<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>श्रीमदतिरात्रयाजिप्रणीतम्
त्रिपुरविजयचम्पूकाव्यम्</p>
<lg>
  <l>मौर्वी मूर्ध्नि(च)रः[^1] शरासनशिरस्सञ्चारि चक्रद्वयम्[^2]</l>
  <l>चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः।</l>
  <l>तेषामेव शिरस्पदेषु वसतिः स्वस्येति यस्य श्रुतं</l>
  <l>देवश्चित्रपरिच्छदः स दिशतु श्रेयांसि भूयांसि नः॥ १॥</l>
</lg>
<p>अपि च</p>
<lg>
  <l>चक्रीभूते शशाङ्के परिणमति तथा मण्डले चण्डभानो:</l>
  <l>काले कस्मिन् विधातः कथय पुरहरस्त्रीण्यधाक्षीत् पुराणि ।</l>
  <l>इत्थं स्कन्देन पृष्टे विमृशति सुचिरं ध्यानमास्थाय[^3]धात-</l>
  <l>र्यानन्दोद्भिन्नमन्दस्मितमवतु[^4]मुखं सुन्दरं चन्द्रमौलेः ॥२॥</l>
</lg>
<p>[^1.] All mss. have शर:, चर: is the emended reading.
[^2.] A चक्रं द्वयं
[^3.] M- ध्यात
[^4.] M- अवे <flag>(त्तत्?)</flag></p>
<pb n="2" />
<p>किञ्च--</p>
<lg>
  <l>कर्णाभ्यर्णनिविष्टमुष्टिसुदृढव्याकृष्टसर्पेश्वरं</l>
  <l>ज्यानम्रामरशैलमौलिनिपतद्दिक्पालपुर्यष्टकम् ।</l>
  <l>अव्याद् विश्वमकाण्डसंकुल[^1]वलत्क्रूरप्रकाराजल-</l>
  <l>ज्वालान्त: कबलीकृतासुरपुरं घोरं पुरारे: स्मितम्॥३॥</l>
</lg>
<lg>
  <l>श्रेयसां यद[^2]पादानमपदानं पुर[^3]द्रुहः ।</l>
  <l>चम्बुं[^3] करोमि तदिदमम्ब वाणि प्रसीद मे ॥४॥</l>
</lg>
<p>आस्ते तत्फलमादिमं भगवतः शंभो: प्रसादो महा-
नन्यच्चास्य[^5] हि नान्तरीयकतया सिद्ध्येत् प्रबन्धस्य नः।
दोषं[^6](क)ञ्चन[^7] लेशत: कुहचिदप्यन्विच्छतः खिद्यतो
दृश्यं यन्मलिनं खलस्य वदनं मात्सर्यतः शीर्यतः ॥५ll
[^1] A- ° संकुवलत्, M-° संकुवलयत्, The reading chosen is in accordance with the expression on Āśvāsa v.
[^2] M- यदपादाभमपदाभं
[^3] M- पुरं दुहः
[^4] M- चम्बकरोम
[^5] M- यच्चास्य हि
[^6] M - दोषः
[^7] All mss. have किञ्चन This is the em. reading.</p>
<pb n="3" />
<lg>
  <l>यन्नारायणदीक्षितेन्द्रतनुभूसाधारणं घुष्यते</l>
  <l>यच्च श्री(युत)[^1] नीलकण्ठमखिनः सोदर्यतालक्षणम् ।</l>
  <l>विद्वांसस्तदिदं समस्तमधुना श्रीकण्ठदासस्य मे</l>
  <l>लक्ष्य[^2]न्तामतिरात्रया[^3]जि(मखिन:)[^4] पाण्डित्यमत्यद्भुतम्॥६॥</l>
</lg>
<p>श्रूयते खलु बहुशस्तदितिहासपुराणादिषु साक्षा-
देव श्रुता[^6] अपि यदौ[^7]रसास्तारकासुरस्य पुत्रा वित्रासित[^8]सुत्रामादयो विद्युन्मालितारकाक्षकमलाक्षनामानः
<flag>उद्यामानस्त्रयो</flag> विधिदत्तवरगर्विता निरङ्कुशान्ययोरजत[^9]हेममयानि त्रीणि[^10] पुराण्यधिवसन्तः त्रीन् लोकान्
सञ्चेरुरिति। तानि च पुराणि जङ्गमान्यद्भुतान्येव ।
[^1] All mss. have gap
This is the emended reading.
[^2] A- वक्ष्यान्तम्
[^3] A-॰याज॰
[^4] This is the em. reading. All mss. have नयित:
[^5] A- पाण्ड्यर्त
[^6] A- श्रुतावपि
[^7]M- यदौरस:
[^8]M- व्यत्रासित॰
[^9]A omits त
[^10]A- त्रिपुराणि</p>
<pb n="4" />
<p>तथा हि</p>
<lg>
  <l>अशिक्षितक्षुद्रकुटीनिवेश-</l>
  <l>खेदाः प्रयाणेष्वपि येषु पौराः।</l>
  <l>सुखेन मञ्चेषु गृहे शयाना</l>
  <l>हन्तेष्टदेशानभजन् क्षणेन॥७॥</l>
</lg>
<lg>
  <l>गृहेषु[^1] रथ्यासु तथापणेषु</l>
  <l>सदैकरूपेषु जनाश्चरन्तः।</l>
  <l>न ते विदुस्तानि विदेशगानि</l>
  <l>विना बहिर्निर्गमनं पुरेभ्यः ॥८॥</l>
</lg>
<lg>
  <l>सञ्चरत्सु पुरेष्वेव[^2] नरास्तेषु सुखोषिताः।</l>
  <l>आचार इति यानानि संररक्षुर्गृहे गृहे ॥ ९॥</l>
</lg>
<p>[^1] A- गृहे न रथ्यासु
[^2] A- पुरेष्वेव तेषु नराः सुखोषिता: ।  M- पुरेष्वेतेषु नराः सुखोषिताः।</p>
<pb n="5" />
<p>तेषु च जङ्‌मेषु पौरा: प्रतिप्रयाणं जलाशय-
निर्माणनिर्विण्णाः प्रतिवेश्म स्थापयन्ति स्म नित्य-
जलानि पुष्कलावर्तकशकलानि। अपि च तेषां
चक्र[^1]वालाद् बहिरपि निरङ्कुशगतिकतया तमो जयाय
शिरोगृहेषु बबन्धुर्महान्ति नक्षत्राणि।</p>
<lg>
  <l>तानि त्रीणि पुराण्यवाप्य तपसा वेधोवरात्युद्धता:</l>
  <l>विद्युन्मालिमुखास्त्रयोऽसुरवरा लोकत्रयीकण्टकाः ।</l>
  <l>जह्रुर्देववधूः प्रजह्रुरमरान् संजह्रुरार्तानृषी-</l>
  <l>नाजह्रुर्वसु भूर्भुवस्स्वर[^2]भितोऽप्येवं विजह्रुश्चिरम् ॥ १०॥</l>
</lg>
<p>तदानीं च स्त्रीणां[^3] विरूपता जरा वाप्यलं शील-
संरक्षणाय सौन्दर्यं बन्दी[^4]ग्रहणाय मुनीनां च निर्मांस-
शुष्कशरीरता प्राणभरणाय समांसता तु दुर्मरणायेति
संवृत्तम्।
[^1]M- चक्रवाल॰
[^2]M- अहितः
[^3]This is the em. reading All miss read स्त्रण
[^4]M - पदग्रहणाय</p>
<pb n="6" />
<p>किञ्च ते भञ्जितधर्मसेतवो विभिन्न[^1]मर्यादा:
शास्त्रातिलङ्घिनो  मात्राधिकबलगर्विताः सर्वतः क्रतुभिरेव[^2]
जीवन्ति देवता इति उत्पा[^3]टितयज्ञवाटा निर्वापितसर्वाग्नयः
(मु)[^4]ण्डितस्रुगभाण्डा भक्षयन्तो दीक्षितानप्यनु[^5]च्चारितयज्ञ
शब्दमाच्छादितधर्म[^6]मस्तमिता[^7]ध्ययनमस्तविस्तृत[^8]स्वाहा-कारमनभिस्फुटस्वधा[^9]कारमलक्षितवषट्कार[^10]मतिबुभुक्षित-
सहस्राक्षम् अतिकृशकृशानु विवशपाशधरम[^11]निःश्वस-
च्छ्वसनम् अलसबेरकुबेरमनु[^12]द्दण्डदण्ड[^13]धरमपधै-
र्यदिविषदाचार्य[^14]मतिदीनदिनपति हाहाकृतहाहादिगन्धर्व-
कुलम् अखिलमपि जगद्वयाकुलीचक्रु:।
[^1]M- विभक्त°
[^2]M- एवं
[^3]M - उत्पादित°
[^4]A,M - मण्डित°
[^5]M- अनुच्चारिता:
[^6] Aaads°तन्त्र°
[^7]M- has धन for अध्ययन
[^8]M- °विचित्रित°
[^9]A- °स्वाहाकार°
[^10]A- °वर्षुमिति
[^11]A- निःश्वसित
[^12]A- अनुदण्ड°
[^13]M- omits °दण्ड°
[^14]M – आचान्य</p>
<pb n="7" />
<p>किं बहुना--</p>
<lg>
  <l>विध्यण्डावधि वैभवं विधिहरित्र्यक्षावधिर्धिक्कृति-</l>
  <l>र्दोर्वीर्यं कुलशैलचालनसमुत्क्षेपप्रभेदावधि।</l>
  <l>धैर्यं प्राणविमोक्षणावधि चमूसङ्ख्या परार्धावधि-</l>
  <l>र्देयं ब्रह्मपदावधि प्रणमते तेषां सुपर्वद्विषाम् ॥११॥</l>
</lg>
<p>तैश्च तथा निस्तुलैश्वर्यमदोद्वृत्तैरुद्यततमःप्रवृत्तिभि-
र्विद्युन्मालिप्रभृतिभिरुद्दामभिर्दानवेन्द्रैः निरन्तर-
बन्दीगृहनिर्व्याजसीमाक्रमनिरपराधदण्डादिभि-
रहन्यहनि पीड्यमाना मानमपहाय निष्फलतयैव
तद्भृत्यगृहबहिर्द्वाराणि अध्युष्याध्युष्य निर्विण्णा:
शतमखमुखा: बर्हिर्मुखाश्च चतुर्मुखोपदिष्टबुद्धयो
दीनत्राणपरायणं नारायण[^*]मेव शरणमिच्छन्तः तच्छयन-
मन्दिरं क्षीरसागरमुद्दिश्य प्रमुदिताः प्रतस्थिरे ।
[^1]M- हर
[^2]M has gap for तमः
[^3]A- पीड्यमान
[^4]M omits अध्युष्य
[^5]M omits बर्हिमुखाश्च
[^*]`T’ starts here, all the preceding portion being lost.</p>
<pb n="8" />
<p>प्रस्थिताश्च ते तर्कितोदग्रकल्याणोदर्कक्रिया-
कलापा नेदीय[^1]सीमेव निजमनोरथपूर्तिमालोच्य
“भो भोः सहस्राक्ष त्रिजगदध्यक्षकमलाक्षपादपीठ-
निकटवाससाम्राज्यपट्टाभिषिक्त कटा[^2]क्षयेषदस्मानपि
संभावय रे जम्भा[^3]रिमंख निलिम्पा[^4]र्पितकरुणाकटाक्ष-
तारकाक्षहृदया[^5]नुवृत्तीन्। पश्य रे श्रितजनकारुण्यशालि-
विद्युन्मालिस्तुतिपाठक न जानासि रे कमलाक्ष प्रतिहार-
वर्त्यनुचराञ्जलीन् अपि स्मरसि रे[^6] विद्युन्मालिशुद्धान्त-
चेटीपदप्रणामान् रे परिशीलय करुणो[^7]क्तिम् इतोऽपि
विसान्त्वनाय तारका[^8]क्षपाद[^9]वाहकस्य” इति परस्परेण
सहस्ततालपरिहासोक्तिपूर्वकमतिदवीयांसमध्वानमति-
लङ्‌घ्य, दूरत[^10] एव शारदाभ्रपटलमिव धरातलगतं सुर-
सिन्धुशरवणमिव शरत्प्रफुल्लां मल्लिकास्तबकनिरन्तरितमिव
[^1] A - नोदीयसीमेव
[^2] A,M- कटाक्ष
[^3]A- जम्भारिमुख
[^4]A- निलिम्पायतित॰, M-निलिम्पायित॰
[^5] A, T- अनुवर्तिन्
[^6]M omits रे
[^7]M- करुणोक्तिः
[^8]A- विताकाक्ष॰, M- वितारकाक्ष॰
[^9]A, M- पादा॰
[^10]A- दूरतरे तव
[^11]A - मल्लिकान्तंबक॰</p>
<pb n="9" />
<p>महान्तमारामं निशाविरामविकसितमिव सितपङ्कज-
वनं शशाङ्कमण्डलीषण्डमिव द्रवीभूतं भूतेशजयाट्ट-
हासमिव भविष्यन्तं वसुन्धराधृतमिव क्षौमवसनं
त्रि[^1]भुवननिर्मातृधातृश्वैत्यकोशगृहमिव समुद्घाटितकवाटं
(निबिडा)[^2] वरूढमिव भुवि नीहारराशिं पाशधरविलासा-
म्ब(रमिव)[^3] विशद[^4]मुक्तावचितं चलितसित[^5]वाल स(च)मर -
मृगा[^6]ध्यासितमिव कान्तारभागं भागधेयमिव दृशा[^7] मेकत्र
पुञ्जीकृतं[^8] झंझानिल[^9]विकटा[^7]चालितशर[^11]ज्जलदजालमेदुर-
लहरीमालास्फालितवेलातलाधिरोहदेलालतालिङ्गित-
धव[^12]लितत[^13]मालतालहिन्तालनक्तमालादिनानाविधानोकह-
प्रच्छायसुखितविविधविङ्गङ्गममदकलकल[^14]विरुतमुखरित-
[^1]A- त्रिभुव॰, M- अत्रिभुव॰
[^2]A- निवसारूढमिव, M- बिसाविरूढमिव, T- निविधावरूढमिव, T.C- निपीयावरूढमिव
[^3]A, T. सयमिव, M- सयमिय
[^4]M- विशद......त
[^5]M -॰सितवालवर॰, T-॰वालसि-मर॰
[^6]T.C-मृगार्धासितमिव
[^7]M - दशाम्
[^8]A,T- पुञ्जितं
[^9]T- झंझाळि॰, T.C- झंझाळी॰
[^10]M- विकटपालित॰
[^11]M -॰शरञ्जलद॰, T.C- शिरज्जलद
[^12]A-॰धवल॰
[^13]M - माला.........ल
[^14] A adds another कल, T-॰कलक॰</p>
<pb n="10" />
<p>हरिन्मुखम्[^1] शफरभ्रमि[^2]प्रवर्त्यमानमुखरावर्तगभीर[^3]गर्त-
सत्वरोदित्वरमरुन्निरन्तरापूर्यमाणघुणसुषिरघनसविध
शैवलासङ्गिशङ्खसङ्घभाङ्कारधाराश्रवणधाराधर[^5]स्तनित-
भ्रमान्धनानादिगन्तसमकालसङ्गतकलापिकुलबहुल[^6]केका-
रवाकर्णनचकितकम्पितकुम्भीनसेश्वर[^7]तलिमशायिनलिन-
नाभाकस्मिकसस्मितप्रबोधविस्मितसनकसनन्दसन[^8]त्कुमार-
सनातना[^9]दिमुनिगणसमाधिदृष्टशफर[^10]परिवर्तस्वभावमादाय
कौस्तुभादिकमवशिष्टसंरक्षणाय[^11] तत्र[^12] तत्र जतु[^13]मुद्रितमिव
शैवालजालश्यामलितं प्रलयोट्टेलद धिजलधितरङ--
संपर्केण दधीभूय[^14] मन्थर[^15]मथनेऽश्मप्रान्तसन्दर्शितनवनीत-
[^1]M, T-°हेरिन्मुख°
[^2]M- °भ्रम°, T.C.- °भूमि°
[^3]T-°गंभीर°
[^4]A,M,T- °भाकार°
[^5]M, T- °धाराधरा
[^6]A- °बहळ°
[^7]M- °कुम्भीनसेश्वालिम°
[^8]A- °सनत्कुमारा°
[^9] Tomits आदि
[^10]T- °शफरिवर्तप्रभावम्
[^11]M- °सन्नक्षणाय
[^12] momits तत्र तत्र
[^13]M- ऋतुमुदितम्
[^14]T- °प्रभूय
[^15]A- मन्दरमथनेन प्रासन्दर्शत°, T- मदरमथनेन प्रान्त सन्दर्शित°</p>
<pb n="11" />
<p>पिण्डमिव डिण्डीरखण्डमण्डितं बहो: काला[^1]दप्यप्रशान्त-
मथनोद्भवभ्रमि[^2]वेगमिव जलभ्रमसहस्रापूरितं गभीर[^3]मपि
चपलस्वभावं समकरमपि विषमकर हस्तापराजितं
पाण्डुमप्यपार्थ[^5]सीमाक्रमणाभिलाषिणं सर्वतोमुखम-
प्यहीन[^6]प्रचारं सभ्रमो[^7]त्पादनमपि विभ्रमोत्पादनं मत्स्य-
कूर्ममयमप्यनारायणावतारम् अब्जप्रभवमप्यधातारं
संसारंमिव दुस्तरं कपर्दिनमिव कुमुद्वतीरमणा[^8]वासं पीतवासस-
मिव सशङ्खचक्रम् शक्रमिवैरावताधारं धातारमिव
हंसो[^9]पसेवितं सवितारमिव कमलोन्मेषकरं हिमकरमिव
सुधानिधानं मुनिमिव हृदयाराधितनारायणम्ऐरावण-
मिव तटानि दारयन्तं धूर्जटिवृष[^11]मिव गर्जन्तम् उच्चैःश्रवस-
मिव वल्गन्तमुरगेन्द्रमिव निःश्वसन्तमुत्पतन्तमुद्र्भमन्त-
मुच्चावचवीचिकाजालमालुलोकिरे भगवतः श्रीपतेस्वरोधं
[^1]T- कलादपि
[^2]T.C- ॰दुर्मिवेगमिव
[^3]T- गम्भीरमपि
[^4]T-Tomits ॰कर॰
[^5]A- उपार्थ॰
[^6]M- मुखमपि हीन॰
[^7]T.C. सद्रुमोद्वादानपि विद्रुमोत्पादनं
[^8]A- ॰रमणावाहं
[^9]M- हंसैरपसेवितं
[^10]T- वैरावणमिव
[^11]T- ॰वृषभमिव
[^12]M-आलुलोकरे
[^13]A श्रियः पतेः</p>
<pb n="12" />
<p>क्षीरोदम्।
कल्लोलाहतिपातितान् क्रमवशादावर्तगर्तागता-
नूर्ध्वा[^1]ग्रान् भ्रमिवेगनिश्चलधृतानालक्ष्य कूलद्रुमान् ।
द्वीपे यस्य पुराविदो वनचरा: कल्पद्रुमा इत्यहो
याचन्ते परितः प्रसारित[^2]करा: स्व[^3]स्वेप्सितार्थान् वृथा॥१२।।
श्रीरेव यस्य दुहिता[^4] हरिराप्रबन्धु-
स्तारा स्नुषा, तनुभवश्च सुधानिधानम्।
प्रादायि येन सुरभिः सुरपादयो[^5]ऽथ
चिन्तामणिश्च य इमे जगतां वदान्या:॥२३।
तत्र हि तदा दामोदर:</p>
<lg>
  <l>तल्पीभवद्भुजगराजफणोपधान-</l>
  <l>विन्यस्तमौलिकमलाङ्कनिवेशिताङ्घ्रि: ।</l>
  <l>श्रीसन्निधानमुकुलीकृतनाभिपद्म-</l>
  <l>निश्शब्दलीनसमयज्ञविधातृ शेते ॥१४॥</l>
</lg>
<p>[^1]M- अध्वाग्रामान्
[^2]T- ॰प्रसादित॰
[^3]M- सु॰
[^4]A- दयिता
[^5]A,T,Tc- ॰पादपो वा</p>
<pb n="13" />
<p>ततश्च ते पाकशासनमुखा दिवौकसो विकसति
पुण्डरीक इव तस्मिन् तत्कर्णिकापीठ इव च[^1] श्वेतद्वीपे
तन्मकरन्द[^2]रसानन्दनिष्पन्दमिव मिलिन्दं मुकुन्द-
मालोकयितुं निर्मलकलशजलधिनिश्चलमध्यभाग-
प्रतिफलितवैकुण्ठरूपं श्वेतद्वीपमधिगत्य प्रथमकक्ष्या-
यामेव तार्क्ष्यविष्वक्सेनप्रभृतिभिः प्रतीहाराधिकृतै-
रुद्दण्डप्रवृत्तिभिर्दण्डपाणिभिर्निद्रावसरोऽयमसुरजाति-
द्रोहिणो भगवतः सन्निहितान्तःपुरस्य दामोदरस्य
नायम[^4]वसरो युष्माकमिति निवार्यमाणाः प्रकृतकार्य-
त्वरमाणा अपि त्रिजगदध्यक्षपुण्डरीकाक्षप्रभावानु-
रोधिनस्तदवसरं प्रतिपालयामासुः ।
अथ तत्प्रबोधप्रतीक्षकसहस्राक्षमुख[^5]सुप[^6]र्वगण-
सुकृतपरिपाकेनेव संजनितजातिवैरस्मरणः कृतान्तकासरः
संवर्तप्रवृत्तपुष्कलावर्तकनिर्घातघोरनिर्घोषः खुरपुट-
[^1]M omits च
[^2]A,T- मरंद॰
[^3]A,M omit दण्डपाणिभिः
[^4]M omits न
[^5]M,T-॰मरवस्य
[^6]M omits सु</p>
<pb n="14" />
<p>रटित प्रतिनादमुखरितब्रह्माण्डकरण्डको मुहुर्मुहु-
रुचावचोद्र्भमित विषाणकोटिरुच्चैःश्रवोऽभिमुखमुच्चचाल।
सोऽपि संक्रन्दनसैन्धवः साध्व[^1]सपीडितः ताडित
इव कशाभिर्भीषणं[^2] हेषमाणः शिथिलपलयाणखलीन-
बन्ध उत्प्रबन्धकलकले सुरकुले बभ्राम।
एवंविधकोलाहल जनितोत्साहस्तत्क्षणमीशान-
वृषोऽपि धर्मकालवलाहक इव भयानक[^3]मुत्तानितानन-
मुन्ननाद!</p>
<lg>
  <l>अत्रान्तरे कलकलैरव[^4]बोध्यमानः</l>
  <l>क्लिष्टोरगेन्द्रशयनः परि[^5]वृत्य पार्श्वे।</l>
  <l>उर्वीरमाविधृतपाणितलः कथञ्चि-</l>
  <l>दुत्तस्थिवान् मुरहरः स्मयमान एव॥१५॥</l>
</lg>
<p>[^1]M,T- संध्वंस॰
[^2]A,M - भषणं
[^3]M- भयानकर्ता नूतन॰
[^4]M has एव to the detriment of metre.
