<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<lg>
  <l>अनीनदत्पद्मभवो मृदङ्गं जगौ हनुमान् जगतामधीशम् ।</l>
  <l>अदर्शयत्तालगतीः कपर्दी ननर्त गोपालकबालमौलिः ॥</l>
</lg>
<pb n="2" />
<p>श्रीः
अथ श्रीमदानन्दतर्थिभगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
तृतीयं उपाधिखण्डनम्
श्रीजयतीर्थभिक्षुविरचितेन विवरणेन
श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थरचितया मन्दारमञ्जरी टिप्पण्या समलङ्कृतेन
विभूषितम्</p>
<pb n="3" />
<lg>
  <l>कामधेनुर्यथा पूर्व सर्वाभीष्टफलप्रदा ।</l>
  <l>तथा कलौ वादिराजश्रीपादोऽभीष्टदः सताम् ॥</l>
</lg>
<pb n="4" />
<p>श्री
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
दशप्रकरणेषु
तृतीयं उपाधि खण्डनम्
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
टीका</p>
<lg>
  <l>रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।</l>
  <l>तत्वप्रकाशिका व्याख्यां करिष्यामो यथामति ॥</l>
</lg>
<p>अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः
मन्दारमञ्जरी टिप्पणी प्रारभ्यते
हरिः ॐ</p>
<lg>
  <l>[^1]लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।</l>
  <l>प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥</l>
</lg>
<lg>
  <l>श्रीमदानन्दतीर्थार्यचरणाम्बुरुहम् ।</l>
  <l>शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥</l>
</lg>
<lg>
  <l>जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरूनपि ।</l>
  <l>तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥</l>
</lg>
<p>प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनकमविगीतशिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं
मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्'
[^1] कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिका<error>व्य ख्यां</error><fix>व्याख्यां </fix>करिष्यामो यथामति ॥ १ ॥ स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥
मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः ।
अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थकर्तृकायाः स्वकर्तृकत्वाभावेन प्रथमश्लोकोत्तरार्धस्यानुपपन्नत्वात् ।</p>
<pb n="5" />
<p>उपाधिखण्डने
इति कर्त्रर्थे ल्युटः स्मरणात् कर्तरि ल्युट् । रमारमणस्यैव नम्यत्वे हेतुमाह ॥ गुणमाणिक्येति ॥ गुणा एव
माणिक्यानि तेषां मण्डनमित्यर्थः ॥ तत्वप्रकाशिकाव्याख्यामिति ॥ब्रह्ममीमांसासहितवेदान्तविषयादितत्व-
प्रकाशिकाव्याख्यामित्यर्थः । करिष्याम इति परसमवेतक्रियाफलाभिधायिना परस्मैपदेन शिष्यानुजिघृक्षया ग्रन्थो
निर्मीयत इति सूचयति ।
अवतरणिका
(टी.) परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मकस्यापि जीवस्य अनाद्यविद्याकामकर्मादि-
निमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादाद्रुते अपगच्छति । न च असाक्षा-
त्कृतोऽसौ प्रसीदति । न च अविदितस्वरूपः शक्यते साक्षात्कर्तुम् इति सकलगुणाकरतया निश्शेष-
दोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति
परमार्थः ।
(मं. टि.) ननु किमर्थमिदं प्रकरणमारभ्यते भगवत्पादैः? न च वेदान्तानां समीमांसानां विषयप्रयोजनादि-
स्वरूपनिर्णयार्थमारभ्यते, तन्निर्णयश्च वेदान्तादौ जिज्ञासूनां प्रवृत्त्यर्थः, प्रवृत्तिश्च ज्ञानसम्पादनद्वारा मोक्षपर्यवसायि-
नीति वाच्यम् । मोक्षस्य ईश्वरप्रसादैकसाध्यत्वेन ज्ञानानपेक्षणादित्याशङ्कयाह ॥ परमात्मन इत्यादिना न चासा-
क्षात्कृतोऽसौ प्रसीदतीत्यन्तेन ग्रन्थेन ॥ जीवस्य दुःखाद्यनर्थः परमेश्वरप्रसादादृते नापगच्छतीति सम्बन्धः ।
ननु दुःखादेरानन्दादिवदनिवृत्तिः किं न स्यात् ? इत्यत आह ॥ अन्यथाकार इति ॥ आनन्दादिवन्न
स्वाभाविकत्वं [^1] अन्तःकरणधर्मत्वाद्दुः खादीना मिति भावः । तर्हि मायिमत इव दुःखादीनां मिथ्यात्वं स्यादिति ।
नेत्याह ॥[^2]  परमार्थत इति ॥ दुःखादीनां स्वरूपेण [^3] अन्तःकरणे परमार्थत्वात् तदनुसन्धातृत्वस्य दुःखित्वस्य
जीवे परमार्थत्वान्न कस्यापि मिथ्यात्वमित्यर्थः । ननु तस्यानर्थस्यानिमित्तकत्वे स्वरूपानन्दादिवत्स्वाभाविकत्वं
स्यात् । सनिमित्तकत्वे च निमित्तस्यापि निमित्तान्तरापेक्षायामनवस्था स्यादित्यत आह ॥ अनाद्यविद्याकाम-
कर्मेति ॥ सनिमित्तकत्वेऽपि निमित्तस्यानादित्वान्नानवस्थेत्यर्थः । अविद्या भावरूपाज्ञानम् । कामो रागः ।
कर्म काम्यादिकर्म । अविद्यायाः स्वरूपेणानादित्वम् इतरयोस्तु प्रवाहत इति द्रष्टव्यम् ।
स्वरूपतोsनादित्वपरिष्कार:
ननु किमिदमनादित्वं नाम । किं प्रागभावाप्रतियोगित्वं ? किं वा कारणशून्यत्वं आद्येऽपि किं
स्वप्रागभावाप्रतियोगित्वं ? अन्यप्रागभावाप्रतियोगित्वं वा ? प्रागभावमात्राप्रतियोगित्वं वा ? आद्येऽपि किं
[^1] आगन्तुकत्वाद्दुःखादीनामिति भावः ॥ [^2] ॥ परमार्थ इति ॥ [^3]  अन्तःकरणपरिणामत्वेन परमार्थत्वात् तदनुसन्धातृत्वस्य च,</p>
<pb n="6" />
<p>मन्दारमञ्जर्या स्वरूपतोऽनादित्वपरिष्कार:
(मं. टि.) स्वप्रागभाव: प्रसिद्ध : ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः ।  [^3]  द्वितीये त्वसम्भवः ।
[^1]  स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । नापि द्वितीय: । घटस्यापि पटप्रागभावाप्रतियोगि
नोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं कार्यवाची किंवा सामान्यवाची ? नाद्यः । घटस्याऽपि
' कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादिप्रागभावप्रतियोगी । न द्वितीयः । आका-
शादिप्रतियोगिकप्रागभावस्याप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयो: सामान्याभावात् । एवमेव कारणशून्य-
त्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।
3
4</p>
<lg>
  <l>घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।</l>
  <l>आरोप्य बुद्धि पूर्वं सा गगनादौ निषिद्धयते ॥</l>
</lg>
<p>:
.
स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु 'स्वप्रागभावाप्रसिद्धौ 'स्वप्रागभावप्रतियोगित्वाभावोऽप्य-
सिद्धः' इति तत्र किं ' प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात् ' इत्यर्थो विवक्षितः ? । किंवा 'प्रतियोगिनोऽसत्वे
तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकमभावज्ञानं च न स्यात् इति ? । नाद्यः । प्रागभावप्रध्वंसयो प्रतियोगि
सत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवा-
पेक्षते । प्रकृते च स्वप्रागभावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । 'घटरादौ
प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च
बुद्धिपूर्वकारोप एव । 'इह भूतले घटो नास्ति' इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्वक-
मारोप्य निषेधे एतद्भुतलस्य घटाभावः सिद्धयति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य
गगनादौ बुद्धि पूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ
स्वप्रागभावप्रतियोगित्वस्य दर्शनात् 'गगनं स्वप्रागभावप्रतियोगि वस्तुत्वात् घटवत्' इत्याद्यनुमानाभासैगगनादेः
स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्धयत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्या-
दीन्यनादित्वलक्षणान्यूह्यानि । एवमेव 'प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि समर्थनीयानीति दिक् ।
।
8
प्रवाहतोऽनादित्वपरिष्कारः
9
' नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थ: प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो
भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरारभ्यते ? उत ' ' ज्ञाप्यते ? आद्ये कथमयमनादि: स्यात् ?
10.
1 प्रागभावाप्रसिद्धौ. 2. न द्वितीय: 3 कृत्स्नप्रागभावाप्रतियोगिनोsनादित्वप्रसङ्गात्.
4 सामान्यस्याभावात्.
5 स्वप्रागभावप्रतियोगित्वाभावोऽप्यप्रसिद्ध इति. इत आरभ्य अथवा इत्यन्तो भागो मुद्रितपुस्तके नास्ति.
ध्वंसाप्रतियोगित्वं. 8 समर्थनीयानि.
9 तथापि.
10 ज्ञायते.
6</p>
<pb n="7" />
<p>उपाधिखण्डने
(मं. टि.) द्वितीयेऽपि किं प्रवाहिणां प्रत्येकं ज्ञापकत्वं ? किं वा मिलितानां ? नाद्यः । एकैकप्रवाहिदर्शनेऽपि प्रवाह-
बुद्धिप्रसङ्गात् । न द्वितीयः । तेषां क्रमभाविनां मेलनस्यैवासम्भवात् । नाऽपि द्वितीयः । सादिप्रवाह्यभिन्नस्य
प्रवाहस्यानादित्वायोगात् । तस्मात्कर्मादीनां प्रवाहतोऽनादित्वमिति व्याख्यानमयुक्त मिति । अत्रोच्यते
1</p>
<lg>
  <l>प्रवाह इति गीयन्ते सजातीया: प्रवाहिण: ।</l>
  <l>कालेनोपाधिना ग्रस्ता नानावृक्षा वनं यथा ॥</l>
</lg>
<p>न प्रवाहिभ्योऽतिरिक्त प्रवाहोऽस्ति । सजातीयानां प्रवाहिणामेव पूर्वापरकालवृत्ति वेनोपाधिना प्रवाह
शब्दार्थत्वात् । 'दृष्टं चैतत् । एकदेशस्थत्वेनोपाधिना अनेकवृक्षाणामेव 'वनशब्दार्थत्वात् । तेषामना दिव
च एकप्रवाहमध्यपतितानेकप्रवाहि प्रतियोगिक प्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगिप्रवाहित्वमिति
न कश्चिद्दोषः ।
प्रकरणस्य प्रयोजनादिसमर्थनम्
ननु जीवस्वरूपानन्दस्य स्वतः सिद्धत्वात् तद्विरुद्धदुःखस्य तत्रानवकाशान्नेश्वरप्रसादेन सम्पाद्यमस्तीत्यत
आह ॥ स्वतश्चिदिति ॥ चिदानन्दाद्यात्मकस्यापि नापगच्छतीति विधेयविशेषणमेतत् । स्वरूपानन्दादिना
बाह्यदुःखादे विरोधाभावात् दुःखादिनिवृत्तेरीश्वरप्रसादसाध्यत्वमस्तीत्यर्थः । उपलक्षणमेतत् । स्वरूपानन्दस्य
नित्यत्वेऽपि आविर्भूतानन्दस्य प्रयोजनत्वात् आविर्भावस्येश्वरप्रसादसाध्यत्वादित्यपि द्रष्टव्यम् । परमात्माभिन्नस्य
4.
जीवस्य कुतोऽनर्थप्राप्तिः? इत्यन आह ॥ परमात्मनो भिन्नस्येति ॥ व्यावहारिक भेदसद्भावेऽपि न पारमार्थि
कानर्थो जीवस्य सम्भवतीत्यत आह ॥ अत्यन्तेति ॥ परमार्थत इत्यर्थः । यद्वा भास्करमतनिरासेन अभेदा-
सहिष्णुभेदप्रतिपादनाय अत्यन्तमित्युक्तम् । मोक्षस्येश्वरप्रसाद साध्यत्वेऽपि तत्साक्षात्कारं विना तत्प्रसादा-
भावात् अपरोक्षज्ञानजनकानां वेदान्तानां सप्रयोजनत्वात् तद्विषयक प्रवृत्तिहेतुभूत विषयादिनिर्णायकस्यास्य प्रकरण -
स्यापि सप्रयोजनत्वमित्यभिप्रायः ।
।
नन्वेवमप्यपरोक्षज्ञानमेव 'मोक्षपर्यवसायि । वेदान्तैश्च परोक्षज्ञानमेव क्रियत इत्यत आह ॥ न चेति ॥
अविदितेति ॥ परोक्षज्ञ /नेना विदितेत्यर्थः । घटाद्यपरोक्षज्ञानस्य परोक्षज्ञानपूर्वकत्व नियमाभावेऽपि ईश्वरापरो..
क्षज्ञानस्योपासनासाध्यत्वात् उपासनायाश्च परोक्षज्ञानपूर्वक त्वनियमादिति भावः । नन्वीश्वरपरोक्षज्ञानं लोकत
एव प्राप्तमिति किं वेदान्तैः ? इत्याशङ्कयाह ॥ सकलेति ॥ यद्यपि कार्यत्वाद्यनुमानेनेश्वरस्वरूपमात्रमवगतम् ।
तथापि तन्नोपासनाङ्गम् । 'श्रुत्यायुक्त गुणविशिष्टस्यैवोपास्यत्वादिति भावः । कर्मकाण्डस्यापीश्वरज्ञान हेतुकर्म-
प्रवाहतोऽनादित्वव्याख्यानमयुक्त मिति.
4 भास्करमतनिरासाय. 3 प्रयोजनपर्यवसायि.
"
.
2 दृष्टपूर्व चैतत् । एकदेशावस्थानोपात्रिना. 3 वनशब्दार्थत्वदर्शनात्,
6 परोक्षज्ञानपूर्वकत्वादिति भावः
श्रुत्युक्त.
7</p>
<pb n="8" />
<p>प्रकरणस्य प्रयोजनादिसमर्थनम्</p>
<p>(म. टि.) प्रतिपादकत्वात् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम्! 'वेदार्थ_
निर्णायकन्यायव्युत्पादकत्वादित्याह ॥ तदुपकरणेति ॥ .
मायावाद्यभिमतविषयादिनिरूपणम्
(टी.) अपरे तु स्वतः 'परमात्मभूतस्यैव जीवस्य अज्ञानादिनिमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञा-
नै कनिवर्हणीय इत्यतोSस्यानर्थहेतोः ग्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।
तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।
(मं. टि.) वेदान्तानां विषयादितत्व निर्णयार्थं चैतत्प्रकरणम् । किं 'विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्कय
अस्तीत्या । अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह
॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते। आत्मैकत्वविद्याया: प्रयोजनमाह ॥ अनर्थोऽद्वै
*
तज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्ति-
शब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं से तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अन-
र्थोऽद्वैतज्ञानक निबर्हणीय इति ॥ इत्यनर्थ निबर्हणार्थमिति शेषः । अनर्थस्या द्वैतज्ञाननिवर्त्यत्वे हेतुमाह
॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्द: कारणमात्र.
वाची तद्विशेषोपादाने पर्यवस्यनीति द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः
परमात्माभित्रे जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्य
सहत्वमनर्थस्य भूषणं । प्रतीतिमात्रं तु प्रत्यक्ष सिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्र निवर्तक-
त्वान्न दुःखादिनिवर्तकत्वं तत्राह ॥ अस्य ग्रहाणायेति ॥ अस्येत्यज्ञानस्येत्यर्थः । साक्षादन निवृत्तिहेतुत्वा-
भावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्व विद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थनिवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थ-
हेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेय निवृत्तिहेतुत्वं सुप्रसिद्धमिति भावः ।
मङ्गलाचरणम्
(टी.) तमेतं शास्त्रस्य परा भिमतमधिकारिविषयप्रयोजन सम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं
प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थना
रूपमादितो मङ्गलमाचरति ।</p>
<lg>
  <l>नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।</l>
  <l>अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥</l>
</lg>
<p>अगण्यगुणानां
नित्यैकनिलया सदा मुख्याश्रया आकृति: मूर्तिर्यस्यासौ तथोक्तः । प्रीयतां
अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वात् इदं नोक्तम् । अत्रोऽद्य विशेषणद्वयं स्तुत्यर्थमपि
2 श्री.
3 विषयाद्याभासप्रसक्तिरित्याशङ्कय.
1 वेदान्तार्थ.
परब्रह्मभूतस्य.
4 यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । आत्मैकत्व विद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैक निबर्हणीय
इति ॥ अनर्थनिबर्हणार्थमिति शेषः ।</p>
<pb n="9" />
<p>उपाधिखण्डने
(टी.) उत्तरप्रबन्धप्रसङ्गोपक्षेपाय कृतम् । अथवा नानिर्धारित स्वरूपस्य प्रसादाशंसनं युक्तम् । न च
लक्षणेन विना निर्धारणमिति लक्षणद्वयाभिधानमिदम् । यथोक्तम्
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् । इति ॥
• नारायणप्रीतिरिव रमायाः प्रीतिरपि प्रार्थनीयेति ज्ञापनाय कमलालयः इत्युक्तम् ।
(मं. टि.) तस्माद्विषयामासस्य प्रसक्तत्वातन्निराकरणं युक्तमित्याह ॥ तमेतमिति ॥ तदनेनास्य
प्रकरणस्य वेदान्तविषयादितत्वं विषयः । तदवधारणं प्रयोजनं । वेदान्तशुश्रूषुरधिकारी । सम्बन्धस्तु
यथायोग्यमूहनीय इत्युक्तं भवति ।
ननु मीमांसया " वेदान्तार्थनिर्णये विषयादिकं तत्रैव निश्चेष्यत इति किमनेन प्रकरणेनेति चेत् नैष
दोषः । वेदान्तविषयक प्रवृत्तिहेतुभूतस्य विषयादितत्वावधारणस्य प्रवृत्तिसाध्यवेदान्तश्रवणसाध्यत्वे अन्योन्या-
श्रयप्रसङ्गेन प्राक् प्रवृत्तेः सामान्याकारेण तज्ज्ञानोपायप्रकरणारम्भोपपत्तेः ।
॥ नारायणस्तवनेति ॥ नारायण स्तवननारायणप्रीतिप्रार्थनरूपमङ्गलद्वयाचरणं ' भूयांसि मङ्गलान्यनुष्ठि-
तानि भूयसो विघ्नान् घ्नन्ति ' इति सूचनार्थम् । 'तेन कचिन्मङ्गले कृतेऽपि प्रारिप्सितपरिसमाप्त्यदर्शनान्मङ्गलं
न परिसमाप्त्यादिहेतुरिति शङ्का निरस्ता । तत्र विज्ञानां भूयस्त्वान्मङ्गलस्य ल्पीयस्त्वादिति भावः ॥ मुख्याश्र-
येति ॥ अन्येषां बहुगुणाश्रयत्वमात्रेण अगण्यगुणाश्रयत्वमौपचारिकम् । अस्य तु मुख्यमित्यर्थः । यद्यपि
गुणगुणिनोरत्यन्ता भेदः । तथापि विशेषबलादाश्रया श्रयिभावो द्रष्टव्यः । विशेषस्वरूपं च विवेचयिष्यामः
॥ अभ्यर्हितत्वेनेति ॥ कमला विशिष्टनारायणप्रीतेः स्खस्यैव मुख्यपात्रत्वात् मुख्ये सम्भवत्यमुख्यायोगादित्यर्थः !
अथ वा असति विशेषे 'स्वाभिलष्यमाणेनेष्टेन अन्तरङ्गतया स्वस्यैव सम्बन्धदर्शनादित्यर्थः । यद्वा 'भिक्षा
देहि ' इत्यादाविव वाक्यप्रयोक्तृत्वेन 'स्वस्यैव प्रकृतत्वादित्यर्थः ॥ अत्राद्यमिति ॥ न चोभयत्र तात्पर्ये
वाक्यभेदः शङ्कचः । स्तुतौ तात्पर्येण विशेषणद्वये प्रयुक्ते उत्तरग्रन्थारम्भोपपादनस्य प्रासङ्गिकत्वादिति अपि-
शब्दार्थ: । पक्षान्तरमाह ॥ अथ वेति ॥ यद्यपि एकेनैव लक्षणेन वस्तुसिद्धिः । तथापि एकलक्षणोपपाद-
नायान्यस्मिन् कथिते अव्याप्त्याद्यभावात्तदपि लक्षणं भवतीत्यर्थः ॥ १ ॥
8
तस्माद्विषयाद्याभासस्य,
4 तज्ज्ञापनाय प्रकरणारम्भोपपत्तेः
7 प्रकृतत्वात् । अप्रकृतादभ्यर्हितत्वेनेत्यर्थः
2 वेदान्तार्थ निर्णयविषयादिकं.
5 एतेन.
3 प्रवृत्तिसाध्यवेदान्तश्रवणसाध्यत्वेन,
6 स्वाभि लिप्समा नेनेष्टेन.
8 फलतीति भावः.</p>
<pb n="10" />
<p>जीवब्रह्मैक्यस्य शास्त्रार्थत्वेन गुणपूर्णत्वाक्षेपः</p>
<p>(टी.) अत्राहुरद्वैतवादिनः, जीवब्रह्मणोरेकत्वं खलु सकल वेदान्ततन्मीमांसाशास्त्रप्रतिपाद्यम् । न
च तत् नारायणाख्यस्य परब्रह्मणः सदा अगण्यगुणाश्रयत्वे सम्भवति । अताग्रूपत्वात् जीवस्य । न हि
परस्परविरुद्वस्वभावयो रेकत्वं दृष्टम् । अतो न स्वभावतोऽगण्यगुणाधिकरणत्वं नारायणस्येति ।
(म. टि.) वेदान्तादिविषयादितत्वनिर्णयाय प्रकरणं चेत् किमनेन अकाण्डताण्डवायितेन अज्ञाननिरा-
करणेन ? इत्याशङ्कय तत् सङ्घटयितुं शङ्कते ॥ अत्राहुरित्यादिना ॥ नारायणः किं परब्रह्म ? उत न ? न चेद-
पसिद्धान्तः । ब्रह्म चेत् सोऽप्यल्पगुणः स्यात् । जीवो वा अनन्तगुण: स्यात् । विरुद्धधर्माश्रययोरभेदायोगात् ।
अभेदस्य च प्रामाणिकत्वादिति चोद्यार्थः । ननु त्वन्मते जीवब्रह्मणोः स्वाभाविकामेदेऽपि सर्वज्ञत्वाल्पज्ञत्वा-
दिवत् ममापि अनन्तगुणवत्वतदभावव्यवस्था किं न स्यात् ? इत्यत आह ॥ स्वभावत इति ॥ मम तु
सार्वज्या दिकमौपाधि कमित्यर्थः ।
अज्ञानानुपपत्त्या ऐक्यस्य शास्त्रार्थत्वनिरास:
(टी.) तदयुक्तम्, स्यादिदं यदि जीवब्रह्मणोरेकत्वं शास्त्रार्थः स्यात् । न चैवं सम्भवति । तथात्वे
शास्त्रस्य अनारम्भणीयत्वप्रसङ्गात् । यत् खलु अधिकारिविषयप्रयोजनसम्बन्धवत् तत् आरम्भणीयं
दृष्टम् । न च एतत् अद्वैतवादे सम्भवति अधिकार्यादिसिद्धेरज्ञानसिद्धयधीनत्वात् । न च तत्पक्षे
अज्ञानमुपपद्यते । कथम् ? इति तंत्राह
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।
अज्ञानं हि कस्यचित् क्वचित् सम्भवति । न च तत्पक्षे परमात्मातिरिक्तं वस्तु विद्यत इति
तस्यैव ज्ञानं वक्तव्यम् । न च तस्य कुतश्चन 'कुत्रापि तत् सम्भवति सर्वज्ञत्वात् । अतो व्यापकी-
भूताश्रयविषयानुपपच्या व्याप्यस्याज्ञानस्याप्यनुपपत्तिः ।
(मं. टि.) अभेदस्य प्रामाणिकत्वमेवासिद्धमिति परिहरति ॥ तदयुक्तमिति ॥ यत्खल्वधि-
कारीति ॥ अधिकारिस्वरूपमा त्रज्ञानस्य अधिकारिप्रवृत्तिहेतुत्वाभावेऽपि अधिकारिविशेषणापरिज्ञाने ' अह-
मधिकार्यस्मिन्न वा ' इति सन्देहेन प्रवृत्तिप्रतिबन्धात् अधिकारि विशेषणज्ञानमपि प्रवृत्त्यङ्गमिति
भावः ॥ अधिकार्यादीति ॥ अज्ञानिनोऽधिकारित्वात् अज्ञातस्य विषयत्वात् अज्ञाननिवृत्तेश्च प्रयो-
जनत्वादिति भावः । सर्वज्ञस्याज्ञानं न घटते चेत् 'निराश्रयमज्ञानमस्तु' इत्याशङ्कय साश्रयत्व-
नियममाह ॥ अज्ञानं हि कस्यचिदिति ॥ सविषयत्वं चाङ्गीकरणीयमित्याह ॥ क्वचिदिति ॥
'अस्य अत्र अज्ञानं ' इत्यनुभवादज्ञानस्य विषय सापेक्षत्वं " आश्रयसापेक्षत्वं अङ्गीकर्तव्यमिति हिशब्दार्थ: ।
2
2 आश्रयसापेक्षत्वमिति आत्मसापेक्षत्वं च.
[]
कुत्र च तत् सम्भवति.</p>
<pb n="11" />
<p>उपाधिखण्डने
(मं. टि.) नन्वथापि परमात्मातिरिक्त एवाश्रयोऽस्त्वित्यत आह ॥ न चेति ॥ परमात्मातिरिक्तं 'अज्ञानाधिकरण
पारमार्थिकं ? किं वा अपारमार्थिकं ? आद्यं दूषयति ॥ 'वस्तु न विद्यत इति ॥ द्वितीये तस्याज्ञानकल्पितत्वाद-
न्योन्याश्रयः स्यादिति भावः । फलितं दर्शयति ॥ इतीति ॥ 3 सर्वज्ञस्यापि दोषबलादज्ञानं किं न स्यात् ?
इत्यत आह ॥ कुतश्चनेति ॥ दोषस्याप्यविद्यां विना असम्भवादिति भावः । अथ वा कुतश्चनेति प्रतीकमुपा-
दाय कुत्र चेति तद्वयाख्या । एवं च विषयासम्भवप्रतिपादनमपि कारिकारूढं भवति । ततश्च विषयासम्भवेना-
ज्ञानासम्भवमुपपादयितुं अज्ञानं हि कचिद्भवति' इत्यज्ञानस्य सविषयत्वसमर्थनं टीकाकारीयं सङ्गच्छते ।
उक्तार्थे हेतुमाह ॥ सर्वज्ञत्वादिति ॥ समानाश्रयसमान विषषकज्ञानाज्ञानयोर्विरोधात् ईश्वरज्ञानस्य च सर्वविष -
यकत्वात् न तस्य किञ्चिद्विषयकमज्ञानं सम्भवतीत्यर्थः । उपसंहरति । अत इति ॥
4
8
ननु कथमत्र प्रयोग : ? अज्ञानं नास्ति आश्रयसापेक्षत्वे सति तद्रहितत्वात्, विषयसापेक्षत्वे सति तद्रहित -
त्वाद्वा, साश्रयनिराश्रयान्यतरानन्तर्भावाद्वा, सविषयनिर्विषयान्यतरानन्तर्भावाद्व। इत्यादिषु आश्रयासिद्धेः । अथैवं
प्रयोगः, प्रमेयत्वं साश्रयनिराश्रयान्यतरमात्र निष्ठं सविषयनिर्विषयान्यतरमात्रनिष्ठं वा धर्मत्वात् 'घटवदिति । अनेन
चानुमानद्वयेन साश्रयनिराश्रयस विषयनिर्विषयानन्तर्भाविनोऽज्ञानस्य असत्वमापाद्यत इति चेत् अत्र वक्तव्यम्, किं
मात्रपदव्यावर्त्यमिति । 'उभयव्यतिरिक्तमिति चेत् तल्कि प्रमितं ? उत न? नाद्यः । प्रमितत्वादेव तत्र
?
प्रमेयत्वसम्भवेन मात्रशब्देन पुनस्तद्वयावर्तने व्याघातात् । न द्वितीयः । अप्रमितव्यावृत्यर्थं पदप्रयोगानुपपत्तेः ।
तस्मात् ' व्याप्यस्याज्ञानस्याप्यभावः' इति कथमुक्तं ? इति चेत् इत्थमभिप्रेत्योक्तम् । जगदुपादानं नाज्ञान
निराश्रयत्वात् निर्विषयत्वादित्यन्वयव्यतिरे किद्वयेन उभयवादिसिद्धस्य जगदुपादानस्याज्ञानत्वनिषेधात् न
त्वदभिमताज्ञानसिद्धिः । नियमेन आश्रयविषयज्ञप्तिसापेक्षप्रतीत्यविषयत्वस्य हेतुत्वान्न कश्चिद्दोषः । यद्वा
पररीत्या प्रसक्तं मात्रपदेन व्यावर्त्यत इति पूर्वप्रयोग एवास्त्विति ।
सर्वज्ञत्वाज्ञानाभावयोर्व्याप्तिसमर्थनम्
(टी.) ननु सर्वज्ञस्याज्ञता न घटत इत्यत्र नान्वयदृष्टान्तः । परमात्मना विना अन्यस्य सर्वज्ञस्या -
भावात् । नापि व्यतिरेकदृष्टान्तः । अज्ञानाश्रयस्यान्यस्य परेणानभ्युपगमात् । तत् कथमेतत् 2
इति । मैवं । 'यो यत्र ज्ञानवान् नासौ तत्राज्ञानवान्' इति सामान्यव्याप्तेरविरोधात् ।
6
9
1 किं पारमार्थिकमज्ञानाधिकरणं ? कि वा अपारमार्थिकम् ?
2
॥ न वस्तु विद्यत इति ॥ द्वितीयस्याज्ञानकल्पितत्वात् आत्माश्रय: स्यादिति भावः
3 सर्वज्ञस्यापि विशेषबलादज्ञानं किं न स्यादित्यत आह ॥ कुतश्चनेति ॥ विशेषस्याप्यविद्यां विना असम्भवादिति
4 कुत्रेति. 5 घटवदित्यु मानद्वयेन.
भावः इति मुद्रितः पाठः । मायिमते विशेषानङ्गीकारेण अयं पाठो नैव साधुः ।
सिद्धत्वाभावात्.
6 असत्वमापद्यत इति चेत् अत्र वक्तव्यम्. 7 अतिरिक्तमिति चेत्. 8 प्रमेयत्वसद्भावेन मात्रशब्देन पुनः तव्यावर्तने व्याघातः
जगदुपादानस्याज्ञानस्य निषेधात् इति पाठान्तरम् । अयं पाठोऽसाधुरेव । अज्ञानस्य जगदुपादानताया उभयवादि
9</p>
<pb n="12" />
<p>सर्वज्ञत्वस्याज्ञानाक्षेपकत्वशङ्कापरिहारौ</p>
<p>(टी.) ननु सर्वं हि यो जानाति स सर्वज्ञः । तिस्रावास्य विधाः सम्भवन्ति । प्रमाणतो वा सर्व
जानीयात् भ्रान्त्या वा स्वभावसिद्धया प्रज्ञया वा । न चैता विधा विना अज्ञानेनोपपद्यन्ते । कूटस्थस्य
अज्ञानादृते प्रमातृत्वायोगात् । भ्रान्तेश्च अज्ञानकार्यत्वात् । स्वरूपप्रज्ञायाश्च नान्तरेणाज्ञान मशेषार्थ-
सङ्गतिः । असङ्गत्वात् 'असङ्गो ह्ययं पुरुषः' इति श्रुतेः । अतः सर्वज्ञताप्यज्ञानवत्तामाक्षिपत्येव
परमात्मनो, न प्रतिक्षिपतीति । मैवम् मा भूत् प्रमाणेन मा च भूत् भ्रान्त्या, स्वरूपज्ञानेनैव परमात्मनः
सर्वज्ञताङ्गीकारात् । असङ्गत्वं तु तत्कृतफलले पाभावमात्रम् । न च सम्बन्धविरह एव । ' यथाऽऽका-
शस्थितो नित्यं वायुः' इत्यादितथा विधदृष्टान्तोपादानात् । तदिदमुक्तम् 'अखिलसंवेतुः' इति । अत्र सम्
इत्युपसर्गेण भ्रान्त्या सर्वज्ञतां वारयति, ताच्छीलकतन्प्रत्ययेन प्रमाणजन्यताम् इति स्वभावज्ञाने-
नैवोक्ता भवति ।
"
(मं. टि./ शङ्कते ॥ नन्विति ॥ विमतः कदाऽपि किञ्चिद्विषयक ज्ञानवान्न भवति सदा सर्वज्ञत्वात् यो यदा
यत्र ज्ञानवान् नासौ तदा तत्राज्ञानवान् यथोभयसम्मतः । विमता विषया वा कदापि न तदज्ञानविषयाः सदा
तज्ज्ञानविषयत्वात् यो यदा यज्ज्ञानविषयः नासौ तदा तदज्ञानविषयः यथोभयसंमत इत्यभिप्रेत्य सिद्धान्तयति
॥ मैवमिति ॥
।
शकते ॥ नन्विति ॥ प्रमाणत इति ॥ अन्तःकरणवृत्त्येत्यर्थः ॥ भ्रान्त्या वेति ॥ ननु कथमेतत् ?
भ्रान्तिर्हि विशेषाज्ञाननिचन्धना । विशेषाज्ञानं च सर्वज्ञस्य न सम्भवतीति चेन्न । विशेषज्ञानस्यापि भ्रान्ति-
रूपस्य स्थाणौ करचरणादिभ्रान्तेरिव भ्रान्त्यत्वात् । आद्ये अज्ञानावश्यम्भाव इत्याह ॥ कूटस्थस्येति ॥
कूटवत्तिष्ठतीति कूटस्थ: निर्विकारः तस्येत्यर्थः । प्रमातृत्वं हि प्रमाश्रयत्वं । आश्रयाश्रयिभावश्च निर्विकारे न
सम्भवतीति भावः । द्वितीयेऽप्यज्ञानमावश्यक मित्याह ॥ भ्रान्तेश्चेति ॥ तृतीयेऽप्यज्ञानं स्वीकर्तव्यमित्याह
॥ स्वरूपेति ॥ इति श्रुतेरिति ॥ सङ्गाभावः श्रुत्यर्थ इति मन्यते । परिहरति ॥ मैवमिति ॥ स्वरूपज्ञाने-
नेति ॥ ननु कथमेतत् ? स्वरूपज्ञानस्य अज्ञानस्फोरकत्वेन तद्विरोधित्वाभावात् । ततश्च 'यो यत्र ज्ञानवान्
नासौ तत्राज्ञानवान्' इति व्याप्तौ वृत्त्यतिरिक्तस्य स्वरूपज्ञानस्यापि विवक्षायां व्यभिचारः । 'त्वदुक्तमर्थं न
जानामि ' इत्यत्र ज्ञायमान एव साक्षिणा त्वदुक्तेऽर्थे अज्ञानस्यास्माभिरङ्गीकारात् । वृत्तिमात्रविवक्षायां तु
असिद्धिः । स्वरूपज्ञानेनैव सर्वज्ञत्वाङ्गीकारेण वृत्तेरभावादिति चेत् । मैवं । वृत्तिमात्रस्य विरोधित्वे परोक्ष-
'वृत्तेरप्यज्ञान निवर्तकत्वप्रसङ्गात् । तच्च त्वया 'परोक्षवृत्त्याप्यज्ञाननिवृत्तौ अभिव्यक्तापरोक्षैकर सचैतन्यसं भेदेन
अतीतादेरपरोक्षत्रसङ्गः' इति बाधकं पश्यता नाङ्गीक्रियते । अपरोक्षवृत्तिर्विरोधिनीति चेन्न । तथा सति
श्रवणमात्रेणापरोक्षज्ञानं बदतस्तव श्रवणजन्यज्ञानेनैव अज्ञाननिवृत्तौ मनना दिवैयर्थ्यापातात् । ननु स्फुरणपर्यवसा-
यिनी वृत्तिरज्ञानविरोधिनी । श्रवणमात्रेण च मनननिदिध्यासनसम्पाद्यासम्भावना विपरीतभावनाप्रतिबन्धनिरा-
-</p>
<pb n="13" />
<p>उपाधिखण्डने
(मं. टि.) साभावेन स्फुरणपर्यवसायिनी वृत्तिर्नोदेतीति चेत् तर्हि प्राप्ताप्राप्तविवेकेन स्फुरणापर पर्याय स्वरूपज्ञानमेव
निवर्तकमिति कथं सर्वज्ञस्याज्ञानम् । अपि च वृत्तेरज्ञानोपादेयत्वात् उपादानोपादेययोश्च विरोधाभावात्
विरोधस्य च निवर्त्य निवर्तकभावप्रयोजकत्वात् न कुत्रापि वृत्तिरज्ञानविरोधिनी । एवं च 'त्वदुक्तमर्थं न
जानामि ' इत्यादौ स्वरूपज्ञानाङ्गीकारे तदपि पक्षतुल्यमिति कुतो व्यभिचार: ? इत्यलम् ।
।
"
॥ न च सम्बन्धेति ॥ सम्बन्धाभावपरत्वे व्याप्तत्वव्याघातः । युगपत्सर्वसम्बन्धित्वस्य व्याप्त
त्वात् । न च महत्परिमाणाश्रयत्वं व्याप्तत्वम् । त्वया ब्रह्मणि परिमाणानङ्गीकारात् न च
देशपरिच्छेदाभावो व्याप्तत्वम् असत्यतिव्याप्तेः । न ह्यसत्
1
अत्रैव ' इति देशविशेषेणावच्छिद्यते ।
न च सत्त्वे सतीति विशेषणीयम् । ब्रह्मण्यपि स्वरूपांतिरिक्तसत्त्वानभ्युपगमात् । तत्तद्वस्तुसम्बन्धा-
भावे तस्यैवासम्भवाच्च । सर्वत्र विद्यमानत्वं व्याप्तत्वमिति चेन्न । सर्वत्र विद्यमानत्वे तत्सम्बन्धस्या -
वर्जनीयत्वादिति भावः । युक्तघन्तरमध्याह ॥ यथेति ॥ ताच्छीलिकतन्प्रत्ययेनेति ॥ 'आके
स्तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकृत्य 'तृन्' इत्यनेन सूत्रेण विहितो यस्तृनूप्रत्ययः तेने-
त्यर्थः । यद्यपि 'विद्यतिर्विनद्' इत्यनिट्कारिकायां इयना नमा च निर्देशात् विद सत्तायां विद
विचारणे इत्यानित्वोक्त्या विद ज्ञान इत्यस्य सेट्त्वज्ञापनात् 'वेदिता विद्यानां' इति प्रयोगाच्च ज्ञानार्थविव-
क्षायां अखिलसंवेदितुः इति वक्तव्यम् । तथापि विद विचारण इत्यस्य अनित्वेन परिगणनात् अनिकारिकायां
'विन्नवितो विचारित ' इति विचारणार्थस्यानित्वेन प्रयोगाच्च विचारणार्थेन विदधांतुना विचारसाध्यविशेषज्ञानस्य
लक्षयितुं शक्यत्वात् अखिलसंवेत्तुः इति प्रयोगः साधुरिति द्रष्टव्यम् ।
जीवब्रह्मणो रुपाधिनिमित्तभेदशङ्का
(टी.) शङ्कते
उपाधिभेदाटत इति चेत् ....
