकमुत्तमविषयं[^१०] स्नेहमित्यर्थः । तथोक्तम्- [^१] ' – वीक्षणमात्रेण' इति पा । [^२] '–बन्धनच्छेदकम्' इति पा. । [^३] 'भुवि लोके' इति पा. । [^४] 'भविष्यद्ब्रह्मणे' इति पा । [^५] वर्तमानकालविशिष्टः । वर्तमानकालिक इति यावत् । [^६] 'विधीयते' इति पा. । [^७] 'श्रीमुख्यप्राणस्य' इति पा. । [^८] 'चरणनलिनयुगले' इति पा. । [^९] ' – रूपिणीति यावत्' इति पा । [^१०]. '– विषयस्नेहमित्यर्थः' इति पा. । 'माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । 'स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा' इति । इह अस्मिन् संसारे । अत्यन्तं निरवधिकं सन्तापभाजां बुभुक्षापिपासादि- षडूर्मिप्रतिहतिप्राप्तदुःखानामस्माकं प्रदिश प्रतिपादय ॥ ७॥ ( स्तुतिचं.) इह भुवि दृष्टिगोचराय तुभ्यमेषोऽञ्जलिः । भुवि भजतः सज्जनस्य विषये कारुणिकतया तस्य भवपाशच्छेत्रे । छित्वा मौक्तानां सुखानां दात्रे । 'वायुश्च तदनुज्ञया' इति हि स्मरन्ति । द्यौः भारती । एकामनन्यां भक्तिम् । भगवतो माधवस्य । अथ वायोस्त उत तवापि । हन्तेति सन्तापभाक्त्वस्य शोचति स्मरन् । हन्तेति गुरुकृपामास्वादयति प्रहृष्यन् । 'शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते' इति च ॥ ७ ॥ साम्रोष्णाभीशु-शुभ्र-प्रभमभय नभो भूरि-भूभृद्- विभूति- भ्राजिष्णुर्भूरभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे । येन भ्रू-विभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद् दुर्भृताशान् भ्रान्तिर्भेदावभासस्त्विति भयमभि-भूर्भोक्ष्यतो मायि-भिक्षून् ॥ ॥ ८॥ (कविक.) अतीतश्लोके भक्तिं याचितस्य भगवतः श्रीवायोर्भूविभ्रमस्यानेकसामर्थ्यं वर्णयति- साभ्रेति । न विद्यते भयं यस्य तस्य सम्बुद्धिरभय । विभो व्यापक[^१] । ते तब येन भ्रूविभ्रमेण । अभ्राणि मेघाः । 'अभ्रं मेघो वारिवाहः' इत्यमरः । उष्णाभीशुरुष्णरश्मिः सूर्यः । शुभ्रप्रभः शुभ्रांशुश्चन्द्रः । तैः सह वर्तते यत् । 'तेन सहेति तुल्ययोगे' (अ.सू.२.२.२८) इति बहुव्रीहिः । नभोऽन्तरिक्षम् । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः । भूरिः प्रभूता या भूभृतां राज्ञां विभूतिरैश्वर्यं तया भ्राजिष्णुर्भासनशीला । [^१] 'विभो स्वामिन्' इति पा. । 'भुवश्च'(अ.सू.३.२.१३८) इत्यनुक्तसमुच्चयार्थाच्चकारादिष्णुच् प्रत्ययः । प्रयोगश्च–'भ्राजिष्णुना लोहितचन्दनेन' इति[^१] । भूर्भूमिः । ऋभूणां देवा- नाम् । 'आदित्या ऋभवोऽस्वप्नाः' इत्यमरः । भवनं वेश्म सुरलोकोऽपि । अभेदि व्यदारि । भिदेः कर्मणि लुङि, 'चिण् भावकर्मणोः' (अ.सू.३.१.६६) इति चिण् । 'चिणो लुक्' (अ.सू.६.४.१०४) । बभ्रे । 'डु भृञ् धारणपोषणयोः' इत्यस्मात् (कर्मणि) लिट्[^२] । बभूवे लेभे । 'भू प्राप्तौ' इत्यस्मात् कर्मणि लिट् । नभोभूरृभुभवनानामस्योदञ्चितभ्रूविलासमात्रेण[^३] सृष्टिस्थितिलया भवन्तीत्यभिप्रायः । अभिभावत[^४] विपक्षान् निराकरोतीत्य- भिभूः स भ्रूविभ्रमः । बभ्रुर्नकुलः[^५] । तद्वदुर्भृता दुष्टं भृता चञ्चलतया धृता आशा इच्छा यैस्तान् । भेदः[^६], जीवेश्वरजडादीनां[^७] यः परस्परं पञ्चधा भेदः सत्यत्वेन 'यच्चिकेत सत्यम्' इत्यादिप्रमाणसिद्धः तस्यावभासः प्रतीतिः शुक्तिरजतवद् भ्रान्तिः मिथ्येति वदतः । अत एवान्यथाज्ञानेन भयमन्धतमसे[^८] भोक्ष्यतः अनुभविष्यतः मायिभिक्षून् मायिमस्करिणः सुभृशं अत्यर्थं भ्रमयतु मोहितान् करोतु । 'भ्रमु अनवस्थाने' इत्यस्माल्लोट् ॥ ८ ॥ (स्तुतिचं.) अभ्रं मेघोऽपां भरणात् । न भ्राजते वा धूम्रतया । साभ्रं नभो विशिष्य वर्षासु । उष्णगभस्तिर्भानुः । सभानु विशिष्य निदाघे । शुभ्रप्रभः शशी । सशशि विशिष्य शरदि शिशिरे च । तेन सर्वकालं सर्वधर्माणां साभिमानिनां नियमनमाह । भूभुजां भूरिविभवैर्भ्राजमाना भूमिः । सभूभुक् सविभूतिश्च भूमिः । ऋभूणां देवानां भवनं स्वर्ग: । ससुरगणः स्वर्ग [^१] 'कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम्' इत्यभिधानम्। [^२] 'इत्यस्माद् धातोर्लिट्' इति पा । [^३] ' – भवनानां यत्कटाक्षमात्रेण' इति पा. । [^४] 'अपि तु अभिभावयति' इति पा. । [^५] 'बभ्रुः स्यान्नकुलेऽपि च' इत्यभिधानम् । 'बभ्रुर्ना नकुले' इति चान्यत्र । मार्जारो वा बभ्रुरित्येके । [^६] 'भेदावभासः' इति पा. । [^७] जीवेश्वरजडानामित्येव पर्याप्तम् । आदिपदं लिपिकृत्प्रमादायातम् । [^८] 'भयमन्धतमसं दुःखम्' इति पा. । लोकः । 'गीर्वाणा ऋभवोऽमराश्च मरुतः' इति च । एवं लोकत्रयं येन तव भ्रूविभ्रमेण अदारि अधारि समभावि च । सोऽयं सर्वं लोकजातमभिभवन् अधःकुर्वन् तव भ्रूविलास: मायावादिभिक्षून् बभ्रूनिव सुभृशं भ्रमयतु विभ्रान्तविक्षिप्तचित्तान् करोतु । 'बभ्रुः स्यान्नकुले च' इति च । बभ्रुवो हि सदाऽनवस्थिताः परिभ्रमन्ति । अथवा ते भ्रूभङ्गः बभ्रुरिव तान् भ्रमयतु । बभ्रुरिति वह्निः । 'बभ्रुर्विशाले नकुले कृशानौ' इति चान्यत्र । यथा दवाग्नि- र्वन्यं प्राणिजातं भ्रमयति । भेदप्रतीतिर्भ्रान्तिरेव यतो यत् प्रतीयते न तद् विद्यते । इत्येवं दुष्टं भृता आशा यैस्तान् । भयमन्धे तमसि भोक्ष्यमाणान्, भावि भयमविद्योपासनेन निरन्तरं रक्षिष्यतो वा भिक्षून् ॥ ८ ॥ येऽमुं भावं भजन्ते सुर-मुख-सु-जनाराधितं ते तृतीयं भासन्ते भासुरैस्ते सह-चर-चलितैश्चामरैश्चारु- वेषाः । बैकुण्ठे कण्ठ-लग्न-स्थिर - शुचि - विलसत् - कान्ति- तारुण्य-लीला- लावण्यापूर्ण-कान्ता-कुच-भर-सुलभाश्लेष-सम्मोद-सान्द्राः ॥ ॥ ९॥ (कविक.) अत्र श्रीवायोस्तृतीयावतारः सुरनरोत्तमादिसेवितः, एतत्सेवया वैकुण्ठपदप्राप्तिः, वैकुण्ठपदं सर्वोत्कृष्टम्, वैकुण्ठपदे नित्यनिर्दोषस्वेच्छानुरूपसुखानि सन्ति, चतुर्मुखमुखमुक्तानां मुक्तावपि पूर्ववन्नीचोच्चत्वेनावस्थानमित्याह– येऽमुं भावमिति । हे [^१]श्रीवायो, ये [^२]जनाः, सुराः मुखानि मुख्याः । 'मुखं मुख्ये च वक्त्रे स्यात्' इति विश्वः । येषां तैः सुजनैः सज्जनैः आराधितं सेवितम् । तृतीयं त्रयाणां पूरणम् । 'त्रेः सम्प्रसारणं च' (अ.सू. ५.२.५५) इति तीयप्रत्ययः । अनुं स्तुत्यत्वेन प्रकृतं ते तव भावमवतारं भजन्ते सेवन्ते । ते जनाः । भासुरैर्भासनशीलैः। 'भञ्जभासमिदो [^१] 'हे पवन' इति पा. । [^२] 'ये सुजना:' इति पा. । घुरच्' (अ.सू.३.२.१६१) । सह चरन्तीति सहचरा भृत्याः । तैश्चलितैर्वीजितैश्चामरैः प्रकीर्णकैः[^१] । 'चामरं तु प्रकीर्णकम्' इत्यमरः । चारुर्मनोहरो वेषोऽलङ्कारो येषां ते । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । कण्ठलग्नानां ग्रीवासक्तानाम् । स्थिरैर्निश्चलैः । शुचिभिर्मनोहरैः[^२] । विलसत्कान्तिभिर्भासमानद्युतिभिश्च । तारुण्येन यौवनेन च । 'तारुण्यं यौवनं समे' इत्यमरः । लीलाभिः शृङ्गारचेष्टाभिश्च । लावण्येन प्रसिद्भाववातिरिक्तच्छायातरळत्वेन च[^३] । तदुक्तम्- 'मुक्ताफलेषु च्छायायास्तरळत्वमिवान्तरा। 'प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते' इति ॥ एतैरापूर्णानां आढ्यानां कान्तानां अङ्गनानां सम्बन्धिनः कुचभरस्य स्तन- भारस्य यः सुलभाश्लेषः सुलभालिङ्गनं तेन जातः सम्मोदो हर्षस्तेन सान्द्राः समृद्धाः सन्तो वैकुण्ठे विष्णुलोके भासन्ते राजन्ते ॥ ९ ॥ (स्तुतिचं.) तृतीयं भावं भुवि भवनमवतारं मध्वाख्यम् । वैकुण्ठे भासन्ते । सहचराः सहैव चरन्ति ये दासाः । कण्ठसंसक्तानां नित्यनिर्मल- मधुरद्युतीनां तारुण्यलीलया लावण्येन च सम्भृतानां सुन्दरीणाम् । तादृशद्युतेस्तारुण्यस्य च लीलया । पयोधरभारस्य सुलभपरिरम्भणेन हर्ष- निर्भराः । न हि स्त्रीरमणं नाम दोषः । सहजा हि प्रकृतिः स्वरूपमनु- बध्नाति । श्रूयते हि–'स्त्रीभिर्यानैर्वा' इति ॥ ९ ॥ आनन्दान् मन्द-मन्दा ददति हि मरुतः कुन्द-मन्दार-नन्द्यावर्त्तामोदान् दधाना मृदु-पदमुदितोद्गीतकैः सुन्दरीणाम् । [^१] 'प्रकीर्णकैः करणैः' इति पा. । [^२] 'स्थिरैरनवरतैरनश्वरैः। शुचिभिर्मनोज्ञैः' इति पा. । [^३] 'लीला शृङ्गारचेष्टा । लावण्यं प्रसिद्धावयवातिरिक्तच्छायातरलत्वम्' इति पा. । वृन्दैरावन्द्य-मुक्तेन्द्वहिमगु-मदनाहीन्द्र-देवेन्द्र-सेव्ये मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देव-देव ॥ १० ॥ (कविक.) वैकुण्ठे भासन्त इत्युक्तम् । तमेव वैकुण्ठं वर्णयति– आनन्दानिति । हे देवदेव देवश्रेष्ठ । मृदूनि प्रतीयमानार्थानि पदानि सुप्तिङन्तरूपाणि यस्मिन् कर्मणि तत् । उदितानि उदीरितानि उद्गीतानि उत्कृष्टगानानि यैः । 'गीतं गानमिमे समे' इत्यमरः । 'शेषाद्विभाषा' (अ.सू. ५.४.१५४) इति कप्प्रत्ययः । तैस्तथोक्तैः । सुन्दरीणां सुराङ्गनानां[^१] वृन्दैः समूहैः । आवन्द्याः आ समन्तात् सेव्याः । मुक्ताः प्राप्तमुक्तयः । 'मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्तौ च मोचिते' इति यादवः । इन्दुश्चन्द्रः । अहिमगुः सूर्यः । मदनो मन्मथः । अहीन्द्रः शेषः । देवेन्द्रः सुरपतिश्च । तैः[^२] सेव्ये भजनीये । अस्मिन् मुक्तास्पदत्वेन प्रस्तुते । मौकुन्दे, मुकुर्मोक्षः, तं ददातीति तस्य[^३] विष्णोः सम्बन्धिनि । 'तस्येदम्' (अ.सू. ४.३.१२०) इत्यण् प्रत्ययः । मन्दिरे वैकुण्ठे मन्दमन्दाः अतिशयेन मन्दाः । 'नित्यवीप्सयोः' (अ.सू.८.१.४) इति द्विर्वचनम्[^४] । कुन्दानि माघ्यानि । अल्पमल्लिकापुष्पाणीत्यर्थः । मन्दाराणि मन्दाराख्यविशेषकुसुमानि[^५] । 'फले लुक्' (अ.सू.४.३.१६३) इति लुक् । नन्द्यावर्तानि नन्दिवर्धनकुसुमानि । तेषामामोदाः गन्धाः । 'आमोदो गन्धहर्षयोः' इति विश्वः । तान् दधानाः वहन्तः मरुतः वायवः । अविरतमनारतं[^६] [^१] 'सुन्दराङ्गनानाम्' इति पा.। [^२] 'एतैः' इति पा. । [^३] 'तं ददाति यस्तस्य' इति पा. । [^४] सूत्रे नित्यपदोदितमाभीक्ष्ण्यमर्थादाधिक्ये पर्यवस्यतीति भावः। तथाहि भारविः-- 'मन्दमन्दमुदितः प्रययौ स्वं भीतभीत इव शीतमयूखः' (किरात.९.२६) इति । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन द्विर्वचनमित्येके । अप्रसिद्धेस्तादृशवार्तिकस्यैवाभाव इत्यपरे । मन्देभ्योऽपि मन्दा मन्दमन्दा इति समाधेयमित्यन्ये । तेन मान्द्ये स्फुटमतिशयोऽवगम्यते । यथाऽह ज्ञानेन्द्रसरस्वती– 'भीतेभ्योऽपि भीत इति कथञ्चिद् व्याख्येयम् । तेनातिभीत इति फलितम्' इति । [^५]'कुन्दानि (कुन्द) कुसुमानि । मन्दराणि मन्दारकुसुमानि' इति पा. । [^६]'अरिरतमनवरतम्' इति पा. । यथा भवति तथोदयन् उद्गच्छन् मोदः आनन्दः एषामस्तीति तेषाम् । 'अत इनिठनौ' (अ.सू.५.२.११५) इति मत्वर्थीय इनिप्रत्ययः । ननु 'न बहुव्रीहि- निर्वाह्ये भवन्ति मनुबादयः' इति प्रतिषेधादिना न भवितव्यम्[^१] । नैष दोषः[^२] । प्रतिषेधस्य प्रायिकत्वात् । प्रयोगबाहुल्याच्च । तथा मुरारिणा प्रायोजि- 'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' (अनर्घराघव.१.१.)' इति[^३] । सम्प्रदानस्य शेषत्वविवक्षायां षष्ठी । यथा कादम्बर्य्याम्– 'अनुकरोति स्म भगवतो नारायणस्य' इति कर्मणः शेषत्वविवक्षायां षष्ठी । आनन्दान् सुखानि ददति वितरन्ति हि । हिशब्दः प्रसिद्धौ । ददातेर्जुहोत्यादिकात् 'अदभ्य- स्तात्' (अ.सू.७.१.४) इत्यदादेशे लटि रूपम् ॥ १० ॥ (स्तुतिचं.) मृदुपदं गानोचितकोमलाक्षरं उदितानि अन्तःस्फुरणेन स्वयमुद्गतानि उच्चगीतानि येषां तैः सुन्दरीणां वृन्दैः । मृदुपदानि अन्तर्मोदेन उद्गतानि गीतानि वा । वृन्दैरावन्द्यैः स्तूयमानैः मुक्तैरिन्द्वादिभिः सेव्ये मुकुन्दमन्दिरे वैकुण्ठे । अहिमगुस्तिग्मांशू रविः । अहीन्द्रः शेषः । मुकुर्मुक्तिः । शकुः शक्तिरिति यथा । तथाहि भारते - 'हिरण्मये शकुनी' इति । शकुं शक्तिं नयत इति हि शकुनी । तद्दानान्मुकुन्दः । तल्लोके नित्याभिव्यक्तानन्दशालिनां मुक्तानां मन्दमन्दा मरुतः आनन्दान् ददति । नानाविधसुमनसामामोदान् दधानाः । 'आमोदः स्यात् परिमळ: सौरभ्यं च सुगन्धिका' इति च । मन्दमन्दा मन्दप्रकारा मन्दतरा वा । आधिक्येऽपि द्वे वाच्ये ॥ १० ॥ उत्तप्ताऽत्युत्कट - त्विट् प्रकट कट कट ध्वान सङ्घट्टनोद्यद्विद्युद्-व्यूढ-स्फुलिङ्ग-प्रकर - विकिरणोत्काथिते बाधिताङ्गान् । [^१] इनिप्रत्ययेन न भवितव्यमित्यर्थः । [^२] 'न दोषः' इति पा. । [^३] ननु कोकप्रीतिचकोरपारणयोः पटुनी ज्योतिष्मती चेति विशेषणसमासे नैष दोषः । अस्वरसमिदं व्याख्यानम् । अथापि यद्यागृह्यते तर्हि 'बिसकिसलयच्छेदपाथेयवन्तः' इत्यादिकमुदाहर्तव्यम् । तथा च महाभारते – 'विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजा:' (वनप. २४.२१) इति । उद्गाढं पात्यमाना तमसि तत - इतः किङ्करैः पङ्किले ते पग्रिव्णां गरिम्णा ग्लपयति हि भवद् द्वेषिणो विद्वदाय ॥ ॥ ११ ॥ (कविक.) एवं तद्भक्तिमतां गतिमुक्त्वा तद्वेषिणामन्धतमसदुःखप्राप्तिमाह– उत्तप्तेति । हे विद्वदाद्य विदुषां प्राथमिक[^१]। उत्तप्ता सन्तप्ता । अत्युत्कटत्विट् । अत्यर्थमुत्कटाः त्विषः यस्याः सा । अत्युल्बणकान्तिः । ते तव किङ्करैर्भृत्यजनैः । ततइतः समन्तात् । उद्गाढमुच्चैर्दृढं यथा भवति तथा । पात्यमाना प्रक्षिप्यमाणा । ग्राव्णां पाषाणानाम् । 'पाषाणप्रस्तरग्रावोपलाइमानः शिला दृषत्' इत्यमरः । पङ्क्तिः परम्परा । प्रकट: प्रस्फुटः । कटकट इत्ययमनुकारशब्दः[^२] । स एव ध्वानो ध्वनिर्यस्मिन् कर्मणि तत् । सट्टनं सङ्घर्षणम् । तेनोद्यन्त्यः विद्युतः येषां ते उद्यद्विद्युतः उद्गच्छत्प्रभाः । व्यूढस्फुलिङ्गाः पुञ्जीभूताग्निकणाः[^३] । तेषां प्रकरः समूहः । तस्य विकिरणं विशेषेण प्रसरणम् । तेन उत्क्वाथिते उच्चैः सन्तापिते । पङ्किले कर्दमवति । पिच्छादित्वादिलच् । तमसि महानरके । बाधिताङ्गान् । पीडितावयवान् । भवति त्वयि द्वेषिणो द्वेषवतः । गरिम्णा गुरुत्वेन ग्लपयति ग्लानिं प्रापयति हि । 'घटादयो मितः' (गणसू.भ्वा.५५३) इति मित्सञ्ज्ञायां 'मितां ह्रस्वः' (अ.सू. ६.४.९२) इति ह्रस्वत्वम् । द्वेषा नवविधाः– 'जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा । 'साम्याधिक्ये तदन्येषां भेदस्तगत एव च ॥ 'प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च । 'तप्रमाणस्य निन्दा च द्वेषा एतेऽखिलाः मताः' इति । [^१] 'पण्डितानां प्रथमक' इति पा. । [^२] '– करणशब्दः' इति पा. । [^३] 'पुञ्जीभूता अग्निकणाः । अत्र कर्मधारयः' इति पा. । श्रीविष्णुवैष्णवद्वेषिणां तेषां[^१] दुःखोत्तरेऽन्धे तमसि नित्यं निवास[^२] इति भावः ॥ ११ ।॥ ( स्तुतिचं.) सात्विकनामुक्ता स्थितिः प्राणशरणानाम् । तद्द्वेषिणां तामसानामुच्यते । उत्कटं तप्ता, अत एवात्युद्वणद्युतिः । तव किङ्करैरितस्ततः उद्गाढं दृढं पात्यमाना ग्राव्णां पङ्क्तिः पाषाणपरम्परा । गरिम्णा स्थौल्येन ग्लपयति क्लेशयति भवद्वेषिणस्तामसान् । ग्लै हर्षक्षये । "शिलोप- लाश्मपाषाणग्रावाणः प्रस्तरो दृषत्' इति च । प्रकटकटकटध्वानं ग्राव्णां परस्परं सङ्घट्टनेनोद्यन्तीनां विद्युतां व्यूढेन विपुलेन स्फुलिङ्गप्रकराणां विकिरणेन उत्क्वाथिते तमसि नित्यनरके पीडिताङ्गान् । 'महद् विशालं च व्यूढं विपुलम्' इति, 'स्फुलिङ्गाश्च कणाः' इति च । क्वथे पाके ॥ ११ ॥ अस्मिन्नस्मद्-गुरूणां हरि-चरण - चिर-द्ध्यान-सन्मङ्गलानां युष्माकं पार्श्व-भूमिं धृत- रणरणिक- स्वर्गि-सेव्यां प्रपन्नः । यस्तूदास्ते स आस्तेऽधि-भवमसुलभ-क्लेश-निर्म्मोकमस्त- प्रायानन्दं कथञ्चिन्न वसति सततं पञ्च-कष्टेऽति कष्टे ॥ १२ ॥ (कविक.) य आचार्यसम्प्रदायार्थमुपगतोऽपि समयनियताचार औदासीन्यं करोति स संसृतौ वर्तते न कदाचिन्नरकविशेष इत्याह- अस्मिन्निति । अस्मद्गुरूणामस्मदाचार्याणाम् । हरेः श्रीविष्णोश्चरणौ पादौ । तयोश्चिरध्यानं निरन्तरविचारः । तेन सन्मङ्गलानाम् उत्कृष्टशुभानां (युष्माकम् ) । धृता रणरणिकाऽभिलाषो यैस्तैः । स्वर्गिभिः देवैर्मनुष्योत्तमैश्च । स्वर्गिपदस्य मनुष्योत्तमानां चोपलक्षणत्वात् । सेव्यां सेवनीयाम् । पाश्र्वभूमिं समीपप्रदेशम् । अस्मिन् लोके (यः पुरुषः) प्रपन्नः प्राप्तोऽप्युदास्ते उपेक्षते । समयनियताचारान्न करोतीत्यर्थः । स पुमान् । असुलभो दुर्लभ: क्लेशनिर्मोको [^१] 'विष्णुवैष्णवद्वेषिणस्ते येषाम्' इति पा. । [^२] 'नित्यनिवासः' इति पा । दुःखत्यागः यस्मिन् कर्मणि तत् । (अस्तप्राय: आनन्द: यस्मिन् कर्मणि तत्)[^१] वैषयिकसुखस्य दुःखानुषङ्गाद्दुःखमेव । अधिभवं भवे संसारे । 'अव्ययं विभक्ति - ' (अ.सू.२.१.६) इत्यादिना विभक्त्यर्थेऽव्ययीभावः । सततं निरन्तरम् । आस्ते तिष्ठति । समयाचारराहित्यादिति भावः । अतिकष्टेऽतिदुःखावहे पञ्चेन्द्रियाधारा रूपरसादयः कष्टा असह्या यस्मिंस्तस्मिन्नरकविशेषे कथञ्चित्केनापि प्रकारेण । न वसति वासं न करोति । विष्णुवैष्णवद्वेषाभावादित्यर्थः । अथवा पाश्र्वभूमिं प्रपन्नोऽपि यस्तूदास्ते । तत्वज्ञानं न गृह्णाति सोऽधिभवमास्ते । तादृशस्य मध्यमजीवत्वात् । तदुक्तम्– 'मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि' इति । एवञ्चातिकष्टे पञ्चकष्टे कथञ्चित्केनापि प्रकारेण न वसति । न वसत्येवेत्यर्थः । तथाविधस्याऽसुरत्वात् । तदुक्तम्-'असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् । 'यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम्' इति ॥ १२ । (स्तुतिचं.) अथ नित्यसंसारिणां राजसानां गतिः । हरिचरणयोः निरन्तरध्यानेन समस्तकल्याणभाजां मद्गुरूणाम् । आत्मनि गुरौ च बहुवचनम् । अस्माकं समस्तसात्विकानां वा गुरूणाम् । रणरणिका रणरणकमौत्सुक्यम् । धृतोत्साहैः स्वर्गिभिर्देवैरपि सेव्याम् । 'उत्कलिका रतिश्च रणरणकम् । औत्सुक्यम्' इति च । पार्श्वभूमिं प्रपन्नोऽपि योऽस्मिन् लोके तत्वमार्गे वा उदास्ते । सः अधिभवं भव एवाऽस्ते । असुलभक्लेशनिर्मोकमस्तप्रायानन्दं चेति क्रिया- विशेषणे । कष्टयतीति कष्टम् । कष्ट प्रतिघाते । पञ्चभिरपीन्द्रियैः कष्टमेव, पञ्चापीन्द्रियविषयाः कष्टा एव वा यत्र तस्मिन् पञ्चकष्टे महातमसि कथञ्चिन्न वसति द्वेषाभावात् । भक्तिर्मुक्तिम्, द्वेषस्तमः, औदासीन्यं संसारं च गमयतीत्येतत् ॥ १२ ॥ [^१] इदं वाक्यं मूलकोशे लुप्तम् । क्षुत्-क्षामान् रूक्ष-रक्षो-रद- खर-नखर- क्षुण्ण - विक्षोभिताक्षान् आमग्नानन्ध-कूपे क्षुर-मुख-मुखरैः पक्षिभिर्विक्षताङ्गान् । पूयासृङ्गूत्र-विष्ठा-कृमि-कुल- कलिले तत्-क्षण - क्षिप्तशक्त्या- यस्त्र-त्रातार्द्दितांस्त्वद् - द्विष उप जिहते वज्र - कल्पा जलूकाः ॥ ॥ १३ ॥ (कविक.) असुरा[^१] अन्धे तमसि[^२] दुःखमनुभवन्तीत्युक्तम् । किं तदन्धतमसम्? किं तद् दुःखम् ? इत्याशङ्क्य[^३] तयोः स्वरूपं निरूपयति–क्षुत्क्षामानिति । क्षुधा बुभुक्षया क्षामान् क्षीणान् । क्षैधातोः 'क्षायो मः' (अ.सू.८.२.५३) इति निष्ठामत्वम् । रूक्षाणां क्रूराणां रक्षसां राक्षसानां रदाः दन्ताः । खरनखरा कराळनखाश्च । 'नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । तैः क्षुण्णानि चूर्णीकृतानि । क्षुदिर् सञ्चूर्णने[^४] इति धातोः 'रदाभ्याम् ' (अ.सू.८.२.४२) इत्यादिना निष्ठानत्वम् । विक्षोभितानि विशेषेणाऽकुलीकृतानि अक्षीणि चक्षूंषि येषां तांस्तथोक्तान् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्–'(अ.सू.५.४.११३) इति[^५] समासान्तः षच् । पूयः[^६] रक्तपरिणामः । असृक् रक्तम् । 'रुधिरेऽसृग् लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । मूत्रं प्रस्रावः । 'मूत्रं प्रस्राव उच्चारः' इत्यमरः[^७] । विष्ठा [^१] 'दैत्याः' इति पा. । [^२] 'अन्धतमसि' इति पा. । [^३] श्रोत्राशङ्कां स्वस्मिन्नारोप्य निरूपयतीति भावः । अथवा 'किं तद्दुःखमिति श्रोतार: शङ्केरन् इत्याशङ्क्य तत्स्वरूपं निरूपयति' इत्यध्याहारेण योजना । [^४] 'क्षुदिर् क्षये' इति पा. । 'क्षुदिर् सम्पेषणे' इति प्रचलितो धातुपाठः । [^५] 'सक्थ्यक्ष्णोः इत्यादिना समासान्तः' इति पा. । [^६] पूयमिति युक्तम् । लिपिकृत्प्रममाद। [^७] 'मूत्रं प्रस्नावः' इतीयदेव प्रकृतोपयोगीति भाति । उच्चारपदस्य 'अवस्करः शमलं शकृत्' इत्युत्तरा- न्वयात् । नव्यास्तु 'उच्चारावस्कारौ' इति समस्तमुत्तरान्वयित्वेन पठन्ति । अत एव पुरुषोत्तमोऽप्याह- 'उच्चारस्तु पुरीषण:' इति। तथाऽपि उत्सर्गोच्चारपदयोर्मूत्रपुरीषोभयपरत्वं न्याय्यम् । उभयत्रापि प्रयो- गदर्शनात् । तथाहि भारते– 'दाने तपसि सत्ये च यस्य नोच्चरितं यशः । विद्यायामर्थलाभे च मातुरुच्चार एव सः' (उद्योग.१३३.२४) इति । नचात्र शकृत्परतयाऽपि सावकाशता । मूत्रमिति हि निर्गमनस्था- नैक्यात्स्वरसोऽर्थः । तथाहि लक्षालङ्कारे– 'मातुरुच्चार एव स इत्यत्र उच्चारो मूत्रम्' इति । विट्। 'विष्ठाविशौ स्त्रियौ'[^१] इत्यमरः । कृमिकुलानि कीटसमूहाः । एतैः कलिले बुद्बुदे । अन्धकूपे अन्धतमसान्धौ । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । आमग्नान् आ समन्तान्निमग्नान् । क्षुरः वपनसाधनशस्त्रम्[^२] । तद्वन्मुखानि येषां तैः । मुखरैर्वाचालैः । पक्षिभिः शकुन्तविशेषैः । विक्षताङ्गान् विदीर्णावय- वान्[^३] । तस्मिन् क्षणे क्षिप्तानि प्रेरितानि । शक्तिः कासूनामायुधविशेषः । 'कासूसामर्थ्ययोः शक्तिः' इत्यमरः । साऽऽदिर्येषां तानि (अस्त्राणि) आयुधानि । तेषां व्रातः समूहः । तेनार्दितान् पीडितान् । त्वविषस्तव द्वेषिणः । वज्रकल्पा ईषदसमाप्तवज्राः । 'ईषदसमाप्ती कल्पप्देश्यदेशीयरः' (अ.सू.५.३.६७) इति कल्पप् प्रत्ययः । जलूकाः रक्तपाः । जलमोको येषां ते[^4] । पृषोदरादित्वात् साधुः । 'रक्तपा तु जलूकायां स्त्रियां भूम्नि जलौकसः' इत्यमरः । उपजिह्ते समीपं गच्छन्ति । समीपं गत्वा विध्यन्तीत्यर्थः । ओहाङ् गतावित्यस्माज्जुहोत्यादिकात् लटि प्रथमपुरुषबहुवचने 'भृञामित्' (अ.सू.७.४.७६) इत्यभ्यासस्येत्वे कृते 'अदभ्यस्तात्' (अ.सू.७.१.४) इत्यदादेशे रूपम् ॥ १३ ॥ (स्तुतिचं.) तामसानां गतिरतिकष्टेत्याम्रेडयति- क्षुत्क्षामान् । क्षुधा क्षामान् । 'जिघत्साक्षुत्क्षुधाः समाः' इति 'क्षामं शान्तं कृशं क्षीणम्' इति च । रूक्षाणां रक्षसां रदै: प्रखरनखरैश्च क्षुण्णे विक्षोभिते चाक्षिणी येषाम् । 'एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः' इति, 'तीव्रं तिग्मं खरं तीक्ष्णम्' इति च । क्षुदिर् सम्पेषणे । क्षुभ सञ्चलने । अन्धतमसाख्येऽन्धकारमये कूपे । क्षुरवत् तीक्ष्णं मुखं चञ्चुर्येषाम् । ते च ते मुखराश्च कर्कशं रुवन्तः । 'दुर्मुखो मुखरः स्मृतः' इति च । तत्प्रमुखैर्वा पक्षिभिः । पूयम्, 'ಕೀವು' इति भाषायाम् । पूयेन शोणितेन मूत्रविष्ठाभ्यां क्रिमिकुलेन च सङ्कुले । 'रुधिरमसृक् शोणितं च रक्तं स्यात्' इति, 'विष्ठा पुरीषम्' इति, [^१] 'स्त्रियाम्' इति पा. । [^२] 'वपनसाधनास्त्रम्' इति पा । [^३] 'विशीर्णावयवान्' इति पा. । [^४] 'यासां ताः' इति वक्तव्यम् । लिपिकृतां प्रमादः । 'कलिलं गहनं प्रोक्तम्' इति च । व्रणादुद्गतं कपूयं वा शोणितं पूय- शोणितमुच्यते । 'पूयशोणितमत्ति सः' इति प्रयोगात् । जलूकाः 'ಜಿಗಣೆ' इति भाषायाम् । 'जलूकाः स्युर्जलौकसः' इति च । उपजिहते दिदंशयिषया कायमाक्रम्य उपर्युपरि गच्छन्ति । ओहाङ् गतौ ॥ १३ ॥ मातर्म्ये मातरिश्वन् पितरतुल-गुरो भ्रातरिष्टाऽप्त-बन्धो स्वामिन् सर्वान्तरात्मन्नजर जरयितर्ज्जन्म-मृत्यामयानाम् । गोविन्दे देहि भक्तिं भवति च भगवन्नूर्ज्जितां निर्न्निमित्तां निर्व्याजां निश्चलां सद्गुण-गण-बृहतीं शाश्वतीमाशु देव ॥ १४ ॥ (कविक.) यद्यपि मूर्धनीत्यतीतश्लोके सामान्यतो भक्तिरभ्यर्थिता । तथाऽप्यतृप्ततया तामेव विशिष्य पुनः प्रार्थयते -- मातरिति । हे मातः अम्ब । पितः जनक । अतुलगुरो समानरहितगुरो । भ्रातः सोदर । इष्ट प्रिय । आप्तबन्धो आप्तबान्धव । स्वामिन् शास्तः । सर्वान्तरात्मन् सर्वान्तर्यामिन्' । अजर अविद्यमानजर । जन्ममृत्यामयानां जननमरणव्याधीनां जरयितः मारयितः । भगवन् षड्गुणैश्वर्यसम्पन्न । देव ज्ञानादिगुणक । हे मातरिश्वन् मुख्यप्राण । मे मम । ऊर्जितां प्रवृद्धाम् । निर्निमित्तां निरुपाधिकाम् । निर्व्याजां अनन्यमुखप्रसादार्थाम् । सद्गुणाः माहात्म्यज्ञानादयः, तेषां गणः । तेन बृहतीं महतीम् । शाश्वतीं नित्याम् । एवंविशिष्टां भक्तिं गोविन्दे विष्णौ भवति त्वयि च आशु अविलम्बेन देहि प्रदिश । इष्टदेवतागुरुभक्तेः[^२] सकलपुरुषार्थहेतुत्वात्[^३] । तदुक्तं गीतायां भगवता श्रीकृष्णेन[^४] 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। 'ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप ' इति । [^१] हेतुगर्भं विशेषणम् । सर्वान्तर्यामित्वादेव त्वं माता पिता गुरुर्भ्राता बन्धुश्च सर्वेषां भवसि । [^२] क्वचित् 'देवतागुरुभक्तेः' इतीयदेव पठ्यते। [^३] '–पुरुषार्थसाधनत्वात्' इति पा. । [^४] 'भगवता कृष्णेन' इति पा.। 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । 'तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति श्रुतिश्च ॥ १४ ॥ (स्तुतिचं.) मातरि वेदवाचि इवयति सञ्चरति निरायासमिति मात- रिश्वा । जगन्निर्मातरि सदा मनसा सञ्चरति वा । मातरि विहायसि वर्धते वा । टुओ श्वि गतिवृद्ध्योः । जरयिता विहापयतीति । इतरदेवतासु यादृशी तत ऊर्जिताम् । निर्निमित्तामहैतुकीम्, स्वभावसहजाम् । अफलापेक्षया निर्व्याजां प्रोज्झितकैतवाम्, अडाम्भिकीं वा । ज्ञानवैराग्यादिगुणगण- बृंहिताम् । श्रूयते च–-'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ' इत्याद्या श्रुतिः॥ १४ ॥ विष्णोरत्युत्तमत्वादखिल-गुण-गणैस्तत्र भक्तिं गरिष्ठा- माश्लिष्टे[^१] श्री-धराभ्याममुमथ परिवारात्मना सेवकेषु । यः सन्धत्ते विरिञ्चि-श्वसन-विहग-पानन्त-रुद्रेन्द्र-पूर्वे- ष्वा-ध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्-गुरुस्तम् ॥ ॥ १५॥ (कविक.) गुरुदेवताभक्तेः सकलपुरुषार्थसाधनत्वादवश्यमनुष्ठेयत्वमुक्तम् । कथमनुष्ठानक्रमः, किं तस्य फलमित्यत आह विष्णोरित्यादिना । यः अखिलगुणगणैः सकलज्ञानानन्दादिकल्याणगुणसमूहैः[^२] विष्णोः श्रीनारायणस्य अत्युत्तमत्वात् समाधिकरहितत्वेन सर्वोत्कृष्टत्वात् । श्रीधराभ्यां लक्ष्मीक्षोणीभ्यां आश्लिष्टे अलिङ्गिते[^३] विष्णौ । गरिष्ठां अतिगुर्वीं भक्तिं सन्धत्ते सम्यग्दधाति । अथ अनन्तरं अमुं श्रीविष्णुं प्रति । अत्र प्रतिशब्दोऽध्याहर्तव्यः[^४] । अन्यथा 'कर्तृकर्मणोः कृति' (अ.सू.२.३.६५) इति कर्मणि षष्ठी [^१] 'गरिष्ठां संश्लिष्टे' इति पा । [^२] '–गुणगणैः' इति पा. । [^३] 'संश्लिष्टे आलिङ्गिते' इति पा । [^४] 'अध्याहार्यः' इति पा । प्राप्नोति । प्रतिशब्दयोगे तु 'अभितः परितः समयानिकषाहाप्रतियोगेऽपि'[^१] (वा.२.३.२) इति तदपवादिका द्वितीयैव भवति । परिवारात्मना परिवा- ररूपेण सेवकेषु सेवां कुर्वाणेषु । विरिञ्चिर्ब्रह्मा । इवसनो मुख्यप्राणः[^२] । विहगपो गरुडः । अनन्तः शेषः । रुद्रो मृङः । इन्द्रो देवेन्द्रः । एते पूर्वाः मुख्या येषां तेषु सुरेषु । तारतरम्यं उच्चनीचत्वं आध्यायन् जानानः । भक्तिं सन्धत्ते सम्यक्कुरुते । तं अस्मद्गुरुः वायुः श्रीमुख्यप्राणः स्फुटं व्यक्तं अवति रक्षति । 'तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा' इत्ययमर्थोऽत्राव- गन्तव्यः ॥ १५ ॥ (स्तुतिचं.) अष्टाक्षरवरिवस्यां मनस्याधायाऽह - विष्णोः। श्रीधराभ्यामाश्लिष्टे तत्र विष्णौ । स्मरन्ति च – 'लक्ष्मीधराभ्यामाश्लिष्टः' इति । अनुं अस्य । अमुं प्रतीत्यध्याहारेण योजनीयमित्यप्याहुः । परिवारभावेन सेवमानेषु विरिञ्चा- दिषु । 'धर्मः स्वभाव आत्मा स्यात्' इति च । विहगपो गरुत्मान् । स्मरन्ति च - 'ब्रह्मवायुशिवाहीशविः शक्रादिकैरपि सेव्यमानः' इति । तेषु तारतम्यं चिन्तयन् तदनुगुणं भक्तिं सन्धत्ते ॥ १५ ॥ तत्व-ज्ञान् मुक्ति-भाजः सुखयसि हि गुरो योग्यता-तारतम्या- दाधत्से मिश्र-बुद्धींस्त्रिदिव-निरय-भू-गोचरान्नित्य-बद्धान् । तामिस्रान्धादिकाख्ये तमसि सु-बहुलं दुःखयस्यन्यथा-ज्ञान् विष्णोराज्ञाभिरित्थं श्रुति-शतमिति-हासादि चाऽकर्णयामः ॥ ॥ १६ ॥ (कविक.) त्रिविधानां जीवसङ्घानां यथायोग्यं मोक्षस्वर्गनिरयान्धतमसानां प्रदाता त्वमिति विज्ञापयति तत्वज्ञानिति । हे गुरो, विष्णोराज्ञाभिः [^१] भट्टोजिदीक्षितप्रभृतिभिरादृतोऽयं वार्तिकपाठः । जयादित्यस्तु - 'अभितः परितःसमयानिकषाहाप्रतियोगेषु च दृश्यते' इति पाठं पपाठ । क्वचित् कोशे तु 'अभितःपरितःसमयानिकषाहाऋतेप्रतियोगेऽपि च दृश्यते' इति वार्तिकं पठ्यते । 'ऋतेयोगे द्वितीयाऽपि' इति व्याकरणान्तरसाङ्कर्येणायं पाठः । [^२]. इतः परम् 'श्वसनः स्पर्शनो वायुरित्यमरः' इत्यधिकं क्वचित् । तत्वज्ञान् सम्यग्ज्ञानवतः मुक्तिभाजः कृत्वा । तत्रापि योग्यतातारतम्यात् तैत्तिरीयोपनिषदि 'भीषाऽस्मात्' इत्यनुवाके - 'स एको मानुष आनन्दः ' इत्यारभ्य 'स एको ब्रह्मण आनन्दः' इत्यन्तैरेकत्रिंशद्वाक्यैर्मुक्तानामपि यदानन्दतारतम्यमुक्तं तदनुसारेण सुखयसि आनन्दयसि । मिश्रबुद्धीन् मिश्रज्ञानिनः नित्यबद्धान् नित्यसंसारिणः त्रिदिवनिरयभूषु गोचरान् परिदृश्यमानान् आधत्से । आङ्पूर्वात् 'डुधाञ् धारणपोषणयोः' इत्यस्माद् धातोर्लट् । स्वर्गनरकभूभागिनः करोषीत्यर्थः । अन्यथाज्ञान् मिथ्याज्ञानिनः तामिस्रान्धादिकाख्ये तामिस्रमन्धतामिस्रमित्याद्यनेकाभिधानवति[^१] तमसि सुबुहलं अत्यर्थं दुःखयसि क्षुत्क्षामेत्यादिश्लोकोक्तप्रकारेण बाधस इत्यर्थः । इत्थं अनेन प्रकारेण । 'वायुना हि सर्वे लोका नेनीयन्ते' इत्यादि श्रुतिशतम्– 'धर्मश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम् [^२] । 'त्वदायत्तमिदं सर्वं सर्वलोकस्य भारत' इत्यादीतिहासः, आदिशब्देन पुराणधर्मशास्त्रादिकं च आकर्णयामः शृणुमः । यद्यपि- 'सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्। 'मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा' इति श्रीविष्णोरेव मोक्षादेर्दातृत्वम् । तथाऽपि 'विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया' इति वायोरपि श्रीविष्णोराज्ञया मोक्षदातृत्वमस्तीत्यवगन्तव्यम् । अत्र तत्वज्ञानादयः प्रविभज्य प्रदश्र्यन्ते । नित्यास्तावदनन्ता जीवा देवमानुषासुरभेदेन त्रिविधाः । तेषां कर्माणि प्रकृतयश्चानन्ताः । तत्र देवा नित्यानन्दज्ञानबलतारतम्या मुक्तियोग्याश्च । मानुषास्तूत्तमादिभेदेन त्रिविधाः। तत्र मनुष्योत्तमा देवकल्पाः । मध्यमा[^३] नित्यसुखदुःखात्मकसंसृतियोग्याः । मनुष्याधमा नित्यनिरयाः । असुरा नित्यदुःखात्मकाः । एते प्रकृतिसम्बन्धो [^१] 'तामिस्रान्धतामिस्राद्यनेकाभिधानवति' इति पा. । [^२] 'मोक्षश्चैव ध्रुवं त्वया' इति पा. । [^३] 'मनुष्यमध्यमाः' इति पा. । पाधिप्रयुक्तान्यथाभावाभावे आत्मयोग्येन विज्ञानेन निजरूप एवावतिष्ठन्ते । प्रपञ्चोऽपि सत्यः प्रवाहरूपेण नित्यः पञ्चभेदविशिष्ट इति । एतस्य चिद चिदात्मकप्रपञ्चस्योदयलयविभवानां निमित्तकारणभूतः, [^१]सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यनेकोदारगुणः, सर्वदा सर्वजीवादिभ्योऽत्यन्तभिन्नः, सर्वदोषविवर्जितः, परिपूर्णज्ञानानन्दाद्यनन्तकल्याणगुणमूर्तिर्भगवान् विष्णुरिति ये जानन्ति ते तत्वज्ञाः । ऐक्यावबोधकं तत्त्वमस्यादिवाक्यं सत्यम्; स्वाभाविकनित्यनिरतिशयापरिमितोदारगुणमपि ब्रह्मैव सुरवरनरतिर्यक् स्थावरनारकिस्वर्गापवर्गिचेतनेषु स्वभावतो विलक्षणमविलक्षणं च वियदादिनानाविधमलरूपपरिणामास्पदं चेति ये विजानन्ति ते मिश्रबुद्धयः[^२] । निर्विशेषज्ञानमात्रमेव ब्रह्म । तच्च नित्यमुक्तस्वप्रकाशस्वभावमप्यविद्यापरिणतं संसरति । तदतिरिक्तेश्वरेशितव्याद्यनन्तविकल्पस्वरूपं कृत्स्नं जगन्मिथ्या । कश्चिद्वद्धः कश्चिन्मुक्त इतीयं व्यवस्था न विद्यते । इतः पूर्वं केचिन्मुक्ता इत्ययमर्थोऽपि मिथ्या । एकमेव शरीरं सज्जीवम्[^३] । निर्जीवानीतराणि स्वप्नदृष्टशरीरवत्[^४] । तच्छरीरं किमिति न व्यवस्थितम् । आचार्यो ज्ञानस्योपदेष्टा मिथ्या । शास्त्रं च मिथ्या । [^५]शास्त्रप्रमाता च मिथ्या । शास्त्रजज्ञानं च मिथ्या । एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति ये मन्यन्ते ते विवरणमतानुसारिणोऽन्यथाज्ञाः । अनाद्यनिर्वाच्यमिथ्या [^६]समस्तोपाधिविधुरानन्तानन्दाद्वितीयचैतन्यैकरसात्मनाऽपह्तपाप्मत्वाद्यशेषोपनिषद्घोषितमध्यात्मतत्वं प्रादेशिकमनेकदुःखसङ्करोपप्लुतं कर्तृत्वभोक्तृत्वाद्याकारविशेषास्पदं नानाविधमलरूपपरिणामा [^१] 'सर्वज्ञः सत्यकामः सत्यसङ्कल्पत्वा-' इति पा. । [^२] 'मिथ्याबुद्धयः' इति सर्वत्र कोशेषु पठ्यते । लिपिकृतां भ्रान्तिरेवेयम् । तत्वज्ञान्, मिश्रबुद्धीन्, अन्यथाज्ञानिति मूलोक्तत्रिविधस्वभावविवरणपरं हीदं व्याख्यानम् । तत्र मिथ्याबुद्धय इति पाठे प्रकृतपरित्यागः अप्रकृतस्वीकारश्च स्याताम्, मूलं न यथावद् विवृतं भवति । एतेन मिश्रबुद्धय इति भेदाभेदवादिनो भास्करादयः कटाक्षीक्रियन्ते । [^३] जीवोपेतमित्यर्थः।'सजीवम्' इति मूलपाठः स्यात् । [^४] 'स्वप्नदृष्टान्तशरीरवत्' इति पा. । [^५] 'प्रमाता च मिथ्या' इतीयदेव पा. I [^६] 'अनाद्यनिर्वाच्याविद्या-' इति पा. । स्पदं च दर्शयति जपाकुसुममिव सन्निहितमलीकमेव लौहित्यं स्फटिकस्येति ये मन्यन्ते ते वाचस्पतिमतानुसारिणोऽन्यथाज्ञाः । एतद्दुर्मतखण्डनप्रकारस्तु अप्रकृतत्वात् स्तोत्रव्याख्याने न लिख्यते ॥ १६ ॥ (स्तुतिचं.) योग्यतातारतम्यमपेक्ष्य यथायोग्यं मुक्तौ सुखयसि । मिश्रबुद्धीनपि यथायोग्यं नाकनरकभूगोचरानाधत्से विदधासि । तामिस्रान्धतामिस्रादि- नामनि महानरके यथायोग्यमन्यथाज्ञानिन उत्तरोत्तरं दुःखयसि । तदपि विष्णोराज्ञाभिः । न स्वयं रागद्वेषदुराग्रहग्रहग्रस्ततया । उक्तं हि–'वायुश्च तदनुज्ञया' इति । इत्थमुद्घोषयत् श्रुतिशतमितिहासमादिपदेन पुराणानि चाऽकर्णयामः ॥ १६ ॥ वन्देऽहं तं हनुमानिति महित-महा-पौरुषो बाहु-षाळी ख्यातस्तेऽग्य्रोऽवतारः सहित इह बहु-ब्रह्म-चर्य्यादि-धर्म्मैः । सस्नेहानां सहस्वानहरहरहितं निर्द्दहन् देह-भाजा- मंहो-मोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७ ॥ (कविक.) इतः परं पञ्चश्लोक्या वायोरादिमे हनुमदवातारेऽद्भुतव्यापारान् वर्णयति –- वन्देऽहमिति । हे श्रीवायो, महितं सम्भावितं महापौरुषं महापुरुषकर्म यस्य सः । बाहुभ्यां शालते शोभत इति बाहुशाली । अतिशयबाहुबलपराक्रम इत्यर्थः । बहुभिः, ब्रह्मचर्यं आदिर्येषाम्, आदिशब्देन सत्यादीनां ग्रहणम्, तैः धर्मैः सहितः समेतः । सस्नेहानाम्- स्नेहो भक्तिः तेन सह वर्तन्ते ये तेषां भक्तिमताम् । देहभाजां प्राणिनाम् । अहितं अनिष्टम्, अहरहः प्रतिदिनम् । 'नित्यवीप्सयोः' (अ.सू.८.२.४ ) इति द्विवचनम्[^१] । निर्दहन् भस्मीकुर्वन् । अंहः दुरितम् । 'अंहोदुरितदुष्कृतम्' इत्यमरः । मोहः अज्ञानम् । तावपहन्याद् यः स तथोक्तः[^२] । 'आशिषि हनः' (अ.सू.३.२.४९) [^१] व्याप्तिर्हि वीप्सा । तच्च कार्च्चम् । सर्वेषु च दिनेषु । सर्वदेति फलितोऽर्थः । [^२] 'तावपहन्तीति स तथोक्तः' इति पा. । इति हन्तेर्डप्रत्ययः । सहो बलमस्यास्तीति सहस्वान् । 'सहो बलं सहो मार्ग : ' इत्यमरः । अग्य्रः आदिमः । हनूमानिति ख्यातः प्रसिद्धः । हनुर्ज्ञानम् । तदस्यास्तीति हनुमान्[^१] । तदुक्तं भाववृत्ते- 'हनशब्द[^२] ज्ञानवाची हनुमान् मतिशब्दितः । 'रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि' इति । ते तव यः अवतारः प्रादुर्भावः । अद्यापि इह अस्मिन् भूलोके । रामे रघु- पतौ[^३] । महतीं समाधिकरहितां[^४] भक्तिं स्पृहयति इच्छति । इदानीमपि किम्पुरुषखण्डे श्रीरघुपतिं भक्त्या भजत इति भावः । भक्तिशब्दस्य 'स्पृहेरीप्सितः' (अ.सू.१.४.३६) इति सम्प्रदानसञ्ज्ञा न भवति । ईप्सित- तम इति विवक्षायां 'कर्तुरीप्सिततमं कर्म' (अ.सू. १.४.४९) इति कर्म- सञ्ज्ञया बाधितत्वात्[^५] । तं अवतारं अहं वन्दे स्तौमि नमामि च[^६] ॥ १७ ॥ (स्तुतिचं.) अथ प्रथमावतारं प्रस्तौति । देवैरपि महितं पूजितं महदस्य पौरुषम् । बाहुषाळीति भाव्यमिति भाति । भगवत्पादप्रयोगसंवादात् । बाहुभ्यां [^१] स एव हनूमान् । ज्ञानाधिक्यद्योतनाय दैर्घ्यम् । तदुक्तम्- 'आधिक्येऽधिकमित्येव हरिणा सूत्रमीरितम्' इति । [^२] 'हनुशब्दो- ' इति पा. । [^३] 'रामे श्रीरामदेवे' इति पा. । [^४] 'समानाधिकरहिताम्' इति पा. । [^५] पदमञ्जर्यामेवं स्थितम् । ननु भर्तृहरिः सम्प्रदानसञ्ज्ञया कर्मसञ्ज्ञाया एव बाधितत्वमाह । सत्यमाह। किं तेन? तेन चतुर्थ्या भाव्यम् । न भाव्यम् । परेण पूर्वं हि बाध्यते । परा च कर्मत्वसञ्ज्ञा । तत्कथं तामेव पूर्वतनं सम्प्रदानत्वं बाधते? ननु सामान्यं विशेषो बाधते । सम्प्रदानत्वं च विशेषः । नैष दोषः । सामान्यमबाधित्वैव हि विशेषोऽवतिष्ठते । नहि पाण्डवाः पाण्डवा इत्येतावता न कुरुवो भवन्ति । विवक्षैव हि सा यदिदं सामान्यमयं विशेष इति । ननु तर्हि सूत्रमिदमवक्तव्यं स्यात् । 'क्रियया यमभिप्रैति' इति वार्तिकेनैव सम्प्रदानत्वं सेत्स्यतीति । ननु विपरीतमुच्यते । पूर्वं हि पाणिनिः सूत्राणि प्रणिनाय । परस्ताद्वार्तिकं कात्यायनः । नहि पूर्वं परेण गतार्थमिति शक्यं वक्तुम् । अतः कर्मसञ्ज्ञैव बाधिकेति युक्तम् । अत एव वार्तिकस्यैव गतार्थतां महाभाष्यकृदनुजानाति स्म । अतस्तस्य तस्मै तं च स्पृहयतीति त्रिविधोऽपि प्रयोगः साधुः । [^६] क्वचिदतः परं 'वदि अभिवादनस्तुत्योरिति धातुः' इत्यधिकम्। शालते शोभत इत्यपि व्याचक्षते । इह भुवि हनुमानिति ख्यातः अग्र्यः प्रथमोऽवतारः । हन गतौ । हननं हनुरवगतिः । तद्वान् हनुमान् । आधिक्येऽधिकम् । तेन हनूमान् । अवधारणे वा । 'दीर्घं प्लुतं च हिङ्कारो बिन्दुरप्यवधारणे' इति हि स्मरन्ति । 'हनशब्दो ज्ञानवाची हनूमान् मतिशब्दितः' इति च प्राचां वचनम् । तमवतारं वन्दे । माहात्म्यं विज्ञाय सस्नेहानां सतां देहिनां प्रत्यहमन्तर्बहिरहितं निर्दछन् । अनभिभाव्यत्वं सहः । अपराजितत्वमित्येतत् । 'वृजिनं दुरितं दुष्कृतमघमंहः' इति च । मोहो वैचित्त्यं तत्वविस्मृतिः । तावपहन्ति । अंहसा निमित्तेन यो मोहस्तमपहन्ति वा । अद्यापि किम्पुरुषे वसन् । भक्त्यै स्पृहयति । द्विविधोऽपि साधुः प्रयोगः । कर्मत्वे विवक्षिते द्वितीया । सम्प्रदानत्वे चतुर्थीति । न हि महतां विवक्षां निजिघृक्षन्ति लघवः ॥ १७ ॥ प्राक् पञ्चाशत्-सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वं यावत् सञ्जीवनाद्यौषध-निधिमधिक प्राण लङ्कामनैषीः । अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वाऽऽ- यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैक-क्षणे त्वां हि लोकः ॥ ॥ १८ ॥ (कविक.) व्यापारान्तरं विज्ञापयति- प्राक् पञ्चाशदिति । हे अधिकप्राण अधिकबल, त्वं यावत् यदा, प्राक् पूर्वम् । पञ्चाशत्सहस्रैः पञ्चाशत्सङ्ख्याकैः सहस्रैः योजनैः व्यवहितं अन्तरितम् । अमितं कीदृशोऽयं कुत्र वर्तत इति पूर्वमविज्ञातरूपम्[^१] । सञ्जीवनं मृतसञ्जीवनं[^२] आदिर्येषां तेषामौषधानां[^३] निधिं [^१] 'अविज्ञातस्वरूपम्' इति पा । [^२] इतः परं क्वचित् 'मृतसञ्जीवनी मुख्या सन्धानकरिणी परा। सवर्णकरणी चेति विशल्यकरणीति च' इति श्लोकः पठ्यते । [^३] 'तेषामोषधीनाम्' इति पा. । तदा 'सञ्जीवनाद्योषधिनिधिम्' इति मूलपाठः स्यात् । स्थानं पर्वतं लङ्कां प्रति अनैषीः आनीतवानसि । णीञ् प्रापण इत्यस्माल्लुङि 'सिचि वृद्धिः–'(अ.सू.७.२.१) इत्यादिना वृद्धिः । तदा लोकः जनः । 'लोकस्तु भुवने जने' इत्यमरः । एकक्षणे क्षणाख्यकाले । क्षणस्वरूप- मुच्यते – यस्य सांशत्वेऽप्यवयवविभागः परस्परं न क्रियते स परमाण्वाख्यः कालः । एवम्भूतेन परमाणुद्वयेनाणुकाल उच्यते । द्व्यणुककालत्रयेण त्रसरेणुकालः । त्रसरेणुत्रयेण त्रुटिकालः । त्रुटिकालत्रयेण वेधाख्यकालः । त्रिभिर्वैधैर्लवाख्यकालः । त्रिभिलवैर्निमेषः । निमेषत्रयेण यः कालो भवति स क्षण इति । ततः तस्या लङ्कायाः । उत्पतन्तं उत्प्लवमानम् । उत अनन्तरम् । अव्ययानामनेकार्थत्वात् । तं गिरिं उत्पाटयन्तं उन्मूलयन्तम् । अनन्तरं गिरिं गृहीत्वा आयान्तं आगच्छन्तम् । अनन्तरं खे आकाशे । 'अनन्तं सुरवर्त्म खम्' इत्यमरः । राघवाौ रघुपतिपदाब्जे प्रणतमपि प्रणामं चाऽरभमाणम् । 'आदिकर्मणि क्तः कर्तरि च' (अ.सू.३.४.७१) इति क्तः । त्वां अद्राक्षीत् आलोकितवान् (हि) । 'दृशिर् प्रेक्षणे' इत्यस्मा- ल्लुङ् । 'सृजिदृशोर्झल्यमकिति' (अ.सू.६.१.५८) इत्यमागमः । एकस्मिन् क्षणे, लङ्काप्रदेशात् पञ्चाशत्सहस्रयोजनमार्गगमनं पर्वतोत्पाटनं तं गृहीत्वा तावन्मार्गप्रत्यागमनं तत्पादपङ्कजप्रणाम (इति) एवम्भूतो व्यापारोऽन्यैरने- ककालकर्तव्योऽपि त्वयैकस्मिन् क्षणे[^१] कृतः । [^२]अहो ते महिमार्णवाणुरपि स्तोतॄणामवाङ्मनसगोचर इति भावः ॥ १८ ॥ (स्तुतिचं.) पञ्चाशत्सहस्रैर्योजनैः व्यवहितम्, अमितभारम्, सञ्जीवनादि- भेषजनिधिं यावद् यदा लङ्कामनैषीः । प्रणेतृष्वधिक । तदा ततो लङ्कात उत्पतन्तम्, उत पुनर्गिरिमुत्पाटयन्तम्, उत्पाट्य च करे निधाय खे समायान्तम्, रामचरणे प्रणतं च लोक एकक्षणेऽद्राक्षीत् ॥ १८ ॥ [^१] अवधारणार्थं तात्पर्यार्थं वा 'एकस्मिन् क्षणे' इति द्विरुक्तम् । [^२] 'अत: अहो ते' इति पा. । क्षिप्तः पश्चात् स-लीलं शतमतुल- मते योजनानां स उच्च- स्तावद्-विस्तारवांश्चाप्युपल-लव इव व्यग्र बुद्ध्या त्वयाऽतः । स्व-स्व-स्थान-स्थिताति-स्थिर-शकल-शिला-जाल-संश्लेष-नष्ट- च्छेदाङ्कः प्रागिवाभूत् कपि-वर-वपुषस्ते नमः कौशलाय ॥ १९ ॥ (कबिक.) कविरिदानीं तदतिमानुषव्यापरं[^१] स्मारस्मारं स्तावंस्तावं चोदि- तोद्वेलानन्दसन्दोहसमुद्रे विगाहमानो मध्ये तत्कौशलं प्रणमति–- क्षिप्त इति । हे अतुलमते अनुपमबुद्धे । योजनानां शतं उच्चः उन्नतः तावद्विस्तार- वान् विशालवान्[^२] । यावदुन्नतस्तावद्विस्तारवानित्यर्थः । सः प्रथममानीतो गिरिः । व्यग्रबुद्ध्या विविधसूक्ष्मबुद्ध्या । कृतोहापोहमत्येत्यर्थः[^३] । त्वया । उपललवः पाषाणशकलः । स इव । अतः अस्माल्लङ्काप्रदेशात् । लीलया सह वर्तत इति सलीलं क्षिप्तः प्रेरितः । स्वानिस्वानि स्थानानि स्वस्वस्था- नानि । तेषु स्थिताः अतिस्थिराः दृढतराः शकलाः खण्डाः यासां तासां शिलानां दृषदां जालं समूहः । 'चक्रं जालं च जालकम्' इति विश्वः । तस्य संश्लेषः सम्बन्धः । तेन नष्टः नाशं गतः । च्छेदस्य [^४]स्फोटस्य अङ्कः चिह्नम् । 'कलङ्काङ्कौ लाञ्छनम्' इत्यमरः । यस्य स तादृशः सन् । पश्चात् अनन्तरमपि । यदा सञ्जीवनाद्यौषधमादाय पुनस्तथैव प्रक्षिप्तस्तदानीम- पीत्यर्थः । प्रागिवाभूत् उत्पाटनात्पूर्वमनेन यथा स्थितं पश्चादपि तथाऽस्थी- यतेत्यर्थः । कपिवरवपुषः प्लवगश्रेष्ठकायस्य ते तव कौशलाय कर्तव्ये क्षिप्र- कारित्वाय नमः । 'नमः स्वस्ति -- ' (अ.सू. २.३.१६) इत्यादिना नमः- शब्दयोगे चतुर्थी ॥ १९ ॥ (स्तुतिचं.) योजनानां शतमुच्चस्तावदेव विस्तारवान् । उपललव इव शिलाशकलमिव अनायासेन व्यग्रबुद्ध्या अनवहितेन च चेतसा अतो लङ्कातः [^१] '– व्यापारान्' इति पा. । [^२] 'विशालः' इति पर्याप्तम् । [^३] 'अकृतोहापोहमत्येत्यर्थः' इति पा । व्यग्रबुद्ध्या अनवहितबुद्ध्या अन्यासक्तबुद्ध्या इत्यप्यर्थः स्वरसः । [^४]. 'स्फुटनस्य' इति पा. । प्रतिक्षिप्तः स्वस्वस्थानेषु स्थितानि, अत एवातिस्थिराणि शकलशिला- जालानि । तेषां पूर्ववद् दृढं संश्लेषेण नष्टच्छेदाङ्कः । तव नमः कौशलाय चातुर्याय । 'कुशलं निपुणे पुण्ये' इति यादवप्रकाशः ॥ १९ ॥ दृष्ट्वा दुष्टाधिपोरः स्फुटित-कनक-सद्-वर्म्म घृष्ठास्थि-कूटं निष्पिष्टं हाटकाद्रि-प्रकट-तट-तटाकाति-शङ्को जनोऽभूत् । येनाऽजौ रावणारि-प्रिय-नटन-पटुर्मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे मे स तेऽष्टापद-कटक-तटित्-कोटि-भामृष्ट-काष्ठः ॥ ॥ २० ॥ (कविक.) शिष्टानामिष्टप्रदोऽस्य मुष्टिरिति स्पष्टयन् मुष्टिं विशिनष्टि- दृष्ट्वेति । हे मुख्यप्राण, येन मुष्टिना । स्फुटितं विदीर्णं[^१] कनकसद्वर्म सुवर्णसुकवचः यस्य तत् । घृष्टानि प्रध्वंसितानि अस्थीन्येव कूटानि शैल- शृङ्गाणि[^२] यस्य तत् । 'अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्' इत्यमरः । निष्पिष्टं नितरां चूर्णांकतम्[^३] । दुष्टाः राक्षसाः तेषामधिपः रावणः तस्योरः वक्षस्थलम् । जनो लोको दृष्ट्वा । हाटकाद्रिः सुवर्णगिरिर्मेरुः । तस्मिन् प्रकटः प्रकाशमानः तटः रोधः । तस्मिंस्तटाक इति अति अत्यर्थं शङ्का भ्रान्तिर्यस्य सोऽभूत् । आजौ युद्धे । रावणारिः रघुपतिः तस्य प्रियनटनं इष्टकरणम् । तत्र पटुः दक्षः । अष्टापदकटकस्य सुवर्णवलयस्य । 'कटकं वलयोऽस्त्रियाम्' इत्यमरः । तटित्कोटिसमाः भाः द्युतयः । ताभिरामृष्टाः व्याप्ताः काष्ठाः दिशो यस्य सः । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । ते तव मुष्टिः मे मम इष्टं अभिलषितं प्रदेष्टुं दातुं नेष्टे न शक्नोति किम्? शक्नोत्येवेत्यर्थः ॥ २० ॥ (स्तुतिचं.) दुष्टाधिपस्य रावणस्योरः । स्फुटितं पुटपाकेन शोधितं यत् कनकं तन्मयं वर्म यस्य तादृशम् । 'सन्नाहः कवचं वर्म' इति च । मुष्टिनिष्पिष्टतया [^१] 'स्फुटितं भग्नम्' इति पा. । [^२] 'गिरिशृङ्गाणि' इति पा. । [^३] 'नितरां पिष्टं चूर्णीकृतमित्यर्थः' इति पा. । घृष्टास्थिकूटम् । 'धान्यादिवृन्दे कूटोऽस्त्री' इति यादवप्रकाशः । अत एव तद् दृष्ट्वा सुवर्णाद्रेः विशदे तटे तटाकोऽयमिति जनानां शङ्का बभूव । 'रुग्मं हाटकं शातकुम्भम्' इति, 'विशदं प्रकटं स्पष्टम्' इति, 'सानुः प्रस्थं तटं भृगुः' इति च । 