[^5]M has gap for परिवृत्य</p>
<pb n="15" />
<p>कः कोऽत्र रे कलकलः क[^1] इवा[^2]यमासीत्
इत्याकलय्य वचनान्यथ तस्य शौरे:।
द्वारि स्थिताः सभयमन्तरुपेत्य तस्मै
व्यज्ञापयन् सुरगणं मिलितं समस्तम्॥१६।।
तदनु तेन दनुजशासनेन तत्प्रवेशदत्तशासना:-
प्रतिहारवासिनस्त्वरितं बहिर्निर्गत्य “भो भो सहस्राक्ष
दिदृक्षति त्वां तार्क्ष्यकेतनः; प्रविश पाशधर; तिष्ठ पाश-
धरानुचर; सविनयमेहि दण्डधर त्यजोद्दण्डतां; राजराज
समीकुरु कुण्ठा[^3]भरणं; मा त्वरस्व मातरिश्वन्, शीतो
भव जातवेद: ; चारणागन्धर्वा: समयं विज्ञाय गायत;
पिशाचा[^4] रे स्वामिना कृताभ्यनुज्ञा निषीदत[^5]” इति वचो-
भिर्भगवत्सभाधिरोहे कर्तव्यान्युपदिशन्त: सर्वानपि
सुपर्वणो यथार्हँ प्रवेशयामासुः।
[^1]M reads कल: in which case the metre becomes defective.
[^2]T- उपायमासीत्
[^3]T.C. कर्ण॰
[^4]M- विशाचारे स्म मनाक् कृता॰
[^5]M- निषीदते तु, T.C.- निषीदन्तेति
[^6]A,M- उपदृशन्तः</p>
<pb n="16" />
<lg>
  <l>ते संमर्दमिथोविघट्टनरणत्कोटीरहाराङ्गन्द-</l>
  <l>प्रभ्र[^1]श्यन्मणिशार्करे भगवतः शय्यागृहे सङ्गताः।</l>
  <l>श्रीकान्तेन शिरःप्रकम्पनयनभ्रूवल्लिसंज्ञा[^2]दिभि-</l>
  <l>निर्दिष्टेषु वरासनेषु सुखमासेदु: प्रसेदुः सुरा:॥१७॥</l>
</lg>
<p>अनन्तरमपि पुरन्दरप्रेरिता भगवदाभिमुख्याय
सिद्धचारणविद्याधरकिन्नरादयः कृताञ्जलयो “जय
जय सुरा[^3]सुरमणिमकुटनीरा[^4]जितचरणराजीव जीव-
लोकशरण्य हिरण्यादिदानवभयङ्कराचार चराचरा-
ध्यक्ष कमलाक्ष रक्षरक्ष त्रि[^5]भुवनरक्षणबद्धकङ्कण
रणाङ्‌णवीरभद्रावतार[^6] तारकब्रह्मवदावद प्रसीद
प्रसीद[^7] शीतभानुसहोदरानन श्रितजनकारुण्यशालिन्
विद्युन्मालापिञ्जरकन[^8]काम्बर दीनत्राणपरायण नारायण"
इति चिरकालाभ्यस्तकमलाक्षादिस्तवपाठवासनास्वय-
[^1]M, T- प्रामृश्यन्
[^2]M- ॰संपादिभिः
[^3]M- स्मरासर॰
[^4]M- ॰नम्रराजित॰
[^5]M- त्रिभुवनं
[^6]Tadds तारक
[^7]T omits प्रसीद
[^8]A- ॰जनकाम्बर</p>
<pb n="17" />
<p>मागतसम[^1]र्थिततत्तन्ना[^2]मावयवघटिताभिः स्तुतिभिः पुण्य-
श्लोकमुपश्लोकयामासुः।</p>
<lg>
  <l>देवोऽपि दैत्यकुलसंक्षयधूमकेतु-</l>
  <l>राकर्णयन्नसुरगन्धिवचस्स्तवेषु।</l>
  <l>उल्लिख्य तांस्त्रिपुरदानवसेवनार्ता-</l>
  <l>नद्भूतसान्द्रकरुणो हरिरिन्द्रमाह॥१८॥</l>
</lg>
<lg>
  <l>जानीमस्त्रिदशेन्द्र[^3] तारकसुतैरुन्मत्तवेधोवरा-</l>
  <l>न्मायद्भिर्दनुजाधमैरवमतान् दीर्घेण कालेन व:।</l>
  <l>किं[^4] कुर्मो वरदानमात्र निरतो वेधा: प्रभुवर्तते</l>
  <l>किं पश्येदयमेकदा रणमुखे कोपोद्धतान् दानवान्॥१९॥</l>
</lg>
<lg>
  <l>पश्याङ्गं तव कर्शितं सुरपते पाशी विशुष्काननो</l>
  <l>दुर्दर्श: स[^5] यमोऽपि दीनवदनः शोच्यः कथं वर्तते।</l>
  <l>वायुर्मन्दगतिः शिरवी च मलिन: कम्पोत्तरो यक्षराट्</l>
  <l>लोकेशः करुणानिधिः स[^6] वरदस्तुष्टः किमेतावता॥२०॥</l>
</lg>
<p>[^1]A,M- ॰समर्थ॰
[^2]A,T- नामावय॰
[^3]T adds दानव to the detriment of metre
[^4]A-॰कं
[^5]M,T- समयोऽपि
[^6]A – स वरस्तुष्टः, M- स च वरस्तुष्टः</p>
<pb n="18" />
<p>फलितं चेदं वासव जानीहि प्रतिदानववरदायिता
चतुरा[^1]नने। दानवाहितश्च परिभवो युष्मासु। अस्मासु च
सर्वदा दुर्दा[^2]नवयुद्धदुर्व्यसनिता। तदास्तामेतत् नायमवसरो
विधि[^3]गर्हणस्य। तैः खलु दानवैरेवं वरो लब्ध:- "सहस्रेण
समाभिः सङ्गतेषु पुरेषु शरेणैकेन स्मितपूर्वमुक्तेन वधो-
ऽस्तु त्रिपुराणाम्” इति। तेषां च[^4] दुर्धियामेवं वरं गृह्णता-
मेवमाशय उन्नीयते "पुरमेलनकालस्य स्वल्पतया कथं
तदानीमस्माकं पराजयो भवेत्। कथं वा निर[^5]तिशय-
पराक्रमोष्मभिरस्माभिरभिगतस्य भीतस्य विषीदतो
दिक्षु विदिक्षु निक्षिप्रदृश: फलायनो[^6]पायगवेषणव्यग्रस्य
रिपो: स्मितं भविता? कथं च वा शरेणैकेनैव वधस्त्रिपुर-
दानवानाम्” इति। तदेकश्च शरो वय[^7]मेव भवामः। मद्वाण-
भृतापि धनुर्भुता कालकूटसाहसिकेन कालकण्ठेनैव भवितव्यम्।
[^1]M, T- चतुराननो
[^2]T omits दुर्
[^3]M-विगर्हणस्य
[^4]M- चादुर्धियां
[^5]M- निरङ्कुशयपराक्रमोषुभिः, T.C- निरतिशयपराक्रमोऽस्माभिः
[^6]M- ॰उपायन॰
[^7] M - वधमेव</p>
<pb n="19" />
<p>तदिदानीमियदेव कर्तव्यम्। विविधाभिचारप्रवर्तनेन
प्रथममस्माभिस्त्रिपुरदानवानां तेजो बलं चापहर्तव्यम्।
स्वतोविभिन्नधर्मसेतूनाम[^*]पि तेषामवशिष्टधर्मलोपाय
मोहशास्त्रेण मोह[^1]यितव्याश्च ते। ततश्च स देवदेवः
करुणानिधिस्तरुणेन्दुशेखरः सर्वैर[^2]स्माभिः[^*] प्रसाद[^3]नीय:।
एवं च ते जय्यास्त्रिपुरदा[^4]नवाः।</p>
<lg>
  <l>इत्थं दैत्यभिदि स्वयं वदति[^5] ते सेन्द्राः सुराः संभ्रमा-</l>
  <l>दुत्थाय प्रणिपत्य हन्त कियती भूतानुकम्पा तव।</l>
  <l>सिद्धं नः परमे[^6]प्सितं विनिहता द्रोग्धार उत्पादिता</l>
  <l>लोकाः किं बहुनाधुना श्रितजनाधारेति तं तुष्टुवुः॥२१॥</l>
</lg>
<p>[^1]T- मोहितव्याश्च
[^2]M- सर्वो, T- सर्वे
[^3]M omits प्रसादनीय:
[^4]M- ॰दावाचा:
[^5]M- वदतु
[^6]M- परमीप्सितं
[^7]M- कृतं
* A omits from नामपि to सर्वैरस्मा</p>
<pb n="20" />
<lg>
  <l>इति मधुरिपुर्मन्त्रं देवैर्विधाय स तैः समं</l>
  <l>सुरसि[^1]रितटे चेष्ट्वा घोराभिचारविधानतः।</l>
  <l>क्रतुशिखिसमुद्भूतान् भूतान[^2]नेकविधानथ</l>
  <l>न्यदिशदभित[^3]स्तेजो हर्तुं पुरत्रयवासिनाम्॥२२॥</l>
</lg>
<p>इति भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्या-
चार्यश्रीकण्ठमतनिर्वाहधूर्वहचतुरधिकशतप्रबन्ध-
निर्मित्यलङ्कर्मीणश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाच्चान्
दीक्षितपौत्रस्य श्रीनारायणदीक्षितात्मजस्य श्रीमदतिरात्रयाजिनः कृतिषु त्रिपुरविजयनाम्नि चम्पूकाव्ये मुकुन्दस्य सन्दर्शनं नाम प्रथमाश्वासः ।
[^1]T.C.- सुनगरीतटे चेष्टवायोरभिचार॰
[^2]T- भूतान्वितानेक॰
[^3]T- अभितस्मै</p>
<pb n="21" />
<p>द्वितीय आश्वासः</p>
<lg>
  <l>प्रागेव यो महा[^1]नायस्स भूयो मायया वृतः।</l>
  <l>नारदानुगतो बुद्धरूपी पातु रमापतिः॥१॥</l>
</lg>
<p>तदनु दनुजशासनस्त्रिपुरदानवमोहनाय मोहशास्त्र-
मुत्पाद्य बुद्धरूपधरस्समान[^2]रूपनारदानुगम्यमानस्त्रिषु
पुरेषु जगाम।</p>
<lg>
  <l>तत्राग्निहोत्रशरणानि महासुराणा-</l>
  <l>मत्युन्नतानि च तथायतनानि शम्भोः।</l>
  <l>दृष्ट्वा सहासमितरेतरदत्तहस्त-</l>
  <l>तालौ विचेरतुरिनौ पश्मौ पुमांसौ॥२॥</l>
</lg>
<p>तस्मिन्नेव समये समापितपूर्वाह्णकृत्यः पूर्वदेवेश्वरोऽपि
समाराधितेश्वरः पुरस्सरदन्त:[^3]पुरं त्रिलोकपण्यमान-
त्रैलोक्यविजयापदानस्सदानवः कुञ्जरगति: मन्दं मन्द-
मन्तःपुरान्निर्गत्य गद्यपद्यात्मकस्तुतिपाठमुखरेषु वन्दि-
मागधवरेषु जय जीव वर्धस्व पालय चराचरमित्याशीर्वाद-
वाचालेषु वृद्धजालेषु राजदर्शनकुतूहलातिशयवादित-
[^1]T- महामायी
[^2]A- ॰समानरूपा॰
[^3] All mss. add ॰पुर॰
[^4]T- ॰पाद्य॰</p>
<pb n="22" />
<p>शङ्खदुन्दुभिमृदङ्गढक्काझर्झरादिकेषु वादित्रवादकेषु
ससंभ्रमभ्रान्तचामरादिराजचिह्नग्रहणसमाकुलेषु भृत्य-
कुलेषु प्रसीदेदयं कस्यचिदिति समुद्धृतहारकुण्डलकेयूर-
कटकमकुटहाटकाम्बरशतेषु कोशाधिकृतेषु क्रुध्ये[^1]दयं
कस्मैचिदिति दण्डता[^2]डनीशृङ्खलादिधरेषु वेत्रधरेषु प्रति[^3]द्य-
भ्रमितमणिदण्डमण्डलाहतदनुजकोटिकोटीरचलितस्फुलिङ्ग-
विद्योतितगगनाङ्कणेषु दौवारिकगणेषु त्वरितं बहिर्निर्गत्य
धावत रे विद्युन्मालितारकाक्षयोर्विज्ञापयत भद्रासनासीनं
राजानम्। प्रविशत रे दनुजेन्द्रा गच्छतान्तस्सप्ततापसाः
न काचिदद्य रे देवजातिरहो राजप्रसादसमयाकाङ्क्षी पुरन्दरो-
ऽप्यद्य[^4] मन्दभाग्यो नायात इति वदत्सु ससंभ्रमगता[^5]गतेषु
चाव[^6]सरा[^7]धिकृतेषु कार्यवशादद्य त्रिमूर्तिचीटिकाप्रसक्तौ
पूर्वलेखनीयं राजनाम देवनाम वेति संशयव्यग्रेषु लेखक-
वर्गेषु लिखत[^8] रे चीटिकां किञ्चिदन्तःपुरे चिकित्सितं
[^1]A- क्रुध्येयं
[^2]M- ॰तामनीश्रघलादि॰
[^3]A,M- प्रतिश्व॰
[^4]M omics द्य
[^5]M,A- आगतेषु
[^6]A, Tomit च
[^7]M- अवसायिकृतेषु
[^8]A- लिखतर, M- लिखित रे</p>
<pb n="23" />
<p>देवतरुपञ्चपल्लवानि कल्पद्रुममूलं हरिचन्दनत्वचः
पारिजातबीजानि मन्दारमुकुलानि सन्तानफलानि
च प्रेष्यन्तामिति नन्दनवनपालकानाम् इन्द्राण्यापि
कामधेनुनव[^1]नवनीतं प्रेष्यतामिति च गणकान्नियुञ्जानेषु
वैद्यजनेषु सम[^3]यालाभकण्ठ[^4]स्तिमितबहुविधराजकार्येऽपि
भार्गवाचार्ये प्रकाशितदिगन्तनवरत्नकिरणप्ररोहं भद्रं-
पीठमर्धिरुरोह[^5]। तत्र च क्षणे राजगृहान्निर्गच्छद्भिरानयद्धि-
र्गजतुरगादिकं किमपि किमपि कर्णाकर्णयद्भिरुद्ग्रीव[^6]यद्भि-
रागच्छतो विचिन्वद्भिरभितोऽपि ससंभ्रमप्रचारैरखिलै-
रेव पौरैरखिलमपि पुरं संक्षुभितमासीत्।</p>
<lg>
  <l>तत्पश्चादवकर्ण्य दानवपतिं भद्रासनार्थासनं</l>
  <l>चारै[^7]स्तत्सहजौ बलेन महता स्व[^8]स्मात्पुरान्निर्गतौ।</l>
  <l>द्वारे च त्वरमाणसाञ्जलिकरा पक्रान्तदौवारिका-</l>
  <l>वुत्तिष्ठन्निकटस्थदैत्यनिवहं पार्श्वं प्रभोरागतौ॥३॥</l>
</lg>
<p>[^1]M,T omit ॰नव॰
[^2]M omits च, All mss. and इति
[^3]A, M- समयाप भा॰
[^4]T,A,M- ॰कर्ण॰
[^5]M- अधिरोह
[^6]A omits उत्
[^7]A,M- चातै:
[^8]M,T- अस्मात्</p>
<pb n="24" />
<lg>
  <l>तत्रान्तरे नगरपालगणस्सशिष्यं</l>
  <l>तं शार्ङ्गपाणिमवलोक्य महाद्भुतेन ।</l>
  <l>नीत्वासुरेश्वरसभामवदत्तथा तौ</l>
  <l>देवाग्निहोत्रशरणे क्षणतो हसन्तौ॥४॥</l>
</lg>
<lg>
  <l>तेजोविदितमाहात्म्यौ तौ निवेश्य वरासने।</l>
  <l>स्निग्धगम्भीरया वाचा व्याजहारासुरेश्वरः॥५॥</l>
</lg>
<lg>
  <l>कौ युवां[^1] दिव्यपुरुषौ कुतस्त्यौ किंसमाश्रयौ।</l>
  <l>हसथः किंनिमित्तं वा देवाग्निशरणेक्षणात्॥६॥</l>
</lg>
<p>इति तेन प्राभवसावज्ञकटाक्षवलयेनानुयुक्तो लब्धा-
