UNIVERSITY OF TRAVANCORE Trivandrum Sanskrit Series No. 181. TRIPURADAHANAM OF VASUDEVA WITH HṚDAYAGRĀHINĪ THE COMMENTARY PANKAJĀKṢA Edited by SURANAD KUNJAN PILLAI, M. A., Honorary Director, UNIVERSITY MANUSCRIPTS LIBRARY, TRIVANDRUM. Printed at the S. V. G. Press, Fort, Trivandrum. 1957/1132 [All rights reserved] अनविश्वविद्यालयः अनन्तायनसंस्कृतम्रन्थावलिः त्रिपुरदहनम् संगि F AVANCE: राज्यवे प्रशा सम्पादक: DONATED TO TTD CENTRAL LIBRARY शुरनाडु कुञ्जन् पिठ, एम्. ए., पौरस्त्यअन्थप्रकाशन कार्यालयाध्यक्षः । अनन्तशयने एम्. पी. जी. कुमुद्रितम् १९०७११३२ मूल्यं सार्थरूप्यकम् PREFACE Tripuradahana is one of the famous Yamaka poems by the celebrated Paṭṭattu Vāsudeva Bhaṭtatiri, a very gifted Sanskrit poet and grammarian who flourished in Kerala circa 9th century A. D. Yamaka is a peculiar literary device of repeating the same combination of letters in different senses. It is defined as:अर्थ सत्यर्थभिनानां वर्णानां सा पुनःश्रुतिः । यमकं 11 ........ (Kavyaprakāsa Ulläsa IX, 6.) Although modern critics have not much regard for the peculiar kind of ability displayed in Yamaka kavya, it has to be conceded that only poets possessing extraordinary command of diction can compose such kavya. And Vasudeva Bhaṭtatiri remains almost without a rival in this field in Sanskrit literature. The Yudhiṣṭhiravijaya published as No. 60 in the Kāvyamāla, is the best • Vide Mahakavi Ullur's History of Kerala Literature Vol. I. P. 113-120. 11 known among his Yamaka Kāvyass. The present work, Tripuradahana, is also an eminent example of Bhattatiri's skill in this special field of Yamaka. Tripuradahana contains three Asrāsas and 194 stanzas mostly in Arya metre. Yamaka kavya is a hard nut to crack and so the commentary of such a work is of especial value. The commentary Hrdayagrahini published here for the first time is by Anavattu Pankajäksa Pişāroti The name of the $ Vasu Battatiri's known Yamaka works are :(1) Yudhishtiravijaya ( 2 ) Tripuradahana (3) Saurikatha and (4) Nalodaya. But Vatakkumkur Raja Raja Varma says that Nalodaya is the work of Ravi Bhattatiri the father of Vasu Bhattatiri (Keraliya Samskrta Sahitya Caritam 1; p. 161 ). But in an old commentary of Nalodaya entitled Kavihrdayadarpana by Srikantha, mention is made of Vasudeva as the author. 'अथ श्रीमान् महाकविमद्देश्वरी वासुदेवनामा वासुदेवानुस्मरणपूर्वकं प्रणि गोषित प्रबन्धप्रतिबन्धकृन्तनाय प्रथमविधेयप्रतिष्ठात्मिकां नमस्क्रियां तावदनुतिष्ठति ॥ ' इति श्रीकण्ठाचार्यपुत्रेण श्रीकण्ठेन कृते नलोदयव्याख्याने कविहृदयदर्पणाख्य चतुर्थ आश्वासः ॥ वासुदेवमहाकवये काव्यनिर्मात्रे नमो नमः ॥ नलोदयाह्वयस्यास्य व्याख्या काव्यस्य निर्मिता । श्रीकण्ठाचार्यपुत्रेण श्रीकण्डेन मनीषिणा ॥' Ms. No. 1021 of University Manuscripts Library. In this connection it may also be pointed out that in the colphons of several commentaries of Nalodaya available in our Library and in the Madras Mss. Library, Nalodaya is attributed to Kalidasa. Vasudeva's work on grammar is Vasudevavijaya in five sargas. Vasu Bhattatiri belonged to Pattattu Illom at Peruvanam some eight miles South of Trichur. In Yudhishthiravijaya he says:तस्य च बसुधामवतः काले कुलशेखरस्य वसुधामवत: । वेदानामध्यायी भारतगुरुरभवदाधनामध्यायी ॥ समञ्जनि कश्चित् तस्य प्रवणः शिष्योऽनुवर्तकवितस्व काण्यानामालोके पटुमनलो वासुदेवनामा लोके ॥ commentator and that of his uncle are mentioned in the colophons at the end of the three āsvāsas. इीत वैष्णव कुलालङ्कृतेः कविसहृदय सार्वभौमस्य करुणाकरमानो विद्वत्प्रवे भगिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां...... 111 Anayattu Karunākara Piṣāroti was a distinguished scholar and a contemporary of Uddanda Sastri who adorned the court of Manavikrama, Zamorin of Calicut (Vide History of Kerala Literature by Ullur Vol.II pp 71-72). Pankajākṣa Piṣāroti was Karunakara's nephew and he may be assigned to the 16th century A.D. There are five commentaries of Tripuradahana in our collection, including Hrdayagrähini which is the best among them. Of the remaining four, two are anonimous, via Prakāśikā and another commentary which does not even give its name. Arthaprakasika by Mukkolakkal Nilakanthan Nampūtiri (17th century) and Arthadīpinî by Nityānandayati are the two other commentaries available here. There is only one manuscript of this commentary in this Library, No. L. 150. The manuscript is in good state of preservation. In preparing this edition 1 have been assisted by the Curator Śrī.K.S.Mahadeva Śāstri, and Pandits Śrī. V.G Nampütiri and Śrī A. Ramachandra Śāstri. University Manuscripts Library, Trivandrum. 