'ತಪ್ಪಲು' इति भाषायाम् । येन मुष्टिना । रामप्रियनटनपटुः स मुष्टिः किं ममाभीष्टं प्रदेष्टुं नेष्टे? ईष्ट एव । 'अष्टापदं च जाम्बूनदं हिरण्यम्' इति, 'कटको वलयस्तथा' इति च । '' इति भाषायाम् । तस्य विद्युत्कोटिसदृशी भाः । तया परामृष्टाः काष्ठा दिशो येन ॥ २० ॥ देव्यादेश-प्रणीति-द्रुहिण-हर-वरावद्ध्य-रक्षो-विघाता- द्या-सेवोद्यद्-दयार्द्द्र्: सह-भुजमकरोद्राम-नामा मुकुन्दः । दुष्प्रापे पारमेष्ठ्ये कर-तळमतुलं मूर्द्ध्नि विन्यस्य धन्यं तन्वन् भूयः प्रभूत-प्रणय-विकसिताब्जेक्षणस्त्वेक्षमाणः ॥ ॥ २१ ॥ (कविक.) त्वत्सेवया प्रीतो विष्णुर्ब्रह्मत्वविषये मस्तके हस्तं निधाय निरवग्रहानुग्रहमकरोदिति विज्ञापयति- देव्यादेशेति । देवी सीता । तां प्रति[^१] श्रीरामस्याऽदेशप्रणीतिः आज्ञाप्रापणम् । श्रीरामं प्रति देवीविज्ञापनप्रापणं च । तदुक्तम्– 'रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि' इति । द्रुहिणहरयोः ब्रह्मरुद्रयोः वरेण अवध्यानि यानि रक्षांसि राक्षसाः तेषां[^२] विघातः ननं स आदिर्यस्यास्तया आसेवया अच्छिद्रशुश्रूषया उद्यद्दयया उद्गच्छत्कृपया[^३] आर्द्रः सिक्तः । दुष्प्रापे अन्यैः प्राप्तुमशक्ये पारमेष्ठचे ब्रह्मत्वविषये । अतुलं समाधिकरहितं [^४] करतळं हस्ततळम् । मूर्ध्नि शिरसि विन्यस्य । धन्यं कृतार्थम् । 'धनगणं लब्धा' (अ.सू.४.४.८४) इति यत्प्रत्ययः । तन्वन् कुर्वाणः । भूयः पुनः । प्रभूतः प्रचुरः । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः । [^१] 'देवीं सीतादेवीं प्रति' इति पा. । [^२] 'रक्षांसि तेषाम्' इति पा । [^३] 'उत्कृष्टकृपया' इति पा. । [^४] 'समानाधिकरहितम्' इति पा. । प्रणयः स्नेहः । तेन विकसिते अब्जेक्षणे कमलनेत्रे यस्य सः । रामनामा रामाभिधः मुकुन्दः हरिः । त्वा त्वाम् । 'त्वामौ द्वितीयायाः' (अ.सू.८.१.२३) इति त्वादेशः । ईक्षमाणः अवलोकमानः सन् । सहभुजं सहभोक्तारं[^१] अकरोत् कृतवान् । मोक्षसुखानुभवकर्तारमकरोदिति[^२] भावः ॥ २१ ॥ ( स्तुतिचं.) रामस्य य आदेशस्तस्य देवीं प्रति प्रणीतिः । देव्याश्च रामं प्रति । 'शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः' इति च । आसेवया बर्धमाना दया । तयाऽर्द्रः द्रुतचित्तः । दुष्प्रापे पारमेष्ठ्ये पदे सहभुजमकरोत् प्रणयप्रफुल्लनेत्राभ्यां त्वामीक्षमाणः ॥ २१ ॥ जघ्ने निघ्नेन विघ्नो बहुल-बल- बक- ध्वंसनाद् येन शोचद्- विप्रानुक्रोश-पाशैरसु - विधृति-सुखस्यैकचक्रा-जनानाम् । तस्मै ते देव कुर्म्मः कुरु-कुल-पतये कर्म्मणा च प्रणामान् किर्म्मीरं दुर्म्मतीनां प्रथममथ च यो नर्म्मणा निर्ममाथ ॥ ॥ २२ ॥ ( कविक.) हनुमदवतारव्यापारविज्ञापनानन्तरं श्रीभीमावतारव्यापारान् विज्ञापयन् मुख्यप्राणं[^३] प्रणमति जन इति । हे देव, शोचन्तः शोकं कुर्वन्तः । ते च ते विप्राश्च । तेषु अनुक्रोशपाशैः कृपारज्जुभिः । 'कृपा दयाऽनुकम्पा स्यादनुक्रोशः' इत्यमरः । निघ्नेन अधीनेन । 'अधीनो निघ्न आयत्तः' इत्यमरः । येन त्वया बहुलं अधिकं बलं शक्तिर्यस्य । 'बलं सैन्यं बलं स्थौल्यं बलं शक्तिर्बलोऽसुरः' इति यादवः[^४]। तस्य बकस्य ध्वंसनात् हननाद्धेतोः । एकचक्राजनानां एकचक्राग्रामनिवासिनाम् । असूनां प्राणानां। 'पुंसि भूम्यसवः प्राणाः' इत्यमरः । विधृतिः धारणम् । तेन जातस्य [^१] इतः परम् 'सत्यलोकाधिपत्यमित्यर्थः' इति क्वचित् । [^२] '– कर्तारमतनोदिति' इति पा. । [^३] 'श्रीमुख्यप्राणम्' इति पा. । [^४] नायं यादवप्रकाशे उपलभ्यते । अन्यत्र क्वचित् स्यात् । सुखस्य विघ्नः अन्तरायः । 'विघ्नोऽन्तरायः प्रयूहः' इत्यमरः । जघ्ने हतः । हन्तेः कर्मणि लिटि 'अभ्यासाच्च' (अ.सू. ७.३.५५ ) इति कुत्वम् । 'गमहन–' (अ.सू.६.४.९८) इत्यादिनोपधालोपः । अथ अनन्तरम् । यः[^१] दुर्मतीनां दुष्टबुद्धीनां प्रथमं आदिभूतम् । श्रेष्ठमित्यर्थः । ज्येष्ठवधप्रतीकारं कर्तुकामं किर्मीरं नाम बकानुजं च । नर्मणा परिहासेन । अनाया- सेनेत्यर्थः । निर्ममाथ निर्मथितवान् । 'मन्थ विलोडने[^२] इति धातोर्लिटि यो णलू (तस्य) 'अत उपधायाः' (अ.सू. ७.२.११६) इत्युपधावृद्धिः । तस्मै तथाविधमहिम्ने कुरुकुलपतये कुरुकुलस्वामिने ते तुभ्यम् । कर्मणा काय- व्यापारेण चकारोऽनुक्तसमुच्चयार्थः । तेन मनसा वचसा च । प्रणामान् नमस्कारान् कुर्मः कृतवन्तः स्मः ॥ २२ ॥ (स्तुतिचं.) शोचति विप्रे, यस्य सद्म स्वयमध्युवास, दयापाशैः पर- तन्त्रेण । 'परावांस्तु पराधीनो निघ्नः परवशस्तथा' इति, 'घृणाऽनुकम्पाऽ- नुक्रोशः' इति च । बकवधादेकचक्रानगरवासिनां जनानां प्राणधारण- सुखस्यान्तरायो न्यवार्यत । 'असवो जीवितं प्राणाः' इति च । अथ च बकानुजं किर्मीरं च नर्मणा क्रीडया, अनायासेनेत्येतत्, निर्ममाथ निर्ममन्थ । मथे विलोडने' इत्यस्य लिटि प्रथमपुरुषे रूपम् - ममाथ मेथतुर्मेथुरिति । 'परिहासो भवेन्नर्म केळी क्रीडा च खेलनम्' इति च । तस्मै ते कायकर्मणा वचनकर्मणा मनसा च प्रणामान् कुर्मः ॥ २२ ॥ निर्म्मृद्गन्नत्ययत्नं विजर-बर जरा-सन्ध-कायास्थि-सन्धीन् युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णु-पक्ष-द्विडीशम् । [^१] क्वचित् 'यस्त्वम्' इति पाठः प्रामादिक एव । उत्तरत्र ममाथेति प्रथमपुरुषत्वेन व्याख्यानात्। [^२] लिपिकृतः प्रामाद्यन् । नेदं मन्थते रूपम् । तथात्वे निर्ममन्थेति स्यात् । किन्तु 'मथे विलोडने' इत्यस्य रूपमिदम्। अथवा नेदं मथतेरपि रूपम् । किन्तु क्रीणात्यादिकात् हिंसार्थात् मीनाते रूपम् । तत्रापि न णल्। किन्तु थल् । मीनातेर्लिटि मध्यमपुरुषैकवचने ममिथ ममाथ इति हि द्वयं रूपम् । तथाच निर्ममाथ निःशेषं हिंसितवानसि मारितवानसीति यावत् । यावत् प्रत्यक्ष- भूतं निखिल-मख-भुजं तर्प्पयामासिधासौ तात्यायोजि तृप्त्या किमु बद भगवन् राज-सूयाश्व-मेधे ॥ ॥ ॥ २३ ॥ (कविक.) अनन्यसाध्यो जरासन्धवधस्त्वयाऽकारि । तेन भगवतो महा- प्रीतिरासीदिति विज्ञापयति- निर्मृद्गन्निति । विगता जरा येभ्यस्ते विजराः देवाः । तेषु वरः श्रेष्ठः । तस्य सम्बुद्धिः । हे विजरवर । 'दैवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक् प्रिये' इत्यमरः । जरासन्धस्य कायास्थ्नां शरीरकीकसानां सन्धीन् अवान्तरप्रदेशान् । अत्ययत्नं अनतिप्रयत्नं यथा भवति तथा । निर्मृद्गन् भञ्जन् । त्वं युद्धे रणे स्वध्वरे वा महायाग इव । 'वा विकल्पोपमानयोः' इत्यमरः । विष्णोः पक्षाः सहाया देवाः । 'पक्षः पाश्र्वगरुत्साध्यसहायब- लभित्तिषु' इत्यमरः[^१] । तेषां द्विषः द्वेषिणो दैत्याः । तेषामीशं परिवृढम् । महादैत्यमित्यर्थः । तं पशुमिव यज्ञपशुमिव दमयन् मारयन् । प्रत्यक्षभूतं चक्षुर्गोचरम् । निखिलमखभुजं सकलयज्ञभोक्तारं श्रीविष्णुम् । यावत् यथा तर्पयामासिथ । 'तृप प्रीणने' इत्यस्माद्धातोर्लिटि 'कास्प्रत्ययात्–' (अ.सू. ३.१.३५) इत्यादिनाऽऽम्प्रत्यये थलि रूपम् । हे भगवन् श्रीवायो, त्वया असौ श्रीविष्णुः राजसूयेऽश्वमेधे च यागविशेषे तावत्या तृप्त्या अयोजि किमु? योजितः किमु? नेत्यर्थः । वद ब्रूहि । जरासन्धबधाद्भगवतो यावती प्रीतिः सा[^२] राजसूययागेऽश्वमेधयागे च नाभूदित्यर्थः ॥ २३ ॥ (स्तुतिचं.) विजरा निर्जरा देवास्तेषु वर । अतिशयेनायत्नम् । यत्नलेशादपि विना । स्वध्वरे वा यज्ञ इव युद्धे । पशुमिव विष्णुपक्षद्विडीशं जरासन्धं दमयन् । स्विति यज्ञस्य वैष्णवत्वमाह । 'सप्ततन्तुर्मखोऽध्वरः' इति, 'वा विकल्पोपमानयोः' इति च । निखिलमखभुजं सर्वयज्ञभोक्तारम् । उक्तं हि भगवता– 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ' इति । 'येऽप्यन्य [^१] लिपिकृत्प्रमादोऽयम्। नेदममरवचनम् । 'इत्यमरः' इत्यत्र 'इति यादवः' इति पठितव्यम्। [^२] 'यावती प्रीतिः तावती प्रीतिः' इति पा. । देवताभक्ताः' इत्यादि च । 'यज्ञेष्विज्यो हरिः स्वयम्' इति चान्यत्र । कृष्णं तर्पयामासिथ । असौ कृष्ण: राजसूयाङ्गेऽश्वमेधे तावत्या तृप्त्या किमा- युज्यत? ॥ २३ ॥ क्ष्बेलाक्षीणाट्ट-हासं तब रणमरि - हनुद्गदोद्दाम- बाहो - र्बह्वक्षोहिण्यनीक-क्षपण- सुनिपुणं यस्य सर्वोत्तमस्य । शुश्रूषार्थं चकर्त्य स्वयमयमिह सं-वक्तुमानन्दतीर्थ- श्रीमन्नामन् समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ ॥ २४ ॥ (कविक.) त्वदीयमत्यद्भुतं युद्धं श्रीविष्णुना त्वयाऽपि विना न केनापि वर्णयितुं शक्यत इति विज्ञापयंस्तयोश्चरणनलिनं शरणं[^१] करवाणीत्याह-क्ष्वेलेति । अरीन् हन्तीत्यरिहा । तस्य सम्बुद्धिः । हे अरिहन् । हन्तेः क्किप् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (अ.सू.३.२.८७) इत्यस्य नियमस्य प्रायिकत्वात् । यथाऽह न्यासकार :- 'प्रायिकश्चायं क्विबिति नियमः । क्वचिदन्यस्मिन्नप्युपपदे स दृश्यते । मधुहा[^२] । प्रायिकत्वं च वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते' इति । अन्यत्र प्रयोगश्च – 'हरिहयोऽरियोगविचक्षणः' इति[^३] । आनन्दतीर्थश्रीमन्नामन् मुख्यप्राण । क्ष्वेला सिंहनादः । 'क्ष्वेला तु सिंहनादः स्यात्' इत्यमरः । तया अक्षीणः प्रवृद्धः अट्टहासः महाहासः यस्मिंस्तम् । बह्वयः अक्षोहिण्यो[^४] यस्मिंस्तस्यानीकस्य सैन्यस्य क्षपणे [^१] 'चरणनलिनसेवां करवाणि' इति पा. । [^२] 'बन्धुहा' इति पा. । [^३] समग्रा चेयमानुपूर्वी– 'प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीपुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः' (रघुवं.९.१८) इति । कालसामान्यविवक्षायां क्किबन्यत्रापि साधुरिति केचिद्व्याचक्षते । प्रयोगश्चात्र प्रमाणम् । तथाहि भारते- 'अमित्रांस्तेजसा मृद्गन्नसुरानिव चारिहा' (वनप.३३.८६) इति । 'मधुहा मधुरानाथ : ' इति च भगवन्नामसु पठितम् । शतशश्चेदृशाः प्रयोगाः 'शत्रुहा', 'परवीरहा' इत्यादयः । [^४] 'अक्षौहिण्य:' इति पा.। 'अक्षादूहिन्यां वृद्धिर्वक्तव्या' (वा.६.१.८९) इति न वक्तव्यम् । अक्षो- हिणीत्येव प्राचीनग्रन्थेषु प्रयोगनैयत्यात्। विनाशने सुनिपुणः अतिकुशलस्तं रणं युद्धम् । यस्य सर्वोत्तमस्य श्रीविष्णोः शुश्रूषार्थं सेवार्थं चकर्थं कृतवानसि । उद्गदा उत्कृष्टगदा । तया उद्दामः उच्छृङ्खल: बाहुः यस्य तस्य तव सम्बन्धिनि । इह अस्मिन् रणे विषये । अयं सर्वोत्तमो विष्णुः स्वयं वक्तुं सम्यक् प्रतिपादयितुं समर्थः शक्तः । त्वमपि समर्थो हि । अहं तु, सर्वोत्तमश्च त्वं च (तयोः) युवयोः । 'त्यदानीनि सर्वैर्नित्यम्' (अ.सू.१.२.७२) इति युष्मदः शेषः । पादपद्मं चरणनलिनं प्रपद्ये शरणं गच्छामि ॥ २४ ॥ (स्तुतिचं.) 'सिंहनादो भवेत् क्ष्वेडा' इति च । क्ष्वेंडैव क्ष्वेळा च क्ष्वेला च । तया अक्षीण: अन्यूनः अट्टहासो यस्मिन् तं रणम् । क्ष्वेडया सह अक्षीणाट्टहासं वा । स्वक्ष्वेडया क्षीणः परेषामट्टहासो वा यस्मिन् । स चाट्टहासः योऽट्टेष्वपि प्रतिनदति । उद्गृहीतया गदया उद्दामो निरङ्कुशो बाहुर्यस्य तव । 'अयन्त्रितं स्यादुद्दामम्' इति च । अक्षोहिणीत्येव प्रतनः प्रयोगः पुराणेषु भगवत्पादकृतिषु च । 'अक्षादूहिन्यामुपसङ्ख्यानम्' इति शक्यमवक्तुम् । बह्वक्षोहिणीमयं यदनीकं तस्य क्षपणे सुनिपुणं रणम् । 'चक्रं चमूर्व- रूथिन्यनीकिनी स्यादनीकं च ' इति च । यस्य शुश्रूषार्थं चकर्थं स्वयमयं कृष्ण: इह रणविषये कीदृशोऽयं रण इति वक्तुं समर्थः । यश्चकर्थ स त्वमपि । कथङ्कारमन्ये प्रभवेयुः ॥ २४ ॥ द्रुह्यन्तीं हृद्-रुहं मां द्रुतमनिल बलाद् द्रावयन्तीमविद्या - निद्रां विद्राव्य सद्यो-रचन-पटुमथाऽपाद्य विद्या-समुद्र । वाग्-देवी सा सुविद्या-द्रविण-द विदिता द्रौपदी रुद्र-पत्न्या- द्युद्रिक्ता द्रागभद्राद् रहयतु दयिता पूर्व भीमाऽज्ञया ते ॥ ॥ २५ ॥ [^१] संस्तव इव संवादोऽपि न मूलार्थं जहातीत्यवगन्तव्यम् । 'संवक्तुं सम्यक् कथयितुम्' इति पा.। (कविक.) अनाद्यविद्यानिवृत्तिं सुविद्याप्राप्तिं च प्रार्थयते – द्रुह्यन्तीमिति ॥ हे विद्यासमुद्र तत्वज्ञानरत्नाकर । सुविद्या अध्यात्मविद्या । सैव द्रविणं धनम् । तद् ददातीति सुविद्याद्रविणद । पूर्वभीम प्राक् भीमसेनावतार । अनिल श्रीवायो । द्रौपदीति विदिता विख्याता । तदुक्तम्- ' सा द्रौपदी नाम बभूव भूमौ' इति । रुद्रपन्याधुद्रिक्ता । रुद्रपत्नी पार्वती । सा आदिर्यासां [^१]सौपर्णीवारुण्यादीनाम् । ताभ्यः उद्रिक्ता उत्कृष्टा । अथवा रुद्रपत्नी आदिर्यासां शच्यादीनाम् । ताभिरुद्रिक्ता उत्कर्षं प्राप्ता । तच्छरीरे[^२] तासा- मभिमानसद्भावात् । या ते दयिता प्रिया वाग्देवी भारती सा । द्रुह्यन्तीं द्रोहं कुर्वाणाम् । हृदि रोहतीति हृद्रुट् ताम् । द्रावयन्तीं इतस्ततो धनाद्यादित्सया गमनं कारयन्तीम् । अविद्यानिद्रां अज्ञानतन्द्रीम् । ते तव आज्ञया । द्रुतं शीघ्रं यथा भवति तथा । विद्राव्य शमयित्वा छित्वा वा । अथ अनन्तरं मां सद्योरचनपटुं आशुकविताकरणकुशलं आपाद्य कृत्वा । द्राक् झटिति । 'द्राग् झटित्यञ्जसाऽह्नाय' इत्यमरः । अभद्रात् अशुभात् । बलात् बलात्कारेण रहयतु वियोजयतु ॥ २५ ॥ (स्तुतिचं.) द्रुह्यन्तीं हृद्रुहम् । रुह जन्मनि । मम हृदि जातामौरसीम् । अथापि मह्यं द्रुह्यन्तीम् । या सदाऽभीष्टं विरुरुत्सति, अप्रियमेव सम्प्रापिप- यिषति । तदिदं व्यापादनं नाम । 'अपकारो भवेद् द्रोहः' इति च । इतस्ततो मां बलादिव विषयविषगर्ते द्रावयन्तीं धावयन्तीं अविद्यानिद्राम् । निद्रा हि स्वापयति । इयमहो धावयति । या मां विद्रावयामास तामेव विद्राव्य अथ मां सद्यः काव्यशास्त्ररचनपटुं विधाय, विशिष्य च हरिगुरुस्तवन- पटुम् । द्रागभद्राद् विरहयतु त्याजयतु । का? या द्रौपदीति विदिता । भार्या तव, आचार्यानी मम । हे विद्यासमुद्र पूर्वभीम, तवाऽज्ञया मयि जाता- नुकम्पा ॥ २५ ।॥ [^१] 'सुपर्णीवारुण्यादीनाम्' इति सूक्तम् । प्रायो लिपिकृत् प्रममाद । [^२] 'तस्याः शरीरे' इति पा । याभ्यां शुश्रूषुरासी: कुरु-कुल-जनने क्षत्र-विप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चिति-सुख वपुषा कृष्ण नामास्पदाभ्याम् । निर्भेदाभ्यां विशेषाद् द्वि-वचन-विषयाभ्याममूभ्यामुभाभ्यां तुभ्यं च क्षेम-देभ्यः सरसिज-विलसल्लोचनेभ्यो नमोऽस्तु ॥ २६ ॥ (कविक.) अत्र श्रीनारायण एव कृष्णत्वेनावतीर्णो व्यासस्त्वन्यो महामुनिरिति[^१] केषाञ्चिन्मतम् । तन्निरासार्थं तयोरभेदं प्रतिपादयन् तत्सेवार्थो[^२] भीमावतार इति प्रकटयन् तेभ्यः प्रणमति- याभ्यामिति । हे श्रीवायो, कुरुकुलजनने कुरुवंशप्रादुर्भावे । क्षत्रविप्रोदिताभ्याम् । क्षतात् त्रायत इति क्षत्रम् । क्षत्रेण क्षत्रियत्वेन । विप्रेण विप्रत्वेन । उदिताभ्यां प्रादुर्भूताभ्याम् । चितिसुखवपुषा ज्ञानानन्दस्वरूपेण बृंहिताभ्यां प्रवृद्धाभ्याम् । तथा च श्रुति:– 'आ पादत आ प्रणखात्सर्व एवाऽनन्दः'[^३] इति । सूत्रितं च भगवता बादरायणेन- 'आनन्दमयोऽभ्यासात्' इति । अभियुक्तवचनं च 'सुखोल्लेखैरेव स्वरसमधुरैः साधुचरितः 'शुभस्तोमैरेव स्तुतिसमुचितैः सम्भृततनुः । 'प्रभागुम्फैरेव प्रकृतिसुभगैः प्राप्तगरिमा 'कृपापूरैरेव स्फुटमुपचितः काकुळपतिः' इति । निर्भेदाभ्यां भेदरहिताभ्याम् । 