श्रीमदतिरात्रयाजिप्रणीतम् त्रिपुरविजयचम्पूकाव्यम्
मौर्वी मूर्ध्नि(च)रः[^1] शरासनशिरस्सञ्चारि चक्रद्वयम्[^2]
चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः।
तेषामेव शिरस्पदेषु वसतिः स्वस्येति यस्य श्रुतं
देवश्चित्रपरिच्छदः स दिशतु श्रेयांसि भूयांसि नः॥ १॥
अपि च
चक्रीभूते शशाङ्के परिणमति तथा मण्डले चण्डभानो:
काले कस्मिन् विधातः कथय पुरहरस्त्रीण्यधाक्षीत् पुराणि ।
इत्थं स्कन्देन पृष्टे विमृशति सुचिरं ध्यानमास्थाय[^3]धात-
र्यानन्दोद्भिन्नमन्दस्मितमवतु[^4]मुखं सुन्दरं चन्द्रमौलेः ॥२॥
[^1.] All mss. have शर:, चर: is the emended reading.
[^2.] A चक्रं द्वयं
[^3.] M- ध्यात
[^4.] M- अवे (त्तत्?)
किञ्च-- कर्णाभ्यर्णनिविष्टमुष्टिसुदृढव्याकृष्टसर्पेश्वरं ज्यानम्रामरशैलमौलिनिपतद्दिक्पालपुर्यष्टकम् । अव्याद् विश्वमकाण्डसंकुल[^1]वलत्क्रूरप्रकाराजल- ज्वालान्त: कबलीकृतासुरपुरं घोरं पुरारे: स्मितम्॥३॥
श्रेयसां यद[^2]पादानमपदानं पुर[^3]द्रुहः ।
चम्बुं[^3] करोमि तदिदमम्ब वाणि प्रसीद मे ॥४॥
आस्ते तत्फलमादिमं भगवतः शंभो: प्रसादो महा-
नन्यच्चास्य[^5] हि नान्तरीयकतया सिद्ध्येत् प्रबन्धस्य नः।
दोषं[^6](क)ञ्चन[^7] लेशत: कुहचिदप्यन्विच्छतः खिद्यतो
दृश्यं यन्मलिनं खलस्य वदनं मात्सर्यतः शीर्यतः ॥५ll
[^1] A- ° संकुवलत्, M-° संकुवलयत्, The reading chosen is in accordance with the expression on Āśvāsa v.
[^2] M- यदपादाभमपदाभं
[^3] M- पुरं दुहः
[^4] M- चम्बकरोम
[^5] M- यच्चास्य हि
[^6] M - दोषः
[^7] All mss. have किञ्चन This is the em. reading.
यन्नारायणदीक्षितेन्द्रतनुभूसाधारणं घुष्यते
यच्च श्री(युत)[^1] नीलकण्ठमखिनः सोदर्यतालक्षणम् ।
विद्वांसस्तदिदं समस्तमधुना श्रीकण्ठदासस्य मे
लक्ष्य[^2]न्तामतिरात्रया[^3]जि(मखिन:)[^4] पाण्डित्यमत्यद्भुतम्॥६॥
श्रूयते खलु बहुशस्तदितिहासपुराणादिषु साक्षा- देव श्रुता[^6] अपि यदौ[^7]रसास्तारकासुरस्य पुत्रा वित्रासित[^8]सुत्रामादयो विद्युन्मालितारकाक्षकमलाक्षनामानः उद्यामानस्त्रयो विधिदत्तवरगर्विता निरङ्कुशान्ययोरजत[^9]हेममयानि त्रीणि[^10] पुराण्यधिवसन्तः त्रीन् लोकान् सञ्चेरुरिति। तानि च पुराणि जङ्गमान्यद्भुतान्येव ।
[^1] All mss. have gap
This is the emended reading.
[^2] A- वक्ष्यान्तम्
[^3] A-॰याज॰
[^4] This is the em. reading. All mss. have नयित:
[^5] A- पाण्ड्यर्त
[^6] A- श्रुतावपि
[^7]M- यदौरस:
[^8]M- व्यत्रासित॰
[^9]A omits त
[^10]A- त्रिपुराणि
तथा हि
अशिक्षितक्षुद्रकुटीनिवेश-
खेदाः प्रयाणेष्वपि येषु पौराः।
सुखेन मञ्चेषु गृहे शयाना
हन्तेष्टदेशानभजन् क्षणेन॥७॥
गृहेषु[^1] रथ्यासु तथापणेषु
सदैकरूपेषु जनाश्चरन्तः।
न ते विदुस्तानि विदेशगानि
विना बहिर्निर्गमनं पुरेभ्यः ॥८॥
सञ्चरत्सु पुरेष्वेव[^2] नरास्तेषु सुखोषिताः।
आचार इति यानानि संररक्षुर्गृहे गृहे ॥ ९॥
[^1] A- गृहे न रथ्यासु
[^2] A- पुरेष्वेव तेषु नराः सुखोषिता: । M- पुरेष्वेतेषु नराः सुखोषिताः।
तेषु च जङ्मेषु पौरा: प्रतिप्रयाणं जलाशय- निर्माणनिर्विण्णाः प्रतिवेश्म स्थापयन्ति स्म नित्य- जलानि पुष्कलावर्तकशकलानि। अपि च तेषां चक्र[^1]वालाद् बहिरपि निरङ्कुशगतिकतया तमो जयाय शिरोगृहेषु बबन्धुर्महान्ति नक्षत्राणि।
तानि त्रीणि पुराण्यवाप्य तपसा वेधोवरात्युद्धता:
विद्युन्मालिमुखास्त्रयोऽसुरवरा लोकत्रयीकण्टकाः ।
जह्रुर्देववधूः प्रजह्रुरमरान् संजह्रुरार्तानृषी-
नाजह्रुर्वसु भूर्भुवस्स्वर[^2]भितोऽप्येवं विजह्रुश्चिरम् ॥ १०॥
तदानीं च स्त्रीणां[^3] विरूपता जरा वाप्यलं शील- संरक्षणाय सौन्दर्यं बन्दी[^4]ग्रहणाय मुनीनां च निर्मांस- शुष्कशरीरता प्राणभरणाय समांसता तु दुर्मरणायेति संवृत्तम्।
[^1] M- चक्रवाल॰
[^2]M- अहितः
[^3]This is the em. reading All miss read स्त्रण
[^4]M - पदग्रहणाय
किञ्च ते भञ्जितधर्मसेतवो विभिन्न[^1]मर्यादा: शास्त्रातिलङ्घिनो मात्राधिकबलगर्विताः सर्वतः क्रतुभिरेव[^2] जीवन्ति देवता इति उत्पा[^3]टितयज्ञवाटा निर्वापितसर्वाग्नयः (मु)[^4]ण्डितस्रुगभाण्डा भक्षयन्तो दीक्षितानप्यनु[^5]च्चारितयज्ञ शब्दमाच्छादितधर्म[^6]मस्तमिता[^7]ध्ययनमस्तविस्तृत[^8]स्वाहा-कारमनभिस्फुटस्वधा[^9]कारमलक्षितवषट्कार[^10]मतिबुभुक्षित- सहस्राक्षम् अतिकृशकृशानु विवशपाशधरम[^11]निःश्वस- च्छ्वसनम् अलसबेरकुबेरमनु[^12]द्दण्डदण्ड[^13]धरमपधै- र्यदिविषदाचार्य[^14]मतिदीनदिनपति हाहाकृतहाहादिगन्धर्व- कुलम् अखिलमपि जगद्वयाकुलीचक्रु:।
[^1] M- विभक्त°
[^2]M- एवं
[^3]M - उत्पादित°
[^4]A,M - मण्डित°
[^5]M- अनुच्चारिता:
[^6] Aaads°तन्त्र°
[^7]M- has धन for अध्ययन
[^8]M- °विचित्रित°
[^9]A- °स्वाहाकार°
[^10]A- °वर्षुमिति
[^11]A- निःश्वसित
[^12]A- अनुदण्ड°
[^13]M- omits °दण्ड°
[^14]M – आचान्य
किं बहुना-- विध्यण्डावधि वैभवं विधिहरित्र्यक्षावधिर्धिक्कृति- र्दोर्वीर्यं कुलशैलचालनसमुत्क्षेपप्रभेदावधि। धैर्यं प्राणविमोक्षणावधि चमूसङ्ख्या परार्धावधि- र्देयं ब्रह्मपदावधि प्रणमते तेषां सुपर्वद्विषाम् ॥११॥ तैश्च तथा निस्तुलैश्वर्यमदोद्वृत्तैरुद्यततमःप्रवृत्तिभि- र्विद्युन्मालिप्रभृतिभिरुद्दामभिर्दानवेन्द्रैः निरन्तर- बन्दीगृहनिर्व्याजसीमाक्रमनिरपराधदण्डादिभि- रहन्यहनि पीड्यमाना मानमपहाय निष्फलतयैव तद्भृत्यगृहबहिर्द्वाराणि अध्युष्याध्युष्य निर्विण्णा: शतमखमुखा: बर्हिर्मुखाश्च चतुर्मुखोपदिष्टबुद्धयो दीनत्राणपरायणं नारायण[^*]मेव शरणमिच्छन्तः तच्छयन- मन्दिरं क्षीरसागरमुद्दिश्य प्रमुदिताः प्रतस्थिरे ।
[^1] M- हर
[^2]M has gap for तमः
[^3]A- पीड्यमान
[^4]M omits अध्युष्य
[^5]M omits बर्हिमुखाश्च
[^*]`T’ starts here, all the preceding portion being lost.
प्रस्थिताश्च ते तर्कितोदग्रकल्याणोदर्कक्रिया- कलापा नेदीय[^1]सीमेव निजमनोरथपूर्तिमालोच्य “भो भोः सहस्राक्ष त्रिजगदध्यक्षकमलाक्षपादपीठ- निकटवाससाम्राज्यपट्टाभिषिक्त कटा[^2]क्षयेषदस्मानपि संभावय रे जम्भा[^3]रिमंख निलिम्पा[^4]र्पितकरुणाकटाक्ष- तारकाक्षहृदया[^5]नुवृत्तीन्। पश्य रे श्रितजनकारुण्यशालि- विद्युन्मालिस्तुतिपाठक न जानासि रे कमलाक्ष प्रतिहार- वर्त्यनुचराञ्जलीन् अपि स्मरसि रे[^6] विद्युन्मालिशुद्धान्त- चेटीपदप्रणामान् रे परिशीलय करुणो[^7]क्तिम् इतोऽपि विसान्त्वनाय तारका[^8]क्षपाद[^9]वाहकस्य” इति परस्परेण सहस्ततालपरिहासोक्तिपूर्वकमतिदवीयांसमध्वानमति- लङ्घ्य, दूरत[^10] एव शारदाभ्रपटलमिव धरातलगतं सुर- सिन्धुशरवणमिव शरत्प्रफुल्लां मल्लिकास्तबकनिरन्तरितमिव
[^1] A - नोदीयसीमेव
[^2] A,M- कटाक्ष
[^3]A- जम्भारिमुख
[^4]A- निलिम्पायतित॰, M-निलिम्पायित॰
[^5] A, T- अनुवर्तिन्
[^6]M omits रे
[^7]M- करुणोक्तिः
[^8]A- विताकाक्ष॰, M- वितारकाक्ष॰
[^9]A, M- पादा॰
[^10]A- दूरतरे तव
[^11]A - मल्लिकान्तंबक॰
महान्तमारामं निशाविरामविकसितमिव सितपङ्कज- वनं शशाङ्कमण्डलीषण्डमिव द्रवीभूतं भूतेशजयाट्ट- हासमिव भविष्यन्तं वसुन्धराधृतमिव क्षौमवसनं त्रि[^1]भुवननिर्मातृधातृश्वैत्यकोशगृहमिव समुद्घाटितकवाटं (निबिडा)[^2] वरूढमिव भुवि नीहारराशिं पाशधरविलासा- म्ब(रमिव)[^3] विशद[^4]मुक्तावचितं चलितसित[^5]वाल स(च)मर - मृगा[^6]ध्यासितमिव कान्तारभागं भागधेयमिव दृशा[^7] मेकत्र पुञ्जीकृतं[^8] झंझानिल[^9]विकटा[^7]चालितशर[^11]ज्जलदजालमेदुर- लहरीमालास्फालितवेलातलाधिरोहदेलालतालिङ्गित- धव[^12]लितत[^13]मालतालहिन्तालनक्तमालादिनानाविधानोकह- प्रच्छायसुखितविविधविङ्गङ्गममदकलकल[^14]विरुतमुखरित-
[^1] A- त्रिभुव॰, M- अत्रिभुव॰
[^2]A- निवसारूढमिव, M- बिसाविरूढमिव, T- निविधावरूढमिव, T.C- निपीयावरूढमिव
[^3]A, T. सयमिव, M- सयमिय
[^4]M- विशद......त
[^5]M -॰सितवालवर॰, T-॰वालसि-मर॰
[^6]T.C-मृगार्धासितमिव
[^7]M - दशाम्
[^8]A,T- पुञ्जितं
[^9]T- झंझाळि॰, T.C- झंझाळी॰
[^10]M- विकटपालित॰
[^11]M -॰शरञ्जलद॰, T.C- शिरज्जलद
[^12]A-॰धवल॰
[^13]M - माला.........ल
[^14] A adds another कल, T-॰कलक॰
हरिन्मुखम्[^1] शफरभ्रमि[^2]प्रवर्त्यमानमुखरावर्तगभीर[^3]गर्त- सत्वरोदित्वरमरुन्निरन्तरापूर्यमाणघुणसुषिरघनसविध शैवलासङ्गिशङ्खसङ्घभाङ्कारधाराश्रवणधाराधर[^5]स्तनित- भ्रमान्धनानादिगन्तसमकालसङ्गतकलापिकुलबहुल[^6]केका- रवाकर्णनचकितकम्पितकुम्भीनसेश्वर[^7]तलिमशायिनलिन- नाभाकस्मिकसस्मितप्रबोधविस्मितसनकसनन्दसन[^8]त्कुमार- सनातना[^9]दिमुनिगणसमाधिदृष्टशफर[^10]परिवर्तस्वभावमादाय कौस्तुभादिकमवशिष्टसंरक्षणाय[^11] तत्र[^12] तत्र जतु[^13]मुद्रितमिव शैवालजालश्यामलितं प्रलयोट्टेलद धिजलधितरङ-- संपर्केण दधीभूय[^14] मन्थर[^15]मथनेऽश्मप्रान्तसन्दर्शितनवनीत-
[^1] M, T-°हेरिन्मुख°
[^2]M- °भ्रम°, T.C.- °भूमि°
[^3]T-°गंभीर°
[^4]A,M,T- °भाकार°
[^5]M, T- °धाराधरा
[^6]A- °बहळ°
[^7]M- °कुम्भीनसेश्वालिम°
[^8]A- °सनत्कुमारा°
[^9] Tomits आदि
[^10]T- °शफरिवर्तप्रभावम्
[^11]M- °सन्नक्षणाय
[^12] momits तत्र तत्र
[^13]M- ऋतुमुदितम्
[^14]T- °प्रभूय
[^15]A- मन्दरमथनेन प्रासन्दर्शत°, T- मदरमथनेन प्रान्त सन्दर्शित°
पिण्डमिव डिण्डीरखण्डमण्डितं बहो: काला[^1]दप्यप्रशान्त- मथनोद्भवभ्रमि[^2]वेगमिव जलभ्रमसहस्रापूरितं गभीर[^3]मपि चपलस्वभावं समकरमपि विषमकर हस्तापराजितं पाण्डुमप्यपार्थ[^5]सीमाक्रमणाभिलाषिणं सर्वतोमुखम- प्यहीन[^6]प्रचारं सभ्रमो[^7]त्पादनमपि विभ्रमोत्पादनं मत्स्य- कूर्ममयमप्यनारायणावतारम् अब्जप्रभवमप्यधातारं संसारंमिव दुस्तरं कपर्दिनमिव कुमुद्वतीरमणा[^8]वासं पीतवासस- मिव सशङ्खचक्रम् शक्रमिवैरावताधारं धातारमिव हंसो[^9]पसेवितं सवितारमिव कमलोन्मेषकरं हिमकरमिव सुधानिधानं मुनिमिव हृदयाराधितनारायणम्ऐरावण- मिव तटानि दारयन्तं धूर्जटिवृष[^11]मिव गर्जन्तम् उच्चैःश्रवस- मिव वल्गन्तमुरगेन्द्रमिव निःश्वसन्तमुत्पतन्तमुद्र्भमन्त- मुच्चावचवीचिकाजालमालुलोकिरे भगवतः श्रीपतेस्वरोधं
[^1] T- कलादपि
[^2]T.C- ॰दुर्मिवेगमिव
[^3]T- गम्भीरमपि
[^4]T-Tomits ॰कर॰
[^5]A- उपार्थ॰
[^6]M- मुखमपि हीन॰
[^7]T.C. सद्रुमोद्वादानपि विद्रुमोत्पादनं
[^8]A- ॰रमणावाहं
[^9]M- हंसैरपसेवितं
[^10]T- वैरावणमिव
[^11]T- ॰वृषभमिव
[^12]M-आलुलोकरे
[^13]A श्रियः पतेः
क्षीरोदम्।
कल्लोलाहतिपातितान् क्रमवशादावर्तगर्तागता-
नूर्ध्वा[^1]ग्रान् भ्रमिवेगनिश्चलधृतानालक्ष्य कूलद्रुमान् ।
द्वीपे यस्य पुराविदो वनचरा: कल्पद्रुमा इत्यहो
याचन्ते परितः प्रसारित[^2]करा: स्व[^3]स्वेप्सितार्थान् वृथा॥१२।।
श्रीरेव यस्य दुहिता[^4] हरिराप्रबन्धु-
स्तारा स्नुषा, तनुभवश्च सुधानिधानम्।
प्रादायि येन सुरभिः सुरपादयो[^5]ऽथ
चिन्तामणिश्च य इमे जगतां वदान्या:॥२३।
तत्र हि तदा दामोदर:
तल्पीभवद्भुजगराजफणोपधान-
विन्यस्तमौलिकमलाङ्कनिवेशिताङ्घ्रि: ।
श्रीसन्निधानमुकुलीकृतनाभिपद्म-
निश्शब्दलीनसमयज्ञविधातृ शेते ॥१४॥
[^1] M- अध्वाग्रामान्
[^2]T- ॰प्रसादित॰
[^3]M- सु॰
[^4]A- दयिता
[^5]A,T,Tc- ॰पादपो वा
ततश्च ते पाकशासनमुखा दिवौकसो विकसति पुण्डरीक इव तस्मिन् तत्कर्णिकापीठ इव च[^1] श्वेतद्वीपे तन्मकरन्द[^2]रसानन्दनिष्पन्दमिव मिलिन्दं मुकुन्द- मालोकयितुं निर्मलकलशजलधिनिश्चलमध्यभाग- प्रतिफलितवैकुण्ठरूपं श्वेतद्वीपमधिगत्य प्रथमकक्ष्या- यामेव तार्क्ष्यविष्वक्सेनप्रभृतिभिः प्रतीहाराधिकृतै- रुद्दण्डप्रवृत्तिभिर्दण्डपाणिभिर्निद्रावसरोऽयमसुरजाति- द्रोहिणो भगवतः सन्निहितान्तःपुरस्य दामोदरस्य नायम[^4]वसरो युष्माकमिति निवार्यमाणाः प्रकृतकार्य- त्वरमाणा अपि त्रिजगदध्यक्षपुण्डरीकाक्षप्रभावानु- रोधिनस्तदवसरं प्रतिपालयामासुः ।
अथ तत्प्रबोधप्रतीक्षकसहस्राक्षमुख[^5]सुप[^6]र्वगण- सुकृतपरिपाकेनेव संजनितजातिवैरस्मरणः कृतान्तकासरः संवर्तप्रवृत्तपुष्कलावर्तकनिर्घातघोरनिर्घोषः खुरपुट-
[^1] M omits च
[^2]A,T- मरंद॰
[^3]A,M omit दण्डपाणिभिः
[^4]M omits न
[^5]M,T-॰मरवस्य
[^6]M omits सु
रटित प्रतिनादमुखरितब्रह्माण्डकरण्डको मुहुर्मुहु- रुचावचोद्र्भमित विषाणकोटिरुच्चैःश्रवोऽभिमुखमुच्चचाल। सोऽपि संक्रन्दनसैन्धवः साध्व[^1]सपीडितः ताडित इव कशाभिर्भीषणं[^2] हेषमाणः शिथिलपलयाणखलीन- बन्ध उत्प्रबन्धकलकले सुरकुले बभ्राम। एवंविधकोलाहल जनितोत्साहस्तत्क्षणमीशान- वृषोऽपि धर्मकालवलाहक इव भयानक[^3]मुत्तानितानन- मुन्ननाद!