वसरस्सरोजनाभ इदमवादीत्। दानवराज सङ्ग्रहेणेद-
मवधा(र)य। आवां निर्धारितनिखिलजगदर्थतत्वौ
पराकृतपरमत सिद्धान्तौ स्वेच्छ[^2]या सर्वत्र सञ्चरन्तौ
मुनीन्द्राविति। अयं चास्मच्छिष्यस्सर्वत्र[^3] कलहमूलं
नारद इवेत्यनृतं नारद एव। अनेन च देशकालानभिज्ञेन
हन्त कथम[^4]त्रत्या लोकजीवनान्येव घृतक्षीरदधिमुखानि
[^1]A- दिवां
[^2]M- सेवया, A- स्वेया
[^3]A- सर्वकलहमूल:
[^4]A- कथमत्रन्यालोकमिवनान्येव, M- क्रयमत्रद्युलोकमिवनान्येव</p>
<pb n="25" />
<p>वह्नौ प्रक्षिपन्ति निरर्थकमेव च प्रतिमाः पूजयन्तः[^1]
खिद्यन्त[^2] इति तत्त्वमालोचयता मदु[^3]पदेशमहिम्ना हसितु-
मारब्धम्। ततश्चावामत्र नीतौ इति।</p>
<lg>
  <l>इति मायामनुस्मृत्य ब्रुवाणे दा(न) वान्तके।</l>
  <l>कमलाक्षो मनस्येवमकरोत्काल[^4]चोदितः॥ ७ ॥</l>
</lg>
<p>लक्ष्यतेऽयं महात्मा। अस्य च वपुर्ब्रह्मवर्चसेन ज्वलति
किं बहुना वशिष्ठ[^5]वामदेवविश्वामित्रादिषु नैवमाकारः।
अस्य च मतं कर्मनैष्फल्यप्रतिपादकमिति विरुद्धमेतत्।
कथमिदं प्रमाणं स्यात्। अथवा[^6] प्रमाणं भवेत्। युक्तिः
खलु भगवती सर्वदर्शनशरण्या। न हि परस्परविरुद्धानि
…[^7]….(नि)षेधमपि यजनीयसूत्राणि प्रमाणानि[^8]। तद्यदि
प्रमाणं कर्मणां नैर[^9]र्थक्येऽपि तदा देहायास करा[^10]ण्यमूनि
परित्यज्य सुखमासितुं शक्यमिति।
[^1]M- पूजयत:
[^2]A,M. खिद्यत
[^3]M- मम
[^4]M- काम॰
[^5]A- वसिष्ठो
[^6]M- वर for वा
[^7]M has a gap.
[^8]T- अप्रमाणानि
[^9]T- नैरर्थक्योऽपि
[^10]M- कार्याणि</p>
<pb n="26" />
<lg>
  <l>पप्रच्छ पश्चात्सुखमार्गलुब्धः</l>
  <l>स तार्क्ष्यकेतुं दनुवंशकेतु:।</l>
  <l>निरर्थकं कर्म भवेद्यदीह</l>
  <l>प्रमाणमेकं भगवन् वदेति॥७॥</l>
</lg>
<p>अथ भगवति मधुसूदने तत्रो[^1]त्तरं विवक्षति सर्वकर्म
विशारदो नारद: प्रतीपवचसा भार्गवाचार्येणान्तरान्त-
रायमाशङ्कमानः स्वमातरं सरस्वतीमनुस्मृत्य मनसीद-
मवादीत्। देवि[^2] जगद्विताय किञ्चिद्विज्ञा[^3]पयामि-
यदा[^*] यदाय भार्गवः प्रतिकूलं विवक्षति।
तदा त्वमम[^4] च स्नेहानुकूलेव निस्सर॥इति।९॥
अनन्तरं च-</p>
<lg>
  <l>वत्स श्रीकमलाक्ष तापस इति प्रश्नं वृथा मा कृथाः</l>
  <l>सोऽयं दैत्यकुलान्तको मधुरिपुर्मायां विधाया[^5]गतः।</l>
  <l>इत्थं वक्ष्यति भार्गवे प्रचलिता वाचस्तु तस्याननात्</l>
  <l>प्रश्नेनालमितः प्रमाणमपरं किं वास्य वाक्यादिति॥२०॥</l>
</lg>
<p>[^1]M- तत्र तारं
[^2]A, M have मदपि for देवि
[^3]A- विज्ञापयान
[^4]T- मयि, omits च
[^5]T- आगतमिति
* यदा यदा भार्गवोऽयं will be better metrically.</p>
<pb n="27" />
<p>तेन चाचार्यवचनेन कमलाक्षमुखास्त्रयोऽपि तस्मिन्
पर[^1]स्मिन् पुंसि निर्विचिकित्सं विशश्वसुः। सोऽपि करणा-
पाटवधिया पुनः पुनर्विवक्षां कथयन्-प्रतारितोऽस्मत्प्रति-
षेधाद्वरं तूष्णींभाव इति सविस्मयो दानवमन्त्री मौन-
माश्रितः ।</p>
<lg>
  <l>विश्वस्तेषु नरेन्द्रेषु भार्गवे मौनमाश्रिते।</l>
  <l>निःसपत्नं हरिर्वाक्यं व्याजहार कुतूहली॥२२॥</l>
</lg>
<p>राजन कुशाग्रमते तटस्थतयैव द्रष्टव्यम्। कर्मणः फल-
वत्त्वे प्रमाणाभाव एव निष्फलत्वे प्रमाणम्। श्रुतिस्मृतिशिष्टा-
चारादि प्रत्यक्षदृष्टनिष्फलत्वविरुद्धतया महाह्रदवह्निसाधक-
हेतु वदप्रनाणमेव। न हि कश्चिदपि साङ्गश्रौतस्मार्तकर्मानुष्ठाता
सहस्रवर्षजीव्यपि फलं पश्यति प्रेत्यभुञ्जत इति अत्यन्तम-
सदेव। पश्यत एवं ध्वस्तस्य शरीरस्य नष्टघटस्येव पुन-
रुन्मज्जनं गगनकुसुमरूपम्। शरीर[^*]भिन्नमपाणिपाद-
मचक्षुःश्रोत्रमघ्राणरसनमरूपनामधेयमात्मनामधेयं
किञ्चिदिति कल्पनमहष्टकल्पनमिति अन्याय्यमेव।
[^1]M,A- परस्मै
* of Mundakopanisad I.1.6. अचक्षुःश्रोत्रं तदपाणिपादम्</p>
<pb n="28" />
<p>कारी[^1]र्यादि फलमपि काकतालीयम्। अत एव तस्य क्वचित्
क्वचित्फलानुदयः। श्रुतिचोदितं कर्म सफलमिति वृथा-
विश्वासाः वैदिकाः परं तत्र क्रतुवैगुण्यं कल्पयन्ति।</p>
<lg>
  <l>इत्युपश्रुत्य मेधावी कमलाक्षस्तमाक्षिपत्।</l>
  <l>ऐश्वर्यं नस्तपोलब्धं कथं कर्मणि निष्फले॥२२॥</l>
</lg>
<p>इत्येवमाक्षिप्ते दुरात्मायं दुरुत्तरमाक्षिप्तवानितिं विचारयन्न-
प्यव्याकुलस्सन्तुष्टभार्गवाचार्यदृष्टः कथमुत्तरं भविष्यतीति
पर्याकुलेन नारदेन निरीक्षितमुखारविन्दो गो विन्द:
स्नयमान एव परिजहार। दानवराज मा मैवम प्राकृत[^2]स्येव
ब्रूमस्तवापि। तपश्चरणं वरप्रदानमिति अमरेर्मुनिभिश्च
कल्पेतो वञ्चनानार्य:। नहि दृष्टं कारण[^3]नन्तरेणेव[^4]
तवेश्वर्यलाभः। आवश्य[^5]कानन्यथासिद्धयुद्धजयसीमा-
क्रमादि[^*]भिरेव तत्सिद्धौ किं तपसा[^6]। युद्ध जया(दि)कं च
शौर्यबलादिकमेव[^*]। न च तावता प्रसजति जगदाधिपत्यस्य
सर्वसाधारणता। नहि त्वयीव क्वचिदस्ति दृष्टकारण किञ्चित्।
[^1]A,M- कायादि, T- कारीध्यादि, TC- कारीयादि, The reading is emended.
[^2]A,M- प्रकृतस्येव
[^3]A, M,T- करणमन्तरेण
[^4]A,T omit एव
[^5]A- भ्रूवश्यकान्, M-वश्यकान्
[^6] Madds तत्
*T treaks from क्रमादि upto एव</p>
<pb n="29" />
<p>तथाहि--
क्रोधस्फारितसिंहनादचकितप्रक्रान्तशक्रा[^1]दिम-
व्रीडः[^2] स्तम्भितगुम्भिताञ्जलिशतः क्वान्यत्र ते विक्रमः।
खेलोदस्तम[^3]दान्धकासरवरस्थायिभ्रमन्मस्तक-
भ्रश्यद्दण्डधरप्रमुक्तकरुणाक्रन्दं क्व वा ते बलम्॥१३।।</p>
<lg>
  <l>तत्कर्म वैधं सकलमफलं केवलं नृणाम्।</l>
  <l>अन्वयव्यतिरेकाभ्यां लौकिक्यस्सफलाः क्रियाः॥१४॥</l>
</lg>
<p>एवं च शरीरस्यात्मान्तस्य च भङ्गुरतां भग्नस्य
पुनरतु[^4]त्पत्तिं मोक्षस्य फलराजतां तस्य च दुःखासंभिन्न-
सुखरूपतां जानता[^5] मोक्ष एव यतितव्यम्। तदुपायश्च
निरन्तर सुखसाधनसंपादनमेव। इदं चात्र रहस्यमवधेयम्।</p>
<lg>
  <l>प्रातः खण्डितवनिताप्रसादनं सुप्रिरेव मध्याह्ने।</l>
  <l>नक्तं[^6] प्रियाङ्गनार[^7]तिरेषा दैनन्दिनी मुक्तिः॥१५॥</l>
</lg>
<p>[^1]TC- °शङ्कानति:
[^2]M- प्रीतः, TC- वृद्ध
[^3]A-°मदान्धकासनवरस्थाविभ्रमन्मस्तकं
[^4]T- उत्पत्ति°
[^5]M- जनयिता,A- जनता
[^6]M – भक्तं
[^7]M- प्रियाङ्‌गभारति</p>
<pb n="30" />
<lg>
  <l>भ्रान्त्या तु केचन तपः परुषं[^1] चरन्तो</l>
  <l>मोक्षाय[^2] सिद्धमपि मोक्षमुपेक्षमाणा:।</l>
  <l>आदेहपातमपि ते ग्लपयन्ति देहान्</l>
  <l>स्वस्मिन्[^3] प्रणश्यति भविष्यति कस्य मोक्षः॥२६॥</l>
</lg>
<lg>
  <l>यद्वा वेदविदां मतेन भवतस्तत्त्वं किमप्युच्यते</l>
  <l>येन स्यात्सुखमात्मनस्तदखिलैः कर्तव्यमेवाञ्जसा।</l>
  <l>नैवामुत्र तु भावि किञ्चन फलं दैत्यप्रभो को हि तद्</l>
  <l>वेदेति श्रुतिरेव सा भगवती ब्रूते[^4] कुतस्ते भयम्॥२७॥</l>
</lg>
<p>इत्येवं सन्यायं सदृष्टान्तं च तटस्थ[^5]तयेव प्रसक्तानु-
प्रसक्त्येव रहस्यतयेव अनुकम्पतयेवानुजिघृक्षयेव प्रति-
पादयति दनुजशासने तमः प्रधानतया दनुजानां सुख-
प्रवणतया हृद‌यानां बद्धमौनतया भार्गवाचार्यस्य विश्वस-
नीयतया मधुसूदनाकारस्य परिणततया सुपर्वगणकृता-
मावश्यकतया भवितव्यताया दुर्लङ्‌घ्यतया च विष्णुमायाया-
[^1]A,M- पुरुषाः
[^2]T adds one more सिद्ध
[^3]M – तस्मिन्, A-सस्मिन्
[^4]A, M have gap for of ब्रू
[^5]T- तटस्थयेव
[^6]A,M- कृतानाम्
30
1</p>
<pb n="31" />
<p>स्तत्क्षणमसुरेन्द्रास्तन्मतं रोचयामासुः चिन्तयामासुश्च।
कथमेषामेवास्माकं भ्रमो वृत्त:। पश्यत। शिल्पिभिः कृतानां[^1]
शिलानां तत्रापि निरवकाशग[^2]र्भानां प्रतिमासु देवतास्तिष्ठन्ति
नाम। अपि च लौकिकाग्नेर्वैतानाग्नेश्च को विशेषः। तत्र हि
वयमस्मदावश्यकान्येव घृतक्षीरदधिमुखानि बहो: कालात्
प्राक्षिपाम:। इदं चद्भुतमेव। जानद्भिरेव चाणूरमर्दनस्य
वृन्दावनविहारं शृण्वद्भिरेव शम्भोर्दारुकावनभीरु
भुजङ्गतामनुभूतश्चिरा देकदारव्रतखेदः। अलं गतमनु-
शोच्य। साधयामस्सुखमितःप्रभृतीति तत्क्षणं च ते
निरस्तदेवताविश्वासा: अप्यनेन विशेषदर्शनं वृत्तमिति
भगवन्तं मुकुन्दं पूजयामासुः। ततश्च तथा पूज्यमानस्सः
तद्विश्वासदाढर्याय तत्रैव कियन्तं कालम[^4]वात्सीत्। अथ
तेषां प्रबोधास्तनयेन मोहान्धकारपतितानामुत्पथ-
[^1]A- कृतानामाशीलानाम
[^2]A- ॰गर्भाम् प्रतिसुमासु, M- गर्भायप्रतिसुमासु
[^3]T omits हि
[^4]A - आसी</p>
<pb n="32" />
<p>प्रवृत्तिरासीत्। तदानीं च तेषु पुरेषु[^1]-</p>
<lg>
  <l>मातुर्वशं गता बाला वृद्धा भर्तृवशंगताः।</l>
  <l>सन्नद्धयौवना नार्यस्सर्वास्सर्ववशं गताः॥१८॥</l>
</lg>
<p>इदं च तत्र वञ्चनामाहात्म्यम्-</p>
<lg>
  <l>प्रस्वापं प्रतिपाल्य भर्तुरलसव्यावृत्तिदृष्टप्रिया</l>
  <l>निद्रान्तीव चिराय जार[^2]विहतिध्यानेन लीना प्रिया।</l>
  <l>सोऽप्येषा स्वपितु व्रजामि सुखमित्यास्तां परां चिन्तय-</l>
  <l>न्नित्थं वञ्चयतोः परस्परमपि व्युष्टा निशा कामिनोः॥१९॥</l>
</lg>
<lg>
  <l>मिथः प्रतार्य निर्यान्तौ भ्रमेण मिलितौ पथि।</l>
  <l>दम्पती त्वत्परीक्षार्थमिति निर्दोष निर्गमौ॥२०॥</l>
</lg>
<p>अपि च तदा दानवकुलपालिकानामपूर्वतया समुल्बण-
मन्मथाविर्भावस्य नूतनतयाप्यभिसारावतारस्य कतिपयेषु
दिनेषु कुलटाजन परिहास्यःप्रकार आसीत्। तथा हि
[^1]A- पतेषु, M- व्रतेषु, TC- परेषु
[^2]M- जारहृतिमानेन,A- जारहृतिर्मानन
[^3]T- ॰पालितानां</p>
<pb n="33" />
<p>दानवसुन्दर्य:--</p>
<lg>
  <l>दृष्ट्वा रक्ताः स्वयमभिसन्त्यन्तरेणापि दूती-</l>
  <l>र्भक्त्या यूनामपि विदधते पादसंवाहनानि।</l>
  <l>सन्त्र[^1]स्यन्ति प्रसभसिचयाक्षेपकण्ठ[^2]ग्रहेषु</l>
  <l>क्रीडाकोपात्प्रणमति विटेऽप्यन्वगन्वक्प्रयान्ति॥२२॥</l>
</lg>
<lg>
  <l>लज्जन्ते रतिकूजितेषु बलवत्कर्णौ पिधायाकुला-</l>
  <l>श्चाटून् कुर्वति कामुके निदधते पाणीन् विहस्योरसि।</l>
  <l>नैतद्युक्तमिति क्षिपन्ति तरुणान् बिम्बाधरं चुम्बतः[^4]</l>