'मस्त्यकूर्मवराहाश्च....' इत्यारभ्य 'नैषां भेदः कथञ्चन' इत्यन्तेन सार्धंश्लोकत्रयेण श्रीमदाचार्यैः श्रीमहाभारततात्पर्यनिर्णये द्वितीयाध्याये कृष्णव्यासादीनां स्वरूपाभेदः प्रतिपादितः । विशेषात् द्विवचनविषयाभ्यां कृष्णव्यासेति[^४] वचनद्वयवाच्याभ्याम्[^५] । अमूभ्यां मानसप्रत्यक्षाभ्यां उभाभ्यां द्वाभ्याम् । कृष्णनामास्पदाभ्याम् । कृष्णश्च कृष्णश्च [^१] 'महानृषिरिति' इति पा. । [^२] 'तत्सेवनार्थम्' इति पा. । [^३] 'आ प्रणखात्सर्व एव सुवर्णः' इति प्रसिद्धोपलब्धश्रुतावानुपूर्वी । 'आपादनखात् सर्व एव' इति पा । [^४]. 'कृष्णव्यासाविति' इति तु स्वरसः पाठः । [^५] '-द्वयविषयाभ्याम्' इति पा. । कृष्णौ। 'सरूपाणामेकशेषः–'(अ.सू.१.२.६४) इत्येकशेषः । कृष्णाविति नामनी । तयोरास्पदाभ्यां कृष्णशब्दवाच्याभ्यामित्यर्थः । 'कृष्णाख्याः शमनव्यासधनञ्जयजनार्दनाः' इति विश्वः[^१] । ब्रह्मभ्यां ब्रह्मशब्दवाच्याभ्याम् । ब्रह्मशब्दश्च विष्णावेव । 'यमन्तः समुद्रे कवयोऽवयन्ति यदक्षरे परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् । तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्' इति श्रुतिः । 'ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते । 'असम्पूर्णाः परे यस्मादुपचारेण वा भवेत् ॥' 'ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ।' 'वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः[^२] ॥' इत्यादिषु तस्मिन्नेव प्रसिद्धः । याभ्यां शुश्रूषुः सेवाकरणेच्छुः आसीः । तुभ्यं श्रीभीमाय च । क्षेमदेभ्यः सुखदेभ्यः[^३] । सरसिजविलसल्लोचनेभ्यः । सरसिजवत् अम्भोजवत् विलसती शोभमाने लोचने येषां तेभ्यः कृष्णव्या- सभीमेभ्यः नमोऽस्तु । 'नमःस्वस्ति–' (अ.सू.२.३.१६) इत्यादिना नमः शब्दयोगे[^४] चतुर्थी ॥ २६ ॥ (स्तुतिचं.) कुरुकुलजनने भीमावतारे । क्षत्रेण वसुदेवेन विप्रेण पराशरेण चोद्भूताभ्याम् । क्षत्रिय इति विप्र इति च लोकैरुदिताभ्याम् । ज्ञानानन्द- मयेन स्वरूपवपुषा बृंहिताभ्यामत एव मुख्यवृत्त्या ब्रह्मपदवाच्याभ्याम् । यादवकृष्ण इति वासिष्ठकृष्ण इति च कृष्णनामास्पदाभ्याम् । निर्भेदाभ्यामथापि विशेषबलाद् द्विवचनविषयाभ्याममूभ्यां भगवद्रूपाभ्याम् । रूपद्वयशुश्रूषवे तुभ्यं चास्तु नमः ॥ २६ ॥ [^१] नेदं विश्वकोशे पठ्यते । [^२] '–मन्त्रेण चोच्यते' इति पा. । [^३] 'सुखप्रदेभ्य:' इति पा. । [^४] 'नमःशब्दयोगात्' इति पा. । गच्छन् सौगन्धिकार्त्यं पथि स हनुमतः पुच्छमच्छस्य भीमः प्रोद्धर्तुं नाशकत् स त्वमुमुरु-वपुषा भीषयामास चेति । पूर्ण ज्ञानौजसोस्ते गुरु-तम वपुषोः श्रीमदानन्दतीर्थ क्रीडा-मात्रं तदेतत् प्रमद-द सु-धियां मोहक द्वेष-भाजाम् ॥ ॥ २७ ॥ (कविक.) प्रियाप्रीत्यर्थं सौगन्धिककुसुममानेतुं गच्छतो मध्येमार्गं हनुमतः पुच्छमुद्धर्तुमशक्तिं तन्महाकायतो भीतिं च नटयतः श्रीभीमस्य तन्नटनं विदुषां हर्षार्थं द्वेषिणां मोहार्थं चेत्याह- गच्छन्निति । सौगन्धिकार्थं सौगन्धिका- हरणार्थं गच्छन् सः भीमः । पथि मार्गे । अच्छस्य स्वच्छस्य हनुमतः हनुमदवतारस्य । पुच्छं वालम् । प्रोद्धर्तुं प्रकर्षेणोन्नमयितुं नाशकत् अश- क्तोऽभूदिति यत् । 'शक् शक्तौ' इत्यस्माद्धातोर्लुङ् । दित्वादङ् । उरु- वपुषा महाकायेनोपलक्षितः सः हनुमान् अमुं श्रीभीमं भीषयामास चेति यत् । भीतिं प्रापितवानित्यर्थः । 'ञिभी भये' इत्यस्माद्धातोः 'हेतुमति च' (अ.सू.३. १.२६) इति णिचि 'भियो हेतुभये षुक्' (अ.सू. ७.३.४०) इति षुगागमः । अत एव वपुषेतीत्थम्भूतलक्षणे तृतीया । न करणे । यदि करणे तृतीया स्यादु[^१]रुवपुर्भयस्य करणं स्यान्न हेतुः प्रयोजकः[^२] । तदेतत् द्वेषभाजां द्वेषं भजतां मोहक भ्रामक । सुधियां तत्वज्ञानवतां प्रमदद प्रकृष्टानन्दद । गुरुतम गुरुश्रेष्ठ । हे श्रीमदानन्दतीर्थ । ते तव सम्ब- न्धिनोः । पूर्णज्ञानौजसोः । पूर्णे सम्पूर्ण ज्ञानौजसी ज्ञानबले ययोस्तयोर्वपुषोः अवतारयोः । क्रीडामात्रं क्रीडैव लीलैव ॥ २७ ॥ [^१] 'स्यात् तदानीमुरुवपुर्भयस्य' इति पा.। [^२] प्रयोजकत्वार्थ एव पुग्विधानादन्यथा षुगप्रसक्तेरिति भावः । 'समुद्रलङ्घने यादृक् स्थूलशरीरं धृतं तादृशस्थूलशरीरेण भीषयामास' इति केचिद् व्याचक्षते । तदात्वे भाययामासेत्येव रूपं स्यान्न भीष- यामासेति। (स्तुतिचं.) 'सौगन्धिकं तु कल्हारम्' इति च । येन कलितहाराणीव सरांसि विलसन्ति । 'ಚೆನ್ನೈದಿಲೆ' इति भाषायाम् । अच्छस्य स्वभावतो जरादि- विधुरस्य हनुमतः । स तु हनुमान् । अमुं भीमम् । उरुवपुषा हेतुना । भीमः पुच्छमुद्धर्तुं नाशकदिति, हनुमांश्च तमुरुवपुषा भीषयामासेत्येतत् सर्वं पूर्णज्ञानबलयोस्तव वपुषोः क्रीडामात्रम् । ओजः सर्वाभिभवशक्तिः । सा च क्रीडा सुधियामानन्दाय मोहाय चेतरेषाम् ॥ २७ ॥ बह्वीः कोटीरटीकः कुटिल-कटु-मतीनुत्कटाटोप-कोपान् द्राक् च त्वं सत्वर-त्वाच्छरण-द गदया पोथयामासिथारीन् । उन्मथ्यातथ्य-मिथ्यात्व-वचन-वचनानुत्पथ-स्थांस्तथाऽन्यान् प्रायच्छः स्व-प्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥ ॥ २८ ॥ (कविक.) सौगन्धिकाहरणसमये त्वयाऽनेककोटिराक्षसान् गदायुद्धे निहत्यान्यान् दुर्मार्गवर्तिनस्तर्कैर्न्यकृत्य प्रियायै सौगन्धिककुसुमं प्रादायीति विज्ञापयन् प्रणतिं वितनुते- बह्वीरिति । शरणं रक्षकं श्रीविष्णुं ददाति दर्शयति यस्तस्य सम्बुद्धिः शरणद[^1] । 'शरणं गृहरक्षित्रोः' इत्यमरः । हे प्राण श्रीवायो । यस्त्वं बह्वीः अनेकाः कोटीः सङ्ख्याः । कुटिला वक्रा कटुः क्रूरा मतिर्बुद्धिर्येषां तान् । उत्कटी प्रवृद्धी आटोपः सम्भ्रमः कोपः क्रोधश्च येषां तान् । 'सम्भ्रमाटोपसंरम्भाः[^2] इति यादवः । अरीन् वैरिणः । द्राक् शीघ्रम् । अटीकः प्रहर्तुमगच्छः। 'टीकृ गतौ' इत्यस्माल्लुङ्[^3] । तथा तेन प्रकारेण गदया [^१] 'शरणद रक्षक' इति पा. । [^2] 'आटोपावेगसरम्भसम्भ्रमाः' इति तु सम्प्रत्युपलभ्यमानो वैजयन्तीकोशपाठः । [^३] यद्यपि टीकतेरात्मनेभाषत्वात् 'अटीकिष्ठाः' इति वक्तव्यम् । अथापि 'अटीकः' इत्याह । अत्र द्वयी गतिः। 'युद्भ्यो लुङि' (अ.सू. १.३.९१) इति द्युतादिषु टीकृधातुरपि पठनीयः । तेन लुङि परस्मैभाषत्वे 'अटीकत्' इति रूपमिति । तदेतदाह-'टीकृगतावित्यस्मालुङ्' इति । अथवा किमनेन । सर्वस्मादुभयं पदमिति तु सर्वौषधम् । तथाहि मुरारि:- 'प्रत्यासन्नतुषारदीधितकरक्लिश्यत्-' इत्यादि । तत्र क्लिश्यतेः पोथयामासिथ मारयाञ्चकर्थ । उत्पथस्थान् उन्मार्गवर्तिनः । अतथ्यं मिथ्या- भूतम् । मिथ्यात्वमुच्यते येन तन्मिथ्यात्ववचनम् । विश्वं मिथ्या दृश्यत्वात् शुक्तिकारजतवदित्यादिकम् । तदेव वचनं भाषितं येषां तान् । अत्रायम- भिप्रायः- वृश्चिकभयात्पलायमानस्य महासर्पमुखपतनमिव स्वपक्षसाधन- पारमार्थ्यानभ्युपगमे वादानधिकारमजानाना ब्रह्मव्यतिरिक्तमिथ्यात्ववादिनः सर्वशून्यवादिनश्च, 'भवद्भिर्जगन्मिथ्यात्वसाधकं वचनमुक्तम्, तन्मिथ्या सत्यं वा' इति विकल्पे सत्यत्वेऽद्वैतभङ्गप्रसङ्ग इत्यतथ्यमेव वदन्तीति । अन्यान् सत्वरत्वात् तूर्णं प्राप्य । 'सत्वरं चपलं तूर्णम्' इत्यमरः । 'कर्मणि ल्यब्लोपे पञ्चमी वक्तव्या[^१] इति पञ्चमी । उन्मथ्य भङ्क्त्त्वा । स्वप्रियायै स्वकलत्राय द्रौपद्यै प्रियतमकुसुमं इष्टतमपुष्पं[^२] प्रायच्छः प्रादाः । प्रपूर्वात् 'दाणू दाने ' इत्यस्माद्धातोर्लङि 'पाघ्रा–'(अ.सू.७.३.७८) इत्यादिना यच्छादेशः । तस्मै ते तुभ्यं नमः ॥ २८ ॥ ( स्तुतिचं.) प्रपन्नानां शरणमाश्रयं ददातीति शरणदः । शरणं भवतरणोपायं दर्शयति, शरणं मुक्तिगृहं ददाति, शरणं जगद्रक्षितारं मुकुन्दं ददाति वा । 'उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते–' इत्यहिर्बुध्यसंहितायम् । आटोप इत्यवलेपः । 'गर्वो भवेदहङ्कारः । आवेशः संवेगः संरम्भः सम्भ्रमस्तथाऽऽटोपः' इत्यभिधानम् । बह्लीः कोटीरटीकः । प्रतीकर्तुमगच्छ: । टीकृ गतौ । अनियतमात्मनेभाषत्वम् । आमनन्ति च सर्वस्मादुभयं पदम् । शत्रुहननं च न स्वप्रयोजनाय । किन्तु सतामुपकारायेत्यनेन सूचयति । विदितव्याकरणानां नियमभङ्गोऽपि विच्छित्तिमादधाति । विदित शत्रनुपपत्तिं शङ्कमानो व्याचख्यौ च रुचिपति:-'आत्मनेपदविधेरनित्यत्वात् । सचतीत्यादिप्रयोगस्य दृष्टत्वात्' इति । १. 'पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्' (२.३.२८) इति जयादित्यपरिगृहीतो वार्तिकपाठः । 'ल्यब्लोपे कर्मण्यधिकरणे च' इति भट्टोजिः । अज्ञातमूलपाठमनियतपाठं वार्तिकं भवति। [^२] 'प्रियतमकुसुमं प्रायच्छः' इति पा. । कलाशिल्पानां विकृतोऽपि रेखाविन्यासः सौष्ठवं पुष्णाति चित्रकलायाः । आटीक्य च गदया पोथयामासिथ । 'पुथ मारणे' । द्रागविलम्बेन । कुतः? सत्वरत्वात् । प्रतीक्षन्ते हि भ्रातरः स्वं द्रौपदी च कल्हारम् । तेन त्वर- माणः । अतथ्यं वितथं मिथ्यात्ववचनमेव प्रवचनं येषाम् । यदि विश्वं मिथ्या स्ववचनमपि मिथ्या । ननु न स्ववचनं विश्वम् । सत्यं न विश्वम् । किन्तु विश्वस्मिन् । अन्यांश्चासुरान् वादेन चोन्मथ्य स्वप्रियायै प्रियतमं कुसुमं प्रायच्छ: । हे प्रियतम प्राणेति वा ॥ २८ ॥ देहादुत्क्रामितानामधि-पतिरसतामक्रमाद् वक्र-बुद्धिः क्रुद्धः क्रोधैक-बश्यः क्रिमिरिव[^१] मणिमान् दुष्कृती निष्क्रियार्थम् । चक्रे भू-चक्रमेत्य क्रकचमिव सतां चेतसः कष्ट-शास्त्रं दुस्तर्क्कं चक्र - पाणेर्गुण-गण-बिरहं जीवतां चाधि-कृत्य ॥२९॥ (कविक.) पूर्वं भीमसेनेन हतो मणिमान्नाम दैत्यस्तद्वैरनिर्यासार्थं[^२] सङ्करत्वेन जनिं प्राप्य सर्वज्ञसर्वेश्वर सर्वोत्तमत्वाद्यसङ्ख्येयकल्याणगुणाकरस्य भगवतः श्रीनारायणस्य सर्वगुणराहित्यं जीवभावं च प्रतिपादयिष्यन्[^३] तद्योग्यश्रुतिन्यायोपेतं कष्टशास्त्रं चकारेति कथयति[^४] –देहादिति । देहात् शरीरात् । अक्रमात् युगपत् । उत्क्रामितानां गदाघातेनोत्क्रमणं प्रापितानां असतां दुष्टानां अधिपतिः । वक्रबुद्धिः कुटिलबुद्धिः । क्रुद्धः कुपितः । क्रिमिरिव दुष्टकीट इव[^५]। क्रोधैकवश्यः कोपपरतन्त्रः । दुष्कृती पापी । मणिमान् मणिमान्नाम दुष्टाग्रणीः । निष्क्रियार्थं स्ववैरनिरासार्थम् । भूचक्रं भूमण्डलं एत्य गत्वा । [^१] 'क्रुमुरिव' इति क्वचित् । [^२] '–निरासार्थम्' इति पा. [^३] एवञ्जातीयकेषु प्रयोगेषु सर्वत्रापीच्छा भविष्यदर्थः । प्रतिपादयितुमिच्छन् कष्टशास्त्रं चकारेत्यर्थः। एवमन्यत्रापि । भोक्ष्यमाणो गृहं गतः । भोक्तुमिच्छन् गत इत्यर्थः । [^४]. भीमावतारादनन्तरं मध्वावतारे प्रसङ्गं कथयतीति यावत् । 'दुष्टकीटक इव' इति पा. । चक्रं पाणौ यस्य तस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (२.२.३६) इति वार्तिकात् पाणिशब्दस्य परनिपातः । [^१]श्रीविष्णोर्गुणगणविरहं सत्य- सङ्कल्पत्वादिकल्याणगुणसधैर्विरहं वियोगं जीवतां जीवभावं च अधि- कृत्य उद्दिश्य । सतां सज्जीविनां चेतसः चित्तस्य क्रकचमिव करपत्रमिव स्थितम् । दुष्टाः वेदविरुद्धाः तर्काः यस्मिंस्तत् । कष्टशास्त्रं शोकदायिशास्त्रं चक्रे कृतवान् ॥ २९ ॥ ( स्तुतिचं.) तत्र गदाघातेन देहादुत्क्रामितानां क्रोधवशा इति गणशोऽ- भिहितानां असतामधिपतिः । अक्रमात् क्रमं विहाय । युगपदिति यावत् । निष्क्रियार्थं वैरनिर्यातनार्थम् । भूमण्डलमागत्य सतां चेतसः क्रकचमिव कष्टप्रदं शास्त्रं चक्रे । हरेर्गुणाभावं जीवभावं च प्रतिपादयत् । 'क्रकचं करपत्रं स्यात्' इति च । 'ಗರಗಸ' इति भाषायाम् । 'कीटे च कृमिवत् क्रिमिः' इति चान्यत्र ॥ २९ ॥ तदुष्प्रेक्षानु-सारात् कतिपय-कु-नरैरादृतोऽन्यैर्वि-सृष्टो ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्ड-वादः । तद्युक्त्याभास-जाल-प्रसर-विष-तरूद्दाह-दक्ष-प्रमाण- ज्वाला- माला- धरोऽग्निः[^2] पवन विजयते तेऽवतारस्तृतीयः ॥ ॥ ३० ॥ (कविक.) कष्टशास्त्रं चक्र इत्युक्तम् । तत्र किं प्रतिपाद्यम्? कैरङ्गीकृतम्? कैर्नाङ्गीकृतम्? इत्याशङ्कायां तत्सर्वं स्पष्टमाचक्षाणः श्रीवायोस्तृतीयावतारविजयमाह– तद्दुष्प्रेक्षानुसारादिति । ब्रह्माहं न जीवः । जीवभावस्याविद्यामूलत्वात् । अविद्यानिवृत्तौ ब्रह्मैव निर्गुणोऽहं कर्तृत्वभोक्तृत्वादिगुणरहितोऽहम् । इदं परिदृश्यमानं जगत् वितथं मिथ्या इत्येष पाषण्डवादः पाषण्डप्रलापः । 'सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा [^१] 'चक्रपाणे: श्रीविष्णोः' इति पा. । [^२] ' – मालाधराग्निः' इति क्वचित् । सत्यं भिदा[^१]', 'आत्मा हि परमस्वतन्त्रोऽधिगुणो जीवोऽल्पशक्तिरस्वतन्त्रोऽवरः', 'सत्यं च जगदीदृशम्' इत्यादिश्रुतिविरोधात् पाषण्डवादत्वमवसेयम्' । ननु 'योसावसौ पुरुषः सोऽहमस्मि', 'एकमेवाद्वितीयं ब्रह्म', 'नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्याद्यनेकान्यैक्यवाक्यानि सन्ति । तेषां का गतिरिति चेदुच्यते । सोऽहमस्मीत्यादिकमन्तर्याम्यैक्याभिप्रायम् । 'अन्यर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि । 'सर्वशब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु' इति ॥ [^१] क्वचित् 'सत्यं भिदा' इति सकृदेव पठ्यते । [^२] तथाहि पाषण्डवादो निरुक्तः शास्त्रेषु – 'पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । षण्डयन्ति तु तं यस्मात् पाषण्डास्तेन कीर्तिताः' इति । पाषण्डाचरणं च पाद्मे निरूपितं यथा ( पार्वतीं प्रति रुद्रवचनम्) - 'येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाज्जगद्वन्द्यात् ते वै पाषण्डिनस्तथा ॥ 'कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः । ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ॥ 'अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ॥ 'रहिता ये द्विजा देवि ते वै पाषण्डिनो मताः । श्रुतिस्मृत्युक्तमाचारं यस्तु नाऽचरति द्विजः ॥ 'स पाषण्डीति विज्ञेय: सर्वलोकेषु गर्हितः। समस्तयज्ञभोक्तारं विष्णुंब्रह्मण्यदैवतम्॥ 'उदस्य चान्यदेवेभ्यो जुहोति च ददाति च । स पाषण्डीति विज्ञेयः स्वतन्त्रो वाऽन्यकर्मसु ॥ 'स्वातन्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत् । विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः॥ 'यस्तु नारायणं देवं ब्रह्मरुद्रादिंदैवतैः । समत्वेनैव जानाति स पाषण्डी भवेत् सदा ॥ 'अनास्था क्रियते येन मनोवाक्कायकर्मभिः । वासुदेवं न जानाति स पाषण्डी भवेद् द्विजः ॥ 'विष्णुवैष्णवगोभूमिदेवादिषु विशेषतः । अश्वत्थतुलसीतीर्थक्षेत्रादिषु महागुरौ ॥ 'लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने । स्मृताः पाषण्डिनस्तेऽपि ये न सेवापरायणाः॥ 'रुद्राक्षेन्द्राक्षभद्राक्षस्फटिकाक्षादिधारिणः । जटिला भस्मलिप्ताङ्गास्ते वै पाषण्डिनः प्रिये ॥ 'किमत्र बहुनोक्तेन ब्राह्मणा ये ह्यवैष्णवाः। असदाचरणाश्चेत् स्युस्तदा पाषण्डिनः स्मृताः॥ 'एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः। पाषण्डिनस्तथा स्युर्वै जटाभस्मादिधारिणः ॥' (उत्तरखं.अ.