18-12-1956 Śūranad Kunjan Pillai, HONORARY DIRECTOR. श्री वासुदेवप्रणीतं त्रिपुरदहनं ( यमक काव्यम्) (ङ्कजाक्ष कृतया हृदयग्राहिण्याख्यया व्याख्ययोपेतम् । बपुर तिगौरच्छायं जयति विभोरभिदधाति गौरच्छा यम् । विपकटुका येनाहिश्रेणी भूषणमिव स्वायेऽनाहि ॥ १ ॥ शब्दार्थात्मकमाभाति विश्वं यत्र तदस्तु वः । इष्टदायि परं ब्रह्म भूषयद्यादव कुलम् ॥ काव्यारम्भे कविशिष्टाचार मनुसरन्निष्टदेवता स्वरूपानुस्मरणलक्षणं मङ्गलमाचरति - वपुरित्यादिना । त्रिभोः जगतां पत्युः, वपुः मूर्तिः, धर्मिणः प्रकाशस्य धर्मरूपा विमर्शशक्तिरित्यर्थः । जयति सर्वोत्कृष्टं वर्तते । " विभुस्तु ना कुबेरेऽर्के त्रि तु सर्वगनित्ययोः । स्वामिनि" इति केशवः । ननु सगुणनिर्गुणभेदेन वपुषो द्वैविध्ये कस्योत्कर्षः परामृश्यत इत्याशङ्कायां वपुर्विशिनष्टि - अतिगौरच्छायमिति । गौरी अत्यन्तारुणा छाया कान्तिर्यस्य तत्तथोक्तम् । "गौरस्तु ना *विरिश्चेन्द्वोर्धववृक्षेऽसन द्रुमे । शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥" इति केशवः । * 'विरिञ्चे द्वे धववृक्षै' इति मुद्रितः पाठः सव्याख्ये त्रिपुरदहने "अथ छायानातपशोभयोः । सूर्यपत्न्यन्तरे स्थात् पङ्क्तिप्रतिबिम्बयोः ॥" । इति च । ननु गौरशब्दस्य शक्ल एवार्थः प्रसिद्धः । अरुणार्थस्त्वप्रसिद्ध एव। प्रसिद्ध प्रसिद्धयोः प्रसिद्धस्य मुख्यत्वम् । मुख्यामुग्ख्ययोमुख्यमेवाझीकरणीयम् । शुद्धसत्वगये भगवति शौक्ल्यमुपपन्नं च । तत्कथमेवं व्याख्यातम् । उच्यते - विवक्षाधीना हि शब्दप्रवृत्तिः । विवक्षा चात्र कवेर रुग्य एव; शाक्षरीमन्त्राच्यस्य भगवतः परामर्शनीयत्वेनेष्टत्वात् । तदिष्टत्वं च 'योऽग्विकालोलोऽपी' ति सम्बन्धोपक्रमे, 'सोमस्य महासेन' इति, प्रमेयोपक्रमे च 'मदनरिपुं सामान्यं निर्देयमगजोपगृह्यपुंसा मान्यमिति, उपसंहारे च 'येन भगवतोमा रोपि' 'योऽम्बिकालीनमतिः' 'अङ्कार्धन्यस्तनगप्रियतनया कुङ्कुमाईधन्यस्तनग' 'वेष्टितरोमावल्याइयमधुपत्रातमन्थगेमावल्याः' 'अन्तविदेवमनुविद्धोम' 'रुद्रं नमश्चकारोमांच' इत्यादि मध्ये च तत्र भगवत्या उपादानातू, "उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपती चलिङ्ग तात्पर्यनिर्णये ॥ " . इति न्यायेन सशक्तिके भगवति तात्पर्यादवसीयते । नन्वेवमपि शक्तिपञ्चाक्षरी मन्त्रवाच्यस्य परामृश्यत्वं कुतो निश्चितं, अष्टाक्षरीमन्त्रवाच्योऽपि भगवान् शक्तिको रक्तवर्णश्च तस्य पररामृश्यत्वं कथं न स्यात् । (उच्यते) यथा महाकविर्माघः श्रीमहोपाल कविंशत्यक्षरमन्त्रमूलतया "श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शवितरन्तमम्बरा द्धिरण्यगर्भाङ्गमुवं मुनि हरिः ॥" इत्युपक्रम एवं तस्य मन्त्रस्य ऋषि नारदं ब्रह्माणं देवतां कृष्णं च परामृश्य मन्त्राक्षरसङ्ख्या नियमितविंशतिसतं शिशुपालवधायं काव्यं प्रणि नाय, तथानेनापि कविना शक्तिपञ्चाक्षरी मन्त्रमूलतया वपुरतिगौरच्छायमित्यादिमपद्य एव मन्त्रदेवतां परामृश्य तन्मन्त्रावयवपद सङ्ख्या यमिताम्वासत्रयो पेतत्वेनास्य प्रबन्धस्य प्रणीतत्वात् । किञ्च सत्वरजस्तमोमयानि जाग्रत्खप्नसुषुप्रथम आश्वासः । प्तिहेतवः, स्थूलसूक्ष्मकारणाख्यानि यानि शरीराणि तान्येव त्रीणि पुराणि, जाग्रत्स्वप्नसुषुप्तिसाक्षिणो विश्वतैजसप्राज्ञा एव त्रयोऽपुराः, इन्द्रियाण्येव देवताः, शुद्धसत्त्वमेव स्वर्गः, तुरीय आत्मैव शिवः, विमर्शात्मिका शक्तिरेव पार्वती, शास्त्रार्थविचारादिकमेव धनुरापकरणानि, तत्त्वज्ञानमेव नयनाग्निः, तत्तत्कार्याणां स्वखकारणलयक्रमेण मूलकारणे शिवादिशब्दवाच्ये परस्मिन् वस्तुनि विलापनमेव दाह, जगदूपेण परिणता यावशक्तेस्तत्त्वज्ञानेन जगद्पे गलिते शक्तिशक्तिमतोरेकीभावेनावस्थानमेव शिवयोरुपगृहनम् इत्यादिकयात्रि मन्त्रप्रबन्धार्थयोरैक्यं विद्वद्भिरुन्नेयम् । अलमप्रस्तुतवस्तुप्रथनेन । प्रकृतमनुसरामः । 9 ननु धर्मिणि सत्येव धर्मेण भवितव्यं विभोस्सत्त्वमेवा निश्चितं प्रमाणाभावाद् इत्याशङ्कय विभुं विशेषन् ईश्वरमाचे प्रमाणमाह -- अभिदधातीति । अच्छा निर्मला । अपौरुषत्वेन रागादिमूलत्वाभावात् प्रमाणभूतेत्यर्थः । गौः वाकू, काण्डत्रयात्मकवेदलक्षणा । यं विभुं । विशिनष्टि । अभिदधाति धर्मरूपतया देवरूपतया ब्रह्मरूपतयाः च प्रतिपादयति । ईश्वरसद्भावे श्रुतिः प्रमाणं भवतीत्यर्थः । अभिदधातीत्यस्य यया कयाचिद् वृत्त्या प्रतिपादन एव तात्पर्य न त्वभिघावृत्त्याभिधाने । तथात्वे हि 'यतो वाचो निवर्तन्ते' 'यो मुक्तैर (व) गम्यते' 'अतद्वथावृत्त्या यं चकितमभिधत्ते श्रुतिरपी 'त्याद्यभियुक्तोक्तिविरोध: स्यात् । "गौर्नादित्ये बलविर्दे ऋतुभेदर्षिभेदयोः । । स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ • इत्यमरः नृस्त्रियोः स्वर्गचन्द्राम्बुरश्मिहग्बाणलोमसु । अश्वानां प्रग्रहेऽप्येष यत्साधारणनामसु ॥ " इति केशवः । अतिगौरच्छायत्वादेर्देवतान्तरसाधारण्यात् तद्व्यावृत्त्यर्थं भूयोऽपि विभुं विशिनष्टि - विपकटुकेति । येन विभुना विषकटुका विषेण गरलेन हेतुना कटुका तीक्ष्णा । अहिश्रेणी अहीनां सर्पाणां श्रेणी समूहः । भूषणमिव कटककटिसूत्राद्याभरणमिव । स्वकाये स्वस्य आत्मनः काये देहे । अनाहि बद्धा । 