  <l>क्रुध्यन्त्यप्यधिकं नखैर्विलिखिताः क्रीडासु वक्षोजयोः॥२२॥</l>
</lg>
<lg>
  <l>सुलभमदूत्यमचापलमचाटुवचःक्लेशमनपराधभयम्।</l>
  <l>धन्यैर्विटैस्तदानीमुप[^5]भुक्तं त्रिचतुराणि दिवसानि॥२३॥</l>
</lg>
<p>[^1]A,M- सन्त्रस्यन्ती
[^2]A,M,T-॰कर्ण॰
[^3]M- अन्वगच्छत्
[^4]A,T- चुम्बितः
[^5]A,M- उपभुक्तिं</p>
<pb n="34" />
<p>अतीतेषु च केषुचिद्दिनेषु--</p>
<lg>
  <l>यत्कौटिल्यमपाङ्‌गयोरथ च या वाचां पराची गति-</l>
  <l>र्या च क्रोधकठोरता प्रणतिभिःश्रान्तेऽपि कान्ते चिरात्।</l>
  <l>तत्सर्वं सविशेषमाविरभवत् तत्रैव कान्ताजने</l>
  <l>तत्सर्वैरभिनन्द्यतां रतिपतेराश्चर्यमाचार्यकम्॥२४॥</l>
</lg>
<p>असुराः पुनरेवमेव धर्माच्चलिताश्चक्रधरोक्तमोक्षकामा:
मधुपाननिकेतमग्न्यगारं विदधुर्देवगृहं च नाट्यशालाम्।
अपि च निरस्तदेवताराधना देवता इव कमिनी:[^3] निरपचार-
माराधयामासु:। किं च ते त्यक्ताग्निहोत्रा[^4] वैधाग्नीनिव
जाठराग्नीनवहिताः तर्पयामासुः।
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमद[^5]द्वैताचार्य
श्रीकण्ठ[^*]मतनिर्वाहधूर्वह चतुरधिकशतप्रबन्धनिर्मित्यलङ्क-
मीणः[^*]श्रीमदम्पय्यदीक्षितसोदर्यश्रीमदाच्चान्दीक्षितपौत्रस्य
श्रीम[^6]न्नारायणदीक्षितात्मजस्य श्रीमदतिरात्रयाजिनः कृतिषु
त्रिपुरविजयनाम्नि चम्पू[^7]काव्ये त्रिपुरदानवमोहनं नाम द्वितीय आश्वास:।
[^1]A, M- व्रतिभिः
[^2]M- आविरभूत्
[^3]M- कामिनीभिः, निरुपचारम्
[^4]A adds देवताग्निहोत्रा
[^5]T omits श्रीमद्वैताचार्य
[^6]T- श्रीनारायण
[^7]A- चम्बु॰
* A,M omic from श्रीकण्ठ to अलङ्कर्मोण</p>
<pb n="35" />
<p>तृतीय आश्वासः</p>
<lg>
  <l>कमलानि सहस्रमर्पयिष्यन् गिरिशे तेषु तदैक[^1]वर्जितेषु।</l>
  <l>स्वदृशोद्धृतया तमर्चयन् द्राक् दनुजारिस्तनुतां गिरां प्रसादम्॥१॥</l>
</lg>
<lg>
  <l>इत्थं विमोह्य दनुजान दनुजान्तकारी</l>
  <l>नारायणोऽपि मुनिरूपमपास्य हृष्टः।</l>
  <l>सार्धं सुरैस्सुरगिरे: कटकेष्वकार्षी-</l>
  <l>दुग्रं प्रसादयितुमुग्रतरं तपांसि॥२॥</l>
</lg>
<p>तथाहि[^4]--</p>
<lg>
  <l>दीर्घाम्भांवासमन्दप्रसृता[^5](बि)सबहिर्निःसन्नाभिपद्म-</l>
  <l>व्यामुक्तश्वासहृष्यद्वदन विधिनुतोच्चारणश्चारणेड्यः।</l>
  <l>वैकुण्ठः कण्ठदंध्ने पयसि सह सुरैस्संवसन्निर्निमेषं</l>
  <l>ध्यायन्नायम्य चेतस्त्रिपुरविजयि(द)[^6]रुद्रसूक्तं[^7] जजाप॥३॥</l>
</lg>
<p>[^1]T- तदेकनिर्जितेषु
[^2]A- दृशोद्धूतया, M- दृशोद्धतया
[^3]M,T- प्रसादः
[^4]M ormits तथाहि
[^5]M – ॰प्रसृतमपि, A, T- ॰प्रसृतपि
[^6] This is the emended reading. All mss. have त्रिपुरविजयिनं
[^7]A adds च</p>
<pb n="36" />
<p>तेऽपि पाकशासनप्रभृतयो नाकवासिनस्सहावतीर्णपवन-
सन्निधानमा[^1]सलितदहनसंपत्सुखोष्णेषु मानसजलेष्ववतीर्य
शीतजयेन सुखमीलितदृशश्चिरम[^2]त्वरमाणास्तपस्तेपिरे। तेषु च
सहस्रलोचनः कण्ठदघ्नजलनिमग्नः सारूप्यभ्रान्त शफर-
घट्टननिमीलदाकर्णलोचनावलिनिर्मज्जदप्सर:कुलकुवलय-
कु[^3](ड्)मलबुद्धिप्रसारितनखलिखितमुकुलिता[^4]क्षबद्ध भ्रुकुटी-
परम्परः कथञ्चिदपि प्रति[^5]क्षणनियमितेन चेतसा समा[^5]रराध
स्मरारातिम्। वरुणोऽपि निजा[^7]वासतया सरोजलं परि[^8]हृत्य
ना[^9]क्लिष्टशरीरस्य तपस्मिद्धिरिति सिद्धिकाम[^10]स्ती[^11]रदेश-
मागत्य ध्यायति स्म भस्मावकुण्ठितो नीलकण्ठम्।
वैश्रव[^12]णोऽपि नित्यैश्वर्यश्रमालसतया तपःश्रान्ति विश्रान्ति[^13]-
रहितः[^14] तपस्यतो नभस्वतस्समीपे तपस्तेपे। कतिपये तु[^15]
[^1]M- ॰मांसयिते
[^2]M- त्वरमाणाः
[^3]T- ॰कुध्मळ॰, A,M- ॰कूर्म-न्तु॰
[^4]M,T- मुकुलिताक्षी
[^5]A- पप्रतीक्ष नियमेन, M- प्रतीक्ष्य नियमेन
[^6]M,T- समाराधयत्
[^7]A- निजावासताय
[^8]M- अपरिहृत्य
[^9]M,T- नाक्लप्त
[^10]A- ॰कर्म:, M- ॰कर्म(ण):
[^11]A- तिन॰, TC- स्थिर॰
[^12]A- वैश्रवणे
[^13]T omits विश्रान्ति
[^14]A- ॰हितः, T- हेतोः
[^15]M omits तु</p>
<pb n="37" />
<p>गन्धर्वकिन्नरादयस्तप:क्लेशभीता विजयत रे परिश्रान्तो[^1]
भगवान् मुकुन्दो याव[^2]त्तीरे (निदिद्रियाय) नैर्ऋतो जले
निमग्नो मूर्च्छितोऽयमग्निस्सलिलगतः पश्यत रे न पश्यामः[^4]
चिरादश्विनाविति क्रोशन्तः सव्याजससंभ्रमप्रचाराः कथ-
ञ्चित्तपःक्लेशादुत्तीर्णाः। एवमेव देवगणैस्सह गणनाव्यापृत-
भुजचतुष्टयीवर्जितपाञ्च[^5]जन्यसुदर्शनादिहेति[^6]मण्डलपरिवृते
परितो[^7]ऽपि सरस्तीर[^8]कुण्डलितभोगकुण्डलीश्वरोपरिविस्तार्य-
माणफणासहस्रप्रच्छायवासिनिस[^9]विनयवैनतेयचालित-
चामरानिलनिर्मृष्ट[^10]निरन्तरमन्त्रपाठ[^11]कन्दलितमुखारविन्द-
स्वेदवारिणि वारि[^12]निमग्नवक्षस्तटसरभसोत्तिष्ठ[^13]दिन्दिरागाढा[^14]-
श्लिष्टपुलकितकण्ठमूले श्लक्ष्णतानादृतपीताम्बरान्वितकटि-
भागे भगवति प्लवमानवनमालाधरे दामोदरे तपस्यति सति
[^1]M- अपश्रितान्तो
[^2]A, T- धावत रे
[^3] This is the emended reading All mss, have निद्रयाय
[^4]M- वश्याम:
[^5]T- ॰पञ्चजन्य॰
[^6]A,M- ॰हेतु॰
[^7]A,M- अपवृतां:पि
[^8]A,M- सरसित॰
[^9]A- विनयवैनतेय॰, M- विनयेन ते
[^10]M- ॰दृष्ट॰
[^11]M- ॰पाठक॰
[^12]M- धारि...निमग्न।
[^13]A omits त्तिष्ठ
[^14]A,M- ॰गाथाश्लिष्ट॰, T- ॰गामगाश्लिष्ट॰</p>
<pb n="38" />
<p>गभस्तिमालिना हरितंप:क्लेशचकितेन त्वरित[^1]मतिकामिता(क्रामता)
इव सहस्रं दिनानीवं[^2] सहस्रं समा व्यतीयु:। ततश्च ते समुपलक्षित-
चिह्नास्समाप्य तपः[^4] सरोजलादुत्तीर्य परिधाय च विविधान्य-
म्बराणि न यावदलङ्कुर्वन्त्यङ्गानि तावदेव-</p>
<lg>
  <l>स्विधत्कन्धरनन्दिकेश्वरकरव्याधूतवेत्राहति-</l>
  <l>त्रस्यत्तापसपठ्यमानविविधस्तोत्र प्रसीदन्मुखः।</l>
  <l>कल्लोलं कलशाम्बुधेरिव तटीमुल्लङ्घ्य यान्तं[^5] वृषं</l>
  <l>गौरं गोरतरोऽधिरूह्य शिवया प्रादुर्बभूवेश्वरः॥४॥</l>
</lg>
<p>स च प्रचण्डतरतण्डुकरदण्डमण्डलीकृतप्रमथ[^6]मण्डल-
मध्यवर्ति[^7]कार्तिकेयकेलिकण्डूयितगण्डभागसुखमन्दायमान-
नयनवाहनवृपो वृषभ[^8]ध्वजयष्टिनिवेशितापराङ्गो वामाङ्ग-
सङ्गतसर्वमङ्गलाप्रणयचालितकुचोत्तरीयकन्दलितगन्धा-
मिलापनुद्यमानपथिर(थ)परिश्रमः परिश्रितार्जवमहाकाल-
[^1]A- त्वरतं
[^2]M,T have च for इव
[^3]A- ॰द्धिचिह्नाः, द्विचिह्नाः
[^4] a omits तपः
[^5]M,T- यातं
[^6]A,M- ॰प्रथम॰
[^7]M- ॰मध्यवर्त॰
[^8]A- वृषभध्वजयष्टा॰, M- वृषभर्धजयष्टा॰</p>
<pb n="39" />
<p>धार्यमाणचरणारविन्दः स्कन्दा[^1]ग्रजदत्तदूर्वाङ्कुरास्वाद[^2]समद-
वल्गि[^3]तकरकुरङ्गशिशुश्शशिखण्डमण्डनो विद्युमण्डलापाण्डर-
कलेबरद्युतिरिन्दीवरकोकनदपुण्डरीकारविन्दपङ्कजमाला-
नुकारिमुखपञ्चक[^5]श्शिशिरसञ्चरदपाङ्गपञ्चदशकानुगृहीत-
चतुर्दिशवन्दमानकर्मन्दिजनो जनार्दनमार्गनिहितेक्षणः
क्षणं[^7]बभूव।
अनन्तरं नन्दिकेशः केशवाय सुरगणमेलनविलम्बिने-
पुन:[^8] प्रमथान्[^9] नियुञ्जानो भृङ्गिणमपि निर्दिदेश।</p>
<lg>
  <l>प्रत्याह नन्दिनं भृङ्गी ततः क्रोधभयङ्करः।</l>
  <l>संभ्रमस्वेदनिर्मुष्टसान्द्र भस्मावगुण्ठनः॥५॥</l>
</lg>
<lg>
  <l>मया दृश्यः स्पृश्यस्त्वरितमभिगम्य प्रणतिभिः</l>
  <l>प्रसाद्यो विज्ञाप्यः प्रमथपतिरेव व्रतमिदम् ।</l>
  <l>शिर[^10]श्छिन्तां भिन्तामपि मम वपुः कोऽपि शतधा</l>
  <l>शपे पद्भयां शम्भोर्न परमुखमीक्षे कथमपि॥इति॥६॥</l>
</lg>
<p>[^1]A- सदाग्रजदत्त॰, T- एकदाग्रजदत्त॰
[^2]A,M have सदा for आस्वाद
[^3]M, T- ॰वलित॰
[^4]T- अनुविन्द, A,M- अनुविद्य, अरविन्द is the emended reading
[^5]T- ॰पञ्चर॰
[^6]T omits शिशिरसञ्चर॰
[^7]A,M- कणं
[^8]T adds पुनः
[^9]A- प्रथमान्
[^10]M- शिरश्छिन्नांभिन्नामपि</p>
<pb n="40" />
<p>एवं वदति भृङ्गिणि तद्भक्तिमहिमाभिनन्दी
नन्दीश्वरः स्वयमेव किचिदुपसृत्य संज्ञया हरिं
त्वरयामास। ततश्च[^1] दुरवबोधशिवमहिमसर्वस्ववेदी
नारायणः--</p>
<lg>
  <l>अर्थामुक्तकिरीटकुण्डलमधोण्या[^2]लम्बिपीताम्बरं</l>
  <l>व्यालोलद्वनमालमाकुलरमासंश्लिष्टवक्षःस्थलः।</l>
  <l>यावद्देवपति स्वयं धृतकरस्संभ्रान्तनागान्तकः</l>
  <l>द्राक्सी[^3]मन्तितदेव[^4]सन्ततिपथः प्राप्तश्शिवस्यान्तिकम्॥७॥</l>
</lg>
<lg>
  <l>भूलग्ना[^5]भुग्ननाभी[^6]कमलदल[^7]वसत्संकुचद्देहसद्यो[^8]-</l>
  <l>मन्दी[^9]भूतानिकाकुश्रुतिपठनविधिप्रार्थितोत्थानकालः।</l>
  <l>श्रीगात्रक्लेशशङ्कोन्नमित[^10]बृहदुरोलम्बहारश्चिराय[^11]</l>
  <l>स्वान्विष्टं दृष्टमङ्घ्रिद्वयमपि गिरिशं तं ववन्दे मुकुन्द:॥७॥</l>
</lg>
<p>[^1]A,M omit च
[^2]M- कुण्डलमयो॰
[^3]A omits सी
[^4]M ॰देव----थः, T- देवसन्ततिपयः
[^5]A,M- भूभागा॰
[^6]M- ॰नाभि॰
[^7]M- ॰ढले
[^8]A,M- ॰सन्धो॰
[^9]T- ॰मदी॰
[^10]M- ॰शमित॰
[^11]A- चाराय, M- चराय
[^12]M- गिरीशं
[^*] A  “is wanting in a leaf containing the portion तं ववन्दे.....to तपसस्तव मूल (on p. )</p>
<pb n="41" />
<p>अनन्तरं जलन्धराभिहितोऽपि निरस्यंरोमन्थ-
माकुञ्चिततनो: किञ्चिदिव वृषादवरुह्य ससंभ्रमप्रणय
प्रसारितैर्दशभिरपि भुजैश्चतुर्भुजमुद्दधार। परिजहार
च तद्वक्षसि लक्ष्मीसन्निधानात् प्रणयपरीरम्भणय्
दयमानः कटाक्षयामास च सविनयनन्दीरितालोक-
शब्द: पद्मनाभकृत[^1]नामनिर्देशान् पाकशासनमुखान्[^2]
दिगीशानष्टाद्म[^3] सन्तिकृष्टान् प्रणतानन्यानपि विदूरतो
वन्दमानान् वृन्दारकान् तदनु दनुजशासनश्चतुर्भुज-
श्चन्द्रशेखरमहिमस्तवाय मन्दमञ्जलिद्वन्द्वमाबबन्ध।</p>
<lg>
  <l>आलिङ्ग(न्)[^5] प्रणमन्निव व्रजवधूधूर्तः स्वयं मेदिनी-</l>
  <l>मद्यालिङ्गति चारञ्जलिं विश्चयँलक्ष्मीमसौ वक्षसि ।</l>
  <l>इत्थं[^*](मुग्धतया)[^6] गणान्प्रति(वद)[^7] त्युच्चै: सहा(से)[^8] हरे</l>
  <l>मन्दस्मेरमुखाम्बुजौ हरिहरौ व्रीडापराची शिवा॥९॥</l>
</lg>
<p>[^1]M- ॰विकृत॰
[^2]T- मुखा
[^3]T- अष्टापि,
[^4]M omits this word.