अत्रान्तरे कलकलैरव[^4]बोध्यमानः
क्लिष्टोरगेन्द्रशयनः परि[^5]वृत्य पार्श्वे।
उर्वीरमाविधृतपाणितलः कथञ्चि-
दुत्तस्थिवान् मुरहरः स्मयमान एव॥१५॥
[^1] M,T- संध्वंस॰
[^2]A,M - भषणं
[^3]M- भयानकर्ता नूतन॰
[^4]M has एव to the detriment of metre.
[^5]M has gap for परिवृत्य
कः कोऽत्र रे कलकलः क[^1] इवा[^2]यमासीत्
इत्याकलय्य वचनान्यथ तस्य शौरे:।
द्वारि स्थिताः सभयमन्तरुपेत्य तस्मै
व्यज्ञापयन् सुरगणं मिलितं समस्तम्॥१६।।
तदनु तेन दनुजशासनेन तत्प्रवेशदत्तशासना:- प्रतिहारवासिनस्त्वरितं बहिर्निर्गत्य “भो भो सहस्राक्ष दिदृक्षति त्वां तार्क्ष्यकेतनः; प्रविश पाशधर; तिष्ठ पाश- धरानुचर; सविनयमेहि दण्डधर त्यजोद्दण्डतां; राजराज समीकुरु कुण्ठा[^3]भरणं; मा त्वरस्व मातरिश्वन्, शीतो भव जातवेद: ; चारणागन्धर्वा: समयं विज्ञाय गायत; पिशाचा[^4] रे स्वामिना कृताभ्यनुज्ञा निषीदत[^5]” इति वचो- भिर्भगवत्सभाधिरोहे कर्तव्यान्युपदिशन्त: सर्वानपि सुपर्वणो यथार्हँ प्रवेशयामासुः।
[^1] M reads कल: in which case the metre becomes defective.
[^2]T- उपायमासीत्
[^3]T.C. कर्ण॰
[^4]M- विशाचारे स्म मनाक् कृता॰
[^5]M- निषीदते तु, T.C.- निषीदन्तेति
[^6]A,M- उपदृशन्तः
ते संमर्दमिथोविघट्टनरणत्कोटीरहाराङ्गन्द-
प्रभ्र[^1]श्यन्मणिशार्करे भगवतः शय्यागृहे सङ्गताः।
श्रीकान्तेन शिरःप्रकम्पनयनभ्रूवल्लिसंज्ञा[^2]दिभि-
निर्दिष्टेषु वरासनेषु सुखमासेदु: प्रसेदुः सुरा:॥१७॥
अनन्तरमपि पुरन्दरप्रेरिता भगवदाभिमुख्याय सिद्धचारणविद्याधरकिन्नरादयः कृताञ्जलयो “जय जय सुरा[^3]सुरमणिमकुटनीरा[^4]जितचरणराजीव जीव- लोकशरण्य हिरण्यादिदानवभयङ्कराचार चराचरा- ध्यक्ष कमलाक्ष रक्षरक्ष त्रि[^5]भुवनरक्षणबद्धकङ्कण रणाङ्णवीरभद्रावतार[^6] तारकब्रह्मवदावद प्रसीद प्रसीद[^7] शीतभानुसहोदरानन श्रितजनकारुण्यशालिन् विद्युन्मालापिञ्जरकन[^8]काम्बर दीनत्राणपरायण नारायण" इति चिरकालाभ्यस्तकमलाक्षादिस्तवपाठवासनास्वय-
[^1] M, T- प्रामृश्यन्
[^2]M- ॰संपादिभिः
[^3]M- स्मरासर॰
[^4]M- ॰नम्रराजित॰
[^5]M- त्रिभुवनं
[^6]Tadds तारक
[^7]T omits प्रसीद
[^8]A- ॰जनकाम्बर
मागतसम[^1]र्थिततत्तन्ना[^2]मावयवघटिताभिः स्तुतिभिः पुण्य- श्लोकमुपश्लोकयामासुः।
देवोऽपि दैत्यकुलसंक्षयधूमकेतु-
राकर्णयन्नसुरगन्धिवचस्स्तवेषु।
उल्लिख्य तांस्त्रिपुरदानवसेवनार्ता-
नद्भूतसान्द्रकरुणो हरिरिन्द्रमाह॥१८॥
जानीमस्त्रिदशेन्द्र[^3] तारकसुतैरुन्मत्तवेधोवरा-
न्मायद्भिर्दनुजाधमैरवमतान् दीर्घेण कालेन व:।
किं[^4] कुर्मो वरदानमात्र निरतो वेधा: प्रभुवर्तते
किं पश्येदयमेकदा रणमुखे कोपोद्धतान् दानवान्॥१९॥
पश्याङ्गं तव कर्शितं सुरपते पाशी विशुष्काननो
दुर्दर्श: स[^5] यमोऽपि दीनवदनः शोच्यः कथं वर्तते।
वायुर्मन्दगतिः शिरवी च मलिन: कम्पोत्तरो यक्षराट्
लोकेशः करुणानिधिः स[^6] वरदस्तुष्टः किमेतावता॥२०॥
[^1] A,M- ॰समर्थ॰
[^2]A,T- नामावय॰
[^3]T adds दानव to the detriment of metre
[^4]A-॰कं
[^5]M,T- समयोऽपि
[^6]A – स वरस्तुष्टः, M- स च वरस्तुष्टः
फलितं चेदं वासव जानीहि प्रतिदानववरदायिता चतुरा[^1]नने। दानवाहितश्च परिभवो युष्मासु। अस्मासु च सर्वदा दुर्दा[^2]नवयुद्धदुर्व्यसनिता। तदास्तामेतत् नायमवसरो विधि[^3]गर्हणस्य। तैः खलु दानवैरेवं वरो लब्ध:- "सहस्रेण समाभिः सङ्गतेषु पुरेषु शरेणैकेन स्मितपूर्वमुक्तेन वधो- ऽस्तु त्रिपुराणाम्” इति। तेषां च[^4] दुर्धियामेवं वरं गृह्णता- मेवमाशय उन्नीयते "पुरमेलनकालस्य स्वल्पतया कथं तदानीमस्माकं पराजयो भवेत्। कथं वा निर[^5]तिशय- पराक्रमोष्मभिरस्माभिरभिगतस्य भीतस्य विषीदतो दिक्षु विदिक्षु निक्षिप्रदृश: फलायनो[^6]पायगवेषणव्यग्रस्य रिपो: स्मितं भविता? कथं च वा शरेणैकेनैव वधस्त्रिपुर- दानवानाम्” इति। तदेकश्च शरो वय[^7]मेव भवामः। मद्वाण- भृतापि धनुर्भुता कालकूटसाहसिकेन कालकण्ठेनैव भवितव्यम्।
[^1] M, T- चतुराननो
[^2]T omits दुर्
[^3]M-विगर्हणस्य
[^4]M- चादुर्धियां
[^5]M- निरङ्कुशयपराक्रमोषुभिः, T.C- निरतिशयपराक्रमोऽस्माभिः
[^6]M- ॰उपायन॰
[^7] M - वधमेव
तदिदानीमियदेव कर्तव्यम्। विविधाभिचारप्रवर्तनेन प्रथममस्माभिस्त्रिपुरदानवानां तेजो बलं चापहर्तव्यम्। स्वतोविभिन्नधर्मसेतूनाम[^*]पि तेषामवशिष्टधर्मलोपाय मोहशास्त्रेण मोह[^1]यितव्याश्च ते। ततश्च स देवदेवः करुणानिधिस्तरुणेन्दुशेखरः सर्वैर[^2]स्माभिः[^*] प्रसाद[^3]नीय:। एवं च ते जय्यास्त्रिपुरदा[^4]नवाः।
इत्थं दैत्यभिदि स्वयं वदति[^5] ते सेन्द्राः सुराः संभ्रमा-
दुत्थाय प्रणिपत्य हन्त कियती भूतानुकम्पा तव।
सिद्धं नः परमे[^6]प्सितं विनिहता द्रोग्धार उत्पादिता
लोकाः किं बहुनाधुना श्रितजनाधारेति तं तुष्टुवुः॥२१॥
[^1] T- मोहितव्याश्च
[^2]M- सर्वो, T- सर्वे
[^3]M omits प्रसादनीय:
[^4]M- ॰दावाचा:
[^5]M- वदतु
[^6]M- परमीप्सितं
[^7]M- कृतं
* A omits from नामपि to सर्वैरस्मा
इति मधुरिपुर्मन्त्रं देवैर्विधाय स तैः समं
सुरसि[^1]रितटे चेष्ट्वा घोराभिचारविधानतः।
क्रतुशिखिसमुद्भूतान् भूतान[^2]नेकविधानथ
न्यदिशदभित[^3]स्तेजो हर्तुं पुरत्रयवासिनाम्॥२२॥
इति भरद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्या- चार्यश्रीकण्ठमतनिर्वाहधूर्वहचतुरधिकशतप्रबन्ध- निर्मित्यलङ्कर्मीणश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाच्चान् दीक्षितपौत्रस्य श्रीनारायणदीक्षितात्मजस्य श्रीमदतिरात्रयाजिनः कृतिषु त्रिपुरविजयनाम्नि चम्पूकाव्ये मुकुन्दस्य सन्दर्शनं नाम प्रथमाश्वासः ।
[^1] T.C.- सुनगरीतटे चेष्टवायोरभिचार॰
[^2]T- भूतान्वितानेक॰
[^3]T- अभितस्मै
द्वितीय आश्वासः
प्रागेव यो महा[^1]नायस्स भूयो मायया वृतः।
नारदानुगतो बुद्धरूपी पातु रमापतिः॥१॥
तदनु दनुजशासनस्त्रिपुरदानवमोहनाय मोहशास्त्र- मुत्पाद्य बुद्धरूपधरस्समान[^2]रूपनारदानुगम्यमानस्त्रिषु पुरेषु जगाम।
तत्राग्निहोत्रशरणानि महासुराणा- मत्युन्नतानि च तथायतनानि शम्भोः। दृष्ट्वा सहासमितरेतरदत्तहस्त- तालौ विचेरतुरिनौ पश्मौ पुमांसौ॥२॥ तस्मिन्नेव समये समापितपूर्वाह्णकृत्यः पूर्वदेवेश्वरोऽपि समाराधितेश्वरः पुरस्सरदन्त:[^3]पुरं त्रिलोकपण्यमान- त्रैलोक्यविजयापदानस्सदानवः कुञ्जरगति: मन्दं मन्द- मन्तःपुरान्निर्गत्य गद्यपद्यात्मकस्तुतिपाठमुखरेषु वन्दि- मागधवरेषु जय जीव वर्धस्व पालय चराचरमित्याशीर्वाद- वाचालेषु वृद्धजालेषु राजदर्शनकुतूहलातिशयवादित-
[^1] T- महामायी
[^2]A- ॰समानरूपा॰
[^3] All mss. add ॰पुर॰
[^4]T- ॰पाद्य॰
शङ्खदुन्दुभिमृदङ्गढक्काझर्झरादिकेषु वादित्रवादकेषु ससंभ्रमभ्रान्तचामरादिराजचिह्नग्रहणसमाकुलेषु भृत्य- कुलेषु प्रसीदेदयं कस्यचिदिति समुद्धृतहारकुण्डलकेयूर- कटकमकुटहाटकाम्बरशतेषु कोशाधिकृतेषु क्रुध्ये[^1]दयं कस्मैचिदिति दण्डता[^2]डनीशृङ्खलादिधरेषु वेत्रधरेषु प्रति[^3]द्य- भ्रमितमणिदण्डमण्डलाहतदनुजकोटिकोटीरचलितस्फुलिङ्ग- विद्योतितगगनाङ्कणेषु दौवारिकगणेषु त्वरितं बहिर्निर्गत्य धावत रे विद्युन्मालितारकाक्षयोर्विज्ञापयत भद्रासनासीनं राजानम्। प्रविशत रे दनुजेन्द्रा गच्छतान्तस्सप्ततापसाः न काचिदद्य रे देवजातिरहो राजप्रसादसमयाकाङ्क्षी पुरन्दरो- ऽप्यद्य[^4] मन्दभाग्यो नायात इति वदत्सु ससंभ्रमगता[^5]गतेषु चाव[^6]सरा[^7]धिकृतेषु कार्यवशादद्य त्रिमूर्तिचीटिकाप्रसक्तौ पूर्वलेखनीयं राजनाम देवनाम वेति संशयव्यग्रेषु लेखक- वर्गेषु लिखत[^8] रे चीटिकां किञ्चिदन्तःपुरे चिकित्सितं
[^1] A- क्रुध्येयं
[^2]M- ॰तामनीश्रघलादि॰
[^3]A,M- प्रतिश्व॰
[^4]M omics द्य
[^5]M,A- आगतेषु
[^6]A, Tomit च
[^7]M- अवसायिकृतेषु
[^8]A- लिखतर, M- लिखित रे
देवतरुपञ्चपल्लवानि कल्पद्रुममूलं हरिचन्दनत्वचः पारिजातबीजानि मन्दारमुकुलानि सन्तानफलानि च प्रेष्यन्तामिति नन्दनवनपालकानाम् इन्द्राण्यापि कामधेनुनव[^1]नवनीतं प्रेष्यतामिति च गणकान्नियुञ्जानेषु वैद्यजनेषु सम[^3]यालाभकण्ठ[^4]स्तिमितबहुविधराजकार्येऽपि भार्गवाचार्ये प्रकाशितदिगन्तनवरत्नकिरणप्ररोहं भद्रं- पीठमर्धिरुरोह[^5]। तत्र च क्षणे राजगृहान्निर्गच्छद्भिरानयद्धि- र्गजतुरगादिकं किमपि किमपि कर्णाकर्णयद्भिरुद्ग्रीव[^6]यद्भि- रागच्छतो विचिन्वद्भिरभितोऽपि ससंभ्रमप्रचारैरखिलै- रेव पौरैरखिलमपि पुरं संक्षुभितमासीत्।
तत्पश्चादवकर्ण्य दानवपतिं भद्रासनार्थासनं
चारै[^7]स्तत्सहजौ बलेन महता स्व[^8]स्मात्पुरान्निर्गतौ।
द्वारे च त्वरमाणसाञ्जलिकरा पक्रान्तदौवारिका-
वुत्तिष्ठन्निकटस्थदैत्यनिवहं पार्श्वं प्रभोरागतौ॥३॥
[^1] M,T omit ॰नव॰
[^2]M omits च, All mss. and इति
[^3]A, M- समयाप भा॰
[^4]T,A,M- ॰कर्ण॰
[^5]M- अधिरोह
[^6]A omits उत्
[^7]A,M- चातै:
[^8]M,T- अस्मात्
तत्रान्तरे नगरपालगणस्सशिष्यं
तं शार्ङ्गपाणिमवलोक्य महाद्भुतेन ।
नीत्वासुरेश्वरसभामवदत्तथा तौ
देवाग्निहोत्रशरणे क्षणतो हसन्तौ॥४॥
तेजोविदितमाहात्म्यौ तौ निवेश्य वरासने।
स्निग्धगम्भीरया वाचा व्याजहारासुरेश्वरः॥५॥