उपाधिनिमित्तो भेद उपाधिभेदः । घटते अज्ञतेति सम्बन्धः । यदुक्तं 'ब्रह्मणोऽखिलसंवेर-
ज्ञता न घटत, इति तन्न । अज्ञानस्य जीवाश्रयत्वाभ्युपगमात् । ननु जीवो ब्रह्मणो न भिद्यत इति
ते मतं । सत्यं, तथाप्युपाधिनिमित्तो भेदोऽस्त्येव । तत्र यथा सत्यपि बिम्बप्रतिबिम्बयोरैक्ये दर्प -
णाधुपाधिनिमित्तभेदात् बिम्बस्यावदातत्वेऽपि प्रतिविम्वस्य श्यामता घटते एवं जीवब्रह्मणोः सत्यप्य-</p>
<lg>
  <l>भेदे ब्रह्मणः सर्वज्ञत्वेऽपि जीवस्याज्ञता घटत एव उपाधिभेदादिति ।</l>
  <l>॥</l>
</lg>
<p>16
1 ' न त्यसत्' इतीदं वाक्यं 'तत्तद्वस्तुसम्बन्धाभावे' इत्येतद्वाक्यानन्तरं मुद्रितपुस्तके दृश्यते । तदनन्वितम् । अतोऽय-
मेव पाठः साधुरिति भाति.
2 इत्यनयोष त्वोर
नित्वोक्त्या.</p>
<pb n="14" />
<p>जीवब्रह्मणोरभेदेऽपि औपाधिकभेदात् अज्ञत्वसर्वशत्वव्यवस्थाशङ्का
(मं. टि.) उपाधिभेदात् सर्वज्ञस्याज्ञानं घटत इति शङ्कितं मूले । तदयुक्तमेव । उपाधीनामन्योन्यभेदेऽपि
सर्वज्ञस्याज्ञानानुपपत्तेस्तदवस्थत्वात् इत्यत आह ॥ उपाधिनिमित्त इति ॥ नायमुपाधीनां भेद इति षष्ठीत.-
त्पुरुषः । किं तर्हि ? मध्यमपदलोपी समासः । अथ वा उपाधेर्मेंद इति पञ्चमीतत्पुरुषः । हेतौ पञ्चमी ।
यद्वा षष्ठीसमास एवास्तु । षष्ठयर्थश्च हेतुहेतुमद्भाव इत्यर्थः । जीवब्रह्मणोरुपाधितो भेदेऽपि कथं सर्वज्ञस्या-
ज्ञानं ? इत्याशङ्कय अभिप्रायमाह ॥ यदुक्तमित्यादिना ॥ नन्वौपाधिकभेदसद्भावेऽपि स्वाभाविकाभेदेन
जीवस्य सर्वज्ञता किं न स्यात् ? इत्यत आह ॥ तत्रेति ॥ उपाधितो भेदे सतीत्यर्थः । औपाधिकधर्मिभेद-
मात्रेणौपाधिक सार्वज्ञा दिव्यवस्थोपपत्तेः स्वाभाविकधर्मव्यवस्थायाश्चानङ्गीकारान्न स्वाभाविक भेदापेक्षेति भावः ।
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अपसिद्धान्तानवस्थादोषौ
(टी.) तदिदं दूषयितुं पृच्छति
........ ....
.......
अज्ञानतो वा....
स स्वभावतः ॥ २
1</p>
<p>स्यादपीदं जीवाज्ञानमतं यद्यपाधिरुपपद्येत । स एव विविच्यतां । किं स्वभावतः
अकल्पित इति यावत् । अज्ञानतो वा कल्पितः इति शेषः । आद्यं दूषयति
.. द्वैतस्य सत्यता स्वत एव चेत् ।
तथा चापसिद्धान्तः स्यात् इति भावः । द्वितीयं निराकरोति
अनवस्थितिरज्ञानहेतौ.
॥।
अज्ञान हेताविति तत्पुरुषो बहुव्रीहिश्च द्वावपि तन्त्रेण उपात्तौ । स इति प्रथमान्तं प्रकृतमपि अर्थात्
इह सप्तम्यन्तं सम्बद्ध्यते । अज्ञानस्य हेतौ उपाधौ अज्ञानहेतुके अङ्गीक्रियमाणे अनवस्थितिः स्यात् ।
सति खलु उपाधौ तद्भिन्नस्य जीवस्य अज्ञानं स्यात् । उपाधिश्च अज्ञांने सति स्यात् अज्ञानं च उपाधौ
सतीति । नन्वेवमज्ञानोपाधिपरम्परैव स्यात् नानवस्था इति चेन्न । असिद्धविषयत्वेनानवस्थात्वात् ।
प्रतीतिसिद्धं परम्परां कल्पयिष्यतीति चेन्न । आत्यन्तिक
मेदेनैव तस्योपपत्तेः ।
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अन्योन्याश्रयदोषः
स्यादेवं, यदि अज्ञानोपाधिव्यक्तिभेदः स्यात् । न चैवं, एकमेव अज्ञानं उपाधिश्व इत्यङ्गीका-
रादिति चेत् एवं तर्हि मा भूत् अनवस्था । अन्योन्याश्रयस्तु भविष्यति इत्याह
। औपाधिकधर्म मेदमात्रेण इति मुद्रितपाठ: धर्मिणोर्जीवब्रह्मणो रेवौपधिक मेदस्य प्रकृतत्वादसाधुरेव ।
21</p>
<pb n="15" />
<p>उपाधिखण्डने
.. वाऽन्योन्यसिद्धिता ॥ ३ ॥
(टी.) वाशब्दो व्यवस्थितविकल्पे । अन्योन्येन सिद्धिर्ययोस्तावन्योन्यसिद्धी तद्भावोऽन्योन्यसिद्धिता ।
अज्ञानोपाध्योरिति सम्बन्धः ।
जीवाशानवादिमायिमते अज्ञानोपाध्योर्भेदे चक्रकदोषः
ननूपाधेरज्ञाननिमित्तकत्वेऽप्यज्ञानस्य उपाधिहेतुकत्वाभावात् कथं इतरेतराश्रयः ? भेद एव
ह्युपाघिनिमित्तोऽङ्गीक्रियत इत्यत आह
चक्रकापत्तिरथ वा......
I
अथ वा इत्ययं निपातसमुदायः पक्षान्तरद्योतकः । यद्यपि भेद एवोपाध्यधीन उक्तः तथापि
उपाधिभिन्ने जीवेsपि अज्ञानमङ्गीक्रियमाणं परम्परया उपाधिहेतुकं भवेत् इति नेतरेतराश्रयः शक्यसमा-
धानः । परम्परानाश्रयणेऽपि चक्रकमापद्यत एव । अज्ञानाधीन उपाधिः तदधीनो भेदः
भिन्नाश्रयमज्ञानमिति । अथ वा अथशब्द एव पूर्वत्र सम्बद्ध्यते । वाशब्देन आत्माश्रयत्वादिकं पक्षान्तरे
सूचयति ।
(मं. टि.) ननु अज्ञानहेतौ इत्यत्र किं षष्ठीतत्पुरुषो विवक्षितः ? किं वा बहुव्रीहिः ? उभयं वा ? नाद्यद्वितीयौ ।
उपाध्यज्ञानयोः कार्यकारणभावाभावेनानवस्थानवकाशात् । न तृतीयः । युगपदुभयविवक्षायोगादित्यत आह
॥ अज्ञानहेताविति तत्पुरुषो बहुव्रीहिश्चेति ॥ उभयविवक्षानुपपत्ति परिहरति ॥ तन्त्रेणेति ॥ सकृदुच्चरित-
मनेकोपकारकं तन्त्रम् ॥ स इतीति ॥ स स्वभावतः इत्यतोऽनुषक्तस्य तच्छब्दस्य यथाश्रुत विभक्त्यङ्गीकारे
अनन्वयात् ' सक्तून् जुहोति' इत्यादाविव विभक्तिविपरिणामः क्रियत इति भावः । उपाधे: कारणभृताज्ञा-
नसापेक्षत्वेऽपि नाज्ञानस्योपाधिसापेक्षत्वं भेदमात्रसापेक्षत्वात् इत्याशङ्कयाह ॥ सति खलूपाधौ तद्भिन्नस्येति ।
नानवस्थेति ॥ बीजाङ्करादाविव उत्पत्तिज्ञप्ति प्रतिबन्धकत्वाभावेन नानवस्था दूषणमित्यर्थः । तत्र बीजाङ्कुरपरम्परा
प्रामाणिकी । अत्र त्वज्ञानादिपरम्परा अप्रामाणिकीत्यनवस्था दूषणमिति परिहरति ॥ न सिद्धेति ॥ कार्य-
मेवाज्ञानं कारणपरम्परां कल्पयिष्यतीति कथमप्रामाणिकत्वं ? इति शङ्कते ॥ अज्ञानं प्रतीतिसिद्धमिति ॥
परिहरति ॥ नेति ॥ आत्यन्तिक भेदाङ्गीकारेणैवाज्ञानप्रतीतिर्निर्वाह्या । अन्यथा अनन्तोपाध्यादिव्यक्तीनां कल्प्य
तथा गौरवं स्यादिति एवकारार्थः ॥ व्यवस्थितविकल्प इति ॥ उपाधिव्यक्तीनामज्ञानव्यक्तीनां च आन-
न्त्ये अनवस्था, । उपाघिव्यक्तेरज्ञानव्यक्तेश्च एकैकत्वे अन्योन्याश्रय इति पक्षभेदेन व्यवस्थित योर्दूषणयोर्विकल्पे
वाशब्दो वर्तते । अनवस्थाया अनन्तव्यक्तिसापेक्षत्वात् अन्योन्याश्रयस्य च व्यक्तिद्वयसापेक्षत्वात् एकस्मिन्नेव
युगपदुभयविवक्षानुपपत्तिरित्यत आह ॥ तन्त्रेणेति ॥ सकृदुच्चरित स्यानेकोपकारकत्वं तन्त्रत्वम् । 2 ॥ असिद्धेति ॥
।
1</p>
<pb n="16" />
<p>जीवाज्ञानवादि माथिमते अज्ञानोपाध्योर्भेदे चक्रकदोषः</p>
<p>(मं. टि.) पक्षे वैकल्पिकदूषणद्वयायोगादित्यर्थः ॥ अथ वा इत्यत्र निपातसमुदायः किं व्यवस्थितविकल्पार्थः? किं
वा अव्यवस्थितविकल्पार्थः । नाद्यः । ' उपाधौ सति तद्भिन्नस्य जीवस्याज्ञानं, अज्ञाने सत्युपाधिः' इत्यन्योन्या-
श्रयपक्ष एव ' उपाधौ सति भेदः, भेदे सत्यज्ञानं, अज्ञाने च सति उपाधि ः' इति चककाश्रयोक्तेः पक्षभेदा-
भावात् । न द्वितीयः । कोटित्रयसद्भावेन अन्योन्याश्रयविकल्पानुपपत्तेरित्यत आह ॥ यद्यपीत्यादिना ॥
व्यवस्थितविकल्पार्थ एव निपातसमुदायः । न च पक्षभेदाभावः । परम्पराश्रयणपक्षे अन्योन्याश्रयः । तदना-
श्रयणे च चक्रकापत्तिरिति पक्षभेदात् । अत एव अथ वेत्ययं निपातसमुदायः इति टीकायां पक्षान्तर-
शब्देन परम्परानाश्रयणपक्षो विवक्षित इति द्रष्टव्यम् । अथ वा उक्तविकल्पं अथशब्दोऽद्योतयत् । वाश
ब्दोऽनुक्त विकल्पार्थ इत्याह ॥ अथ वेति ॥
,
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योरभेदे अपसिद्धान्तात्माश्रयदोषौ
(टी.) तत्रेयमाशङ्का । स्यादेतदन्योन्याश्रयादिकं यदि अन्तःकरणादिकं अज्ञानार्दन्यदेवोपा-
घितया अङ्गीक्रियते । न चैत्रम् । अज्ञानस्योपाधितया अङ्गीकारात् ।
नन्वविद्या किंसम्बन्धिनी भेदनिमित्तं । दर्पणादिद्रव्यमपि किंसम्बन्धि भेदनिमित्तं । मुख-
मात्रसम्बन्धि इति चेत् इहापि चित्स्वरूपमात्र सम्बन्धि अज्ञानं जीवब्रह्मभेदं करोति । स्वरूपमात्र-
सम्बन्धिनोप्यज्ञानस्य जीवभागपक्षपातिता दर्पणादिवत् युज्यत इति ।
तत्रापि वक्तव्यं तत् अज्ञानमज्ञानकल्पितं ? उत न ? इति । नेति पक्षे पूर्ववदपसिद्धान्तः ।
आद्ये त्वात्माश्रयः स्यादिति । नन्वज्ञानं जीवब्रह्मभेदश्चानादिरेव । किं नाम ? अज्ञानाधीन एवेति
कथमात्माश्रयादिकं ? इति । मैवं । किञ्चिदुपकाराभावे तदधीनताया एव मृषात्वात् । तद्भावे
त्वात्माश्रयाद्यनिस्तारात् । उत्पत्तिज्ञप्त्योरिव प्रवृत्त्यादेरपि प्रतिबन्धेन तस्य दूषणत्वात् । बिम्बप्रति-
बिम्बयोरभेदाभावस्यान्यत्रोपपादितत्वात् दृष्टान्तो निरस्त एव ।
L
(मं. टि.) नन्वज्ञानमेव चेदुपाधिस्तर्हि तदेव भेदकं वाच्यम् । तथा च तल्कि असम्बद्धं भेदनिमित्तं ?
उत सम्बद्धं ? आद्येऽतिप्रसङ्गः । द्वितीयं विकल्पयति ॥ नन्वविद्या किंसम्बन्धिनीति ॥ अविद्या जीवसम्बन्धिनी
ब्रह्मसम्बन्धिनी वा ? नोभयमपि । तद्विभागस्य अविद्याऽधीनत्वादिति किंशब्दार्थः । दर्पणादिद्रव्यमपि किं बिम्ब-
सम्बन्धि भेदनिमित्तं ? किं प्रतिबिम्बसम्बन्धि ? नोभयमपि । तद्विभागस्य उपाधिसम्बन्धाधीनत्वादिति गूढाभिसन्धिः
पर: परिहरति ॥ दर्पणादीति ॥ चिन्मात्रसम्बन्ध्यज्ञानं भेदनिमित्तमिति गूढाभिसन्धिरंभिप्रायं विवरितुं शङ्कते
॥ मुखमात्रेति ॥ अभिप्रायं विवृणोति ॥ इहापीति ॥ दर्पणादिवयुज्यत इति ॥ उपाधेः प्रतिविम्बपक्षपाति-
वस्वाभाव्यादित्यर्थः ॥ पूर्ववदपसिद्धान्त इति ॥ अज्ञानस्या निर्वचनीयत्वं वदता तस्याप्यर्थादज्ञानकल्पितत्वा-</p>
<pb n="17" />
<p>उपाधिखण्डने
(मं. टि. )भ्युपगमादिति भावः । यद्वा अज्ञानस्य कल्पितत्वं वदता तस्यानादित्वे कल्पितत्वायोगात् सादित्वे
वाच्ये उपादानान्तराभाबात् ' अज्ञानोपादानकत्वस्य अर्थादङ्गीकृतत्वादिति भावः । अथ वा अज्ञानस्य कल्पितत्वं
वदता अन्तःकरणादेरिव अज्ञानस्याधिष्ठानचैतन्यावरणं विना कल्पनायोगात् अज्ञानं च विना आवरणान्तरा-
भावात् अज्ञानकल्पनावि अज्ञानाधीनेत्यर्याद ङ्गीकृतत्वादिति भावः । आद्यं दूषयति ॥ आद्ये त्वात्माश्रयः
स्यादिति ॥
1
एतेनैतदपि निरस्तं, यथा भवतां भेदो भेदान्तरमन्तरेणैव भिन्नः एवमज्ञानमज्ञानान्तरमन्तरेणैव
कल्पितम् । यथोक्तं,
भेद्यं च भेद च भिनत्ति भेदो यथैव भेदान्तरमन्तरेण ।
मोहं च कार्यं च भिनत्ति मोहस्तथैव मोहान्तरमन्तरेण ॥ इति ।
अज्ञानान्तरानपेक्षणेनानवस्थाया अभावेऽपि आत्माश्रयापरिहारात् । न च भेदः प्रतिबन्दी । न हि
यथा त्वया अज्ञानेतराध्यासः अज्ञानसापेक्ष: अज्ञानाध्यासस्तु तन्निरपेक्ष इति स्वीक्रियते तथा मया स्वरूपभेद -
वादिना घटादौ भिन्नत्वं भेदान्तरसापेक्षं भेदे तु तन्निरपेक्षमित्यङ्गीकियते । किं नाम ? सर्वत्र निरपेक्षमिति ।
तथा च त्वयापि तद्वदेव अन्तःकरणाध्यासोऽपि अज्ञाननिरपेक्ष इत्यङ्गीकार्यं स्यात् । तथा चापसिद्धान्त
इत्यलम् ।</p>
<note>६.</note>
<p>शङ्कते ॥ नन्विति ॥ चशब्देन अज्ञानकार्योपाधेरपि प्रवाहतोऽनादित्वमुक्तं । किं नामेत्यत्र
अज्ञानशब्देन तदुपादानकोपाधिरपि विवक्ष्यते ॥ अज्ञानाधीन एवेति ॥ यथा अज्ञानसम्बन्धस्य षडस्माक-
मनादयः' इत्युक्तत्वेन अनादित्वेऽप्यज्ञानाधीनत्वं सम्बन्धस्य सम्बन्धिनिरूप्यत्वात् तद्वत् 2 जीबब्रह्मविभा-
गोऽपि अनादिरपि अज्ञानाधीन इत्यर्थः । कथमात्माश्रयादिकं ? इत्यत्र 'प्रकृतार्थे दूषणमिति शेषः । विभाग-
स्याज्ञानाधीनत्वं तत्कृतोपकाराभावे न सम्भवतीत्युपकारो वक्तव्यः । स च नोत्पत्तिः । अनादित्वेनैव त्वया
अङ्गीकारात् । नापि ज्ञप्तिः । अज्ञानाद्यप्रतीतावपि ' अहमन्यः' इति विभागप्रतीतेरित्या ॥ किञ्चिदुप-
काराभाव इति ॥
एतेन सम्बन्ध प्रतिबन्धपास्ता । सम्बन्धप्रतीतेः सम्बन्धिपतीतिसापेक्षत्ववत् विभागप्रतीते: अज्ञानप्रतीति-
सापेक्षत्राभावात् । अथ द्रव्यत्वगुणित्वयोरिवानादित्वेऽपि प्रयोज्यप्रयोजकभाबोऽङ्गीक्रियते । तत्र यथा गुणित्वस्य
द्रव्यत्वाधिकरण नियामकत्वात् तत्प्रयोजकत्वं एवं प्रकृतेऽपि अज्ञानादेर्विभागाधिकरण नियामकत्वात् तत्प्रयोज-
कत्वं । ततो विभागस्याज्ञानाधीनत्वमुपपन्नमिति तत्राह ॥ तद्भावे त्विति ॥ अस्माभिस्तु गुणित्वादेः कस्यं
। अज्ञानोपादानकत्वस्यापि
2जीवब्रह्मविभागोऽनादिरपि. 3
प्रकुतार्थदूषणमिति.</p>
<pb n="18" />
<p>जीवाज्ञानवादिमायिमते अज्ञानोपाध्योरभेदे अपसिद्धान्तात्माश्रयदोषौ</p>
<p>।
(मं. टि.) चित् स्वतो नियताश्रयत्वमङ्गीक्रियते । न चैवं त्वया अङ्गीकर्तुं शक्यम् । अज्ञानादेरपि ब्रह्मण्यद्वितीये
स्वतोऽसम्भवादिति भावः । ननु उत्पत्त्याद्यप्रतिबन्धकत्वात् नान्योन्याश्रयादि दूषणमित्यत आह ॥ उत्पत्ति-
ज्ञप्त्योरिवेति ॥ प्रवृत्त्यादेरिति ॥ अत्र आदिशब्देन नियमनं विवक्षितं । प्रवृत्तिग्रहणं तु दृष्टान्तार्थं । 'यथा
स्वप्रवर्त्यस्य स्वप्रवर्तकत्वे स्वस्यैव स्वप्रवर्तकत्वे वा प्रवृत्तिप्रतिबन्धः एवं स्वनियम्यस्य स्वनियामकत्वे स्वस्यैव
स्वनियामकत्वे वा नियमनप्रतिबन्धः स्यात् । 2" येन आकारेण यत् यन्नियम्यं न तत् तेन आकारेण
तन्नियामकं ' इति व्याप्तेः नियम्यनियामकभावस्य भेदगर्भत्वाच्चेत्यर्थः ।
जविवाशानवादिमायिमते अज्ञानस्योपाधिवे अनुपपत्तयः
किं च उपाधेरत्यन्तासतः चैतन्यसम्बन्धे अतिप्रसङ्गात् प्रातिभासिकत्वं वक्तव्यं । न च तद्व
शक्यं । प्रातिभासकत्वस्य प्रतिभाससम्बन्धाधीनत्वेन अन्योन्याश्रयप्रसङ्गात् । अपि चायमुपाधिः किं
केवलचैतन्यवेद्यः? किं वोपाधिभिन्नचैतन्यवेद्यः ? नाद्यः आरोपितस्य यावत्प्रतीत्यनुवर्तननियमेन तदनुवृत्ति-
प्रसङ्गात् । न द्वितीयः । अन्योन्याश्रयात् । किं चायं घटादिः गगन इव ब्रह्मण्युयाधिः? । किं
वा दर्पणादिर्मुख इव? यद्वा अङ्गुल्यवष्टम्भादिश्चन्द्र इव ? अथ वा जपाकुसुमादिः स्फटिकादा-
विव ?
नाद्यः । असङ्गस्याज्ञानेतरसम्बन्धाभाववत् स्वभावतोऽज्ञानसम्बन्धस्याप्यनुपपत्तेः । न द्वितीयः ।
आत्मनोऽतीन्द्रियस्य प्रतिबिम्बनासम्भवात् । अतीन्द्रियस्यापि प्रतिबिम्बने पर्वतगतगुरुत्वस्यापि आदर्श प्रति-
बिम्बनेन आदर्शस्यानुद्धार्यत्वप्रसङ्गः । नापि तृतीयः प्रमेयसम्बन्धित्वेन त्वया अङ्गीकारात् । करणा-
सम्बन्धित्वाच्च । न चतुर्थ: स्वगतधर्मानुपसङ्क्रामकस्यात् । न हि जपाकुसुमादौ रक्तत्वमिवाज्ञा-
नादौ दुःखाद्यनुसन्धातृत्वमस्ति । किञ्च औपाधिक इति कोऽर्थः । किमुपाधिकृत इति ? किंवा
उपाधिज्ञापित इति ? नाद्यः सत्वाविरोधेन मयाऽपि तदङ्गीकारात् । द्वितीयेऽपि किं विद्यमान एव
ज्ञाप्यते ? किंवा अविद्यमानप्रतिभासमात्रं क्रियते ? नाद्यः इष्टापत्तेः । न द्वितीय : प्रमेयसम्बन्ध्युपाधे:
तदभावस्य वक्ष्यमाणत्वात् । किं च अयं विभाग: किं सादि: ? उत अनादिः ? नाद्यः मुक्तस्य संसारप्रसङ्गात् ।
न द्वितीयः । अध्यस्तत्वायोत् । न हि स्वरूपेणानादिरध्यस्यते । अन्यथा ब्रह्मणोऽपि तथाभाव: प्रसज्येत ।
यच्चोक्तमुपाधेः प्रतिबिम्बपक्षपातित्वमिति तन्न । तथात्वे विम्चस्थानीयब्रह्मगत सर्वज्ञत्वादेरनुपाधिकत्वापातात् ।
चैतन्यमाञस्याज्ञानसम्बन्धानुपपत्तिः
?
किं च चैतन्यमात्रस्याज्ञानसम्बन्धः किमौपाधिकः? किं वा स्वाभाविकः । आद्यऽनवस्थादिः ।
द्वितीये आनन्दादिवद निवृत्तिप्रसङ्गः । किं च न मुखमात्रवत् चैतन्यमात्रमस्ति । ब्रह्मादिभावस्यानादित्वात् ।
तत्प्रवत्र्यस्य तत्प्रवर्तकत्वे.
-
* किंचोपाधेभिन्नचेतनवेद्यः
4 निर्विशेषम्य प्रतिबिम्बनानपपत्तेः । नापि तृतीयः
2 येनाकारेण यन्नियम्यं.</p>
<pb n="19" />
<p>उपाधिखण्डने
(मं. टि.) मुक्तावपि 'ब्रह्म वेद ब्रह्मैव भवति' इति ब्रह्मत्वस्यानपायश्रवणात् । अन्यथा उपचरितार्थत्वप्रसङ्गात् ।
किं च स्फुरणस्यैव अज्ञानविरोधित्वोपपादनात् कथं चैतन्यस्याज्ञानसम्बन्धः । अपि च वक्ष्यमाण आकाशस्य
उपाधिसम्बन्धनिरासप्रकारोऽत्रापि द्रष्टव्य इत्यलं प्रपञ्चेन ।
चैतन्यमात्रस्याज्ञाननिरासप्रपञ्चस्तु</p>
<lg>
  <l>मोहं तत्साधक: साक्षी साधयेदहमो यदा ।</l>
  <l>अज्ञोऽहमिति केन स्याच्चिन्मात्रस्याज्ञता तदा ॥</l>
</lg>
<p>इत्यादिन। अन्यत्रास्माभिः कृतो द्रष्टव्यः । अज्ञानस्यैव प्रतिफलनार्हत्वलक्षणोपाधित्वपक्षे दूषणान्तरमाह
॥ बिम्बेति ॥ ततश्योपाधेः प्रतिबिम्बपक्षपातित्वस्वभावकल्पनं चाप्रामाणिकमिति भावः ।
सत्योपाधिकृतसत्यमेदवाद्य द्वैतवादानुवादनिरासौ
(टी.) अपर आह, 'स्यादिदं मायावादिनां दूषण, नास्माकं । 'एकमेव ब्रह्म अन्तःकरणाद्यनन्तोपा-
ध्यवच्छेदात अनन्तजीवभावमापाद्यते' इत्यङ्गीकारेऽऽपि भेदस्य उपाधीनां च अस्माभिर्मिथ्यात्वा-
नङ्गीकारात् । भेदसत्यत्वाङ्गीकारेऽपि स्वाभाविकभेदानङ्गीकारेण अद्वैतवादाविरोधात् । उपाधेः
अज्ञानकल्पितत्वाभावेन अनवस्थाद्यभावात् । अंशांशिभावेन विम्बप्रतिबिम्बभावाभावात् । अतो
ब्रह्मजीवसम्बन्धिनी सर्वज्ञत्वाज्ञत्वे न विरुद्धयेते' इति तत्राह
• भेदश्योपाधितः कुतः ।
मायावादे ह्युपाधे र्भेदस्य च कल्पितत्वेन अनवस्थादिदोषप्रसक्तावपि उपाधिनिमित्तो भेदाव-
भास इत्येतावानंशो युज्यते । अङ्गुल्यवष्टम्भादिना चन्द्रादिभेदाध्यासदर्शनात् । अस्मिंस्तु पक्षे
अनवस्थादिदोषाभावेऽपि उपाधितः भेदो भवतीत्येतन्न युज्यते । तदयोगे च जीवब्रह्माश्रयतया
अज्ञता सर्वज्ञत्वयोर्व्यवस्थानं सुतरां न युज्यते इति चशब्दार्थः ।
(मं. टि.) मायावादिभिः भेदस्योपाधिकृतत्वानङ्गीकारात् भेदश्योपाधितः कुतः ? इत्यनुक्तोपालम्भमाशङ्कय
मतान्तरनिराकरणपरतया भेदश्च इति पादं व्याख्यातुं शङ्कते ॥ अपर आहेति ॥ अन्तःकरणादीत्या दिशब्देन
स्थूलोपाधिं देहं विवक्षति ॥ मिथ्यात्वानङ्गीकारादिति ॥ प्रत्यक्षादिप्रमाणसिद्धत्वादित्यर्थः ॥ अद्वैतवादा-
विरोधादिति ॥ सत्यस्याप्युपाध्यधीनस्य उपाधिनिवृत्त्या निवृत्तेः । न च पूर्वं भिन्नस्य पश्चात् कथमभेद: ? इति
वाच्यम् । ज्ञानेनाभेदस्य सम्पादनात् । औपाधिक भेद निवृत्तौ तदभावलक्षणाभेदावश्यम्भावाच्चेति भावः ।
अस्मिन् पक्षे अज्ञानस्योपाधिसापेक्षत्वेऽपि नोपाधेरज्ञानसापेक्षत्वं । तदकल्पितत्वात् । तस्मान्नान्योन्याश्रयादि-
रित्याह ॥ उपाधेरिति ॥
S
-</p>
<pb n="20" />
<p>सत्योपाधिकृतसत्यभेदवाद्यद्वैतवादानुवादनिरसौ</p>
<p>(मं. टि.) ननु लोके बिम्बप्रतिबिम्बयोः सत्यभेदाभावात् तदात्मकयोर्जीवब्रह्मणोः कथं सत्यभेदः ? इति
मायावादिशङ्कां निरस्यति ॥ अंशांशिभावेनेति ॥ अंशांशिनोर्विरुद्ध परिमाणयोर्लोकेऽपि दृष्ट: पारमार्थिक भेद
इति भावः ।
मायावादे दूषणसमुच्चयाभावात् चशब्दानुपपत्तिमाशङ्कयाह ॥ मायावाद इत्यादिना चशब्दार्थ-
इत्यन्तेन ॥ नात्र मायावादे दूषणद्वयं समुच्चीयते । किं तर्हि ? सत्योपाधिवादे उपाधिकृतभेदानुपपत्तिः सार्वज्ञ्या
दिव्यवस्थानुपपत्तिश्च समुच्चीयत इत्यर्थः ।
उपाधेर्विद्यमानावयवभेदज्ञापकत्वं
(टी.) कुतः सत्योपाधितः सत्यभेदोत्पत्तिर्न युज्यते ? इत्यत आह
विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥ ४ ॥
उपाधिष्टपूर्वो हि..
।
हिशब्दो हेतौ । यस्मात् महारजनायुपाधिर्विद्यमानस्यैव पटाद्यवयवभेदस्य ज्ञापक एव दृष्टपूर्वो
न तु प्रागविद्यमानस्य कारकः । अतो भेदयोपाधितः कुतः इति सम्बन्धः । अत्र उपाधिः कारको
न दृष्टपूर्व इत्येतावदेव वक्तव्यम् । विद्यमानस्य ज्ञापक इत्युक्तिस्तु ' कारकत्वाभावे वैयर्थ्यं स्यात् '
इति शङ्कानिरासार्था इति ज्ञातव्यम् ।
(मं. टि.) कारणानुगुणं कार्यं भविष्यतीति शङ्कते ॥ कुतः सत्योपाधित इति ॥ भेदस्योपाधिकार्यत्व-
मेवासिद्धमित्याह ॥ अत आहेति ॥
उपाधेरवयविभेदकत्वाभावः
(टी.) न च महारजनादिः पटस्यैव भेदकः 'द्वौ पटौ' इत्यप्रतीतेः । न च दण्डकुण्डलो-
पाधिभ्यां एक एव देवदत्तो भिद्यत इति वाच्यम् । देवदत्तभेदस्य अप्रतीतेः । दण्डकुण्डलसम्बन्धात्
विशिष्टद्वयस्यैवोत्पत्तेः । न चैवमेवास्तु प्रकृते इति वाच्यम् । उपाध्यपगमे जीवस्य विनाश एव न
ब्रह्मैक्यापतिः इत्यापत्तेः । जीवे नष्टे स्वरूपमात्रावशेष एव तथोच्यत इति चेत् । तर्हि ब्रह्मण्येव
बन्धमोक्षावङ्गीकृतौ स्याताम् इत्युक्तदोषापत्तिरिति ।
(मं. टि.) ननु महारजनाद्यपाधिर्यदि नामांशानां भेदक: स्यात् तदा ज्ञापकः स्यादपि तेषां पूर्वमेव
भिन्नत्वात् । न चैवं । पढ़ प्रत्येव भेदकत्वादिति मन्दाशङ्कां परिहरति ॥ न च महारंजनादिरिति
}}</p>
<pb n="21" />
<p>उपाधिखण्डने
(म. टि.) नन्वेक एव देवदत्तो नानोपाधिसम्बन्धात् नाना व्यवहियते । न च व्यवह्रियमाणभेदाभावे व्यवहार-
भेदः सम्भवति । तस्मादुपाघिर्भेदकारक इति । अत आह ॥ न च दण्डेति ॥
विशिष्टस्य पदार्थान्तरत्वे पूर्वपक्षः
नाद्यः,
ननु विशेषणविशेष्यतत्सम्बन्धातिरिक्तं न विशिष्टं पश्यामः । तथा हि, तत्किं नित्यं ? अनित्यं वा ?
सर्वदोपलम्भप्रसङ्गात् । विशेषण विशेष्यसम्बन्धोऽभिव्यञ्जकः ततो न सर्वदोपलब्धिरिति चेत् स किं
सत्तया ज्ञापक: ? किं वा ज्ञाततया ? नाद्यः, विशेषणविशेष्यतत्सम्बन्धज्ञानाभावेऽपि विशिष्टधीप्रसङ्गात् । न
द्वितीयः । सम्बन्धविशेषणविशेष्यज्ञानादेव विशिष्टव्यवहारोपपत्तौ तज्ज्ञाप्य विशिष्ट विषयकज्ञानात् तद्व्यवहारकल्पने
गौरवात् । नाप्यनित्यमिति द्वितीयः । समवायिकारणाभावात् । तथा हि, न तावत् विशेषणविशेष्याभ्याम-
।
न्यत् समवायिकारणं सम्भाव्यते । विशेषणविशेष्ययोरपि न प्रत्येकमुपादानत्वम् । एकस्य द्रव्योपादानत्वा-
योगात् । मिलितयोश्चेदुपादानत्वं, तदा 'रूपी घटः' इत्यत्र रूपी नाम विशिष्टो रूपारब्धो घटारब्धश्चेत्युररी-
करणीयम् । तच्चायुक्तम् । गुणस्य समवायिकारणस्याभावात् । द्रव्यगुणारब्धस्य तदुभयात्मकत्वापत्त्या
द्रव्यत्वगुणत्वयोः साङ्कर्यप्रसाच्च । अपि च यावन्ति विशेषणानि तावन्ति विशिष्टान्यङ्गीकरणीयानि । तानि
चैकस्मिन्नेव विशेष्ये वर्तन्त इति मूर्तानां सामानाधिकरण्यं प्रसज्येतेति कथं विशिष्टद्वयस्यैवोत्पत्तेः
2
इत्युक्तं ? इति ।
1
अत्रोच्यते,
विशिष्टस्य पदार्थान्तरत्वसमर्थनम्</p>
<lg>
  <l>दण्डीत्या दिव्यवहृतेर्मूलभूता विशिष्टधीः ।</l>
  <l>विभिन्न पुरुषादिभ्यो विशिष्टमवलम्बते ॥</l>
</lg>
<p>-
(
दण्डीत्यादि विशिष्टव्यवहारनिमित्तं विशिष्टज्ञानं तावदङ्गीकार्यं । विशिष्टज्ञानं विना विशिष्टव्यवहारानुद-
यात् । यच्च विशिष्टज्ञानालम्बनं तदेव विशिष्टं नाम । आलम्बनान्तरानिरूपणात् । तथा हि, दण्डीत्यादिवि -
शिष्टप्रत्यये किं विशेषणविशेष्यौ विषयौ ? किं वा अगृहीतासंसर्गौ तावेव ? यद्वा विशेषणविशेष्यतत्सम्बन्धाः?