[^5]M,T- आलिङ्गात्
[^6]M reads इत्थमुद्धतया which is metrically wrong., इत्थं मुग्धतया is the suggested reading.
[^7]M- वदन्ति
[^8]M - सहासो
[^*]“T” is wanting in a leaf containing the portion इत्थमुद्धतया to तारकासुर(निषूदनम्) (on p.46)</p>
<pb n="42" />
<p>ततस्स गोविन्दः समन्दस्मितमेव तुष्टाव तमष्ट-
मूर्तिम्।
ओं नमस्सञ्चिदानन्दलक्ष(णायाखि)[^1]लात्मने।
योगिभिर्मृग्यमाणाय परस्मै ब्रह्मणे नमः॥१०।।</p>
<lg>
  <l>मूलाधारचतुर्दलाम्बुजभवत्प्रासादमौल्युन्मना(नी?)</l>
  <l>स्थानव्यञ्तितशुद्धनिष्कलचिदानन्दावभासाकृतिम्।</l>
  <l>त्वां वन्दे प्रतिसन्ध्यमन्धकरि(पो)[^2] ग्रन्थित्रयं दारयन्</l>
  <l>चक्रा(ब्जं)[^3] स्फुट्यन्निरुद्धपवन: प्राप्तस्सुषुम्नाध्वना॥११॥</l>
</lg>
<lg>
  <l>नमस्त्रिपञ्चनेत्राय पञ्चवक्त्राय शम्भवे।</l>
  <l>चक्रु(श्चाप्पवनाकाश)[^4] ज्योतिरारब्धमूर्तये॥१२॥</l>
</lg>
<p>त्वं सर्वं सहसे दयामयतनुस्त्वं जीवनं त्वं जगत्-
प्राणस्त्वं विबुधान्(बिभर्षि)[^5] सवनैस्त्वय्येव शब्दोदय:
त्वं नक्तंदिवभासके च महसी त्वं देवतानां मुखं
नैवं चेत्तव मूर्तयश्शिव कथं तिष्ठन्तु लोकास्त्रयः॥२३।।
[^1]M- ॰लक्षणया लीलात्मने ॰लक्षणयाखिलात्मने is the emended reading
[^2]M has ॰रिपौ, रिपो is the emended reading.
[^3]M has gap in the place of बजं, This is the emended reading.
[^4] This is the emended reading, M has चापवदाकेशे
[^5] षिभर्षि is the emended reading, M has विभदी</p>
<pb n="43" />
<p>पादः पातितदुर्विनीतशमनोर:पीठनिष्पीडनो
मौलिर्दुर्ललितोच्चल(त्सुरनदीदुर्गर्व) सर्वंकषः।
कण्ठः कुण्ठित दुर्वि(षश्चि(^2) दनुजोन्माथी) च सोऽयं कर।।१४।।
तत्किं येन कृतं हितं न जगतामङ्गेषु ते शङ्कर॥१४॥</p>
<lg>
  <l>इति स्तुतिं मुकुन्दस्य मन्दमाकर्णयन् हरः।</l>
  <l>व्याजहार हरिं हर्षवाचाल मुखपञ्चकः॥१५॥</l>
</lg>
<p>किं हरे भेद इव तत्त्वतस्तु क्रियते विक(ल) सनमेव?
तदास्ता मेतत्। कच्चिदव्याहतस्ते जगद्रक्षणव्यापारः।
कच्चिदनुत्ये(त्से) कस्सृजति जलजपीठस्सकलम्
जगत् कच्चित्कालेषु वर्षति पर्जन्य:। कच्चिदर्णवास्साप्तापि
मर्यादां नातिवर्तन्ते। कञ्चिद्भ्रमति ज्योतिषां चक्रम्।
कच्चिच्च स्वस्ति गोब्राह्मणेभ्य:। कच्चिदपि सुखं जीवलोकस्य।
[^1] This is the emended reading., M- चलत्युरनदीदुर्गस्य
[^2] This is the emended reading., M- दुर्वि...दन्माथ</p>
<pb n="44" />
<lg>
  <l>किं कालकूट इव काचन भीमवृत्तिः</l>
  <l>किं वाभ्रसिन्धुरिव काचन दुर्विनीना।</l>
  <l>शंस स्थितोऽ(स्म्य)[^1] वहितो जगतां हिताय</l>
  <l>यच्चान्यदस्ति तपसस्तव मूल[^*]भूतम्[^2]॥१६॥</l>
</lg>
<p>इति वदति भगवति भगनेत्रहृति[^3] दामोदर: सामोदः
पुनरवाढीत्। सर्वज्ञ न परबोध्या जगतां वृत्तिः।
जगन्मयस्त्वमसि। भवदुक्ति प्रत्युक्ति स्पृहया तदपि
ब्रवीमि पुनरुक्तम्।</p>
<lg>
  <l>चतुराननमान भेदन-</l>
  <l>क्षणदुर्दान्तकृतान्त मर्दन।</l>
  <l>स्मर[^4](शासन)[^5]शासनं तवा[^6]-</l>
  <l>प्यतिलङ्घेत कथं जिजीविषुः॥१७॥</l>
</lg>
<p>कथं पुनरस्वस्ति जगतस्सकललोकशङ्करे शङ्करे
जगत्स्वा[^7]मिनि इति क्रमेण प्रकृतमपि कार्यं विवक्षति
[^1]M- स्थितोऽस्यव्यवहितो
[^2]M- मूलभृतः
[^3]A- भगनेत्रभृदि
[^4]A- स्वर॰
[^5] This is the suggested reading. All mss. Omit this word.
[^6]M- च व्याप्यातिलङ्घेत
[^7]M- जगत्स्वामि.....र्मेण प्रकृतमपि
[^*]‘A’ resumes here onwards.</p>
<pb n="45" />
<p>तार्क्ष्यध्वजे निजनिजचापलातिशयचोदिता शतमख[^1]मुख-
बहिर्मुखा जय जय जलन्धरान्धकादिदनुजमहान्धकार-
निवर्तन संवर्तविकर्तनाकारघोररूपकृतान्तमर्दनोद्दण्ड-
खण्डितदुर्दान्तविधिपञ्चमवदन मदना[^3]ब्धिशोषणबाडव-
ज्वाल खेलकबलीकृतक्ष्वेल क्षोभितदक्षाध्वर रक्ष रक्ष
विरूपाक्ष कमलाक्षमुखत्रिपुरदानवभयादित्युद्वाहवस्ते
चुक्रुशु:।</p>
<lg>
  <l>हुंकृत्य त्रिदशगणान् मद[^4]प्रकोपा-</l>
  <l>दुच्चै(रादृत)[^5] वलमान(वेत्र)[^6] दण्ड:।</l>
  <l>श्रीनन्दी हृदयमुमापत्तेरजानन्[^7]</l>
  <l>भीमन्दीकृतरभसस्तमालुलोके॥१७॥</l>
</lg>
<p>[^1]A has ॰मुख॰ for ॰मख॰
[^2]M omits मुख
[^3]A omits मदन
[^4]M- विनदप्रकोपात्, A- विप्रद-कोपात्
[^5]M- अनुद्धृत
[^6]This is the emended reading. All mss. have gap.
[^7]M- अजन्य</p>
<pb n="46" />
<lg>
  <l>देवोऽपि देवकुलचापलतः पिनाकी</l>
  <l>(साचिस्मित)[^1]च्छुरणसुन्दरवक्त्रवृन्दः।</l>
  <l>भ्रूसंज्ञयैव विनिवार्य स नन्दिकेशं</l>
  <l>पप्रच्छ केशवमनक्षरमक्षिपातै:॥१९॥</l>
</lg>
<p>अनन्तरमरविन्दलोचन:[^2] सानन्दमिदम[^3]वादीत्।
अस्ति देवस्य चित्ते कुमारस्य बालविलसितं[^4] तारकासुर-
(निषूदनम्)[^5]। तस्य[^*] खलु महासुरस्य पुत्रास्त्रय:। पुरा
शिशव इत्युपेक्षिताः। कमलाक्षप्रभृतयस्त्रीणि पुराण्य-
धिवसन्तः त्रीणि जगन्ति निर्दहन्ति। तेषां च चेष्टितानि
निर्मर्यादानि। अनुचितः[^6] प्रभु(सन्निधा)[^7] वसत्प्रसङ्ग इत्युपा-
रम्यते। अस्ति च मयि स्थापितो[^8] भवद्भिर्जगद्रक्षणाधिकार:।
[^1]A, M- सा......सिनच्छिछुरण
[^2]M omits ॰लोचनः
[^3]M omits इदं
[^4]M- ॰हसितं
[^5]A- निष्ठ.....षर:, M- निष्ठ....दनः
[^6]M- अनुमतः
[^7]A- सन्ति यावसत् विप्रसङ्ग, M- सन्ति यावसत् प्रसङ्ग
[^8]A- स्थापिते
[^*] "T" resumes here on words.</p>
<pb n="47" />
<p>मया च हिरण्यहिरण्याक्षप्रभृतिभ्यो रक्षितं जगदियन्तं
कालम्। अपि त्वद्य[^1] पुनरशक्तया विज्ञापित इति[^2]
सविनय[^3]मनुच्चमुक्तवानस्मि। यथाशक्ति च मोहितास्त्रिपुर-
दानवाः। यत्सृजति पद्मजन्मा तव मूर्ति[^4]भिरेव पच्चभिर्भूतै:
जगदखिलं त्वद्रूपम् तत्[^5] संहर रक्ष[^6] वा स्वैरम[^7]। इति सवि-
नयमनुच्चम(नी)चमग्रस्तमनिरस्तमनाम्रेडितमनम्बूकृत-
मगूढार्थमपि गरुडासनेन सभयमीरितां विज्ञप्तिमाकर्ण-
यन् भवार्णवकर्णधारश्शिवः किमुत्तरमाज्ञापयिष्यति
सर्वज्ञ इति चिन्त[^10]यत्सु निश्शब्देषु निष्कम्पेषु निसर्गतो
[^1]A omits तु
[^2]T omits from इति to उक्तवान्
[^3]A- सविनय अनुयमनि च वानस्मि
[^4]A- has gap between तव and मूर्तिभिरेव
[^5]A omits तत्सं
[^6]A omits क्ष
[^7]M- मेस्वर: for स्वैरम्
[^8]M- अनुचमन्तिचमग्रस्त॰
[^9]M- आज्ञापयिष्यसि स....इति
[^10]M- चिन्तयति निश्शब्देष्ट निष्कर्मपेषु, A- चिन्तयत्युश्शब्देष्व निष्कम्पेषु</p>
<pb n="48" />
<p>निर्निमेषेषु सोद्ग्रीवमीक्षमाणेषु गीर्वाणेषु सानन्दमन्द-
स्मितं किमियदेव निर्दहामि त्रीणि[^1] पुराणि। परिश्रान्तोऽसि
गोविन्द विश्रम्यतां[^2] मयापि विश्रम्यते क्षणमित्यभिधाय
तत्क्षणमेव शिल्पि(लप) कर्मविचक्षणविश्वकर्मनिर्मितं[^3]
अन्तर्म[^3]णिचित्रितं नर्मगृहं प्रविवेश।
अनन्तरं नन्दिकेश: स्वयमप्यन्तः प्रविशन् दुन्दुभी(भि)-
ताडनपुष्पवृष्टिपूर्वकं किमितः[^4] कर्तव्यमस्माभिरुपदिशेति
पीड्यमानः सम्पादयत रे निलिम्पाः शम्भो रथादि-
संभारानित्युप[^5](दि)श्य त्वरितमन्तर्जगाम।</p>
<lg>
  <l>निष्क्रान्ते जगतः[^6] प्रभौ स्वयमुमाकान्ते मुकुन्दस्तदा</l>
  <l>सानन्दप्रभवं क्रमेण विगल[^7]त्सङ्कोचधीराकृतिः।</l>
  <l>सुत्राम्णः[^8] पतगेश्वरस्य च करावालम्ब्य लम्बाम्बरः</l>
  <l>स्वेच्छा[^9]लापनिरङ्कुश: परिवृतो जज्ञे सुरैरुत्सुकै:॥२०॥</l>
</lg>
<p>[^1]M- त्रिपुराणि
[^2]M omits विश्रम्यतां मयापि
[^3]M- निर्मितं अभर्मणि, T- विनिर्मित अभर्ममणि
[^4]A- कमित:
[^5]A,M, T- उपविश्य
[^6]A- जगतं
[^7]A – विगलव्यकोङ्कोचराकृतिः, M- विगलन्यङ्कोचराकृतिः
[^8]A- सुत्रा, M- सुत्रा(मा)
[^9]T.C- स्वेच्छालाभ</p>
<pb n="49" />
<lg>
  <l>संमयर्देऽद्य कपर्दिवाहनवृषव्या[^1]मर्दितोऽहं क्षणं</l>
  <l>नन्दी[^2]मन्दमताडय[^3]च्छिवसदस्यद्य प्रकोपोऽपि माम्।</l>
  <l>दृष्टोऽहं क्षणमीश्वरेण दयया स्पृष्टस्त्वहं भृङ्गिणे-</l>
  <l>त्यन्योन्याहित[^4]संकथं मुमुदिरे[^5] शश्वदिशामीश्वराः॥२१॥</l>
</lg>
<p>इति भरद्वाजकुलजलधिकौस्तुभ-श्रीमद[^6]द्वैतविद्याचार्य
श्रीकण्ठमतनिर्वाहधूर्वह-चतुरधिकशत प्रबन्धनिर्मित्यलंकर्मीण
श्रीमद[^7]प्पय्यदीक्षितसोदर्य-श्रीमदाच्चान्दीक्षितपौत्रण
नारायणदीक्षितात्मजेन श्री[^8]भूमिदेवीगर्भसंभवेन
श्रीमदतिरात्रयाजिना विरचिते त्रिपुरविजयनाम्नि चम्पू[^9]-
काव्ये शिवप्रसादो नाम तृतीय आश्वासः समाप्तः[^10]।
[^1]A - ॰व्यामर्दितो भंक्षणं, M- ॰व्यामदतितो भंक्षणं
[^2]M- न मन्दमतां यच्छिवसदस्य प्रकोपेऽपि माम्
[^3]A omits ड
[^4]A omits त
[^5]A,M- मुमुपदिरे
[^6] T omits श्रीमदद्वैतविद्याचार्य
[^7]A - श्रीमदप्पय॰
[^8]A,M omit श्री भूनिदेवी गर्भसंभवेन
[^9]A- चम्बुकाव्ये
[^10]A omits समाप्तः</p>
<pb n="50" />
<p>चतुर्थ आश्वासः</p>
<lg>
  <l>क्रुद्धेषु त्रिपुरेष्वकाण्डमिलनादारब्धघोरक्रमे-</l>
  <l>ष्वास्फाल्याशु धनुर्निषङ्गनिहिते पाणौ पुरद्रोहिणा।</l>
  <l>भ्रश्यन्नाभिसरोजमाकुलवलल्लक्ष्मीकमर्धोच्चल-</l>
  <l>न्मध्यासञ्जितकौस्तुभं मधुरिपुर्बाणीभवन् पातु वः॥१॥</l>
</lg>
<lg>
  <l>अयं[^1] चतुर्थ आश्वासः आश्चर्ये[^2]णैव[^3] पूर्यते।</l>
  <l>भविष्यन् पञ्चमस्त्वन्ते रौद्रभीमभयानकैः॥२॥</l>
</lg>