कौ युवां[^1] दिव्यपुरुषौ कुतस्त्यौ किंसमाश्रयौ।
हसथः किंनिमित्तं वा देवाग्निशरणेक्षणात्॥६॥
इति तेन प्राभवसावज्ञकटाक्षवलयेनानुयुक्तो लब्धा- वसरस्सरोजनाभ इदमवादीत्। दानवराज सङ्ग्रहेणेद- मवधा(र)य। आवां निर्धारितनिखिलजगदर्थतत्वौ पराकृतपरमत सिद्धान्तौ स्वेच्छ[^2]या सर्वत्र सञ्चरन्तौ मुनीन्द्राविति। अयं चास्मच्छिष्यस्सर्वत्र[^3] कलहमूलं नारद इवेत्यनृतं नारद एव। अनेन च देशकालानभिज्ञेन हन्त कथम[^4]त्रत्या लोकजीवनान्येव घृतक्षीरदधिमुखानि
[^1] A- दिवां
[^2]M- सेवया, A- स्वेया
[^3]A- सर्वकलहमूल:
[^4]A- कथमत्रन्यालोकमिवनान्येव, M- क्रयमत्रद्युलोकमिवनान्येव
वह्नौ प्रक्षिपन्ति निरर्थकमेव च प्रतिमाः पूजयन्तः[^1] खिद्यन्त[^2] इति तत्त्वमालोचयता मदु[^3]पदेशमहिम्ना हसितु- मारब्धम्। ततश्चावामत्र नीतौ इति।
इति मायामनुस्मृत्य ब्रुवाणे दा(न) वान्तके।
कमलाक्षो मनस्येवमकरोत्काल[^4]चोदितः॥ ७ ॥
लक्ष्यतेऽयं महात्मा। अस्य च वपुर्ब्रह्मवर्चसेन ज्वलति किं बहुना वशिष्ठ[^5]वामदेवविश्वामित्रादिषु नैवमाकारः। अस्य च मतं कर्मनैष्फल्यप्रतिपादकमिति विरुद्धमेतत्। कथमिदं प्रमाणं स्यात्। अथवा[^6] प्रमाणं भवेत्। युक्तिः खलु भगवती सर्वदर्शनशरण्या। न हि परस्परविरुद्धानि …[^7]….(नि)षेधमपि यजनीयसूत्राणि प्रमाणानि[^8]। तद्यदि प्रमाणं कर्मणां नैर[^9]र्थक्येऽपि तदा देहायास करा[^10]ण्यमूनि परित्यज्य सुखमासितुं शक्यमिति।
[^1] M- पूजयत:
[^2]A,M. खिद्यत
[^3]M- मम
[^4]M- काम॰
[^5]A- वसिष्ठो
[^6]M- वर for वा
[^7]M has a gap.
[^8]T- अप्रमाणानि
[^9]T- नैरर्थक्योऽपि
[^10]M- कार्याणि
पप्रच्छ पश्चात्सुखमार्गलुब्धः
स तार्क्ष्यकेतुं दनुवंशकेतु:।
निरर्थकं कर्म भवेद्यदीह
प्रमाणमेकं भगवन् वदेति॥७॥
अथ भगवति मधुसूदने तत्रो[^1]त्तरं विवक्षति सर्वकर्म विशारदो नारद: प्रतीपवचसा भार्गवाचार्येणान्तरान्त- रायमाशङ्कमानः स्वमातरं सरस्वतीमनुस्मृत्य मनसीद- मवादीत्। देवि[^2] जगद्विताय किञ्चिद्विज्ञा[^3]पयामि-
यदा[^*] यदाय भार्गवः प्रतिकूलं विवक्षति।
तदा त्वमम[^4] च स्नेहानुकूलेव निस्सर॥इति।९॥
अनन्तरं च- वत्स श्रीकमलाक्ष तापस इति प्रश्नं वृथा मा कृथाः सोऽयं दैत्यकुलान्तको मधुरिपुर्मायां विधाया[^5]गतः। इत्थं वक्ष्यति भार्गवे प्रचलिता वाचस्तु तस्याननात् प्रश्नेनालमितः प्रमाणमपरं किं वास्य वाक्यादिति॥२०॥
[^1] M- तत्र तारं
[^2]A, M have मदपि for देवि
[^3]A- विज्ञापयान
[^4]T- मयि, omits च
[^5]T- आगतमिति
* यदा यदा भार्गवोऽयं will be better metrically.
तेन चाचार्यवचनेन कमलाक्षमुखास्त्रयोऽपि तस्मिन् पर[^1]स्मिन् पुंसि निर्विचिकित्सं विशश्वसुः। सोऽपि करणा- पाटवधिया पुनः पुनर्विवक्षां कथयन्-प्रतारितोऽस्मत्प्रति- षेधाद्वरं तूष्णींभाव इति सविस्मयो दानवमन्त्री मौन- माश्रितः ।
विश्वस्तेषु नरेन्द्रेषु भार्गवे मौनमाश्रिते।
निःसपत्नं हरिर्वाक्यं व्याजहार कुतूहली॥२२॥
राजन कुशाग्रमते तटस्थतयैव द्रष्टव्यम्। कर्मणः फल- वत्त्वे प्रमाणाभाव एव निष्फलत्वे प्रमाणम्। श्रुतिस्मृतिशिष्टा- चारादि प्रत्यक्षदृष्टनिष्फलत्वविरुद्धतया महाह्रदवह्निसाधक- हेतु वदप्रनाणमेव। न हि कश्चिदपि साङ्गश्रौतस्मार्तकर्मानुष्ठाता सहस्रवर्षजीव्यपि फलं पश्यति प्रेत्यभुञ्जत इति अत्यन्तम- सदेव। पश्यत एवं ध्वस्तस्य शरीरस्य नष्टघटस्येव पुन- रुन्मज्जनं गगनकुसुमरूपम्। शरीर[^*]भिन्नमपाणिपाद- मचक्षुःश्रोत्रमघ्राणरसनमरूपनामधेयमात्मनामधेयं किञ्चिदिति कल्पनमहष्टकल्पनमिति अन्याय्यमेव।
[^1] M,A- परस्मै
* of Mundakopanisad I.1.6. अचक्षुःश्रोत्रं तदपाणिपादम्
कारी[^1]र्यादि फलमपि काकतालीयम्। अत एव तस्य क्वचित् क्वचित्फलानुदयः। श्रुतिचोदितं कर्म सफलमिति वृथा- विश्वासाः वैदिकाः परं तत्र क्रतुवैगुण्यं कल्पयन्ति।
इत्युपश्रुत्य मेधावी कमलाक्षस्तमाक्षिपत्।
ऐश्वर्यं नस्तपोलब्धं कथं कर्मणि निष्फले॥२२॥
इत्येवमाक्षिप्ते दुरात्मायं दुरुत्तरमाक्षिप्तवानितिं विचारयन्न- प्यव्याकुलस्सन्तुष्टभार्गवाचार्यदृष्टः कथमुत्तरं भविष्यतीति पर्याकुलेन नारदेन निरीक्षितमुखारविन्दो गो विन्द: स्नयमान एव परिजहार। दानवराज मा मैवम प्राकृत[^2]स्येव ब्रूमस्तवापि। तपश्चरणं वरप्रदानमिति अमरेर्मुनिभिश्च कल्पेतो वञ्चनानार्य:। नहि दृष्टं कारण[^3]नन्तरेणेव[^4] तवेश्वर्यलाभः। आवश्य[^5]कानन्यथासिद्धयुद्धजयसीमा- क्रमादि[^*]भिरेव तत्सिद्धौ किं तपसा[^6]। युद्ध जया(दि)कं च शौर्यबलादिकमेव[^*]। न च तावता प्रसजति जगदाधिपत्यस्य सर्वसाधारणता। नहि त्वयीव क्वचिदस्ति दृष्टकारण किञ्चित्।
[^1] A,M- कायादि, T- कारीध्यादि, TC- कारीयादि, The reading is emended.
[^2]A,M- प्रकृतस्येव
[^3]A, M,T- करणमन्तरेण
[^4]A,T omit एव
[^5]A- भ्रूवश्यकान्, M-वश्यकान्
[^6] Madds तत्
*T treaks from क्रमादि upto एव
तथाहि-- क्रोधस्फारितसिंहनादचकितप्रक्रान्तशक्रा[^1]दिम- व्रीडः[^2] स्तम्भितगुम्भिताञ्जलिशतः क्वान्यत्र ते विक्रमः। खेलोदस्तम[^3]दान्धकासरवरस्थायिभ्रमन्मस्तक- भ्रश्यद्दण्डधरप्रमुक्तकरुणाक्रन्दं क्व वा ते बलम्॥१३।।
तत्कर्म वैधं सकलमफलं केवलं नृणाम्। अन्वयव्यतिरेकाभ्यां लौकिक्यस्सफलाः क्रियाः॥१४॥ एवं च शरीरस्यात्मान्तस्य च भङ्गुरतां भग्नस्य पुनरतु[^4]त्पत्तिं मोक्षस्य फलराजतां तस्य च दुःखासंभिन्न- सुखरूपतां जानता[^5] मोक्ष एव यतितव्यम्। तदुपायश्च निरन्तर सुखसाधनसंपादनमेव। इदं चात्र रहस्यमवधेयम्। प्रातः खण्डितवनिताप्रसादनं सुप्रिरेव मध्याह्ने। नक्तं[^6] प्रियाङ्गनार[^7]तिरेषा दैनन्दिनी मुक्तिः॥१५॥
[^1] TC- °शङ्कानति:
[^2]M- प्रीतः, TC- वृद्ध
[^3]A-°मदान्धकासनवरस्थाविभ्रमन्मस्तकं
[^4]T- उत्पत्ति°
[^5]M- जनयिता,A- जनता
[^6]M – भक्तं
[^7]M- प्रियाङ्गभारति
भ्रान्त्या तु केचन तपः परुषं[^1] चरन्तो
मोक्षाय[^2] सिद्धमपि मोक्षमुपेक्षमाणा:।
आदेहपातमपि ते ग्लपयन्ति देहान्
स्वस्मिन्[^3] प्रणश्यति भविष्यति कस्य मोक्षः॥२६॥
यद्वा वेदविदां मतेन भवतस्तत्त्वं किमप्युच्यते
येन स्यात्सुखमात्मनस्तदखिलैः कर्तव्यमेवाञ्जसा।
नैवामुत्र तु भावि किञ्चन फलं दैत्यप्रभो को हि तद्
वेदेति श्रुतिरेव सा भगवती ब्रूते[^4] कुतस्ते भयम्॥२७॥
इत्येवं सन्यायं सदृष्टान्तं च तटस्थ[^5]तयेव प्रसक्तानु- प्रसक्त्येव रहस्यतयेव अनुकम्पतयेवानुजिघृक्षयेव प्रति- पादयति दनुजशासने तमः प्रधानतया दनुजानां सुख- प्रवणतया हृदयानां बद्धमौनतया भार्गवाचार्यस्य विश्वस- नीयतया मधुसूदनाकारस्य परिणततया सुपर्वगणकृता- मावश्यकतया भवितव्यताया दुर्लङ्घ्यतया च विष्णुमायाया-
[^1] A,M- पुरुषाः
[^2]T adds one more सिद्ध
[^3]M – तस्मिन्, A-सस्मिन्
[^4]A, M have gap for of ब्रू
[^5]T- तटस्थयेव
[^6] A,M- कृतानाम्
30
1
स्तत्क्षणमसुरेन्द्रास्तन्मतं रोचयामासुः चिन्तयामासुश्च। कथमेषामेवास्माकं भ्रमो वृत्त:। पश्यत। शिल्पिभिः कृतानां[^1] शिलानां तत्रापि निरवकाशग[^2]र्भानां प्रतिमासु देवतास्तिष्ठन्ति नाम। अपि च लौकिकाग्नेर्वैतानाग्नेश्च को विशेषः। तत्र हि वयमस्मदावश्यकान्येव घृतक्षीरदधिमुखानि बहो: कालात् प्राक्षिपाम:। इदं चद्भुतमेव। जानद्भिरेव चाणूरमर्दनस्य वृन्दावनविहारं शृण्वद्भिरेव शम्भोर्दारुकावनभीरु भुजङ्गतामनुभूतश्चिरा देकदारव्रतखेदः। अलं गतमनु- शोच्य। साधयामस्सुखमितःप्रभृतीति तत्क्षणं च ते निरस्तदेवताविश्वासा: अप्यनेन विशेषदर्शनं वृत्तमिति भगवन्तं मुकुन्दं पूजयामासुः। ततश्च तथा पूज्यमानस्सः तद्विश्वासदाढर्याय तत्रैव कियन्तं कालम[^4]वात्सीत्। अथ तेषां प्रबोधास्तनयेन मोहान्धकारपतितानामुत्पथ-
[^1] A- कृतानामाशीलानाम
[^2]A- ॰गर्भाम् प्रतिसुमासु, M- गर्भायप्रतिसुमासु
[^3]T omits हि
[^4]A - आसी
प्रवृत्तिरासीत्। तदानीं च तेषु पुरेषु[^1]- मातुर्वशं गता बाला वृद्धा भर्तृवशंगताः। सन्नद्धयौवना नार्यस्सर्वास्सर्ववशं गताः॥१८॥
इदं च तत्र वञ्चनामाहात्म्यम्- प्रस्वापं प्रतिपाल्य भर्तुरलसव्यावृत्तिदृष्टप्रिया निद्रान्तीव चिराय जार[^2]विहतिध्यानेन लीना प्रिया। सोऽप्येषा स्वपितु व्रजामि सुखमित्यास्तां परां चिन्तय- न्नित्थं वञ्चयतोः परस्परमपि व्युष्टा निशा कामिनोः॥१९॥ मिथः प्रतार्य निर्यान्तौ भ्रमेण मिलितौ पथि। दम्पती त्वत्परीक्षार्थमिति निर्दोष निर्गमौ॥२०॥
अपि च तदा दानवकुलपालिकानामपूर्वतया समुल्बण- मन्मथाविर्भावस्य नूतनतयाप्यभिसारावतारस्य कतिपयेषु दिनेषु कुलटाजन परिहास्यःप्रकार आसीत्। तथा हि
[^1] A- पतेषु, M- व्रतेषु, TC- परेषु
[^2]M- जारहृतिमानेन,A- जारहृतिर्मानन
[^3]T- ॰पालितानां
दानवसुन्दर्य:-- दृष्ट्वा रक्ताः स्वयमभिसन्त्यन्तरेणापि दूती- र्भक्त्या यूनामपि विदधते पादसंवाहनानि। सन्त्र[^1]स्यन्ति प्रसभसिचयाक्षेपकण्ठ[^2]ग्रहेषु क्रीडाकोपात्प्रणमति विटेऽप्यन्वगन्वक्प्रयान्ति॥२२॥
लज्जन्ते रतिकूजितेषु बलवत्कर्णौ पिधायाकुला-
श्चाटून् कुर्वति कामुके निदधते पाणीन् विहस्योरसि।