अदण्डिव्यावृत्तं देवदत्तस्वरूपमात्रं वा ? आद्यऽपि किं प्रत्येकं तयोर्विषयत्वं ? किं वा मिलितयोः ? नाद्यः,
दण्डदेवदत्ताद्येकैकज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । न द्वितीयः, 'इमौ दण्डदेवदत्तौ' इति गृहीतासंसर्गेण
विशेषणविशेष्यविषयकसमूहालम्बनज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । नापि द्वितीयः, 'इमौ दण्डदेवदत्तौ'
1 समवायिकारणत्वाभावात् इति पाठेन भाव्यमिति भाति,
2 विशिष्टद्वयोत्पत्तेः इत्युक्तं ? इति.</p>
<pb n="22" />
<p>मन्दारमञ्जर्यां विशिष्टस्य पदार्थान्तरत्वसमर्थनम्</p>
<p>(मं. टि.) इति समूहालम्बनज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । तत्रासंसर्गे विद्यमानेऽपि तद्ग्रह नियमाभावेन
तस्यागृहीतासंसर्गकविशेषणविशेष्यविषयकत्वात् । न ह्यसंसृष्टयोर्दण्डदेवदत्तयोः स्वरूपज्ञाने असंसर्गग्रहोऽपेक्ष्यते ।
नापि तृतीयः, दण्डदेवदत्ततत्सम्बन्धाः' इति समूहालम्बनज्ञानात् ' दण्डी' इति विशिष्टज्ञानस्य वैलक्षण्याभाव-
प्रसङ्गात् । विषय भेदाभावात् । विषयभेदं विना ज्ञानयोर्वैलक्षण्यायोगाच्चेति । चतुर्थेऽपि अदण्डिव्यावृत्तिः
' दण्डी' इति विशिष्टज्ञाने प्रतीयते न वा ? न चेत् 'दण्डी देवदत्त : ' ' देवदत्तोऽयं ' इति ज्ञानद्वयस्य
वैलक्षण्यं न स्यात् । विषय मेदस्या निरूपितत्वात् । प्रतीयते चेत् सा किं स्वरूपेण प्रतीयते ? किं वा देव-
दत्तादिविशिष्टाकारेण । नाद्यः, व्यावृत्तेरन्योन्याभावरूपाया निरधिकरणाया: प्रत्येतुमशक्यत्वात् । अधिकरणा-
न्तरस्य अप्रस्तुतत्वाच्च । द्वितीये यथा दण्डवैशिष्ट्यं नाम अदण्डिव्यावृत्तिमात्रं तथा व्यावृत्तिवैशिष्टचमपि
अव्यावृत्तव्यावृत्तिमात्रं ? किं वा पदार्थान्तरं ? द्वितीये सिद्धं नः समीहितम् । प्रथमे साऽपि अव्यावृत्तव्या-
वृत्तिर्विशिष्टज्ञाने प्रतीयते न वा ? न चेदुक्तदोषः । प्रतीयते चेत् सा किं स्वरूपेण ? किं वा देवदत्तादिवि -
शिष्टत्वाकारेण ? इत्यादिप्रश्नापर्यवसानात् अनवस्था स्यात् ।
.
विशिष्टस्य पदार्थान्तरत्वे प्रमाणोपन्यासः
तर्कितेऽर्थे प्रमाणं च ' दण्डी देवदत्तः' इति विशिष्टव्यवहारः दण्डदेवदत्ततत्सम्बन्धातिरिक्तविषयकव्यव-
हर्तृसमवेतविशेषज्ञानजन्यः विशिष्टव्यवहारत्वात् कुण्डली तिव्यवहारवत्, दण्डीति व्यवहारो 'दण्ड्देवदत्ततत्स-
म्बन्धातिरिक्तविषयकव्यवहर्तृसमवेत विशेषज्ञानजन्यः सत्यपि तज्ज्ञाने कदाप्यनुत्पद्यमानत्वात् संमतवत् ।
-
ईश्वरज्ञाने नार्थान्तरतां परिहर्तुं व्यवहर्तृसमवेतेत्युक्तम् । न च द्वितीयानुमाने असिद्धिः । 'दण्डदेवदतत-
त्सम्बन्धाः' इति समूहालम्बने सञ्जातेऽपि 'दण्डी' इति विशिष्टज्ञानं विना तद्व्यवहाराभावात् । समूहाल-
म्बनज्ञानस्य निर्विकल्पकतुल्यत्वेन विशिष्टव्यवहाराजनकत्वस्य त्वयाप्यङ्गीकारात् ।
विशिष्टस्य पदार्थान्तरत्वे परोक्ताक्षेपनिरास:
यदप्युक्तं तर्दिक नित्यमनित्यं वेत्यादि । तत्र ब्रूमः, यत्र विशेषणविशेष्यौ नित्यौ तत्र विशिष्टो नित्य
एव । यत्र तावनित्यौ तत्रानित्य इति । तत्रानित्येषु विशिष्टेषु तद्विशेषणान्युपादानानि न विशेष्यमपि । येन
मूर्तानां सामानाधिकरण्यप्रसङ्गः । येन च द्रव्यगुणद्वयारब्धे कार्ये जातिसाङ्कर्यप्रसङ्गः । विशेष्यसन्निधानं तु
निमित्तमेव । एकस्योपादानत्वं कथम् इति चेन्न । एकेनैव दीर्घतन्तुना पटारम्भदर्शनात् । एकस्य
गुणोपादानत्ववत् द्रव्योपादानत्वस्याप्युपपत्तेश्च । एकस्योपादानत्वे अवयवसंयोगलक्षणासमवायिकारणाभावात्
। देवदत्ता विशिष्टाकारेण इति पाठान्तरम् । इदं च उत्तरानानुगुण्यादयुक्तम् ।
2 दण्डदेवदत्ततत्सम्बन्धविषयकव्यवहर्तृसमवेतज्ञानजन्यः इति मुदितपुस्तकस्थं पाठान्तरं अर्थान्तरत्वादिदोषदुष्टं</p>
<pb n="23" />
<p>उपाधिखण्डने</p>
<p>(म. टि.) कथं कार्योत्पत्ति: ? इति चेन्न । कार्य॑स्य असमवायिकारणजन्यत्वनियमस्य अस्माभिरनङ्गीकारात् । अङ्गी-
कारे वा विशेषणविशेष्य संयोगस्यैवा समवायिकारणत्वोपपत्तेश्च । न च रूपस्य गुणत्वात् द्रव्यारम्भकत्वानुपपत्तिः ।
'गुणत्वं आरम्भकत्वसमानाधिकरणं सत्तासाक्षाद्वयाप्यजातित्वात् द्रव्यत्ववत्' इत्यनुमानेन तत्साधनात् ।
रूपादेरपि 'एकं रूपम्' इत्यबाधितप्रतीतेः सङ्ख्यारम्भकत्वप्रतीतेश्च । अथ वा विशेषणविशेष्ययोरुभयोरुपा-
दानत्वमस्तु न च मूर्तानां सामानाधिकरण्यानुपपत्तिः । परमाणुप्रदेशेऽपि मूर्तानन्तजीवावस्थानवत् / ईश्वर-
शक्त्या अस्याप्युपपत्तेः । एकस्मिन्नेव तन्तौ द्वितन्तुका दिमहापटपर्यन्तावयविपरम्पराया स्त्वयाप्यङ्गीकाराच्च ।
विशिष्टस्य मया द्रव्यत्वानङ्गीकाराच्च । न च जातिसाङ्कर्यप्रसङ्गः । द्रव्येणोपादानेन गुणत्वप्रतिबन्धात् गुणेनोपा-
दानेन च द्रव्यत्वप्रतिबन्धात् तदुभयारब्धस्य द्रव्यगुणानन्तर्भाविनः पदार्थान्तरत्वाङ्गीकारात् । ननु यदा
विशेष्यमपि विशिष्टोपादानं तदा तत्वविवेकग्रन्थे ' कार्यकारणयोश्च' इत्युक्त्वा कथं पुनराचार्यो 'विशिष्ट-
शुद्धयो: ' इति पृथग्विशेष्यविशिष्टयोर्ग्रहणमकरोदिति चेत् गोबलीवर्दन्यायेनेत्यवेहि । यद्यपि विशिष्टविशेष्य-
योरभेदः तथापि भेदस्याप्यङ्गीकारात् सत्येव विशेष्ये विशिष्टोत्पत्तिरुपपद्यत एव । तदेतदाह ॥ विशिष्टद्वय-
स्योत्पत्तेरिति ॥ तर्हीति ॥ श्रवण । दिजन्यज्ञानवत एव मोक्षान्वयात् 'बन्धमोक्षयोः सामानाधिकरण्य-
निबन्धादिति भावः ।
आकाशे औपाधिकभेदशानिरासौ
(टी.) नन्वेकस्मिन्नेवाकाशे घटमठाधुपाधिभिर्भेदः क्रियमाणो दृश्यत एव । नेत्याह
..खेऽपि देशान्तरस्य सः ॥ २४ ॥
।
ज्ञापको विद्यमानस्य..
यदा आकाशे भेदो नास्तीति सिद्धान्तः तदा अन्तरशब्दो विशेषवचनः । ततश्च 'खेऽपि
प्रागेव विद्यमानस्य देशविशेषस्य ज्ञापक एव स उपाधिरङ्गीक्रियते न तु भेदस्य कारकः' इति नायं
दृष्टान्त इत्यर्थः । यदा तु घटमठाद्याकाशभेदाभ्युपगमः तदा खेऽपि घटायुपाधि : प्राग्विद्यमानस्यैव
देशान्तरस्य देशभेदस्य ज्ञापक एव न तु कारक इति योज्यम् ।
+
(मं टि.) सिद्धान्ते आकाशांशानां देशविशेषाणां
वाच्यन्तरशब्दप्रयोगो नोपपद्यत इत्यत आह ॥ यदेति ॥
विक नेदमङ्गीकारयतीत्याह ॥ यदा तु घटेति ॥
र
यावद्द्व्यभावित्वात अत्यन्ता भेदस्याङ्गीकारात् भेद-
परेणौपाधिकभेदोऽङ्गीक्रियते । तं प्रति स्वाभा
2
न बन्धमोक्षयोः
1 विशिष्टद्वयस्यैषोत्पत्तेरिति, इति पाठान्तरम्.
पस्तकस्थपाठान्तरस्य बन्धमोक्षयो वैयधिकरण्यसमर्थनपरतया असाधुतैवेति भाति,
: सामानाधिकरण्यमिति भावः इति मुद्रित-</p>
<pb n="24" />
<p>यदाकाश इत्यादेव्र्व्याख्यानान्तरं
(मं. टि.) किं, घटाकाशमहाकाशयोर्भेद उपाधिकृत इत्युच्यते किं वा घटाकाशमठाकाशयो:?
आद्योत्तरत्वेन कारिकाखण्डं व्याचष्टे ॥ यदेति ॥ द्वितीयोत्तरत्वेन तदेव स्खण्डं व्याचष्टे ॥ यदा विति ॥
* उपाधे कारकत्वे उपाध्यपेक्षैव न स्यात् । भेदस्य स्वरूपत्वेनोपाघेरुपयोगानिरूपणात् ।
2
भेदस्य वस्तुस्वरूपत्ववादिसिद्धान्तिमते उपाधेशपकत्वानुपपत्तिनिरासः
(टी.) ननु भेदो नाम वस्तुस्वरूपमेव स तदर्शनेनैव दृश्यः । न चोपाधेः स्वरूपदर्शने उपयो-
गोऽस्ति । तत्कथमुच्यते उपाधिर्भेदस्य ज्ञापक इति ? तत्राह
•. मूढबुद्धिव्यपेक्षया ।
a
अस्ति भेदस्य वस्तुस्वरूपत्वं तथापि तद्विशेष इति प्रतिपादितमन्यत्र । ततो वस्तुप्रतीतावपि
भेदाप्रतीतिरभेदप्रतीतिश्च युज्यते । तदा भेदज्ञापने अस्त्येवोपाधेरुपयोग इति ।
(मं. टि.) ननु ज्ञापकत्वेऽव्ययं दोषः समः । स्वरूपाभिन्नस्य मेदस्य पूर्वमेव सिद्धेः । अस्माभिर्भेदस्य
स्वरूपत्वाङ्गीकारादिति शङ्कते ॥ ननु भेदो नामेति ॥ तवेति शेषः । तर्हि स्वरूपदर्शन एव तदपेक्षाऽस्त्वित्यत
आह ॥ न चेति ॥ उपाध्यप्रतीतावपि स्वरूपप्रतीतेरिति भावः । ननु मूढा अप्युपाधिपतीति विनैव स्वरूप -
प्रतीतौ स्वरूपाभित्र भेदं प्रतिपद्यन्त एव । अतः कथं तदपेक्षयाप्युपाध्युपयोग: ? इति तत्राह ॥ अस्तीति ॥
(टी.) नन्वाकाशे विद्यमानस्यैव भेदस्योपाधिज्ञपक इति कस्मात् अङ्गीकार्यम् ? अविद्यमान
स्योत्पादक एव कमान्नाङ्गीक्रियते ? इति । तत्राह
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ॥ ५ ॥
यद्यपाधिर्विद्यमानस्यैव भेदस्य ज्ञापक इति नेष्यते । किन्तु ? अविद्यमानस्यैव कारक इत्यङ्गी-
क्रियते । तदैवं वक्तव्यम् किं घटायुपाधिराकाशसम्बन्धी तद्वेदं करोति उतासम्बद्धः । द्वितीयेऽति-
प्रसङ्गः । आद्येऽपि वाच्यं स उपाधिसम्बन्ध आकाशस्यैकदेशे वर्तते उत सर्वाकाश इति । आद्ये
दोषमाह
.</p>
<p>PL
1 किं घटाकाशमठाकाशयोर्भेद उपाधिकृत इत्युच्यते ? किंवा घटाकाशमठाकाशयो: स्वरूपं ? इति पाठान्तरं नैव युक्त -
मिति भाति । घटाकाशमठाकाशस्वरूपस्य यदा त्वित्यादिव्याख्यानान्तरेण उपाधिकृतत्वानिराकरणात्.
•
2 उपाधेरकारकत्वे इति पाठान्तरं तत्पक्षस्य मायावादिना अनुपादानात् असाध्विति भाति
8 ननु कारकत्वेऽप्ययं दोषः समः स्वरूपाभिन्नस्य मेदस्य पूर्वमेव सिद्धेरिति चेन्न । अस्माभिर्भेदस्य स्वरूपत्वानङ्गी-
कारात् इति शङ्कते इति मुद्रितः पाठः तत्कथमुच्यते उपाधिर्भेदस्य ज्ञापक इति' इति टीकया विरुद्धत्वादुपेक्ष्यः
,
1</p>
<pb n="25" />
<p>उपाधिखण्डने
एकदेशगतस्योपाधेर्भेदकारकत्वे अनवस्थात्माश्रयदोषौ
एकदेशेऽनवस्था स्यात् ...
(टी.) ' चेदुपाधिसम्बन्ध इति' वर्तते । यदि घटाद्यपाधिसम्बन्धो गगनैकदेशवर्तीत्युच्यते तदा
तस्याप्याका शैकदेशस्य औपाधिकत्वं वक्तव्यं । सोऽप्युपाधिरुपाध्यन्तरकृतैकदेशे सम्बद्धय भेदक
इत्यनवस्था । उपाध्यन्तरानङ्गीकृतावात्माश्रयः स्यात् । द्वितीयं दूषयति
उपाधे: सर्वगतत्वे भेदकत्वानुपपत्तिदोषः
.
।
. सर्वगन्न भेदकः ।
....
यद्यपाधिसम्बन्धः सर्वाकाशगतः स्यात् तदासौ नाकाशभेदस्य कारकः स्यात् । कृत्स्नस्यैकोपा-
धिनैव ग्रस्तत्वात् । इदमुक्तं भवति । असम्बद्धस्योपाधेरवच्छेदकत्वे काश्मीरस्थेन महारजनेन केरल
वर्तिनो वाससोऽवच्छेदप्रसङ्गात् सम्बद्ध एवोपाधिर्भेदक इति वक्तव्यम् । घटाकाशसंयोगश्च आकाशे
व्याप्यवृत्तिश्चेत् सर्वाकाशस्य घटाकाशत्वात् आकाशभेदहेतुर्न स्यादिति प्रदेशवृत्तिरित्यङ्गीकार्यम् ।
तस्य च प्रदेशस्योपाधिकृतत्वे अनवस्थादिप्रसङ्गात् स्वाभाविकत्वमेवेष्टव्यम् । तथा च प्राक्सिद्धस्य
आकाशभेदस्य उपाधिना कर्तुमशक्यत्वात् उपाधिर्विद्यमानस्यैव भेदस्य ज्ञापको विज्ञायत इति ।
(मं. टि.) ननु असम्बद्धस्यैवोपाधेर्भेदकत्वमङ्गीकियते । न चातिप्रसङ्गः । भेदप्रतीतेस्तत्प्रतीत्यधीनत्वस्यैव
नियामकत्वात् । ततश्च एकदशोऽथ सर्वगः इति विकल्पोऽनवसरपराहत इत्याशङ्का ॥ यधुपाधिरित्या-
दिना ॥ न चेदित्यस्यार्थं विवृण्वन् तात्पर्यमाह ॥ तदैवमित्यादिना ॥ असम्बन्धे भेदप्रतीतेस्तत्प्रतीत्यधीनत्वमेव न
स्यादिति भावः । नन्वसम्बन्धेऽपि अन्वयव्यतिरेकबला दुपाघेर्भेदकत्वमिति नातिप्रसङ्ग इत्याशङ्कयाभिप्राय माह
॥ इदमुक्तं भवतीत्यारभ्य विज्ञायत इत्यन्तेन ग्रन्थेन ॥ विद्यमानभेदज्ञापनमात्रेण उपाध्यन्वयव्यतिरेकयो-
श्चरितार्थत्वादिति भावः ।
-
: नैयायिकमतेन उपाधेरंशवृत्तित्वाभावशङ्का तन्निरासश्च
(टी.) प्रदेशवृत्चित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वमिति चेन्न । तस्य विरुद्धत्वात् ।
(मं. टि.) ननु प्रदेशवृत्तित्वं । नाम नांशवृत्तित्वं । किं तर्हि ? अन्यदेवेति तटस्थो नैयायिकः शङ्कते
॥ प्रदेशवृत्तित्वं नामेति ॥ भावाभावयोः स्वाभाविक विरोधान्नैतयुज्यत इत्याह । नेति ॥
अत्यन्ताभावान्योन्याभावयोः स्वप्रतियोगिसामानाधिकरण्याभावः
ननु ' अत्यन्ताभावोऽपि प्रतियोगिसमानाधिकरणः अभावत्वात् प्रागभाववत्' इति चेत् मैवम् । भावा-
भावयोर्विरोधपरिहारो द्वेषा भवति कालभेदेन वा देशभेदेन वेति । प्रागभावप्रध्वंसाभावयोस्तु कालभेदेन</p>
<pb n="26" />
<p>मन्दारमञ्जर्या अत्यन्ताभावान्योन्याभावयोः स्वप्रतियोगिसामानाधिकरण्याभावः
(मं. टि.) विरोधपरिहारात् प्रतियोगिसामानाधिकरण्याङ्गीकारेऽपि न कश्चिद्विरोध: । अत्यन्ताभावस्य तु नित्यत्वात्
कालभेदेन विरोधपरिहारासम्भवेन देशभेदेनैव विरोध: परिहरणीय इति कथं सामानाधिकरण्यं ? अथ
नित्योऽप्यन्योन्याभावः प्रतियोगिसमानाधिकरणो दृश्यते । घटवत्येव भूतले घटान्योन्याभावानुभवात् । अतः
कथं विरोधपरिहारस्तत्र ? इति चेदित्थम् । अभावो हि प्रतियोगितावच्छेदकावच्छिन्नेन प्रतियोगिना
विरुद्धयते न पुनः प्रतियोगिमात्रेण । अन्यथा अदण्डिनि पुरुषे विद्यमान एव 'दण्डी पुरुषों न' इति
निषेधो न स्यात् । तत्र प्रतियोगितावच्छेदकदण्डावच्छिन्नस्य पुरुषस्यासत्त्वेपि प्रतियोगिमात्रस्य पुरुषस्य सत्वात् ।
एवं चान्योन्याभावोऽपि यद्यपि प्रतियोगिमात्रसमानाधिकरणः तथापि प्रतियोगितावच्छेदकतादात्म्यावच्छिन्नेन
6
प्रतियोगिना न समानाधिकरणः । न हि भूतले घटो भूतलात्मना वर्तते' इति नान्योन्याभावोऽपि
न
प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिसमानाधिकरणः । तथा च प्रयोग: 'अत्यन्ताभावः प्रतियोगिताबच्छेद-
कावच्छिन्न प्रतियोगिसमानाधिकरणत्वे सति तांहकप्रतियोगिसमानकालींनो न अभावत्वात् संमतवत् ' तदेतदाह
॥ तस्य विरुद्धत्वादिति ॥ तस्येति ॥ भावाभावयोः सामानाधिकरण्यस्येत्यर्थः ।
अंशभेदेन अत्यन्ताभावस्य स्वप्रतियोगिसमानाधिकरण्यशङ्खापरिहारौ
नव्वत्यन्ताभावेऽध्यंशभेदेन विरोधपरिहारोऽस्तु हस्तपादाद्यवच्छेदकभेदेन पुस्तकसंयोगतदत्यन्ताभाव-
योर्दर्शनादिति चेन्न । तत्रांशभेदवत् गगनेंऽश भेदाभावात् ।
प्रतीतिबलात् अत्यन्ताभावस्य स्वप्रतियोगिसामानाधिकरण्यशङ्खापरिहारी
(टी.) प्रतीतत्वादविरोध इति चेन्न । आकाशभेदवादिनं प्रति प्रतीत्यसिद्धेरिति ।
(मं. टि.) नन्वथापि प्रतीतिबलात् संयोगतद्वत्यन्ताभावयोः सामानाधिकरण्यमस्तु । प्रमाणेनैव विरोधपरि-
हारादिति शङ्कते ॥ प्रतीतत्वादिति ॥ न प्रतीतिमात्र व्यवस्थापकं अतिप्रसङ्गात् । किंतर्हि ? प्रमारूपा प्रतीतिः ।
प्रामाण्यं च विरोधे परिहृते, विरुद्धार्थग्राहकयोः 'अन्यतराप्रामाण्यस्य अवश्यम्भावात् । विरोधपरिहारश्च
प्रमाणबलादित्यन्योन्याश्रयः । तस्मात् युक्त्या विरोधं परिहृत्य पश्चात् प्रतीतेः प्रामाण्यं विज्ञेयं । तचात्र
नास्तीति नैतद्युक्त मिति परिहारे स्थितेऽपि परिहारान्तरमाह ॥ न आकाशेति ॥ आकाशांशानामन्योन्यभेद-
वादिनं प्रतीत्यर्थः । वैयधिकरण्येनैव प्रतीतिनिर्वाहे न सामानाधिकरण्यकल्पकं किञ्चिदस्तीति भावः ।
2
16
' तस्य विरुद्धत्वात् ' इति वाक्यानन्तर टीकायां 'तस्य' इति पदाभावात् ॥ तस्येति ॥ इति प्रतीकधारण लेखक-
प्रमादागतमिति भाति । तस्य विरुद्धत्वादिति वाक्यगतं 'तस्य' इति पदमनूद्य भावाभावयोरित्यादिना व्याख्यातमिति भाति.
2 अन्यतरप्रामाण्यस्य.</p>
<pb n="27" />
<p>उप । धिखण्डने
आकाशांशाना मन्योन्यभेदाङ्गीकारे आकाशस्य अनित्यत्वशङ्कापरिहारौ
(मं. टि.) एवं चेदाकाशस्य सावयवत्वेनानित्यत्वं स्यादिति चेन्न । सांशत्वेऽपि सावयवत्वाभावेन आपा-
दकासिद्धेः । व्याहतमेतदिति चेत् । किमंशा एवोपादानापरपर्यायावयवा इत्यभिमान: ? किं वा
तद्व्याप्ता ? इति ।</p>
<p>अवयवातिरिक्तांशसमर्थनम्
नाद्यः पटावयवतन्त्वतिरिक्तानां हस्तवितस्त्याद्यवच्छेद्यानामंशानामनुभवात् । तथा हि, न तावत्पट-
स्तदवच्छेद्यः तस्य ततोप्यधिक परिमाणत्वात् । अनेक हस्तावच्छेद्ये एकहस्तावच्छेद्यत्वं सुतरां सम्भवतीति चेत्
तर्हि परममहतो मध्यमपरिमाणत्वं मध्यमपरिमाणस्याणुत्वमापतेति साधु समर्थित तार्किकमतं । स्वरूपेणाधिक
परिमाणस्यापि खण्डपटावच्छिन्नस्य अल्पपरिमाणत्वं च भविष्यतीति चेन्न । अनुपदमेव निराकरिष्यमाण-
त्वात् । किं चैवमनेकत्व सङ्ख्ययैव एक इति व्यवहारनिर्वाहें एकत्वमप्रामाणिकमापद्येत । परिमाणभेदेन
द्रव्य मेदावश्यम्भावेन एकस्मिन् परिमाणद्वयायोगाच्च ।
नापि तन्तवस्तदवच्छेद्याः तेषां ततोऽप्यल्पपरिमाणत्वात् ।
खण्डपटास्तद वच्छेद्या इति चेत् किमनारभ्यारम्भवादोऽङ्गीक्रियते किंवा आरभ्यारम्भवाद: ? आद्ये
तन्तुमहापटातिरेकेण आन्तरालिककार्यमेव नाङ्गीकियते ? उत अङ्गीकृत्यापि तस्य पटारम्भकत्वं नाङ्गीक्रियते ?
आद्येऽपि किं तन्नोत्पद्यते ? उत उत्पन्नमपि महापटस्य स्वप्रतिबन्धकत्वात् तदवस्थानसमये स्वयं नश्यति ?
इति । उभयथापि महापटावस्थानसमये कथं खण्डपटावकाश: । द्वितीये त्विष्टापत्तिः ।
.
आरभ्यारम्भवादेऽपि किं खण्डपटा: महापटोपादानभूता: ? उत न? न चेत् सिद्धं नः समीहितं ।
उपादानातिरिक्तांशानां त्वयैवोपपादनात् । प्रथमेऽपि किं त एव पटस्योपादानानि ? किं वा तन्तवोऽपि ?
नाद्यः, 'इह तन्तुषु पटसमवायः' इति प्रतीत्यभावनसङ्गात् । तन्तूनामनुपादानत्वात् । परम्परयोपादानत्वेन
तथा प्रतीतौ ' त्र्यणुके पट : - इति प्रतीयेत । द्वितीये खण्डपटा अपि तन्त्वारब्धा इति वक्तव्यं । आरम्भ-
कान्तराभावात् । न च तद्युक्तं । तत्त्वारभ्यपटारम्भकाणां तेषां तन्तुवत् तन्तूपादेयत्वायोगात् । पटारम्भ-
कतन्त्वारब्धस्य पटवत् पटोपादानत्वायोगाच्च ।
एकद्रव्यारम्भकस्य द्रव्यान्तरानारम्भकत्वनियमभङ्गः
ननु त्वत्पक्षेऽप्यंशास्तन्तूपादेया इति वक्तव्यं । गत्यन्तराभावात् । तथा च अन्यद्रव्यारम्भकस्य अन्यद्र-
व्यारम्भकत्वमन्यत्रादृष्टमापद्येतेति चेन्न । खारब्धपटनाशे तेषामेव तन्तूनां पटान्तरारम्भकत्वदर्शनात् । युगपदेव
नास्तीति चेन्न । अत्राप्यंशा रम्भानन्तरमंश्यारम्भाङ्गीकारेण तदभावात् ।
·</p>
<pb n="28" />
<p>मूर्तानां सामानाधिकरण्याभावनियमभङ्गः</p>
<p>(मं. टि.) तथापि तन्तुष्वेवांशांशिनोरवस्थानात् मूर्तानां सामानाधिकरण्यं प्रसज्यत इति चेन्न । पटतदव-
यत्रयोरे कस्मिन्नेव भूतले वृत्तिदर्शनात् । अवयवावयविभावानापन्न योस्तथाभावो नास्तीति चेन्न । आलोकमण्डलव्याप्त
एव देशे वायुसञ्चारदर्शनात् । निविडावयवत्वे सतीति विशेष्यत इति चेन्न । तस्य आपेक्षिकस्य सर्वत्र
सम्भवात् । आत्यन्तिकस्य 'हीरादन्यत्रासम्भवात् । पटवत्येव भूतले तदुपरक्तमहारजनवर्तनानुभवाच्च ।
अंशांशिभावानापन्नयोरेव तथात्वमिति वक्तुं शक्यत्वाच्च । समवायवृत्त्या तथाभावो नास्तीति चेत् अत्रापि
तया वृत्त्या के नामाङ्गीकुर्वते ? । मया समवायस्यैवानङ्गीकारात् । उपादानोपादेययोरभेदेन अन्तत आश्रया-
श्रयिभावाभावाच्च । तस्मान्नावयवा एवाशाः ।
6
अंशा अवयवव्याप्ता इति द्वितीयेऽपि किं यत्रांशाः तत्रावयवा इति व्याप्तिः ? किं वा यदांशास्तदा
अवयवा इति ? योंऽशी सोऽवयवीति वा ? नाद्यः मूर्तानां सामानाधिकरण्यविरोधेन त्वयाऽपि तदनङ्गी-
कारात् । न द्वितीयः इष्टापत्ते: गगने यदा अंशास्तदा द्वयणुकावयवपरमाणूनामङ्गीकारात् । न
Loop
तृतीय: नित्यत्वेन निरवयवेऽपीश्वरे 'एते स्वांशकलाः पुंसः' इत्यादावंशस्मरणात् । अपि च आकाशं
सावयव सांशत्वात् ' इति चेदनुमानप्रयोगः तदा 'आकाशं सावयवं बाह्येन्द्रियग्राह्ययिशेषगुणत्वात् ' इत्या-
दिभिः निरंशत्वेऽपि सावयवत्वं किं न स्यात् ? विपक्षे बाधका भावान्तैः सावयवत्वसाधनं युक्तमिति चेत्
समः समाधिः ।
अंशानां अनित्यत्वनियमभङ्गः
तथापि सांशत्वे किं ' अंशानामनित्यत्वादेशिनोऽध्यनित्यत्वं स्यात्' इति विपक्षे दण्ड: ? किं वा
'अंशानामन्योन्यसंयोगस्य अनित्यत्वादशिनोऽप्यनित्यत्वं स्यात् ' इति । नाद्यः अंशानामपि नित्यत्वाङ्गीकारात् ।
न च नित्यांशे प्रमाणाभावः, ' अंशत्वं नित्यनिष्ठं सकलमहदवयव्यनुस्यूतद्रव्यवृत्तित्वात् अवयवत्ववत् '
इति अनुमानसद्भावात् । कर्मत्वादौ व्यभिचारपरिहाराय द्रव्यग्रहणं । तावत्युक्ते परस्यासिद्धिः । द्व्यणुक -
स्यावयवित्वेऽप्यंशाभावात् अतो महदित्युक्तं । तावत्युक्ते तन्त्वादौ व्यभिचारः । तत्परिहारार्थ सकलावयव्य-
नुस्यूतेत्युक्तं । तन्तूनां पटावयव्यनुस्यूतत्वेऽपि सकलावयव्यनुस्यूतत्वाभावात्तत्र व्यभिचारपरिहारः । न चासि
द्विसाधनवैकल्ये शङ्कये। सर्वेषां महतामवयविनां सांशत्वात् सावयवत्वाच्च ।
।
संयोगस्यानित्यत्वनियमभङ्गः
नापि द्वितीयः । 'संयोगत्वं नित्यवृत्ति सम्बन्धमात्रवृत्तिधर्मत्वात् समवायत्ववत्' इत्यनुमानेन नित्य-
संयोगसाधनेनांशानां नित्यसंयोगस्याङ्गीकारात् । तस्मात् 'अकाशभेदवादिनं प्रति ' इति साधूक्तं ।
2 तन्तुत्वादौ.
1 क्षीरादन्यत्रासम्भवात्.</p>
<pb n="29" />
<p>उपाधिखण्डने
सत्योपाधिकृतसत्यभेदवादे सुखादिभोगस्य नियतप्रमातृकत्वाभावदोषः
(टी.) सत्योपाधिकृतसत्यभेदवादे दोषन्तरं चाह
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ॥ ६ ॥ ॥
दृश्यो हि.....
हिंशब्दो व्याप्तिसूचनार्थः । भवतु वा आकाशादिभेदः कथञ्चित् औपाधिकः । जीवब्रह्मणोः
जीवानां च भेदस्तु स्वाभाविक एवाङ्गीकार्यः । स्वरूपैक्ये स्वाभाविकैक्ये सुखदुःखादिभोगस्य भेदन
दर्शनं न स्यात् सम्प्रतिपन्नैकात्मवत् ।
(मं. टि.) ॥ भेदेनेति ॥ भिद्यत इति भेदः । कर्मणि घञ् । इत्थम्भूतलक्षणे तृतीया । आश्रय-
विशेषणं चैतत् । भिन्नेनाश्रयेणोपलक्षितस्य दर्शनं न स्यादित्यर्थः । नियतप्रमातृत्वं न स्यादिति यावत् । एवमेव
स्वरूपैक्ये न भेदतः इति कारिकास्थोऽपि भेदशब्दो व्याख्येयः ॥ सम्प्रतिपन्नैकात्मवदिति ॥ 'तत्र तस्येव
इत्यनेन सूत्रेण तत्रेव इत्यर्थे वतिः । सम्प्रतिपन्नैकात्मनीवेत्यर्थः ।
भेदस्य मिथ्योपाधिकृतत्ववादे काल्पनिकव्यवस्थाया अभ्युपगमवादेनाङ्गीकारः
(टी.) ये तु 'मिथ्योपाधिनिमित्तो भेदभ्रमः' इति वदन्ति तेषां सुखदुःखादीनामपि मिथ्या-
त्वात् काल्पनिकी व्यवस्था घटेतापि ।
भेदभ्रमस्य मिथ्योपाधि निमित्तत्ववादे काल्पनिकव्यवस्थाया अप्यनुपपत्तिसमर्थनम्
(मं. टि.) ननु तेषां काल्पनिकी व्यवस्था घटेत इत्ययुक्तं । तथा हि, किं तेषां व्यवस्था न
प्रतीयत इति न दोष: ? उत अपारमार्थिकीति ? यद्वा युक्त्यसहेति ? नाद्यः अनुभवसिद्धत्वात् । द्वितीये
सा किं व्यवस्थापकमेव नापेक्षते ? किं वा पारमार्थिकं ? नाद्यः यक्षानुगुणबलिवत् तदनुगुणव्यवस्थापकस्य
आवश्यकत्वात् । अन्यथा अपारमार्थिक जीवत्वादिव्यवस्था सिद्ध्यै अविद्यानङ्गीकारप्रसङ्गात् । न द्वितीयः,
अपारमार्थिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदद्व्यतिरेकेण निराकरिष्यमाणत्वात् । न तृतीयः
दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ।
इति वक्ष्यमाणातिप्रसङ्गात् ।</p>
<pb n="30" />
<p>एकजीववादमाश्रित्य प्रागुक्तदोष परिहारशङ्का</p>
<p>(मं टि.) ननु एकजीववादे एकस्यैव दुःखानुसन्धातृत्वं । इतराणि निर्जीवानि शरीराणि । तथा च
अन्यो दुःखानुसन्धातैव नास्ति । कुतोऽव्यवस्था ? इति चेन्न ।
तत्परिहारः
त्वदज्ञानकल्पितेनापि मया दुःखानुभवात् । तथैव मदज्ञानकल्पितोऽसीति चेत् त्वदज्ञानेन तथा
कल्पने 'अयं दुःखी' इति तव प्रतीतिरस्तु । ' अहं दुःखी ' इति मम तु कथं प्रतीतिः ? नास्ति सा
तवेति चेन्न परबुद्धेर प्रत्यक्षत्वात् । तथापि तावकीनानुभवे मम किं प्रमाणं इति चेत् रूपे चक्षुष इव मद्वच-
नैकवेद्ये तस्मिन्मद्वचनस्यैव प्रमाणत्वात् । स्वतः प्राप्तस्य च प्रामाण्यस्य बाधकापोद्यत्वात् तथाविधे मद्वचने
बाघकाभावाच्च ।
किञ्चैवं सति 'प्रतिवादिनं मां प्रति उत्तरं दत्तं
त्वया' इत्यत्र प्रमाणाभावादननुभाषणं नाम निग्रह-
स्तवापद्येत । तत्र त्वदनुभव: प्रमाणमिति चेन्न । मम कल्पितस्याननुभवितृत्वात् । मयाध्यनुभवालापमाश्रित्य
अनुभूयाऽपि नानुभूयत इति वक्तुं शक्यत्वाच्च ।
प्राश्निकानुभवः तत्र प्रमाणमिति चेन्न । तेषामप्यननुभवितृत्वात् । अनुभवितृत्वेऽपि 'अकल्पकैर-
स्माभिर्दुःखमनुभूयते' इति प्राश्निकानुभवस्य प्रामाण्यसम्भवाच । अथैव ब्रूपे 'त्वमेव कल्पकोऽहं त्वत्कल्पितः '
इति, तदापि त्वया अनुभवापलापेऽपि ये नानुभवापलापिनः तेषां कल्पकात्म।तिरिक्तानां दुःखानुभवितृत्वं न
स्यात् । अपि चैवं अनुभवापलापे लोकायत प्रति ' मम शरीरं' इत्याद्यनुभवबलेन शरीरातिरिक्तात्मसाधनं
अहमज्ञः' इत्याद्यनुभवबलेन भावरूपाज्ञानसाधनं परमप्रेमास्पदत्वानुभवेन आनन्दात्मकत्वसाघनमित्यादिकं
त्वयोक्तमसङ्गतं स्यात् ।
तस्मात् ' काल्पनिकी व्यवस्था घटेत' इत्ययुक्तमिति । सत्यं, अभ्युपगमवादोऽयमित्यदोषः । अत
एवाघटनमेव पारमार्थिक मिति सूचयितुं घटेतापि इति अपिशब्दः प्रयुक्तः ।
सुखदुःखाद्यनुभवभेदस्य आत्मभेदसाधकत्वोपपादनम्
(टी.) ननु सुखदुःखादयोऽन्तःकरणधर्माः । तद्भेदात् कथञ्चित् अन्तःकरणभेदः साध्यतां ।
आत्मभेदे तु किमायातम् ? इत्याशङ्कापरिहाराय भोग इत्युक्तं । न वयं सुखादिभेदात् ' अन्तःकर-
णभेदं साधयामः । किं नाम ? ' स्वरूपाभेदे सुखाद्यनुसन्धानं स्यात्' इति ब्रूमः ।
1 मदभिलषितेऽपि 'अकल्पकैरप्यस्मभिर्दुः खमनुभूयते"
' आत्मभेदं साधयाम: ' इति पाठेन भाव्यमिति भाति.