<p>अथ भगवानरविन्दलोचनः सहस्रलोचनमुख-
बर्हिर्मुखा(न)वधृतनन्दिकेश निदेश: क्षणमित्र विचार्य
दिविषदाचार्यस्पृहणीयमतिरिति जगाद[^4]।
प्रतिज्ञातं हि पुरा शरोऽहमेव भवामीति। तदनुरोधेन[^5]
च विचार्यमाणे फणाधरेश्वर शायिनो[^6] मम फणाधरेणैव
गुणेन भवितव्यम्। भवितव्यं च तादृशमुणबन्धसमाकर्षण-
[^1]T. अञ्चतुर्थ
[^2]A.M- आर्येणैव
[^3]M- adds च
[^4]M- जगाम
[^5]A omits न
[^6]A- शासन नो, M omits शायि</p>
<pb n="51" />
<p>अन्य भगवानरविन्दलोचन: सबहुमानमन्दस्मित-
विषयीकृतं तमुवाच। साधु भोस्साधु इङ्गितज्ञोऽसि।
किं बहुना। नातिवक्तव्योऽसि। जानास्येव प्रस्तुतं
देवकार्यम्। तदुचितमेव देवदेवस्य भगवतः श्रीमतो
नीलकण्ठस्य रथादि मम मनोरथानुगुणं सम्पादनीयम्।</p>
<lg>
  <l>इत्याकर्ण्य स दैत्यारे र्गिरं प्रत्याह साञ्जलि:।</l>
  <l>चित्तमाराधयाम्यद्य क्षणेन भवतामिति॥४॥</l>
</lg>
<lg>
  <l>अपक्रम्य[^1] शुचिर्भूत्वा समासीनस्सुखासने।</l>
  <l>ध्यायति स्म क्षणं तत्तदेवमेवं भवत्विति॥५॥</l>
</lg>
<p>तदानीन्तनानि च कर्माणि लोकविस्मयकराण्येव। तथा हि--</p>
<lg>
  <l>पर्यन्तच्युतपर्वताहतिदलब्रह्माण्ड[^2]भाण्डध्वनि-</l>
  <l>भ्रान्तस्वान्तदिगन्तसिन्धुरमहाफीट्कारघोरस्थिति:।</l>
  <l>अश्रान्तं परितोऽपि वारिधिपयः पुरैवाद्रीकृता</l>
  <l>सद्यस्स्यन्दनरूपमाप मृदुतां प्राप्य स्वयं मेदिनी॥६॥</l>
</lg>
<p>[^1]M- उपक्रम्य
[^2]M - ब्रह्माण्डकनि(भाण्डोदरे)</p>
<pb n="52" />
<p>किमनेन काकदन्त विचारेण। यथा तथा वास्तु।
इदमिह पौराणिकदुर्विलसितं, कथं निरवयवा एव
काला नेमयो भवन्तु। कथं वा तादृशमन्तरिक्षमक्षदण्डोऽस्तु।
अन्यच्च न श्रुतमितः पूर्वं[^1] द्वाभ्यामेव चक्राभ्यां
महानपि रथश्चलतीति। एतादृशानि बहूनि सन्ति। किं
तदनुक्रमणेन। इदमिदानीमौचित्यादेवमुन्नीयते।</p>
<lg>
  <l>चक्राकारतयास्ति मध्यसुषिरो यश्चक्रवालाचलो</l>
  <l>यद्वा दैत्यभिदस्त्रिविक्रमतनो: पाणौ रथाङ्गं महत्।</l>
  <l>तद् द्वन्दुं तुहिना[^3]करे गिरिवरे बद्धवा महापस्करे</l>
  <l>मन्ये भूमिरथं सुखेन[^4] चकृषुश्चक्रैश्चतुर्भिर्हया:॥१०॥</l>
</lg>
<p>उपरि च क्रमोन्नताः सर्वतः पर्वता एवं रथस्तम्भाः
परिणताः। आच्छादनं च तदुपरि नालिकेरदलैरिव[^5] सजलै[^6]-
[^1]A- पूर्वभाभ्यामेव, M-पूर्वाभ्यामेव
[^2]M- °सुबरो
[^3]A- तुहिनाकारे
[^4]A- सुरै
[^5]T- एवं
[^6]T omits सजलैः</p>
<pb n="53" />
<p>रेव श्यामलैः जल[^1]दैरुत्प्रेक्ष्यन्ते। तेषां च बन्धनं तटि-
ल्लाताभिरेव सुकरम्।</p>
<lg>
  <l>स हि भूरादिभिर्लोकैर्बहुभूमो महीरथः।</l>
  <l>भूषितः कल्पवृक्षादिकल्पितैरम्बरादिभिः॥११॥</l>
</lg>
<p>ततश्चैतानि तान्यासन्।</p>
<lg>
  <l>कैलासो रथमध्यमग्रघटितं चक्रं तु तद्वेधसः .</l>
  <l>पीठाम्भोरुह मुन्नतोन्नतमहानालं विशालं दिवि।</l>
  <l>नक्षत्राणि सुमानि मौक्तिकसरास्तारा ग्रहा दर्पणाः</l>
  <l>क्षुद्रच्छत्रगणा इमे परिधयस्ते केतवः केतवः॥१२॥</l>
</lg>
<p>नवकनकचित्रिता[^2]रुणखण्डांशुकपट्टिकासदृशाः।
स्यन्दनमभितो बद्धा रोहितलतिका व्यराजन्त॥१३।।
[^1]M- जरूत्प्रेक्ष्यन्ते, A: जदैरुत्प्रेक्ष्यन्ते
[^2]M, T - ॰चित्रितारुणा</p>
<pb n="54" />
<lg>
  <l>भग्ने चक्रे नियोक्तुं रथचरणतया धारितं[^1] तस्य पश्चा-</l>
  <l>ज्ज्योतिश्चक्रं निबद्धं पृभुभिरजमुखै राशिभिर्नेमिभागैः।</l>
  <l>रक्षायै चाक्षदण्डः समजनि स परः पुष्करद्वीपमध्य-</l>
  <l>स्थास्नुर्ब्रह्मांण्डलेखी तदवहदनिशं पुष्करः पादपो यः॥१४॥</l>
</lg>
<lg>
  <l>स्वरभेदभवत्पदक्रमाः प्रणवावर्तशतोपलक्षिताः।</l>
  <l>अभवल्लाँलिताङ्गमण्डना निगमा एव तुरङ्गमास्तदा॥१५॥</l>
</lg>
<p>विधिरथ सारथीभूय व्याकरणैरेव कशा[^3]भिरभू(भित:)
सञ्चारयन्निगमान्निबबन्ध वसुन्धरास्यन्दने।
एवं क्षणमात्र[^4]मन्यथान्यथा परिणमति जगन्मात्रे
क्षणमपि इदमीदृशमिति कुत्रापि वस्तुनि विश्वासगमा-
लौकिकी[^5] प्रवृत्तित्यद्भुतासीत्।
[^1]M दारुभं, T- दारुतं
[^2]A-नेमभागै:, M-नेनिभङ्गै:
[^3]A, M- कशाभूरभूतः
[^4] क्षणमात्रान्यथान्यथा
[^5]A- लौकिकां, T- लौकिकानां</p>
<pb n="55" />
<p>तथाहि--</p>
<lg>
  <l>गन्धर्वेषु सुधाशनेषु दनुजेष्वन्येषु वा संभ्रमा-</l>
  <l>देको न क्षणमीक्ष्यते यदि तदा तत्पुत्रमित्रादयः।</l>
  <l>अद्यायं विहितो रथावयव इत्यालोच्य शोच्यानना</l>
  <l>देहि त्वष्टरमुं प्रसीद भगवन्नित्यू[^1]चुरत्याकुलम्॥१६॥</l>
</lg>
<p>अपि च तदा तदाकस्मिकमन्यथाभवनं प्रत्येकमपि
प्रति[^2]क्षणमाशङ्कमाना दैवादेतावतः कालस्यापि न[^4] विकृ
तानीति(अ) खिलान्याङ्गानि पुनः पुनरवेक्षमाणाः प्रति-
भयास्तमितकर्तव्यबुद्धयः केऽपि पलायन्ते स्म दिगन्तेषु।
अन्ये पुनः ज्ञास्यति चेदयमन्यथयिष्यतीति विचार्य
विश्वकर्मदृष्टिपथ परित्यागेन तत्पश्चाद्भागे निश्शब्द-
मवनता[^5] निलीयन्ते स्म। इतरे च नाय[^*]मुपयुक्तानन्यथा
करिष्यतीति धिया रथमलङ्कुर्वन्त इव तत्समीपमागत्य
[^1]M- इडूचुः
[^2]M- प्रतीक्षण
[^3]A- दैवादेव तावत:
[^4]A,M omit न
[^5]A,M omit अव
[^*]T-  नायम् to कपटशीला:(in p.58) lost in leaf damage</p>
<pb n="56" />
<p>सङ्घीभवन्तः क्षणं क्षणं युगमिव क्षिपन्ति स्म। कतिपये[^+]
तु कपटशीला:[^*] कार्या[^+]क्षमांस्त्यक्ष्यतीति दौर्बल्यमभि
नयन्तः प्रतिक्षण[^1]नाटितमूर्च्छाप्रवृत्तयस्तद्ग्रत(एव[^2]
स्थिताः)[^3]।
किं बहुना पाक[^f]शासनप्रभृतयोऽपि हरित्पतयः शिव-
रथादिपरिकरीभवनयोग्यता पर्वतादिषु महत्स्वेवेति
निश्चिन्वन्तोऽपि रथाङ्गपाणिबाणीभावमनुस्मृत्य
कथमस्मासु पर्यवस्थतीति रणरणकतः परस्परस्य
मुखान्यवलुलोकिरे।</p>
<lg>
  <l>इत्थं त्रैलोक्यरूपे परिणमति रथे[^f] मानवा दानवास्ते</l>
  <l>देवाश्चावासलोपादुपरिधृतमहाभारसंभुग्नकण्ठाः।</l>
  <l>सार्धं[^5](दारैः) कुमारै: पशुभिरपि पदं क्वाप्यनासादयन्त-</l>
  <l>स्त्वष्ढा दृष्टाश्च पश्चात् प्रतिकृतिसदृशाः स्यन्दनस्थाननन्दुः[^6]॥१७॥</l>
</lg>
<p>[^1]A– प्रत्, M omits प्र
[^2]A,M,T- एत
[^3]A- सिताः, M,T- स्मिता:
[^4]A- अपरिधृता
[^5]A- सार्द्धा-रै:
[^6]A- नानन्दु:
[^+]A- कतिपये to कार्या lost due to tereakage in the leaf
[^f]T- पाकशासन to परिणमति lose in least damage.</p>
<pb n="57" />
<lg>
  <l>आक्षिपसि सर्वजगतां रथरूपतया क्वतेस्थिता लोके।</l>
  <l>त्वष्टाःदृष्टा: पश्चादिति यदि पौराणिकान् पृच्छ॥२८॥</l>
</lg>
<p>अथ निखिलजगदाधारः सुमेरुरपि स्मरहरस्य
शरासनीभवितुमुचितमाकारमाकलयन्न[^1]तिजिह्मनिपतित-
ब्रह्मसदनमुपकण्ठगलित[^2]वैकुण्ठभवनमनायासकम्पित-
शिवा[^*]वासभुवनम् उद्धूयमानवरुणपुरं स्मयमानपवमान-
नगर(भ्रा)[^3]न्तदेवासुरमुत्प(न्न)[^4]भययक्षराक्षसमुत्कम्पित[^*]
हृदयकिंपुरुषमुत्सन्नधृति[^5]पन्नगमाकुलभ्रमदप्सरःकुल-
मात[^6]लोद्वान्तसरोजलमजस्स्रस्तुत[^7]निराधारनिर्झरधार-
मतवलम्बमृगकदम्बमन्तरिक्षचलितपक्षिपतनभीत-
शबरयूथदृढावलम्बिततिरचीनवनराजि च[^8] मध्यभाग-
लग्ना[^9] मेदिनी क्व गतेति पश्यन्निव मत्तोऽपि महीरथोऽयं-
[^1]A- नयति for अति
[^2]A omits गलित
[^3]T has gap in the place of भ्रा
[^4]T- उत्पत॰
[^5]A, M- प्रति for धृति
[^6]M- आगलोद्वान्त॰
[^7]T- ॰स्तुत॰
[^8]M,T omit च
[^9]A- लता for लग्ना
[^*]A, M- omit from शिवावास to उत्कम्पित</p>
<pb n="58" />
<p>मुन्नत इति लज्जमान इव बहो: कालादखिल भुवना-
धारतया भारभङ्गुर इव हठाच्छिरोऽपि नमयामास।
तदानीं च तस्य मेरो:--</p>
<lg>
  <l>जातस्पन्दनधूतबन्धनगलद्भोगान्तरालद्रुत-</l>
  <l>भ्रश्यत्सिन्धुरकृत्तिमन्धकरिपुं ह्रीनम्रितोमामुखम्[^1]।</l>
  <l>कुर्व[^2]न् द्राक्श्वसनं क्षणं मृड[^3]कटीसूत्रं विचित्रं दधे</l>
  <l>मौर्वीभावमखर्वविग्रहतया दर्वीकराधीश्वरः॥१९॥</l>
</lg>
<p>तदनु[^4] तदनुगुणमेव--</p>
<lg>
  <l>स्पष्टीभूतभुजङ्गलोकमभितो व्याकीर्णरत्नो[^*]त्करं</l>
  <l>व्यावलगज्जलजं तु शान्तबडवावक्त्रानलाडम्बरम्।</l>
  <l>कल्लोलैःस्थलतः[^5] क्षणात्स्वयमुपर्युत्पलुत्य दुग्धार्णवः</l>
  <l>प्रायेणायतबुद्बुदाकृतिधरस्तूणीर भावं गतः॥२०॥</l>
</lg>
<p>[^1]M omits मा
[^2]A-  कुर्वन्द्रश्वसनं, T- कुर्वन्ति श्वसनं
[^3]M- स भ्रुकुटीसूत्रं
[^4]T adds अथ
[5]M- स्खलतः
[^*] The order of the passage is faulty from here
upto the end of this  Āśvāsa in A and M.</p>
<pb n="59" />
<p>ततश्च--</p>
<lg>
  <l>उत्पाद्य नाभि[^1]कमलं[^2] कमलामव[^3]रोप्य कौस्तुभं त्यक्त्वा।</l>
  <l>उपदिश्य[^4] च कर्तव्यान्युपरि सुरेभ्यःशरो[^*]ऽभवच्छौरि:॥२१॥</l>
</lg>
<lg>
  <l>लक्ष्मीस्तदात्वविरहा[^5]नलतापिताङ्गी</l>
  <l>शैत्योपचारकरणाय (तदेति)[^6]मन्ये।</l>
  <l>अम्भोजमह्नि निलयं कलयांबभूव</l>
  <l>नक्तं च चन्द्रमसमावसथं[^7] वितेने॥२२॥</l>
</lg>
<lg>
  <l>विद्युद्वल्लिभिरायताभिरभितः पाशैरिवासन्दिताः</l>
  <l>सान्द्रेन्द्रायुधधोरणीमणि[^8]मयालङ्कारसङ्घाङ्किता:।</l>
  <l>स्पारस्फूर्जथुघोरदण्डघटनप्रोद्गीर्णकर्णज्वरा</l>
  <l>वायुस्कन्ध[^10]धृता वलाहकमहाभेर्य: प्रणेदुस्तदा॥२३॥</l>
</lg>
<p>[^1]M omits नाभि
[^2]T- ॰कमल॰
[^3]T- परोप्य
[^4]A- उपदिश्यत
[^5]A - ॰विरहातल॰
[^6] All mss have तदादि, This is the em. reading.