नैतद्युक्तमिति क्षिपन्ति तरुणान् बिम्बाधरं चुम्बतः[^4]
क्रुध्यन्त्यप्यधिकं नखैर्विलिखिताः क्रीडासु वक्षोजयोः॥२२॥
सुलभमदूत्यमचापलमचाटुवचःक्लेशमनपराधभयम्।
धन्यैर्विटैस्तदानीमुप[^5]भुक्तं त्रिचतुराणि दिवसानि॥२३॥
[^1] A,M- सन्त्रस्यन्ती
[^2]A,M,T-॰कर्ण॰
[^3]M- अन्वगच्छत्
[^4]A,T- चुम्बितः
[^5]A,M- उपभुक्तिं
अतीतेषु च केषुचिद्दिनेषु-- यत्कौटिल्यमपाङ्गयोरथ च या वाचां पराची गति- र्या च क्रोधकठोरता प्रणतिभिःश्रान्तेऽपि कान्ते चिरात्। तत्सर्वं सविशेषमाविरभवत् तत्रैव कान्ताजने तत्सर्वैरभिनन्द्यतां रतिपतेराश्चर्यमाचार्यकम्॥२४॥
असुराः पुनरेवमेव धर्माच्चलिताश्चक्रधरोक्तमोक्षकामा: मधुपाननिकेतमग्न्यगारं विदधुर्देवगृहं च नाट्यशालाम्। अपि च निरस्तदेवताराधना देवता इव कमिनी:[^3] निरपचार- माराधयामासु:। किं च ते त्यक्ताग्निहोत्रा[^4] वैधाग्नीनिव जाठराग्नीनवहिताः तर्पयामासुः।
इति भरद्वाजकुलजलधिकौस्तुभ श्रीमद[^5]द्वैताचार्य श्रीकण्ठ[^*]मतनिर्वाहधूर्वह चतुरधिकशतप्रबन्धनिर्मित्यलङ्क- मीणः[^*]श्रीमदम्पय्यदीक्षितसोदर्यश्रीमदाच्चान्दीक्षितपौत्रस्य श्रीम[^6]न्नारायणदीक्षितात्मजस्य श्रीमदतिरात्रयाजिनः कृतिषु त्रिपुरविजयनाम्नि चम्पू[^7]काव्ये त्रिपुरदानवमोहनं नाम द्वितीय आश्वास:।
[^1] A, M- व्रतिभिः
[^2]M- आविरभूत्
[^3]M- कामिनीभिः, निरुपचारम्
[^4]A adds देवताग्निहोत्रा
[^5]T omits श्रीमद्वैताचार्य
[^6]T- श्रीनारायण
[^7]A- चम्बु॰
* A,M omic from श्रीकण्ठ to अलङ्कर्मोण
तृतीय आश्वासः
कमलानि सहस्रमर्पयिष्यन् गिरिशे तेषु तदैक[^1]वर्जितेषु। स्वदृशोद्धृतया तमर्चयन् द्राक् दनुजारिस्तनुतां गिरां प्रसादम्॥१॥ इत्थं विमोह्य दनुजान दनुजान्तकारी नारायणोऽपि मुनिरूपमपास्य हृष्टः। सार्धं सुरैस्सुरगिरे: कटकेष्वकार्षी- दुग्रं प्रसादयितुमुग्रतरं तपांसि॥२॥
तथाहि[^4]--
दीर्घाम्भांवासमन्दप्रसृता[^5](बि)सबहिर्निःसन्नाभिपद्म-
व्यामुक्तश्वासहृष्यद्वदन विधिनुतोच्चारणश्चारणेड्यः।
वैकुण्ठः कण्ठदंध्ने पयसि सह सुरैस्संवसन्निर्निमेषं
ध्यायन्नायम्य चेतस्त्रिपुरविजयि(द)[^6]रुद्रसूक्तं[^7] जजाप॥३॥
[^1] T- तदेकनिर्जितेषु
[^2]A- दृशोद्धूतया, M- दृशोद्धतया
[^3]M,T- प्रसादः
[^4]M ormits तथाहि
[^5]M – ॰प्रसृतमपि, A, T- ॰प्रसृतपि
[^6] This is the emended reading. All mss. have त्रिपुरविजयिनं
[^7]A adds च
तेऽपि पाकशासनप्रभृतयो नाकवासिनस्सहावतीर्णपवन- सन्निधानमा[^1]सलितदहनसंपत्सुखोष्णेषु मानसजलेष्ववतीर्य शीतजयेन सुखमीलितदृशश्चिरम[^2]त्वरमाणास्तपस्तेपिरे। तेषु च सहस्रलोचनः कण्ठदघ्नजलनिमग्नः सारूप्यभ्रान्त शफर- घट्टननिमीलदाकर्णलोचनावलिनिर्मज्जदप्सर:कुलकुवलय- कु[^3](ड्)मलबुद्धिप्रसारितनखलिखितमुकुलिता[^4]क्षबद्ध भ्रुकुटी- परम्परः कथञ्चिदपि प्रति[^5]क्षणनियमितेन चेतसा समा[^5]रराध स्मरारातिम्। वरुणोऽपि निजा[^7]वासतया सरोजलं परि[^8]हृत्य ना[^9]क्लिष्टशरीरस्य तपस्मिद्धिरिति सिद्धिकाम[^10]स्ती[^11]रदेश- मागत्य ध्यायति स्म भस्मावकुण्ठितो नीलकण्ठम्। वैश्रव[^12]णोऽपि नित्यैश्वर्यश्रमालसतया तपःश्रान्ति विश्रान्ति[^13]- रहितः[^14] तपस्यतो नभस्वतस्समीपे तपस्तेपे। कतिपये तु[^15]
[^1] M- ॰मांसयिते
[^2]M- त्वरमाणाः
[^3]T- ॰कुध्मळ॰, A,M- ॰कूर्म-न्तु॰
[^4]M,T- मुकुलिताक्षी
[^5]A- पप्रतीक्ष नियमेन, M- प्रतीक्ष्य नियमेन
[^6]M,T- समाराधयत्
[^7]A- निजावासताय
[^8]M- अपरिहृत्य
[^9]M,T- नाक्लप्त
[^10]A- ॰कर्म:, M- ॰कर्म(ण):
[^11]A- तिन॰, TC- स्थिर॰
[^12]A- वैश्रवणे
[^13]T omits विश्रान्ति
[^14]A- ॰हितः, T- हेतोः
[^15]M omits तु
गन्धर्वकिन्नरादयस्तप:क्लेशभीता विजयत रे परिश्रान्तो[^1] भगवान् मुकुन्दो याव[^2]त्तीरे (निदिद्रियाय) नैर्ऋतो जले निमग्नो मूर्च्छितोऽयमग्निस्सलिलगतः पश्यत रे न पश्यामः[^4] चिरादश्विनाविति क्रोशन्तः सव्याजससंभ्रमप्रचाराः कथ- ञ्चित्तपःक्लेशादुत्तीर्णाः। एवमेव देवगणैस्सह गणनाव्यापृत- भुजचतुष्टयीवर्जितपाञ्च[^5]जन्यसुदर्शनादिहेति[^6]मण्डलपरिवृते परितो[^7]ऽपि सरस्तीर[^8]कुण्डलितभोगकुण्डलीश्वरोपरिविस्तार्य- माणफणासहस्रप्रच्छायवासिनिस[^9]विनयवैनतेयचालित- चामरानिलनिर्मृष्ट[^10]निरन्तरमन्त्रपाठ[^11]कन्दलितमुखारविन्द- स्वेदवारिणि वारि[^12]निमग्नवक्षस्तटसरभसोत्तिष्ठ[^13]दिन्दिरागाढा[^14]- श्लिष्टपुलकितकण्ठमूले श्लक्ष्णतानादृतपीताम्बरान्वितकटि- भागे भगवति प्लवमानवनमालाधरे दामोदरे तपस्यति सति
[^1] M- अपश्रितान्तो
[^2]A, T- धावत रे
[^3] This is the emended reading All mss, have निद्रयाय
[^4]M- वश्याम:
[^5]T- ॰पञ्चजन्य॰
[^6]A,M- ॰हेतु॰
[^7]A,M- अपवृतां:पि
[^8]A,M- सरसित॰
[^9]A- विनयवैनतेय॰, M- विनयेन ते
[^10]M- ॰दृष्ट॰
[^11]M- ॰पाठक॰
[^12]M- धारि...निमग्न।
[^13]A omits त्तिष्ठ
[^14]A,M- ॰गाथाश्लिष्ट॰, T- ॰गामगाश्लिष्ट॰
गभस्तिमालिना हरितंप:क्लेशचकितेन त्वरित[^1]मतिकामिता(क्रामता) इव सहस्रं दिनानीवं[^2] सहस्रं समा व्यतीयु:। ततश्च ते समुपलक्षित- चिह्नास्समाप्य तपः[^4] सरोजलादुत्तीर्य परिधाय च विविधान्य- म्बराणि न यावदलङ्कुर्वन्त्यङ्गानि तावदेव- स्विधत्कन्धरनन्दिकेश्वरकरव्याधूतवेत्राहति- त्रस्यत्तापसपठ्यमानविविधस्तोत्र प्रसीदन्मुखः। कल्लोलं कलशाम्बुधेरिव तटीमुल्लङ्घ्य यान्तं[^5] वृषं गौरं गोरतरोऽधिरूह्य शिवया प्रादुर्बभूवेश्वरः॥४॥ स च प्रचण्डतरतण्डुकरदण्डमण्डलीकृतप्रमथ[^6]मण्डल- मध्यवर्ति[^7]कार्तिकेयकेलिकण्डूयितगण्डभागसुखमन्दायमान- नयनवाहनवृपो वृषभ[^8]ध्वजयष्टिनिवेशितापराङ्गो वामाङ्ग- सङ्गतसर्वमङ्गलाप्रणयचालितकुचोत्तरीयकन्दलितगन्धा- मिलापनुद्यमानपथिर(थ)परिश्रमः परिश्रितार्जवमहाकाल-
[^1] A- त्वरतं
[^2]M,T have च for इव
[^3]A- ॰द्धिचिह्नाः, द्विचिह्नाः
[^4] a omits तपः
[^5]M,T- यातं
[^6]A,M- ॰प्रथम॰
[^7]M- ॰मध्यवर्त॰
[^8]A- वृषभध्वजयष्टा॰, M- वृषभर्धजयष्टा॰
धार्यमाणचरणारविन्दः स्कन्दा[^1]ग्रजदत्तदूर्वाङ्कुरास्वाद[^2]समद- वल्गि[^3]तकरकुरङ्गशिशुश्शशिखण्डमण्डनो विद्युमण्डलापाण्डर- कलेबरद्युतिरिन्दीवरकोकनदपुण्डरीकारविन्दपङ्कजमाला- नुकारिमुखपञ्चक[^5]श्शिशिरसञ्चरदपाङ्गपञ्चदशकानुगृहीत- चतुर्दिशवन्दमानकर्मन्दिजनो जनार्दनमार्गनिहितेक्षणः क्षणं[^7]बभूव।
अनन्तरं नन्दिकेशः केशवाय सुरगणमेलनविलम्बिने- पुन:[^8] प्रमथान्[^9] नियुञ्जानो भृङ्गिणमपि निर्दिदेश।
प्रत्याह नन्दिनं भृङ्गी ततः क्रोधभयङ्करः।
संभ्रमस्वेदनिर्मुष्टसान्द्र भस्मावगुण्ठनः॥५॥
मया दृश्यः स्पृश्यस्त्वरितमभिगम्य प्रणतिभिः
प्रसाद्यो विज्ञाप्यः प्रमथपतिरेव व्रतमिदम् ।
शिर[^10]श्छिन्तां भिन्तामपि मम वपुः कोऽपि शतधा
शपे पद्भयां शम्भोर्न परमुखमीक्षे कथमपि॥इति॥६॥
[^1] A- सदाग्रजदत्त॰, T- एकदाग्रजदत्त॰
[^2]A,M have सदा for आस्वाद
[^3]M, T- ॰वलित॰
[^4]T- अनुविन्द, A,M- अनुविद्य, अरविन्द is the emended reading
[^5]T- ॰पञ्चर॰
[^6]T omits शिशिरसञ्चर॰
[^7]A,M- कणं
[^8]T adds पुनः
[^9]A- प्रथमान्
[^10]M- शिरश्छिन्नांभिन्नामपि
एवं वदति भृङ्गिणि तद्भक्तिमहिमाभिनन्दी नन्दीश्वरः स्वयमेव किचिदुपसृत्य संज्ञया हरिं त्वरयामास। ततश्च[^1] दुरवबोधशिवमहिमसर्वस्ववेदी
नारायणः--
अर्थामुक्तकिरीटकुण्डलमधोण्या[^2]लम्बिपीताम्बरं व्यालोलद्वनमालमाकुलरमासंश्लिष्टवक्षःस्थलः। यावद्देवपति स्वयं धृतकरस्संभ्रान्तनागान्तकः द्राक्सी[^3]मन्तितदेव[^4]सन्ततिपथः प्राप्तश्शिवस्यान्तिकम्॥७॥ भूलग्ना[^5]भुग्ननाभी[^6]कमलदल[^7]वसत्संकुचद्देहसद्यो[^8]- मन्दी[^9]भूतानिकाकुश्रुतिपठनविधिप्रार्थितोत्थानकालः। श्रीगात्रक्लेशशङ्कोन्नमित[^10]बृहदुरोलम्बहारश्चिराय[^11] स्वान्विष्टं दृष्टमङ्घ्रिद्वयमपि गिरिशं तं ववन्दे मुकुन्द:॥७॥
[^1] A,M omit च
[^2]M- कुण्डलमयो॰
[^3]A omits सी
[^4]M ॰देव----थः, T- देवसन्ततिपयः
[^5]A,M- भूभागा॰
[^6]M- ॰नाभि॰
[^7]M- ॰ढले
[^8]A,M- ॰सन्धो॰
[^9]T- ॰मदी॰
[^10]M- ॰शमित॰
[^11]A- चाराय, M- चराय
[^12]M- गिरीशं
[^*] A “is wanting in a leaf containing the portion तं ववन्दे.....to तपसस्तव मूल (on p. )
अनन्तरं जलन्धराभिहितोऽपि निरस्यंरोमन्थ- माकुञ्चिततनो: किञ्चिदिव वृषादवरुह्य ससंभ्रमप्रणय प्रसारितैर्दशभिरपि भुजैश्चतुर्भुजमुद्दधार। परिजहार च तद्वक्षसि लक्ष्मीसन्निधानात् प्रणयपरीरम्भणय् दयमानः कटाक्षयामास च सविनयनन्दीरितालोक- शब्द: पद्मनाभकृत[^1]नामनिर्देशान् पाकशासनमुखान्[^2] दिगीशानष्टाद्म[^3] सन्तिकृष्टान् प्रणतानन्यानपि विदूरतो वन्दमानान् वृन्दारकान् तदनु दनुजशासनश्चतुर्भुज- श्चन्द्रशेखरमहिमस्तवाय मन्दमञ्जलिद्वन्द्वमाबबन्ध।
आलिङ्ग(न्)[^5] प्रणमन्निव व्रजवधूधूर्तः स्वयं मेदिनी-
मद्यालिङ्गति चारञ्जलिं विश्चयँलक्ष्मीमसौ वक्षसि ।
इत्थं[^*](मुग्धतया)[^6] गणान्प्रति(वद)[^7] त्युच्चै: सहा(से)[^8] हरे
मन्दस्मेरमुखाम्बुजौ हरिहरौ व्रीडापराची शिवा॥९॥
[^1] M- ॰विकृत॰
[^2]T- मुखा
[^3]T- अष्टापि,
[^4]M omits this word.