22
2 आत्ममेदे तु किमायातम् इति शङ्कानुरोधन
"</p>
<pb n="31" />
<p>उपाधिखण्डने
(मं. टि.) दुःस्वादीनामन्तःकरणधर्मत्वेन तद्भेदसाधक त्वेऽपि सुखाद्यनुसन्धातृत्वाननुसन्धातृत्वलक्षणा-
दात्मगताद्विरुद्धधर्मादात्मभेदो भविष्यतीति परिहरति ॥ इत्याशङ्कापरिहारायेति ॥</p>
<p>1
सुखदुःखादिव्यवस्थान्यथानुपपत्तेरात्मभेदासाधकत्वशङ्का
2
(टी.) एतेनैतदपि निरस्तं, यत् केनचित् व्यवस्था न्यथानुपपत्त्या भेदमाशङ्कय उक्तम् ' न तावत्
धर्मभेदो व्यवस्था । धर्मभेदेऽपि धर्मिणो भेदाप्रतीतेः । नापि भिन्नाश्रयधर्मभेदः । इतरेतराश्रयप्रसङ्गात् ।
न च विरुद्धधर्मभेदः । ऐकात्म्यवादिनं प्रति सुखादीनां विरोधासिद्धेः' इति
।
सुखदुःखाद्यनुसन्धानव्यवस्थान्यथानुपपत्तेरात्मभेदसाधकत्वसमर्थनम्
अङ्गीकृतत्वात् ।
'स्वरूपैक्ये अनुसन्धानं स्यात् ' इति तर्फे व्याप्तथभावशङ्का तत्परिहारश्च
ननु एतद्नुसन्धानं किमंशा नामापाद्यते ? उतांशिन: ? नाद्यः व्याप्त्यभावात् । हस्तगत-
सुखस्य पादगतेन अननुसन्धानात् । न द्वितीयः तस्य अभोक्तृत्वादिति । मैवम् उभयथाप्यदोषात् ।
न हि तत्तद्भोगायतनानां सङ्क्रान्तिरापाद्यते । किं तु ? सुखाधनुसन्धानमात्रम् । तत् अंशानामस्त्येव ।
भोक्तृभूतांशवतोंऽशिनोऽभोक्तृत्वासिद्धेश्च ।
सुखदुःखाद्यनुसन्धानभावाभावरूपव्यवस्थाया
अतीतसुखादाविव अननुसन्धानं किं न स्यात् ? इति चेत्, न हि वयं वर्तमानतया अनुभवं
स्मरणं वा अनुसन्धानं ब्रूमः । किं नाम ? स्वीयतया अनुभवमात्रं । न च तन्नास्ति अतीत-
सुखादाविति ।
तदयं प्रसङ्गार्थः 'यदि जीवब्रह्मणी जीवाश्च स्वभावतोऽभिन्नाः स्युः तदा अन्योन्यगतसुख-
दुःखादिविषये स्वीयतया अनुभववन्तः स्युः यथा सम्प्रतिपन्नः' इति । 'विमताः परस्परमैक्यरहिताः
चेतनत्वे सत्यन्योन्यगतसुखदुःखाद्यनुसन्धानशून्यत्वात् यो येनैक्यवान् चेतनः स तत्सुखाद्यनुसन्धा-
नवान् यथा सम्प्रतिपन्नः' इत्यनुमानं वा अनेन सूचितं । चैतन्यावच्छिन्नत्वात् व्याप्तेर्न कश्चित्
क्षुद्रोपद्रवः ।
।
(मं. टि. )॥ यत्केनचिदिति ॥ तत्र किं धर्मभेदो 2 व्यवस्था ? किं वा भिन्नाश्रय धर्मभेद: ? विरुद्ध धर्म भेदो
वा इति विकल्पान् हृदि निधाय प्रथमं प्रत्याचष्टे ॥ न तावदिति ॥ द्वितीयं प्रत्याह ॥ नापीति ॥ इतरेतराश्रयप्र-
1 तद्धेतसाधकत्वेऽपि
2 व्यवस्थापक:</p>
<pb n="32" />
<p>'स्वरूपक्ये अनुसन्धानं स्यात् ' इति तर्के व्याप्तयभावशङ्का तत्परिहारश्च
(मं. टि.) सङ्गादिति ॥ धर्मिभेदे धर्माणां भिन्नाश्रयत्वं, घर्माणां भिन्नाश्रयत्वे च सति धर्मिभेदसिद्धिरित्यन्योन्य
सापेक्षत्वात् । तृतीयं प्रत्याचष्टे ॥ न चेति ॥ विरोध: किं सहानवस्थानलक्षण : ? किं वा वध्यघातकभावलक्षण ?
नाद्य इत्याह ॥ ऐकात्म्यवादिनं प्रतीति ॥ न द्वितीयः एकात्मसमवेतयोः पूर्वोत्तरज्ञानयोर्वध्यघातकभाव-
लक्षणविरोधसद्भावेन आत्मभेदप्रसङ्गात् । तत्र कालभेदेन विरुद्धधर्माश्रयत्वमुपपद्यते । प्रकुते तु युगपदेव
देवदत्ते सुखस्य यज्ञदत्ते दुःखस्य च प्रतीतेराश्रयमेदो वक्तव्य इति चेन्न । तदाश्रययोर्भेदे विरोधासिद्धेः 'नाजात
एकोऽन्यं हन्ति, नाप्यन्याधारः' इति न्यायेनेत्यर्थः । किं च खरतर दिनकर किरणैनिंर्द ग्धोर्ध्वकायस्य शिशिर
तरसलिलावगाढापरभागस्यापर्यायमेव सुखदुःखदर्शनेन तयोर्न सहानवस्थानं नापि वध्यघातकभाव इति भावः ।
चेतनाचेतनानुगतभेदव्यवस्थापकनिर्धारः</p>
<p>॥ सुखदुःखाद्यनुसन्धानेति ॥ चेतनेष्वेवेदं व्यवस्थापकं यत् 'सुखं दुःखं वा योऽनुसन्दधाति सोऽननु-
सन्धातुर्भिद्यते' इति । चेतनाचेतनानुगतस्य मेदव्यवस्थापकस्य प्रश्ने तु ' यो यदवृत्तिधर्माश्रयः स तस्माद्भिद्यते'
इति वा 'यत्र यत्तादात्म्यमारोप्यते स तस्माद्भिद्यते' इति वा 'यत्र यदात्मकत्त्रं न प्रतीयते स तस्माद्भिद्यते' इति
वा उत्तरं वक्तव्यं । विकल्पासहत्वान्नायं तर्क: साधुरिति शङ्कते ॥ नन्विति ॥ अननुसन्धानादिति ॥ अनुसन्धाने
च 'पदे मे वेदना शिरसि सुखं ' इति न प्रतीयेत । किं तर्हि ? उभयत्रोभयं प्रतीयेतेति भावः ॥ तस्या-
भोक्तृत्वादिति ॥ स्वरूपानन्दस्य ' ज्ञानामिन्नस्य स्वतः स्फुरणेऽपि न बाह्यसुखाद्यनुसन्धानं । तत्साधनान्तः
करणावच्छेदाभावादिति भावः । परिहरति ॥ मैवमिति ॥ न तावदाद्ये दोषः । पादावच्छिन्नदुःखस्य
हस्तगतेनांशेन अननुसन्धाने पादतललग्नकण्टकोद्धरणाय हस्तव्यापारानुपपत्तेः । न च पित्रादेः पुत्रादिदुःखपरि-
जिहीर्षयेव प्रवृत्तिः । आकन्दितादिलिङ्गायनुसन्धानं विनैव ऋटिति प्रवृत्तेः । न चांशी दुःखमनुसन्धाय अंशं
प्रेरयतीति युक्तं । अंशव्यापारकल्पने गौरवात् । न चांश्येव तत्र व्याप्रियत इति युक्तं । पादलमकण्टक-
जनित दुःखमध्यंश्येवानुसन्धत्त इति प्रसङ्गात् । 'पादे मे दुःखं ' इत्यनुभवस्तत्र प्रमाणमिति चेत् इहापि</p>
<lg>
  <l>हस्ते मे व्यापार : ' इत्यनुभव: प्रमाणं ।</l>
  <l>एवं तर्हि 'पादे मे दुःखं ' इति नियतप्रतीतिर्न स्यादित्यत आह ॥ न हीति ॥ सङ्क्रातिरिति ॥</l>
</lg>
<p>इतरांशसम्बन्ध इत्यर्थः । येन नियमेन प्रतीतिर्न स्यादिति वाक्यशेषः ॥ किं त्विति ॥ श्रयमाणशब्दस्य
श्रोत्रसम्बन्धेऽपि वीणायाः कणननिमित्तत्वात् 'वीणायां शब्दः' इतिवत् पादे दुःखहेतोः कण्टकस्य
सम्बन्धात् तदवच्छेदेन प्रतीतिरिति भावः ॥ भोक्तृभूतेति ॥ अंशिनः सर्वगतस्य ' अन्तःकरणाद्यवच्छेदात्
भोगः स्यादेव । न चेत् तन्न्यायेनैव पादावच्छिन्नदुः खाद्यनुसन्धानं देहिनो न स्यादिति भावः ।
अनुसन्धानशब्दार्थ विवरणम्
2
6
ननु ' अनुसन्धानं स्यात्' इत्यत्र किं सुखादीनामनुभव आपाद्यते ? किं वा स्मरणं ? यद्वा
अन्यतरत् ? अथ वा प्रत्यक्षानुभव: ? आहोखित्प्रत्यक्षज्ञानजन्यं स्मरणं ? यद्वा तदन्यतरत् ? नाद्यद्वितीयतृतीया,
2
। ज्ञानभिन्नस्य इति मुद्रितपुस्तकस्थपाठो विरुद्ध इति भाति.
अन्त:करणावच्छेदात् .</p>
<pb n="33" />
<p>शु</p>
<p>उपाधिखण्डने
(मं. टि.) इष्टापत्तेः । देवदत्तेन यज्ञदत्तमुखोल्लासादिना तत्सुखानुमानात् तस्य च स्मरणजनकत्वात् स्मरणानुभव-
योरुभयोरङ्गीकारात् । चतुर्थ प्रत्याह ॥ अतीतेति ॥ देवदत्तस्य स्वीय एवातीते सुखे इन्द्रियसंनिकर्षजन्य-
प्रत्यक्षानुभवाभावात् तत्र व्यभिचार इत्यथः । पञ्चमं दूषयति ॥ आदीति ॥ वर्तमानमा दिपदार्थः । वर्तमान-
स्वीय एव सुखे स्मरणाभावासत्र व्यभिचार इत्यर्थ: । षष्ठेऽप्येतदेव दूषणं ॥ आदीति ॥ अनागतमादिशब्दार्थः ।
तत्र इन्द्रिय सनिकर्षाभावान्न तत्प्रत्यक्षज्ञानं । अत एव न तज्जन्यस्मरणं चेत्यर्थ:
,
-
-
या दुःखानुसन्धातृत्वं खलु 'अहं दुःखी' इत्यनुभवः । न चातीतेन दुःखेन तथा दुःखानु-
भवोऽस्तीत्याशङ्कते ॥ अतीतेति ॥ सुखादीत्या दिशब्देन दुःखादिकं विवक्षति । अस्मिन् पक्षे परिहारग्रन्थे
स्मरणग्रहण अतीते स्मरण नियमाभावादुपपन्न मिति द्रष्टव्यं ।
परिहरति ॥ न हीति ॥ अनुभवं स्मरणं च प्रत्येकं क्रोडीकृतं वा वर्तमानतया अनुभव तज्जन्यस्मरणं
च प्रत्येकं क्रोडीकृतं वा अनुसन्धान न ब्रूम इत्यर्थः । यद्वा अनुभवविशेष स्मरणं वा अनुसन्धानं न ब्रूमः ।
येनातीतादावनुभवस्मरण नियमाभावेन व्यभिचार: स्यादित्यर्थः । एवं न चेत्तीनुसन्धानशब्दार्थो वक्तव्य इति
शङ्कते ॥ किं नामेति ॥ परिहरति ॥ स्वीयतयेति ॥ ईश्वरस्यापि सर्वापरोक्ष विदो यज्ञदत्तदुःखानुभवितुः
तदुःखानुसन्धातृत्वं मा भूदिति स्वीयग्रहणं । अनुभवशब्देन स्मृत्यभ्यं ज्ञानं विवक्षति । मात्रशब्देन कालविशे-
षाऽकलन व्युदस्यति । एवं च न व्याप्तिभङ्ग इत्याह ॥ न चेति ॥ विवक्षितश्चानुभवोऽतीतादावण्यानुमानिकः
सम्भवतीति भावः ।
'
1
नन्वथापि ' अतीतादौ व्यभिचारः । अतीतस्य यस्य कस्यचित् आनुमानिकानुभवसम्भवेऽपि सर्वस्य
तथात्वनियमाभावात् । न ह्यतीतं सर्वमप्यनुमीयत इति चेत् एवं तर्ह्यनुभवशब्देन साक्ष्यनुभवो विवक्ष्यतां । न
चातीतादौ व्यभिचारः । खसत्तासमये स्वीयतयाऽनुभवस्यापाद्यत्वात् । अतीतादावपि स्वसत्तासमये स्वीयतया
अनुभवसद्भाषादिति भावः । फलितं दर्शयति ॥ तदयमिति ॥ एकपदं चैतत् । सोऽयं प्रपञ्च इत्यर्थः । प्रसङ्ग-
स्तर्कः अर्थः प्रयोजनं यस्य प्रपञ्चस्य सोऽयं प्रसङ्गार्थः । अथ वा प्रसङ्गरूपस्य सुखेत्यादिवाक्यस्य अयं वक्ष्यमा-
णोऽर्थोऽभिप्रेतार्थ इत्यर्थः । अत्र तदिति भिन्नं पदं । तच्च तस्मादित्यर्थे वर्तते ।
1। विमता इति ॥ ननु कथमेतदनुमानं ? ऐक्यप्रसिद्धौ तन्निषेधायोगात् । अप्रसिद्धौ तु तदभाव -
स्यासिद्धत्वेन अप्रसिद्ध विशेषणत्वापत्तेरिति चेन्न । प्रतियोग्यप्रसिद्धा वध्यभावप्रसिद्धेरन्यत्रोक्तत्वात् । यद्वा
यज्ञदत्तभर्मिक मैंक्यं न देवदत्तप्रतियोगिकं देवदत्तसुखाद्यनुसन्धान रहितधर्मिकत्वात् यत् ऐक्यं यत्प्रतियोगिकं तत्
तत्सुखानुसन्धातृधर्मिकं यथा देवदत्तेन देवदत्तस्यैक्य' इति वा 'देवदत्तप्रतियोगिकमैक्य न यज्ञदत्तघर्मिकं
1 अतीतसुखादिविषयकानुभवरहिते इत्यर्थः । एवमप्रेsपि.</p>
<pb n="34" />
<p>जीवब्रह्मणोर्जीवानां च भेदसाधकानुमानप्रयोगः</p>
<p>टि.) तत्सुखाननुसन्धातृप्रतियोगिकत्वात् यन्नैवं तन्नैवं यथा यज्ञदत्तेन यज्ञदत्तस्यैक्यं ' इति वा प्रयोगस्य विवक्षि
तत्वात् । ननु घटस्य स्वनिष्ठसुखाद्यननुसन्धातुरपि स्वेनैक्यं विद्यत एव । तथा च तत्र व्यभिचार इत्याशङ्कयाह
॥ चैतन्येति ॥
स्वरूपैक्ये अनुसन्धान स्यात्' इति तर्फे उपाधिशङ्का
(टी.) ननु दृष्टान्तस्थले अनुसन्धानस्य उपाधिभेदाभावः प्रयोजकः, न तु स्वरूपैक्यमात्रं
प्रकृते तु उपाधिभेदसद्भावात् कथमनुसन्धानप्रसङ्गः?
6
सिद्धान्त्युक्तानुमाने अप्रयोजकत्वशङ्का
कथं च अन्यनिमित्तस्य अनुसन्धान स्याभावात् स्वरूपैक्या भावानुमानं इति ।
पूर्वोक्तशङ्कापरिहारः
अत आह
..उपाधिभेदेऽपि.
पूर्ववाक्येन सम्बन्धः । अनेन अनुसन्धानं प्रति उपाधिभेदाभावो न प्रयोजकः । किं नाम ?
स्वरूपैक्यमेव' इत्युक्तं भवति । तत् कुतो ज्ञायते ? इत्यत आह
हस्तपादादिगो यथा ।
अस्यापि पूर्वेणैव सम्बन्धः । ' स्वरूपैक्ये सति हस्तपादायुपाधीनां भेदे सत्यपि अनुसन्धान-
दर्शनात् तदेव प्रयोजकम् नोपाधिभेदाभावः' इति ज्ञायते । अन्यथा उपाधिभेदात् हस्तपादादि-
गतसुखादिभोग एकस्य न स्यात् । अतः 'उपाधिभेदेऽपि हस्तपादादिगतसुखादिभोगवत् स्वरूपैक्ये सर्वो-
पाधिगतोऽसौ भेदेन न दृश्येत ' इति ।
..
.
.
Jo
(मं. टि.) तर्कस्योपाधि शङ्कते ॥ नन्विति ॥ उपाधिभेदाभाव एव चेत्प्रयोजक: तर्हि यज्ञदत्तशरीरा-
विष्टपिशाचदुःखाद्यनुसन्धानं यज्ञदत्तस्य स्यादिति । तत्राह ॥ न तु स्वरूपैक्यमात्रमिति ॥ उपाध्यैक्यस्वरूपैक्ययो-
रुभयोरपि प्रयोजकत्वं । अतो नोक्तदोष इत्यर्थः । उपाधेः साधनाव्यापकत्वमाह ॥ प्रकृत इति ॥</p>
<pb n="35" />
<p>उपाधिखण्डने
(मं. टि.) अनुकूलतर्काभावादप्रयोजकं चानुमानमित्याह ॥ कथं चेति ॥ अन्यनिमित्तस्येति ॥ उपाध्यै-
क्यावच्छिन्न स्वरूपैक्यनिमित्तकस्येत्यर्थः । नैमित्तकस्यानुसन्धानस्याभावो हि निमित्ताभाव कल्पयति । प्रकृते तु
न स्वरूपैक्यमात्रं निमित्तं । किं तर्हि ? विशिष्टमित्युक्तं । विशिष्टाभावश्चोपाध्यैक्याभावमात्रेणोपपद्यत इति
स्वरूपैक्याभावानङ्गीकारे बाधकं नेति भावः ।</p>
<p>सिद्धान्तयतीत्या ॥ अत आहेति ॥ न प्रयोजक इति ॥ अन्वयव्यतिरेकाभ्यां प्रयोज्यप्रयोजक-
भावस्य निर्णेतव्यत्वात् उपाध्यैक्यस्य व्यतिरेक व्यभिचारान्नाप्रयोजकमनुमान । नापि तर्क: सोपाधिकः । साध्य -
व्यापकत्वाभावादिति भावः ।
संश्लिष्टोपाधेरनुसन्धान प्रयोजकत्वशङ्का तन्निरासश्च
(टी.) अथापि स्यात् । संश्लिष्टोपाधित्वमनुसन्धाने प्रयोजकं । तदुर्भावात् प्रकृते नानुसन्धान
मिति चेत् किमुपाधिसंश्लेषमात्रं प्रयोजकम् ? उत स्वरूपैक्ये सति ? नाद्यः मातृसुखादेर्गर्भस्थेनानु-
भवप्रसङ्गात् ।
स्वरूपैक्य विशिष्टसंश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वशानिरास:
न द्वितीय: स्वरूपैक्यमात्रस्य प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणाभावात् । दोषान्तरं
च सूचयति
नानादेहगभोगानुसन्धानं योगिनो यथा ॥ ७ ॥
स्वरूपैक्यसद्भावात् विश्लिष्टनानादेहगतसुखाद्यनुसन्धानं सौभर्यादियोगिनो दृष्टमिति तदेवानु-
सन्धाने प्रयोजकं नोपाधिसंश्लेषोऽपीति ज्ञायते । अन्यथा योगप्रभावोत्पादिता ने कशरीरगतसुखाद्यनु-
सन्धानं योगिनो न स्यात् । अतो योगिनः स्वरूपैक्यात् उपाधिषु विश्लिष्टेष्वपि यथा नानादेहगत-
सुखादिभोगानुसन्धानं तथा प्रकृतेऽन्यापाद्यत एवेति ।
(मं. टि.) प्रयोजकस्य व्यतिरेक व्यभिचारपरिहारार्थ उपाधे: साध्यव्यापकतासिद्धयर्थं च उपाधिर्वि
शिष्यत इति शङ्कते ॥ अथापीति ॥ सिद्धान्ती तत्परिजिहीर्षुर्विकल्पयति । किमुपाधीति ॥ आधे दूषणं
प्रतिजानीते ॥ नाद्य इति ॥ कोयमुपाधीनामन्योन्यसलेषो नाम ? किं सम्बन्धमात्रं ? किं वा उत्पत्तिमारभ्य
सम्बन्ध: ? यद्वा मिलित्वा एकावयव्यारम्भकत्वं ? नाद्यः तस्य प्रकृतेऽपि सत्वात् । न द्वितीय इत्याह
॥ मात्रिीति ॥ अन्वयव्यभिचारान्न संश्लिष्टोपाधिरनुसन्धाने प्रयोजक इति नास्मदुक्तमनुमानमप्रयोजकं । नापि</p>
<pb n="36" />
<p>संश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वनिरासः</p>
<p>6
(मं. टि.) तर्क: सोपाधिकः । यत्रानुसन्धानं तत्रोपाधिसंश्लेष: ' इति साध्यव्यापकत्वेऽपि साध्याभावाविना-
भूताभावप्रतियोगिनः स्वरूपैक्यस्य प्रयोजकत्वे सम्भवति साध्याभावाविनाभूताभावरहितस्योपाधेरेवापयोजकत्वं ।
यथोक्तं,</p>
<lg>
  <l>एकसाध्याविमाभावे मिथ: सम्बन्धशून्ययोः ।</l>
  <l>साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥</l>
</lg>
<p>इति भावः । उभयोत्पत्तिमारभ्य सम्बन्धी विवक्षित इति चेन्न । देवतावचनादिना मध्ये हस्ताद्युत्पत्तिदर्शनेन व्यभि
चारात् । अनाश्यसम्बन्धी विवक्षित इति चेन्न । सति हस्ते पादच्छेददर्शनादिति भावः ।
स्वरूपैक्ये सति संश्लेषः प्रयोजक इति द्वितीयं दूषयति ॥ न द्वितीय इति ॥ दोषान्तरं सूचयतीति ॥
यद्यपि उपाधिसंश्लेषविशिष्टस्वरूपैक्यस्य नानुसन्धानप्रयोजकत्वं । योगिषु व्यतिरेक व्यभिचारादित्ययमर्थो मूलग्रन्थे
मुखत एवोच्यते तथापि दोषान्तरत्वाकारेण सूच्यत्वं । विशेषणप्रक्षेपे प्रमाणाभावादिति खेनोक्तस्याचार्येण
सूचितत्वादिति भावः । अथ वा व्यभिचारस्थलस्य कथनेऽपि व्यभिचारः सूच्यत इति तात्पर्य
'एकावय-
व्यारम्भकत्वं संश्लेषः' इति पक्षोऽप्यनेनैव योगिषु व्यतिरेक व्यभिचारकथनेन निरस्तो वेदितव्यः ।
अन्तःकरणरूपोपाधिमेदाभावस्य अनुसन्धान प्रयोजकत्वशङ्का तन्निरासश्च
ननु अन्तःकरणरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजकः । एवं च चैत्रस्य हस्तपादादिभेदेऽपि
अन्तःकरण भेदाभावात् योगिनोऽपि शरीर मेदेऽपि अन्त:करणभेदाभावादनुसन्धानोपपत्तिः । देवदत्तयज्ञदत्त-
योस्तु अन्तःकरण भेदादननुसन्धानं । मातृगर्भस्थयोरपि अन्तःकरणभेदादननुसन्धानोपपत्तौ 'स्वरूपैक्ये सति'
इति न विशेषणीयं । तेन गौरवं च नास्तीति चेत्
नैष दोषः । सुप्तौ अन्तःकरणविलयमंङ्गी कुर्वतस्तव मते प्रत्यहमन्तः करणभेदसद्भावेन 'पूर्वद्युर्मया
दुःखमनुभूतं ' इत्यनुसन्धानाभावप्रसङ्गात् । सुप्तमुक्तयोरन्तः करणरूपोपाधिभेदाभावेन तयोः जाग्रत्संसारस-
म्बन्धिदुःखाद्यनुभवप्रसङ्गाच्च । एकस्यैवाणुभूतस्यान्तःकरणस्य विप्रकृष्टदेशस्थितानेक योगिशरीरसम्बन्धासम्भवेन
योगिनोऽपि अन्तःकरणभेदसद्भावाच्च । अन्यथा देवदत्तयज्ञदत्तयोरप्यन्तः करणैक्यप्रसङ्गात् ।
अविद्यारूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
ननु तर्ह्यविद्यारूपोपाधिभेदाभावः अनुसन्धाने प्रयोजकः । एवं च न दोषः, सुषुप्तावन्तःकरणविल-
यवत् अविद्या विलयाभावात् अविद्याया अन्तःकरणवदणुत्वाभावेन योगिन्यविद्या भेदाभावात् देवदत्तयज्ञदत्तादौ
च अनेकजीववादे अविद्याभेदात् एकजीववादे तु व्यवस्थाया एवाभावादिति चेत्</p>
<pb n="37" />
<p>उपाधिखण्डने
(मं. टि.) उच्यते, अविद्यारूपोपाधिभेदाभावस्यानुसन्धाने प्रयोजकत्वे मायोपाधिकस्येश्वरस्य च ऐन्द्रियक-
सुखाद्यनुसन्धानं स्यात् ।
अज्ञानरूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
अज्ञानरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजक इति चेन्न । मायायां लोकेऽज्ञानपदाप्रयोगात् । न हि
मायाविनमज्ञानिनमाचक्षते । न च मायावी कस्यचिदर्थस्याज्ञानादैन्द्रजालिकं दर्शयति । किंतु ? ओषधि-
विशेषज्ञानादेव । किं च मुक्तस्याज्ञानरूपोपांधिभेदाभावात् संसारिसम्बन्धिदुःखाधनुसन्धानप्रसङ्गः ।
अज्ञानरूपोपाध्यैक्यस्यानुसन्धान प्रयोजकत्वाशङ्का तन्निरासश्च
अज्ञानरूपोपाध्यैक्यमनुसन्धाने प्रयोजकमिति चेत् तर्हि मुक्तस्य स्वरूपसुखानुभवो न स्यात् । 'चैत-
न्यैक्येप्यन्तःकरणभेदात् अविद्याभेदाद्वा अननुसन्धानं' इत्यत्र मां प्रति दृष्टान्ताभावेन शरीरभेदवदन्तःकरणा-
दिभेदस्यापि चैतन्यैक्ये सति अनुसन्धानाप्रतिबन्धकत्वात् ।
भोगायतनाभेदस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
एतेनैतदपि निरस्तं 'यथा खलु खकर्णपुटपरिच्छिन्ननभोभागसमवायिशब्दो पलम्भेऽपि भागान्तरवर्ति-
शब्दानुपलम्भः तथा सुखदुःखप्रयत्नाद्युपलम्भानुपलम्भव्यवस्थितिसिद्धेस्तत्कर्णशष्कुलीमण्डलावच्छिन्नस्य नभस-
स्तत्र तत्र श्रोत्रभावक्त् तत्तद्भोगायतनावच्छेदलब्धजीवभावस्य तत्र तत्र भोगोपपत्तौ किमनेकात्मकल्पनादु-
सनेन' इति ।
1
अव्याकृता काशस्यास्माभिः श्रोत्रत्वानङ्गीकारात् । आकाशस्य स्वतः सांशत्वोपपादनाच । योगिनो
भोगायतन भेदेऽपि ' भोगाव्यवस्थाया उक्तत्वाच्च । किं च यथा अनेकात्मवादे तत्तत्कर्णपुटस्य तत्तदीयत्वनियम:
न तथैकात्मवादे तत्तद्भोगायतनस्य नियमोऽस्ति । तथा च स्खीयकर्णपुटद्वय परिच्छिन्ननभोभागवृत्तिशब्दोपलम्भ-
वदेकात्मवादे सर्वेषां भोगायतनानां स्वीयत्वात् सर्वभोगायतनपरिच्छिन्नात्म सम्बन्धिसुखदुःखाद्यनुभव एकैकस्य
स्यादेवेत्यलं ।
*
योगिनो नानादेहगतभोगानुसन्धानस्यासिद्धिशङ्का तन्निरासश्च
(टी.) स्यादेतत् । परबुद्धेरप्रत्यक्षत्वात् योगिनो नानादेहगतभोगानुसन्धानं कुतः सिद्धम् ?
इत्यत आह
भोगानुसम्घानव्यवस्थाया उक्तत्वाच, इति पाठेन भाव्यमिति भाति.</p>
<pb n="38" />
<p>योगिनोनानादेहगतभोगानुसन्धानस्यासिद्धिशङ्का
तत्परिहारश्च
न चेद्रोगानुसन्धानं तदिच्छा योगिनः कुतः ।
(टी.) इच्छापूर्व खलु योगिनोऽनेकशरीरोपादानं पुराणेषु पठ्यते । तत्र यदि योगिनो ऽनेकशरीर-
गतसुखाद्यनुसन्धानं न स्यात् तदा तस्य तदिच्छैत्र न स्यात् । शरीरोपादानस्य प्रयोजनान्तराभावात् ।
अप्रयोजनस्य प्रेक्षावता निवर्तिष्यमाणत्वात् । अतो ज्ञायते अस्त्यनुसन्धानमिति ।</p>
<p>योगिनो नानाशरीरग्रहणे अनुसन्धानातिरिक्त प्रयोजनाभावस्य असिद्धिशङ्का तत्परिहारश्च
न च योगिनोऽविवेकिनः । येनानुसन्धानासाधनमपि देहबाहुल्यं तदर्थमिच्छन्तीति कल्प-
यामः ।
(म. टि.) आक्षिपति ॥ स्यादेतदिति ॥ परिहरति । अत आहेति ॥ योगिनः प्रवृत्तिः किमिच्छा-
पूर्विका ? उत न ? आय: मूलप्रन्थेन दूषितः । द्वितीयं दूषयति ॥ इच्छापूर्वकं खल्विति ॥ इच्छापूर्वक-
मिति पक्षे किं समयोजनं ? किं वा निष्प्रयोजनं ? आद्यं दूषयति ॥ तत्रेति ॥ तथा सतीत्यर्थः । ननु ' सप्रयो-
जनत्वेऽपि प्रयोजनमात्रमपेक्षते न तु सुखाद्यनुसन्धानमिति नियमः' इति तत्राह ॥ शरीरेति ॥ द्वितीय दूषयति
॥ अप्रयोजनस्य चेति ॥
ननु ' प्रयोजनान्तराभावात् ' इत्यसिद्धो हेतुः देहबहुत्वस्य वैभवार्थत्वा दित्यत आह ॥ न चेति ॥ तदर्थ-
मिति ॥ तच्छब्देन योगिन इत्यत्र विशेषणत्वेन प्रकृतो योगः तपोजन्यापूर्वरूपो विवक्ष्यते । तस्यार्थः प्रयोजनं ।
देहबहुत्वविशेषणं चैतत् । वैभवार्थमिति शेषः । यद्वा बुद्धिस्थत्वात् तच्छब्देन वैभवं परामृश्यते । वैभवाये-
त्यर्थः । अतिप्रयाससाध्ययोगजन्यापूर्वस्य प्रेक्षावतां क्षुद्रफले व्ययीकरणानुपपत्तेरिति भावः ।
प्रकारान्तरेण प्रयोजनान्तराभावस्यासिद्धिशङ्का तत्परिहारच
(टी.) अथोच्येत, न योगिनः अनेकशरीरोपादित्सया अनेकशरीरगतसुखाद्यनुसन्धान मेकस्य
कल्पयितुं शक्यते देहबाहुल्यार्थमेवेच्छोपपत्तेः । न च तस्य वैयर्थ्यादप्रयोजकत्वं । कर्मक्षयाय भोगार्थ-
त्वात् । भोगच विनाप्यनुसन्धानेन तत्र तत्र तद्गतांशैः शक्यते कर्तुमिति । तत्राह
अनुसन्धानरहितदेहबाहुल्यमन्यथा ॥ ८ ॥
सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ।
न योगिनः अनुसन्धानेन विना केवल देहबाहुल्यार्थमेवेच्छेति कल्पयितुं शक्यते । तथा सति
अनुसन्धानरहित देहबाहुल्यस्य योगित्वेन विनापि विद्यमानत्वाद्योगिनोऽनेकशरीराधिष्ठातृत्वमिति
न च तस्य वैयथ्य दिप्रयोजनत्वं इति पाठेन भाव्यमिति भाति । 'ततः कथं तस्य प्रयोजनत्वं ?" इति मन्दारमञ्जरीसंवा-
दोsस्मिन्नेव पाठे घटते.</p>
<pb n="39" />
<p>उपाधिखण्डने
(टी.) विशेषो न स्यात् । अस्ति चासौ । तेन ज्ञायते 'न शरीरबाहुल्यमा त्रायेच्छा योगिनः किं तु ?