[^7]A- आवसतं वितेते
[^8]A omits मणि
[^9]M- ॰संवाङ्किता:॰
[^10]A- ॰स्कन्द॰
[^*]T ends with सुरेभ्यः श</p>
<pb n="60" />
<p>ततश्च तमकाल मलित चतुरर्णवीकोलाहलघोरमारव-
माकलयन् कलाधरशकलमौलिख[^1]गम्य समस्तमप्युपनत-
माहवो[^2]पकरणं समन्द[^*]हासचलितापाङ्गसमालिङ्गितगिरिजा-
मुखजलजातसविलासचलितभ्रूलतानुमत: त्रिपुरदानवदारणाय[^*] तत्
तत्क्षणमेव सन्ननाह।</p>
<lg>
  <l>आबद्धय चर्मवसनं परिवेष्टय पृष्ठ-</l>
  <l>लम्बज्ज[^3]टावलयमर्धशशाङ्कमौलि:।</l>
  <l>मुक्त्वा मृगार्भकवराभयदानमुद्राः</l>
  <l>सर्वैः करै: परिममर्श महायुधानि॥२४॥</l>
</lg>
<lg>
  <l>आलम्ब्य नन्दिकरमद्रिसुतां निवर्त्य</l>
  <l>हेरम्बमग्निभुवमप्यनुमन्यमान:।</l>
  <l>देवर्षिभिर्जयजयेति निवेद्यमानो</l>
  <l>भूमीरथं पुरहरः स्वयमारुरोह॥२५॥</l>
</lg>
<p>[^1]A - अवगत्य
[^2]M. उपकरणाय
[^3]M- ॰छटा॰
[^*]M omits from समन्दहास to दारणाय</p>
<pb n="61" />
<p>तदात्वे च मन्दमिव चरणारविन्दं विन्यस्य जन्यहेतो-
रखिलजगत्कुक्षिंभरावारोहति नीललोहिते, परस्पराश्र्ति-
ष्यदतलादिसकलपातालभ्रमनिरुच्छ्वासमर्दिततत्तल्लोक-
सत्त्वजालमति[^1] भुग्नफणावलयफलायनोपायगवेषणव्यग्र-
फणाधरेश्वरम् अतर्कितोपनमदतिभारभङ्गुरपतङ्गशशाङ्क-
मयरभाङ्गयुगलप्रवेशपटपटरटज्झटिति विघटितब्रह्माण्ड-
भाण्डसरभसमज्जनक्षुभितमहावरणोदकप्रसक्तबुद्बुदा-
वर्तसहस्रदुरन्तभ्रान्तसमीपतरविध्यण्डमण्डलम् अव-
खण्डितपदक्रमसंजूपतितविसंज्ञनिगमलुरङ्गमुखलीन-
खलीनसमाकर्षणप्रवृत्ति[^2]निपात्यमानविगतमानसूत-
पदाभिषिक्तकमलभवं हाहाकारमुखरहाहादिगन्धर्व-
सिद्धचारणमप्युन्मुखबर्हिर्मुखमभिपतन्त[^3]मवनीरथं
शिवशक्तिपुंरुपतया शिवसमानमहिमा माधवस्तत्क्षण
मुक्षरूपधरः समुद्दधार। ततश्च तरुणेन्दुमौलिरियाय
[^1]M- इतिभुग्न॰
[^2]A- ॰प्रवृत्त॰
[^3]M- पतन्तद्वनीरथं</p>
<pb n="62" />
<p>(विस्मय)[^1] मन्तरायो गजाननसभाजनाभावकृत इति निभाव्य
सभाजनेन तमनु[^2]गृह्णन्तु[^*] उप[^3]सम्भृतपरमगौरव: समुत्थाप्य
निगमतुरङ्गमान् आश्वास्य च निःश्वासबहुलं क(म)लभुवम्
असुरजयाय धरणीरथं समुत्क्षिप्य पुष्पवच्चक्रे चालयांचक्रे।</p>
<lg>
  <l>ये भूर्भुव:स्वर[^4]भितो निवसन्ति रुद्रा-</l>
  <l>स्ते देवदेवमवकर्ण्य रणाय यान्तम्[^5]।</l>
  <l>क्रोधोद्धता: प्रतिभयभ्रुकुटीविटङ्का:[^6]</l>
  <l>प्रादुर्बभूवुरति दी प्रमहात्रिशूलाः॥२६॥</l>
</lg>
<lg>
  <l>एकद्वित्रिचतुर्दशाष्टवदनघ्राणाक्षबाहुदराः</l>
  <l>सिंहव्याघ्रतरक्षुऋक्षशरभश्येनाश्व[^8]यानाश्रिताः।</l>
  <l>क्रोधाग्निज्वलिताननाः परिधनिस्त्रिंश(त्रि)शूलायुधा</l>
  <l>गर्जन्तः प्रमथाः शिवस्य पुरतः सङ्ख्यातिगाः सङ्गताः॥२७॥</l>
</lg>
<p>[^1] This is the em.reading. All miss. read न स्मयम्
[^2]M- अन्वगृह्णन्तु
[^3]M- उपसंहृत॰
[^4]M - भूर्भुवस्सुवः
[^5]M - सान्तः
[^6]M has in brackets कुटिलित भ्रुकुटिं निरीक्षमाणा:।, A has कुटिलित भ्रूनिरीक्ष माणाः।
[^7]A- ॰अक्षि॰
[^8]M - श्येनाश्च
[^*] There seems to be a gap. Construction not clear.</p>
<pb n="63" />
<p>तेषु च केचिदप्रमेयबलोत्साहदर्पिता: सर्पि[^1]राहुत-
हुताशकल्पा अनल्पबलगर्वनिर्वर्तितसर्वावयवस्तम्भं
निकुम्भमूचिरे।</p>
<lg>
  <l>किं सप्तापि कुलाचलान् पदतलै: सञ्चूर्णयामोऽधुना</l>
  <l>निश्चूष्यैव समस्तमर्णवगणं किं वा पिबामो वयम्।</l>
  <l>ब्रह्माण्डं तलघदृनेन शकलीकुर्म: किमद्य क्षणात्</l>
  <l>कण्डूर्न[^2]श्चिरसंभृता कथमिव क्षेप्या तदुत्प्रेक्ष्यताम्॥२७॥</l>
</lg>
<p>इति निकुम्भोऽपि दुरुहं सम्भावितानमून् महारम्भा-
नवलोकयन् अनुपद[^3]मेव महान्[^*] सङ्ग्रामो भविष्यति। तत्र
युष्माभिर्भुजकण्डूरपनेतव्येति गिरा तत्पर्यवस्थापनव्यग्र आसीत।
[^1]M- सर्पी॰
[^2]A- कण्डूतिश्चिर॰
[^3]M- अनुपले
[^*] M omits from महान् to त्वरयाबलै in the following page.</p>
<pb n="64" />
<lg>
  <l>आगत्य त्वरया बलै[^*]रतिबलैरष्टापि दिक्पालका:</l>
  <l>दृष्टाः किञ्चिदिवेश्वरेण गुणशस्तुष्टाश्च ते तावता।</l>
  <l>शैलादिं[^1] प्रणताः प्रसाद्य तदनुज्ञाता दिशो भेजिरे</l>
  <l>सन्नद्धप्रम[^2]थार्भटीभिरभित(स्त्रवस्ता निरस्ता) इव॥२९॥</l>
</lg>
<lg>
  <l>गन्धर्वविद्याधरकिन्न[^4]राद्या जगुर्ननर्ताम्सरसां समूहः।</l>
  <l>प्रसादयामासुरमुं मुनीन्द्राः स्तुत्वा स्तवैरागममौलिदृष्टै:॥३०॥</l>
</lg>
<lg>
  <l>इत्थं युद्धाय बद्धादरमवनिरथारूढमालक्ष्य देवं</l>
  <l>त्र्यक्षं त्रस्यन्तु रक्षः पत(य)[^5] इति गणाः सङ्घश: शङ्खनादैः।</l>
  <l>नानातोद्यप्रणादैः कठिनभुजतटोद्धट्टनैरट्टहासै-</l>
  <l>र्ब्रह्माण्डं तत्प्रचण्डप्रतिरटितदलत्सन्धिबन्धं वितेनु॥३१॥</l>
</lg>
<p>[^1]A- शैलारि॰
[^2]A- प्रथमा
[^3]A- अभितस्त्र निरत इव, M. अभिस्त निरता...इव
[^4]A omits किन्नरा
[^5]All mss. omit य</p>
<pb n="65" />
<lg>
  <l>संवर्तवत्समुदिते जगतां विकारे</l>
  <l>चन्द्रार्कयोश्च वियति[^1] भ्रमणे प्रशान्ते।</l>
  <l>हा हेति दैत्यनिवहे च कृतप्रलापे</l>
  <l>लोकत्रयीव मिलति स्म पुरत्रयी सा॥</l>
</lg>
<p>ततश्च</p>
<lg>
  <l>मुमुदिरे सुचिरेण सुरेश्वरा</l>
  <l>न भविता हि कथाप्यसतामिति।</l>
  <l>बत कथं कथमित्यसुराः पुन-</l>
  <l>र्मुमु[^2]हुरेव मुहुर्मु(हु)[^3]राकुलाः॥</l>
</lg>
<p>इति त्रिपुरविजयनाम्नि चम्पू[^4]काव्ये शङ्करनाराय-
णावतरणं नाम चतुर्थ आश्वासः।
[^1]M - विदधति
[^2]M- मुरेव
[^3] All mss. omit हु
[^4]A- चम्बु॰</p>
<pb n="66" />
<p>पञ्चमाश्वासः</p>
<lg>
  <l>ज्वलद्वरणमण्डलद्रुतसुवर्णपापत-</l>
  <l>द्वलत्सिमसिमायितद्विरदपङ्क्तिवाजि[^1]व्रजः।</l>
  <l>(र)[^2]टच्चटचटाव: प्रचुरकीलजालोत्कटो</l>
  <l>दहन् दनुजवाहिनी: शरमयो हरिः पातु वः ॥१२॥</l>
</lg>
<p>तदनु च दनुजेन्द्रा विद्युन्मालितारकाक्षकमलाक्ष-
नामान:[^3] उद्दामभुजधामानश्चारमुखावधृतत्रिमूर्तिसंरम्भाः
संभाव[^4](य)न्तः स्वमात्मानं जम्भारिमुखनिलिम्पादिजयेन
मिलन्तु विबुधाः शतमपीति[^5] का(ल)[^6]चोदिता निर्मर्याद-
बलगर्विताः सर्वतोऽपि बाला इमे स्थविरा एते स्त्रिय
इमा इत्यविचारयन्तो दानवजातिमात्रोपलक्षितं निखिल-
मपि बलमुद्योजयामासुः।
[^1]M- वाजी॰
[^2] This is the em. reading., All mss, read नटत्॰
[^3]A omits नः
[^4]A- संभावन्तः, M- संभवन्तः, This is the em. reading.
[^5]All ms.s. add अजा न पश्यन्ति
[^6]All mss. omit ल</p>
<pb n="67" />
<p>ततश्च--</p>
<lg>
  <l>ये पाताले ये समुद्र च दैत्या</l>
  <l>ये दिक्कोणे ये वने ये च शैले।</l>
  <l>यत्र क्वापि ब्रह्मसृष्टा ये ये</l>
  <l>सर्वेऽप्येते तत्र सङ्घीभूवुः॥२॥</l>
</lg>
<lg>
  <l>को वा शैली को हरिः कश्च धाता</l>
  <l>किं नः शृण्वन्त्यागतानाहवाय।</l>
  <l>द्रक्ष्यामस्तांस्तद्बलं चैव दैत्याः</l>
  <l>सन्नद्धास्ते तत्र युद्धाय सर्वे॥३॥</l>
</lg>
<lg>
  <l>ज्ञातेयेन तदानीमन्योन्येनामराश्च दैत्याश्च ।</l>
  <l>सङ्ग्रामाय समीयु: संवर्त इवार्णवा: सप्त॥४॥</l>
</lg>
<p>तदा[^2] किल सदातनवैरानु[^3]बद्धपताकिनीयुगलदोर्युग-
दोधूयमानसमसमयसमुन्मिषितविकटतटिद्घटाचदुलासि-
कुलविभिन्नसिन्धुरबन्धुरतरकन्धरान्तरालकरालसिरा-
वलयमुखधमधमध्वनिवहद्रुधिरवाहिनीचपलतरङ्गसङ्घट्टन-
पतिततटपाद(प)पावमानशरपाटितपतितपताकिकामालिका
[^1]A- कुली
[^2]A- सदा
[^3]M- ॰सन्नद्ध॰</p>
<pb n="68" />
<p>निःशङ्कसङ्ग[^1]न्तकङ्कवलादिबहलाण्डजमण्डलीघोरारावधारा[^2]-
पूर्यमाणतिर्यङ्निनदमयनद[^3]त्कृशानुमारुतभानुवरुणद्रुहिणा-
दि स्व[^4]प्रत्यर्थिदेवतामयतया परित्यज्यास्त्राणि केवलं[^5] (श)[^6]स्त्राणि
गृह्णत्सु शस्त्र[^7]हता देवा युद्धमृता[^8] इति भवन्ति पुनरपि देवा
अस्मासु च समरहता भवन्ति देवा एवेति मन्दीकृतप्रचारे-
ष्वसुरेषु अमरेषु च विक्रम्य रणरङ्गशायिनो दनुजा देवा
भवन्तः किमस्मासु छिद्रं[^9] गवेष[^10]यन्तीति विचिन्त्य मन्द-
विक्रमेषु मन्दीभूतं कर्म देवा हि कर्मफलोपभोगमात्र-
निरता न युष्मासु विप्रकरिष्यन्तीति असुरा[^11]चार्यगिरा
प्रबोधितेषु च तेषु पुनरतिघोरप्रकारपुङ्खानुपुङ्खनिपा-
त्यमानशरपञ्जरसंक्षिप्यमाणगगनाङ्कुणं वरवरणसंश्रम-
परिक्रान्त सुरकान्ताकरकङ्कणघणघणात्कार मुखरीकृत-
[^1]A- ॰सङ्गीत॰
[^2]M repeats ॰तटपादा(प)पावमान शरपाटित॰
[^3]M- ॰नटकृशानु॰
[^4]M- स्ववृत्यधिदेवता
[^5]A- केवल॰
[^6] This is the em. reading., A,M- शास्त्राणि
[^7]M- शस्त्रं
[^8]M- ॰भृत
[^9]M- चित्रं
[^10]A- गवेषयिष्यन्तीति
[^11]A,M add सुरा॰
[^12]A- ॰घनघनात्कार॰</p>
<pb n="69" />
<p>हरिदन्तरं पर्यायवृत्तस्वपक्षजयवीक्षकस्तवपाठमुखरो-
भयचमूगतवन्दिमागधसमूहं शत्रुपक्ष इत्युभयसेना परि-
व्यक्तनिरीक्षकलोकमध्यगत निर्ऋतिबलं[^1] पक्षजयोपाय-
निरीक्षणाय प्रतिक्षणप्रहित[^2]चारमुखावधृतपरपक्षवृत्तान्त-
तत्त[^4](……) तत्काल पतितदेवायितदैतेयबल[^*]बला-
कृष्यमाणबन्दीग्रहतत्रस्यदप्सर:कुलकलितविविधकरुणा-
क्रन्दमन्तरावृत्त बहु विधरक्षोघ्नमन्त्रसुर[^5]कर्मन्दिवृन्ददूर
दूरदृष्टमदृष्ट[^*]परिपाकलब्धमिदमित्य[^6]त्यादरविस्तारित-
वीक्षणप्रतिक्षणलम्भितानन्दकलहानन्दिकर्मन्दिनयना-
रविन्दरणान्तरदिदृक्षापेक्षणविचक्षणं कथमिदं भवेदिति
मिथ:प्रवृत्तकथनभुवनत्रयं त्र्यम्बक[^7]संरम्भकृतकल्याणो-
दर्कतर्कणसमासाढिताश्वासताप[^8]सकुलकलित[^9]प्रमोदं
[^1]A- ॰बल॰
[^2]A- ॰प्रतिहित॰
[^3]M add च
[^4]M- ततश्च त्रियुगलं, A तत्तन्मन्त्रियुगलं
[^5] All mss read सुरतममन्दि, This is the em. reading.
[^6]M omits इति
[^7]A- त्रयम्बक॰
[^8] All mss. read ॰तापसङ्कुल॰,This is the em reading.
[^9]A अप्रमोदं
[^*] A omits from बलबलाकृष्यमाण to दृष्टमह</p>
<pb n="70" />
<p>प्रमादनिकृत्ततत्क्षणप्राप्तदिव्यदेहवीरवैशतिशयविहितप्रती-
कारप्रतिद्वन्द्विदन्तीन्द्रखण्डकतद्दन्तकुन्ता[^1]हतसद्यस्सुरेन्द्रा-
यितभटारूढतत्क्षणमरणधृतैरावणत्वतद्गजेन्द्रं छिन्नपाद-
गृहीतकेशद्वेषि छिन्नभुजपादाहताहितं छिन्नशिरःकरा-
वमर्दितप्रत्यर्थि सद्यः शिरो[^2निकृत्त भूतल(ल)[^3] सन्नृत्तवैरि-
शिरोदत्तवीरभाषाप्रत्युत्तरमत्युद्धतसिंहनादमनुपदोदित-
शङ्खनादमुत्तालवेतालकरतालानुरणनरङ्गनटितशिरः-
खण्डमण्डितमखण्डपराक्रममक्रमपरिक्रान्तकट[^4]पूतनादि-
भूतगणप्रहर्षणमखिलरोमहर्षणम् युद्धमुद्धतमभूत्।</p>
<lg>
  <l>शस्त्राण्याददतेऽमरा बत कथं युद्धाय बद्धादरा</l>
  <l>युध्यन्तेऽप्यसुरै: समं धिगसुरान् धिक् धिक् तदीशानपि।</l>
  <l>इत्थं निर्दयदष्ट[^5]रज्यदधरः क्रोधेन दैत्येश्वर-</l>
  <l>श्चक्रीभूतशरासनः शरचितांश्चक्रे स शक्रादिमान्॥५॥</l>
</lg>
<p>[^1]A- ॰कृताहत॰
[^2]A- शिर॰
[^3] All mss. omit ल
[^4]M- ॰कूट॰
[^5]M- ॰दृष्ट॰</p>
<pb n="71" />
<lg>
  <l>वर्षन्तौ प्रलयाम्बुदाविव शरांस्तद्र्भारौ[^1] सत्वरौ</l>
  <l>निष्पत्रकुरुतां सपत्नपृतनां रोषान्निमेषान्तरात्।</l>
  <l>क्रुध्यद्दानवराजदर्शनपरित्रस्ता: समस्ताः सुरा-</l>
  <l>स्तस्थु: स्पन्दितुमप्यशक्तवपुषश्चित्रोपविष्टा इव॥६॥</l>
</lg>
<p>तदानीं च तादृशदानवातिशयमसहमानं सुरमन्त्री
मघवानमाहूय सह सुरैर्मन्त्रयांचक्रे। अयशस्थमनार्यं
च किमिदं वो वैकुण्यम्? किं न पश्यथ युष्मदर्भाय
बद्धकङ्कणमुपस्थितं भगवन्तमेव त्रिलोचनम्। स किल
सकलासूपनिषत्सु जोद्युष्यते। तमेव हि विचिन्वन्ति
योगिनो योगरताः[^2] तदा[^3]ज्ञयैव हि सहस्रांशुरुदेति ज्व-
लत्यग्निर्वाति मौरुत[^4]श्च। किं बहुना स एवं खलु सकल-
चराचरस्वामी। तमाराध्य हि युष्माभिः स्वामिनः[^5]
स्वानि पदानि लब्धानि। कथं तत्समक्षमेव प्रकटीक्रियते
महदिदं वैकुव्यम्। ज्ञातवैकुण्यश्च भवत्स्वामी[^5] नेमे
[^1]A- तद्र्भान्तौ
[^2]A योगतरता:, M. योगतारताः
[^3]M- तमाजयैव
[^4]A- मारुताश्च
[^5]A- स्वामिनि
[^6]M- स्वामि</p>
<pb n="72" />
<p>पदार्हा इति युष्मत्पदानि[^1] प्रदास्यति पदार्हेभ्यः। भव-
त्पराक्रमदिहक्षयैव विरूपाक्षः क्षणमात्रमुदास्ते इति
लक्ष्यामि। युष्मत्पराजयकाले च स कालकाल: खेल-
यैव नाशयिष्यति त्रिपुरदानवान्। तदुत्स[^2]हध्वं प्रदर्शयत
च यथाशक्ति पराक्रमं च इति।</p>
<lg>
  <l>इत्थं शनैस्तेन विबोध्यमानाः</l>
  <l>पुरन्दराया हरितामधीशाः।</l>
  <l>पराक्रम कर्तुमनुक्रमेण</l>
  <l>प्रतस्थिरे कार्मुकबाहवस्ते॥ ७ ॥</l>
</lg>
<lg>
  <l>ततस्स्थित्वा पुरा[^3]हन्तुः पुरस्तात त्रिदशेश्वरा:।</l>
  <l>ववर्षु:शरजालानि निर्भया[^4]स्त्रिपुरेश्वरे॥७॥</l>
</lg>
<lg>
  <l>दिक्पतिमुक्तान् विशिखान् साहाय्यकृते समीरणस्त्वस्तिः।</l>
  <l>वेगाच्चकर्ष लक्षे विमुखीचक्रे च दैत्येषून॥९॥</l>
</lg>
<p>[^1]A omits पदानि
[^2]M- उत्साहध्वंसं
[^3]A- पुराहन्तुं
[^4]M- निर्भयः</p>
<pb n="73" />
<p>सदा विहितदेवसौहित्यौ ना[^1]सत्यौ च दिव्यौषधीभिः
सशल्यानमरान् विशल्यानाकार्ष्टाम्। कृतान्तोऽपि
तदात्वपतितानां तृषि[^2]तानां नासूनहार्षीत् वज्रेण शक्त्या
दण्डेन पाश [^3]शूलगदादिभिरमोघै: पतिता भूमौ दनुजा
मनुजा इव। एवमादिदेवपराक्रमोपक्रम एव विग्रहवन्त
इव क्रोधा: पूर्वदेवेश्वरास्त्रयोऽपि क्रमेण सह तैः समर-
मसहमाना मानापहरणाय द्विषतामाविश्चक्रुरासुरीं महा-
मायाम्। ततश्च--</p>
<lg>
  <l>भो देवा वासवाद्या विरमत विषमात् सङ्गरात् किङ्कराःस्मो</l>
  <l>दैत्येन्द्राणां प्रणामं रचयत सहिता जीवितं रक्षतेति।</l>
  <l>शंसन्तः प्रादुरासन् द्रुहिणहरिहरालक्षिताःस्वस्वचिह्नै-</l>
  <l>रह्नाय स्तम्भयन्ति स्म च विबुधगणानायुधानुत्क्षिपन्तः॥१०॥</l>
</lg>
<lg>
  <l>तत्रान्तरेऽसुरेन्द्राश्छिद्रं क्षुद्रा निचख्नुरालम्ब्य।</l>
  <l>बाणान् रथाक्षमात्रान् सुपर्वणस्ते सुपर्वणामङ्गे ॥११॥</l>
</lg>
<p>[^1]A - नात्यसत्यौ
[^2]M- कृषितानां
[^3]M omits शूल</p>
<pb n="74" />
<p>तदानीं च विबुधा विषादविस्मयभयलज्जा-
मन्थरा:[^1] सर्वे दीन[^2]दीनै: नयनैस्त्रिणयनमालोकय्रांचक्रुः।
ततश्चा--
तूणीभवन्तमुरुबुद्बुदतामुपेत्य
मध्यस्थमाधवशरं कलशा[^3]ब्धिमेव।
आबध्य पृष्ठफलके वृषकेतनश्च
चापं जयाथ कनकाचलमाललम्बे॥१२।।
किं च</p>
<lg>
  <l>आरोप्याटनिमाश्वहीश्वरमयीं[^4] मौर्वीमखर्वीभवद्-</l>
  <l>दोर्वीर्यो दनुजान्तकेषु मिषुधेरुत्क्षिप्यनिक्षिप्य च।</l>
  <l>जैत्रं मेरुशरासनं विनमयन्नुद्भ्रान्तलोकत्रयं</l>
  <l>क्रीडंस्तां विचकर्ष(चारु)[^5] ह(सि)त[^6]श्चन्द्रार्धचूडामणिः॥१३॥</l>
</lg>
<p>अथ तापसेषु केषुचित्—
जय जय जगदीश सायं समारब्धनृत्तो[^7]पनृत्यत्कप-
र्दावमर्दस्खलत्ता(रक्रौघ)[^8]व्यग्रहस्तग्रहप्रेत[^9] भूत-
[^1]A- मन्धराः
[^2]M- दिनादिने:
[^3]M omits शाब्धि
[^4]M- ॰मयं
[^5]All mss. have a gap.