[^5]M,T- आलिङ्गात्
[^6]M reads इत्थमुद्धतया which is metrically wrong., इत्थं मुग्धतया is the suggested reading.
[^7]M- वदन्ति
[^8]M - सहासो
[^*]“T” is wanting in a leaf containing the portion इत्थमुद्धतया to तारकासुर(निषूदनम्) (on p.46)
ततस्स गोविन्दः समन्दस्मितमेव तुष्टाव तमष्ट- मूर्तिम्।
ओं नमस्सञ्चिदानन्दलक्ष(णायाखि)[^1]लात्मने।
योगिभिर्मृग्यमाणाय परस्मै ब्रह्मणे नमः॥१०।।
मूलाधारचतुर्दलाम्बुजभवत्प्रासादमौल्युन्मना(नी?)
स्थानव्यञ्तितशुद्धनिष्कलचिदानन्दावभासाकृतिम्।
त्वां वन्दे प्रतिसन्ध्यमन्धकरि(पो)[^2] ग्रन्थित्रयं दारयन्
चक्रा(ब्जं)[^3] स्फुट्यन्निरुद्धपवन: प्राप्तस्सुषुम्नाध्वना॥११॥
नमस्त्रिपञ्चनेत्राय पञ्चवक्त्राय शम्भवे।
चक्रु(श्चाप्पवनाकाश)[^4] ज्योतिरारब्धमूर्तये॥१२॥
त्वं सर्वं सहसे दयामयतनुस्त्वं जीवनं त्वं जगत्- प्राणस्त्वं विबुधान्(बिभर्षि)[^5] सवनैस्त्वय्येव शब्दोदय: त्वं नक्तंदिवभासके च महसी त्वं देवतानां मुखं नैवं चेत्तव मूर्तयश्शिव कथं तिष्ठन्तु लोकास्त्रयः॥२३।।
[^1] M- ॰लक्षणया लीलात्मने ॰लक्षणयाखिलात्मने is the emended reading
[^2]M has ॰रिपौ, रिपो is the emended reading.
[^3]M has gap in the place of बजं, This is the emended reading.
[^4] This is the emended reading, M has चापवदाकेशे
[^5] षिभर्षि is the emended reading, M has विभदी
पादः पातितदुर्विनीतशमनोर:पीठनिष्पीडनो
मौलिर्दुर्ललितोच्चल(त्सुरनदीदुर्गर्व) सर्वंकषः।
कण्ठः कुण्ठित दुर्वि(षश्चि(^2) दनुजोन्माथी) च सोऽयं कर।।१४।।
तत्किं येन कृतं हितं न जगतामङ्गेषु ते शङ्कर॥१४॥
इति स्तुतिं मुकुन्दस्य मन्दमाकर्णयन् हरः।
व्याजहार हरिं हर्षवाचाल मुखपञ्चकः॥१५॥
किं हरे भेद इव तत्त्वतस्तु क्रियते विक(ल) सनमेव? तदास्ता मेतत्। कच्चिदव्याहतस्ते जगद्रक्षणव्यापारः। कच्चिदनुत्ये(त्से) कस्सृजति जलजपीठस्सकलम् जगत् कच्चित्कालेषु वर्षति पर्जन्य:। कच्चिदर्णवास्साप्तापि मर्यादां नातिवर्तन्ते। कञ्चिद्भ्रमति ज्योतिषां चक्रम्। कच्चिच्च स्वस्ति गोब्राह्मणेभ्य:। कच्चिदपि सुखं जीवलोकस्य।
[^1] This is the emended reading., M- चलत्युरनदीदुर्गस्य
[^2] This is the emended reading., M- दुर्वि...दन्माथ
किं कालकूट इव काचन भीमवृत्तिः
किं वाभ्रसिन्धुरिव काचन दुर्विनीना।
शंस स्थितोऽ(स्म्य)[^1] वहितो जगतां हिताय
यच्चान्यदस्ति तपसस्तव मूल[^*]भूतम्[^2]॥१६॥
इति वदति भगवति भगनेत्रहृति[^3] दामोदर: सामोदः पुनरवाढीत्। सर्वज्ञ न परबोध्या जगतां वृत्तिः। जगन्मयस्त्वमसि। भवदुक्ति प्रत्युक्ति स्पृहया तदपि ब्रवीमि पुनरुक्तम्।
चतुराननमान भेदन- क्षणदुर्दान्तकृतान्त मर्दन। स्मर[^4](शासन)[^5]शासनं तवा[^6]- प्यतिलङ्घेत कथं जिजीविषुः॥१७॥ कथं पुनरस्वस्ति जगतस्सकललोकशङ्करे शङ्करे जगत्स्वा[^7]मिनि इति क्रमेण प्रकृतमपि कार्यं विवक्षति
[^1] M- स्थितोऽस्यव्यवहितो
[^2]M- मूलभृतः
[^3]A- भगनेत्रभृदि
[^4]A- स्वर॰
[^5] This is the suggested reading. All mss. Omit this word.
[^6]M- च व्याप्यातिलङ्घेत
[^7]M- जगत्स्वामि.....र्मेण प्रकृतमपि
[^*]‘A’ resumes here onwards.
तार्क्ष्यध्वजे निजनिजचापलातिशयचोदिता शतमख[^1]मुख- बहिर्मुखा जय जय जलन्धरान्धकादिदनुजमहान्धकार- निवर्तन संवर्तविकर्तनाकारघोररूपकृतान्तमर्दनोद्दण्ड- खण्डितदुर्दान्तविधिपञ्चमवदन मदना[^3]ब्धिशोषणबाडव- ज्वाल खेलकबलीकृतक्ष्वेल क्षोभितदक्षाध्वर रक्ष रक्ष विरूपाक्ष कमलाक्षमुखत्रिपुरदानवभयादित्युद्वाहवस्ते चुक्रुशु:।
हुंकृत्य त्रिदशगणान् मद[^4]प्रकोपा-
दुच्चै(रादृत)[^5] वलमान(वेत्र)[^6] दण्ड:।
श्रीनन्दी हृदयमुमापत्तेरजानन्[^7]
भीमन्दीकृतरभसस्तमालुलोके॥१७॥
[^1] A has ॰मुख॰ for ॰मख॰
[^2]M omits मुख
[^3] A omits मदन
[^4]M- विनदप्रकोपात्, A- विप्रद-कोपात्
[^5]M- अनुद्धृत
[^6]This is the emended reading. All mss. have gap.
[^7]M- अजन्य
देवोऽपि देवकुलचापलतः पिनाकी (साचिस्मित)[^1]च्छुरणसुन्दरवक्त्रवृन्दः। भ्रूसंज्ञयैव विनिवार्य स नन्दिकेशं पप्रच्छ केशवमनक्षरमक्षिपातै:॥१९॥ अनन्तरमरविन्दलोचन:[^2] सानन्दमिदम[^3]वादीत्। अस्ति देवस्य चित्ते कुमारस्य बालविलसितं[^4] तारकासुर- (निषूदनम्)[^5]। तस्य[^*] खलु महासुरस्य पुत्रास्त्रय:। पुरा शिशव इत्युपेक्षिताः। कमलाक्षप्रभृतयस्त्रीणि पुराण्य- धिवसन्तः त्रीणि जगन्ति निर्दहन्ति। तेषां च चेष्टितानि निर्मर्यादानि। अनुचितः[^6] प्रभु(सन्निधा)[^7] वसत्प्रसङ्ग इत्युपा- रम्यते। अस्ति च मयि स्थापितो[^8] भवद्भिर्जगद्रक्षणाधिकार:।
[^1] A, M- सा......सिनच्छिछुरण
[^2]M omits ॰लोचनः
[^3]M omits इदं
[^4]M- ॰हसितं
[^5]A- निष्ठ.....षर:, M- निष्ठ....दनः
[^6]M- अनुमतः
[^7]A- सन्ति यावसत् विप्रसङ्ग, M- सन्ति यावसत् प्रसङ्ग
[^8]A- स्थापिते
[^*] "T" resumes here on words.
मया च हिरण्यहिरण्याक्षप्रभृतिभ्यो रक्षितं जगदियन्तं कालम्। अपि त्वद्य[^1] पुनरशक्तया विज्ञापित इति[^2] सविनय[^3]मनुच्चमुक्तवानस्मि। यथाशक्ति च मोहितास्त्रिपुर- दानवाः। यत्सृजति पद्मजन्मा तव मूर्ति[^4]भिरेव पच्चभिर्भूतै: जगदखिलं त्वद्रूपम् तत्[^5] संहर रक्ष[^6] वा स्वैरम[^7]। इति सवि- नयमनुच्चम(नी)चमग्रस्तमनिरस्तमनाम्रेडितमनम्बूकृत- मगूढार्थमपि गरुडासनेन सभयमीरितां विज्ञप्तिमाकर्ण- यन् भवार्णवकर्णधारश्शिवः किमुत्तरमाज्ञापयिष्यति सर्वज्ञ इति चिन्त[^10]यत्सु निश्शब्देषु निष्कम्पेषु निसर्गतो
[^1] A omits तु
[^2]T omits from इति to उक्तवान्
[^3]A- सविनय अनुयमनि च वानस्मि
[^4]A- has gap between तव and मूर्तिभिरेव
[^5]A omits तत्सं
[^6]A omits क्ष
[^7]M- मेस्वर: for स्वैरम्
[^8]M- अनुचमन्तिचमग्रस्त॰
[^9]M- आज्ञापयिष्यसि स....इति
[^10]M- चिन्तयति निश्शब्देष्ट निष्कर्मपेषु, A- चिन्तयत्युश्शब्देष्व निष्कम्पेषु
निर्निमेषेषु सोद्ग्रीवमीक्षमाणेषु गीर्वाणेषु सानन्दमन्द- स्मितं किमियदेव निर्दहामि त्रीणि[^1] पुराणि। परिश्रान्तोऽसि गोविन्द विश्रम्यतां[^2] मयापि विश्रम्यते क्षणमित्यभिधाय तत्क्षणमेव शिल्पि(लप) कर्मविचक्षणविश्वकर्मनिर्मितं[^3] अन्तर्म[^3]णिचित्रितं नर्मगृहं प्रविवेश।
अनन्तरं नन्दिकेश: स्वयमप्यन्तः प्रविशन् दुन्दुभी(भि)- ताडनपुष्पवृष्टिपूर्वकं किमितः[^4] कर्तव्यमस्माभिरुपदिशेति पीड्यमानः सम्पादयत रे निलिम्पाः शम्भो रथादि- संभारानित्युप[^5](दि)श्य त्वरितमन्तर्जगाम।
निष्क्रान्ते जगतः[^6] प्रभौ स्वयमुमाकान्ते मुकुन्दस्तदा
सानन्दप्रभवं क्रमेण विगल[^7]त्सङ्कोचधीराकृतिः।
सुत्राम्णः[^8] पतगेश्वरस्य च करावालम्ब्य लम्बाम्बरः
स्वेच्छा[^9]लापनिरङ्कुश: परिवृतो जज्ञे सुरैरुत्सुकै:॥२०॥
[^1] M- त्रिपुराणि
[^2]M omits विश्रम्यतां मयापि
[^3]M- निर्मितं अभर्मणि, T- विनिर्मित अभर्ममणि
[^4]A- कमित:
[^5]A,M, T- उपविश्य
[^6]A- जगतं
[^7]A – विगलव्यकोङ्कोचराकृतिः, M- विगलन्यङ्कोचराकृतिः
[^8]A- सुत्रा, M- सुत्रा(मा)
[^9]T.C- स्वेच्छालाभ
संमयर्देऽद्य कपर्दिवाहनवृषव्या[^1]मर्दितोऽहं क्षणं
नन्दी[^2]मन्दमताडय[^3]च्छिवसदस्यद्य प्रकोपोऽपि माम्।
दृष्टोऽहं क्षणमीश्वरेण दयया स्पृष्टस्त्वहं भृङ्गिणे-
त्यन्योन्याहित[^4]संकथं मुमुदिरे[^5] शश्वदिशामीश्वराः॥२१॥
इति भरद्वाजकुलजलधिकौस्तुभ-श्रीमद[^6]द्वैतविद्याचार्य श्रीकण्ठमतनिर्वाहधूर्वह-चतुरधिकशत प्रबन्धनिर्मित्यलंकर्मीण श्रीमद[^7]प्पय्यदीक्षितसोदर्य-श्रीमदाच्चान्दीक्षितपौत्रण नारायणदीक्षितात्मजेन श्री[^8]भूमिदेवीगर्भसंभवेन श्रीमदतिरात्रयाजिना विरचिते त्रिपुरविजयनाम्नि चम्पू[^9]- काव्ये शिवप्रसादो नाम तृतीय आश्वासः समाप्तः[^10]।
[^1] A - ॰व्यामर्दितो भंक्षणं, M- ॰व्यामदतितो भंक्षणं
[^2]M- न मन्दमतां यच्छिवसदस्य प्रकोपेऽपि माम्
[^3]A omits ड
[^4]A omits त
[^5]A,M- मुमुपदिरे
[^6] T omits श्रीमदद्वैतविद्याचार्य
[^7]A - श्रीमदप्पय॰
[^8]A,M omit श्री भूनिदेवी गर्भसंभवेन
[^9]A- चम्बुकाव्ये
[^10]A omits समाप्तः
चतुर्थ आश्वासः
क्रुद्धेषु त्रिपुरेष्वकाण्डमिलनादारब्धघोरक्रमे- ष्वास्फाल्याशु धनुर्निषङ्गनिहिते पाणौ पुरद्रोहिणा। भ्रश्यन्नाभिसरोजमाकुलवलल्लक्ष्मीकमर्धोच्चल- न्मध्यासञ्जितकौस्तुभं मधुरिपुर्बाणीभवन् पातु वः॥१॥ अयं[^1] चतुर्थ आश्वासः आश्चर्ये[^2]णैव[^3] पूर्यते। भविष्यन् पञ्चमस्त्वन्ते रौद्रभीमभयानकैः॥२॥ अथ भगवानरविन्दलोचनः सहस्रलोचनमुख- बर्हिर्मुखा(न)वधृतनन्दिकेश निदेश: क्षणमित्र विचार्य दिविषदाचार्यस्पृहणीयमतिरिति जगाद[^4]।
प्रतिज्ञातं हि पुरा शरोऽहमेव भवामीति। तदनुरोधेन[^5] च विचार्यमाणे फणाधरेश्वर शायिनो[^6] मम फणाधरेणैव गुणेन भवितव्यम्। भवितव्यं च तादृशमुणबन्धसमाकर्षण-
[^1] T. अञ्चतुर्थ
[^2]A.M- आर्येणैव
[^3]M- adds च
[^4]M- जगाम
[^5]A omits न
[^6]A- शासन नो, M omits शायि
अन्य भगवानरविन्दलोचन: सबहुमानमन्दस्मित- विषयीकृतं तमुवाच। साधु भोस्साधु इङ्गितज्ञोऽसि। किं बहुना। नातिवक्तव्योऽसि। जानास्येव प्रस्तुतं देवकार्यम्। तदुचितमेव देवदेवस्य भगवतः श्रीमतो नीलकण्ठस्य रथादि मम मनोरथानुगुणं सम्पादनीयम्।
इत्याकर्ण्य स दैत्यारे र्गिरं प्रत्याह साञ्जलि:।
चित्तमाराधयाम्यद्य क्षणेन भवतामिति॥४॥
अपक्रम्य[^1] शुचिर्भूत्वा समासीनस्सुखासने।
ध्यायति स्म क्षणं तत्तदेवमेवं भवत्विति॥५॥
तदानीन्तनानि च कर्माणि लोकविस्मयकराण्येव। तथा हि--
पर्यन्तच्युतपर्वताहतिदलब्रह्माण्ड[^2]भाण्डध्वनि-
भ्रान्तस्वान्तदिगन्तसिन्धुरमहाफीट्कारघोरस्थिति:।
अश्रान्तं परितोऽपि वारिधिपयः पुरैवाद्रीकृता
सद्यस्स्यन्दनरूपमाप मृदुतां प्राप्य स्वयं मेदिनी॥६॥
[^1] M- उपक्रम्य
[^2]M - ब्रह्माण्डकनि(भाण्डोदरे)
किमनेन काकदन्त विचारेण। यथा तथा वास्तु। इदमिह पौराणिकदुर्विलसितं, कथं निरवयवा एव काला नेमयो भवन्तु। कथं वा तादृशमन्तरिक्षमक्षदण्डोऽस्तु। अन्यच्च न श्रुतमितः पूर्वं[^1] द्वाभ्यामेव चक्राभ्यां महानपि रथश्चलतीति। एतादृशानि बहूनि सन्ति। किं तदनुक्रमणेन। इदमिदानीमौचित्यादेवमुन्नीयते।
चक्राकारतयास्ति मध्यसुषिरो यश्चक्रवालाचलो
यद्वा दैत्यभिदस्त्रिविक्रमतनो: पाणौ रथाङ्गं महत्।
तद् द्वन्दुं तुहिना[^3]करे गिरिवरे बद्धवा महापस्करे
मन्ये भूमिरथं सुखेन[^4] चकृषुश्चक्रैश्चतुर्भिर्हया:॥१०॥
उपरि च क्रमोन्नताः सर्वतः पर्वता एवं रथस्तम्भाः परिणताः। आच्छादनं च तदुपरि नालिकेरदलैरिव[^5] सजलै[^6]-
[^1] A- पूर्वभाभ्यामेव, M-पूर्वाभ्यामेव
[^2]M- °सुबरो
[^3]A- तुहिनाकारे
[^4]A- सुरै
[^5]T- एवं
[^6]T omits सजलैः
रेव श्यामलैः जल[^1]दैरुत्प्रेक्ष्यन्ते। तेषां च बन्धनं तटि- ल्लाताभिरेव सुकरम्।
स हि भूरादिभिर्लोकैर्बहुभूमो महीरथः।
भूषितः कल्पवृक्षादिकल्पितैरम्बरादिभिः॥११॥
ततश्चैतानि तान्यासन्।
कैलासो रथमध्यमग्रघटितं चक्रं तु तद्वेधसः .