तद्गतभोगाद्यनुसन्धानार्था' इति । कथमयोगिनोऽपि शरीरबाहुल्यं सिद्धम् ? इत्यत उक्तं ॥ तत्पक्ष</p>
<lg>
  <l>इति ॥ सर्वशरीरगतचेतनानां स्वभावतोऽभेदस्य परेणाङ्गीकृतत्वादिति ।</l>
  <l>॥</l>
</lg>
<p>(मं. टि.) ' प्रयोजनान्तराभावात् ' इत्यस्य असिद्धिमाशङ्कते ॥ अथेति ॥ कल्पनं चासङ्घटितमित्याह
॥ एकस्येति ॥ जीवस्याणुत्वेन नानाशरीरगतसुखाद्यनुसन्धातृत्वानुपपत्तेरिति भावः । देहबाहुल्यं च न खरूपेण
पुरुषार्थः । ततः कथं तस्य प्रयोजनत्वम् ? इत्यत आह ॥ न चेति ॥ स्वरूपेणापुरुषार्थत्वेऽपि पुरुषार्थान्तरसाधन-
त्वमस्तीत्याह ॥ भोगार्थत्वादिति ॥ ननु भोगो नाम किं सुखादिकमेव ? किं वा तदनुसन्धानं? नाद्यः अननु-
संहितस्यापि सुखस्य पुरुषार्थत्वे परसुखस्यापि पुरुषार्थत्वप्रसङ्गात् । द्वितीये सिद्धं नः समीहितमित्यत आह
॥ कर्मक्षयायेति ॥ अननुसंहितस्यापि सुखस्य संसारनिदानकर्मनाशकत्वेन पुरुषार्थत्वमिति भावः । ननु तथापि
सुखादेर्ज्ञातै कसत्वादुत्पन्नं सुखं ज्ञाये तैवेति तत्राह ॥ भोगश्चेति ॥ अनुसन्धातुरंशिनः सर्वदेहव्यापित्वाभावात्
अनुसन्धात्रभावबाधितत्वेन ' यत् सुखं तत् ज्ञातैकसत्' इति व्याप्तिर्नाङ्गीक्रियत इति भावः । तर्हि भोगश्च न
स्वात् सानुसन्धातृकस्यैव शरीरस्य भोगायतनत्वादित्यत आह ॥ तत्र तत्र तद्गतांशैरिति ॥ अनुसन्धाने
अंश्यपेक्षा सुखदुःखोत्पत्तिलक्षणभोगस्तु अंशसन्निधानमात्रेण भवतीति भावः । अंशैरिति करणे तृतीया । करणत्वं
च शरीरस्य भोगायतनताया उपपादकत्वादौपचारिक +
यत् सुखं तत् अनुसन्धीयत एव' इति व्याप्तिसमर्थनम
नानाशरीरे ध्वंशानामनङ्गीकारे निर्जीवशरीर इव भोगोऽपि न स्यात् । अंशानामङ्गीकारे अंश्यप्यङ्गी-
कर्तव्यः । न चाणुत्वविरोध: अणोरपि शक्त्या पादादिव्यापित्ववत् नाना देहव्यापित्वस्याप्युपपत्तेः । तेन
विना अंशानामवस्थानायोगात् । तयोरेकत्वात् । योगे वा पादादाविव अंशद्वारा अंशी चानुसन्दधीत । तथा
च ' यत्सुखमुत्पन्नमविनष्टं च तदनुसन्धीयत एव' इति व्याप्तेर्बाधकाभावात् अन्यकर्मफलस्य चान्येनानुसन्धातुम-
शक्यत्वात् तस्यैवानुसन्धानं सुस्थं ।
सुखादिरूपभोगस्यानुसन्धानानङ्गीकारे योग्ययोगिनोर विशेषापादनसमर्थनम्
अपि चानुसन्धानाभावेऽपि कर्मक्षयार्थत्वेन भोगः सार्थकोऽस्तु । अनुसन्धान राहित्याविशेषात् 'योगि-
नोऽयोगिनो विशेषो न स्यात्' इत्यभिप्रायेण सिद्धान्तयति ॥ तत्राहेति ॥ मूलग्रन्थे अन्यथा इत्यत्र अपि-
शब्दाध्याहारेणाह ॥ योगित्वेन विनापीति ॥ ननु ' विशेषो न स्यात्' इत्यत्र विशेषशब्देन अनेकदेह जन्य-
दुःखानुसन्धानाननुसन्धानरूपो विशेषो विवक्षितः ? किं वा एकशरीरयोगित्वानेकशरीरयो गित्वलक्षण: ? अथवा
स्वभोगसाधनानेकशरीरभावाभावलक्षणः? नाद्यः योगिनोऽप्यनुसन्धानाभावेनेष्टापत्तेः । नापि द्वितीयः ऐकात्म्यवादि-</p>
<pb n="40" />
<p>सुखादिरूपभोगस्यानुसन्धानानङ्गीकारे योग्ययोगिनोर विशेषापादनसमर्थनम्
(मं. टि) नामयोगिनोऽप्यनेकशरीरसद्भावेनेष्टापत्तेः । तृतीयस्तु स्यादेव अयोगिनोऽनेकशरीरत्वेऽपि तेषां स्वभोग-
साघनत्वाभावात् इत्या क्षिपति ॥ कथमयोगिन इति ॥ भोगस्य स्वीयत्वं यदि नाम खानुसन्धेयत्वं तदा न
योगिनोऽपि तत् । स्वशरीरजन्यत्वं चेत् अयोगिनोप्यस्तीत्यभिप्रायेण परिहरतीत्याह ॥ अत उक्तमिति ॥
आत्मैक्यवादिभिर्योग्ययोगिनोर्विशेषसमर्थनम्
(टी.) अथ मन्येत, एकस्यैव योगिनोऽनेकशरीरगतसुखानुसन्धानाभावेऽपि 'योगिन एवानेक
शरीरत्वम् इति विशेषो युज्यते । तेषां शरीराणां तत्कर्मफलभोगार्थत्वात् । भोगस्य च अनुसन्धानेन
विनाप्युपपत्तेः । न चैवं सकलदेहगतचेतनानां स्वभावतोऽभेदेऽपि " देहबाहुल्यस्य अस्ति देवदत्तकर्मफल-
भोगार्थतेति ।
तन्मतनिराकरणम्
तदेतदसत्, सर्वदेहगतात्मनां देवदत्ताभेदेन सर्वकर्मणामपि देवदत्तसम्बन्धित्वापच्या सर्व-
देहानां देवदत्त कर्मफलभोगार्थताऽभावानुपपत्तेः । अभेदेऽपि देवदत्तोपाधिकृतमेव कर्म देवदत्त -
सम्बन्धि नान्यदिति नियम इति चेन्न । अभेदादेव सर्वोपाधीनामपि देवदत्तोपाधित्वापातात् । देव-
दत्तकर्मनिर्मित एव देवदत्तोपाधिर्नेतरोऽभेदेपीति चेत् तत्राह
सिद्धौ हि कर्मभेदस्य स्यादुपाधि विभिन्नता ॥ ९ ॥
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ।
इदं देवदत्तस्यैव इदं यज्ञदत्तस्यैव इति कर्मभेदसिद्धौ तत्तत्कृतत्वेन अयं देवदत्तोपाधिः अयं यज्ञ-
दत्तोपाधिः इति उपाधि विभिन्नता स्यात् स्वरूपाभेदेन निमित्तान्तराभावात् । उपाधिभेदसिद्धावेव
कर्मभेदसिद्धिः उक्तादेव हेतोः । ततश्च अन्योन्याश्रयात् नैकमपि सिद्ध्यति । कर्मोपाधिव्यक्तिभेदा-
नान्योन्याश्रय इति चेत् । तथाप्यनवस्था स्यात् । अनादित्वान्नेति चेन्न । असिद्ध विषयत्वेन मूल-
क्षतेः । कर्माण्युपाधयश्च विभिन्ना एव दृश्यन्त इति चेत् सत्यं, तद्भेदस्य स्वाभाविकात्मभेदेनैवोपपत्तेः ।
तदेवं योगिनोऽनुसन्धानाभावे विशेषाभावप्रसङ्गादनुसन्धानमङ्गीकार्य, अभेदो वा त्याज्यः । अनु-
सन्धाने च सति उपाधि विश्लेषोऽकिञ्चित्कर इति ' स्वरूपैक्याङ्गीकारे सुखदुःखादिभोगो भेदेन न
दृश्येत' इत्युक्तं युक्तं ।
1 मं. टि. योगिन एवानेकशरीरसद्भाव इति-
2 मं. टि. शरीरबाहुल्यस्य.</p>
<pb n="41" />
<p>उपाधिखण्डने
V
॥
॥ स्वभोगसाधनानेकशरीरसद्भाव इत्यथ: ।
(मं. टि ) शङ्कते ॥ अथेति ॥ अनेकशरीरसद्भाव इति
॥ भोगार्थत्वादिति ॥ भोगप्रयोजनकत्वादित्यर्थः । भोगस्य स्वीयत्वं दुर्निरूपमित्युक्तमित्याशङ्कय तन्निरूपयितुं
भोग विशिनष्टि ॥ तत्कर्मफलेति ॥ स्वकर्मक्षयकारित्वं स्वीयत्वमित्यर्थः । कर्मक्षयाय भोगार्थत्वात् इत्यत्र
भोगस्य अपुरुषार्थत्वशङ्कानिरासाय कर्मक्षयः फलत्वेनाभिहितः । इदानीं त्वविशेषशङ्कानिरासार्थमभिधीयत इति
न पौनरुक्त ॥ भोगस्य चेति ॥ ' सुखत्वादिकं ज्ञातैकसम्मात्रनिष्ठं न भवति धर्मत्वात् घटत्वादिवत्' इत्यनु-
मानेनोत्पन्नस्यापि सुखस्याननुसन्धानोपपत्तेरिति भावः । अयं च विशेष: अयोगिनो नास्तीत्याह ॥ न चैव
मिति ॥ एवं योगिवत् शरीरबाहुल्यस्य यज्ञदत्तादिशरीराणां देवदत्त कर्मफलभोगार्थता नेति सम्बन्धः ।</p>
<p>यदुक्तमनुमानं तत्र ज्ञातैकसन्मात्रनिष्ठत्वं प्रसिद्धं न वा ? न चेत् तदभावोऽप्यप्रसिद्ध इत्यप्रसिद्ध विशे-
षणत्वं । प्रसिद्धं चेत् यत्र प्रसिद्धं तन्निष्ठधर्म एव व्यभिचारः । अस्मद्रीत्या आत्मत्वादौ व्यभिचारश्च ।
आत्मनः स्वकर्मकसंविद्रूपत्वात् । सुखादेर्शातैकसत्वानङ्गीकारे संशयादिगोचरत्वापत्तिरिति तर्कबाघश्च । सुखा-
दिज्ञानरूपस्य साक्षिणो नित्यत्वेन तज्ज्ञानस्यावश्यकत्वाच्चेत्यादयो दोषा ऊह्याः । तस्माद्भोगानुसन्धानं दुष्परिहरं ।
अपि च अस्त्वनुसन्धानं विनापि भोगः तथापि न विशेष: सूपपाद इत्याह ॥ तदेतदिति ॥ कारिकायां
भेदभिन्नताशब्दौ भिन्नस्वामिकत्वा पर पर्याय नियमवाचकौ । कर्मोपाधिस्वरूपभेदपरत्वे प्रकृतानुपयोगादित्याह
॥ इदं देवदत्तस्येति ॥ कोटियाङ्गीकारे खलु अन्योन्याश्रयः । प्रकृते च अनेक कोटिसद्भावान्नान्योन्याश्रय इति
शङ्कते ॥ कर्मेति ॥ एवं तीनवस्थाऽस्त्विति परिहरति । तथापीति ॥ प्रवाहस्यानादित्वात् बीजाङ्कुरादाविव
नानवस्था दोषायेति शङ्कते ॥ अनादित्वादिति ॥ दृष्टः कर्मोपाधिनियमोऽनन्यथा सिद्धश्चेत्खलु नियम्यनियामक
भावापन्नां कर्मोपाधिपरम्परां कल्पयेत् । स एव न दृश्यत इति गूढाभिसन्धिः परिहरति ॥ नासिद्धेति ॥
अभिप्रायमजानानः पर आह ॥ कर्माणीति ॥ विभिन्ना इति ॥ कर्माणीत्यनेन विभिन्नानीति लिङ्गव्यत्ययेन
सम्बन्धः । नियमस्य दृष्टत्वमात्रमङ्गीकरोति ॥ सत्यमिति ॥ कल्पकत्वं तु नाङ्गीक्रियते अन्यथा सिद्धत्वादिति
गूढाभिसन्धि विवृणोति ॥ तद्भेदस्येति ॥ अयंभावः, 'यद्धि यस्य कारणं न तत्तस्य कार्य ' इति यथा नियमः
तथा यो धर्मो यन्निरूप्यकारणतावच्छेदकः नासौ तन्निरूप्यकार्यतावच्छेदक: यथा तन्तुत्वं' इत्यपि नियमः ।
तत्र पटनिरूप्यकारणतावच्छेदकस्य तन्तुत्वस्य न पटप्रतियोगिक कार्यतावच्छेदकत्वं । न हि कश्चिदपि तन्तुः
पटजन्य: । येन तन्तुत्वं पटाख्यकारणनिरूप्यकार्यतावच्छेदकं स्यात् । प्रकृते च उपाधिनियम निरूप्यकारण-
तावच्छेदकस्य कर्म नियमत्वस्य तन्निरूप्यकार्यतावच्छेदकत्वमस्त्येव । कस्यचित्कर्म नियमस्योपाधिनियमकारण-
त्वेऽपि कस्यचित् कर्मनियमस्योपाधिनियमकार्यत्वात् । बीजाकुरादौ गत्यन्तराभावात्तथा अङ्गीकियने । न चैवं
प्रकृते । अन्यथाप्युपपन्नत्वादिति । उपसंहरति ॥ तदेवमिति ॥ योगिनोऽनुसन्धानलक्षणविशेषमनङ्गीकृत्य
अनेक शरीरित्वलक्षण विशेषाङ्गीकारे अयोगिनस्तदभावसिद्धयर्थं आत्माभेदस्त्याज्य इत्याह ॥ अभेदो वेति ॥
1 तत्र धर्म एव, इति पाठेन भाव्यमिति.
1
ww</p>
<pb n="42" />
<p>अद्वैतवादिभिः कृतस्य योग्ययोगिविशेषसमर्थनस्य दुष्टत्वोपपादनम्</p>
<p>(मं. टि. ) योगिनो विशेषसिध्यर्थ चात्मा भेदत्यागे घट्टकुट्यां प्रभातवृत्तान्तायितं स्यादिति भावः । अथ तत्परिहाराय
योगिवढ्योगिनोऽप्यने कशरीरित्वमङ्गीक्रिवते तथा योगिनोऽनुसन्धानलक्षणविशेषोऽस्तीत्यभिमानः तदा उपाधि-
संश्लेषविश्लेषौ नानुसन्धानाननुसन्धान नियामकौ योगिषु संश्लेषव्यतिरे केऽप्यनुसन्धानदर्शनेन व्यतिरे कव्यभिचारात्
विश्लेषसद्भावेऽप्यनुसन्धानदर्शनेन जन्वयव्यभिचाराच्चेत्याह ॥ अनुसन्धाने चेति ॥
अद्वैतवादद्वयसाधारणदोषकथनम्
(टी.) एवमसत्योपाधिनिमित्ताध्यस्तभेदमङ्गीकुर्वतां सत्योपाधिकृतसत्यभेदमभ्युपगच्छतां चाद्वै-
तवादिनां पक्षं पृथनिराकृत्य साधारणदोषेणापि दूषयति
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ॥ १० ॥
प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ।
' जीवात्मपरमात्मनोः जीवानां च यो भेदः स स्वभावत एव, न मिथ्यासत्योपाधिनिमित्तः'
इति पक्षस्य । विदोषत्वेनेत्युपलक्षणं । प्रामाणिकत्वेनेत्यपि ज्ञातव्यं । अयमखिलः पक्ष इत्युक्तोभय-
विधाद्वैत सिद्धान्तः प्रत्यक्षादिविरोधाचेत्युषलक्षणं प्रमाणाभावाचे त्यपि द्रष्टव्यं । परपक्षप्रतिक्षेपेण
स्वपक्षसाधनेन च सिद्धान्तस्य प्रतिष्ठा तदभावे दुष्टता । परपक्षप्रतिक्षेपो द्विविध: बाघकसाधकभावा-
भावव्युत्पादनभेदात् । स्वपक्षसाधनमपि साधकबाधकभावाभावव्युत्पादनभेदेन द्विविधं । तत्रैकैक-
स्याप्यभावो दुष्टत्वहेतुः किमु सर्वस्येति । तदिदमुक्तं अञ्जसा इति । तत्र आत्मस्वभावभेदबाधकस्य
तद्भेदसाधकस्य चाभावोऽन्यत्र व्युत्पादितः ।
(मं. टि.) मूलग्रन्थे दुष्ट: पक्षोऽयम् इत्यत्र महाप्रकृतस्य पक्षद्वयस्य दुष्टत्वं विवक्ष्यते । तथा चाखिल-
पदप्रयोगो युक्त इत्यभिप्रेत्य वृत्तानुवादपूर्वकं वर्तिष्यमाणमवतारयति ॥ एवमिति ॥ आत्मेत्यत्र भेदं प्रति
आत्मनो न धर्मित्वमात्र नापि प्रतियोगित्वमात्रं । परेणापि आत्मनो जडात्, जडस्य चात्मनो भेदाङ्गीकारात् ।
।
कि तर्हि ? उभयमित्याह ॥ जीवेति ॥ स्वभावभेदस्य इत्यत्र पञ्चमीतत्पुरुषो विवक्षित इत्याह ॥ स्वभावत
इति ॥ स्वभावत इत्यस्यार्थमाह ॥ न मिथ्योपाधिनिमित्त इति ॥ भेदशब्देन तत्पक्षो लक्ष्यत इत्याह ॥ इति
पक्षस्येति ॥ चशब्दार्थमाह ॥ विदोषत्वेनेत्युपलक्षणमिति ॥ ज्ञातव्यमिति ॥ चशब्दसूचिततया ज्ञात-
व्यमित्यर्थः ।
1 ॥ न मिथ्यासत्योपाधिनिमित्तो वेति ॥ इति मुद्रितपुस्तकगतः पाठः साधुरिति भाति । स्वभावपदेन पक्षद्वय
स्याप्यपाकरणात् । अस्मिन्नपि पाठे वाशब्दः प्रामादिक इति भाति.</p>
<pb n="43" />
<p>उपाधिखण्डने
(मं. टि. ) नन्वेवं तर्छुपलक्षणं न स्यात्, चशब्देनोक्तत्वादिति चेन्न । चशब्दस्य निपातत्वात् निपातानां च
द्योतकत्वेन अभिधायकत्वाभावात् । द्योतितत्वेऽपि अनभिहितत्वमात्रेणोपलक्षणपदप्रयोगोपपत्तेः । निपातानां चाभि-
घायकत्वे ' समुच्चयो वर्तत इत्यभिप्रायेण 'चो वर्तते ' इति प्रयोग: स्यात् । ' चशब्दस्यार्थान्तरमाह ॥ प्रत्यक्षा-
दीति ॥ अत्राप्युपलक्षणपदप्रयोगः पूर्ववन्निर्वाह्यः । यद्वा चशब्दयोरुक्ता साधारणदूषण समुच्चयार्थत्वं परस्परसमुच्च-
यार्थत्वं वा आश्रित्य उभयत्राऽपि उपलक्षणपदप्रयोगो मुख्य एव द्रष्टव्यः ।
अञ्जसा इत्येतत्पद्कृत्यम्
अञ्जसा दुष्टः इत्युक्तं । तत्र अञ्जसा इत्यस्यार्थमाह ॥ परपक्षेत्यादिना ॥ साधकबाधकभावा-
भावव्युत्पादनभेदेनेति ॥</p>
<p>भावत्वस्य दुर्निरूपत्वपूर्वपक्ष:
ननु किमिदं भावत्वं नाम ? निष्प्रतियोगिकत्वं ? उत अभावादन्यत्वं यद्वा अभावत्वानधिकरणत्वं ?
अथ वा अभावविरोधित्वं ? उत ' अस्ति ' इति प्रत्ययविषयत्वं ? आहोखित् 'नास्ति' इति प्रत्ययाविषयत्वं ?
नाद्यः सादृश्यादावव्याप्तेः । तस्यापि प्रतियोगिनिरूप्यत्वात् । न द्वितीयः अभावस्यापि यत्किञ्चिदभावादन्य-
त्वेनातिव्याप्तेः । न तृतीयः अभावत्व एवातिव्याप्तेः । तस्य तदनधिकरणत्वात् । न चतुर्थः नित्यत्वाभाव-
स्याप्यनित्यत्वाभावविरोधित्वेनातिव्याप्तेः ।
6
न पञ्चमः अभावस्यापि 'घटाभावोऽस्ति' इति प्रतीतिविषयत्वेनातिव्याप्तेः । अथ मतं, प्रथमप्रतीतौ
' अस्ति' इति प्रतीयमानत्वं विवक्षितं । एवं च नातिव्याप्तिः । 'घटो नास्ति' इति ज्ञात्वैव 'घटाभावोऽस्ति '
इति ज्ञानादिति चेत् केयं 'अस्ति' इतिप्रतीति: ? किं 'अस्ति ' इति व्यवहारोत्पादिका ? किं वा
अस्तिपदार्थविषयिका ? किं वा अस्तित्वप्रकारिका ? नाद्यः अव्याप्तेः । घटोऽस्ति' इति ज्ञानस्यापि
' अस्ति' इति व्यवहारजनकत्वनियमाभावेन त्वदुक्तस्यास्तीतिप्रत्यय विषयत्वस्याभावात् । उत्पन्नस्यापि ज्ञानस्य
व्यवजिहीर्षाभावेन व्यवहाराजनकत्वात् । न द्वितीयः अभावे अतिव्याप्तेः । अभावस्य अस्तिपदार्थत्वाभावे कथं
पश्चात् 'घटाभावोऽस्ति ' इति प्रतीतिः ?
20
तृतीये किमिदमस्तित्वं ? सत्वं वा ? भावत्वं वा ? आद्ये अनुगतसत्तामनङ्गीकुर्वता त्वया स्वरूपसत्वमेव
वक्तव्यं तर्दिक स्वरूपमतीतावेव प्रतीयते ? उत न ? न चेत् कथं घटविषयिका प्रथमप्रतीतिरस्तित्वावलम्चिनी?
1 समुचितौ वर्तते इति मुद्रितपुस्तकस्थपाठ एव साधुरिति भाति.
पाठः प्रथमचकारस्य अर्थान्तराकथनेन द्वितीय चकारस्यैव अर्थकथनेन साधुरिति भाति.
2 चशब्दान्तरार्थमाह इति मुद्रितपुस्तकस्थ:</p>
<pb n="44" />
<p>भावस्वस्य दुर्निरूपत्वपूर्वपक्षः</p>
<p>(मं. टि.) प्रथमे अभावविषयिकाऽपि प्रथमा प्रतीतिः कथमस्तित्वालम्बिनी न स्यात् ? अभावेऽपि स्वरूपसत्तायाः
भाव इव प्रथममेव प्रत्येतव्यत्वात् । द्वितीये अन्योन्याश्रयः । तस्मान्न पञ्चमः ।
नापि षष्ठ: घटस्यापि 'घटाभावो नास्ति' इति प्रत्ययविषयत्वेन असम्भवात् । प्रथमप्रतीतौ 'नास्ति'
इत्यप्रतीयमानत्वं विवक्षितम् । न चैवमसम्भवः । भावस्य प्रथमं 'घटोऽस्ति ' इत्यस्तित्वप्रकारेणैव प्रतीतेः ।
नाप्यतिव्याप्तिः । अभावस्य प्रथममेव 'नास्ति' इत्येव नास्तित्वाकारेणैव प्रतीतेरिति चेन्न । त्वन्मते घटा-
देरपि प्रथममेव 'अन्यात्मना नास्ति' इति प्रतीते: । अन्यथा स्वेतरसर्वात्मना प्रतीतिप्रसङ्गात् । भेदस्य
स्वरूपत्वेन तथाप्रतीत्यवश्यम्भावाच्च । तस्माद्भावत्वं दुर्निरूपम् ।
अभावत्वस्य दुर्निरूपत्वपूर्वपक्षः
6
कि चेदमभावत्वं नाम ? सप्रतियोगिकत्वं वा ? भावादन्यत्वं वा ? भावत्वानधिकरणत्वं वा ? भावविरो-
धित्वं वा ? ' अस्ति' इति प्रत्ययाविषयत्वं वा ? 'नास्ति' इति प्रत्ययविषयत्वं वा ? नाद्यः सादृश्यादावति -
व्याप्तेः । न द्वितीय: भाव एवातिव्याप्तेः । मावस्यापि यत्किञ्चिद्भावादन्यत्वात् । न तृतीयः भावत्वानधिकरण-
त्वस्य अभावरूपत्वेनात्माश्रयत्वात् । न चतुर्थः शीतस्वशस्याप्युष्णस्पर्श विरोधित्वेनातिव्याप्तेः ।
ननु च स्वाभाविकभाव विरोधित्वं विवक्षितं । न चैवं शीतस्पर्श विरोधिन्युष्णस्पर्शे अतिव्याप्तिः । शीत-
स्पर्शस्योष्णस्पर्शाभावव्याप्तत्वेनैवोपाधिना उष्णस्पर्श विरोधित्वेन स्वाभाविक विरोधाभावात् । भावाभावयोस्तु खाभा-
विक एव विरोध: उपाधेरस्फुरणात् । न च भावज्ञानस्याभावज्ञानाधीनत्वेन अन्योन्याश्रयः शङ्कयः । पदार्थाश्रय-
त्वस्य भावत्वात् । न चाभावेऽतिव्याप्तिः । अभावे हि भवन् पदार्थो भावो वा अभावो वा । नाद्यः भावा-
श्रयत्वे भावत्वापतः । न द्वितीयः अभावे अभावाङ्गीकारे आत्माश्रयत्वादिति चेन्न ।
विरोधस्यानिरूपणात् । स किं सहानवस्थानलक्षण: ? किं वा वध्यघातकमावलक्षणः । नाद्यः तस्याभाव-
रूपत्वेनात्माश्रयत्वात् । द्वितीयेऽपि तदभावव्याप्तत्वं वा तदभावरूपत्वं वा । उभयथाऽप्यन्योन्याश्रयः । अथ
प्रागभावप्रध्वंसयोर्भावेन सह कालतो विरोध: । अत्यन्तभावस्य तु देशत इत्यादिप्रतिनियत एव विरोध इति
चेन्न । अनुगतंविरोधशब्दार्थस्याभावे लक्षणाननुगतेः ।
।
यच्चोक्तं ' पदार्थाश्रयत्वं भावत्वं' इति तत्र वक्तव्यं, अभावस्यापि किञ्चिल्लक्षणमस्ति ? न वा ? इति
न चेद्भावाद्वयावृत्तिर्न स्यात् । अस्ति चेत् कथं पदार्थाश्रयत्वाभावः ? लक्षणस्यैव पदार्थत्वात् । ननु लक्षणम-
भावाना तिमपि तटस्थं सत् इतरेभ्यो व्यावृत्ति अनुगतं व्यवहारं च करोतीति चेत् तथापि तटस्थलक्षणलक्ष्य-
त्वरूपधर्माश्रयत्वेन पदार्थाश्रयत्वावश्यम्भवात् । न चात्माश्रयः व्यक्ति भेदाद्भावे भावान्तरवदभावेऽपि अभावा-
न्तरस्यानुभवसिद्धत्वाच्च । तस्मान्न चतुर्थः ।
-</p>
<pb n="45" />
<p>उपाधिखण्डने
(मं. टि.) नापि पञ्चमः अभावस्यापि 'घटाभावोऽस्ति ' इति प्रत्ययविषयत्वेनासम्भवात् । प्रथमप्रतीति-
विवक्षायां तु पूर्ववदेव भनीभेदेन दूषणान्यूह्यानि । नापि षष्ठ: घटस्यापि 'घटभावो नास्ति' इतिप्रत्ययविषयत्वे-
नातिव्याप्तेः । प्रथमप्रतीतौ ' नास्ति' इतिप्रत्ययविषयत्वमिति चेन्न । दत्तोत्तरत्वात् ।</p>
<p>किञ्च प्रतीतौ प्रथमग्रहणं 'प्रथमं योऽस्ति' इत्येवं कालविशेषणं ? किं वा प्रथमा या प्रतीतिरिति
प्रतीतिविशेषणं ? नाद्यः बुद्धेर्विरम्यव्यापाराभावात् । द्वितीयेऽपि किम् इह जन्मनि या स्खविषयिका प्रथमा प्रतीतिः
सा विवक्षिता ? किं वा एकसामग्रीजन्यासु स्वविषयिकासु या स्वविषयिका प्रथमा प्रतीतिः सा ? अथ वा यदा
यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति आपातजं विमर्शजं चेति । तत्रापातजा या संवित् सा ? नाद्यः
गिरिदरीवर्तिनो गजाभावस्य ज्ञानात्पूर्वमेव जातायां ' यत् प्रमेयं तदस्ति' इत्यस्यां सामान्याकारेण प्रमेयमात्र-
विषयिकायां वन्यगजाभावस्य प्रथममस्तित्वेनैव प्रतीत्या लक्षणाव्याप्तेः । न द्वितीय: ? एकसामग्रया अनेकज्ञा-
नजनकत्वायोगात् । सामग्री भेदाभावे कार्यभेदस्य आकस्मिकत्वप्रसङ्गात् । न तृतीय: 'घटाभावो नास्ति
इति वाक्यात्प्रथममेव घटस्य नास्तित्वाकारेण प्रतीत्या लक्षणस्यातिव्याप्तेः ।
तस्माद्भावत्वाभावत्वयोर्दुर्निरूपत्वात् भावाभावव्युत्पादन भेदेन इत्युक्तं अयुक्तमिति वैतण्डिको मन्यते ।
भावत्वाभावत्वव्यवस्थाया उभयवादिभ्यामङ्गीकार्यत्वसमर्थनम्
अत्रोच्यते</p>
<lg>
  <l>भावाभावपदे तावत्प्रयुज्येते त्वयापि ते ।</l>
  <l>प्रवृत्तिहेतुसापेक्षे पदत्वात्संमतं यथा ॥</l>
</lg>
<p>भावाभावशब्दप्रयोग एव नाङ्गीकियते ? उत अङ्गीकृत्यापि प्रयोगे तत्प्रवृत्तिनिमित्तं नास्तीत्युच्यते ?
अथ प्रवृत्तिनिमित्तमङ्गीकृत्यापि प्रवृत्ति निमित्तस्यानिर्वचनीयत्वं मन्यसे ? नाद्यः त्वयापि तत्प्रयोगात् । न द्वितीयः
प्रवृत्तिनिमित्ताभावे पदप्रयोगानुपपत्तेः । न तृतीयः मिथ्यापदप्रवृत्तिनिमित्तदृष्टान्तेन अस्यापि निर्वचनार्हत्वसाध-
नात् । न च साध्यबैकल्यं शङ्कयम् । मिथ्यापदप्रवृत्तिनिमित्तस्य मिथ्यात्वस्य त्वयैव महाप्रयत्नेन निरुक्तत्वात् ।
तस्मात् सामान्येन भावत्वाभावत्वयोव्र्व्यवस्थितिर्वादिप्रतिवादिभ्यामङ्गीकर्तव्येति स्थिते विशेषजिज्ञासायामुच्यते ।
भावत्वनिरुक्तिः
अभावत्वावच्छिन्नाधारता निरूप्याघेयताश्रयान्यत्वप्रतियोगित्वं भावत्वं । अभावत्वावच्छिन्ना या आघा
रता, तया निरूप्या या आधेयता, तस्या आश्रयश्चासावन्यत्वं च तदपेक्षयैव प्रतियोगित्वमित्यर्थः । अन्यत्व</p>
<pb n="46" />
<p>मन्दारमञ्जर्यां भावत्वनिरुक्तिः</p>
<p>(मं. टि.) योगित्वमित्युक्ते अभावेऽतिव्याप्तिः । तत्परिहारार्थमभावत्वावच्छिन्नेत्यादिना अन्यत्वं विशेषितं । अभाव-
स्याप्यभावान्तरनिष्ठाधारत्वप्रतियोगि काधेयताश्रयान्यत्वप्रतियोगित्वेऽपि न सा आधारता अभावत्वेनावच्छिद्यते ।
अभावत्वस्य प्रतियोगिन्यपि सत्वात् । प्रतियोगिनिष्ठस्य चान्यत्वाधिकरणतावच्छेदकत्वायोगात् ।
अभावत्वनिरुक्तिः
अभावत्वं च
स्वप्रतियोगिकानुयोगिनिर्विशेषतादात्म्यवत्प्रतियोग्यनुयोगित्वं । स्वं प्रतियोगि यस्यासौ
स्वप्रतियोगिकः । स चासावनुयोगी च । अनुयोगी नाम प्रतियोगिप्रतिसम्बन्धी । तेन सह निर्विशेषतादा-
त्म्यमस्यास्तीति स्वप्रतियोगि कानुयो गिनिर्विशेषतादात्म्यवान् । स चासौ प्रतियोगी च । तं प्रत्यनुयोगी तस्य भावस्त.
त्वमिति विग्रहः । प्रतियोग्यनुयोगित्वमित्युक्ते सादृश्यादावतिव्याप्तिः । तस्य स्वप्रतियोगिनौ गोगवयौ प्रत्यनुयो-
गित्वात् । तत्परिहाराय स्खप्रतियोगिकानुयोगितादात्म्यवदित्युक्तं । एवं च नातव्याप्तिः । सादृश्यप्रतियोगिकेन
केनचिदपि गोगवययोः तादात्म्याभावेन सादृश्यप्रतियोगि कानुयोगितादात्म्यवत्प्रतियोगिनौ प्रत्यनुयोगित्वाभावात् ।
न चासम्भवः । घट।भावस्य स्वनतियोगिन घटाभावाभावरूपेणानुयोगिना तादात्म्यवन्तं घटाख्यं प्रतियोगिनं
मत्यनुयोगित्वात् । अभावाभावस्य भावत्वात् । नञ्द्रयेन प्रकृताभिधानात् । तावत्युक्तेऽप्यतिव्याप्तिः । "सादृश्य-
प्रतियोगिकेन भेदेन गोगवययोस्तादात्म्यवत्वात् । तदर्थं निर्विशेषेत्युक्तं । एवं च नातिव्याप्तिः भेदस्य स्वधर्मिणा
सविशेष भेदाङ्गीकारात् । घटादेर्घटादित्वेन भावत्वेऽप्यभावनिषेधात्मनाइमाबत्वाच ।
अभावाभावस्य भावरूपत्वानङ्गीकारे अनवस्थादोषः
ये पुनरभावाभावो न भावः किं तर्हि ? अभावव्यवहारादभाव एवेत्याहुः । तेषामभावपरम्परया अन-
वस्था दुर्वारा । तस्माद्युक्तं भावाभावव्युत्पादन भेदेन इति । प्रपञ्चस्य प्रयोजनमाह ॥ तत्रैकैकस्येति ॥ तत्र चतुर्णा
मध्य इत्यर्थः ।
जीवभेदस्य प्रत्यक्षत्वसमर्थनम्
(टी.) भेदसाधकाभेदबाधकव्युत्पादनायोत्तरं वाक्यं । तत्रेदमाह, यदुक्तं ' प्रत्यक्षादिसिद्धो
जीवेश्वरयोजवानां च भेदः, तत एव तदभेदः प्रत्यक्षादिविरुद्धः इति तदयुक्तं, सर्वस्य हि स्वात्मैव
प्रत्यक्षो न तु जीवान्तरमीश्वरो वा । न च प्रत्यक्षॉप्रत्यक्षधर्मः प्रत्यक्षो वायुवनस्पतिसंयोगवत् ।</p>
<lg>
  <l>तत्कथं भेदः प्रत्यक्षः? इत्याशङ्कपरिहरञ्जीवभेदस्य प्रत्यक्षतां तावत्समर्थयते ।</l>
  <l>चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ॥ ११ ॥</l>
</lg>
<p>अन्यत्त्वं स्वात्मनस्तस्मात्सर्वैरेवानुभूयते ।</p>
<pb n="47" />
<p>उपाधिखण्डने
(टी.)' भेदो हि नैक एव अनेकधर्मः' इत्युपपादितमन्यत्र । किन्तु ? एकस्मिन् धर्मिणि परप्रति-
योगिक एव । तस्य च प्रत्यक्षता धर्मिणः प्रत्यक्षतां प्रतियोगिनश्च स्मरणमपेक्षते । तत्र धर्मी स्वात्म
तावत् प्रत्यक्षसिद्धः । प्रतियोगिस्मृतिहेतुश्चानुभवोऽनुमानाद्भवति । तथा हि, परशरीरं तावत्प्रत्य
क्षसिद्धं । तस्य चेष्टादिलिङ्गेन स्वशरीरवत् सात्मत्वमनुमातुं शक्यते । चेष्टा नाम हिताहितप्राप्तिपरिहारे-
च्छापूर्वको व्यापारः । न परिस्पन्दमात्रं येन व्यभिचार: स्यात् । न चैवं सन्दिग्धासिद्धता । हिताहित-
प्राप्तिपरिहारानुगुणतायाः स्वात्मदृष्टान्तेनैवावगमात् । अतः तस्मात् परशरीराधिष्ठातुः स्वात्मनोऽन्य-
त्वं प्रत्यक्ष भवितुमर्हति । न चैवं सम्भवनामात्रं । सर्वैः अपि तु अनुभूयत एव । न हि चेष्टा-
विशेषानुमितप्रयत्नविशेषत्रतः परात्मनः स्मृतौ सत्यां तथाविधप्रयत्नविरहिणं स्वात्मानं प्रत्यक्षत एवानु.