४२) एकमेवाद्वितीयं ब्रह्मेत्यादिकस्य तु [^१]समाभ्यधिकराहित्यादिविषयतया साव- काशत्वम् । नेहनानेत्यादिनिन्दनार्थवादस्य तु स्वगतभेदविषयत्वेन सावका- शत्वम् । अन्यथेहेति विशेषणवैयर्थ्यात् । कतिपयकुनरैः कैश्चित्तमोयोग्यैः कुत्सितजनैः । तद्दुष्प्रेक्षानुसारात् । तस्य सङ्करस्य दुष्प्रेक्षा दुष्प्रज्ञा । तस्या अनुसारः अनुसरणं तस्मात् । आदृतः अङ्गीकृतः । अन्यैः मुक्तियोग्यैः सुजनैः विसृष्टः त्यक्तः । पाषण्डवादत्वादिति भावः । युक्तिवदवभासमानाः नतु युक्तय: । तस्य सङ्करस्य युक्त्याभासाः । तेषां जालं समूहः । तस्य प्रसरः प्रसारः । स एव विषतरु: विषवृक्षः । तस्य उद्दाहः उत्कृष्टदहनम् । तस्मिन् दक्षाणि समर्थानि प्रमाणानि श्रुतिवाक्यानि । तान्येव ज्वालामाला: ज्वाला- परम्पराः । ताः धारयति यः सोऽग्निः । हे पवन । ते तृतीयः तार्तीयकः । अवतारः मध्वावतारः विजयते सर्वोत्कृष्टत्वेन वर्तते ॥ ३० ॥ ( स्तुतिचं.) अहमेव ब्रह्म; अतो निर्गुणोऽहम् इदं विश्वं वितथमित्येष पाषण्डवादः । पाषडि हिंसागत्योः । पाषण्डति यो हिनस्ति वेदपदवीम्, अपथे च पतति । अन्यैः सुजनैर्विसृष्टः । तस्य मणिमतः तद्वादस्य वा युक्त्याभासानां जालं पटलम् । तस्य प्रसर एव विषवृक्षः । तस्य समूलदाहे दक्षाणि प्रमा- णान्येव ज्वालामालाः । ता बिभ्रदयं हे पवन, तव तृतीयोऽवतारः मध्व- पावकः ॥ ३० ॥ आ-क्रोशन्तो निराशा भय-भर-विवश-स्त्राशयाश्छिन्न-दर्पा वाशन्तो देश-नाशस्त्विति बत कु-धियां नाशमाशा दशाऽशु । धावन्तोऽश्लील-शीला वितथ-शपथ-शापाशिवाः शान्त-शौर्य्या- स्त्वद्-व्यख्या-सिंह-नादे सपदि दहशिरे मायि-गोमायवस्ते ॥ ३१ ॥ (कविक.) मायावादिनो मध्वाचार्यतत्वविद्याव्याख्याने प्रवर्तमाने सति सिंहनादे प्रवर्तमाने जम्बुका इव कष्टां दशां प्रापुरिति विज्ञापयति- [^१] 'समानाभ्यधिक-' इति पा. । आक्रोशन्त इति । हे श्रीमदाचार्यवर्य । त्वव्याख्यासिंहनादे तव व्याख्या- नरूपसिंहध्वनौ श्रूयमाणे सति । ते त्वया पराजिताः मायिगोमायवः मायावादिमृगधूर्तकाः। 'गोमायुर्मृगधूर्तकः' इत्यमरः । सपदि तदानीं व्याख्यान- समये । आक्रोशन्तः क उपाय: का गतिः किं शरणमिति[^१] परस्परमाह्वानं कुर्बाणाः । निराशाः निर्गतविजयाकाङ्क्षाः[^२] । भयभरेण साध्वससमृद्ध्या विवशः परवशः स्वाशयः स्वाभिप्रायः येषां ते । च्छिन्नदर्पाः गलितगर्वाः । कुधियां कुत्सितबुद्धीनां देशनाशः स्थानभ्रंशः बत हाहेति नाशं मृतिं वाशन्तः रुवन्तः[^३] । 'तिरश्चां वाशितं रुतम्' इत्यमरः । दश आशाः दश दिशः । आशु शीघ्रं धावन्तः गच्छन्तः । अश्लीलशीला: ग्राम्यस्वभावाः । 'ग्राम्ये त्वश्लीलम्' इत्यमरः । वितौ व्यर्थी शपथशापौ[^४] प्रतिज्ञोपालम्भौ येषाम् । ते च ते अशिवाः अमङ्गलाः । शान्तशौर्याः नष्टशौर्यगुणाः सन्तो दहशिरे दृष्टाः ॥ ३१ ॥ (स्तुतिचं.) ये च पाषण्डवादमनुगतास्ते मायिगोमायवः । त्वद्व्याख्यासिंहनादे श्रूयमाणे सपदि तस्मिन्नेव क्षणे कान्दिशीका आशा दिशो दशाप्याशु धावन्तो ददृशिरे । 'सृ गतौ' इति धातोर्वेगितायां गतौ धावादेशः । तथाहि जयादित्यः(अ.सू.७.३.७८ ) - 'सर्तेर्वगितायां गतौ धावादेशमिच्छन्ति । अन्यत्र सरति, अनुसरतीत्येव भवति' इति । ननु 'धावु'धातोरेव रूपसिद्धौ किमनेन द्राविडप्राणायामेन ? शृणु । प्रतना धावतिं शुद्धावेव पेठुः । 'धावु [^१] 'आक्रोशन्तः किं शरणं क उपाय: का गतिरिति' इति पा. । [^२] 'विगतविजयाकाङ्क्षाः' इति पा. । [^३] तदेतदेवं व्याख्येयम् – कुधियां नाशं देशनाश इति वाशन्त इति । आचार्यपादप्रवचनेन कुधियामेव नाशः समजनि । न सज्जनलोकस्य । परन्तु कुधियः स्वनाशमेव देशनाश इति भ्रमन्तो ववाशिरे । यद्यपि सिंहनादेन जम्बुका एव पलायिताः । स्वयं वनाद्रंशिता जम्बुका मेनिरे वनमेव नष्टमिति । तदुक्तम्-'अत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे । सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः' (म.वि.१२.१) इति । 'आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हाहा मायावाद उत्सादमेति' (१२.७) इति च । ४. 'शपथाक्रोशयोः शाप : ' इति दण्डनाथः । शुद्धौ' इति । तदनुसारेण सर्तेर्धावादेशमाह पाणिनिः । अधुनातनास्तु गत्यर्थेऽपि पठन्ति–'धावु गतिशुद्धयोः' इति । तत्पक्षे धावतेरेवेदं रूपम् । सर्तेर्धावादेशविधायकं सूत्रं तु व्यर्थं भवति । 'गोमायुर्भूरिमायः स्यात्' इति च । अवश्यं च ते गोमायवः । निर्वचनसाम्यात् । येषां गौर्वचनमेव माया । सृजन्ति मायामिति च सृगालान् वदन्ति । आक्रोशन्तः हा हन्त भग्नः सम्प्रदाय इत्याक्षिपन्तः। 'शाप आक्रोश आक्षेपः' इति च । हन्त क इदानीं शरणमस्माकमिति परस्परं रुदन्तो वा । क्रोशन्तीति हि क्रोष्टवः । भयभरेण स्वाशयमाविष्कर्तुमप्यप्रभवः । गलितगवः । कुधियां नाशं देशनाश इति वाशन्तः तिर्यञ्च इवाऽरुवन्तः । तिरश्चां हि रुतं वाशितमुच्यते । यद्यपि वाशतिरात्मनेभाषो दिवादिः । महतां प्रयोगमनुरुणद्धि व्याकरणम् । न व्याकरणं प्रयोगः । बहूनि च व्याकरणानि भवन्ति । भ्वादिरपीष्यताम् । यथा ष्ठीवतिः । प्रयोगशरणा हि वैयाकरणाः । वाश्यन्त इति वाशास्तिर्यञ्चः । तद्वदाचरन्त इत्यनुसन्धाय सन्तोष्टव्यं व्याकरणस्तनन्धयैः । अश्लीलं न श्रियं लाति । असंस्कृतचर्या इत्येतत् । 'ग्राम्यमश्लीलमुच्यते' इति, 'निन्दायां विस्मये बत' इति च ॥ ३१ ॥ त्रिष्वप्येवाव-तारेष्वरिभिरप-घृणं हिंसितो निर्विकारः सर्वज्ञः सर्व-शक्तिः सकल-गुण-गणापूर्ण-रूप-प्रगल्भः । स्वच्छ: स्वच्छन्द-मृत्युः सुखयसि सुजनं देव किं चित्रमत्र त्राता यस्य त्रि-धामा जगदुत वशगं किङ्कराः शङ्कराद्याः ॥ ॥ ३२ ॥ (कबिक.) अवतारत्रये विकारहेतौ सत्यपि निर्विकारत्वादिगुणाढ्यत्वं[^१] विज्ञापयन् शर्वादिसर्वसुरसेव्यत्वेन स्तौति – त्रिष्विति । त्रिषु अवतारेषु १. 'निर्विकारगुणाढ्यत्वम्' इति पा. । हनुमदादिप्रादुर्भावेषु । अरिभिः शत्रुभिः । अपगता घृणा यस्मिन् कर्मणि तत् । हिंसितः प्रहतोऽपि निर्विकारः विकाररहित एव । सर्वज्ञः सर्वार्थवित् । सर्वेषु कार्येषु शक्तिः सामर्थ्यं यस्य स सर्वशक्तिः । सकलगुणगणाः समस्तज्ञानानन्दादिगुणसमूहाः, तैः आपूर्णरूपं परिपूर्णस्वरूपम्, तेन प्रगल्भः प्रौढः । स्वच्छ: पापादिलेपरहितः । अत एव स्वच्छन्दमृत्युः स्वेच्छामृति: । हे देव श्रीमुख्यप्राण । एतादृशस्त्वं सुजनं भक्तजनं सुखयसि आनन्दयसीति यत् अत्र अस्मिन् सुखदाने किं चित्रम् ? किमाश्चर्यम् ? 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । आश्चर्यं नास्तीत्यर्थः । तथाहि– यस्य तव त्रीणि अनन्तासनवैकुण्ठक्षीरार्णवरूपाणि धामानि स्थानानि यस्य सः त्रिधामा विष्णुः त्राता रक्षकः[^१] । उत किञ्च । जगत् विष्टपं वशगं वशवर्ति । शङ्कराद्याः शर्वाद्याः सर्वे किङ्करा: सेवका:- 'बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । 'बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः ॥' इत्ययमर्थः सूचितः ॥ ३२ ॥ (स्तुतिचं.) अपघृणं निर्दयं हिंसितः । अथापि निर्विकारः । आखणाश्मा हि सः । 'प्रगल्भः प्रौढ उच्यते' इति च । गल्भ दार्ढ्ये । 'धार्ष्ट्ये' इत्यन्ये । 'अधार्ष्ट्ये' इत्यपरे । असुरावेशविरहात् स्वच्छ: परशुक्लत्रये परिगणितः । 'स्वच्छन्दो निरवग्रहः' इति च । इच्छामरणः । त्रिधामा नारायणः । श्वेतद्वीपोऽनन्तासनं वैकुण्ठश्चेति यस्य त्रीणि मुक्तिधामानि । 'अमृतं क्षेममभयं त्रिधाम्नोऽधायि मूर्धसु' इति भागवते । अवस्थात्रयनियमनाय विश्वस्तैजसः प्राज्ञ इति त्रीणि धामानि स्वरूपाणि वा यस्य । प्रणवस्य त्रीण्यक्षराणि त्रयो वा वेदा यस्य धाम ॥ ३२ ॥ १. 'रक्षिता' इति पा. । उद्यन्मन्द-स्मित-श्री-मृदु मधु-मधुरालाप-पीयूष-धारा- पूरासेकोप-शान्तासुख-सुजन-मनो-लोचनापीयमानम् । सन्द्रक्ष्ये सुन्दरं सन्दुहदिह महदानन्दमानन्दतीर्थ श्रीमद्-वक्त्रेन्दु-बिम्बं दुरित-नुदुदितं नित्य-दाहं कदा नु ॥ ३३ ॥ (कविक.) मुख्यप्राणमुखावलोकनस्य सकलपुरुषार्थहेतुत्वात् तत्कदा भविष्यतीत्याकाङ्क्षति - उद्यन्मन्दस्मितेति । नित्यं वृद्धिक्षयरहितं श्रीविष्णुं भक्तजनेभ्यो ददाति दर्शयति यस्तस्य सम्बुद्धिः । हे नित्यद[^१] । 'वृद्धिक्षयौ नतु परस्य सदातनस्य' इति हि वृद्धिक्षयराहित्यं श्रीविष्णोरुक्तम् । श्रीमदानन्दतीर्थ । तव सम्बन्धि उद्यन्मन्दस्मितश्रीमृदु उद्गच्छन्मृदुहसितशोभाकोमलम् । मधु क्षौद्रम् । तद्वन्मधुराः मनोहराः । आलापाः आभाषणानि । 'स्यादाभाषणमालापः' इत्यमरः । त एव पीयूषाणि । तेषां धाराः परम्पराः । तासां पूरः निकरः । तेनाऽसेक: अभिषेचनम् । तेन उपशान्तं प्रनष्टं असुखं येषां तेषां सुजनानां सज्जनानां मनोलोचनैः आपीयमानं आ समन्तादनुभूयमानम् । सुन्दरं मनोहरम् । 'सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्'[^२] इत्यमरः । इह एषु सेवाप्रवृत्तास्मदादिजनेषु । महदानन्दं[^३] भूरिसुखं नित्यं सन्दुहत्[^४] ददत् । दुरितनुत् पापनुत् । उदितं प्रसन्नम् । एतादृशं श्रीमद्व [^१] नित्यदा सर्वदेति व्याख्यानं कदेति कालप्रश्नान्न कृतम् । अपिच सर्वदेत्यर्थे नित्यदेति पाणिनिर्न पठति । स्वरादिषु तु पठन्ति । आकृतिगणत्वात् । प्रयोगश्च भारते - 'त्वमग्रे सर्वभूतानामन्तचरसि नित्यदा' (आदिप. ५.२८) [^२] क्वचित् 'मनोज्ञं मञ्जु मञ्जुलम्' इतीयानेव कोशभागः पठ्यते । परन्तु तत्र सुन्दरशब्दो नास्ति । [^३] परममहत्परिमाणमितिवन्महदानन्दमिति कथञ्चिद्योजनीयम् । यद्वा परमश्रौतस्त्रिविक्रमाचार्यः श्रौतमानन्दमत्र निर्दिदेश । श्रुतिषु चैतन्यस्वरूस्याऽनन्दस्य नपुंसकेनैव निर्देशात् । तथाहि श्रुतिः- 'विज्ञानमानन्दं ब्रह्म' इति । अथवा महतो मोक्षसाम्राज्यस्याऽनन्द इति व्याख्येयम् । 'महती वल्लकीभेदे राज्ये स्यात्तु नपंसकम्' इति मेदिनी । 'महद्राज्यविशालयोः' इति विश्वः । 'महदिति व्यस्तम्, पूज्यमित्यर्थः, वक्त्रेन्दुबिम्बेऽन्वेति' इति च केचित् व्याचक्षते। [^४] नित्यं दददिति वदता महदानन्दं नित्यदा सन्दुहदिति चान्वयः सूचितः । क्वचित् 'नित्यम्' इति न पठ्यते । क्त्रेन्दुबिम्बं शोभावन्मुखचन्द्रमण्डलं अहं कदा नु कदा वा सन्द्रक्ष्ये आलोकयिष्ये । 'दृशेश्चेति वक्तव्यम्[^१]' (वा. १. ३.२९) इति सम्पूर्वाशे- रात्मनेपदम्[^२] ॥ ३३ ।॥ (स्तुतिचं.) मन्दस्मितशोभया सुकुमारम् । मधुमधुर आलाप एव पीयू- षम् । तस्य धारापूरे पूरेण वा आसेक: अभिषवः । तेन उपशान्तमुपक्षीणमसुखं दुःखं येषां तेषां सुजनानां सुजनैर्वा मनसा नयनाभ्यां चाऽपीयमानम् । मनोहरणमासेचनकं च । इह् भक्तजने मयि, भूमौ वा आनन्दं सन्दुहत् । महत् महनीयम् । महान्तमानन्दं वा । महत्तत्वमिति यथा । महच्चाऽनन्दरूपं ब्रह्म व्याख्यानेन सन्दुहद् वा । महतो मोक्षस्याऽनन्दमिति वा । कदा नित्यदा सन्द्रक्ष्ये । सदा तदाननं कदा निर्वर्णयेयम् । 'दृशेश्चेति वक्तव्यम्' इति वार्तिकात् (१.३.२९) आत्मनेपदम् । अकर्मकादित्यनुवर्तनं कवयो नानु- मन्यन्ते । नित्यं विष्णुं ददाति दर्शयतीति नित्यदो मध्व इति च व्याचक्षते । नित्यदा उदितं सदोदितमिति वा । नेन्दुबिम्बमिव नक्तमेव । बहुगुणतया शास्त्रेषूदितं च ॥ ३३ ॥ प्राचीनाचीर्ण-पुण्योच्चय-चतुर-तराचारतश्चारु-चित्तानत्युच्चां रोचयन्तीं श्रुति-चित-वचनां श्रावकांश्चोद्य-चुचून् । [^१] क्वचित् 'अर्तिश्रुदिशिभ्यश्चेति वक्तव्यम्' इति पठ्यते । पाठविभ्रमोऽयं वैयाकरणानाम् । 'दृशेश्चेति वक्तव्यम्' इति काशिकादृतः पाठः । तत्पक्षे 'समोगम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः' इति सूत्रपाठः । [^२] नन्वकर्मकाच्चेत्यनुवर्तनाद्वक्त्रेन्दुबिम्बं सन्द्रक्ष्य इति कथम् ? इत्थं समाधेयम् । सकर्मकादपि बहुलं प्रयोगदर्शनात् अकर्मकत्वं प्रायिकमिति वक्तव्यम् । तेन 'आजघ्ने विषमविलोचनस्य वक्षः' इति भारविः, 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च सङ्गच्छेते । 'रक्षांसीति पुराऽपि संशृणुमहे वीरस्तु कस्तादृश:' इति मुरारिप्रयोगोऽप्यप्रामादिको भवति । अत एवानर्घराघवव्याख्याने (अङ्क.६.२५) रुचिपत्युपाध्यायोऽप्याह– 'अकर्मकादिति तत्रानुवर्तत इति प्रायिकम्' इति । यदि सर्वत्राप्यध्याहारे- णैव योजनीयमित्याग्रहः, अत्रापि तर्हि प्राप्येत्यध्याहृत्य सन्तोष्यतामन्तरात्मा। व्याख्यामुत्खात दुःखां चिरमुचित-महाचार्य्य चिन्ता-रतांस्ते चित्रां सच्छास्त्र-कर्त्तश्चरण-परि-चराञ्छ्रावयास्मांश्च किञ्चित् ॥ ॥ ३४ ॥ (कविक.) सच्छास्त्रसन्दर्भतत्त्वं तद्योग्यश्रोतृभ्यो व्याकुर्वाणान् श्रीमदानन्दतीर्थार्यान् कृतार्थबुद्धया तद्व्याख्यानं शुश्रूषुः प्रार्थयते– प्राचीनेति । सच्छास्त्राणि ऋगादयश्चत्वारो वेदाः पञ्चरात्रं भारतं मूलरामायणं च । यथोक्तं स्कान्दे- 'ऋग्यजुसामाथर्वाणो भारतं पञ्चरात्रकम् । 'मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ 'यच्चानुकूलमेतस्य तद्धि शास्त्रं प्रकीर्तितम् । 'अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत्' इति । तेषां कर्ता व्याकर्ता । तस्य सम्बुद्धिः । हे सच्छास्त्रकर्तः । अथवैतदनुसारिणां भाष्यादिसच्छास्त्राणां कर्तः प्रणेतः । उचितमहाचार्य योग्यपूज्यगुरो । प्राचीनं प्राक् । 'विभाषाऽञ्चेरदिक्स्त्रियाम्' (अ.सू.५.४.८) इति विभाषा खप्रत्ययः । तत्र पूर्वजन्मस्वित्यर्थः । आचीर्णानि आचरितानि पुण्यानि । तेषां उच्चयः समूहः । तेन चतुरतराः पटुतराः । आचाराः सत्सम्प्रदायाचरणानि । तेभ्यः । 'पञ्चम्यास्तसिलू' (अ.सू. ५.३.७) इति तसिलूप्रत्ययः[^१] । चारूणि निर्दोषाणि चित्तानि चेतांसि येषां तान् । 'चित्तं तु चेतो हृदयम्' इत्यमरः । चोद्यैः प्रश्नैः प्रसिद्धाः चोद्यचुञ्चवः तान् । 'तेन वित्तः–' (अ.सू.५.२.२६) इत्यादिना चुचुप् । श्रावकान् श्रोतॄन् प्रति । [^१] यद्यपीदं सूत्रं किंसर्वनामबहुभ्यः पूर्वसूत्रादनुवृत्तेभ्यस्तसिल्प्रत्ययं विधत्ते। न सर्वपदेभ्यः पञ्चम्यन्तेभ्यः इति वैयकरणानां मतम् । अथाप्यन्येषामपि यथाप्रयोगं साधुत्वं पाणिनिर्मन्यते । तदेतद् वार्तिके स्फुटम्- 'तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्' (५.४.४४) इति । तेनायमाचारत इति तसिः प्रत्ययः इति वक्तुमुचितमिति भाति । प्रतिशब्दोऽत्राध्याहर्तव्यः। अन्यथा 'रुच्यर्थानां प्रीयमाणः' (अ.सू.१.४.३३) इति सम्प्रदानसञ्ज्ञायां चतुर्थी स्यात्[^१] । चिरं अत्यर्थं रोचयन्तीं आनन्द- यन्तीम् । श्रुतौ चितानि विद्यमानानि वचनानि वाक्यानि यस्यां ताम्[^२] । अत्युच्चां अत्युत्कृष्टाम् । उत्खातदुःखाम् । उत्खातानि उन्मूलितानि दुःखानि यया ताम् । चित्रां विविधश्रुतिस्मृतीतिहासपुराणाद्युपन्यासेनाऽश्चर्यरूपां व्याख्यां व्याख्यानम् । तेन तव चिन्तारतान् ध्याननिरतान् । चरणपरिचरान् श्रीपादपरिचारकान् अस्मांश्च । किञ्चित् यावद्ग्रहणयोग्यं तावदित्यर्थः । श्रावय श्रुतिपथं प्रापय ॥ ३४ ॥ (स्तुतिचं.) प्राचीनेषु जन्मसु आचीर्णानां पुण्यानां समुच्चयेन साधावेव पथि पतितुं सञ्जातपाटवेन समाचारेण पूतचेतसः । चोद्येषु निपुणाश्रोद्य- चुञ्चवः । प्रश्नोपक्षेपचणाः । प्रसिद्धार्थे चुञ्चुपचणपौ स्मरन्ति वैया- करणाः । श्रावकान् रोचयन्तीं आनन्दयन्तीम् । श्रावंश्रावं पुनश्च श्रोतव्यं निरन्तरं श्रोतव्यमिति तर्षं वा जनयन्तीम् । तां व्याख्यां चरणपरिचरानस्मांश्च किश्चित् श्रावय ॥ ३४ ॥ पीठे रत्नोप- क्लप्ते रुचिर-रुचि-मणि-ज्योतिषा सन्निषण्णं ब्रह्माणं भाविनं त्वां ज्वलति निज-पदे वैदिकाद्या हि विद्याः । सेवन्ते मूर्त्तिमत्य: सु-चरित चरितं भाति गन्धर्व-गीतं प्रत्येकं देव-संसत्स्वपि तव भगवन्नर्त्तित - द्यो-वधूषु ॥ ३५ ॥ (कविक.) मूर्तिमत्सर्ववैदिकविद्यासेव्यत्वेन स्तुवंस्तव चरितं तत्र देवसभासु गन्धर्वगणैः सादरं गीयत इति विज्ञापयति- पीठ इति । हे सुचरित शोभनचरित्र । निजपदे आत्मीयपदे । रुचिराः मनोहराः रुचयो दीप्तयो येषां तेषां मणीनां माणिक्यानां ज्योतिषा प्रभया ज्वलति प्रकाशमाने । रत्नैः [^१] 'इति चतुर्थी स्यात्' इति पा. । 'चतुर्थीप्रसङ्गः स्यात्' इति क्वचित् । [^२] 'यस्यास्ताम्' इति पा. । उत्कृष्टमणिभिः । उपक्लप्ते निर्मिते पीठे सिंहासने सन्निषण्णं समासीनम् । निपूर्वात् सीदतेः 'गत्यर्थाकर्मक- ' (अ.सू. ३.४.७२) इत्यादिना कर्तरि निष्ठा । 'रदाभ्याम् –' (अ.सू.८.२.४२) इत्यादिना निष्ठानत्वम् । भाविनं भविष्यन्तं ब्रह्माणं त्वां भवन्तम् । वैदिकाः[^१] वेदसम्बन्धिन्य: आद्याः आदि- भूताः यासां ताः । आद्यग्रहणेन तान्त्रिका गृह्यन्ते । विद्याः तत्वविद्याः । मूर्तिमत्यः सशरीराः सत्यः सेवन्ते भजन्ते हि । अपिच हे भगवन् समग्रज्ञान- वैराग्यादिसम्पन्न[^२] । नर्तिताः नृत्यमारभमाणाः द्योवध्वः स्वर्गस्त्रियः यासां तासु । 'आदिकर्मणि क्तः कर्तरि' (अ.सू.३.४.७१) इत्यादिना कर्तरि क्तः । देवानां संसदः सभाः तासु । एकस्मिन्नेकस्मिन् प्रत्येकम् । वीप्सायामव्ययीभावः । तत्रतत्र सर्वत्रेत्यर्थः । गन्धर्वैः देवगायनैः । गीतं नियत[^३]श्रुतिस्वरमण्डलैः प्रबन्धेषु गीयमानमित्यर्थः । तव चरितं महिमा भाति शोभते ॥ ३५ ॥ (स्तुतिचं.) निजलोके मणिज्योतिषा ज्वलति रत्नखचिते पीठे निषण्णम् । वैदिकमाद्यं यासां ता मूर्तिमत्यो विद्यादेवताः सेवन्ते । वेदा एव वैदिकम् । इतिहासपुराणानि वेदाङ्गानि शीक्षाद्यानि स्मृतयश्च मीमांसा च । आदिना तर्काः काव्यालङ्कृतिनीतिनाटकादयश्च । नर्तितसुराङ्गनासु सुरसभासु गन्धर्वगीतं च तव चरितं भाति ॥ ३५ ॥ सानुक्रोशैरजस्रं जनि-मृति-निरयावूर्म्मि-मालाविलेऽस्मिन् संसाराब्धी नि-मग्नाञ्छरणमशरणानिच्छतो वीक्ष्य जन्तून् । युष्माभिः प्रार्थितः सन् जल-निधि-शयनः सत्यवत्यां महर्षे- र्व्यक्तश्चिन्मात्र-मूर्त्तिर्न्न खलु भगवतः प्राकृतो जातु देहः ॥ ॥ ३६ ॥ [^१] स्त्रियां ङीपि वैदिकीति वक्तव्यम् । भगवत्पादैस्तु 'विद्वद्रूढिर्वेदिका स्यात्' इत्याबन्ततयाऽपि प्रायोजि । वैदिकं आद्यं यासामिति विग्रहे तु न काऽपि क्षतिः । [^२] 'भगवन् वैराग्यसम्पन्न' इति पा. । [^३] 'प्रतिनियत-' इति पा. । (कविक.) ज्ञानदानपात्रराहित्यात् संसारसमुद्रे निमज्जतो जन्तून् वीक्ष्य कृपया ज्ञानदानेन तानुद्धर्तुं भवद्भिर्विज्ञापितो भगवान् व्यासरूपेणाऽविरासीदिति विज्ञापयति– सानुक्रोशैरिति । जनिर्जननम् । मृतिर्मरणम् । निरयो नरकः[^१] । ते आदयो येषां तान्येव ऊर्मयः । तासां मालाः पङ्क्तयः । ताभिः आविले कलुषिते । अस्मिन् परिदृश्यमाने । संसाराब्धौ संसारसमुद्रे । अजस्रं अनवरतम् । निमग्नान् निपतितान् । अशरणान् अरक्षकान्[^२] । 'शरणं गृहरक्षित्रोः' इत्यमरः । शरणं रक्षकं इच्छतः आकाङ्क्षतः । जन्तून् प्राणिनः वीक्ष्य आलोक्य । अनुक्रोशः कृपा । तेन सह वर्तन्त इति सानुक्रोशैः । 'तेन सह–'(अ.सू.२.२.२८) इत्यादिना बहुव्रीहिः । युष्माभिः प्रार्थितः याचितः । जलनिधिशयनः श्रीनारायणः । सत्यवत्यां सत्यवतीदेव्याम् । महर्षेः पराशरात् । चिन्मात्रमूर्तिः केवलज्ञानदेहः सन् व्यक्तः आविर्भूतः । यदुक्तम्'यदात्मको भगवांस्तदात्मिकी व्यक्तिः । किमात्मको भगवान् । ज्ञानात्मकः ऐश्वर्यात्मकः शक्त्यात्मकः' इति । 'सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । 'ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥' 'बुद्धिमान्मनोवानङ्गप्रत्यङ्गवान्' इति। भगवतः श्रीनारायणस्य देहः । जातु कदाचित् । 'कदाचिज्जातु' इत्यमरः । प्राकृतः प्रकृतिसम्बन्धी निश्चेतनात्मकशरीरगुणो न खलु न भवति हि । [^३]तदुक्तम्-- 'निश्चेतनात्मकशरीरगुणैश्च हीनः' इति ॥ ३६ ॥ ( स्तुतिचं.) संसारसागरे निमग्नान् शरणं त्रातारमिच्छतो जनान् वीक्ष्य सानुकम्पैर्युष्माभिः प्रार्थितः महर्षेः पराशरात् अभिव्यक्तः । यतोऽस्यावतारेष्वपि न प्राकृतो देहः ॥ ३६ ॥ [^१]. 'नरकम्' इति पा. । [^२] पूर्वोक्तरीत्या संसारसागरतरणोपायमजानत इति वा । [^३] 'यदुक्तम्' इति पा. । अस्त-व्यस्तं समस्त-श्रुति-गतमधमै रत्न-पूगं यथाऽन्धै- रर्त्थं लोकोपकृत्यै गुण-गण-निलयः सूत्रयामास कृत्स्नम् । योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्तत्-प्रसादात् सद्यो-विद्योप-लब्ध्यै गुरु-तममगुरुं देव-देवं नमामि ॥ ३७॥ (कविक.) व्यासत्वेनावतीर्णो भगवान् किमकरोदित्याकाङ्क्षायां व्यासावतारप्रयोजनाभिधानपूर्वकं तं प्रणमति - अस्तव्यस्तमिति । गुणाः ज्ञानानन्दादयः । तेषां गणः समूहः । तस्य निलयः निवासः । व्यासाभिधानः श्रीवेदव्यासनामकः । योऽसौ प्रकृतत्वेन वर्णितो भगवान् । अधमैः अज्ञैः । अन्धैः यथा। 'इवयद्वायथाशब्दा उपमाने प्रकीर्तिताः' । अस्तव्यस्तं अन्यथा प्रतिपादितम् । रत्नपूगपक्षे तरतमाभावेन प्रोतम् । समस्तश्रुतिगतं सर्ववेदस्थितम् । अन्यत्र प्रसिद्धतया सकलजनश्रुतिपथगतम् । कृत्स्नं समस्तं अर्थम् । रत्नपूगं रत्नसमूहमिव । लोकोपकृत्यै लोकोपकाराय । लोकप्रसाधनाय च । सूत्रयामास 'अथातो ब्रह्मजिज्ञासा' इत्यादिसूत्रेषु प्रतिपादयामास । अन्यत्र तन्तुप्रोतं चकारेत्यर्थः । अहं तत्प्रसादात् तस्योत्तमप्रसादात्[^१] । सद्यो विद्योपलब्ध्यै अविलम्बेन ज्ञानप्राप्त्यर्थम् । 'सर्वेऽपि पुरुषार्थाः स्युर्ज्ञानादेव न संशयः' इति ज्ञानस्य सर्वपुरुषार्थ प्रदत्वादिति भावः । अहरहः प्रतिदिनम् । अगुरुं अविद्यमानगुरुम् । गुरुतमं परमगुरुम् । देवदेवं देवोत्तमं श्रीवेदव्यासम् । भक्तितः भक्त्या नमामि प्रणतोऽस्मि । अत्र श्लोकद्वये स्कान्दपुराण[^२]स्थितोऽर्थः प्रतिपादितः । तथाहि- 'नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् । 'किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥ 'गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते । 'सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥ [^१] ' – प्रसादतः' इति पा. । [^२] 'स्कन्दपुराण–' इति पा. । 'शरण्यं शरणं जग्मुर्नारायणमनामयम् । 'तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥ 'अवतीर्णो महायोगी सत्यवत्यां पराशरात् । 'उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥ 'चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । 'शतधा चैकधा चैव तथैव च सहस्रधा ॥ 'कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये। 'चकार ब्रह्मसूत्राणि ......…' इति ॥ ३७॥ (स्तुतिचं.) अन्धैरस्तव्यस्तं व्याकीर्णं रत्नपूगमिवाधमैरस्तव्यस्तं यथाकथा च कथितं श्रुतिगतमर्थजातं सूत्रेषु निबबन्ध । तत्प्रसादात् सद्यो भगवविद्योपलब्ध्यै ॥ ३७ ॥ आज्ञामन्यैरधार्यां शिरसि परि-सरद्-रश्मि-कोटीर-कोटौ कृष्णस्याक्लिष्ट-कर्म्मा दधदनु-सरणादतिो देव-सङ्घैः । भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्म-सूत्रस्य भाष्यं दुर्भाष्यं व्यस्य दस्योर्म्मणिमत उदितं वेद-सयुक्तिभिस्त्वम् ॥ ॥ ३८ ॥ ( कविक.) भगवता बादरायणेन ब्रह्मसूत्राणि कृत्वाऽऽज्ञापितभाष्यादिक- रणरूपकार्यस्त्वं तदाज्ञां शिरसाऽङ्गीकृत्य भूमाववतीर्णः सन् यावत्परमतं न निराक्रियते तावत्स्वमतमप्रतिष्ठितं भवतीति न्यायादितरदुर्भाष्यनिराकरण- पूर्वकं श्रीमद्भाष्यं कृतवानसीति विज्ञापयति- आज्ञामिति । हे भूमन् महामहिमन् । कृष्णस्य श्रीवेदव्यासस्य । अन्यैः त्वदितंरैर्देवैः अधार्यां अङ्गीकर्तुमशक्याम् । आज्ञां अनुशासनम् । परिसरन्तः प्रसरन्तः रश्मयो यासां ताः । कोटीराणां मकुटानां कोटयः अग्राणि यस्य तस्मिन् । 'कोटिरग्रे प्रकर्षे च सङ्ख्याचापाग्रयोरपि' इति निघण्टुः[^१] । 'तृतीयादिषु भाषितपुंस्कं पुंव- द्गालवस्य' (अ.सू.७.१.७४) इति पुंवद्भावे,[^२] 'इकोऽचि विभक्तौ' (अ.सू.७.१.७३) इति नुमभावः । शिरसि दधत् दधानः । 'नाभ्यस्ता- च्छतुः' (अ.सू.७.१.७८) इति नुम्प्रतिषेधः । अक्लिष्टकर्मा अनवद्यव्यापारः त्वम् । देवसङ्घैः देवसमूहैः । अनुसरणात् अनुसरणं प्राप्य । कर्मणि ल्यब्लोपे पञ्चमी । प्रार्थितः अभ्यर्थितः सन् । भूमौ आगत्य । आगमनक्रियाधिक- रणविवक्षायां सप्तमी । दस्योः चोरात् । विश्वापहारित्वादिति भावः । मणिमतः सङ्करात् उदितं उत्पन्नम् । दुर्भाष्यम् । अनुभवश्रुतिस्मृतिविरुद्ध- त्वात्तस्य दुष्टत्वादिति[^३] भावः । वेदैः सयुक्तिभिः सदुपपत्तिभिश्च व्यस्य निरस्य । असुकरं असर्वज्ञैः कर्तुमशक्यम् । ब्रह्मसूत्रस्य भाष्यं अकरो: कृतवानसि ॥ ३८ ॥ (स्तुतिचं.) 'आहुः किरीटमुष्णीषं कोटीरम्' इति च । परितः प्रसर्पद्रश्मि कोटी कोटीराग्रं वा । 'कोटिरुत्कर्षसङ्ख्ययोः' इति च । नारायणस्य कृष्ण- द्वैपायनस्य चाऽज्ञां शिरसि दधत् । अनुसरणं विधाय देवगणैः प्रार्थितः । मणिमत उदितं वचनम् । उद्भूतं वा । ऐकात्म्यवादेन शास्त्रदस्योः। 'प्राकाश्या ह्येते तस्कराः' इति च श्रुतिः । 'याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः' इति च भारते । परमात्मापहारिणो वा । 'योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणाऽत्माहारिणा' इति तत्रैव । वेदवचनैः सद्युक्तिभिश्च व्यस्य निरस्य ॥ ३८ ॥ भूत्वा क्षेत्रे विशुद्धे द्विज-गण-निलये रूप्य-पीठाभिधाने तत्रापि ब्रह्म-जातिस्त्रि-भुवन-विशदे मद्ध्य-गेहाख्य-गेहे । [^१ १] ' इत्यमरः' इति पा. । परन्त्वमरकोशे नैतत् पठ्यते । [^२] 'भाषितपुंस्कमित्यादिना पुंबद्भावे' इति पा. । [^३] 'दुष्टत्वमिति' इति पा. । पारिव्राज्याधि-राज: पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थ- प्रकाशम् ॥ ३९ ॥ ( कविक.) स्तोत्रकर्तेदानीं तज्जन्मभूमिनिजगृहवर्णाश्रमान् विवृण्वन् न केवलं तत्रभवद्भिर्ब्रह्मसूत्रभाष्यमेव कृतम् । किन्तु पुनः बदरिकाश्रमं च गत्वा[^१] भगवद्बादरायणनमस्कारपूर्वकं श्रीगीताभाष्यादिकं कृतमिति विज्ञापयति-- भूत्वेति । हे मुख्यप्राण । भवान् विशुद्धे पवित्रे । द्विजगणनिलये । द्विजगणस्य ब्राह्मणसमूहस्य निलये आश्रये । रूप्यपीठाभिधाने रजतपीठनाम्नि । त्रिभु- वनविशदे लोकत्रयप्रसिद्धे । क्षेत्रे देशविशेषे । तत्रापि देशविशेषेऽपि । मध्यगेहाख्यगेहे मध्यगृहाभिधानस्य गृहे । ब्रह्मजातिः ब्राह्मणो भूत्वा । पारिव्राज्याधिराजः सन्न्याससाम्राज्यसार्वभौमः सन् पुनरपि बदरीं श्रीमद्भ- दरिकाश्रमं प्राप्य । कृष्णं वेदव्यासं च नत्वा प्रणम्य । भाष्याणि श्रीम- द्गीताभाष्यदीनि कृत्वा भारतार्थप्रकाशं च व्यतनुत अकुरुत । श्रीमहा[^२]- भारततात्पर्यनिर्णयाख्यग्रन्थविशेषेणेत्यर्थः ॥ ३९ ॥ (स्तुतिचं.) 'विमलं विशदं वीघ्रम्' इति च । त्रिभुवनविशदे क्षेत्रे, तत्रापि मध्यगेहाख्यस्य 'ನಡಿಲ್ಲಾಯ ' इति भाषायाम्, गेहे सदने भार्यायां वा भूत्वा । पुनरपि द्वितीयवारम् । गीताब्रह्मसूत्रोपनिषदामृचां च कती- नाञ्चन भाष्याणि कृत्वा भारतार्थप्रकाशं महाभारतात्पर्यनिर्णयं च विरचया- मास ॥ ३९ ॥ वन्दे तं त्वा सु-पूर्ण-प्रमतिमनु-दिनासेवितं देव-वृन्दैवन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् । [^१] 'किन्तु बदरिकाश्रमं गत्वा' इति पा. । [^२] 'श्रीमन्महा-' इति पा. । [^३] 'ग्रन्थविशेषमित्यर्थः' इति पा. । वन्दे मन्दाकिनी-सत्-सरिदमल-जलासेक-साधिक्य सङ्गं वन्देऽहं देव भक्त्या भव-भय-दहनं सज्जनान्मोदयन्तम् ॥ ॥ ४० ॥ (कविक.) स्तोत्रावसाने स्तोता भक्त्युद्रेकाद्भगवन्तं भूयोभूयः प्रणमति–- वन्द इति । हे देव श्रीमुख्यप्राण । तं तथा लोकवेदप्रसिद्धम् । त्वा त्वाम्। 'त्वामौ द्वितीयायाः' (अ.सू.८.१.२३) इति त्वादेशः । अहं भक्त्या वन्दे । नमामि स्तौमि च । 'वदि अभिवादनस्तुत्योः' इत्यस्माल्लडुत्तम- पुरुषैकवचनम् । देववृन्दैः सुरनिकरैः । दिनेदिने अनुदिनम् । वीप्सायामव्ययी- भावः । आसेवितम् । आ समन्तात् सेवया पूजितमित्यर्थः । सुपूर्ण- प्रमतिम् । सुपूर्णा अन्यूना प्रमतिः प्रज्ञा यस्य तम् । पूर्णप्रज्ञनामान- मित्यर्थः । वन्दे । ईशे श्रीविष्णौ । कर्मणोऽधिकरणविविक्षायां[^१] सप्तमी । नियतं अवश्यम् । वन्दारुं अभिवादकम् । 'वन्दारुरभिवादकः' इत्यमरः । श्रियः उत श्रीदेव्याश्च वन्दारुं वन्दनशीलम् । 'शृवन्द्योरारु:' (अ.सू. ३.२.१७३) इत्यारुप्रत्ययः । श्रिय इति कर्मणः शेषत्वविवक्षायां षष्ठी । नतु कृद्योगलक्षणा । तस्याः ' न लोक–'(अ.सू.२.३.६९) इत्यादिना प्रति- षेधात् । श्रीमदानन्दतीर्थं वन्दे । मन्दाकिनीसरित् सुरनदी[^२] । तस्याः अमलजलं निर्मलोदकम् । तस्य आसेक: अभिषेकः । तस्मात् । अधिकस्य भावः आधिक्यम् । तेन सह वर्तत इति साधिक्यः सङ्गः यस्य तम् । भवभय- दहनम् । भवः संसारः । तस्माद्भयं साध्वसम् । तस्य दहनं अग्निम् । दाहकमित्यर्थः । सज्जनान् साधुजनान् मोदयन्तं हर्षयन्तं[^३] भवन्तं वन्दे नमामि ॥ ४० ।॥ (स्तुतिचं.) ईशे भगवति विषये । नियतं सदा वन्दारुं वन्दनशीलम् । श्रिय उत श्रियश्च वन्दारुम् । श्रिय ईशे श्रीपतौ वा । मन्दाकिनीपुण्यजलाभिषेकादपि यस्य सङ्गोऽधिकफलः । आधिक्येन सहितः साधिक्यः सङ्गः ॥ ४० ॥ [^१] अधिकरणत्वविवक्षायामित्यर्थः । [^२] 'पुण्यनदी' इति पा. । [^३] 'हर्षं प्रापयन्तम्' इति पा. । सुब्रह्मण्याख्य-सूरेः सुत इति सु-भृशं केशवानन्दतीर्थ- श्रीमत्-पादाब्ज-भक्तः स्तुतिमकृत हरेर्वायु-देवस्य चास्य । तत्-पादार्चादरेण ग्रथित-पद-लसन्मालया त्वेतया ये संराद्ध्यामू नमन्ति प्रतत-मति-गुणा-मुक्तिमेते ब्रजन्ति ॥ ॥ ४१ ॥ इति त्रिविक्रमपण्डिताचार्यविरचिता वायुस्तुतिः समाप्ता ॥ (कविक.) सम्प्रति भगवान् स्तोत्रकर्ता त्रिविक्रमाचार्यः स्तोत्रमुपसंहरन् स्वाभिजात्यप्रख्यापनायाऽत्मीयप्रसिद्धकुलदेवताचार्यजनकनामाभिधान- पूर्वकमेतत्स्तोत्रपाठकानां फलमभिधत्ते -- सुब्रह्मण्येति । सुब्रह्मण्याख्यसूरेः सुब्रह्मण्यविपश्चितः सुतः पुत्रः । सुभृशं अत्यर्थम् । केशवः श्रीनारायणः । आनन्दतीर्थश्च । तयोः श्रीमत्पादाब्जभक्त: श्रीमच्चरणनलिनसेवकस्त्रिविक्रमा- चार्यः । हरेः श्रीवासुदेवस्य । अस्य स्तोत्रनायकस्य श्रीवायुदेवस्य च । इति पूर्वोक्तप्रकारेण । 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः । स्तुतिं स्तोत्रम् । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । अकृत कृतवान् । ये तु ये केचन सज्जनाः । एतया मया कृतया । तयोः केशवानन्दतीर्थयोः पादार्चादरेण श्रीमच्चरणपूजाकरणेच्छया[^१] । ग्रथितया रचितया पदानां सुप्ति- ङन्तरूपाणां लसन्मालया विलसत्स्रजा । मालापदसन्निधानेन सुप्तिङन्तप- दानां पुष्पत्वमवसेयम् । अमू केशवानन्दतीर्थी संराध्य सम्पूज्य नमन्ति नमस्कारं कुर्वन्ति । त एते जनाः । प्रततमतिगुणाः अतिविशदापरोक्षज्ञानगुणाः सन्तः । मुक्तिं मोक्षं व्रजन्ति प्रयान्ति[^२] ॥ ४१ ॥ कविकर्णामृतं नाम्ना वेदत्मयतिना कृतम् । व्याख्यानं वेति(?भातु) नामैतदासुधांशुदिवाकरम् ॥ [^१] 'पूजेच्छया' इति पा.। [^२] 'व्रजन्ति यान्ति' इति पा. । [^१]नारायणमुन्नाम(?) पत्र सुकृतगन्धिवत्(?) । तदर्थमकरन्दस्तब्याख्यानं कुसुमं तयोः (?) उक्तानुक्तदुरुक्तानि विचिन्त्यात्र विपश्चितः । सम्प्रदायविदो यूयमनुशिष्ट यथोचितम् ॥ इति श्रीवेदात्मतीर्थ श्रीचरणविरचिता वायुस्तुतिटाका समाप्ता[^२] ॥ ( स्तुतिचं.) इति स्तुतिमकृत । हरेर्विष्णोः पृथक् चात्र च गुरूणां गुरुतया । वायुदेवस्य च विशिष्य । समग्रं स्तोत्रं हरिपरतया च केचिद् व्याचक्षते । अनुकम्पनीयास्ते । तयोः पादसपर्यायामादरेण । कृतादरेण वा सुब्रह्मण्यसूरिसूनुना । ग्रथिता पदलसन्माला । एतया ये अमू नमन्ति नारायणसमीरणौ ते मुक्तिं व्रजन्ति ॥ ४१ ॥ इमामाचार्यगोविन्दः सतां परिमितां हिताम् । वितेने विमलां व्याख्यां विनेयजनवाञ्छया ॥ * ॥ इत्याचार्यगोविन्दस्य कृतिषु वायुस्तुतिटीका समाप्ता ॥ [^१] सर्वत्रापि लिखितपुस्तकेष्विदमेवमसङ्गतमेव पठ्यते । न क्वापि सङ्गतः समग्रः पाठः । [^२]. एकस्मिन् लिखितकोशे 'इति श्रीवेदात्मयतिकृतं कविकर्णामृतं नाम वायुस्तुतिव्याख्यानं समाप्तम्' इत्यस्ति। तारतम्यमीमांसा नत्वा नारायणं देवं मध्वं मूलगुरुं तथा । प्रणीयते तारतम्यमीमांसा हरितुष्टये । विष्णोः सर्वोत्तमत्वं वायोश्च जीवोत्तमत्वं न सम्यगवगम्यते विना तारतम्यमीमांसाम् । विष्णुभक्तिश्च सर्वाधिका न देवतासु परिवारभूतासु तारतम्यपरिज्ञप्तिं विना शक्यमनुसन्धातुम् । तत इयं तारतम्यमीमांसा प्रस्तूयते- १. परमपुरुषो नारायणः । गुणतो देशतः कालतः शक्तितश्चानन्तः । [मत्स्यकूर्मक्रोडसिंहबटुभार्गवराघवाः । कृष्णबुद्धौ कल्किदत्तहयशीपैंतरेयकाः ॥ पाराशर्यश्च कपिलो बैकुण्ठो वृषभस्तथा । यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ॥ नारायणो हरिः कृष्ण उपेन्द्राः सर्व एव च । एवमाद्या हरे: साक्षात् प्रादुर्भावाः प्रकीर्तिताः ॥] २. परा प्रकृतिर्लक्ष्मीः । नारायणादनन्तांशावरा । [श्रीर्भूर्दुर्गाऽम्भ्रिणी ह्रीश्च महालक्ष्मीश्च दक्षिणा । सीता जयन्ती सत्या च रुग्मिणीत्यादिभेदिता ॥] ३. हिरण्यगर्भः । मुख्यप्राणश्च । लक्ष्म्याः कोटिगुणावरौ । [प्राण: सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः । स्थितिर्योगश्च वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम् ॥ मेधा मुक्तिर्विष्णुभक्तिरादिगोपो महाप्रभुः । ऋजुः सुमानो विज्ञाता महाध्याता महागुरुः ॥ हनूमान् भीम आनन्द इत्यादिबहुरूपिणः । हिरण्यगर्भा येऽतीता ये भाव्या यश्च वर्तते ॥] ४. हिरण्यगर्भपत्नी सरस्वती । मुख्यप्राणपत्नी भारती च । ब्रह्मवायुभ्यां शतगुणावरे । [सरस्वती च गायत्री श्रद्धाऽऽद्या प्रीतिरेव च । सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका ॥ गुरुभक्तिर्हरौ प्रीति: सर्वमन्त्रात्मिका भुजिः । शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा । चन्द्रेत्यादिस्त्ररूपा यास्तेभ्यः शतगुणावराः ॥] ५. गरुडः । शेषः । रुद्रश्च [एकादशरुद्रेषु यः प्रधानः] । सरस्वतीभारतीभ्यां शतगुणावराः । [ शेषः सदाशिवचोर्ध्वस्तपोsहङ्कार एव च । नरोऽवटो लक्ष्मणश्च रौहिणेयः शुकस्तथा ॥ सद्योजातो बामदेवश्राघोरस्तत्पुमानपि । दुर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपकः ॥] ६. विष्णोः कृष्णावतारे षण्महिष्यो नीला, भद्रा, मित्रविन्दा, काळिन्दी, लक्षणा, जाम्बवती च । [आसु जाम्बवती प्रधाना । लक्ष्म्या विशेषावेशदशायां शेषतुल्या ।] गरुडशेषरुद्रेभ्यः पञ्चगुणावराः । ७. गरुडपत्नी सुपर्णी । शेषपत्नी वारुणी । रुद्रपत्नी पार्वती च । गरुडशेषरुद्रेभ्यो दशगुणावराः । ८. पुरन्दरः । कामश्च । सुपर्णीवारुणीपार्वतीभ्यो दशगुणावराः । [ वाली गाधिर्विकुक्षिश्च पार्थ इन्द्रः पुरन्दरः । सुदर्शनश्च भरतः प्रद्युम्नः स्कन्द एव च । सनत्कुमार: कामश्चेत्येक एव व्यवस्थितः ॥] ९. शरीरमानी अहम्प्राणः [४९मरुत्सु प्रधानः]। पुरन्दरकामाभ्यां दशगुणावरः । १०. पुरन्दरपत्नी शची । कामपत्नी रतिः । कामपुत्रोऽनिरुद्धः । बृहस्पतिः । स्वायम्भुवमनुः । दक्षप्रजापतिश्च । अहम्प्राणाद् दशगुणावराः । ११. स्पर्शमानी प्रवहः [४९ मरुत्सु द्वितीय:] । अनिरुद्धादिभिः पञ्चगुणावरः । १२. चन्द्रः । सूर्यः । सूर्यपुत्रो यमः । स्वायम्भुवमनुपत्नी शतरूपा च । [द्वादशस्वादित्येषु सूर्यस्तृतीयः । तत्र प्रथमो विष्णुर्वामनोऽदित्यां जातः । इन्द्रानुजतया जात इति तमुपेन्द्रमाचक्षते । द्वितीयोऽष्टमकक्ष्यागतः पुरन्दराख्य इन्द्रोऽदित्यां पूर्वजातः । ] एते प्रवहाद् द्विगुणावराः । अनिरुद्धादिभ्यो दशगुणावराः । १३. वरुणः [द्वादशस्वादित्येषु चतुर्थः] । १४. नारदः । १५. अग्निः [अष्टवसुषु प्रधानः] । वरुणपुत्रो भृगुमुनिः । दक्षप्रजापतिपत्नी स्वायम्भुवमनुपुत्री प्रसूतिश्च । एते चन्द्रादिभ्यो दशगुणावराः । १६. वैवस्वतमनुः । विश्वामित्रः । महर्षयः सप्त पूर्वे- मरीचिः, अत्रिः, अङ्गिराः, पुलस्त्य:, पुलहः, क्रतुः, वसिष्ठश्चेति । १७. मित्रः [द्वादशस्वादित्येषु पञ्चमः] । निरृतिः । बृहस्पतिपत्नी तारा । प्रवहवायुपत्नी प्रावही च । १८. विघ्नाधिपतिर्गणपतिर्भूताकाशमानी । धनपतिः कुबेरः । वायुजो विष्वक्सेनः। सूर्यजावश्विनौ नासत्यदस्रौ नाम । प्रधानवसुमग्निमृते सप्तान्ये वसवः - द्रोणः, प्राणः, ध्रुवः, अर्कः, दोषः, वस्तुः, विभावसुश्चेति । [वसूनामपि नामान्तराणि पठ्यन्ते । वस्तुरेव द्यु॒वसुः, यो भीष्मो बभूव ।] उक्तान् पञ्च वक्ष्यमाणं चैकं विहाय षडादित्या:- अर्यमा, पूषा, त्वष्टा, सविता, भगः, धाता चेति । [आदित्यानामपि बहुधा नामानि पठ्यन्तेऽन्यान्यग्रन्थेषु बहुनामानो हि देवाः ।] दश विश्वेदेवाः-क्रतुः, दक्षः, सवः, सत्यः, काम:, कालः, धुरिः, लोचनः, पुरूरवः, आर्द्रवश्चेति । एकादशसु रुद्रेषु प्रधानं विहायान्ये दश – रैवतः, ओजः, भवः, भीमः, वामः, उग्रः, वृषाकपिः, अजैकपात्, अहिर्बुध्निः, विरूपाक्षश्चेति । [रुद्राणामपि नामान्तराण्यन्यत्र पठ्यन्ते]। एकोनपञ्चाशन्मरुत्सु अहम्प्राणं प्रवहं च विहायावशिष्टाः ४७ मरुतः-प्राणापानव्यानोदानसमानाः, नागकूर्मकृकळदेवदत्तधनञ्जयाः, आवहोद्वहपरावहविवहसंवहाः, शम्भुः शङ्क, कलः, श्वासः, अनलः, अनिलः, प्रतिभः, कुमुदः, कान्तः शुचिः, श्वेतः, अजितः, गुरुः, सञ्ज्ञः प्रवर्तकः कालः, दक्षः, सोम्यः, कपिः, जडः, मण्डूकः, सन्तत:, सिद्धः, रक्तः, कृष्णः, पिकः, शुकः, यतिः, भीमः, हनुः, पिङ्गः, कम्पनश्चेति । [मरुतां बहुविधानि नामानि पठ्यन्ते । नैकत्राप्येकरूपता । तत्रायमेकः प्रकारः प्रतनैरुद्धृतः] । पितृपतिष्वेकः कव्यवाहनामाऽग्निः । [ त्रिषु प्रधानपितृपतिषु द्वौ यमसोमौ द्वादशकक्ष्यायां गतौ] । ऋभवस्त्रयः – ऋभुः, विभ्वा, वाजश्चेति । द्यावापृथिवीमानिन्यौ च देव्यौ । १९. प्रधानवायुपुत्रो भूतवायुमानी मरीचिः[^१] । प्रधानाग्निपुत्रो भूताग्निमानी पावकः । पादमानिनाविन्द्रपुत्रौ यज्ञनामा जयन्तः, शम्भुश्च । दैत्यगुरुः शुक्रः । तत्सोदरच्यवनः । बृहस्पतिसोदर उचथ्य: । उक्तं सनत्कुमारं विहायान्ये त्रयो ब्रह्मणो मानसपुत्रा ऋषय:- सनकः, सनन्दनः, सनातनश्च । सप्त चान्य ऊर्ध्वरेतसः । एतान् दश, पूर्वोक्तान् सनत्कुमारादींश्च दश विहायान्ये काश्यपाद्या अशीतिर्गृहस्था ऋषयः । भाविमन्वन्तराणामिन्द्राः सप्त - बलिः, अद्भुतः, शम्भुः, विधृतिः, ऋतधामा, दिवस्पतिः, शुचिश्च । [अतीतेषु मन्वन्तरेषु प्रथमे स्वायम्भुवेऽन्तरे यज्ञनामा विष्णुरेवेन्द्रः । द्वितीये स्वारोचिषे रोचननामा वायुः । तृतीये चौत्तमे सत्यजिन्नामा यम इन्द्रः । चतुर्थे तापसे पञ्चमे च रैवते त्रिशिखविभुनामानौ नासत्यदस्रावश्विनाविन्द्री । षष्ठे चाक्षुषे मन्द्रद्युम्नः स एव च सप्तमे वैवस्वतेऽन्तरे पुरन्दरनामेन्द्रः । तमेतमष्टमकक्ष्यागतमिन्द्रमाचक्षते ॥ त्रीनुक्तान् विहायावशिष्टा एकादश मनवः- स्वारोचिषः, उत्तमः, रैवतः, चाक्षुषः, सावर्णिः, दक्षसावर्णिः, ब्रह्मसावर्णिः, धर्मसावर्णिः, रुद्रसावर्णिः, देवसावर्णिः, इन्द्रसावर्णिश्चेति । [प्रथमः स्वायम्भुवो मनुर्दशमकक्ष्यायां गतः । चतुर्थस्तापसो मनुः स्वयं विष्णुरेव । सप्तमो वैवस्वतः षोडश्यां कक्ष्यायां गतः । अपरे त्वेकादशात्र ।] दशसु पितृपतिषु पूर्वोक्तान् यमसोमकव्यवाहान् विहायान्ये सप्त । अष्टौ विष्णोद्वारपालका:जय:, विजय:, चण्ड:, प्रचण्ड:, नन्दः, सुनन्द:, कुमुदः, कुमुदेक्षणश्चेति । अष्टौ प्रधानगन्धर्वाः । अष्टौ प्रधानाप्सरसः । विश्वकर्मा । [^१] मरीचिं पूर्वे विद्वांस एकान्नविंश्यां कक्ष्यायां पठन्ति । अयं भूतवायुमानीति गीतातात्पर्ये स्थितम् । आकाशमानी भूतवायुमानी च समानाविति चैतरेयभाष्यादवगम्यते । तेन मरीचिरेकान्नविंश्यां पठितेषु प्रधानः, अष्टादश्यां कक्ष्यायां पठिताद् गणपतेः किञ्चिन्यूनः । प्रायस्तत्समान इति ज्ञायते । चित्रगुप्तः । सूर्यसारथिररुणः । नन्दी । ऐरावतः । सुरभिः । कल्पवृक्षादिदेवताः । अहोरात्रदेवते । पूर्णिमामावास्यादेवते । अभिजिद्विषुवद्देवते । ओषधिवनस्पत्यभिमानिनः । हविःकपालाद्यभिमानिनश्च । कर्मणा देवत्वं गताः शतं राजर्षयश्च पृथुः कार्तवीर्यः, शशबिन्दुः, प्रियव्रतः, उत्तानपादः, मान्धाता, गयः, ककुत्स्थः, नहुषः, अम्बरीषः, आर्षभो भरतः, दौः षन्तिर्भरतः, मरुत्तः, हरिश्चन्द्रः, प्रह्लादः, परीक्षिदाद्याश्च । त एतेऽग्नेः शतगुणावराः । २०. द्वादशादित्येषु चरमः पर्जन्य: । अनिरुद्धभार्या उषा विराडाख्या । चन्द्रभार्या रोहिणी । सूर्यभार्या सञ्ज्ञा । यमभार्या श्यामळा । वरुणभार्या च गङ्गा । एकान्नविंशकक्ष्यापठितेभ्यो मरीच्यादिभ्यो द्विगुणावराः । २१. उक्तवक्ष्यमाणेभ्योऽन्ये अनाख्याताः देवाः । [ केचिन्नैतां कक्ष्यां परिगणयन्ति] । २२. अग्निभार्या वाङ्मानिनी स्वाहा । एकान्नविंशकक्ष्यापठितेभ्यः पञ्चगुणावरा । २३. जलमानी बुधः । स्वाहातो द्विगुणावरः । २४. अश्विभार्या नाममानिनी उषाः । स्वाहातो दशगुणावरा । २५. कुजः[^१] । २६. पृथिवीमानी सूर्यतनयः शनिः । २७. कर्ममानी वरुणपुत्रः पुष्करः । २८. काश्यपभार्याऽदितिः, या देवकी बभूव । द्रोणाव्यवसुभार्या धरा, या यशोदा बभूव । [^१] अयमप्येकोनविंश्यां कक्ष्यायां पठनीय इत्येके । २९. कृष्णपत्नीत्वेन जाता अग्निपुत्राः १६, १०० सङ्ख्याकाः । आसु त्वष्टृपुत्री कशेरुः किञ्चिदधिका । ३०. अनाख्याता आजानजा देवाः । शतं गन्धर्वाः । शतमप्सरसः । [शतं कोटीनामृषयः सन्ति । तत्र पूर्वोक्तमृषीणां शतकं विहायावशिष्टाः] ९९,९९,९९,९०० ऋषयः । एकान्नविंशकक्ष्यापठितेभ्यः कर्मदेवेभ्यः शतगुणावराः । ३१. पूर्वोक्तानां सप्तानां पितृपतीनां सन्ततिभूताश्चिरपितरः । आजानदेवेभ्यः शतगुणावराः । ३२. पूर्वोक्तं गन्धर्वाणामप्सरसां च शतमष्टोत्तरं विहायावशिष्टा गन्धर्वा अप्सरसश्च । चिरपितृभ्यः शतगुणावराः । ३३. मनुष्यगन्धर्वाः । गन्धर्वेभ्यः शतगुणावराः । ३४. चक्रवर्तिनः । मनुष्यगन्धर्वेभ्यः शतगुणावराः । ३५. नरोत्तमाश्चतुर्वर्णगताः । चक्रवर्तिभ्यः शतगुणावराः । *** एतेषु च विशिष्योपनिषदुक्ता नामादिमारुतान्ता यथा- १. नाममानिनी उषाः [२४] २. वामानिनी स्वाहा [२२] ३. मनोमानी पर्जन्यः [२०] ४. सङ्कल्पमानी मित्रः [१७] ५. चित्तमानी अग्निः [१५] ६. ध्यानमानी वरुणः [१३] ७. विज्ञानमानी चन्द्रः [१२] ८. बलमानी प्रवहः [११] ९. अन्नमानी अनिरुद्धः [१०] १०. अम्मानी अहम्प्राणः [९] ११. तेजोमानी पुरन्दरः [८] १२. आकाशमानिनी उमा [७] १३. स्थिरस्मृतिमानी शिवः [५] १४. आशामानिनी भारती [४] १५. जीवमानी मुख्यप्राणः [३] [बलमिति ज्ञानबलं देहबलं च । तदुभयमानी भूतवायुः । अन्नमिति ज्ञानरतिरूपं ज्ञानान्नं बाह्यमन्नं च । तदुभयमानी अनिरुद्धः । आप इति ज्ञानतृप्तिर्बाह्यजलं च । तदुभयमानी अहम्प्राणः । तेज इति मानसं प्रतिभानं बाह्यं च । तदुभयमानी पुरन्दरः । आकाश इति स्थिरा प्रतिभा भूताकाशश्च । तदुभयमानिन्युमा । ततः स्थिरस्मृतिमानी शिवः । तत आशाया अपरोक्षानन्दस्य मानिन्यौ सरस्वतीभारत्यौ । ततश्च जीवकलामानी मोक्षानन्दमानी च प्राणात्मा हिरण्यगर्भ इति ।] तथाहि श्रुतिः– 'अथातः सम्भूतिः । परमाद् विद्या विद्याया: प्राण: प्राणाच्छ्रद्धा श्रद्धायाः शिवः शिवाद् बुद्धिर्बुद्धेरिन्द्र इन्द्रात् तेजसप्राणस्तैजसप्राणादनिरुद्धोऽनिरुद्धात् स्पर्शवात: स्पर्शवातात् सोमः सोमाद् वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्य: पर्जन्यात् स्वाहा स्वाहाया उषा जायते' इति । इमामाचार्यगोविन्दश्चक्रे चक्रायुधप्रियाम् । तारतम्यस्य मीमांसां विनेयजनवाञ्छया ॥ इत्याचार्यगोविन्दस्य कृतिषु तारतम्यमीमांसा समाप्ता ८२ अ अत्यंतं संततं अद्राक्षीदुत्पतन्तं अस्तव्यस्तं समस्तअस्मिन्नस्मद्गुरूणां अस्याविष्कर्तुकामं वायुस्तुतेः श्लोकार्द्धानुक्रमणिका आ आक्रोशन्तो निराशा आज्ञामन्यैरधार्यां उत्कण्ठाकुण्ठउत्तत्पात्युत्कटउद्गाढं पात्यमाना उद्यद्विद्युत्प्रचण्डां उद्यन्मन्दस्मितश्रीउन्मथ्यातथ्यएतेषामेष दोष३१/१ ३८/१ आनन्दान् मन्दमन्दा- १०/१ ए ७/२ १८/२ ३७/१ १२/१ ४/१ ज २/१ ११/१ ११/२ G ३३ / १ २८/२ ३/२ २७/१ १४/२ त तत्पादार्चादरेण तत्वज्ञान् मुक्तिभाजः तद्दुप्प्रेक्षानुसारात् तद्युक्त्याभासजालतस्मै ते देव कुर्मः तामिस्रान्धादित्रिष्वप्येवतारेद दुष्प्रापे पारमेष्ठये दृष्ट्वा दुष्टाधिपोर:देव्यादेशप्रणीतिदेहादुत्क्रामितानां द्रुह्यन्तीं हृद्रुहं मां ध धावन्तोऽश्लीलन निर्भेदाभ्यां विशेषाद्निर्मूगन्नत्ययत्नं ग गच्छन् सौगन्धिकार्थं गोविन्दे देहि भक्तिं चक्रे भूचक्रमेत्य जघ्ने निघ्न २२/१ प्राक् पञ्चाशत्जन्माधिव्यध्युपाधि- ३/१ प्राचीनाचीर्णपुण्योप पारिव्राज्याधिराजः पीठे रत्नोपक्कॢप्ते पूयासृङ्मूत्रविष्ठे पूर्णज्ञानौजसोस्ते ता. मी. ४१/२ १६/१ ३० / १ ३०/२ २२/२ ३२/१ २१/२ २०/१ २१/१ २९/१ २५/१ ३१/२ २६/२ २३/१ ३९/२ ३५/१ १३/२ २७/२ १८/१ ३४/१ ब बह्वी: कोटीरटीकः भ भक्त्युद्रेकावगाढभूत्वा क्षेत्रे विशुद्धे भूमावागत्य म मध्वाख्यं मन्त्रसिद्धं मातर्फे मातरिश्वन् मूर्द्धन्येषोऽअलिमें य यस्तूदास्ते स आस्ते यः सन्धत्ते विरिञ्चि याभ्यां शुश्रूषुरासी: यावत् प्रत्यक्षभूतं युष्माभिः प्रार्थितः येन भ्रूविभ्रमस्ते येनाsजौ रावणारियेऽमुं भावं भजन्ते योऽसौ व्यासाभिधानव वन्दे तं त्वा सुपूर्णवन्दे मन्दाकिनीवन्देऽहं तं हनूमानिति २८/१ २/२ ३९/१ ३८/२ ४/२ १४/१ १२/२ १५/२ २६/१ २३/२ ३६/२ ८/२ २०/२ ४०/२ १७/१ वाग्देवी सा सुविद्या वाचां यत्र प्रणेत्री विष्णोरत्युत्तमत्वावीर्योद्धार्यां गदाग्र्यावृन्दैरावन्यबैकुण्ठे कण्ठलग्नव्याख्यामुत्खातदुःखां श शुश्रूषार्थं चकर्थ श्रीमद्विष्णवधिनिष्ठाश्रीवत्साङ्काधिवासोस संसारोत्तापनित्योपसन्द्रक्ष्ये सुन्दरं सस्नेहानां सहस्वासानुक्रोशैरजस्रं साम्रोष्णाभीषुशुभ्रसुब्रह्मण्याख्यसूरे: सेवन्ते मूर्तिमत्य: स्वच्छः स्वच्छन्दमुत्युः स्वस्वस्थानस्थितातिक्ष क्षिप्तः पश्चात् सलीलं क्षुत्क्षमान् रूक्षरक्षोक्ष्वेलाक्षीणाट्टहासं ८३ २५/२ १/२ १५/१ ५/२ १०/२ ३४/२ २४/२ १/१ ६/२ ६/१ ३३ / २ १७/२ ३६/१ ८/१ ४१/१ ३२/२ १९/१ १३/१ २४/१ 42 82