पीठाम्भोरुह मुन्नतोन्नतमहानालं विशालं दिवि।
नक्षत्राणि सुमानि मौक्तिकसरास्तारा ग्रहा दर्पणाः
क्षुद्रच्छत्रगणा इमे परिधयस्ते केतवः केतवः॥१२॥
नवकनकचित्रिता[^2]रुणखण्डांशुकपट्टिकासदृशाः।
स्यन्दनमभितो बद्धा रोहितलतिका व्यराजन्त॥१३।।
[^1] M- जरूत्प्रेक्ष्यन्ते, A: जदैरुत्प्रेक्ष्यन्ते
[^2]M, T - ॰चित्रितारुणा
भग्ने चक्रे नियोक्तुं रथचरणतया धारितं[^1] तस्य पश्चा- ज्ज्योतिश्चक्रं निबद्धं पृभुभिरजमुखै राशिभिर्नेमिभागैः। रक्षायै चाक्षदण्डः समजनि स परः पुष्करद्वीपमध्य- स्थास्नुर्ब्रह्मांण्डलेखी तदवहदनिशं पुष्करः पादपो यः॥१४॥ स्वरभेदभवत्पदक्रमाः प्रणवावर्तशतोपलक्षिताः। अभवल्लाँलिताङ्गमण्डना निगमा एव तुरङ्गमास्तदा॥१५॥ विधिरथ सारथीभूय व्याकरणैरेव कशा[^3]भिरभू(भित:) सञ्चारयन्निगमान्निबबन्ध वसुन्धरास्यन्दने।
एवं क्षणमात्र[^4]मन्यथान्यथा परिणमति जगन्मात्रे क्षणमपि इदमीदृशमिति कुत्रापि वस्तुनि विश्वासगमा- लौकिकी[^5] प्रवृत्तित्यद्भुतासीत्।
[^1] M दारुभं, T- दारुतं
[^2]A-नेमभागै:, M-नेनिभङ्गै:
[^3]A, M- कशाभूरभूतः
[^4] क्षणमात्रान्यथान्यथा
[^5]A- लौकिकां, T- लौकिकानां
तथाहि-- गन्धर्वेषु सुधाशनेषु दनुजेष्वन्येषु वा संभ्रमा- देको न क्षणमीक्ष्यते यदि तदा तत्पुत्रमित्रादयः। अद्यायं विहितो रथावयव इत्यालोच्य शोच्यानना देहि त्वष्टरमुं प्रसीद भगवन्नित्यू[^1]चुरत्याकुलम्॥१६॥ अपि च तदा तदाकस्मिकमन्यथाभवनं प्रत्येकमपि प्रति[^2]क्षणमाशङ्कमाना दैवादेतावतः कालस्यापि न[^4] विकृ तानीति(अ) खिलान्याङ्गानि पुनः पुनरवेक्षमाणाः प्रति- भयास्तमितकर्तव्यबुद्धयः केऽपि पलायन्ते स्म दिगन्तेषु। अन्ये पुनः ज्ञास्यति चेदयमन्यथयिष्यतीति विचार्य विश्वकर्मदृष्टिपथ परित्यागेन तत्पश्चाद्भागे निश्शब्द- मवनता[^5] निलीयन्ते स्म। इतरे च नाय[^*]मुपयुक्तानन्यथा करिष्यतीति धिया रथमलङ्कुर्वन्त इव तत्समीपमागत्य
[^1] M- इडूचुः
[^2]M- प्रतीक्षण
[^3]A- दैवादेव तावत:
[^4]A,M omit न
[^5]A,M omit अव
[^*]T- नायम् to कपटशीला:(in p.58) lost in leaf damage
सङ्घीभवन्तः क्षणं क्षणं युगमिव क्षिपन्ति स्म। कतिपये[^+] तु कपटशीला:[^*] कार्या[^+]क्षमांस्त्यक्ष्यतीति दौर्बल्यमभि नयन्तः प्रतिक्षण[^1]नाटितमूर्च्छाप्रवृत्तयस्तद्ग्रत(एव[^2] स्थिताः)[^3]।
किं बहुना पाक[^f]शासनप्रभृतयोऽपि हरित्पतयः शिव- रथादिपरिकरीभवनयोग्यता पर्वतादिषु महत्स्वेवेति निश्चिन्वन्तोऽपि रथाङ्गपाणिबाणीभावमनुस्मृत्य कथमस्मासु पर्यवस्थतीति रणरणकतः परस्परस्य मुखान्यवलुलोकिरे।
इत्थं त्रैलोक्यरूपे परिणमति रथे[^f] मानवा दानवास्ते
देवाश्चावासलोपादुपरिधृतमहाभारसंभुग्नकण्ठाः।
सार्धं[^5](दारैः) कुमारै: पशुभिरपि पदं क्वाप्यनासादयन्त-
स्त्वष्ढा दृष्टाश्च पश्चात् प्रतिकृतिसदृशाः स्यन्दनस्थाननन्दुः[^6]॥१७॥
[^1] A– प्रत्, M omits प्र
[^2]A,M,T- एत
[^3]A- सिताः, M,T- स्मिता:
[^4]A- अपरिधृता
[^5]A- सार्द्धा-रै:
[^6]A- नानन्दु:
[^+]A- कतिपये to कार्या lost due to tereakage in the leaf
[^f]T- पाकशासन to परिणमति lose in least damage.
आक्षिपसि सर्वजगतां रथरूपतया क्वतेस्थिता लोके। त्वष्टाःदृष्टा: पश्चादिति यदि पौराणिकान् पृच्छ॥२८॥ अथ निखिलजगदाधारः सुमेरुरपि स्मरहरस्य शरासनीभवितुमुचितमाकारमाकलयन्न[^1]तिजिह्मनिपतित- ब्रह्मसदनमुपकण्ठगलित[^2]वैकुण्ठभवनमनायासकम्पित- शिवा[^*]वासभुवनम् उद्धूयमानवरुणपुरं स्मयमानपवमान- नगर(भ्रा)[^3]न्तदेवासुरमुत्प(न्न)[^4]भययक्षराक्षसमुत्कम्पित[^*] हृदयकिंपुरुषमुत्सन्नधृति[^5]पन्नगमाकुलभ्रमदप्सरःकुल- मात[^6]लोद्वान्तसरोजलमजस्स्रस्तुत[^7]निराधारनिर्झरधार- मतवलम्बमृगकदम्बमन्तरिक्षचलितपक्षिपतनभीत- शबरयूथदृढावलम्बिततिरचीनवनराजि च[^8] मध्यभाग- लग्ना[^9] मेदिनी क्व गतेति पश्यन्निव मत्तोऽपि महीरथोऽयं-
[^1] A- नयति for अति
[^2]A omits गलित
[^3]T has gap in the place of भ्रा
[^4]T- उत्पत॰
[^5]A, M- प्रति for धृति
[^6]M- आगलोद्वान्त॰
[^7]T- ॰स्तुत॰
[^8]M,T omit च
[^9]A- लता for लग्ना
[^*]A, M- omit from शिवावास to उत्कम्पित
मुन्नत इति लज्जमान इव बहो: कालादखिल भुवना- धारतया भारभङ्गुर इव हठाच्छिरोऽपि नमयामास। तदानीं च तस्य मेरो:-- जातस्पन्दनधूतबन्धनगलद्भोगान्तरालद्रुत- भ्रश्यत्सिन्धुरकृत्तिमन्धकरिपुं ह्रीनम्रितोमामुखम्[^1]। कुर्व[^2]न् द्राक्श्वसनं क्षणं मृड[^3]कटीसूत्रं विचित्रं दधे मौर्वीभावमखर्वविग्रहतया दर्वीकराधीश्वरः॥१९॥
तदनु[^4] तदनुगुणमेव--
स्पष्टीभूतभुजङ्गलोकमभितो व्याकीर्णरत्नो[^*]त्करं
व्यावलगज्जलजं तु शान्तबडवावक्त्रानलाडम्बरम्।
कल्लोलैःस्थलतः[^5] क्षणात्स्वयमुपर्युत्पलुत्य दुग्धार्णवः
प्रायेणायतबुद्बुदाकृतिधरस्तूणीर भावं गतः॥२०॥
[^1] M omits मा
[^2]A- कुर्वन्द्रश्वसनं, T- कुर्वन्ति श्वसनं
[^3]M- स भ्रुकुटीसूत्रं
[^4]T adds अथ
[5]M- स्खलतः
[^*] The order of the passage is faulty from here
upto the end of this Āśvāsa in A and M.
ततश्च-- उत्पाद्य नाभि[^1]कमलं[^2] कमलामव[^3]रोप्य कौस्तुभं त्यक्त्वा। उपदिश्य[^4] च कर्तव्यान्युपरि सुरेभ्यःशरो[^*]ऽभवच्छौरि:॥२१॥
लक्ष्मीस्तदात्वविरहा[^5]नलतापिताङ्गी
शैत्योपचारकरणाय (तदेति)[^6]मन्ये।
अम्भोजमह्नि निलयं कलयांबभूव
नक्तं च चन्द्रमसमावसथं[^7] वितेने॥२२॥
विद्युद्वल्लिभिरायताभिरभितः पाशैरिवासन्दिताः
सान्द्रेन्द्रायुधधोरणीमणि[^8]मयालङ्कारसङ्घाङ्किता:।
स्पारस्फूर्जथुघोरदण्डघटनप्रोद्गीर्णकर्णज्वरा
वायुस्कन्ध[^10]धृता वलाहकमहाभेर्य: प्रणेदुस्तदा॥२३॥
[^1] M omits नाभि
[^2]T- ॰कमल॰
[^3]T- परोप्य
[^4]A- उपदिश्यत
[^5]A - ॰विरहातल॰
[^6] All mss have तदादि, This is the em. reading.
[^7]A- आवसतं वितेते
[^8]A omits मणि
[^9]M- ॰संवाङ्किता:॰
[^10]A- ॰स्कन्द॰
[^*]T ends with सुरेभ्यः श
ततश्च तमकाल मलित चतुरर्णवीकोलाहलघोरमारव- माकलयन् कलाधरशकलमौलिख[^1]गम्य समस्तमप्युपनत- माहवो[^2]पकरणं समन्द[^*]हासचलितापाङ्गसमालिङ्गितगिरिजा- मुखजलजातसविलासचलितभ्रूलतानुमत: त्रिपुरदानवदारणाय[^*] तत् तत्क्षणमेव सन्ननाह।
आबद्धय चर्मवसनं परिवेष्टय पृष्ठ-
लम्बज्ज[^3]टावलयमर्धशशाङ्कमौलि:।
मुक्त्वा मृगार्भकवराभयदानमुद्राः
सर्वैः करै: परिममर्श महायुधानि॥२४॥
आलम्ब्य नन्दिकरमद्रिसुतां निवर्त्य
हेरम्बमग्निभुवमप्यनुमन्यमान:।
देवर्षिभिर्जयजयेति निवेद्यमानो
भूमीरथं पुरहरः स्वयमारुरोह॥२५॥
[^1] A - अवगत्य
[^2]M. उपकरणाय
[^3]M- ॰छटा॰
[^*]M omits from समन्दहास to दारणाय
तदात्वे च मन्दमिव चरणारविन्दं विन्यस्य जन्यहेतो- रखिलजगत्कुक्षिंभरावारोहति नीललोहिते, परस्पराश्र्ति- ष्यदतलादिसकलपातालभ्रमनिरुच्छ्वासमर्दिततत्तल्लोक- सत्त्वजालमति[^1] भुग्नफणावलयफलायनोपायगवेषणव्यग्र- फणाधरेश्वरम् अतर्कितोपनमदतिभारभङ्गुरपतङ्गशशाङ्क- मयरभाङ्गयुगलप्रवेशपटपटरटज्झटिति विघटितब्रह्माण्ड- भाण्डसरभसमज्जनक्षुभितमहावरणोदकप्रसक्तबुद्बुदा- वर्तसहस्रदुरन्तभ्रान्तसमीपतरविध्यण्डमण्डलम् अव- खण्डितपदक्रमसंजूपतितविसंज्ञनिगमलुरङ्गमुखलीन- खलीनसमाकर्षणप्रवृत्ति[^2]निपात्यमानविगतमानसूत- पदाभिषिक्तकमलभवं हाहाकारमुखरहाहादिगन्धर्व- सिद्धचारणमप्युन्मुखबर्हिर्मुखमभिपतन्त[^3]मवनीरथं शिवशक्तिपुंरुपतया शिवसमानमहिमा माधवस्तत्क्षण मुक्षरूपधरः समुद्दधार। ततश्च तरुणेन्दुमौलिरियाय
[^1] M- इतिभुग्न॰
[^2]A- ॰प्रवृत्त॰
[^3]M- पतन्तद्वनीरथं
(विस्मय)[^1] मन्तरायो गजाननसभाजनाभावकृत इति निभाव्य सभाजनेन तमनु[^2]गृह्णन्तु[^*] उप[^3]सम्भृतपरमगौरव: समुत्थाप्य निगमतुरङ्गमान् आश्वास्य च निःश्वासबहुलं क(म)लभुवम् असुरजयाय धरणीरथं समुत्क्षिप्य पुष्पवच्चक्रे चालयांचक्रे।
ये भूर्भुव:स्वर[^4]भितो निवसन्ति रुद्रा-
स्ते देवदेवमवकर्ण्य रणाय यान्तम्[^5]।
क्रोधोद्धता: प्रतिभयभ्रुकुटीविटङ्का:[^6]
प्रादुर्बभूवुरति दी प्रमहात्रिशूलाः॥२६॥
एकद्वित्रिचतुर्दशाष्टवदनघ्राणाक्षबाहुदराः
सिंहव्याघ्रतरक्षुऋक्षशरभश्येनाश्व[^8]यानाश्रिताः।
क्रोधाग्निज्वलिताननाः परिधनिस्त्रिंश(त्रि)शूलायुधा
गर्जन्तः प्रमथाः शिवस्य पुरतः सङ्ख्यातिगाः सङ्गताः॥२७॥
[^1] This is the em.reading. All miss. read न स्मयम्
[^2]M- अन्वगृह्णन्तु
[^3]M- उपसंहृत॰
[^4]M - भूर्भुवस्सुवः
[^5]M - सान्तः
[^6]M has in brackets कुटिलित भ्रुकुटिं निरीक्षमाणा:।, A has कुटिलित भ्रूनिरीक्ष माणाः।
[^7]A- ॰अक्षि॰
[^8]M - श्येनाश्च
[^*] There seems to be a gap. Construction not clear.