भवस्तस्मात्खात्मनोऽन्यत्वं नानुभवति इति युज्यते ।
(मं. टि.) सिद्धान्तिनैवमुक्ते अन्यस्तत्परिजिहीर्षतीत्याह ॥ तत्रेदमाहेति ॥ बुद्धिपरिकल्पितप्रतिवाद्यभिप्रायेण
प्रथमपुरुषप्रयोगः । अनूदितं दूषयति परः ॥ तदयुक्तमिति ॥ स्वात्मैवेत्येवकारस्य व्यावर्त्यमाह ॥ न त्विति ॥ भेद-
स्तावदुभयधर्मः । उभयप्रतीतिसापेक्षत्वात् । तत्र किं सामान्यादिवत् प्रत्येकं परिसमाप्तः ? किंवा संयोगादिवत्
व्यासज्यवृत्तिः ? नाद्यः एकव्यक्त्युपलम्भेऽपि गोत्वोपलम्भवत् घर्मिप्रतियोग्यन्यतरप्रतीत्यैव मेदप्रतीतिप्रसङ्गात् ।
द्वितीयं दूषयति ॥ न चेति ।
ननु चेष्टालिङ्गेन इति मूलग्रन्थे आनुमानिकत्वं प्रतियोगिनोऽभिहितं । किम नेनोक्तं भवति ? किं भेदस्य
प्रामाणिकत्वमात्रं ? किं वा प्रत्यक्षसिद्धत्वं ? नाद्यः उपक्रमाननुकूलत्वात् । न द्वितीयः प्रत्यक्षानुपपत्तेरुक्तत्वा-
दित्याशङ्कयाह ॥ भेदो हीति ॥ 'एक एवानेकधर्मो न' इत्युपपादितमिति सम्बन्धः ॥ प्रतियोगिनश्च स्मर-
णमपेक्षत इति ॥ प्रतियोगिस्मरणमात्रेण सादृश्याभावादीनां सप्रतियोगिकानां प्रत्यक्षतादर्शनात् 'स्तम्भः पिशाचो
न भवति ' इति अप्रत्यक्षप्रतियोगिक भेदस्य प्रत्यक्षतादर्शनाच्चेति भावः ।
सम्भावितस्मृतिलक्षणानामतिव्याप्तिदोषः
ननु किमिदं स्मरणत्वं नाम ? किं ज्ञानजन्यज्ञानत्वं? अनित्यज्ञानजन्यज्ञानत्वं वा ? अनित्यविशिष्टज्ञान-
जन्यज्ञानत्वं वा स्वसमानविषयका नित्यविशिष्टज्ञानजन्यज्ञानत्वं वा ? स्वसमानाधिकरणस्वसमान विषयक विशिष्ट-
ज्ञानजन्यज्ञानत्वं वा ? नाद्यः अनुभवस्यापि नित्येश्वरज्ञानजन्यत्वेनातिव्याप्तेः । न द्वितीयः विशिष्टानुभवस्यापि विशे-
षणविषयक निर्विकल्पकज्ञानुजन्यन्वेनातिव्याप्तेः । न तृतीयः लिनयनुभवस्यापि लिङ्गविषयक विशिष्टज्ञानजन्यत्वेन
अतिव्याप्तेः । न चतुर्थः श्रोतृगतसमान विषयकवक्तृगत विशिष्टज्ञानजन्ये श्रोतृगते शब्दानुभवेऽतिव्याप्तेः । न पञ्चमः
देवदत्तसमवेतपूर्वानुभवजन्ये पूर्वानुभूत विषयके देवदत्तसमवेतप्रत्यभिज्ञानेऽतिव्यांप्तेः ।</p>
<pb n="48" />
<p>मन्दारमञ्जय
एकदेशिमतानुसारेण स्मरणलक्षणम्
(मं. टि.) नैष दोषः । यावत्स्व विषयविषयक विशिष्टानुभवजन्यज्ञानत्वस्य स्मृतित्वात् । न चैवं प्रत्यभिज्ञा-
नानुभवेऽतिव्याप्तिः । प्रत्यभिज्ञायाः पूर्वाननुभूततत्ता विषयिकाया यावत्स्वविषयविषयक विशिष्टानुभवजन्यत्वाभावादिति
के चित्परिहरन्ति ।
सम्भावितस्मृतिलक्षणानामतिव्याप्तिदोषः
वयं तु ब्रूमः ।
एकदेश्यभिमतस्मृतिलक्षणे असम्भवदोषः
' तत्रै सन्धित्सोरपरं च्यवते' इतिन्यायेनातिव्याप्तिं समादधतोऽसम्भवस्योत्थानात् । स्मृतेरप्यननुभूत-
तत्ताविषयकत्वात् । ननु च तत्ता नाम तद्देशकालसम्बन्ध: । सोऽपि पूर्वमनुभूत एवेति चेन्न । तथात्वे तदा-
नीमेव 'तत् ' इति प्रतीतिप्रसङ्गात् । ननु विषयभेदाभावेऽपि संस्कारजन्यत्वाजन्यत्वाभ्यां तत्तोल्लेखानुल्लेखा विति
चेन्न । प्रतीतिवैलक्षण्यस्य विषयवैलक्षण्याधीनत्वात् । कारणभेदमात्रेण प्रतीतिवैलक्षण्याङ्गीकारे प्रत्यक्षज्ञाने 'वह्निः'
इति प्रतीयेत । अनुमितौ तु ' व्याघ्रः' इति प्रतीयेत । सामग्रीभेदस्य तत्र सत्वात् । तस्मात् एकदेशिनां परि-
हारो न युक्तः ।
स्वमतेन स्मृतिलक्षणम्</p>
<lg>
  <l>संस्कारमात्ररूपा या मनसो व्यापृतिस्तमा ।</l>
  <l>मन्यन्ते स्मरणं जन्यं ज्ञानं मध्वमतानुगाः ॥</l>
</lg>
<p>संस्कारमात्ररूपावान्तरव्यापारजन्यज्ञानत्वं स्मृतित्वं । अवान्तरव्यापारजन्यज्ञानत्वमित्युक्ते अनुभवे अति-
व्याप्तिः । अनुभवस्यापि इन्द्रियार्थसं निकर्षलक्षणावान्तरख्यापारजन्यत्वात् । तत्परिहारार्थं व्यापार संस्कारात्मक-
त्वेन विशेषयितुं संस्कारग्रहणं । ताबत्युक्ते प्रत्यभिज्ञानेऽतिव्याप्तिः । तस्यापि तत्तांशे संस्काराख्यप्रत्यासत्ति-
जन्यत्वात् । तत्परिहाराय अवधारणार्थकमात्रग्रहणं । एवं च नातिव्याप्तिः । प्रत्यभिज्ञाया इदमंशे इन्द्रियसम्प्रयोग-
लक्षणव्यापारेणापि जन्यत्वात् ।
तत्ताया अनुभवविषयत्वसमर्थनम्
ननु तत्ताया अननुभूतत्वात् तत्र संस्कारस्य अवान्तरव्यापारत्वाभावात् मात्रग्रहणं व्यर्थं । न व्यर्थं । तत्ताया
अपि कथञ्चिदनुभूतत्वात् । अतीतो देशकालसम्बन्धो हि तत्ता । 'तत्र तदा तत् आसीत् ' इति स्मरणोत्पत्तेः ।
तत्र ' आसीत् ' इति भूतार्थवाचिलङ । दिप्रत्ययप्रयोगात् तद्देशकालसम्बन्धस्यातीतत्वप्रतीतेः । भूतत्वमतीतत्वं प्रध्वं-
सप्रतियोगित्वमिति च पर्यायः । तथा चोक्तं तत्वोद्योतटीकायां टीकाकारैः 'न हि स इत्यस्य तद्देशकालसम्ब-</p>
<pb n="49" />
<p>उपाधिखण्डने
(मं. टि.) न्घमात्रमर्थ: । किं नाम ? तस्यातीतत्वमपि ' इति । तच्च स्मरणे प्रतीयमानं तद्देश कालसम्बन्धस्यातीतत्वं
यद्यपि न पूर्वमनुभूतं, पूर्वं तद्देशकाल सम्बन्धस्य वर्तमानत्वेनातीतत्वाभावात् तदानीमेव तच्छब्द प्रयोगप्रसङ्गाच्च तथापि
तद्देशकालसम्बन्धस्वरूपमात्रस्य अनुभूतत्वात् प्रत्यभिज्ञायास्तस्मिन्नंशे संस्कार : संनिकर्षो भवत्येवेत्ति न व्यर्थं मात्र-
ग्रहणं ।
अननुभूतस्य तत्तातीतत्वस्य । स्मृतिविषयत्वसमर्थनम्
ननु तीननुभूतस्यापि तद्देशकाल सम्बन्धातीतत्वस्य स्मरणाङ्गीकारेऽतिप्रसङ्गः स्यात् । न स्यात् । पूर्व-
मनुभूतस्य तद्देशकालसम्बन्धस्य यत् अतीतत्वं तस्यैवाननुभूतस्यापि स्मरणं । अन्यस्य सर्वस्यानुभूतस्यैव स्मरण.
मिति नियमात् । अननुभूतस्याप्यतीतत्वस्य स्मरणदर्शनात् । न ह्यतिप्रसङ्गभिया दर्शनापलापो युक्तः । किं तर्हि ?
दृष्टमङ्गीकृत्य ततोऽन्यत्रातिप्रसङ्गं परिहर्तुं व्यवस्था कल्प्या । अन्यथा तत्रैवातिप्रसङ्गात् ।
तत्ताती तत्वेनासंनिकृष्टस्यापि मनसस्तज्ज्ञानजनकत्वम्
>
नम्वथापि अतीतत्वस्याननुभूतत्वात् तत्र संस्कारलक्षणसंनिकर्षाभावात् संनिकर्षान्तरस्य च अङ्गीकार्यत्वात्
स्मृतौ संस्कारमात्रप्रत्यासत्तिजन्यत्वं जास्तीति लक्षणस्यासम्भवः स्यादिति चेन्न । तद्देशकालसम्बन्धेन सह संस्का-
राख्य प्रत्यासक्तियुक्तेन मनसा करणेन तद्देशकालसम्बन्धातीतत्वस्यासंनिकृष्टस्याप्याकलनात् । स्मृतिरपि यदि सम्ब-
न्थमेवाकलयेत् तदा प्रत्यभिज्ञानवदनुभव: स्यात् । प्रत्यभिज्ञायां तु इदन्ताया इन्द्रियार्थसंनिकर्षः प्रामाणिक
इत्युक्तं । उद्बुद्ध एवं संस्कारः प्रत्यासति: न संस्कारमात्र । तेन संस्कारे सत्यपि स्मरणानुदयात् नास्य प्रत्या-
सत्तित्वमिति चोद्यं निरस्तं । तस्मात् सुष्ठुक्तं प्रतियोगिनः स्मरणमपेक्षते इति ।
॥ न चैवमिति ॥ 'विमतं शरीरं हिताहितप्राप्तिपरिहारेच्छापूर्वकव्यापाररहितं न भवति शरीरत्वात् मच्छ-
रीरवत्' इत्यनुमानेन हेतुसाधनादिति भावः । नन्वेवं तह्येनेनैव सात्मकत्वं साध्यतां किमनया प्रणाड्या ? इति
चेन्न । शरीरत्वमात्रस्य सात्मकत्वेन मृतशरीरे व्यभिचारात् । हिताहितप्राप्तिपरिहारेच्छापूर्वक व्यापार विशिष्टस्य च
शरीरत्वस्यासिद्धत्वात् साक्षात्साधनायोगात् । सावयत्वादिनैव सकर्तृकत्वादिसाधनसम्भवेन कार्यत्वादेर्वैयर्थ्य -
सङ्गाच्च । अनुभूयत एव सर्वैरिति कारिकास्थावधारणार्थमाह ॥ न चैवमिति ॥ ततश्च प्रत्यक्षाप्रत्यक्षधर्मत्वेन
अप्रत्यक्षत्वसाधनं बाघितमिति भावः । अनुभवे विप्रतिपद्यमानं प्रत्याह ॥ न हि चेष्टेति ॥ भेदकज्ञानस्य भेद-
ज्ञानसामग्रीव्याप्तत्वात् विरुद्धधर्मरूपभेदकज्ञाने तद्व्यापक भेदज्ञानसामग्रयवश्यम्भावात् सामग्रीसद्भावेऽपि कार्या
नङ्गीकारे व्याघातादिति हिशब्दार्थः ।
भेदस्य स्वाभाविकत्वसमर्थनम्
,
(टी.) स्यादेतत् तथापि तस्य भेदस्य स्वाभाविकत्वं कुतः ? इति चेत्, मैवं स्वाभाविकत्वं हि
यदा सत्यत्वं स्यात् तदा प्रमाणसिद्धत्वादेव तत् सिद्धयति । प्रामाण्यं च प्रत्यक्षस्य अन्यत्रोपपादितं ।
सत्योपाधिकृतत्वं तु पूर्वमेव निरस्तमिति न पुनः प्रयतितव्यं ।
1 nind इति वि.
पनि भनि</p>
<pb n="50" />
<p>1
भेदस्य स्वाभाविकत्वसमर्थनम्</p>
<p>(मं. टि.) आक्षिपति । स्यादेतदिति ॥ परिहरति ॥ मैवमिति ॥ स्वाभाविकत्वं किं सत्यत्वं किं
वा अनौपाधिकत्वम् ? इति विकल्पं हृदि निधाय आद्यमनूध दूषयति ॥ स्वाभाविकत्वं हीति ॥
सत्यत्वस्य दुर्निरूपत्वपूर्वपक्षः
अथ किं सत्यत्वं ? अबाध्यत्वमिति चेत् तदेव विविच्यतां । निषेधाप्रतियोगित्वमिति चेन्न । घटादेरपि
निषेधप्रतियोगित्वेन लक्षणासम्भवात् । त्रैकालिकनिषेधाप्रतियोगित्वमिति चेन्न । अश्वत्वस्य गवि त्रैका लिक निषे-
घप्रतियोगित्वेन तत्राव्याप्तेः । न हि गौः कदाचिदव्यश्वत्वाश्रयः । प्रतिपन्नोपाधाविति विशिष्यत इति चेन्न ।
तथाप्यनित्यस्य घटादेरसत्यत्वप्रसङ्गः । त्रैकालिकनिषेधाप्रतियोगित्वं हि त्रैकालिक निषेधप्रतियोगित्वाभावः । घटा-
देर नित्यस्य स्वसमयात् प्रागूर्ध्वं च निषेधप्रतियोगित्वेन त्रैकालिको योऽयं निषेधप्रतियोगित्वाभावः तद्रहित-
त्वात् । अथ त्रैकालिकत्वं न तन्निषेध प्रतियोगित्वाभावविशेषणं । किं तर्हि ? निषेध विशेषणं । एवं च त्रिका -
लावस्थायी यो निषेधः तत्प्रतियोगित्वाभावः सत्यत्वमिति लक्षणवाक्यार्थः । स च घटादेरपि सम्भवति । घटा-
देर्निषेधस्य त्रिकालावस्थायित्वाभावादिति चेत् एवमपि घटस्यैव प्रतिपन्नोपाधौ पटात्मना त्रिकालावस्था यिनिषेध-
प्रतियोगित्वं वर्तत इत्यव्याप्तिस्तदवस्था । अथ यदात्मना यस्त्रिकालावस्थायिनिषेधाप्रतियोगी स तदात्मना सन्निति
लक्षणवाक्यार्थः । तथा च घटस्य घटात्मना त्रिकालनिषेत्राप्रतियोगित्वात् तदात्मना सत्वं पटात्मना तु
तत्प्रतियोगित्वात् तदात्मना असत्वं । अत एव सर्व स्वात्मना सत् तदन्यात्मना असदित्यस्माकं मतमिति चेत्
तर्हि असतोऽपि सत्वापातः । तस्यापि येन केनचिदाकारेण त्रैकालिकनिषेधाप्रतियोगित्वात् । न ह्यसत् त्रैका-
लिकनिषेधप्रतियोगित्वाकारेण त्रैकालिकनिषेधप्रतियोगि । तेनाकारेण असदपि सदस्तु को दोष: ? इति चेत्
अस्ति महान् दोषः । सदसतोरुभयोरपि आकार भेदेन सत्वासत्वाभ्युपगमे सदसद्विवेकानुपपत्तेः । तस्मात्सत्वं
दुर्निरूपमिति प्रामाणिकत्वेन तत्साधनमसङ्गत मिति ।
केषाश्चिन्मतेन प्रतिबन्धा सत्वस्य दुर्निरूपत्वनिराकरणम्
S
अत्र केचित् ब्रह्मणि यादृशं परेषां सत्त्वं तादृशमेवास्माकं भविष्यतीति प्रतिबन्द्या परिहरन्ति ।
"
अन्येषां मतेन सत्त्वनिरुक्तिः
अपरे तु, त्रैकालिक निषेधप्रतियोगित्व तद विनाभूतेतरधर्मावच्छिन्नतया त्रैकालिकनिषेधाप्रतियोगित्वं सत्वं ।
न चैवमसत्यतिव्याप्तिः । असतस्त्रैका लिकनिषेधप्रतियोगित्वतदविनाभूतधर्मान्तरैस्त्रैकालिक निषेधा प्रतियोगित्वेऽपि
तदितरधर्मावच्छिन्नतया तत्प्रतियोगित्वात् । न चासम्भवः । घटादेस्त्रैकालिक निषेधप्रतियोगित्वतद विना भूतेतरघट-
वादिधर्मावच्छेदेन त्रैकालिक निषेधाप्रतियोगित्वादित्याहुः ।</p>
<pb n="51" />
<p>(मं. टि.) वयं तु ब्रूमः ।
उपाधिखण्डने
स्वमतेन सत्त्वनिरुक्तिः</p>
<lg>
  <l>स्वदेशकालनिष्ठश्च स्वनिष्ठेन प्रकारतः ।</l>
  <l>विशिष्टस्य निषेधो यस्तदयोगि सदुच्यते ॥</l>
</lg>
<p>वसमानकालीन व समानाधिकरणस्वनिष्ठधर्मावच्छिन्न निषेधप्रतियोगित्वाभावाश्रयत्वं सत्त्वं ।
भावात् ।
एकदेशिमतेन सत्वलक्षणस्य असति अतिव्याप्तिनिरासः
निषेधप्रतियोगित्वाभावाश्रयत्वमित्यनेनैव असत्यतिव्याप्तिः परिहृता । तस्य निस्वरूपस्योक्तधर्माश्रयत्वा-
असति एकधर्माभावे तद्विरुद्धधर्मशङ्का तत्परिहारश्च
ननु यद्यसतो न निषेधप्रतिगित्वाभावाश्रयत्वं तर्हि निषेधप्रतियोगित्वाश्रयत्वं स्यादिति चेत्, न स्यात् ।
सतामेव हि सत्स्वरूपाणामाश्रयत्वयोग्यानां तदाश्रयत्वाभावे तद्विरुद्ध धर्माश्रयत्वनियमः । असतस्तु निःस्वरूप-
स्याश्रयत्वयोग्यतैव नास्तीति कुतस्तद्विशेषप्रसक्तिः । अन्यथा गवि ब्राह्मणत्वाभावे क्षत्रियत्वाद्यन्यतमः स्यादित्युक्ते
कः परिहारः?
6
ननु क्षत्रियत्वादीनां 'मनुष्यत्वव्यापकत्वात् व्यापकस्य मनुष्यत्वस्य अभावे तद्वयाप्यक्षत्रियत्वादेरप्यभावः ।
एकस्य विशेषस्याभावे तद्विरुद्ध विशेषान्तरस्य भावः ' इति नियमस्तु यत्र विरुद्ध विशेषद्वयव्यापकं सामान्यमस्ति
तत्रैव । गवि तु विशेषद्वयव्यापकं मनुष्यत्वसामान्यमेव नास्तीति परिहार इति चेत् स एव प्रकृतेऽपि परिहारः ।
असतो हि यदि नाम आश्रयत्वसामान्यं स्यात् तदा त्वदुक्तं स्यात् । अपि तु तन्नास्ति निःस्वरूपत्वादित्यन्ये ।
प्रन्थकृन्मतेन असति अतिव्याप्तिनिरास:
2
'वस्तुतस्तु नासतो देशकालौ । किं तु ? तदत्यन्ताभावस्येति ।
।
सत्त्वलक्षणस्यात्माश्रयाव्याप्त्यसत्वदोषशङ्का
नन्वेतल्लक्षणं एतल्लक्षणे अस्ति ? उत न ? आद्ये आत्माश्रयः । द्वितीये लक्षणस्याव्याप्तिः । अलक्ष्यत्वे च
कथमस्यासतो लक्षणत्वं ? इति चेन्न ।
1 मनुष्यत्वव्याप्यत्वात् इति मुद्रितपुस्तकगत एव पाठ: साधु: ।
2 स्वदेशकालनिष्ठपदेन स्वाधिकरणत्वेन
प्रतीयमानदेशकालनिष्ठत्वं विवक्षितं । असतो देशकालयोरभावात् तदत्यन्ताभावीयदशकालयोरेव स्वाधिकरणत्वेन प्रतीयमानत्वात्
स्वदेशकालनिष्ठात्यन्ताभावप्रतियोगित्वमसति वर्तत इत्यसति नातिव्याप्तिरिति भावः ।</p>
<pb n="52" />
<p>अनुगतलक्षणवादे आत्माश्रयत्वपरिहारः
(मं. टि.) अनुगतलक्षणमङ्गीगीकुर्वतां प्रमेयत्वे प्रमेयत्वाङ्गीकार इवात्माश्रयस्योत्पत्तिज्ञप्त्यप्रतिबन्धकतया
अदोषत्वात् ।
सिद्धान्ते आत्माश्रयत्वादिदोषपरिहार:
प्रतिव्यक्ति लक्षण भेदमनी कुर्वतामस्माकं त्वात्माश्रयप्रसक्तेरेवाभावात् । प्रतिव्यक्ति लक्षण मेदाङ्गीकारे लक्ष
णस्याव्याप्तिः स्यादिति चेन्न दोषः । न हि लक्षणस्य सकललक्ष्यानुगतिर्व्याप्तिः । किं तर्हि ? लक्षणवाक्यस्य
विवक्षिततत्तद्वयक्तिपर्यवसानं । सर्वलक्षणेऽप्येवमेवेति सिद्धान्तरहस्यम् । तच्च प्रकृतेऽपि सम्भवत्येव । स्वशब्दस्य
सर्वनामत्वेन विवक्षितव्यक्तिपर्यवसानसम्भवात् । विवक्षितव्यक्त्यपर्यवसाने च खशब्दस्य सर्वनामत्वं व्याहन्येत ।
यथाह पतञ्जलि: ' सर्वेषां नामानि सर्वनामानीत्यन्वर्थसञ्ज्ञा' इति ।
सत्वलक्षणान्तरम्
अथ वा साक्षात्प्रमाविषयतावच्छेदकधर्माश्रयत्वं सत्वं । ' भ्रमो ममासीत् ' इति प्रमाणज्ञानस्य शुक्ति-
रजतत्वादिकमपि परम्परया विषयो भवतीत्यतिव्याप्तिः स्यात् । तदर्थं साक्षादित्युक्तं । न च साध्यावैशेष्यं शङ्कम् ।
सत्वप्रकारकप्रमाणविषयत्वस्य हेतुत्वात् । प्रमाणविषयतावच्छेदकधर्माश्रयत्वस्य च साध्यत्वात् । अवच्छेद्यावच्छे-
दकयोश्च भिन्नत्वात् ।
प्रामाणिकत्वसत्त्वयोर्व्याप्तिसमर्थनम्
नन्वथापि कथं प्रामाणिकत्वस्य सत्वेन व्याप्तिः ? शुक्तिरजतस्यासत्यस्यापि 'शक्तिरजतज्ञानं ममासीत् '
इति प्रमाविषयत्वादिति चेन्न । ज्ञानान्तरप्रणाडीमनपेक्ष्य साक्षात्प्रमाविषयत्वस्य हेतुत्वात् । शुक्तिरजतादेश्च जान-
द्वारा प्रमाविषयत्वात् ।
प्रमासामान्यलक्षणपूर्वपक्षः
अथ केयं प्रमा? यथार्थज्ञानं प्रमेति चेत् यथाशब्दः किं सादृश्यवाची? किं वा अनतिक्रमाद्यन्यतम-
वाची ? नाद्यः घटज्ञानयोः घटत्वादिना सादृश्याभावात् । कथञ्चित्सादृश्यस्य चातिप्रसञ्जकत्वात् । न द्वितीयः
' यथाऽसादृश्ये ' इत्यसादृश्यार्थे अव्ययीभावविधानात् । अव्ययीभावस्य च नपुंसकत्व विधानात् 'उपकुम्भम्' इत्या-
दिवत् 'यथार्थं प्रतीतिः' इत्यादिप्रयोगापातात् । न चैव व्यवहारः । 'यथार्था प्रतीतिः' इत्येव व्यवहारात् । तस्मात्
प्रमात्वं दुर्निरूपमिति ।
सिद्धान्ते प्रमालक्षणम्
अत्रोच्यते</p>
<lg>
  <l>यथार्थज्ञानमित्येव प्रमाया लक्षणस्थितिः ।</l>
  <l>स्मृतेरपि च लक्ष्यत्वाद तिव्याप्तिकथा मुधा ॥</l>
</lg>
<pb n="53" />
<p>उपाधिखण्डने
(मं. टि.) यथार्थज्ञानं प्रमा । न च स्मृतावतिव्याप्तिः तस्या अपि लक्ष्यत्वात् । न च यथाशब्दार्थानिरुक्तिः
सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोः सत्तया । नच अमेऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वात् अर्थस्य
च असत्त्वात् ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्य विशिष्ट एव अर्थो यस्येति बहुव्रीह्याश्र-
यणे यथार्थशब्दस्या भिधेय वल्लिङ्गं लोकसिद्धं सिद्धं ॥ यथाशब्दोऽतिक्रमे वर्तत इति टीकाकारवचनं तु फलित-
प्रदर्शनपरतया व्याख्येयं । ज्ञानार्थयोः सादृश्यकथनेन ज्ञानस्य अर्थानतिक्रमणस्य आवश्यकत्वाच्च । एवमेव च
' धर्माय जिज्ञासा धर्मजिज्ञासा' इति पूर्वमीमांसाभाष्यं, धर्मजिज्ञासयोः यूपदार्वादिवत् उपादानोपादेयलक्षण -
प्रकृतिविकृतिभावाभावात् ' धर्माय' इति चतुर्थीसमासे व्याकरणविरोधमा शङ्कय फलितप्रदर्शनपरतया भट्टेन
व्याख्यातमिति ।
स्मृतिप्रामाण्यसमर्थनम्
इह केचित्, स्मृतेः प्रामाण्ये विप्रतिपद्यन्ते । ते प्रष्टव्याः, किं क्लृप्तप्रमाकरणाभावात् स्मृतेः प्रमात्वान-
भ्युगम: ? किं वा अनुमानाद्यजन्यत्वेऽपि असंनिकृष्टार्थोल्लेखित्वात् ? किं वा असदर्थोल्लेखित्वात् ? यद्वा वृद्धव्यव-
हाराभावात् ?
नायः सुखादिप्रमायां क्लृप्तस्यैव मनसः स्मृतावपि करणत्वात् । बाह्यप्रमायां न क्लृप्तमिति चेन्न 'घटो
मयाऽनुभूतः ? इत्यनुव्यवसायस्य मनोमात्रकरणकत्वेन मनसो बाह्यार्थविषयकप्रमायामपि क्लृप्तत्वात् । साक्षाद्वाह्य-
प्रमितौ न क्लृप्तं मन इति चेत्, मा भूत् इहापि संस्कारद्वारेव मनसा स्मरणोत्पादनात् । एतेन स्मरणकरणे
संस्कारे प्रमाकरणत्वव्यवहाराभावान्न तस्य प्रमापकत्वमिति निरस्तं । मनस एव तत्करणत्वात् ।
न द्वितीयः प्रत्यभिज्ञायां व्यभिचारात् । प्रत्यभिज्ञायां अपि तद्देशकालसम्बन्धस्या सन्निकृष्टस्यैव आकलनात् ।
तत्र संस्काराख्यः सन्त्रिकर्षोऽस्तीति न व्यभिचार इति चेदिहापि तथैवेत्य सिद्धिः ।
,
तृतीयेऽपि किमत्यन्तासदर्थोल्लेखित्वं ? किं वा स्वकाले अविद्यमानार्थोल्लेखित्वं ? यद्वा अन्यथोल्लेखित्वं ?
नाद्यः असिद्धेः । न द्वितीयः अतीतानागतविषयिकायां अव्यभिचरितशकुनादि लिङ्गजन्यानुमितौ व्यभिचारात् । ननु
' अग्निरासीत् ' वृष्टिर्भविष्यति ' इत्याद्यनुमितावपि अग्निप्रध्वंसस्य व्यवहितवृष्टिप्रागभावस्य विषयत्वाङ्गीकारात्
तस्य च तदा वर्तमानत्वान्न व्यभिचार इति चेत्तर्हि तत्कालादिप्रध्वंस एव विषयीक्रियते । स च स्मृतिकाले
वर्तमान एवेति त्वद्धेतोरसिद्धिः । न चाननुभूतस्य तत्कालसम्बन्धप्रध्वंसस्य आकलने स्मृतेरनुभूतमात्र विषयकसंस्का-
रसीमोल्लङ्घनं स्यादिति अन्यस्यापि स्मरणं स्यादिति युक्तं । कालान्तरभाव्यनुभवस्य कालान्तरभाविनीं स्मृति प्रति</p>
<pb n="54" />
<p>स्मृतिप्रामाण्य
समर्थनम्
(मं. टि.) कारणतानिर्वाहार्थं कल्प्यमानस्य संस्कारस्य यादृशखभावाङ्गीकारे स्मृतिकारणता निरूढा भवेत् तादृश
स्वभावस्यैव धर्मिप्रमाणसिद्धत्वेनानतिप्रसङ्गात् ।
न तृतीयः असिद्धेः । स्मृतिर्हि 'तत्र तदा तत् तादृशमासीत् ' इति उल्लिखति । न च तत् तादृशं तत्र
नासीत् । येन स्मृतिरन्यथोल्लेखिनी स्यात् ।
एतेन 'स्मृतिः स्वविषयस्य वर्तमानतोल्लेखिनी संस्कारजन्यज्ञानत्वात् प्रत्यभिज्ञावत्' इत्यनुमानेन स्मृते-
रनुभूततत्कालसम्बन्धा दिविशिष्ट स्वविषयस्य वर्तमानतोल्लेखितासाधनात् तादृशावस्थाविशिष्टस्य च अवर्तमानत्वात्
अवर्तमाने वर्तमानतोल्लेखिनी स्मृतिरन्यथोल्लेखिनी' इति निरस्तं । 'आसीत् ' इत्यतीततोल्लेखस्यानुभवसिद्धत्वेन
वर्तमानतोल्लेखितासाघने बाधात् । अतीतकालादिसम्बन्धप्रध्वंसस्य स्मृतिविषयस्य वस्तुतो वर्तमानस्यैव वर्तमानतो-
ल्लेखितासाधने सिद्धसाधनत्वात् ।
एतेन ' याचितमन्नं कमनीयमिव स्मृतेः प्रामाण्यं' इति उदयनोपालम्भोऽपि निरस्तः । प्रध्वंसांशे
अनुभवाभावेन तदेशे प्रमात्वस्य तत्प्रमात्वानधीनत्वात् ।
}
किं च स्मृतिविषये विशेष्यमात्रस्य वर्तमानतोलेखसाधने सिद्धसाधनं । विशिष्टस्य तथात्वसाधने साध्यवै
कल्यं दृष्टान्तस्य । ननु यदि स्मृतिः स्वविषयस्य घटादेवर्तमानतां नाकलयेत् तदा 'गृहे घटः' इति ज्ञानानन्तरं
घटार्थी न प्रवर्तेतेति चेन्न । न हि स्मृति: ' स घट इदानीं वर्तते' इत्युल्लिखति । किं तर्हि ? ' तदा आसीत्
इत्येव । विशेष्यस्य घटादेर्वर्तमानताऽवर्तमानतयोस्तु उदासीनैव । अन्यथा काञ्चीतः काशीं गतः तत्र यथानुभूत-
पुत्रस्मरणेनैव तस्य स्थिति निश्चये 'पुत्रः पुनः कास्ते' इति न सन्दिखेत । कचित्प्रवृतिस्तु 'इदानीमेव घटस्त-
त्रानुभूतः, न चैतन्मध्ये तस्यापहर्ता सम्भावितः' इति सम्भावनारूपेण ज्ञानान्तरेणेत्यनुभवसिद्धं ।
नापि चतुर्थः अस्मदीयवृद्धैः स्मृतेः प्रमात्वेन व्यवहारात् । त्वदीयवृद्धव्यवहाराभावस्य त्वयाप्यनादरणी-
यत्वात् । लौकिकैरपि प्रमात्वेन व्यवहाराच्च । तस्मात्स्मृतेः प्रमात्वं सुस्थमिति न लक्षणस्यातिव्याप्तिः ।
प्रमालक्षणान्तरनिरासेन स्वोक्तलक्षणसमर्थनम्
एतदेव प्रमालक्षण, लक्षणान्तराभावात् । तथा हि, किं संवाद्यनुभवत्वं ? किं वा अविसंवाद्यनुभवत्वं
यद्वा समर्थप्रवृत्तिजनकानुभवत्वं ? अथ वा तद्योग्यानुभवत्वं ? उत अबाधितानुभवत्वं ? आहोस्वित् तद्वति तत्प्रका-
रकानुभवत्वं ? नाद्यः ज्ञानान्सरेण तथो लेख्यमानत्वस्य च संवादित्वे धारावाहिक विभ्रमेऽतिव्याप्तेः । प्रमान्तरेण
1 पुनः 'पुत्रः क्कास्ते' इति न सन्दियेत इति मुद्रितपुस्तकस्थः पाठः एव साधुरिति भाति.</p>
<pb n="55" />
<p>(मं. टि.) तथोल्लेख्यमानत्वस्य संवादित्वे प्रमात्वस्यैव निरूप्यमाणत्वेनात्माश्रयात् । न द्वितीयः अनुपसञ्जातबाघभ्र-
मेऽतिव्याप्तेः । न तृतीयः उपेक्षाज्ञानेऽव्याप्तेः । न चतुर्थः निर्विकल्पकेऽव्याप्तेः । न हि निर्विकल्पकजातीय किञ्चिदपि
प्रवृत्तिं जनयति । तज्जातीयस्य क्वचित्प्रवृत्त्यजनकत्वे च तत्र योग्यतायाः कल्पयितुमशक्यत्वात् । निर्विकल्पकस्य
प्रमात्वानङ्गीकारे अपसिद्धान्तात् । न पञ्चमः अन्योन्याश्रयात् । अबाधितत्वं हि बाघरहितत्वं । बाधश्च विरो-
धित्रमा । ततश्च प्रमाज्ञानं विना बाधज्ञानाभावात् बाघज्ञानं विना च बाघरहितानुभवरूपप्रम [ज्ञानाभावात् कथं
नान्योन्याश्रयः ? षष्ठेऽपि यावन्तो घर्मा वर्तन्ते तावत्सर्वधर्मप्रकारकत्वं विवक्षितं ? तन्मध्ये यत्किञ्चिद्धर्मप्रकारकत्वं
वा ? नाद्यः असम्भवात् । न हि 'घटोऽयं ' इति प्रमा घटगतसर्वधर्म प्रकारिका । न द्वितीयः भ्रमेऽतिव्याप्तेः
भ्रमेऽपि इदन्त्ववति शुक्तिकाशकले इदन्त्वप्रकारकत्वात् । इदमंशे भ्रमोऽपि प्रमैवेति चेन्न । प्रमात्वाप्रमात्वयो-
रेकत्रानवस्थानात् । इदमंशे प्रमात्वं रजतांशे भ्रमत्वमिति अंशभेदेना विरोध इति चेन्न । त्वया हि प्रमाया गुण-
जन्यत्वं दोषाजन्यत्वं च, अप्रमायाः दोषजन्यत्वं गुणाजन्यत्वं च अङ्गीकियते । तत्कथं स्यात् ? एकस्यैव तज्जन्य-
त्वातज्जन्यत्वयोर्विरोधात् । तत्राप्यंश भेदाद विरोध इति चेन्न । ज्ञानस्य गुणत्वेनांशाभावात् । ज्ञानस्य निरवयत्वे-
नांशांसम्भवेऽपि इदन्त्वं रजतत्वं चेति प्रकारावेवांशाविति चेन्न । इदन्त्वरजतत्वयोः प्रकारयोर्भेदेऽपि तयोर्गुण-
दोषजन्यत्वाभावेन विरोधाशामकत्वात् । गुणदोषजन्ये च ज्ञाने अंशभेदाभावेन विरोधस्य तदवस्थत्वात् । तस्मात् '
प्रमा चेत् सर्वथापि प्रमैव । अप्रमा चेदपि सर्वथा अप्रमैव । अप्रमाविषयस्यापि इदमंशस्याबाधः स्मृतिविषयघटादे-
वर्तमानतावदुपपद्यते । इदमंशाबाधमात्रेण च तत्र प्रमात्वव्यवहारः । किञ्च अंशभेदेन प्रमात्वाप्रमात्यो रङ्गीकारे
' घटोऽयं ' इति प्रमाया अपि घटत्वांशे अप्रमात्वं स्यात् । तत्र तद्वति तत्प्रकारकत्वाभावात् । न हि 'घटोऽयं '
इति ज्ञाने घटत्वे प्रकाररूपं विशेषणं प्रतीयते । प्रतीतौ वा तस्मिन् विशेषणे विशेषणान्तराप्रतीतेः तत्रैवाप्रमात्वं
स्यात् । तत्रापि विशेषणान्तरप्रतीत्यङ्गीकारे अनवस्था स्यात् । न च अनवस्था न दोष इति शङ्कघम् । उत्तरोत्तर-
प्रकारापरिज्ञांने पूर्वपूर्वप्रकारिज्ञानासम्भवेन मूलक्षतेः । त्वन्मते प्रकारज्ञानत्य प्रकारावच्छिन्न प्रकारिज्ञानहेतुत्वात् ।
तथा च अनवस्थापरिहारार्थं कचित् निष्प्रकारकस्य पदार्थस्य प्रमितिविषयत्वावश्यम्भावेन तत्रैवांशे तस्याः प्रतीतेर-
प्रमात्वावश्यम्भाव इति अंशभेदेन प्रमाप्रमयोरुभयोरपि प्रमाप्रमोभयात्मकत्वापातात् प्रमाप्रमाविभागो न स्यादिति
महानतिप्रसङ्गः ।
उपाधिखण्डने
।
विशेष्यावृत्त्यप्रकारकत्वं विवक्षितमिति चेन्न । 'देवदत्तस्य गौ: ' ' ईश्वरस्येच्छा' इत्यादौ विशेष्यगवा-
द्यवृत्तेर्देवदत्तादेः प्रकारतानुभवेनाव्याप्तेः । त्वत्पक्षे जातिसमवाययोः सर्वगतत्वेन शुक्त्यादावपि रजतत्वादेर्वृत्त्याऽति.