[^6]This is the em.reading.,A,M- हरितः
[^7]M- मत्त॰
[^8]This is the em. reading. A,
[^9]M- ॰गृहभूत प्रेत॰</p>
<pb n="75" />
<p>व्रजत्यक्तसव्याजगुप्तत्रिलोकप्रभो (गरगल) जितकाल
फालानलज्वालमालावलीढईमारोहेल हेलापरिग्रस्त
व्रजत्यक्तसव्याजगुप्तत्रिलोकप्रभो(गरगल)[^1] जितकाल
फालानलज्वालमालावलीढ(स्म)[^2]रोद्वेलहेलापरिग्रस्त-
हालाहल त्र्यक्ष शूलायुध स्थूलकोलग्रहा[^3]लम्भ-
लुब्धाकृते लोकरक्षाकृते देव तुभ्यं नमः।
जय जय स(जलन्धरा)[^4]त्यन्तदुर्दान्तमन्दाकिनी
स्तब्धवे धोनृसिंहादि(ग)[^5]र्वातिनिर्वापणारवर्वदोर्वीर्य
दर्वीकराधीशमौर्वीक सर्वेश रक्षाधुना तारकाक्षादि-
मान् मकुटधृतशशाङ्क् वामाङ्‌गजाने भवानेव जाने
जगज्जन्म[^6]हेतुं भवन्तं विनेदं न भाति त्वयीदं
समस्तं समस्तेऽपि च त्वं ततः सर्वरूपाय तुभ्यं नमः॥१३॥
इति जगदीशदण्डकपाठमण्डितवदनेषु केषु
चिच्च ब्रह्मर्षिसर्वज्ञेष्वप्यदृष्टचरोऽयमस्त्रप्रयोग इति शिरस्यञ्ज-
[^1]A,M-मेघजालप्रभोपमगल गरगल is the em. reading.
[^2]A,M- सरोद्वेल, This is the em. reading.
[^3]M- ग्रहारब्धलुब्धाक्रान्त
[^4]A,M- सच लब्धवरात्यन्त
[^5]A,M- दुर्वाति
[^6]A,M- जगज्जन्मादि</p>
<pb n="76" />
<p>लिमाधाय नमो ब्रह्मणे नमः सहस्रपादाय सहस्रशिरोऽक्षिबाहवे।
नमः साम्बाय सवृषाय सगणाय ससूनवे नमः सदाशिवाय
नमः शिवाय शिवतराय च नमो[^1] नमः स्वस्ति देवेभ्योऽस्तु।
स्वस्ति मनुष्येभ्यः स्वस्ति पितृभ्यः स्वस्ति चराचरेभ्यः
स्वस्ति गोब्राह्मणेभ्योऽस्त्विति मुहुर्मुहुराशंसमानेषु पाक-
शासनमुखेषु बहिर्मुखेषु विस्मयास्तमित कर्तव्यतया
विस्मृत्य समरमेव केवलं प्रेक्षकतामापन्नेषु दैत्येषु च
केषुचित् धराधरो नाम शरासनं धरा नाम रथः फणी
नाम शिञ्जिनी परा भञ्जनीयभुजबलास्मत्पराभूतिभियां
स्वरूपमाच्छादयन् गोपालबाल एव शिलीमुखःकानन-
वराहकिरात एव च प्रतियोद्धास्माकमिति सावज्ञसहस्त-
तालपरिहासोक्तिमुखरेषु अपरेषु च दनुजवरेषु दुर्जय
एष निर्जरलोकनेला कालकूटसाहसिक इति ससंभ्रमं
परिक्रम्य सर्वेरुपायैरपि बलैः सर्वया च शक्त्या सर्वाण्यपि
महायुधानि सर्वतोऽपि तस्मिन्[^2] महाधन्विनि तस्मिन्
[^1]M- नमऋषिभ्यो देवेभ्योऽस्तु
[^2]A omits तस्मिन् महाधन्विनि</p>
<pb n="77" />
<p>महाशरे तस्मिंश्च महाधनुषि निपात[^1]यत्सु कोऽयमागत:
परिपाकोऽस्मद्दुष्कृतानामुपनतः प्रलय एवायमसुर जाते:
कष्टमिदं वलगति बृहस्पतिरिति साश्रुणि कलिता[^२]श्चर्ये(ऽसुराचार्यों)
सिद्धं नः सभीहितं सिद्धं[^3] फलं मन्त्राणां सिद्धं च त्रैलोक्य-
राज्यमखण्डितमाखण्डलस्य किं बहुना परिणतमद्य सुकृतं
सुपर्वणामिति सगर्वनिरीक्षितपूर्वदेवगुरौ सुरगुरौ वरप्रदान-
महिमा[^4]यमस्माकमियानपि गिरिशसंरम्भ इति संभावयति
स्वयंभुवि संभ्रमेण महता तत्तद्विध्यण्डपालप्रहित विविध-
शिवोपहारमध्यगतमोदकखण्डकबलनपिचण्डिले शुण्डा-
लमुखे षण्मुखे च [^5]पञ्चमुखस्य शम्भोर्दूरानमद्गिरीन्द्र-
कोदण्डमण्डलीकरणरमारमणमहाशर[^6]सङ्ग्रहणप्रयोगोप-
संहारप्रकारजिज्ञासया प्रतिक्षण[^7]निरीक्षणविचक्षणे[^8] तत्क्ष[^9]-
णोपनमदाकस्मिकदनुजप्रलयसूचकेषु च केषुचिन्नि-
[^1]M- न्ययातयन् सु(राः)
[^2]M- आश्चर्यो
[^3]A- सिद्धफलं
[^4]M- महिम:
[^5]M omit च
[^6]M omits र
[^7]M- प्रतीक्षण॰
[^8]M- विचक्षणो
[^9]M- तत्क्षणापनोदनमहाकस्मिक॰</p>
<pb n="78" />
<p>रम्भोद्दम्भोलिपतनमुखेषु महोत्पातेषु जाय[^1]मानेषु फीट्-
कृत्य पलायितेषु च दिशागजेषु नृत्यत्सु चाप्सर:कुलेषु
भयकम्पितकुचकुम्भतटेषु ताललपातिलङ्घिषु गन्धर्वेषु
साध्वसार्थविरतगीतिषु सम्मोहितेषु चराचरेषु संभ्रान्तेषु
दिगन्तेषु चलाचलेषु पटपटात्कारमुखरेषु पर्वतशिखरेषु
(विजृम्भि)[^2]तेषु महार्णवेषु समुत्पत्य निपतति ब्रह्माण्डमण्डले
(सां)[^3]शयिके च सर्वस्मिन्[^4] सुराप(अ)[^5]दमश(^6)का(शुविनाशा)य सरोज-
नाशकृत: संरम्भ इति कन्दलितमन्दस्मित: चन्द्रमौलिः
दा(न)[^8]वान्तकरणाय दानवान्तकमेव बहुविधमनोरथाव-
कल्पितप्रकारभेददहनैकसज्जं विशिश्वमुत्ससर्ज।
[^1]M- ज्ञायमानेषु
[^2] This is the em. reading.A and M have gap here.
[^3] This is the em. Reading., A and M have स्वांशयिके
[^4]M has gap between सर्वस्मिन् and सुरा॰
[^5] This is the em. reading. A and M have अपशद॰
[^6]A omits ॰मशका॰
[^7] This is the em. reading, A and M have gap here.
[^8]A and M omit न</p>
<pb n="79" />
<p>ततश्च</p>
<lg>
  <l>मुक्तो निर्मुक्तभोगिप्रतिमतनुरनुस्यूतपक्षीन्द्रपक्षो-</l>
  <l>त्क्षेपप्रध्मातवातद्रुतगतिरुदयद्भाङ्कृतिः शार्ङ्गिबाणः।</l>
  <l>प्रक्रीडत्कीलजाला[^1]नलफलगिलिताशेषदैतेयहेति:</l>
  <l>संवर्तोद्वृत्तवैकर्तनकिरणघन[^2]स्त्र्य[^3]क्षलक्षे पपात॥२४॥</l>
</lg>
<lg>
  <l>जीर्णारण्यमिव प्रविश्य दनुजानीकं पुरारे: शर-</l>
  <l>स्तार्तीयीकविलोचनस्मितशिखि[^4]ज्वालाभिराप्यायितः।</l>
  <l>पत्त्य[^5]श्वेभरथं पुत्रयमपि प्राप्य क्रमात् प्रज्वलन्</l>
  <l>घोरारावमरालसंङ्कुलवलत्कीलं ददाह क्षणात्॥२५॥</l>
</lg>
<p>तथाहि तत्क्षणमनुक्षणप्रवर्ध[^6]मानाशुशुक्षणिपरिक्षिप्त-
मुच्चावचगगनतलातिलङ्घिनीलपीतहरितपाटलधवल-
कर्बुरचटचटात्कारिचलितस्फुलिङ्गसङ्कुलबहुलज्वाला
कलापकबलीकृतं हा तात हा मातरः पुत्र हा मित्र हा
[^1]M omits ॰जालानलफलगिलिताशे॰
[^2]A- ॰धर:
[^3]A- त्र्यक्ष्य॰
[^4]M has ॰मुख॰ for ॰शिखि॰
[^5]M- पत्नि
[^6]M- ॰प्रवृद्ध॰</p>
<pb n="80" />
<p>कलत्र क्व[^1] यासि क्व यामि कं शरणं व्रजामि कः परित्रातास्ति
दह्यते करो दह्यते शिरो दग्धान्यङ्गानीति करुणाक्रन्द-
परिक्रान्तदुरन्तचिन्तपतदु[^2]त्पतद्बहुविकारघोर[^3]पौर-
जनं विकठलुठत्कठोरविरटत्कर[^4]टिघटाघट्टितचटुल-
वलदुत्तुङ्ग‌तुरङ्गसङ्घं स(ङ्ग्रा)[^5]मपतितभङ्गुरशताङ्गभङ्ग-
पटपटात्कार[^6]मेदुरितं दन्दह्यमाननानाविधप्राणिगण-
विदीर्णसिराधमनि धमधमोद्गीर्णरुधिरमज्जावसेक-
सिमिसिमात्कारदारुणं रणमत्तसन्नद्धविद्युन्मालि-
तारकाक्षकमलाक्षगदा[^8]क्षिप्तपुनरापतदर्चिर्जालजर्ज[^9]रित-
सपुत्रपशुबान्धव(कलत्रव्या)[^9]कुलितं सकलमपि दनुज-
कुलं निमेषेणैव सह पुरैदृश्यते स्म[^11] भस्मसात्कृतम्।
[^1]A omits क्व याति
[^2]M- ॰पतद्युत्पतत्
[^3]M- ॰घोर॰
[^4]M- ॰करट॰
[^5] This is the em. Reading., A,M- सङ्‌म
[^6]M- ॰पटपटात्कारे दुरित॰
[^7]M- ॰यमनियमयमोद्गीर्ण॰
[^8]A- ॰गता॰
[^9]A. ॰जर्भरित॰
[^10] This is the em. reading., A-तत्रया;M- त्रया
[^11]M omits स्म</p>
<pb n="81" />
<lg>
  <l>उन्नेद: प्रमथाः सुरामु[^1]मुदिरे वाताववु: शीतला:</l>
  <l>स्वर्वेश्या ननृतुः पुरः[^2] प्रववृषुः पुष्पाणि विद्याधराः।</l>
  <l>गन्धर्वाश्च[^3] मुहुर्जगुर्दिवि महाभेर्य: स्वयं दध्वनु:</l>
  <l>सर्वं स्वस्थमभूज्जगत् प्रविशदं व्योम प्रसन्ना दिशः॥२६॥</l>
</lg>
<lg>
  <l>इत्थं प्रसा(ध्य)[^5] सुरकार्य(ममेय)[^6] शक्ति-</l>
  <l>रर्घे[^7]न्दु[^8]मौलि(रि)[^9]षुचापरथादिमग्रे[^10]।</l>
  <l>तत्तत्पदे नियम[^11](पन्)मुनिभिः पुराणै-</l>
  <l>रस्तूयत स्तुतिशतैर्निगमान्तदृष्टै:॥२७॥</l>
</lg>
<lg>
  <l>अथ मधुसूदनः कमलभूरपि भूतपतिं</l>
  <l>नतिनुतिभिः प्रसाद्य सममूच(तु)[^12]रीशितरि।</l>
  <l>त्वयि सति किं न सिद्धयति तथा (हि) हता भवता</l>
  <l>सुरविमता हिताय जगतामिति तावदृतम्॥२७॥</l>
</lg>
<p>[^1]A- मुदिरे
[^2]A- पुरं
[^3]A- गन्धर्वार्हित omits मुहुः
[^4]A,M add देवं after महा
[^5]This is the em. reading., A,M- प्रसार्य
[^6]This is the suggested reading.
[^7]M- अर्क
[^8]A- ॰चन्द्र॰
[^9]A,M omit रि
[^10]A,M- अग्ने. em- अग्रे
[^11]A,M- नियमनं नियमन् is the em. reading.
[^12]A,M omit तु
[^13] हि is the suggested reading.</p>
<pb n="82" />
<p>ततश्च</p>
<lg>
  <l>पादारविन्दयुगले दरचन्द्रमौले</l>
  <l>रिन्द्रादिमान् प्रणमयन्नरविन्दनाभः।</l>
  <l>भ्रूसंज्ञया पुरजितानुमतो व्यतारीत्</l>
  <l>त्रैलोक्यराज्यमखिलं बलशासनाय॥१९॥</l>
</lg>
<lg>
  <l>शम्भुस्तदा सुरगणैर्मुनिभिः पुराणैः</l>
  <l>संभूय तन्महिमनि(प्रति)वर्ण्यमाने।</l>
  <l>किं वो मया विहितमस्ति समस्त एष</l>
  <l>नारायणस्य महिमेति गिरा तिरोऽभूत्॥२०॥</l>
</lg>
<p>ततश्च भगवति भगनेत्रभिदि जगतां प्रभौ तिरोभूते
जगत्ताणपरायणो नारायणः क्रमगलितविनयावनतिः
स्वयं प्रभवन् कृतकृत्यताजनितानन्दकन्दलितमन्दस्मिता-
लङ्कृतवदनारविन्दः सङ्क्रन्दनादिभिर्दिशामीशै: सुर-
सिद्ध‌गन्धर्वयक्षरक्षो[^2]विद्याधर[^3]किन्नरादिभिर्नारदादि-
[^1]This is the em. reading., A,M have a gap.
[^2]M- रक्षा
[^3]M- विद्याधरै:</p>
<pb n="83" />
<p>देवर्षिभिरपि संस्तूयमानविजयापदानमहिमा बहुमानाय
नारदादे:[^1] स्वच्छा[^2]लापमाकलयन्नति[^3]शीतलैरपाङ्गै:
सनकादीन् सनातनमुनीननुगृह्य क्षणमनुकम्प्य च
निलिम्पाधियतीन् सहस्रार्चिरिव मेदरमुदिरोदरे स्वयमपि
तिरोबभूव।
तदानीं च--</p>
<lg>
  <l>ब्रह्मादिमाः सुरगणा मुनयश्च सर्वे</l>
  <l>सर्वेश्वरस्य च सुपर्वरिपुद्विषश्च।</l>
  <l>अत्यद्भूतानि चरितानि निथो वदन्तः</l>
  <l>स्वं स्वं पदं पुनरवाप्य चिरं ननन्दुः॥२१॥</l>
</lg>
<lg>
  <l>त्रिपुरविजयाभिधानश्चम्पुरयं शाम्भवप्रसादेन।</l>
  <l>नलशुकशकाब्द जातः प्राप्नोत्नाचन्द्रार्कं[^*] प्रचयम्॥२२॥</l>
</lg>
<p>इति[^5] त्रिपुरविजयचम्पकाव्ये पञ्चम आश्वासः समाप्तः।
[^1]M- नारदादेवम्
[^2]M- स्वेच्छालापम्
[^3]M- आकलयति
[^4]A- चम्बु
[^5]A omits colopfron
[^*] चन्द्रतारकं would be better metrically.</p>
</body>
</text>
</TEI>