तेषु च केचिदप्रमेयबलोत्साहदर्पिता: सर्पि[^1]राहुत- हुताशकल्पा अनल्पबलगर्वनिर्वर्तितसर्वावयवस्तम्भं निकुम्भमूचिरे।
किं सप्तापि कुलाचलान् पदतलै: सञ्चूर्णयामोऽधुना निश्चूष्यैव समस्तमर्णवगणं किं वा पिबामो वयम्। ब्रह्माण्डं तलघदृनेन शकलीकुर्म: किमद्य क्षणात् कण्डूर्न[^2]श्चिरसंभृता कथमिव क्षेप्या तदुत्प्रेक्ष्यताम्॥२७॥ इति निकुम्भोऽपि दुरुहं सम्भावितानमून् महारम्भा- नवलोकयन् अनुपद[^3]मेव महान्[^*] सङ्ग्रामो भविष्यति। तत्र युष्माभिर्भुजकण्डूरपनेतव्येति गिरा तत्पर्यवस्थापनव्यग्र आसीत।
[^1] M- सर्पी॰
[^2]A- कण्डूतिश्चिर॰
[^3]M- अनुपले
[^*] M omits from महान् to त्वरयाबलै in the following page.
आगत्य त्वरया बलै[^*]रतिबलैरष्टापि दिक्पालका:
दृष्टाः किञ्चिदिवेश्वरेण गुणशस्तुष्टाश्च ते तावता।
शैलादिं[^1] प्रणताः प्रसाद्य तदनुज्ञाता दिशो भेजिरे
सन्नद्धप्रम[^2]थार्भटीभिरभित(स्त्रवस्ता निरस्ता) इव॥२९॥
गन्धर्वविद्याधरकिन्न[^4]राद्या जगुर्ननर्ताम्सरसां समूहः। प्रसादयामासुरमुं मुनीन्द्राः स्तुत्वा स्तवैरागममौलिदृष्टै:॥३०॥ इत्थं युद्धाय बद्धादरमवनिरथारूढमालक्ष्य देवं त्र्यक्षं त्रस्यन्तु रक्षः पत(य)[^5] इति गणाः सङ्घश: शङ्खनादैः। नानातोद्यप्रणादैः कठिनभुजतटोद्धट्टनैरट्टहासै- र्ब्रह्माण्डं तत्प्रचण्डप्रतिरटितदलत्सन्धिबन्धं वितेनु॥३१॥
[^1] A- शैलारि॰
[^2]A- प्रथमा
[^3]A- अभितस्त्र निरत इव, M. अभिस्त निरता...इव
[^4]A omits किन्नरा
[^5]All mss. omit य
संवर्तवत्समुदिते जगतां विकारे
चन्द्रार्कयोश्च वियति[^1] भ्रमणे प्रशान्ते।
हा हेति दैत्यनिवहे च कृतप्रलापे
लोकत्रयीव मिलति स्म पुरत्रयी सा॥
ततश्च
मुमुदिरे सुचिरेण सुरेश्वरा
न भविता हि कथाप्यसतामिति।
बत कथं कथमित्यसुराः पुन-
र्मुमु[^2]हुरेव मुहुर्मु(हु)[^3]राकुलाः॥
इति त्रिपुरविजयनाम्नि चम्पू[^4]काव्ये शङ्करनाराय- णावतरणं नाम चतुर्थ आश्वासः।
[^1] M - विदधति
[^2]M- मुरेव
[^3] All mss. omit हु
[^4]A- चम्बु॰
पञ्चमाश्वासः
ज्वलद्वरणमण्डलद्रुतसुवर्णपापत- द्वलत्सिमसिमायितद्विरदपङ्क्तिवाजि[^1]व्रजः। (र)[^2]टच्चटचटाव: प्रचुरकीलजालोत्कटो दहन् दनुजवाहिनी: शरमयो हरिः पातु वः ॥१२॥ तदनु च दनुजेन्द्रा विद्युन्मालितारकाक्षकमलाक्ष- नामान:[^3] उद्दामभुजधामानश्चारमुखावधृतत्रिमूर्तिसंरम्भाः संभाव[^4](य)न्तः स्वमात्मानं जम्भारिमुखनिलिम्पादिजयेन मिलन्तु विबुधाः शतमपीति[^5] का(ल)[^6]चोदिता निर्मर्याद- बलगर्विताः सर्वतोऽपि बाला इमे स्थविरा एते स्त्रिय इमा इत्यविचारयन्तो दानवजातिमात्रोपलक्षितं निखिल- मपि बलमुद्योजयामासुः।
[^1] M- वाजी॰
[^2] This is the em. reading., All mss, read नटत्॰
[^3]A omits नः
[^4]A- संभावन्तः, M- संभवन्तः, This is the em. reading.
[^5]All ms.s. add अजा न पश्यन्ति
[^6]All mss. omit ल
ततश्च--
ये पाताले ये समुद्र च दैत्या
ये दिक्कोणे ये वने ये च शैले।
यत्र क्वापि ब्रह्मसृष्टा ये ये
सर्वेऽप्येते तत्र सङ्घीभूवुः॥२॥
को वा शैली को हरिः कश्च धाता
किं नः शृण्वन्त्यागतानाहवाय।
द्रक्ष्यामस्तांस्तद्बलं चैव दैत्याः
सन्नद्धास्ते तत्र युद्धाय सर्वे॥३॥
ज्ञातेयेन तदानीमन्योन्येनामराश्च दैत्याश्च ।
सङ्ग्रामाय समीयु: संवर्त इवार्णवा: सप्त॥४॥
तदा[^2] किल सदातनवैरानु[^3]बद्धपताकिनीयुगलदोर्युग- दोधूयमानसमसमयसमुन्मिषितविकटतटिद्घटाचदुलासि- कुलविभिन्नसिन्धुरबन्धुरतरकन्धरान्तरालकरालसिरा- वलयमुखधमधमध्वनिवहद्रुधिरवाहिनीचपलतरङ्गसङ्घट्टन- पतिततटपाद(प)पावमानशरपाटितपतितपताकिकामालिका
[^1] A- कुली
[^2]A- सदा
[^3]M- ॰सन्नद्ध॰
निःशङ्कसङ्ग[^1]न्तकङ्कवलादिबहलाण्डजमण्डलीघोरारावधारा[^2]- पूर्यमाणतिर्यङ्निनदमयनद[^3]त्कृशानुमारुतभानुवरुणद्रुहिणा- दि स्व[^4]प्रत्यर्थिदेवतामयतया परित्यज्यास्त्राणि केवलं[^5] (श)[^6]स्त्राणि गृह्णत्सु शस्त्र[^7]हता देवा युद्धमृता[^8] इति भवन्ति पुनरपि देवा अस्मासु च समरहता भवन्ति देवा एवेति मन्दीकृतप्रचारे- ष्वसुरेषु अमरेषु च विक्रम्य रणरङ्गशायिनो दनुजा देवा भवन्तः किमस्मासु छिद्रं[^9] गवेष[^10]यन्तीति विचिन्त्य मन्द- विक्रमेषु मन्दीभूतं कर्म देवा हि कर्मफलोपभोगमात्र- निरता न युष्मासु विप्रकरिष्यन्तीति असुरा[^11]चार्यगिरा प्रबोधितेषु च तेषु पुनरतिघोरप्रकारपुङ्खानुपुङ्खनिपा- त्यमानशरपञ्जरसंक्षिप्यमाणगगनाङ्कुणं वरवरणसंश्रम- परिक्रान्त सुरकान्ताकरकङ्कणघणघणात्कार मुखरीकृत-
[^1] A- ॰सङ्गीत॰
[^2]M repeats ॰तटपादा(प)पावमान शरपाटित॰
[^3]M- ॰नटकृशानु॰
[^4]M- स्ववृत्यधिदेवता
[^5]A- केवल॰
[^6] This is the em. reading., A,M- शास्त्राणि
[^7]M- शस्त्रं
[^8]M- ॰भृत
[^9]M- चित्रं
[^10]A- गवेषयिष्यन्तीति
[^11]A,M add सुरा॰
[^12]A- ॰घनघनात्कार॰
हरिदन्तरं पर्यायवृत्तस्वपक्षजयवीक्षकस्तवपाठमुखरो- भयचमूगतवन्दिमागधसमूहं शत्रुपक्ष इत्युभयसेना परि- व्यक्तनिरीक्षकलोकमध्यगत निर्ऋतिबलं[^1] पक्षजयोपाय- निरीक्षणाय प्रतिक्षणप्रहित[^2]चारमुखावधृतपरपक्षवृत्तान्त- तत्त[^4](……) तत्काल पतितदेवायितदैतेयबल[^*]बला- कृष्यमाणबन्दीग्रहतत्रस्यदप्सर:कुलकलितविविधकरुणा- क्रन्दमन्तरावृत्त बहु विधरक्षोघ्नमन्त्रसुर[^5]कर्मन्दिवृन्ददूर दूरदृष्टमदृष्ट[^*]परिपाकलब्धमिदमित्य[^6]त्यादरविस्तारित- वीक्षणप्रतिक्षणलम्भितानन्दकलहानन्दिकर्मन्दिनयना- रविन्दरणान्तरदिदृक्षापेक्षणविचक्षणं कथमिदं भवेदिति मिथ:प्रवृत्तकथनभुवनत्रयं त्र्यम्बक[^7]संरम्भकृतकल्याणो- दर्कतर्कणसमासाढिताश्वासताप[^8]सकुलकलित[^9]प्रमोदं
[^1] A- ॰बल॰
[^2]A- ॰प्रतिहित॰
[^3]M add च
[^4]M- ततश्च त्रियुगलं, A तत्तन्मन्त्रियुगलं
[^5] All mss read सुरतममन्दि, This is the em. reading.
[^6]M omits इति
[^7]A- त्रयम्बक॰
[^8] All mss. read ॰तापसङ्कुल॰,This is the em reading.
[^9]A अप्रमोदं
[^*] A omits from बलबलाकृष्यमाण to दृष्टमह
प्रमादनिकृत्ततत्क्षणप्राप्तदिव्यदेहवीरवैशतिशयविहितप्रती- कारप्रतिद्वन्द्विदन्तीन्द्रखण्डकतद्दन्तकुन्ता[^1]हतसद्यस्सुरेन्द्रा- यितभटारूढतत्क्षणमरणधृतैरावणत्वतद्गजेन्द्रं छिन्नपाद- गृहीतकेशद्वेषि छिन्नभुजपादाहताहितं छिन्नशिरःकरा- वमर्दितप्रत्यर्थि सद्यः शिरो[^2निकृत्त भूतल(ल)[^3] सन्नृत्तवैरि- शिरोदत्तवीरभाषाप्रत्युत्तरमत्युद्धतसिंहनादमनुपदोदित- शङ्खनादमुत्तालवेतालकरतालानुरणनरङ्गनटितशिरः- खण्डमण्डितमखण्डपराक्रममक्रमपरिक्रान्तकट[^4]पूतनादि- भूतगणप्रहर्षणमखिलरोमहर्षणम् युद्धमुद्धतमभूत्।
शस्त्राण्याददतेऽमरा बत कथं युद्धाय बद्धादरा
युध्यन्तेऽप्यसुरै: समं धिगसुरान् धिक् धिक् तदीशानपि।
इत्थं निर्दयदष्ट[^5]रज्यदधरः क्रोधेन दैत्येश्वर-
श्चक्रीभूतशरासनः शरचितांश्चक्रे स शक्रादिमान्॥५॥
[^1] A- ॰कृताहत॰
[^2]A- शिर॰
[^3] All mss. omit ल
[^4]M- ॰कूट॰
[^5]M- ॰दृष्ट॰
वर्षन्तौ प्रलयाम्बुदाविव शरांस्तद्र्भारौ[^1] सत्वरौ
निष्पत्रकुरुतां सपत्नपृतनां रोषान्निमेषान्तरात्।
क्रुध्यद्दानवराजदर्शनपरित्रस्ता: समस्ताः सुरा-
स्तस्थु: स्पन्दितुमप्यशक्तवपुषश्चित्रोपविष्टा इव॥६॥
तदानीं च तादृशदानवातिशयमसहमानं सुरमन्त्री मघवानमाहूय सह सुरैर्मन्त्रयांचक्रे। अयशस्थमनार्यं च किमिदं वो वैकुण्यम्? किं न पश्यथ युष्मदर्भाय बद्धकङ्कणमुपस्थितं भगवन्तमेव त्रिलोचनम्। स किल सकलासूपनिषत्सु जोद्युष्यते। तमेव हि विचिन्वन्ति योगिनो योगरताः[^2] तदा[^3]ज्ञयैव हि सहस्रांशुरुदेति ज्व- लत्यग्निर्वाति मौरुत[^4]श्च। किं बहुना स एवं खलु सकल- चराचरस्वामी। तमाराध्य हि युष्माभिः स्वामिनः[^5] स्वानि पदानि लब्धानि। कथं तत्समक्षमेव प्रकटीक्रियते महदिदं वैकुव्यम्। ज्ञातवैकुण्यश्च भवत्स्वामी[^5] नेमे
[^1] A- तद्र्भान्तौ
[^2]A योगतरता:, M. योगतारताः
[^3]M- तमाजयैव
[^4]A- मारुताश्च
[^5]A- स्वामिनि
[^6]M- स्वामि
पदार्हा इति युष्मत्पदानि[^1] प्रदास्यति पदार्हेभ्यः। भव- त्पराक्रमदिहक्षयैव विरूपाक्षः क्षणमात्रमुदास्ते इति लक्ष्यामि। युष्मत्पराजयकाले च स कालकाल: खेल- यैव नाशयिष्यति त्रिपुरदानवान्। तदुत्स[^2]हध्वं प्रदर्शयत च यथाशक्ति पराक्रमं च इति।
इत्थं शनैस्तेन विबोध्यमानाः
पुरन्दराया हरितामधीशाः।
पराक्रम कर्तुमनुक्रमेण
प्रतस्थिरे कार्मुकबाहवस्ते॥ ७ ॥
ततस्स्थित्वा पुरा[^3]हन्तुः पुरस्तात त्रिदशेश्वरा:।
ववर्षु:शरजालानि निर्भया[^4]स्त्रिपुरेश्वरे॥७॥
दिक्पतिमुक्तान् विशिखान् साहाय्यकृते समीरणस्त्वस्तिः।
वेगाच्चकर्ष लक्षे विमुखीचक्रे च दैत्येषून॥९॥
[^1] A omits पदानि
[^2]M- उत्साहध्वंसं
[^3]A- पुराहन्तुं
[^4]M- निर्भयः
सदा विहितदेवसौहित्यौ ना[^1]सत्यौ च दिव्यौषधीभिः सशल्यानमरान् विशल्यानाकार्ष्टाम्। कृतान्तोऽपि तदात्वपतितानां तृषि[^2]तानां नासूनहार्षीत् वज्रेण शक्त्या दण्डेन पाश [^3]शूलगदादिभिरमोघै: पतिता भूमौ दनुजा मनुजा इव। एवमादिदेवपराक्रमोपक्रम एव विग्रहवन्त इव क्रोधा: पूर्वदेवेश्वरास्त्रयोऽपि क्रमेण सह तैः समर- मसहमाना मानापहरणाय द्विषतामाविश्चक्रुरासुरीं महा- मायाम्। ततश्च--
भो देवा वासवाद्या विरमत विषमात् सङ्गरात् किङ्कराःस्मो
दैत्येन्द्राणां प्रणामं रचयत सहिता जीवितं रक्षतेति।
शंसन्तः प्रादुरासन् द्रुहिणहरिहरालक्षिताःस्वस्वचिह्नै-
रह्नाय स्तम्भयन्ति स्म च विबुधगणानायुधानुत्क्षिपन्तः॥१०॥
तत्रान्तरेऽसुरेन्द्राश्छिद्रं क्षुद्रा निचख्नुरालम्ब्य।
बाणान् रथाक्षमात्रान् सुपर्वणस्ते सुपर्वणामङ्गे ॥११॥
[^1] A - नात्यसत्यौ
[^2]M- कृषितानां
[^3]M omits शूल
तदानीं च विबुधा विषादविस्मयभयलज्जा- मन्थरा:[^1] सर्वे दीन[^2]दीनै: नयनैस्त्रिणयनमालोकय्रांचक्रुः। ततश्चा--
तूणीभवन्तमुरुबुद्बुदतामुपेत्य
मध्यस्थमाधवशरं कलशा[^3]ब्धिमेव।
आबध्य पृष्ठफलके वृषकेतनश्च
चापं जयाथ कनकाचलमाललम्बे॥१२।।
किं च आरोप्याटनिमाश्वहीश्वरमयीं[^4] मौर्वीमखर्वीभवद्- दोर्वीर्यो दनुजान्तकेषु मिषुधेरुत्क्षिप्यनिक्षिप्य च। जैत्रं मेरुशरासनं विनमयन्नुद्भ्रान्तलोकत्रयं क्रीडंस्तां विचकर्ष(चारु)[^5] ह(सि)त[^6]श्चन्द्रार्धचूडामणिः॥१३॥ अथ तापसेषु केषुचित्—
जय जय जगदीश सायं समारब्धनृत्तो[^7]पनृत्यत्कप- र्दावमर्दस्खलत्ता(रक्रौघ)[^8]व्यग्रहस्तग्रहप्रेत[^9] भूत-
[^1] A- मन्धराः
[^2]M- दिनादिने:
[^3]M omits शाब्धि
[^4]M- ॰मयं
[^5]All mss. have a gap.