व्याप्तेश्च । तयोराधाराधेयभाव एव नास्तीति चेन्न । समवायस्यैव इहप्रत्ययहेतुत्वेन तदतिरिक्तस्याघाराधेयसम्बन्ध
स्याभावात् । तदेतदभिप्रेत्योक्तं प्रमाणपद्धतौ टीकाकारैः यथावस्थितमेव ज्ञेयं यद्विषयीकरोति तत्प्रमाणम्
इति । यदि पुनरिदमंशे प्रमात्वं स्यात्तदा एवकारो व्यर्थ: स्यात् । लक्ष्ये 'इदमंशे वर्तमानत्वस्या दोषत्वात् । प्रका-
1 इदमंशज्ञाने इति पाठेन भाव्यमिति भाति.</p>
<pb n="56" />
<p>प्रेमालक्षणान्तरनिरासेन स्वोक्तलक्षणसमर्थनम्
(मं. टि.) रांशे च यथावस्थितज्ञेयविषयी कारिस्वाभावात् । यद्वा यादृच्छिक संवादिविप्रलम्भक वाक्यस्यानुप्रमाणता-
व्युदासाय एवकारो व्याख्येयः । तथा च न शुद्धाऽप्रमासाधनप्रयास इत्यलं प्रपञ्चेन ।
आत्मभेदस्य सत्यमिथ्योपाधिकृतत्वमेव स्वाभाविकत्वमिति शङ्कानिरास:
द्वितीयं दूषयति ॥ सत्योपाधिकृतत्वं त्विति ॥ मिथ्योपाधिकल्पितत्वं तु सत्यत्वसाधनेन निरस्त मिति
भावः ।
जीवानां मिथो भेदस्य अनुमानसिद्धत्वसमर्थनम्
(टी.) अनेन जीवभेदस्य विरुद्धधर्मसंसर्गेणानुमानेनापि सिद्धिरुक्ता भवति ।
(मं. टि.) अनुमानं च जीवभेदे प्रमाणयति ॥ अनेनेति ॥ विरुद्धधर्मकथनेनेत्यर्थः । ननु पारमार्थिको
भेद: साध्यते ? किं वा अपारमार्थिक : ? नाद्यः अप्रसिद्ध विशेषणत्वात् । अस्माभिः पारमार्थिकस्य कुत्राप्यनङ्गी-
कारात् । न द्वितीयः सिद्धसाधनत्वादिति चेत् नैष दोषः धर्मिसत्तासमानसत्ताक मेदस्य साध्यत्वात् । एवं च
नाप्रसिद्ध विशेषणता व्यावहारिक सत्ताश्रयघटधर्मिकस्य तद्भेदस्य त्वयापि धर्मिसत्तासमानव्यावहारिकसत्ताङ्गीकारात् ।
नापि सिद्धसाघनता अत्र चैतन्यस्य पारमार्थिकसत्ताश्रयस्य धर्मित्वात् । तद्भेदस्यापि धर्मिसत्तासमानसत्ताकत्वेन
साध्यमानस्य पारमार्थिकसत्ताश्रयत्वेन पर्यवसानात् । धर्माणां विरोधश्च सहानवस्थानलक्षणो विवक्षितः । न चैका-
त्मवादिनामसिद्धो विरोध इति वाच्यं । सहानवस्थितत्वेन प्रतीयमानत्वस्य वा सहावस्थितत्वेनाप्रतीयमानत्वस्य वा
सहानवस्थानशब्देन विवक्षितत्वात् ।
तथा च प्रयोगः, 'देवदत्तो यज्ञदत्तप्रतियोगिकखसत्तासमानसत्ताक भेदाश्रयः तदनिष्ठत्वेन प्रतीयमानधर्माश्रय
त्वात् तन्निष्ठत्वेनाप्रतीयमानधर्माश्रयत्वाद्वा, यदेवं तदेवं यथा घटानिष्ठत्वेन प्रतीयमानस्य घटनिष्ठत्वेन अप्रतीयमा-
नस्य वा पटत्वादिधर्मस्याश्रयः पटो घटप्रतियोगि कस्वसत्ता समानसत्ताक भेदाश्रयः' इति ।
जीवेश्वरभेदे प्रत्यक्षप्रमाणसमर्थनम्
(टी.) एवं जीवानां परस्परभेदस्य प्रत्यक्षत्वे असम्भवं परिहृत्य प्रत्यक्षता चोपपादिता । इदानीं
जीवेश्वरभेदस्य प्रत्यक्षतामुपपादयति
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ॥ १२ ॥
सर्वज्ञत्वादीशगुणविरुद्धा ह्यनुभूतिगाः ।</p>
<pb n="57" />
<p>उपाधिखण्डने
(टी.) जीवनिष्ठतयेति पूरणीयं । हिशब्दो यम/दित्यर्थे । तस्मादीशादपि स्वात्मनोऽन्यत्वं सर्वे-
रनुभूयत एवेति पूर्वोक्तानुवृत्त्या अन्वयः । न हीशधर्मविरुद्धधर्मवन्तमात्मानं प्रत्यक्षतः पश्यन् ततोऽन्य-
त्वं न पश्यतीति युज्यते । अतिस्फुटतां भेदप्रत्यक्षस्योपपादयितुं विरुद्ध धर्मबाहुल्योपपादनं ।</p>
<p>जीवेश्वरभेदे अनुमानप्रमाणसमर्थनम्</p>
<lg>
  <l>अनेन जीवेश्वरभेदस्य अनुमानसिद्धता चोपपादिता भवति ।</l>
  <l>(मं. टि.) विरुद्धधर्मकथनेनैव ईश्वरप्रतियोगिकजीवाश्रय भेदेऽप्यनुमानं प्रमाणमुक्तमित्याह ॥ अनेनेति ॥</l>
</lg>
<p>प्रयोगस्तु ' विमतौ अन्योन्यप्रतियोगिकधर्मिसत्तासमान सत्ताक भेदाश्रयौ अन्योन्यानिष्ठतया प्रतीयमानधर्माश्रयत्वात्
संमतवत् ' इति । ननु किमत्र अन्तःकरणावच्छिन्नं चैतन्यं पक्षः? किं वा चैतन्यमात्रं ? नाद्यः सिद्धसाधनत्वात् ।
अवच्छेदक भेदेनावच्छिन्न भेदस्या स्माभिरङ्गीकारात् । अवच्छिन्नस्य व्यावहारिकत्वात् तत्समान सत्ताकस्य व्यावहा-
रिकस्म मेदस्य अस्माभिरप्यङ्गीकारात् । न द्वितीयः तत्र विरुद्धधर्माभावेन असिद्धेरिति चेत् नैष दोषः । ययोब्रह्म-
त्वादिकल्पना तत्पक्षे तयोस्तत्त्वंपदार्थयोः पक्षीकरणात् । अन्यथा अभेदसाधकानुमानेऽपि अवच्छिन्नपक्षीकारे अप
सिद्धान्तात् । अन्यथा सिद्धसाधनताप्रसङ्गादिति । नचैवमसिद्धिः । संसारिण्यल्पज्ञत्वादेः प्रत्यक्षेण, ब्रह्मणि च सार्व
ज्यादेः श्रुत्या सिद्धत्वात् ।
जीवेश्वरभेदसाधकानुमानस्यासिद्धिशङ्खापरिहारः
(टी.) स्यादेतत्, यदि सार्वज्ञ्यादिगुणवत्तया ईश्वरः सिद्धः स्यात् तदेव कुतः ? इत्यत आह
सार्वज्ञ्यादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ॥ १३ ॥</p>
<lg>
  <l>यः सर्वज्ञः स सर्ववित्, पराऽस्य शक्तिर्विविधैव श्रूयते, य आत्माऽपहतपाप्मा, स हि सर्वस्य</l>
  <l>कर्ता इत्याद्याखिति शेषः ।</l>
  <l>(मं. टि.) चोदयति ॥ स्यादेतदिति ॥ परिहरति ॥ अत आहेति ॥ सार्वज्यादिक मल्पज्ञत्वादिविरुद्धं</l>
  <l>श्रुत्या ईश्वरस्य प्रतिपादयितुं क्रमेण ताः पठति ॥ यः सर्वज्ञ इत्यादिना ॥</l>
</lg>
<p>भेदस्य धर्मिस्वरूपत्वपक्षे प्रतियोगिज्ञानादिनैष्फल्यशङ्का तन्निरासश्च
(टी.) ननु भेदो नाम वस्तुस्वरूप मेव । अतस्तदर्शनमेव भेददर्शनमिति किं प्रतियोगिप्रतीत्यनुस-
रणेन ? किं च तदुपपादनाय विरुद्धधर्मोपन्यासेन ? मैवं, न निर्विशेषवस्तुमात्रं भेदः । तथा सति वस्तु-</p>
<pb n="58" />
<p>मेदस्य धर्मिस्वरूपत्वपक्षे प्रतियोगिज्ञानादिनैष्फल्यशङ्का तन्निरासश्च</p>
<p>(टी.) मात्रस्य परेणाप्यङ्गीकृतत्वात् विवादानुपपत्तेः । किं नाम ? अन्योन्याभाव एव । सच रूपादिवत्
वस्तुना सविशेषाभिन्न इत्येव स्वरूपं भेद इत्यस्यार्थ: । अन्योन्याभावश्च प्रतियोगिनिरूप्य इत्युपपन्न-
मेव तत्प्रतीत्यनुसरणं । सादृश्यादिना सन्नप्यन्योन्या भावो नोपलभ्यत इति विरुद्धधर्मोपन्यासोऽप्यु-
पपद्यते । अत एव भेद इति प्रस्तुतेऽपि अन्यत्वं इत्युक्तं ।
(मं. टि.) शकते ॥ ननु भेदो नामेति ॥ अतस्तदर्शनमेव भेददर्शन मिति ॥ तच्च प्रतियोगिप्रतीत्य-
नपेक्षमिति वाक्यशेषः । विरुद्धधर्मकथनं च असङ्गतं, स्वरूपाभिन्ने मेदे कस्यापि विप्रतिपत्तेरभावादित्याह ॥ किं
चेति ॥ तदुपपादनाय विरुद्धधर्मोपन्यासेन च किं ? इति चशब्दो भिन्नकमः । परिहरति ॥ मैवमिति ॥ ननु
स्वरूपातिरेके भेदस्यानवस्थाप्रसङ्गात् स्वरूपमात्रत्वं भेदस्येति शङ्कते ॥ किं नामेति ॥ परिहरति । अन्योन्या-
भाव इति ॥ तादात्म्यनिषेध इति यावत् ॥ सविशेषेति ॥ विशेषेण सहकाधिकरणक इत्यर्थः ।
विशेषाङ्गीकारे प्रमाणाक्षेपः
।
ननु विशेषे किं प्रमाणं ? 'घटस्य भेदः' इति सम्बन्धव्यवहारः प्रमाणमिति चेन्न । 'देवदत्तस्य कम्बल: '
इतिवत् भेदेनैवोपपत्तेः । अभेदे सत्यपि सम्बन्धव्यवहारः प्रमाणमिति चेन्न 'घटस्य रूपम् ' इतिवत् अभेदेना-
प्युपपत्तेः । भेदासहिष्ण्वभेदे सत्यपि सम्बन्धन्यवहारः प्रमाणमिति चेन्न । तस्यासिद्धेः । तत्प्रतीतौ तत्प्रतीतिरि
त्याद्यभेदकार्यस्य अभेदमात्रेणोपपत्तौ 'घटस्य भेदः' इति सम्बन्धपतीतिप्रापितस्य भेदस्याप्यङ्गीकार्यत्वेन भेदस्य घटे-
न आत्यन्तिका भेदासम्भवात् ।</p>
<lg>
  <l>नन्वीश्वरतद्गुणयोः भेदो नाङ्गीकार्थः ।</l>
  <l>एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥</l>
</lg>
<p>।
इति भेदप्रतिषेधात् । तथा च भेदासहिष्णुरभेदोऽङ्गीकार्यः । अथापि श्रूयते ' आनन्दो ब्रह्मणः' इति ब्रह्मान -
न्दयोः सम्बन्धः । तथा च तन्निर्वाहार्थं विशेषोऽङ्गीकर्तव्य इति चेत्, नाङ्गीकर्तव्यः । ' एवं धर्मान्' इति श्रुतौ
च आत्यन्तिक भेद निषेधात् । भेदमात्र निषेधे सम्बन्धव्यवहारे कारणत्वेन क्लृप्तभेदस्य परित्यागप्रसङ्गात् । क्लृप्त-
कारणपरित्यानेन अक्लप्तकारणान्तरकल्पने च संसर्गव्यवहारे कारणत्वेन क्लृप्तसंसर्गप्रत्ययस्य परित्यागेन असं-
सर्गाग्रहस्यैव कारणत्वकल्पनेन अख्यातिपक्षपातप्रसङ्गात् । न च भेदाभेदयोर्विरोधात् तद्विरोधशमनाय विशेषोऽ
जीकार्य इति वाच्यं । विशेषस्यापि 'भेदकार्यस्य भेदवदभेदविरोधित्वेन अभेदेन सहावस्थानासम्भवात् । तत्र
प्रतीतत्वादविरोध इति चेत्समं भेदाभेदयोरपीति ।
। मेदकार्यकरस्य इति मुद्रित पुस्तकस्थपाठ एव साधुरिति भाति.</p>
<pb n="59" />
<p>उपाधिखण्डने
(मं टि.) एतेनैतदपि परास्तं । घटभेदशब्दौ तावदपर्यायतया प्रसिद्धौ । न चैतयोरपर्यायत्वं घटपट-
शब्दादा विवात्यन्त भिन्नार्थवाचित्वेन सम्भवति । घटतद्भेदयोरात्यन्तिक भेदाभावात् । नापि घटरूपादिशब्दवद्भिन्ना-
भिन्नार्थवाचित्वेन, घटतद्भेदयोरत्यन्ता भेदात् । तस्मात् तदपर्यायता निर्वाहकः कश्चिदङ्गीकार्यः स एव विशेष इति ।
उक्तन्यायेन भेदाभेदाङ्गीकारेणैव सर्वव्यवस्थोपपत्तेः । तस्मान्न विशेषे प्रमाणमस्ति ।
विशेषे लक्षणाभावशङ्का
,
नापि लक्षणमस्ति । तथा हि, न तावद्वेदव्यवहारनिर्वाहकत्वं तल्लक्षणं, घटपट भेद व्यवहारनिर्वाह के भेदेऽ
तिव्याप्तेः । नाप्यमिन्ने भेदव्यवहारनिर्वाहकत्वं, घटाभिन्ने रूपे 'घटस्य रूपं ' इति भेदनिबन्धनसम्बन्धव्यवहारनि
र्वाह कभेदेऽतिव्याप्तेः । अत्यन्ताभिन्ने भेदव्यवहारनिर्वाहकत्वमिति चेन्न असम्भवात् । एकपदार्थाभिधाय्यनेकश-
ब्दापर्यायता निर्वाहकत्वमिति चेन्न । 'शुक्ल: पट:' इत्यत्र एकपटाभिघाय्यनेक शब्दापर्यायता निर्वाह के शुक्लपद
प्रवृत्तिनिमित्त शौक्लये पटपदप्रवृत्ति निमित्त पटत्वे चातिव्याप्तेः । प्रवृत्तिनिमित्तभेदरहितैकार्थाभिघाय्यनेकशब्दापर्याय -
तानिर्वाहकत्वं लक्षणमिति चेन्न असम्भवात् । घटभेद दिशब्देष्वपि घटत्वभेदत्वादिप्रवृत्तिनिमित्तभेद सद्भावात् ।
1 तस्मान्न विशेषे प्रमाणं लक्षणमध्यस्तीति ।
विशेषस्य भेदस्वरूपत्वशङ्का
अपि चाय विशेषः किं भेदकार्यं करोति ? उत न ? न चेत्किमनेनाङ्गीकृतेन । आद्ये भेद एवायं नामा-
न्तरेणोच्यते । भेदकार्यकरस्यैव भेदत्वात् । क्लृप्तकारणं विना कार्यायोगात् ।
विशेषाशीकारे भेदस्वरूपापलापशङ्का
एकस्यैव सम्बन्धव्यवहारकार्यस्य कारणद्वयं भेदो विशेषश्चेति । तत्र भेदो 'देवदत्तस्य कम्बलः' इत्या-
दिसम्बन्धव्यवहारहेतुः । 'घटस्य भेदः' इत्यादेस्तु व्यवहारस्य विशेषो हेतुरिति व्यवस्थाऽस्त्विति चेत्,
किमनया
कल्पनया ? देवदत्तस्य कम्बलः' इत्यादिप्रत्ययप्रयोगयोरपि विशेष एव हेतुरस्तु । तथात्वेऽनुगमा लिंक भेदेन ? इति ।
तथा च भेदकार्यनिर्वाहार्थं कल्प्यमानो विशेषो भेदमेवोन्मूलयतीति ।
विशेषस्वरूपस्य दुर्निरूपत्वशङ्का
अपि च कोऽयं विशेष : ? किं स्वभावभेद: ? किं वा शक्तिविशेष : ? आद्येऽपि किं घटस्य स्वभाव: ? किंवा
भेदस्य ? नाद्यः, स्वभाव: स्वरूपमिति पर्यायौ । तथा च घटस्य विशेषाश्रयताया अनुपपत्तिः । स्वस्य स्वाश्रयतानु-
6
1" तस्मान्न विशेषे लक्षणमप्यस्तीति' इति मुद्रितपुस्तकगत: पाठ एव साधुरिति भाति तस्मान्न विशेषे प्रमाणमस्ति '
इति प्रमाणनिराकरणस्य पूर्वमेव कृतत्वात्.
6</p>
<pb n="60" />
<p>विशेषस्वरूपस्य दुर्निरूपत्वशङ्का</p>
<p>(मं. टि.) पपत्तेः । न द्वितीय : भेदस्यापि घटस्वरूपत्वेन भेदस्वभावस्यापि विशेषस्य घटाश्रितत्वानुपपत्तेः । नापि
द्वितीय: अभिन्ने भेदव्यवहारजननसमर्थायाः शक्तेरदर्शनात् । न हि शक्तिरपि स्वाविषये स्वकार्य करोति । न चाभिन्नो
भेदव्यवहारजननसमर्थशक्तिविषयः । व्याघातात् । किं च विशेषेऽपि विशेषाङ्गीकारेऽनवस्था । अनङ्गीकारे तु
विशेषतत्स्वरूपतद्भेदशब्दानां पर्यायतापत्तिः । तस्माद्विशेषस्यानुपपन्नत्वात् सविशेषाभिन्नः इत्युक्तमयुक्तमिति ।
विशेषे प्रमाणाभिधानम्
अत्र ब्रमः ।
1</p>
<lg>
  <l>आनन्दो ब्रह्मणः कुम्भस्वरूपमिति भाषितं ।</l>
  <l>सम्बन्धव्यवहारत्वात्सम्बन्धं कल्पयिष्यति ॥</l>
</lg>
<p>'आनन्दो ब्रह्मणः' 'घटस्य भेदः' इत्यादिव्यवहारः सम्बन्धपूर्वक सम्बन्धव्यवहारत्वात् संमतवत् । अन्यथा
कारणं विना कार्याङ्गीकारे व्याघातः । व्यवह्रियमाणस्य व्यवहारं प्रति विषयतया कारणत्वात् । औपचारिकोऽयं
व्यवहार इति चेत् । कोऽर्थ : ? किं निर्निमित्त इति ? किंवा आरोपितविषय इति ? यद्वा क्लृप्तनिमित्ताभावेऽपि
निमित्तान्तरवानिति ? नाद्यः व्याघातादित्युक्तत्वात् । न द्वितीयः 'आनन्दो ब्रह्मणः' इत्यादि श्रौतव्यवहारस्या-
प्यारोपितविषयत्वे श्रुतेरप्रामाण्यप्रसङ्गात् । 'न घटस्य भेदः' ' न घटस्य स्वरूपं ' इति विपरीतव्यवहाराभावेन
'घटस्य स्वरूपं ' इत्यादिलौकिकव्यवहारस्याप्यभ्रान्तत्वात् । तृतीये सिद्धं नस्समीहितं । क्लतभेदा ख्यानिमित्ता-
भावेऽपि यन्निमितान्तरमङ्गीक्रियते तस्यैवास्माभिर्विशेषत्वेन व्यवहरणात् । स च सम्बन्धो भेदगर्भः सोमासम्भवे
'पूतिकावत् भेदासम्भवे तत्प्रतिनिधि कल्पयति यतः ।
1
;
घटस्य स्वरूपमित्यादिव्यवहारस्य भेदाभेदाभ्यामुपपत्तिनिरास:
न च भेदासम्भवोऽसिद्धः भेदाभेदाङ्गीकारेणाप्युपपत्तेरिति युक्तं । ' एवं धर्मान्' इति तन्निषेधात् । न
च तत्राप्यात्यन्तिकभेद एव निषिद्धयत इति युक्तं । लोकेऽपि धर्मंघमिणोरात्यन्तिक भेदाभावस्य सिद्धत्वेन विशिष्य
कथनानुपपत्तेः । धर्मधर्मिणोरात्यन्तिक भेदाभावश्च भाष्यकारटीकाकाराभ्यामेवान्यत्रोपपादितः । 'घटस्य स्वरूप '
इत्यादावपि न भेदाभेदावङ्गीकारा हौं । घटस्य स्वरूपातिरेकेण घटस्याभावेन तयोर्मात्रयाऽपि भेदासम्भवात् । भेदा-
भेदयोर्विरोधेन तद्विरोधशमनार्थं विशेषस्य आवश्यकत्वाच्च ।
अभेदविरोधिभेदप्रतिनिधेर्विशेषस्याभेदाविरोधित्वम्
-
न च विशेषस्यापि भेदप्रतिनिधित्वेना भेदविरोध: समान इति वाच्यं । माणवके मुख्यसिंहव्यवहारनिमि-
त्तस्य सिंहत्वस्य विरोधेऽपि अमुख्यक्रौर्यादेरविरोधचदत्राप्युपपत्तेः । धर्मिग्राहकप्रमाणेन विशेषस्य भेदकार्यकरस्यापि
अभेदाविरोधेनैव सिद्धत्वात् । तत्र विरोधापादकतर्कस्यापि धर्मिग्राहकप्रमाणविरोधेनानुत्थानाच्च ।
पूतीकवत् इति मुद्रित पुस्तकस्थ: पाठ एव साधुरिति भाति.
,</p>
<pb n="61" />
<p>1</p>
<p>उपाधिखण्डने
विशेषेण भेदकार्यनिर्वाहे मेदवैयर्थ्यशङ्कानिरास:
1
(मं. टि. ) न चानेनैव सर्वकार्यनिर्वाहे भेदो दत्ततिलाञ्जलिः स्यादिति युक्तं । तथात्वे सर्वत्र पूतिकाग्रहणे
सम्भवति सोमापेक्षाभावप्रसङ्गात् । सिंहेऽपि कौर्यस्यानुगतत्वेन सिंहव्यवहारनिर्वाहकत्वे सम्भवति सिंहत्वस्य दत्त-
तिलाञ्जलित्वप्रसाच्च । तत्र 'मुख्ये सम्भवति नामुख्यं कल्प्यते' इति चेत् समः समाधिः ।
घटस्य स्वरूपमिति व्यवहारस्य सामान्यविशेषविषयकत्वनिरास:
ननु 'घटस्य स्वरूप ' इत्यादिव्यवहारः सामान्यविशेष विषयकः । स्वरूपस्य पटादावपि साधारण्यात् ।
तथा च सामान्यविशेषभावेन भिन्नविषयकत्वात् 'घटस्य स्वरूप ' इत्यादिव्यवहारो न विशेषकल्पक इति चेन्न ।
'घटस्य स्वरूपं ' इत्यत्र स्वरूपशब्देन किं घटस्वरूप विवक्षित ? किं वा अन्यस्य स्वरूपं ? सामान्यं वा ? नाद्यः
तस्याव्यसाधारण्येन सामान्यविशेषभावाभावात् । न द्वितीयः तस्यैतदीयत्वायोगात् । न तृतीय: घटाद्यसाधारण-
स्वरूपातिरिक्तस्य सर्वानुगतस्यैकस्याभावात् । भावे वा सर्वाद्वैतापत्तेः । ननु स्वरूपस्यानुगतस्याभावेऽपि स्वरूपत्वं
नाम घर्मः घटादाबध्यनुगतः । न तथा घटत्वं । तावतैव सामान्य विशेषभाव इति चेन्न । अस्माभिरनुगतस्य स्वरूपत्व
स्याप्यनङ्गीकारात् । अङ्गीकारे वा 'द्रव्यं घट: ' 'मनुष्यो ब्राह्मणः' इत्यादिवत्सामानाधिकरण्यमेव स्यात् । न तु
सम्बन्धव्यवहारः । सामान्य विशेषभावमात्रेण षष्ठीप्रयोगे 'ब्राह्मणस्य मनुष्यः' इत्यपि स्यात् ।
विशेषे लक्षणाभिधानम्
एतेन अत्यन्ता भेदे भेदव्यवहारनिर्वाहकत्वं विशेषलक्षणं चोपपादितं द्रष्टव्यं ।
विशेषे प्रमाणान्तराभिधानम्
अपि च ' ब्रह्मतदानन्द घटतत्स्वरूप तद्भेद । दिपदानि अपर्यायता निर्वाहकपदार्थवन्ति अपर्यायपदत्वात् घट-
पटपदवत्' इति । स चापर्यायता निर्वाहकः न तावद्धटपटादाविव अत्रापि भेदः सम्भवति । ब्रह्मतदानन्दादीनां भेदा-
भावात् । नापि घटतद्रूपादिष्विव भेदाभेदौ, आत्यन्तिका भेदस्योपपादितत्वात् । तथा च तन्निर्वाहकः कश्चित्पदा-
र्थोऽङ्गीकर्तव्यः । स एव च विशेष इति हि गीयते । यथोक्तं भगवत्पादैः</p>
<lg>
  <l>भेदहीने त्वपर्यायशब्दान्तरनियामकः ।</l>
  <l>विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥</l>
</lg>
<p>1 पूतीकग्रहणे इति पाठः स। धुरिति भाति.</p>
<pb n="62" />
<p>मन्दारमञ्जर्यां विशेष प्रमाणान्तराभिधानम्
(मं. टि ) इति । अथ मतं 'घटतद्भेदा दिपदानामत्यन्ताभिन्नार्थत्वं भवेत् । तथापि तेषामपर्यायता निर्वाहार्थ न विशेषः
कल्पनीयः । घटत्वभेदत्वादिप्रवृत्तिनिमित्त मेदादेव अपर्यायतोपपत्तेः । न च घटतद्भेदयोर्भेदाभावे कथं घटत्व भेदत्वयो -
रपि भेद: ? इति वाच्यं । धर्मिभेदाभावेऽपि धर्म भेददर्शनात्' इति । तन्न । अत्यन्ताभिन्नार्थाभिधायिनां शब्दानां प्रवृत्ति-
निमित्त मेदमात्रेणापर्यायत्वे घटकलशादिशब्दानामध्यपर्यायताप्रसङ्गात । कपालोपादानत्वं घटत्वं, कपालसंयोगास-
मवायिकारणकत्वं कलशत्वं इत्यपि वक्तुं शक्यत्वात् । ' स्थितस्य गतिश्चिन्त्यते' इति कथमतिप्रसङ्गः इति चेन्न ।
अनतिप्रसञ्जकस्यैव चिन्तनीयत्वात् । तस्मात् 'शुक: पट:' इत्यादावपि विशेषबलादेवापर्यायत्वं वाच्यं ।
विशेषलक्षणान्तरस्थापनम्
एवं च अभिन्नार्थाभिधाय्यनेक शब्दापर्यायता निर्वाहकत्वं च विशेषलक्षणं स्थापितं भवति । भेदसञ्जीविन्यां
त्वलाभिर्विशेषमाच्छाद्य नैयायिकादिपक्षाश्रयणेन भेदपटादिशब्दानामपर्यायत्वं प्रत्यपादीति न तेनास्य विरोधः ।
विशेषे अनुमानान्तरम्
'अयं घटः एतद्धटनिष्ठभेदातिरिक्तभेदकार्यकराश्रयः घटत्वात् घटान्तरवत्' इत्यनुमानाच विशेषसिद्धिः ।
न चास्यानुमानस्य आभाससमानयोगक्षेमत्वं शङ्कयम् । तर्कानुग्रहाननुग्रहाभ्यां विशेषात् ।
विशेषस्य शक्तिविशेष रूपत्वसमर्थनम्
यच्चोक्तं, अपि च कोऽयं विशेष : इत्यादि । तत्र शक्तिविशेषो विशेष इति ब्रूमः । शक्तेः खादि
षये कथं कार्यकरत्वं ? इति वाच्यं, विशेषाख्यायाः शक्तेर्धर्मिग्राहकप्रमाणेन अभिन्ने भेदकार्य विषयकत्वाकारेणैव
सिद्धत्वात् अभिन्ने भेदकार्यस्य स्वाविषयत्वाभावात् ।
विशेषस्य धर्मिपदार्थस्वरूपत्वसमर्थनम्
स च विशेषस्तत्पदार्थस्वरूपमेव । न च तथात्वे आश्रयायिभावानुपपत्तिः । स्वाभिन्नेऽपि स्वाश्रयत्वसम्पा
दकत्वाकारेणैव तत्सिद्धेः ।
विशेषाङ्गीकारे अनवस्थादोषपरिहारः
यञ्चोक्तं ' किं च विशेषे विशेषाङ्गीकारे अनवस्था' इत्यादि । तत्र विशेषे विशेषो नास्तीति ब्रूमः । कथं
तर्हि तत्र मेदकार्यदर्शनं ? आधारभूत विशेषमाहात्म्यबलादेवेत्यवेहि ।
अन्यत्रादृष्टं विशेषे माहात्म्यं धर्मिग्राहकमानसिद्धम्
व
कुत एतत् ? इत्थं, यथा ' ज्योतिष्टोमेन यजेत' इति तृतीयया यागस्य करणत्वे प्रामाणिके सति तन्नि
बहा कालान्तरदेशान्तरदेहान्तरभोग्यफलं कल्पयित्वा तस्य च फलस्म सद्यः प्रध्वस्त यागजन्यत्वानुपपत्तिपरिहारार्थ
मध्ये अपूर्वमित्यादिकं कल्प्यते । प्रमाण सिद्धार्थनिर्वाहार्थं कल्प्यमानस्यापि प्रामाणिकत्वात् । एवं प्रकृतेऽप्युक्त-</p>
<pb n="63" />
<p>उपाधिखण्डने
(मं. टि.) प्रकारेण विशेषे प्रामाणिके सति तस्य यावता विना न निर्वाहस्तावत्सर्वमपि कल्पयामः । विशेषनिर्वा
हकस्य सर्वस्यापि विशेषग्राहकप्रमाणेनैव आक्षिप्तत्वात् । यथाहुः
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि " इति ।
तस्माद्विशेषे साधकसद्भावात् बाघकाभावाच्च विशेषोऽङ्गीकर्तव्य इति सविशेषाभिन्न इति साधूक्तं ।
ईश्वरगतसार्वश्यादिगुणानां सत्यत्वाक्षेपपरिहारौ
(टी.) भवेदेवं, यदि सार्वज्ञ्यादिकमीश्वरस्य सत्यं स्यात् । न चैतदस्ति । तत्र प्रमाणाभावात् । 'यः
सर्वज्ञः' इत्यादिश्रुतयस्तु सार्वज्यादिकमेव प्रतिपादयन्ति । न पुनस्तस्य सत्यतां । तथा अश्रवणात् । मृषा
विरुद्धधर्माधिकरणतया तात्विक भेद प्रतीत्युपपादनमयुक्त । अतिप्रसङ्गादिति । अत आह
सत्यः सो अस्य महिमेत्यादिवाक्यान्मृषा न च ।
।
सार्वज्ञ्यादिगुणा त्रिष्णोरिति वर्तते । यद्यपि 'यः सर्वज्ञः' इत्यादिश्रुतयः सार्वज्ञ्यादिकमेव प्रति
पादयन्ति तथापि सः वेदोदितः, अस्य महिमा सर्वज्ञत्वादि, सत्य एव इति वाक्यान्तरात्
सत्यता वगमात् न सार्वश्यादिकं मृषा इति ।
(मं. टि.) ॥ तथा अश्रवणादिति ॥ ' सर्वज्ञत्वादिकं सत्यं' इति अश्रवणादित्यर्थः । यत्र शब्दो गृही-
तसङ्गः कः तत्र प्रतीति जनयति । न च सर्वज्ञादिशब्दाः तत्सत्यत्वगृहीतसङ्गतिका इति भावः । ननु विरुद्धधर्में
4
। रेव भेदसिद्धौ न तत्सत्यता अपेक्ष्यत इति । तत्राह ॥ मृषेति ॥ अतिप्रसङ्गादिति ॥ शुक्तिकायां शुक्तिकात्व-
विरुद्धस्य रजतत्वस्यारोपितस्य सत्वेन शुक्तिकायाः शुक्तिकातो मेदप्रसङ्गादित्यर्थः ।
सार्वश्यादिगुणबोधकानामेव श्रुतीनां तत्सत्यत्वे प्रमाणत्वसमर्थनम्
(टी.) अङ्गीकृत्य चेदमुदितं । वस्तुतस्तु वस्तुविषयकमेव ज्ञानं तत्सत्यत्वे प्रमाणं । न पुनस्तत्र
प्रमाणन्तरापेक्षा । प्रामाण्यस्वतस्त्वस्य सिद्धत्वात् । अतो ' यः सर्वज्ञः' इत्यादिश्रुतिरेव तत्सत्यतां प्रति-
पादयतीत्यनुपपन्न एवाक्षेपः । एवं सति शुक्तिरजतादिसत्यतापि स्यादिति चेन्न । औत्सर्गिकप्रामाण्यस्य
करणदोषैर्बाधकप्रमाणरपनयनेन तन्मिथ्यात्वस्य स्थितत्वात् । न चैवमेवास्तु प्रकृतेऽपीति वाच्यं । कर-
णदोषचा धकप्रमाणाभावादित्याह</p>
<pb n="64" />
<p>मन्दारमञ्जर्या सार्वश्यादिगुणबोधकानामेव श्रुतीनां तत्सत्यत्वे प्रमाणत्वसमर्थनम् ३७१
न च वेदोक्त मिथ्यात्वे मानं...........
(टी.) अत्र न च तन्मिथ्यात्वे मानं इति वक्तव्ये वेदोक्तेति करणदोषाभावोपपादनार्थमुक्तं ।
अपौरुषेयतया वेदे दोषाभावेऽपि प्रतिपत्तुरेव दोषः सम्भवतीति चेन्न । तस्यापि बाधकप्रमाणोन्नेयत्वेन
तदभावे अभावनिश्चयात् ।
।
।
(मं. टि. ) ॥ अङ्गीकृत्य चेदमुदितमिति ॥ यथा 'विज्ञानमानन्दं ब्रह्म' इत्यादौ सत्यपदाभावेऽपि स्वतः
प्रमाणभूतया श्रुत्यैव विज्ञानाद्यात्मकत्वं ब्रह्मणः पारमार्थिकसत्यं सिद्धयति तथा सर्वज्ञत्वादिकमपि श्रुत्या पारमा-
र्थिकं सत्यं सिद्धयतीत्यर्थः । यद्यपि सत्यत्वं न पदार्थ : नापि वाक्यार्थः सत्यत्वस्य सर्वज्ञा दिपदार्थत्वाभावात् संसर्गव्य-
तिरिक्तत्वाच्च, तथापि श्रुतेः प्रामाण्यात् तदर्थेन सत्येन भवितव्यं इति आर्थिकं सत्यत्वं वाक्यार्थः । शक्यार्थस्य
च अर्थात् सत्यत्वानङ्गीकारे ' सत्यं ज्ञानं ' इत्यादावपि 'ब्रह्मण एव सत्यत्वं प्रतिपाद्यते न सत्यत्वस्य सत्यत्वं'
इति ब्रह्मणि या सत्यता तस्याः सत्यता न स्यात् । इष्टापत्तिरिति चेन्न । ब्रह्मसत्यताया असत्यत्वे ब्रह्मासत्यताप्र-
सङ्गादिति भावः । ननु श्रुतेः प्रामाण्यमेव कुतः येन सत्यत्वं पारमार्थिकं स्यादित्यत आह ॥ 'प्रामाण्यस्येति
॥ सिद्धत्वादिति ॥ स्थितत्वादित्यर्थः । ननु प्रामाण्यं स्वतस्तिष्ठतु । किं चातः ? तस्मिन् हि ज्ञातेऽर्थसत्यता
ज्ञायेत इति, अत्राप्येतदेवोत्तरं ॥ 2 ग्रामण्यस्येति । सिद्धत्वादिति ॥ ज्ञातत्वादित्यर्थः । पक्षद्वयेऽप्यतिप्रसङ्गं
शङ्कते ॥ एवं सतीति ॥ स्यादित्युपलक्षणं । प्रमीयेतेत्यपि द्रष्टव्यं । परिहरति ॥ नेति ॥ प्रामाण्यस्येत्युपलक्षणं
तत्प्रमितेश्चत्यपि द्रष्टव्यं । तत्र प्रामाण्यस्थापनयने हेतुः करणदोषैरिति । तत्प्रमित्यपनयने हेतु: बाघकप्रमाणैरिति 1
अनुसंहितैरिति शेषः । बाधकप्रमाणोदयात्पूर्व तु प्रामाण्यं ज्ञायत एवेति भावः । स्थितत्वादित्यत्र प्रमितत्वादित्य
प्यध्याहर्तव्यं । शङ्कते ॥ अपौरुषेयतयेति ॥ परिहरति ॥ नेति ॥ प्रतिपत्तर्हि दोषः पदवाक्ययोः शक्तितात्पर्या-
परिज्ञान । तदपि प्रतीतार्थबाघकप्रमाणोत्नेयं । बाघकप्रमाणाभावेऽपि पदवाक्ययोः शक्तितात्पर्य सन्देह मात्रेण प्रती.
तार्थपरित्यागे गवानयनवाक्यं श्रुत्वा तात्पर्यसन्देहेन न प्रवर्ततेत्यर्थः ।
सार्वश्यादिगुणानां मिथ्यात्वाभावेन परमते अज्ञानासम्भवोपसंहारः
,
6
(टी.) ननु 'नेह नानाऽस्ति किञ्चन इत्यादिश्रुत्या 'विमतो विशिष्टाकारो मिथ्या विशि-
ष्टाकारत्वात् नीलं नम इति विशिष्टाकारवत्' इत्याद्यनुमानेन च सार्वज्ञ्यादेमिथ्यात्वप्रतीतेः कथ तत्र
प्रमाणाभाव: ? अतो व्यावहारिक सार्वज्ञ्यादिविषया: 'यः सर्वज्ञः' इत्यादिश्रुतय इत्यत आह
.. तन्मानताऽपि न ॥ १४ ॥
6
'नेह नाना' इत्यादिश्रुतेः तत्र सार्वज्ञ्यादिमिथ्यात्वे मानताऽपि नास्ति । तथोपपादित -
मन्यत्र । एवं तस्य अनुमानस्यापि मानता नास्ति । धर्मिंग्राहकप्रमाणविरोधादिति व्याख्येयं ।
1 ॥ प्रामाण्येति ॥ इति मुद्रितपुस्तकगत एव पाठः साधुः प्रामाण्यस्वतस्त्वस्येति टीकानुरोधात् 2 ॥ प्रामाण्येति ॥</p>
<pb n="65" />
<p>उपाधिखण्डने
(टी.) न मानमित्युक्तं । यत् उच्यते तस्यापि मानता नास्तीति अपिशब्दसम्बन्धः । तदेवं अद्वैतमते
अज्ञानासम्भवोऽभिहितः
।
अज्ञानासम्भवादेव अद्वैतवादे अधिकार्याद्यसम्भवः
ततः किं ? इत्यत आह
अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनां ।
।
अज्ञो हि शास्त्रेऽधिक्रियते । उक्तविधया अज्ञानानुपपन्या अज्ञो न सम्भवति । ततश्च ऐक्य-</p>
<lg>
  <l>वादिनां मते शास्त्रस्य अधिकारी न सम्भवति ।</l>
  <l>अतो नाज्ञातमिति च विषयो विषयान्तरे ॥ १५ ॥</l>
</lg>
<p>अतः अज्ञानासम्भवात् अज्ञातं वस्तु न सम्भवति इति हेतोः ऐक्यवादिनां मते शास्त्रस्य
विषयश्च न सम्भवति । किं तु ? विषयान्तरे देशान्तरे भेदवादे अधिकार्यादिकं सम्भवतीति उक्तो
च्यमानवक्ष्यमाणशेषतया व्याख्येयं । अज्ञातो हि शास्त्रस्य विषयो भवति शास्त्रस्य परार्थत्वात् ।
अज्ञाभावात्फलं कस्य....
।
अज्ञे हि सति अज्ञाननिवृत्तिलक्षणं शास्त्रफलं तस्य सम्भवति । उक्तप्रकारेण अज्ञानानुपपच्या
अज्ञाभावात् फलं कस्य स्यात् ? न कस्यापीति ।
योगः शशनृशृङ्गयोः ।
p.