[^6]This is the em.reading.,A,M- हरितः
[^7]M- मत्त॰
[^8]This is the em. reading. A,
[^9]M- ॰गृहभूत प्रेत॰
व्रजत्यक्तसव्याजगुप्तत्रिलोकप्रभो (गरगल) जितकाल फालानलज्वालमालावलीढईमारोहेल हेलापरिग्रस्त व्रजत्यक्तसव्याजगुप्तत्रिलोकप्रभो(गरगल)[^1] जितकाल फालानलज्वालमालावलीढ(स्म)[^2]रोद्वेलहेलापरिग्रस्त- हालाहल त्र्यक्ष शूलायुध स्थूलकोलग्रहा[^3]लम्भ- लुब्धाकृते लोकरक्षाकृते देव तुभ्यं नमः।
जय जय स(जलन्धरा)[^4]त्यन्तदुर्दान्तमन्दाकिनी स्तब्धवे धोनृसिंहादि(ग)[^5]र्वातिनिर्वापणारवर्वदोर्वीर्य दर्वीकराधीशमौर्वीक सर्वेश रक्षाधुना तारकाक्षादि- मान् मकुटधृतशशाङ्क् वामाङ्गजाने भवानेव जाने जगज्जन्म[^6]हेतुं भवन्तं विनेदं न भाति त्वयीदं समस्तं समस्तेऽपि च त्वं ततः सर्वरूपाय तुभ्यं नमः॥१३॥
इति जगदीशदण्डकपाठमण्डितवदनेषु केषु चिच्च ब्रह्मर्षिसर्वज्ञेष्वप्यदृष्टचरोऽयमस्त्रप्रयोग इति शिरस्यञ्ज-
[^1] A,M-मेघजालप्रभोपमगल गरगल is the em. reading.
[^2]A,M- सरोद्वेल, This is the em. reading.
[^3]M- ग्रहारब्धलुब्धाक्रान्त
[^4]A,M- सच लब्धवरात्यन्त
[^5]A,M- दुर्वाति
[^6]A,M- जगज्जन्मादि
लिमाधाय नमो ब्रह्मणे नमः सहस्रपादाय सहस्रशिरोऽक्षिबाहवे। नमः साम्बाय सवृषाय सगणाय ससूनवे नमः सदाशिवाय नमः शिवाय शिवतराय च नमो[^1] नमः स्वस्ति देवेभ्योऽस्तु। स्वस्ति मनुष्येभ्यः स्वस्ति पितृभ्यः स्वस्ति चराचरेभ्यः स्वस्ति गोब्राह्मणेभ्योऽस्त्विति मुहुर्मुहुराशंसमानेषु पाक- शासनमुखेषु बहिर्मुखेषु विस्मयास्तमित कर्तव्यतया विस्मृत्य समरमेव केवलं प्रेक्षकतामापन्नेषु दैत्येषु च केषुचित् धराधरो नाम शरासनं धरा नाम रथः फणी नाम शिञ्जिनी परा भञ्जनीयभुजबलास्मत्पराभूतिभियां स्वरूपमाच्छादयन् गोपालबाल एव शिलीमुखःकानन- वराहकिरात एव च प्रतियोद्धास्माकमिति सावज्ञसहस्त- तालपरिहासोक्तिमुखरेषु अपरेषु च दनुजवरेषु दुर्जय एष निर्जरलोकनेला कालकूटसाहसिक इति ससंभ्रमं परिक्रम्य सर्वेरुपायैरपि बलैः सर्वया च शक्त्या सर्वाण्यपि महायुधानि सर्वतोऽपि तस्मिन्[^2] महाधन्विनि तस्मिन्
[^1] M- नमऋषिभ्यो देवेभ्योऽस्तु
[^2]A omits तस्मिन् महाधन्विनि
महाशरे तस्मिंश्च महाधनुषि निपात[^1]यत्सु कोऽयमागत: परिपाकोऽस्मद्दुष्कृतानामुपनतः प्रलय एवायमसुर जाते: कष्टमिदं वलगति बृहस्पतिरिति साश्रुणि कलिता[^२]श्चर्ये(ऽसुराचार्यों) सिद्धं नः सभीहितं सिद्धं[^3] फलं मन्त्राणां सिद्धं च त्रैलोक्य- राज्यमखण्डितमाखण्डलस्य किं बहुना परिणतमद्य सुकृतं सुपर्वणामिति सगर्वनिरीक्षितपूर्वदेवगुरौ सुरगुरौ वरप्रदान- महिमा[^4]यमस्माकमियानपि गिरिशसंरम्भ इति संभावयति स्वयंभुवि संभ्रमेण महता तत्तद्विध्यण्डपालप्रहित विविध- शिवोपहारमध्यगतमोदकखण्डकबलनपिचण्डिले शुण्डा- लमुखे षण्मुखे च [^5]पञ्चमुखस्य शम्भोर्दूरानमद्गिरीन्द्र- कोदण्डमण्डलीकरणरमारमणमहाशर[^6]सङ्ग्रहणप्रयोगोप- संहारप्रकारजिज्ञासया प्रतिक्षण[^7]निरीक्षणविचक्षणे[^8] तत्क्ष[^9]- णोपनमदाकस्मिकदनुजप्रलयसूचकेषु च केषुचिन्नि- [^1]M- न्ययातयन् सु(राः) [^2]M- आश्चर्यो [^3]A- सिद्धफलं [^4]M- महिम: [^5]M omit च [^6]M omits र [^7]M- प्रतीक्षण॰ [^8]M- विचक्षणो [^9]M- तत्क्षणापनोदनमहाकस्मिक॰
रम्भोद्दम्भोलिपतनमुखेषु महोत्पातेषु जाय[^1]मानेषु फीट्- कृत्य पलायितेषु च दिशागजेषु नृत्यत्सु चाप्सर:कुलेषु भयकम्पितकुचकुम्भतटेषु ताललपातिलङ्घिषु गन्धर्वेषु साध्वसार्थविरतगीतिषु सम्मोहितेषु चराचरेषु संभ्रान्तेषु दिगन्तेषु चलाचलेषु पटपटात्कारमुखरेषु पर्वतशिखरेषु (विजृम्भि)[^2]तेषु महार्णवेषु समुत्पत्य निपतति ब्रह्माण्डमण्डले (सां)[^3]शयिके च सर्वस्मिन्[^4] सुराप(अ)[^5]दमश(^6)का(शुविनाशा)य सरोज- नाशकृत: संरम्भ इति कन्दलितमन्दस्मित: चन्द्रमौलिः दा(न)[^8]वान्तकरणाय दानवान्तकमेव बहुविधमनोरथाव- कल्पितप्रकारभेददहनैकसज्जं विशिश्वमुत्ससर्ज।
[^1] M- ज्ञायमानेषु
[^2] This is the em. reading.A and M have gap here.
[^3] This is the em. Reading., A and M have स्वांशयिके
[^4]M has gap between सर्वस्मिन् and सुरा॰
[^5] This is the em. reading. A and M have अपशद॰
[^6]A omits ॰मशका॰
[^7] This is the em. reading, A and M have gap here.
[^8]A and M omit न
ततश्च मुक्तो निर्मुक्तभोगिप्रतिमतनुरनुस्यूतपक्षीन्द्रपक्षो- त्क्षेपप्रध्मातवातद्रुतगतिरुदयद्भाङ्कृतिः शार्ङ्गिबाणः। प्रक्रीडत्कीलजाला[^1]नलफलगिलिताशेषदैतेयहेति: संवर्तोद्वृत्तवैकर्तनकिरणघन[^2]स्त्र्य[^3]क्षलक्षे पपात॥२४॥
जीर्णारण्यमिव प्रविश्य दनुजानीकं पुरारे: शर-
स्तार्तीयीकविलोचनस्मितशिखि[^4]ज्वालाभिराप्यायितः।
पत्त्य[^5]श्वेभरथं पुत्रयमपि प्राप्य क्रमात् प्रज्वलन्
घोरारावमरालसंङ्कुलवलत्कीलं ददाह क्षणात्॥२५॥
तथाहि तत्क्षणमनुक्षणप्रवर्ध[^6]मानाशुशुक्षणिपरिक्षिप्त- मुच्चावचगगनतलातिलङ्घिनीलपीतहरितपाटलधवल- कर्बुरचटचटात्कारिचलितस्फुलिङ्गसङ्कुलबहुलज्वाला कलापकबलीकृतं हा तात हा मातरः पुत्र हा मित्र हा
[^1] M omits ॰जालानलफलगिलिताशे॰
[^2]A- ॰धर:
[^3]A- त्र्यक्ष्य॰
[^4]M has ॰मुख॰ for ॰शिखि॰
[^5]M- पत्नि
[^6]M- ॰प्रवृद्ध॰
कलत्र क्व[^1] यासि क्व यामि कं शरणं व्रजामि कः परित्रातास्ति दह्यते करो दह्यते शिरो दग्धान्यङ्गानीति करुणाक्रन्द- परिक्रान्तदुरन्तचिन्तपतदु[^2]त्पतद्बहुविकारघोर[^3]पौर- जनं विकठलुठत्कठोरविरटत्कर[^4]टिघटाघट्टितचटुल- वलदुत्तुङ्गतुरङ्गसङ्घं स(ङ्ग्रा)[^5]मपतितभङ्गुरशताङ्गभङ्ग- पटपटात्कार[^6]मेदुरितं दन्दह्यमाननानाविधप्राणिगण- विदीर्णसिराधमनि धमधमोद्गीर्णरुधिरमज्जावसेक- सिमिसिमात्कारदारुणं रणमत्तसन्नद्धविद्युन्मालि- तारकाक्षकमलाक्षगदा[^8]क्षिप्तपुनरापतदर्चिर्जालजर्ज[^9]रित- सपुत्रपशुबान्धव(कलत्रव्या)[^9]कुलितं सकलमपि दनुज- कुलं निमेषेणैव सह पुरैदृश्यते स्म[^11] भस्मसात्कृतम्।
[^1] A omits क्व याति
[^2]M- ॰पतद्युत्पतत्
[^3]M- ॰घोर॰
[^4]M- ॰करट॰
[^5] This is the em. Reading., A,M- सङ्म
[^6]M- ॰पटपटात्कारे दुरित॰
[^7]M- ॰यमनियमयमोद्गीर्ण॰
[^8]A- ॰गता॰
[^9]A. ॰जर्भरित॰
[^10] This is the em. reading., A-तत्रया;M- त्रया
[^11]M omits स्म
उन्नेद: प्रमथाः सुरामु[^1]मुदिरे वाताववु: शीतला:
स्वर्वेश्या ननृतुः पुरः[^2] प्रववृषुः पुष्पाणि विद्याधराः।
गन्धर्वाश्च[^3] मुहुर्जगुर्दिवि महाभेर्य: स्वयं दध्वनु:
सर्वं स्वस्थमभूज्जगत् प्रविशदं व्योम प्रसन्ना दिशः॥२६॥
इत्थं प्रसा(ध्य)[^5] सुरकार्य(ममेय)[^6] शक्ति-
रर्घे[^7]न्दु[^8]मौलि(रि)[^9]षुचापरथादिमग्रे[^10]।
तत्तत्पदे नियम[^11](पन्)मुनिभिः पुराणै-
रस्तूयत स्तुतिशतैर्निगमान्तदृष्टै:॥२७॥
अथ मधुसूदनः कमलभूरपि भूतपतिं
नतिनुतिभिः प्रसाद्य सममूच(तु)[^12]रीशितरि।
त्वयि सति किं न सिद्धयति तथा (हि) हता भवता
सुरविमता हिताय जगतामिति तावदृतम्॥२७॥
[^1] A- मुदिरे
[^2]A- पुरं
[^3]A- गन्धर्वार्हित omits मुहुः
[^4]A,M add देवं after महा
[^5]This is the em. reading., A,M- प्रसार्य
[^6]This is the suggested reading.
[^7]M- अर्क
[^8]A- ॰चन्द्र॰
[^9]A,M omit रि
[^10]A,M- अग्ने. em- अग्रे
[^11]A,M- नियमनं नियमन् is the em. reading.
[^12]A,M omit तु
[^13] हि is the suggested reading.
ततश्च पादारविन्दयुगले दरचन्द्रमौले रिन्द्रादिमान् प्रणमयन्नरविन्दनाभः। भ्रूसंज्ञया पुरजितानुमतो व्यतारीत् त्रैलोक्यराज्यमखिलं बलशासनाय॥१९॥
शम्भुस्तदा सुरगणैर्मुनिभिः पुराणैः
संभूय तन्महिमनि(प्रति)वर्ण्यमाने।
किं वो मया विहितमस्ति समस्त एष
नारायणस्य महिमेति गिरा तिरोऽभूत्॥२०॥
ततश्च भगवति भगनेत्रभिदि जगतां प्रभौ तिरोभूते जगत्ताणपरायणो नारायणः क्रमगलितविनयावनतिः स्वयं प्रभवन् कृतकृत्यताजनितानन्दकन्दलितमन्दस्मिता- लङ्कृतवदनारविन्दः सङ्क्रन्दनादिभिर्दिशामीशै: सुर- सिद्धगन्धर्वयक्षरक्षो[^2]विद्याधर[^3]किन्नरादिभिर्नारदादि-
[^1] This is the em. reading., A,M have a gap.
[^2]M- रक्षा
[^3]M- विद्याधरै:
देवर्षिभिरपि संस्तूयमानविजयापदानमहिमा बहुमानाय नारदादे:[^1] स्वच्छा[^2]लापमाकलयन्नति[^3]शीतलैरपाङ्गै: सनकादीन् सनातनमुनीननुगृह्य क्षणमनुकम्प्य च निलिम्पाधियतीन् सहस्रार्चिरिव मेदरमुदिरोदरे स्वयमपि तिरोबभूव।
तदानीं च--
ब्रह्मादिमाः सुरगणा मुनयश्च सर्वे
सर्वेश्वरस्य च सुपर्वरिपुद्विषश्च।
अत्यद्भूतानि चरितानि निथो वदन्तः
स्वं स्वं पदं पुनरवाप्य चिरं ननन्दुः॥२१॥
त्रिपुरविजयाभिधानश्चम्पुरयं शाम्भवप्रसादेन।
नलशुकशकाब्द जातः प्राप्नोत्नाचन्द्रार्कं[^*] प्रचयम्॥२२॥
इति[^5] त्रिपुरविजयचम्पकाव्ये पञ्चम आश्वासः समाप्तः।
[^1] M- नारदादेवम्
[^2]M- स्वेच्छालापम्
[^3]M- आकलयति
[^4]A- चम्बु
[^5]A omits colopfron
[^*] चन्द्रतारकं would be better metrically.