एवं अधिकारिविषय प्रयोजनानां असत्वात् तत्सम्बन्धः शशनृभृङ्गयोः सम्बन्ध इवानुपपन्न एव ।
तथा च अद्वैतमते शास्त्रस्य अनारम्भणीयत्वं स्यादिति ।
.......
(मं. टि.) व्यावहारिकसर्विज्ञ्यादिविषयकत्वात् सर्वज्ञादिवाक्यानामत्यन्ताप्रामाण्यं च नास्तीत्याह ॥ अत
इति ॥ सन्मानताऽपि न इत्युक्तं मूलप्रन्थे । तदयुक्तं श्रुत्यनुमानयोः सिद्धान्तिनापि प्रामाण्याङ्गीकारादित्या-
शकचाह ॥ नेह नानेति ॥ तन्मानतेत्यत्र तच्छन्देन श्रुत्यनुमाने परामृश्येते । तत्र श्रुतेः परोक्तार्थप्रच्यावनरूप-
मप्रामाण्यं । अनुमानस्य तु सर्वथेति मूलग्रन्थार्थ इत्यर्थः ॥ धर्मिग्राहकप्रमाणविरोधादिति ॥ सार्वज्ञ्यादीनाम-
सिद्धौ आश्रयासिद्धिः । सिद्धौ च श्रुत्यैव च सिद्धत्वं वाच्यं । श्रुतेश्च प्रामाण्यात् सत्यत्वञ्च अर्थात् सिद्धमिति
मिथ्यात्वसाधने धर्मिग्राहकप्रमाणबाघ इत्यर्थः ।
मूलस्थातः शब्दार्थमाह ॥ उक्तविधयेति । विषय इति कारिकाखण्डे अतो न इत्यस्माद्ग्रन्थात् न इत्य-
नुकृष्यते । ऋशब्दश्च भिन्नकम इत्याह । विषयश्च न सम्भवतीति । विषयान्तरे इत्येतत् वाक्यान्तर मित्याह</p>
<pb n="66" />
<p>अज्ञानासम्भवादेव अद्वैतवादे अधिकार्याधसम्भवः
(मं. टि.) ॥ किं त्विति ॥ उक्तोच्यमानेति ॥ भेदस्योपपादितत्वेन भेदमूलस्य विषयादेः उपपादितप्रायत्वात्,
इदानीं च परमतनिरासेन खमते विषया देरर्थादुक्तत्वात् अधिकार्यादेः सविस्तरं वक्ष्यमाणत्वाञ्च त्रितयशेषत्वं विषया-
न्तरे इत्यस्य वाक्यस्येत्यर्थः । तत्र विषयाभावमुपपादयति ॥ अज्ञातो हीति ॥ शास्त्रस्येति ॥ शास्त्रस्य परज्ञान-
प्रयोजनकत्वात् । परस्य चाज्ञात एव जिज्ञासा न ज्ञात इत्यर्थः । अज्ञाभावात्फलं कस्य इति वाक्यान्तरं । योगः
शशनृशृङ्गयोः इत्यस्य असङ्गतार्थत्वमाशङ्कय इवशब्दाध्याहारेण वाक्यार्थमाह ॥ एवमधिकारीति ॥
अज्ञानदौर्घटथस्य भूषणत्वशङ्का तन्निरासश्च
(टी.) नन्वज्ञानासम्भव एव कथं? ब्रह्मणो जीवस्य वा अज्ञानोपपत्तेः । न च तत्र दौर्घट्यमुक्त-
मज्ञानस्येति वाच्यं । यतोऽज्ञानमारोपितमेव । परमार्थसतो हि दौर्घटथं बाधकं नारोपितस्य । प्रत्युत
भूषणमेव । अन्यथा आरोपितत्वानुपपत्तेः । तदुक्तं
दुर्घटत्वमविद्याया भूषणं न तु दूषणं ।
कथञ्चिद्धटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति ।
तथा च कथमधिकार्यभावः? इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति
दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ॥ १६ ॥
।
यद्यविद्याया अनुपपन्नतैव भूषणमित्यङ्गीक्रियते तदा आत्मनोऽविद्या इत्यपि नाङ्गीकर्तव्यं
वस्तुद्वयकल्पने कल्पनागौरवात् । किं नाम ? आत्मैव अविद्या इत्यङ्गीकार्य । ततश्च आत्मैव आत्माव-
रणं चेत् सर्वदा आवृतत्वप्रसङ्गो मोक्षे च आत्मनिवृत्तिरित्याद्यनुपपत्तिः अविद्याया भूषणं इत्येव समा.
धानं वाच्यं स्यात् । तस्मादनुपपत्तिर्वा परिहर्तव्या, अज्ञानं वा त्याज्यं ।
सत्यां प्रतीतौ इदमुच्यते । न च आत्मनोऽविद्यात्वं प्रतीयत इति चेत्समं प्रकृतेऽपि । न हि
सर्वज्ञस्य ब्रह्मणोऽज्ञानं प्रतीयते । नापि ' परमात्मैवोपाध्यवच्छिन्नोहमज्ञः' इति प्रतीतिरस्ति । यथा-
स्वरूपं प्रतिभासाभावश्च आत्मरूपाविद्ययैव कल्प्यतां लाघवादित्युक्तमेवेति ।
किञ्च अनुपपत्तिर्भूषणमित्यङ्गीकुर्वता अधिगतवेदान्तस्याप्य द्वैतवा दिनो नित्यनिरयप्राप्तिरङ्गीक
र्तव्या । सर्वज्ञस्य अज्ञानानुपपत्तेरिव अधिगतमहावाक्यस्य नित्यदुःखानुपपत्तेरपि भूषणत्वसम्भवात् ।
निरयादेरप्यविद्यामयत्वात् इत्याह
अन्धं तमोप्यलङ्कारो नित्यदुःखं शिरोमणिः ।
स्यादिति वर्तते । अधिगतमहावाक्यस्येति शेषः । अनेन परब्रह्मणोऽज्ञानमङ्गीकुर्वाणानामिदं फलं
सचितं भवति ।</p>
<pb n="67" />
<p>उपाधिखण्डने
।
(मं. टि.) । परमार्थसतो हीति ॥ अरजते रजतत्वस्य मिथ्याभूतस्य दुर्घटस्यैव दर्शनादित्यर्थः ।
नन्वस्याः शङ्कायाः अतोऽज्ञासम्भवादेव इत्यतः प्रागेव प्रसक्तत्वात अधिकारिविषयाद्यभावप्रतिपादनानन्तरं तत्प-
रिहारोऽनवसरपराहतः । किंतु ? तत्परिहारानन्तरमेव अतोऽज्ञासम्भवादेव इत्यादिना अधिकारिविषयाद्यभावः
प्रतिपादनीय इत्यत आह ॥ सिंहावलोकनन्यायेनेति ॥ सर्वदा आवृतत्वप्रसङ्ग इति । आवरणस्य आत्मनो
नित्यत्वा दिव्यथः ॥ मोक्षे च आत्मनिवृत्तिरिति ॥ आवरणानिवृत्तौ मोक्षस्यैवासम्भवादित्यर्थः । 'अरजते रज-
तत्वं च दोषवशात् प्रतीयते' इत्यादि उपपत्तिभिरेवोपपाद्यत इति दृष्टान्तोऽप्यसङ्गत इति द्रष्टव्यं । चोदयति
॥ सत्यां प्रतीताविति ॥ किमत्राज्ञानमात्रं प्रतीयते ? किं वा सर्वज्ञस्याज्ञान ? आद्ये इष्टापत्तिः । तत्रानुपपत्त्यभाव-
श्वेत्यभिप्रेत्य द्वितीयं दूषयति ॥ न हीति ॥ नन्वथाऽपि 'अहमज्ञः' इति प्रतीयते । अहमर्थश्चास्माभिः परमात्मा
भिन्नोऽनीकियत इति कथं सर्वज्ञस्याज्ञानप्रतीत्यभावः ? इति चेत् तत्रापि किमहमर्थमात्रस्याज्ञान प्रतीयते ? किं
वा अहमर्थस्य परमात्माभेदोऽपि ? आद्योऽङ्गीक्रियत इति मत्वा द्वितीयं दूषयति ॥ नापीति ॥ ननुतर्हि अनुपप-
त्तिपरिहाराय अज्ञानपरित्यागश्चेत् अपरिच्छिन्नानन्दाद्यात्मकब्रह्मप्रतिभासाभाव: किंनिबन्धन ? इत्यत आह
॥ यथेति ॥ किञ्चेति ॥ युक्तिविरोधस्य भूषणत्वे श्रुतिविरोधस्यापि भूषणत्वप्रसङ्गादिति भावः । नन्वविद्याया-</p>
<lg>
  <l>एव दुर्घटत्वं भूषणं न निरयादेरित्यत आह ॥ निरयादेरपीति ॥ उपादानोपादेययोरभेदादिति भावः ।</l>
  <l>॥</l>
</lg>
<p>मायावादतत्ववादयोरनारम्भणीयत्वारम्भणीयत्वयोर्विवरणम्
(टी.) 'वेदवेदान्तयोर्जीवत्रह्मणोरेकत्वे तात्पर्य' इत्यङ्गीकारे अधिकार्याधनुपपन्या अनारम्भ-
णीयत्वं स्यात् । भेदपक्षे तु अधिकार्यादिसम्भवात् आरम्भणीयत्वोपपत्तिरिति विषयान्तरे इत्यनेनोक्तं ।
तत् विवृणोति</p>
<p>52
अतः परो मात्रयेतिपूर्वश्रुतिनिदर्शितः ॥ १७ ॥</p>
<lg>
  <l>अन्यमीशमितिश्रुत्या भिन्नजीवदृशं गतः ।</l>
  <l>भिन्नत्वेनात्मसादृश्यदो यदेतिश्रुतेः सदा ॥ १८ ॥</l>
</lg>
<p>अत इति अद्वैतपक्षे अधिकार्याधसम्भवं परामृशति । अत्र आद्यार्ध श्लोकेन परमेश्वरः शास्त्रस्य
विषयो दर्शितः । स च ईश्वरपदादेव विदित इति कथं शास्त्रस्य विषयः स्यात् ? इत्यत उक्तं परो मात्र-
येति । ईश्वरसत्तामात्रस्य कथञ्चित् अधिगतत्वेऽपि तस्य अपरिमितगुणाकरतया श्रुतिनिदर्शितस्य तथा
अनवगमात् सामान्यतो विशेषतश्च तदवगमार्थ शास्त्रमिति । द्वितीयार्धेन अधिकारी दर्शितः । स च
परमात्मात्मकश्चेत् सर्वज्ञतया नाधिकारी स्यादिति श्रुत्या भिन्नत्वेन समर्थितः । यद्यपि अद्वैतपक्षे अधि-
कार्याद्यसम्भवस्योक्तत्वात् भिन्न एवाधिकारी सिद्धः, तथापि प्राक् 'प्रत्यक्षादिसिद्धो भेदः' इत्युक्तं, तत्र
प्रत्यक्षानुमाने दर्शिते, आगमप्रदर्शनायेदं श्रुत्युदाहरणं । भिन्नत्वेन इत्यनेन प्रयोजनं दर्शितं । तत्र
।</p>
<pb n="68" />
<p>मायावादतत्ववादयोरनारम्भणीयत्वारम्भणीयत्वयोर्विवरणम्
(टी.) भिन्नत्वेन इति स्वरूप सङ्कीर्तनं । सादृश्योक्त्या भेदस्य लब्धत्वात् । सदा इति सादृश्यविशेषणं ।
प्रयोजने विप्रतिपत्तेः ' यदा पश्यः' इति श्रुतिरुदाहृता । जीवदृशं गतः इत्यनेन अधिकारिविषययोः
सम्बन्धो दर्शितः । दृशं शास्त्रसाध्यामिति शेषः । तेन शास्त्रेण अधिकार्यादेः । सादृश्यदः इत्यनेन
विषयप्रयोजनयोः । तत्रापि जीवस्येति शेषः । तेन अधिकारियोजनयोरपीति । विषयाद्युपपन्नमिति वाक्य
शेषः । तेन अत इत्यस्य सम्बन्धः । एवमद्वैतमते शास्त्रस्यानारम्भणीयत्वप्रसङ्गानाद्वैतमतं सम्भवतीति
युक्तमेव नारायणस्यागण्यगुणवत्वमुपपादितं ।
।</p>
<p>(मं. टि.) । विषयान्तरे इत्यनेनैव स्वमते विषयादेः समर्थितत्वादुत्तरग्रन्थवैयर्थ्यमित्याशङ्कय तद्विवर-
णरूपत्वान्न वैयर्थ्यमित्याह ॥ भेदेत्यादिना ॥ अतः परो मात्रया इति मूलमन्थे पूर्वशब्द आदिपर्यायः ॥ तथाऽन-
वगमादिति ॥ लोकत इति शेषः । ननु सामान्याकारेण ज्ञातत्वादेव न विषयत्वं । विशेषाकारस्य च अत्यन्ता-
प्रसिद्धत्वादेव न विषयत्वमिति विषयोऽनुक्त एव स्यादिति चेन्न । जिज्ञासाविषयो हि द्विविधः । धर्मी प्रकार-
श्चेति । तत्र प्रकारप्रसिद्धेरहेतुत्वेऽपि धर्मिप्रसिद्धेरेव स्खजिज्ञासा हेतुत्वात् । अत्र च सकलकल्याणगुणत्वादीतां प्रका-
राणामसिद्धत्वेऽपि नारायणो धर्मी प्रसिद्ध इति जिज्ञासोचितैव । अन्यथा तवापि प्रश्नो न स्यादित्यलं ॥ सामा-
न्यत इति ॥ अगण्यगुणाश्रयत्वेनेत्यर्थः । विशेषत इति ॥ अगण्यगुणा आनन्दादय इति प्रतिपादनेनेत्यथ:
॥ द्वितीयानेति । विषय विशेषकथनेन अधिकार्यपि सूचित इत्यर्थः ॥ प्रत्यक्षादिसिद्धो भेद इति ॥ प्रत्यक्षेण
सत्यतया भेदः सिद्ध इत्यर्थः । प्रत्यक्षेण सत्यतया भेदसिद्धिश्च भेदमाहिप्रत्यक्षे बाघाभावात् ।
#
भेदप्रोहिप्रत्यक्षे बाधाभावाक्षेप
ननु किमत्र स्खबाधाभावो हेतु: ? किंवा अन्यबाधाभाव ? बाघमात्राभावो वा ? नाद्यः प्रसिद्ध्यप्रसिद्धियां
तदभावस्य दुर्ज्ञानत्वात् । न द्वितीयः रज्जुसर्पभ्रान्तिबाधरहितशुक्तिरजतज्ञाने व्यभिचारात् । न तृतीयः प्रामा-
णिकाप्रामाणिकयोः सामान्यस्याप्यसम्भवात् । किं च किमेतत्कालीयबाधाभावो हेतु:? किं वा सार्वकालिकबाधा-
भाव: ? नाद्यः तात्कालिकबाधाभावस्य शुक्तिरजतादिज्ञानेऽपि सम्भवात् । न द्वितीय: कालान्तरभाविबाधकामावस्य
वर्तमानमात्रग्राहिणा प्रत्यक्षेण निश्चेतुमशक्यत्वात् । अपि च यत्किञ्चित्पुरुषबाधाभावो भ्रमेऽपि सुलभः । सर्व-
पुरुषबाधाभावस्तु प्रकृतेऽपि दुर्ज्ञान इति ।
★
B
भेदग्राहिप्रत्यक्षे बाधाभावोपपादनम्
अत्रोच्यते, खबाधराहित्यं हेतुः । तत्र यदुक्तं ' तत्प्रसिद्धयप्रसिद्धिभ्यां तदभावस्य दुर्ज्ञानत्व दिति' तत्रो-
तरं दत्तमेव अनादित्व निर्वचनसमये, अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वादिति ।</p>
<pb n="69" />
<p>उपाधिखण्डने
अत्यन्ताभावस्य निष्प्रतियोगिकत्ववादिनामाशयनिरूपणम्
(मं. टि.) ननु कथमभावो निष्प्रतियोगिकः स्यात् ? इति चेन्न । किमिदं निष्प्रतियोगिकत्वं ? प्रतियोगि
प्रतीतिनिरपेक्षत्वं वा ? प्रामाणिकप्रतियोगिहीनत्वं वा ? नाद्य: अनुक्तोपालम्भात् । न ह्यस्माभिरत्यन्ताभावस्य प्रतीतिः
प्रतियोगिप्रतीतिनिरपेक्षेत्युक्तं । किं तहिँ ? 'प्रसक्तप्रतिषेधः' इत्युक्तं ।
अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वे अनुमानप्रमाणोदाहरणम्</p>
<p>न द्वितीय: ' अभावत्वं निष्प्रतियोगिकनिष्ठं सत्तासाक्षाद्वयाप्यधर्मत्वात् भावत्ववत्' इत्यनुमानेन निष्प्र-
नियोगिकत्वसाधनात् ।
अत्यन्ताभावस्य सत्प्रतियोगिकत्वानङ्गीकारे अनुपपत्तिशङ्का
अथ भुतलान्तरे घटे विद्यमान एव 'एतद्भुतले घटो नास्ति' इति घटाभावोऽनुभूयते । न चायं प्राग-
भावाभावयोरन्यतरः । प्रतियोग्यसमानकालीनत्वात् तयोः । नाप्यन्योन्याभावः । 'भूतलं घटो न भवति '
इति प्रतीतिप्रसङ्गात् । ततः परिशेषात् अस्यन्ताभाव इति गम्यते । ततश्च अत्यन्ताभावः कथं निष्प्रतियोगिकः
स्यात् ? इति चेन्न ।
अत्यन्ताभावस्य सत्प्रतियोगिकत्वनिरासः</p>
<p>इह भूतले घटो नास्ति' इत्यादौ भूतलघटसंसर्गस्यैव निषिद्धयमानत्वात् । अवश्यं चैतत् त्वयाप्यङ्गी-
करणीयम् । घटस्य भूतलान्तरे सत्वेन स्वरूपेण निषेधासम्भवात् / संसृष्टत्वाकारेण निषिद्धयते घट इति चेत्
तहिँ प्राप्ताप्राप्तविवेकेन संसर्ग एव निषिद्धयत इत्यायातं । 'सविशेषणे विधिनिषेधौ सति विशेष्ये बाघे विशेषण-
मुपसङ्कामते' इति न्यायात् । कथं तर्हि घटशब्दोपादानं ? इति चेन्न । ' भूतले ' इत्यधिकरणसप्तम्या भूतल-
स्याश्रयत्वेऽभिहिते आश्रयत्वप्रति सम्बन्धिनि आधेयत्वे च अर्थादुक्ते 'किंनिष्ठा आधेयता ?' इत्याकाङ्क्षायां 'घट-
निष्ठा' इति ज्ञापयितुं घटशब्दोपादानात् । एवं च 'इह भूतले घटो नास्ति' इत्यत्रापि भूतलघटयो राधा राधेयभावो
निषिद्धयत इति स्थितं । तत्र यदि नाम तयोराधाराधेयभावः प्रागभूत् तदा अयमनुभवस्तत्प्रध्वंस विषयकः । यदि भवि-
व्यति तदा तत्प्रागभावविषयकः । यदि न जातः नास्ति न भविष्यति तदा अत्यन्ताभावविषयकः । एवं च 'शश-
विषाणं नास्ति' इत्यादे: 'शशे विषाणं नास्ति' इत्याद्यर्थोऽपि न कल्पनीयः । तत्राप्यप्रामाणिकस्य शशवि-
षाणस्यैव प्रतियोगित्वोपपत्तेः । तस्मादत्यन्ताभावस्य निष्प्रतियोगिकत्वात् स्खबाघात्यन्ताभावो हेतुरिति न कश्चि-
द्दोष:
:।
भेदप्रत्यक्षे त्रैकालिकबाधाभावस्य प्रत्यक्षवेद्यत्वसमर्थनम्
यञ्चोक्तं 'किमेतत्कालीनबाघाभाव: ? इत्यादि ' तत्र त्रैकालिकबाघाभावो हेतुरिति वदामः । न च तद-
निश्चयः । प्रत्यक्षेणैव तन्निश्चयात् । तथा हि</p>
<lg>
  <l>भावि तहाघकज्ञानं बाध्यज्ञानार्थशून्यतां ।</l>
  <l>तत्काले नैव गृह्णाति कालभेदे त्वबाधकं ॥</l>
</lg>
<pb n="70" />
<p>मन्दारमअर्यां अत्यन्ताभावस्य सत्प्रतियोगिक्त्वनिरास:</p>
<p>(मं. टि.) कालान्तरभावि बाघकज्ञान बाध्यज्ञानविषयाभाव गृह्णाति ? न वा ? न चेत् कथं बाधकं स्यात् ?
गृह्णाति चेत् बाध्यज्ञानेन यस्मिन् काले स्वविषयोऽस्तीति गृहीतस्तस्मिन्नेव काले तद्विषयं नास्तीति गृहीयात् ? किंवा
कालान्तरे नास्तीति ? द्वितीये तत् बाधकमेव न स्यात् । कालभेदेन तयोर्विरोधपरिहारात् । न हि घटकाले
तस्यास्तित्वज्ञानं तदभावकाले तन्नास्तिताग्राह केण बाध्यते । नाद्यः अनेन ज्ञानेन एतत्काले स्वविषयस्य प्रमितत्वेन
कालान्तरभाविनापि एतत्काले एतद्विषयाभावस्य गृहीतुमशक्यत्वात् । कालान्तरभाविना एतद्विषयामावग्रहणे च
एतद्विरोधेन तस्यैवाप्रामाण्यनिश्चयात् ।
भेदप्रत्यक्षे शुक्तिरजतप्रत्यक्षात् वैलक्षण्योपपादनम्
नन्वेवं तर्हि शुक्तिरजतादिज्ञानेनापि स्वविषयस्य त्रैकालिकबाधाभावो गृह्येतेति चेन्न तस्याप्रमाणत्वात् ।
अस्य तु प्रमाणत्वात् । प्रपञ्चग्राहि प्रत्यक्षस्य प्रामाण्यमेव कुतः ? इति चेत् किं कुत उत्पद्यते ? इति प्रश्नार्थः । किं
वा कुतो ज्ञायते ? इति । उभयत्रापि स्वत एवेति परिहारः । प्रामाण्यस्वतस्त्वस्यान्यत्र निर्णीतत्वात् । नन्वयं
परिहारः शुक्तिरजतज्ञानेऽपि समान इति चेन्न । संवादभावाभावाभ्यां विशेषात् ।
संवादस्य अप्रामाण्यशङ्कानिरासकत्वे अनवस्थादोषाशङ्का तत्परिहारच
ननु संवादेऽपि कथं विश्वास : ? इति चेत् संवादान्तरादित्यवेहि । ननु तर्ह्यनवस्था स्यात् । न स्यात् । न
हि सर्वत्र संवादापेक्षा येनानवस्था । किं तु ? यत्र मनोवृत्तिज्ञानेषु विषयव्यभिचारः तत्रामाश्वासकारणसद्भावात्
संवादापेक्षा । साक्षिज्ञाने तु न संवादापेक्षा । साक्षिणः कदापि विषयव्यभिचाराभावात् । एवं च साक्षिविषयेषु
सुखादिषु यावत्पर्यवसानं तावदेव संवादापेक्षेति नानवस्था । प्रपञ्चंत चैतत् तत्र तत्र टीकाकारैरिति ।
भेदप्रत्यक्षे भाविबाधकनिश्चायकप्रमाणाभावः
अपि च कालान्तरे बाधकं भविष्यतीति किं निश्चीयते ? किं वा संभाव्यते ? नाद्यः निश्चायकप्रमाणाभा-
वात् । अद्वैतश्रुतीनां च अन्यत्र अन्यथा व्याख्यातत्वात् ।
भेदप्रत्यक्षे भाविबाधकसभ्भावनानिरासः
न द्वितीय: सम्भावनाबीजाभावात् । ज्ञानत्वमेव सम्भावनाबीजमिति चेत् तर्हि यत् बाघकज्ञानं सम्भा
व्यते तस्यापि बाधकं ज्ञानत्वात् सम्भाव्यतां । किं चैतादृशश्रद्धाजाड्यवता कालान्तरं भविष्यतीति कथं निरणायि ?
येन तत्र बाधकं सम्भाव्येत ।
भेदप्रत्यक्षप्रामाण्यनिरासार्थमुक्तानां दोषाणां तद्बाधकतयोक्तवचनेष्वतिदेशः
किं च त्वदुक्तबाधकवचनानि प्रमाणानि ? न वा ? द्वितीये फलितमस्मन्मनोरथद्रुमेण । आद्ये कथं प्रामा
ण्यं निरणायि ? अबाधादिति चेत् त्वदुक्तानि बाघकानि त्वमेवानुसन्धत्स्वेत्यलं दुर्बलहिंसया । तस्मात् प्रत्यक्षा-
टिमिटो मेटः इति साधक्तं ।</p>
<pb n="71" />
<p>उपाधिखण्डने
भेदप्रत्यक्षस्य व्यावहारिक भेदपरत्वे किं प्रमाणमिति प्रश्नायोग इति खण्डनोक्ताक्षेपः
(म. टि. ) II इदं श्रुत्युदाहरण मिति ॥ नन्वत्र भेदपतिपादिका श्रुतिः व्यावहारिक भेदपरेति चेत् किमत्र
प्रमाणं ? ननुभे दश्रुतेव्यवहारिक भेदपरत्वे खलु प्रमाणं पृच्छयते । तथा च यत्र प्रमाणं पृच्छयते सोऽर्थः प्रती-
यते ? न बा ? न चेत् कथं प्रमाणप्रश्नस्यावसरः ? अप्रतीताथ प्रमाणप्रश्नायोगात् । प्रतीयते चेत् सा किं भ्रान्तिः? किं
वा प्रमा ? नद्यः । भ्रान्तिसिद्धे प्रमाणं पृच्छतः तवैव भ्रान्तत्वप्रसङ्गात् । न हि भान्तिसिद्धेऽर्थे प्रमाणं कश्चिदनु-
मत्तः पृच्छति । द्वितीये न नितरां प्रमाणप्रश्नः । त्वयैव प्रमितत्वाङ्गीकारात् । प्रमाया: प्रमितत्वेऽपि प्रमाकरणं
पृच्छयत इति चेन्न । करणं विना प्रमानुदयेन प्रमाबलादेव तत्करणस्याप्यनुमानात् । प्रमाकरणसामान्यस्य सिद्ध-
त्वेऽपि विशेषज्ञानार्थं प्रश्न इति चेन्न । ' निर्विशेषं न सामान्यं ' इति न्यायेन विशेषस्यापि सामान्यबलादेव कल्प-
नात् । तावतैवार्थसत्वसिद्धौ विशेष जिज्ञासाया निष्फलत्वाच्चेति कश्चित् स्वव्याघातमध्यजानानः खण्डनवादी
मन्यते ।
खण्डनोक्ताक्षेपस्य स्वव्याहत्या निरास:
तं प्रति ब्रमः ।</p>
<lg>
  <l>सा प्रमाप्रमयोरन्या या मतिस्तव वाक्यतः ।</l>
  <l>निश्चेष्यते तद्विशेष: कथोत्तरमिति स्थितिः ॥</l>
</lg>
<p>ty
।
भेदश्रुतिर्व्यावहारिक भेदपरा ' इति तव वाक्यात्काचित्प्रतीतिरस्माकमपि जायत एव । तत्र यदुक्तं, सा
किं प्रमा ? अप्रमा वा ? इति । तत्र प्रश्न एव नोपपद्यते । इदानीमपि तद्विशेषस्यास्माभिरनिश्चयात् । कथायां हि
प्रवृत्तायां यदि त्वया भेदश्रुतीनां व्यावहारिक भेद परत्वे प्रमाणमभिधीयेत तदा मूलप्रमाणसत्वात् त्वद्वाक्यं प्रमाण-
मिति निश्चित्य करणदोषाभावात् त्वद्वाक्यादस्माक यज्ज्ञानमुत्पन्नं तत्प्रमाणमिति निश्चीयेत । यदि तु त्वया प्रमाणं
नाभिधीयते परं त्वस्माभिरेव अव्यावहारिकपरत्वे प्रमाणमभिधीयेत तदा 'मेदश्रुतिर्व्यावहारिकभेदपरा' इति त्वद्वा-
क्यं मूलप्रमाणाभावात् अस्मदुक्तप्रमाणविरोधाच्चाप्रमाणमिति निश्चीयेत । करणदोषसद्भावात् त्वद्राक्यजा प्रतीतिर
प्रमेति निश्चीयेत । यदि च प्रागेवान्यतरनिश्चयः स्यात्तदा तवापि कथायां प्रवृत्तिर्न स्यात् । कथाफलस्य अन्यत-
रनिश्चयस्य प्रागेव सिद्धत्वात् । ननूत्पन्नं ज्ञानं प्रमात्वेनाप्रमात्वेन वा सिद्धयेत् । उभयौदासीन्यं तु कथं ? इति
चेत् सिद्धयेदिति कोऽर्थः? किमुत्पद्यत इति ? किं वा ज्ञायत ? इति । आद्ये इष्टापत्तिः । वस्तुगत्या तस्य प्रमात्वा
प्रमात्वयोरन्यतरापन्नत्वात् । न द्वितीयः संशयकारणसद्भावे अन्यतरको टेर्निश्चे तुमशक्यत्वात् । न च संशयकार-
णमेव नास्तीति युक्तं । वादिविप्रतिपत्तिरूपकारण सद्भावात् । वयं हि त्वद्वाक्यं मूलप्रमाणरहितमिति मन्यामहे ।
भवांस्तु मूलप्रमाण सहितमिति मन्यते । ततः कथं विप्रतिपत्त्यभावः ? विप्रतिपत्त्यभावे च कथारम्भ एव न स्या
दिति यत्किञ्चिदेतत् । स्वव्याघातस्तु स्पष्ट एव । तस्माद्युक्तः प्रमाणप्रश्नः ।
अथ प्रमाणप्रश्नमङ्गीकृत्य प्रमाणं ब्रूषे अद्वैतवाक्यविरोधादिकं तत्रोत्तरमन्यत्रोक्तमिति ।
1 अत्र प्रमाया इत्यधिकमिति भाति.</p>
<pb n="72" />
<p>भेदव्यावहारिकत्वस्य दुर्निरूपत्वसमर्थनम्</p>
<p>(मं. टि.) किं चेदं व्यावहारिकत्वं नाम ? किं बाध्यत्वं किंवा प्रातिभासिकान्यत्वे सति बाध्यत्वं ? यद्वा
पारमार्थिकान्यत्वे सति प्रातिभासिकान्यत्वं ? अथ वा ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वं ? आहोस्वित् ब्रह्मापरोक्ष-
ज्ञानातिरिक्तज्ञानाबाध्यत्वे सति बाध्यत्वं ? उत व्यवहारनिर्वाहकत्वं ? नाद्यः प्रातिभासिकेऽतिव्याप्ते अत एव
न द्वितीयः प्रातिभासिकस्यापि यत्किञ्चित्प्रातिभासिकान्यत्वेनातिव्याप्तेः । अत एव न तृतीयः प्रातिभासिकस्य
पारमार्थिकान्यस्य यत्किञ्चित्प्रातिभासिकान्यत्वात् । प्रातिभासिकत्वस्यापि व्यावहारिकज्ञानाधीनत्वेन अन्योन्या-
श्रयत् । अत्यन्तं विमर्श व्यावहारिकत्वमनिरूप्य प्रातिभासिकत्वस्य निरूपयितुमशक्यत्वात् । न चतुर्थः ब्रह्मण्यति-
व्याप्तेः । तस्यापि ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वात् । न पञ्चमः प्रारब्धकर्मण्यव्याप्तेः । तस्य ब्रह्मापरोक्षज्ञा-
नानन्तरमप्यनुवर्तमानस्य ब्रह्मा परोक्षज्ञानबाध्यत्वायोगात् । किञ्च अस्मिन्नेव लक्षणेऽव्याप्तिः । स्वस्य स्खस्मिन्नवृत्तेः ।
न हि त्वया अस्माभिरिव लक्षणे लक्षणमङ्गीकृतं । येन सत्यत्वादिलक्षणेष्विव विवक्षितव्यक्तिविशेषे पर्यवसानेन
आत्माश्रयः परियेत । षष्ठस्तु अस्माभिः प्रार्थनीय एवेति व्यावहारिकत्वं दुर्निरूपमिति ।
॥ स्वरूपसङ्कीर्तनमिति ॥ स्वप्रयोजन शरीरानन्तर्भावादिति भावः । ननु 'यदेति श्रुतौ परमं साम्यमुपैतीति
साम्यमेवोच्यते न भेदः' इत्यत आह ॥ सादृश्येति ॥ सदेति सादृश्य विशेषणमिति ॥ अभिव्यक्तानन्दत्वा.
दिना सादृश्यस्य सदातनत्वं प्रध्वंसाप्रतियोगित्वं । न तु त्रिकालवृत्तित्वं । तथात्वे तस्य कृतिसाध्यत्वायोगात्
॥ अधिकारिविषययोः सम्बन्धो दर्शित इति ॥ ज्ञातृज्ञेयभावः सम्बन्धः ॥ तेनेति ॥ शस्त्रस्याधिकारिण। ज्ञातू-
ज्ञापकभावः सम्बन्धः, विषयेण ज्ञाप्यज्ञापकभावः सम्बधो दर्शित इत्यर्थः ॥ सादृश्यद इति । विषयप्रयोजनयोः
दातृदेयभावः सन्बन्धो दर्शित इत्यर्थः ॥ तेनाधिकारीति ॥ भोक्तृभोज्यभावलक्षण सम्बन्धो दर्शित इत्यर्थः ॥
तेनात इति ॥ तेन अध्याहृतेन विषयाद्युपपन्नमित्यनेनेत्यर्थः ।
नारायणागण्यगुणवत्त्वादिनिबन्धनस्य प्रयोजनम्
(टी.) . किमस्य प्रयोजनम् ? इत्यत आह</p>
<lg>
  <l>मायावादतमोव्याप्तमिति तत्वदृशा जगत् ।</l>
  <l>भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेस्सदा ॥ १९ ॥</l>
</lg>
<p>(मं. टि.) ॥ किमस्येति ॥ नारायणस्यागण्यगुणानुसन्धानमात्रेण नारायणप्रीतेः स्वप्रयोजनस्य सिद्धत्वा-
निबन्धनकरणं निष्प्रयोजनमित्य क्षेपार्थः किंशब्द: । निबन्धनकरणेन साधूनां दुर्वाधहित दुर्युक्ति निबन्धनाज्ञानस्य
निराकरणं स्यात् । तेन चात्यन्तं श्रीपतिः प्रीणातीति परिहारार्थः ।
ग्रन्थसमाप्तौ मङ्गलाचरणम्
(टी.) एवं समापितत्रकरणोपि भगवानाचार्योऽन्तेऽपि परमेश्वरप्रणामस्तवने विधत्ते</p>
<pb n="73" />
<p>उपाधिखण्डने</p>
<lg>
  <l>नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।</l>
  <l>इन्दिरापतये नित्यानन्दभोजनदायिने ॥ २० ॥</l>
</lg>
<p>इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु दशप्रकरणेषु तृतीयं उपाधिखण्डनं सम्पूर्णम्
(टी.) आत्मसादृश्यद इत्युक्तं । न चायं पुरुषार्थः, इत्येतत्परिहाराय आद्यं विशेषणं । नानन्दः
स्वरूपेण पुरुषार्थः इत्यतो नित्यानन्देति विशेषणं । भोजनं भोगः अनुभव इति यावत् ।
(मं टि.) ॥ समापितप्रकरणोऽपीति ॥ प्रकरणस्य समापितत्वात् प्रणामादेर्निर्विघ्नपरिसमाप्तिलक्षण प्रयोज
नामावेऽपि भक्तिवशात् प्रणमति अभिष्टौति चेति अपिशब्दार्थः । आनन्दस्वरूपस्य परमेश्वरस्य सादृश्येन अधि</p>
<lg>
  <l>कारिणः किंप्रयोजनं ? आनन्दानुभवाभावदित्यत आह ॥ नित्यानन्देति ॥</l>
  <l>(टी.) सदा सुरशिरोरत्नप्रभामोषिनखत्विषि ।</l>
  <l>कमलाकमितुः पादयुगले रतिरस्तु मे ॥</l>
  <l>इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वप्रकाशिका विवरणं श्रीमज्जयतीर्थभिक्षुविरचितं संपूर्ण ॥</l>
</lg>
<p>(मं. टि.) एवं परिसमापिततत्वप्रकाशिकाव्याख्यो भगवांष्टीकाकारः एतादृशटीकाकरणस्य अन्ततो नारा-
यणीति: प्रयोजनमिति ज्ञापयन् तत्प्रीतिं प्रार्थयते ॥ सदा सुरेति ॥</p>
<lg>
  <l>हयग्रीवपदाम्भोजन खदीधितिचन्द्रिकां ।</l>
  <l>मनश्चकोर संसारसन्तप्त सततं पिब ॥</l>
</lg>
<p>इति श्रीमत्समस्तदेवतामस्तकमणि किरणारुणितपादारविन्दस्य अरविन्दनेत्रस्य श्रीमुख्यप्राणहृदयां-
रविन्दराजहंसस्य सज्जनकुमुदचन्द्रस्य श्रीलक्ष्मीनिवासस्य श्रीहयग्रीवस्य किङ्करेण श्रीम-
त्परमहंसपारिव्राजकाचार्याणां ब्रह्मण्यतीर्थ पूज्यपादानां शिष्येण श्रीलक्ष्मीनारा-
यणतीर्थाख्यात् यतिकुलतिलकात् अधीतश्रीमध्वशास्त्र । मृतेन श्रीव्यास-
यतिना विरचिता मन्दारमञ्जरी तत्वप्रकाशिका व्याख्याटिप्पणी सम्पूर्णा
-</p>
</body>
</text>
</TEI>