'णइ बन्धन' इत्यस्मात् कर्मणि लुङ् । भगवतः शिवस्येत्यर्थः । "रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।" । उपासकप्रदीभावमन्तरेण उपास्यदेवतोत्कर्षो न सम्बोभवीतति सव्याख्ये त्रिपुरदहने जयत्यर्थो नमस्कारमाक्षिपति । अत्र विभोर्वपुषे नम इत्यर्थो लभ्यते । ततश्च 'आशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्युक्तलक्षणकाव्यमुखाङ्गभूता नमस्क्रियाभिनिर्व्यूढा भवतीत्यनुसन्धेयम् ॥ १ ॥ ४ अथ श्लोकद्वयेनोत्कर्षमुपपदयति- येन च कालोडलोपि स्मरं च निजघान योऽम्बिकालोलोऽपि । योऽस्थाद् विषमास्वाद्य स्वस्थः सुरततिषु जात विषमास्वाद्यः ॥ २ ॥ येनेति । चशब्दो वाक्यार्थसमुच्चयार्थः । येन विभुना कालः अन्तकः अलोपि विलयं नीतश्च । सर्वेषामपि प्राणहर्तारमन्तकं यः प्राणैर्वियोजितवान् तस्योत्कर्षः किमुच्यत इति भावः । योऽम्बिकालोलोऽपि अम्बिकायां पार्वत्यां लोल: सरागोऽपि । अपिशब्दोऽम्बिकालोलत्यस्मरहन्तृत्वयोः परस्परवि रुद्धतां द्योतयति । स्मरं कामं निजघान च तृतीयनेत्रामिना भस्मसादकरोत् । यः सुरततिषु देवसमूहेषु जानविषमासु सतीषु जातम् अमृतमथनसमयसञ्जातं जग- द्भस्मीकरणोन्मुखं कालकूटमालोक्य उद्भूत विषमं वैषम्यं व्याकुलता यासां तथोक्ता: ( तासु ) । विषं गरलं आस्वाद्य सुरततिवैषम्यजिहीर्षया पीत्वा । स्वस्थः विषपानजनितविक्रियामप्राप्तस्सन् अस्थात् स्थितवांश्च । चशब्दोऽत्रानुषञ्जनीयः । ननु कोऽयमनुषङ्गो नाम । उच्यते - पूर्ववाक्ये चरितार्थस्य वाक्यस्य उत्तर- वाक्येऽमिसम्बन्धोऽनुषङ्गः । विभुं विशिनष्टि- आद्य इति । आदौ भवः आद्यः । 'दिगादिभ्यो यत्' (पा० सू० ४. १. ३३. ) इति यत्प्रत्ययः । जगत्कारण- भूतस्य किं नाम दुष्करमिति भावः ॥ २ ॥ कुलिशं चक्रमुरुरसिः स्थेयसि नृभुजो न यस्य चक्रतुरुरसि । सदहन विधुतो ये नद्युधगत्ममरुन्मयेन विधुतो येन ॥ ३ ॥ । कुलिश मिति । चशब्दोऽत्राप्यनुषञ्जनीयः । यस्य नृभुज इत्यनुवादात् तच्छब्दवाच्योऽपि नृभुगिति विज्ञायते । नॄन् नरान् भुङ्क्त इति नृभुक्, राक्षसः । स चात्रोपपत्तिवशाद् गवणः । येन विभुना । स नृभुग् रावणो विधुतश्च कम्पितोऽभूत् । भुजकण्डूविनोदनाय कैलासमुद्घृत्योत्क्षिपन् भगप्रथम आश्वासः । बदङ्गुष्ठ । ग्रस्पर्शाद सह्यगौरव कैलासा धरशायितया निश्चेष्टीकृत इत्यर्थः । कस्य. चिद्रक्षसो जडीकरणेन को विभोरुत्कर्ष इत्याशङ्कय नृभुजो लोकोत्तरतामाविश्चिकीर्षुः तं विशिनष्टि - कुलिश मिति । यस्य नृभुजः, उरसि वक्षःस्थले, कुलिशं ऐन्द्रं वज्रं, चक्रं वैष्णवं सुदर्शनं, उरुमेहान् असिः नैर्ऋतः खड्गश्च । उपलक्षणमेतदन्येपामच्या युधान्तरस्य । प्रतानि न चक्रमुः पदविक्षेपं न चक्रुः । त्रैलोक्यनाथानामप्यायुधानि यदुरःस्थले निपत्य कुण्ठीचभूवुरित्यर्थः । तत्र हेतु:स्थेयास स्थिरतरे, शिलातलवदतिकठिने इत्युरोविशेषणम् । विभुं विशिनष्टि दहनेति । दहनो वहिः, विधुश्चन्द्रः, तोयं जलं, इन आदित्यः, द्यौराकाशं, धरा भूमिः, आत्मा जीवः मरुद्वायुः एतन्मयेन अष्टमृत्यत्मकेनेत्यर्थः विश्वात्मनि परमेश्वरे एतदुपपन्न मिति भावः । तस्य विभोरिति पूर्वेण 9 सम्बन्धः ॥ ३ ॥ अथ विशिष्टशब्दार्थप्रतिभालाभाय वाग्देवतां प्रार्थयते स्फुरतु सरस्स्वत्यन्त स्वच्छेन्दुकलेव नः सरस्वत्यन्तः । उत्तुङ्गतमोहान्या नित्यं लोकान् करोति गतमोहान् या ॥ ४ ॥ स्फरत्विति । सरस्वती शब्दाधिष्ठात्री परा देवता । नः अस्माकम् । अन्तः मनसि । स्फुरतु प्रकाशताम् । प्रार्थनायां लोट् । कीदृशी । अत्यन्तस्वच्छा अंतिशयेन निर्मला शुद्धसत्त्वमयत्वाद्धवलेति यावत् । सरस्वती हि धवलवण । भवति । यथाहुः पञ्चाशद्वर्णभेदै रित्यादिना । कुत्र किमिवेत्यत्राह - सरस्स्वि । ति । सरस्सु जलेषु इन्द्कलेव शशिरेखेव । यथेन्दुकला जले प्रतिबिम्बतया स्फुटं स्फुरति तथास्मन्मनसि सरस्वत्यपि स्फुरतु इत्यर्थः । उपमया सरस्वतीस्फुरणस्य स्फुटोपलम्भता प्रत्याय्यते । "सरस्तु सलिले क्लोब तटाके तु नपि स्त्रियाम् । तु तत्रापि स्त्र्यर्थवृत्तित्वे सरसीति स्त्रियां पुनः ॥ महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ।" इति केशवः । पूर्णेन्दोरुपमानतायां सकलकत्वदोषसंभवाद् अत्यन्तस्वच्छत्वमुपमानस्य न स्यात् । तत्कलायास्तु कलकदोषो नास्त्येवेतन्दुिकलाया उपमा. सभ्याख्ये त्रिपुरदइने नतयोपादानमितिं बोद्धव्यम् । सरस्वतीम्फुरणस्य किं फलमित्याशङ्कायां तो विशिनष्टि - या सरस्वती उत्तुङ्ग तमोहान्या उत्तुङ्गस्यातिमहतः तमोगुणस्याज्ञानकारणस्य हान्या नाशेन । नित्यं नियमेन, लोकान् भक्तिपुरस्सरं भजमानान् जनान् । गतमोहान् नष्टाज्ञानान् करोति । "लोकस्तु भुवने जने" इत्यमरः। "तमस्तु क्की पापे नरकशोकयोः । गुणत्रयस्यान्यतमे साङ्ख्यानां प्रकृतौ बले ॥ अज्ञाने ज्वलति ध्वान्ते रात्रौ राहौ च नामतः ।" इति केशवः । "मोहः पुनः स्यादज्ञाने मूर्च्छायां क्रोध एव च । अजयस्त्वाइ तन्द्रायाम्" इति च । सरस्वत्य मन्तः स्फुरितायां सकारणाज्ञाननिवृत्त्या शुद्धे मनसि विशिष्ट- शब्दार्थप्रतिभया भवितव्यामति भावः ॥ ४ ॥ अथाभिधित्सितस्यार्थस्य इतिहास पुराणमूलत्वात् तद्याथातथ्यस्फुरणाय तत्प्रणेतारं व्यासं प्रार्थयते. यो भासा मा वियतस्तुलयति भारतसुषाम्भसाभावि यतः । जगदेनोहृदयमलं हरतु व्यासाम्बुषिश्च नो हृदयमलम् ॥ ५ ॥ य इति । चशब्दः समुच्चये। अयं वियत्सदृश वर्णत्वादिविशिष्टो व्यासाम्बुधिश्च, न केवलं सरस्वत्येव व्यासाम्बुधिरपि । व्यासाम्बुधिरिति मयूरव्यंसकादित्वात् रूपकसमासः । नः अस्माकम् । हृदयमलं हृदयस्य मलमप्रतिपत्त्यन्यथाप्रतिपत्तिलक्षणदोषम् । अलमत्यर्थं हरतु अपनयतु, प्रार्थनायां लोट् । अम्बुघित्वमुपपादयितुमाह - य इति । यो व्यासाम्बुधिः भासा निजया देहकान्त्या । बियतः आकाशस्य माः भासः । बहुवचनमविवक्षितम् । कान्तिमित्यर्थः । तुलयति उन्मिमीलयते । वियत्सदृशो नीलाभ इत्यर्थः । वस्तुतः वियतो नीरू पत्वेऽपि लोकप्रतीत्यनुसारेणैवमुक्तम् । यतः यस्माद् भारतसुधाम्भसा भारतं श्री महाभारताख्य इतिहासः तदेव यत् सुधाम्मः पीयूषजलं तेन । अभावि उद् भूतम् । अत्रामृतोत्पत्तिभूरम्बुधिरित्येव विवक्षितम् । न तु क्षीराम्बुधिरिति । प्रथम आश्वासः । ७ तथात्वे हि नीलवर्णत्वमुक्तमनुपपन्नं स्यात् । जगदेनोहदिति । अत्रार्थाद्विभक्तिविपरिणाम इति नीत्या पञ्चम्यन्तो यच्छन्दः प्रथमान्ततया विपरिणतो नुषज्यते । यः जगदेनोहृत् जगतो जगद्वासिनो जनस्य यदेनः पापं तद्धरति नाशयतीति तथोक्तः । अत्राम्बुधिरिव व्यास: सुधाम्भ इव भारतमिति विगृह्य "उपमितं व्याघ्रादिभिस्सामान्याप्रयोगे" (१० सू० २.१५६) इति समासं विधाय उपमाश्रयेणापि व्यख्यातुं शक्यते । अतः ऽत्रोपमा पकयोस्साधकबाध काभावात् सन्देहसङ्करः ॥ ५ ॥ अथ प्राप्सितप्रबन्धप्रचयगमनाय अस्ति स कविलोकनतः क्षितिभृदरिर्यस्य सैनिकविलोकनतः । बहुविपदि क्षुद्रवति क्ष्माभृति कुर्वन पदानि दिक्षु द्रवति ॥ ६ ॥ "यद्यदाचरति श्रेष्ठस्तत्तदेवेतरे जनाः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ इति न्यायाद्र जपरिग्रहादेव लोकपरिग्रहः स्याद्वाजपरिग्रहश्च तत्प्रशंसयैव भवेदिति मन्यमानः त्रिभिः श्लोकै तदानीन्तनं राजानमभिष्टौति : अस्तीति । स तादृशः क्षितिभृत् राजा अस्ति विद्यते । जन्मसाफल्यात् स एव सत्तां लभत इत्यर्थः । क्षितिभृतरातत्वेऽपि कवेरुक्ती विद्यमानत्वाल्लट्प्रयोगः। अद्यापि यशश्शरीरत्वेन विद्यमानत्वाद्वा । कीदृशोऽसावित्यत्राह - कविलोकेति । कविलोकनतः कवयो विद्वांसः काव्यकृतश्च, उभयेऽप्यन्त्र विवक्षिताः तेषां लोके समूहे विषये नतः प्रदीभूतः । "प्राज्ञकाव्यकृतौ कवी" इत्यमरः । अनेन स्वयं विद्वान् काव्यकृञ्चेत्युक्तं भवति । वैदुष्यं कव्यकृत्त्वञ्च विना तन्नमनानुपपत्तेः । एतद्धि जन्मनः फलमिति भावः । कविलोके नतः इति वा विग्रहः । वैदुष्यं काव्यकृत्त्वं च सर्वसाधारण एव गुणः । अथ राजैकविषयान् गुणान् दर्शयति - अरिरिति । यस्येत्येतत् ( "एकस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते । तच्च काकाक्षिवत् कापि भित्तिदीपसमं कचित् ॥ " इत्युक्तलक्षणेन भित्तिदीपायमानेन तन्त्रेणारिसैनिकयोः संध्यते । यस्य क्षितिभृतः अरिः शत्रुः । यस्य सैनिक विलोकनतः सैनिकानां भटानां विलोकनतः सव्याख्ये त्रिपुरदहने वीक्षणादेव हेतोः, क्षुद्रवति क्षुत् क्षोदः पीडा तां राति ददातीति क्षुद्रा नृशंसा व्याघ्रादयो हिंसा इत्यर्थः; तद्युक्ते । तथा बहुविपदि बढ्यो विविधा विपदः कण्टकशङ्कुदवाग्न्यादिभ्यः पादाघातदेहदाहाद्यापदः यस्मिन् तादृाश । भृति पर्वते पद नि अङ्घ्रिन्यासानं कुर्वन् दिक्षु द्रवति धावति । " क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः ।" क्ष्माइति केशवः । "पदमौ शरे त्राणे व्यवसायापदेशयोः । चिह्नेऽघ्रिचिह्नेऽङघ्रिन्यासे पद्यमार्गेऽशुवस्तुनोः ॥ स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुली । " इति च । अयमर्थः यस्य शत्रवः सैन्यदर्शन।देव भीताः पलाय्य गुहासु तिष्ठन्तस्तत्रापि तदागमनभिया थातुमशक्ताः नानादिक्षु पलायन्ते अनेन प्रतापवत्ता दर्शिता ॥ ६ ॥ साधूनां पाता यः स्थिरत्रतो यश्च पापिनां पाताय । यस्मादुर्व्यापारं प्रीतिं यस्यामलं विदुर्व्यापारम् ॥ ७ ॥ पर्वत इति । साधूनामिति । यःसाधूनां सतां पाता रक्षिता च भवति । यः पापिनां मर्यादातिक्रान्तानां पाताय नाशाय स्थिरत्रतश्च स्थिरं दृढं व्रतमभङ्- ग्यानुष्ठानं यस्य स तथोक्तः । आभ्यां शिष्टरक्षणं दुष्टनिग्रहश्चोक्तः । शिष्ट- रक्षणादपि दुष्टनिग्रहस्य प्रजाप्रीतिकरत्वं वक्तुं पापिनां पतं विशिनष्टि - यस्मा- दिति । यस्मात् पापिनां पाताद्धेतोः उर्वी उर्वीस्थो जनः । अरमत्यर्थ, शिष्ट- रक्षणादप्यधिकम् । प्रीति मुदम् आप पूर्वमादिराजादेवारभ्य प्राप्तवती तस्मै पापिनां पातायेति सम्बन्धः । ननु यस्मान्महीभृतः उर्वी सत्पालनात् अरं प्रीति- मापेत्यर्थः कस्मादुपेक्षितः । उच्यते – कवेरुक्तिसमये राजा वर्त्तमान एव । अत एव क्षितिभृदस्ति, अरिर्दिक्षु द्रवति, व्यापारं विदुरिति, राजशेखरं व्याल- पतीति चः । तस्यैव राज्ञः प्रजाप्रीतिकरत्वप्राप्तेः परोक्षत्वेन लिट्प्रयोगस्थानुपपत्ते- रित्थं व्याख्यातम् । यस्य क्षितिभृतो व्यापारं प्रवृत्तिम् । अमलं निर्दोषं विदुः जानन्ति, सन्त इति शेषः। अनेन विहित चारपरत्वमुक्तम् ॥७॥ - स्वपदपयोजनते यं सदैव सम्पादकं श्रियो जनतेयम् । भूतिघरं व्यालपतिस्फुरत्कर राजशेखरं व्यालपति ॥ ८ ॥ प्रथम आश्वासः । स्वदेति । इयं भूलोकान्तवर्तिनी जनता जनसमूहः । यं राजशेखरं व्यालपति राज्ञां शेखरवदलङ्कारभूतत्वाद् राजशेखर इति कथयति । कीदृश इत्यत्राह – स्वपदेति । स्वपदपयोजनते स्वपद्पयोजयोः चरणाम्बुजयोः नते इष्टार्थसिद्धये प्रणते जने । सदैव सर्वस्मिन् काल एव । श्रियः सम्पदः । सम्पादकं दातारमित्यर्थः । "श्रीरिन्दिरायां शोभायां स्यात् सम्पत्तिलवङ्गयोः ।" इति केशवः । अनेन दानपरत्वमुक्तम् । राज्ञां हि धर्मस्सर्वस्वदानमेव । उक्तं च मुरारिणा हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते । गृहात् प्रतिनिवर्तन्ते पूर्णकामा यदर्शिनः ॥ इति । सर्वदा दानस्य प्रभूतं रत्नं विनानुपपत्तेस्तदुपपादनाय विशिनष्टि – भूतिधरमिति । भूतिस्सम्पत् । ''भूतिर्भस्मनि सम्पत्तावुत्पत्तौ भरुटेऽपि च ।" इति केशवः । धरतीति धरः पचाद्यच् । भूतेर्धर इति विगृह्य "कृद्योगा च षष्ठी सम- स्यत इति वक्तव्यम्" (वा०, २. २. ९.) इति समासः । प्रभूतधनमित्यर्थः । तथा व्यालपतिस्फुरत्करं व्यालपतिः सर्वश्रेष्ठः तद्वत् स्फुरन्तौ शोभमानौ करौ यस्य स तथेोक्तः। उपलक्षणमेतद्वयवान्तरसौष्ठवस्य । अनेन महापुरुषलक्षणशा- लित्वमुक्तम् । अत्र राजा चन्द्रः शेखरशिरोभूषणं यस्य स राजशेखरश्शिवः । "राजा ना सोमवल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्रिये च प्रभौ च त्रिरस्मिन्नर्थत्रये यदा ॥ स्त्र्यर्थे वृत्तिं तदा राज्ञि" १० इति केशवः । सोऽपि स्वपइपयोजनसे श्रियस्सम्पादकश्च, मूतिर्भस्म तद्धारकश्च, व्याल- पतिभिः भूषणतां प्राप्तैः स्फुरत्करब्ध, इति शिवविषयो योऽर्थः स च प्रकरणे - नाभिधाशक्तेः राजनि नियन्त्रितत्वाद् ध्वनेऽपय एव ॥ ८ ॥ * इत्थं विरचितां राजस्तुतिं प्रकृत उपयोजयन्नाह निजया तन्वा नेत्रप्रमोदनं प्राणिनां वितन्वानेऽत्र । मतिबलमासाद्य मितं पुरदहनं रविभुवा समासाद् याभनम् ॥ ९ ॥ सव्याख्ये त्रिपुरवहने निजयेति । अत्र एवं दर्शितगुण विशिष्टे एतस्मिन् क्षिनिभृते । निजया आत्मीयया । तन्वा देहेन । प्राणिनां सचेतनानां जन्तूनाम् । नेत्र-मोदनं नयनप्रीतिं वितन्वाने । रविरिति कवेः पितुर्नाम, रखेर्भवतीति रविभूः, वेभुवेत्यात्मनः तटस्थीकारेणोक्तिः; मया इत्यर्थः । मितं अल्पम् । मतिबलं बुद्धिशक्तिम् । आसाद्य प्राप्य इत्यौद्धत्यपरिहाराय । पुरदहनं त्रिपुरदाहाख्यं श्रीपश्वरचरितम् । समासात् समासस्संक्षेपः तम।श्रित्येति ल्यबशेषपञ्चमी, ग्रन्थतः नक्षेप्येत्यर्थः । यमितं, यमशब्दो युगलपर्यायः तस्माद्यमवदाचष्ट इति विगृह्य "तत्करोति तदाचष्ट" इत्याचष्ट इत्यर्थे "प्रातिपदिकाद्धात्वर्थे बहुलमिठवच्च" ( ० सू०) इति णिचि इष्ठवद्भावे च, "तुरिष्ठे मेयस्तु" (पा० सू०६ ४. १५) इत्यधिकृत्य ६. "बिन्मतोर्लुक्" (पा० सू० ५. ३, ६५ ) इति मतोलुकि, म:' (पा० सू० ६. ४. १४३) इति टिलोपे च कृते यमि इति सिद्धयति । - मात कर्मणि क्तप्रत्यये रूपम् । यमकत्वेन संदृब्धमित्यर्थः । " निजं तु त्रिस्सनातने । आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ॥ इति केशवः । * रामसमत्वादेव स्वष्टा रामाख्यमकृत मत्वा देवः । यं स च रक्षोपायं चक्रेऽस्य च कर्मजनितरक्षोपायम् ॥ इत्ययं श्लोकः नवमतया ग्रन्थान्वरेपूपर्लभ्यते । प्रथमं आश्वासः । ११ अत्र निजेत्यनुक्तावपि तनोरात्मीयत्वावगतौ स्त्यां यो निर्ज देइमपि प्रजाप्रमोदसाधनतामनयत् तस्य किमुतान्यदैहिकं धनक्षेत्रादिकम् । तत्तु तत्सा- धनमेवेति द्योतयितुं निजयेत्युक्तम् । नेत्रप्रीतेस्तु चेतनत्वमेवोपाधिः । न तु मनुष्यत्वादिकमिति द्योतयितुं प्राणिनामित्कम् । काव्यनिर्माणस्य कालकथ- नेन स यच्छीलस्तच्छीलाः प्रकृतयोऽस्य भवन्तीति न्यायात् ताच्छील्यमेव मम काव्यनिर्माणे प्रेरकं, नतु कवित्वशक्तिरिति द्योत्यते । राज्ञः कवित्वं च कविलो- कनत इत्यनेन दर्शितम् ॥ ९ ॥ इत्थमुपोद्धातरूपमर्थमभिधाय प्रतिपाद्यमर्थ प्रस्तौति अथ विजहारामेयं तारकमुत्साद्य गिरिमहारामे यम् । सोमः समहासेनः स्थाणुः सह नन्दिनेन्दु सम हासेन ॥ १० ॥ अथेति । अरम्भार्थोऽथशब्दः । अथाभिधित्सितोऽर्थ आरभ्यते इत्यर्थः । "मङ्गलानन्तरारम्भप्रश्नकाण्वथो अथ" । इत्यमरः । अयं लोकशास्त्रप्रसिद्ध्यतिशयात् सर्वजनमनःपुरोवर्ती । स्थाणुश्शिवः । अमेयं शौर्यादिभिरियत्तार हतम् । तारकं तारकाख्यमसुरम् । उत्साद्य निहत्य । गिरिमहारामे गिरौ कैलासे यो महाराम: आरामवत् स्थितो वनप्रदेशः तस्मिन् । विजहार कृतकृत्यतया क्रीडितवान् । कैस्सहेत्यत्राह - सोम इति । उमा पार्वती तथा सह वर्तमानः । "उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि । " इति केशवः । समहासेनः महामेनो गुहः तेन च सह वर्तमानः । नन्दिना सह नन्दी नन्दीश्वरः तेन सार्धम् । कीदृशेन । इन्दुसमहासेन धावल्यादिन्दुना समः तुल्योः हासः स्मितं यस्य स तथोक्तः । अतिवल्लभत्वात् स्वैरविहारेऽपि उमा- महासेनयोस्तृतीयोऽइमा समिति मत्वा हर्षातिरेका दुत्पन्नहासेन ॥ १० ॥ ● ननु बालवेतालवत् लोकप्रवादमात्रसिद्ध एवायम् । वस्तुतस्तु परमेश्वर इति कमिनास्त्येव तत्सत्वे प्रमाणाभावात् । सत्त्वमिति सव्याख्ये त्रिपुरदह ने शङ्काद्वयमेकप्रहारेणाभिहन्तुं लोकद्वयेन ईश्वरसत्तां साधयन् स्थाणुं वर्णयति परमं धाम ध्येयं यो विभ्रति च भ्रुवो बुधा मध्ये यम् । यं विभुमायतयोगा विचार्य जानन्त्यकृत्रिमा यतयो गाः ॥ ११ ॥ १२ परममिति । यः स्थाणुः परममुत्कृष्टं धाम तेजो भवति । नन्वस्य स्वरूपं तेजश्वेदादित्यादितेजोवत् चाक्षुप्यं स्यात् । तथा च न भवति । तत्तेजस्त्वे किं प्रमाणमित्यत्राह - ध्येयमिति । ध्यातव्यं ध्यानचाक्षुष्यमेवेदं तेजः, न लौकिकतेजोवन्मांसचक्षुर्ग्राह्यमित्यर्थः । अनेन स्वानुभूतिरीश्वरसद्भावे प्रमाणं, स्वरूपं तेज इत्युक्तं भवति । उक्तं च भवति "स्वानुभूत्येकमानाय नमश्शान्ताय तेजसे ।" बुधा इति । ननु के ध्यातारः । कुत्र ध्यायन्तीत्यत्राह - बिभ्रतीति । निखिलविद्यापारदृश्वानो योगिनः । यं तेजोरूपं स्थाणुम् । भ्रुवोर्मध्ये विभ्रति दधति च । दीपज्वालाकारवद् भ्रूमध्ये ध्यायन्तीत्यर्थः । अथ प्रमाणान्तरं स्वरूपान्तरं चाह – यमिति । चशब्दोऽनुपज्यते । यतन्यासिनः । अत्रिमा: अपौरुषेयाः । गाः वाचः, वेदान्तवाक्यानि । विचार्य यं स्थाणुं विभुं व्यासं अखण्डपरिपूर्णाद्वयं ब्रह्म जानन्ति च अवगच्छन्ति । । ''ये निर्जितेन्द्रियग्रामा यतयो यतिनश्च ते ।" G इत्यमरः । कीदृशा यतयः । आयतयोगा: आयतो दृढो योगश्चित्त- वृत्तिनिरोधो येषां ते, तथा श्रुतियुक्तिसहकृतयोगाभ्यासवन्तो यतयः यं ब्रह्मत्वेन साक्षात्कुर्वन्तीत्यर्थः । अनेन श्रुतिरीश्वरसद्भावे प्रमाणं, स्वरूपं च व्याप्तं ब्रह्म इत्युक्तं भवति । यं प्रभुमिति क्वचित् पाठो दृश्यते । तदा जगत्सर्गादौ समर्थ ब्रह्म जानन्तीत्यर्थः ॥ ११॥ त्वेन वर्णयति – अथास्य सकलं च रूपान्तरं तत्र प्रमाणमपि दर्शयन् परस्परविरुद्धाचारधृतमशनाय कपालं येन च यं प्राहुरमरनायकपालम् । परिभूतो मारोपि स्वविग्रहे येन भगवतोमारोपि ॥ १२ ॥ १३ घृतमिति । अत्र प्रथमव क्यगतश्चशब्दो बाक्यार्थसमुच्चयायोत्तरत्रः नुषञ्जनीयः । येन स्थाणुना, अरानाय भोजनाय, कपालं शिरोऽस्थि, धृतं चाधारि । यस्य भिक्षा (न्न? टन) लब्धपात्रतां कपालोऽगम दित्यर्थः । प्रथम आश्वासः । 66 " कपालोऽत्री क्वचित् स्त्री च कपालीति शिरोस्थनि । घटादिशकले केचित्पुनः शकलमात्रके ॥ " इति केरा॒यः । अनेन निष्किञ्चनत्वस्य पलाका (?) दर्शिता । यममरनायकपालम् अमरनायका इन्द्रादयः तान् पालयनीति तथा । 'कर्मण्यण् ' ( पा० सू० ३-२-१ ) इत्यग् । जगदी घराण,मपीचरमित्यर्थः । प्राहुः कथयन्ति । बुधा इति शेषः । अनेन समृद्धेर विंशय आवेदितः । परिभूत इति । 'अर्थाद्विभक्तिविपरिणाम' इति यात् तृतीयान्नया विपरिणम यत्येितत् पदमत्रानुषज्यते । अथवा उत्तरवाक्या येनेत्ये तदानुकर्षणीयम् । येन स्थाणुना, मारोऽपि ब्रह्मादिकीटकपर्यन्तैः प्राणिभिरनिवार्यप्रसरः कामोऽपि, परिभृतश्च तृतीयनेत्राग्निना भस्मीकृतः । अपिशब्दः परिभवं प्रति कामस्य कमावेऽत्यन्तासंभाव्यतां द्योतयति । वाक्यार्थसमुच्चायको वापिशब्दः । येन मारः परिभूतोऽसीत्यनेन विरागतातिशयः प्रकाशितः । येन स्वविग्रहे स्वशरीराधे, उमा पार्वती, आरोपि स्थापिता येन प्रेमाशियत् शरीराधमपि दत्तमित्यर्थः । अनेन रागातिशय उक्तः । परस्परविरुद्धवर्नाणां युगपदैक, विकरण्यमुपपादयितुं विशिनष्टि-भगवतेति । ऐश्वर्यादिगुणषट्कं भगम् । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ " 99 सोऽम्यास्तीति भगवान्। (उभयथापीश्वरत्वमेव भगवत्त्वम् ?) अघटितघटयितृत्वं ही श्वरत्वात् । " उत्पत्तिं च विनाशे च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ " सव्याख्ये त्रिपुरदहने इत्युक्तलक्षगो वा भगवान् । उभयथापीश्वरत्वमेव भगवत्त्वम् । अवटि नघटवितृत्वं तत्र किमसंभाव्यमिति भावः । अनेस्पादिदमपान्तरं तत्सत्तायामाप्तो कितलक्षणं प्रमाणं चास्तीत्युक्तं भवति ॥ १२॥ अथ त्रयोदशभिः श्लोकैः साधितसता कम्येश्वरस्यापदानं प्रकाशयन् वर्णयतिव्रतममलं कापालं येन धृतं यो ममर्द लङ्कापालम् । यदुरास कुम्भीनस्य: स्वपन्ति यो भेदकश्च कुम्भीनस्य ॥ १३ ॥ व्रतभिति। अत्र 'एको द्योतको बहूनामन्त्यः' इति न्यायाद् अन्त्यस्थितः चशब्दः प्रतिवाक्यमभिसंबध्यते । येनानलं निर्मलं, कापालं कपालसंबन्धि शैवागमप्रसिद्धं व्रतमभभ्यानुष्ठानं, धृतं च । यो लङ्कापालं रावणं, ममर्द च, पीडितवान् । भुजबलमढेन कैलासमुद्धृत्योत्क्षिन्तं रावगं पर्वताधी निपात्य उपरिस्थितपर्वततया निश्चेष्टमकरोदित्यर्थः । यदुरमि यस्योरःस्थले, कुम्भीनस्यः हारादिवद् भूषणतां प्राप्ता नागस्त्रियः, स्वपन्ति च निद्रां कुर्वन्ति । उर:स्थल।धिकरणाचा निद्रायाः स्त्रीणामौचित्यात् कुम्मीनसीनामुपादानम् । कुम्भीनसः सर्पविशेषः । A 'कुम्भीनसो लोहिताहिः कृष्णसर्पः कुलम्धकः । ' इति यादवः । स च विशेयोपादानम्यानुपयोगात् सर्वसामान्य लक्ष्यति । यः कुम्भीनस्य कुम्भीनां गजानातिनः स्वामी कुम्भीनः । गजासुर इत्यर्थः । तस्य, भेदकश्च प्राणहारी ॥ १३ ॥ यस्य विलोकनदीप्ता लोका यस्यापदमरलोकनदी ताः । योऽकृत कृत्त्या वासः कैलासे यस्य सौन्यकृत्यावासः ॥ १४ ॥ यस्येति पूर्वश्लोकाच्चशब्दोऽत्रानुषज्यते । लोका भूरादयः यस्य स्थाणी, विलोकनदीताश्च विलोकनेन सर्गोन्मुख स्पन्दशक्तिमात्र परमार्थेन ईक्षणेन, दीप्ताः प्रकाश'ानाः । लब्धसता इति यावत् । I प्रथम आश्वास: 1 'यम्याहुरीक्षणमिदं विश्वं नैगमसूक्तयः । इति । यद्व। विलोक नैस्तेजस्वयात्म कर्नयनैदीप्ता भवन्ति । अमरलोकनदी यस्य ताः जटा: आपच्च प्राप्तवती । अयमर्थ:- भगीरथप्रार्थनया स्वर्लोकाद् भूलोक- मवतरन्ती गङ्गा स्वप्रवाहप्रपातधारणसामर्थ्यवतोऽन्यस्याभावात् तद्धारणे शक्तिमतो यम्य मूर्धनि पपातेति । यः कृत्या करिणो व्याघ्रस्य वा चर्मणा, वासः वस्त्रं, अकृत कृतवान् । यस्य कैलासे कैलासाध्ये गिरौ, आवासश्च निवासो भवति । तत्र हेतुः सौख्यकृतीति । सुखमेव सौख्यम् । चातुर्वर्ण्यादित्वात् प्यङ् । यद्वा सुखयतीति सुखः । पचाद्यच् । तस्य भावः सौग्व्यम्, तत्करोतीति सौख्यकृत् ॥ १४ ॥ १५ योऽयति गामपि नाकं यस्य करग्राह्यतां जगाम पिनाकम् । यः ख्यातः परशाचः श्मशाननिलयोऽपि यो रतः परशौ च ॥ १५ ॥ य इति । अपिरनुक्तसमुच्चयार्थः । यः स्थाणुः, नाकं स्वर्ग, गां भूमिं, अपिशब्दाद् अन्तरिक्षं च । अवति रक्षति । पिनाकं पिनाकाव्यं धनुः । यम्य करग्राह्यतां त्रिलोक रक्ष,यै करेण उपादेयतां, जगाम च गतवत् । " पिनाकः श्रीमहादेवचापे शूलायायुचे । रजोवर्षे च दण्डे च" इति केशवः । यः श्मशान निलयः श्मश नं पितृवनं तदेव निल्यो वासस्थानं यस्य स तथा । श्मशानवास्यपि परशौचः अत्यन्तशुद्ध: । ख्यातश्च लोके वेढे च प्रसिद्धः । लोके हि कश्चित् श्मशानवासी चेदशुद्ध एव भवति । अयन्तु प्रत्युत श्मशानवा सित्वेऽपि नित्यशुद्ध एव । अनेनास्य लोकोत्तरस्वभावतोक्ता । यः परशौ कुठारे दैत्य शिरच्छेदनसाधकतमे, रतश्च रक्तो भवति ॥ १५ ॥ यस्य च वेकुण्ठेपु स्नेहो यस्यारिराहवे कुण्ठेषुः । गलिनोच्चारावेण स्फुटमटतो यस्य दोणि चारावेणः ॥ १६ ॥ सव्याख्ये त्रिपुरदहने यस्येति । यस्य वेकुण्ठेषु द्रोणपुष्पेषु, स्नेहश्च आल, नमलं कर्तुं प्रीतिर्भवति । यस्यारिः शत्रुः, आहवे युद्धे, कुण्ठेपुश्च कुण्ठः शख्यभेदाक्षम इपुर्यस्य स तथा । आयुधान्तरोपलक्षणभिषुग्रहणम् । कुण्ठायुध इत्यर्थः यस्य चारौ दुष्टनिग्रह करत्व. तू सुन्दरे, दोष्णि भुजाग्रे, एणश्च मृगो, विद्यते। कीदृशस्य । उच्चारावेण भगवद्वहनता- (ज्ञा?जा)तगर्वतया उच्चैस्तरः आराव: हुम्भानादो यस्य तादृशेन, गलिना वृषेण, स्पुटं यथा भवति तथा अटतः गच्छतः ॥ १६ ॥ १६ यं वा काली नमति स्कन्दोंऽशो यस्य योऽम्बिकालीनमतिः । यश्च विनायकतातः प्रमथा येनोवता विनायकतातः ॥ ॥ १७ ॥ यमिति । वाशब्द: समुच्चये। यं स्थाणुं, काली भद्रकाली, नमति वा नमस्करोति स्कन्दो गुहो, यस्यांशो वा पुत्रतया स्थितः एकदेशः । यः स्थाणुः, अम्बिकालीन- मतिः वा अम्बिकायां पार्वत्यां सक्तचितः । यो विनायकतातश्च विनायकस्य गणपतेः पिता भवति । येन प्रमथा भूतगणाः, विनायकतातः विगतो नायक: स्वामी येभ्यम्ते विनायकाः, तेषां भावो विनायकता, तम्या भयहेतोः, उद्घृताश्च रक्षिता अभवन् । स्वेन नाथवन्तः कृता इत्यर्थः । यः भृत्यक स्त्रत्रपरिवृतो लौकिकी वृत्ति- मनुवर्त्तत इत्यर्थः ॥ १७ ॥ यत्समवेता लाल्या जगतंत्र गणा युताश्च वेतालाल्या । उच्चा नीचा मुण्डीभूताः प्रेताश्च डाकिनी चामुण्डी ॥ १८ ॥ यत्समवेता इति । एवकारी भिन्नकमोऽन्ययोग व्यवच्छिनत्ति । गणाः श्रीभूतगणाश्च, प्रेताः गणविशेषाः, डाकिनो चामुण्डी च यत्समवेता एव येन स्थाणुना समवेता: परिवारतया संबद्धा एव जगता जगद्वासिना जनेन लाल्या अभिनन्दनीयाः । वन्द्या इति यावत् । भवन्तीति शेषः । अत्र डाकिनी चामुण्डीति जातिपरो निर्देशः । डाविन्य वामुण्डचश्च इत्यर्थः । तामसजातित्वान्निकृष्ट अपि भूतप्रेतादयः प्रथम आश्वासः । १७ यत्संबन्धाद्वन्या भवन्तीत्यर्थः। गगं विशिनष्टि युवा इति । वेताळाव्या वेताला नाम पिशाचविशेषाः । तेशनल्यास न च ददनुः कुण्डादिनिध युता । वेताल: लिं- रपि यत्नवे॥ यत्लन्वन्त्राच्या भवतीत्यर्थः । तथा उच्चाः गगनतल पर्यन्तदीर्घाः । नीचाः वामनाः । मुण्डी मृताः काशशेवनाः । विज्ञाननाकारा इत्यर्थः । यत्सम्बन्धाद् हीनानामपि उत्कर्षः तस्योत्कर्षः (किं) कय्यनामिति भावः ॥ १८ ॥ । शिवभक्तः श्वेतो नाम कश्चिद् ब्राह्मणो बभूव । तं मृत्युना ग्रस्यमानं भीतं शरण, थिंनम् आलोक्य परमकारुणिको भगवान् मृत्युं हत्वा तं रक्षिनवानिति पौराणिकी प्रसिद्धिः । तदेतदाह येन सशङ्कालस्यः श्वेतो जुगुपे गतो वशं कालस्य । सोऽपि स्यादपि प्रकटफला यन्निराक्रिया दक्षेऽपि ॥ १९ ॥ येनेति । येन स्थाणुना, श्वेतो जुगुपे रक्षितः । कीदृशः । सशङ्कालस्यः शङ्का भयं तज्जनितं वैवश्यमालम्यं तेन सह वर्तमानम्तथा । तत्र हेतुः गतो वशं कालस्येति । कालम्य मृत्योर्वशं विधेयतां प्राप्तः । किञ्च स्वभक्तपरिबुभूषालक्षणापराधी कालोऽपि येन स्थाणुना, रयाद् झटिति, अक्षेपि निरस्तः । निगृहीत इति यावत् । भगवन्निराकरणे कस्यापि न सौख्यमित्याह प्रकटेति । यन्निराक्रिया यस्य निराक्रिया यज्ञभागाप्रदानादि लक्षणा निन्दा, दक्षेऽपि निखिलजगद्वन्धे दक्षप्रजापतावपि प्रकटफला, किं पुनरन्येषु । प्रकटं प्रत्यक्षीभूतं फलं कार्य यम्याः सा तथा । 66 फलं फाले धने वीर्ये निष्पत्तौ भागलाभयोः । सस्ये हेतुकृते चर्मसंज्ञशस्त्र निवारणे ॥ शस्त्राणां च मुखे " इति केशवः ॥ १९ ॥ १८ सव्याख्ये त्रिपुरदहने येन रिपूष्णोदन्तस्फुटयशसोत्पाट्यते स्म पूष्णो दन्तः । घुमदामध्यक्षेऽपि क्रुध्यत्यात्मा यतोऽलमध्यक्षेपि ॥ २० ॥ येनेति । अपिशब्दो भिन्नतः समुच्चये। येन पूष्णः पूषाव्यस्य देवस्य, दन्तो दशनत् । जानावेकवचनं, दत्ता इत्यर्थः । उत्पाठ्यो स्म उत्पाटिंतः । कीदृशेन । रिपूष्णो दन्तस्फुटयशमा रिपूणामुष्णेनासन उदन्तेन वृत्तान्तेन पराक्रमलक्षणेन स्फुटं निर्विवाद यशो यस्य स तथा । तथाविधो नाम (परि )भवं न सहते इति भावः । कम्मात् पृष्णो दन्तानुत्पाटिनवानित्यत्राह - द्रुपदामिति । सदां देवानाम् अध्यक्षे स्वामिनि इन्द्रे क्रुध्यति दक्षाध्वरध्वंसात् कुप्यति सति, आत्मा शिवः स्वयं अलमत्यर्थमध्यक्षेपि निरम्तः । यतः यम्मात् तम्मादुत्पादितवान् । पूषा हि दन्तान् दर्शयित्वा हसितवान् इत्येवं पुराणेषु दृश्यते, न त्वधिक्षिप्तवानिति । अतोऽत्राधिक्षेपः सदन्तदर्शनो हास एव । हासम्यापि नन्दागर्भत्वेनाधिक्षेपतुल्यत्वात् । भगवन्निराकरणम्य फलं पूषण्यपि प्रत्यक्ष- मित्यर्थः ॥ २० ॥ 1 यस्य च विलमन्त्रच्छादनतो जगति तिमिरविलसन्नेऽत्र । लोचनमासीदच्छं लालाटं येन भुवन मासीदच्छम् ॥ २१ ॥ यस्येति । यस्य स्थाणोः, विलमन्नेत्रच्छादनतः उपपत्तिबलात् नवोढया पार्वत्या सुरतसमये बील्या विल्सनो: दीप्यमानयोः लोचनयो: विलोचनयोः छादनतः पिधानाद्धेतोः । अत्र एतम्मन्, जगति, तिमिरविलसन्ने तिमिरातत्वेन विलान्तर्गत इवा- प्रकाशीभवतीत्यथः । लालाटं ललाटे निटिले भवम्, अच्छमग्न्यात्मकत्वा ज्जाज्वल्यमानं, लोचनं नेत्रमासीच्च उत्पन्नमभूत् । तेन लोकः प्राकाश्यमापेत्याह - येनेति । लालाटलोच- नेन हेतुना भुवनं कर्तृ, शं सुखं, प्रकाशीमावात्मकम् आसीदत् प्राप्तवत् । अनेन त्रि- लोचनत्वात् लोचनानां च तेजस्त्रयत्वाच्चास्य लोकातिशायित्वमुक्तम् ॥ २१ ॥ । प्रथम आश्वासः । अतिभोनं वरतोयं महता वेगेन गलितमम्बरतो यम् । भङ्गं नेतुं गाङ्गं नैव शशाक स्थितं वने तुङ्गाङ्गम् ॥ २२ ॥ १९ , अतिभोममिति । अम्बरतः आकाशात्, महता अतिशयेन वेगेन । प्रकृत्यादित्वात् तृतीया । गलितं पतितं, अत एत्रातिभीमं भयङ्करं गाङ्गं गङ्गासम्बन्धि, वरतोयं वरमुत्कृष्टम्, स्वरूपतो महदित्यर्थः न तु पावनमिति । तम्यात्रानुपयोगात् । तोयं जलं, यं स्थाणु, भङ्गं बाधां, नेतुं न शशाक । गङ्गाहोऽपि यं स्वप्रपातधारण सामर्थ्य नेतुमशक्तोऽमृदिर्थः । तत्र हेतु:- तुङ्गाङ्गभिति । तुङ्गानि उन्नतानि अङ्गानि शरीरावयचा (नि ? वा: ) यस्य स तथा । 'अङ्गं शरीरावयचे शिरोपायनयोर्गुणे । 66 इति केशवः । महाशरीरमित्यर्थः । अम्बरत इत्यवधि निर्देश: पतनस्य दूरीभा- वैनात्यन्तासयतां द्योतयति। स्थाणुं विशिनटि बने स्थितमिति । वनेऽरण्ये स्थितं, न तु तत्प्रवाहधारणक्षभं प्रदेशे स्थितमिति भावः । ननु " यस्यापदमरनदी ताः" इत्यनेन पूर्वमेव गङ्गाधरत्वमुक्तम् । इदानीमपि भयन्तरेण तदेवीच्यते । अतोऽत्र पौनरुक्त्यं महान् दोषः स्यात् । उच्यते - पूर्वं भगवतिं गङ्गायाः प्राप्तिविहिता । इदानीन्तु प्राप्तिन ( नृ ) द्य तस्या भगवद्भ (याधारे न साधाने) सामर्थ्याभावो विधीयते इति न पौनरुक्त्यम् ॥ २२ ॥ पदयोगपाशु पतन्नस्त्रं यस्यार्जुनः पुरा पाशुपतम् । नष्टभये नाकारिवाते नाशः क्षणेन येनाकारि ॥ २३ ॥ पदयोरिति । अपिशब्दोऽत्र ध्याहत्र्यः । पुरा पूर्वमर्जुनोऽपि भूभारहिया नरनारायणयोर्नृरूपेण स्थितस्य विष्णोरंशः पार्थोऽपि यस्य स्थाणी: पदयोः पतन "(लक्षण) हेत्वोः क्रियायाः' (पा० सू० ३-२-१२६) इति हेतौ शता। दुश्चरतपश्चर्यया भगवन्तं प्रसादयन्नित्यर्थः । आशु अविलम्बितं यथा भवति तथा पाशुपतं पशुपतिर्देवता २० सव्याग्व्ये त्रिपुरदहने यस्येति पाशुपतम् । 'साम्य देवता' (पा० सू०४ - २ - २४ ) इत्यण् । पाशुपतसंज्ञम् अस्त्रम्, आपलब्धवान् । आश्विति क्रियाविशेषणम् । 'कृवापाजि' ( उ० सू० १) इत्यादिनो गूत्रत्ययः । तदन्तत् प्रथमैकवचनम् । तप्य 'क्रियाविशेषणानां च ' इति नपुंसकत्वात् 'स्वमोर्नपुंसकात् ' ( पा० सू० ७ - १ - २३ ) इति लुक् । ननु क्रियाविशेषणाद् द्वितीयैकवचनमिति केचित् । प्रथमैकवचनमित्यन्ये । कथमुभयोरुपपत्तिः उच्यते--क्रिया हि साध्यमानत्वात् कर्मकारकं भवति । तदा मृदु पचतीत्यादौ मृदु कृत्वा पचतीत्यादिरर्थः स्यात् । ततः क्रियायाः (कतृत्वात् ? कमत्यात् ) तद्विशेरगत् द्वितीयैकवचनं भवति । तथोलद्यनानत्वात् कर्तृकारकमपि भवति । तदा मृदु यथा भवति तथा पचतीत्यादि- रर्थ: स्यात् । ततः क्रिप्रायाः कर्तृत्वान् तद्विशेषणात् प्रथमैकवचनं भवति इत्युभय- मप्युपपद्यते । उक्तं च भोजेन - " न च क्रियाविशेषणानां कर्मति नियमः । किया हि यथा साध्यमानत्वात् कर्म तथा उत्पद्यमानत्वात् कर्तापि भवति । ततश्चोभयथापि क्रियाविशे- षगानि योज्यन्ते" इति। अस्त्रावाप्तिः फलवनी च सदित्याह-नष्टभय इति । अस्त्रेण करणेन नाकारिवाते नाकारीणां दैत्यानां निवातकवचाख्यानां, बाते समूहे । क्षणेन झटित्येव नाशोऽकारि। अजुनेनेति शेषः । नन्वस्त्रान्तरेषु विद्यमानेषु कुतः पाशुपतास्त्रं प्रयुक्तवानि- त्यत्राह–नष्टभय इति । नष्टं भयमस्त्र,न्तरेभ्यो भीतिर्यस्य स तथा । जगत्प्रभोर्विष्णोरप्यंशा अर्जुनादयोऽपि यत्प्रसादलाभादेव जगद्रक्षापटवो भवन्तीति भावः ॥ २३ ॥ आस्तामर्जुनादयोऽशाः अंशी विष्णुः स्वयमपि स्वाधिकारानुष्ठ, नमौकर्याय स्थाणुं प्रसादय.म।सेत्याह अर्चा रचयांचक्रे स्वचक्षुषा पूर्ण पुष्करचयां चक्रे । अतिगृध्नु मना यस्य स्वयं हरिः कर्तुमरिवधमनायस्य ॥ २४ ॥ अर्चामिति । अपिशब्दोऽत्रार्थादाक्षिप्यते । हरिर्विष्णुः स्वयमपि यस्य स्थाणोरच पूजां रचयांचक्रे कृतवान् । किमभिसन्धायाचितवा नित्यत्राह चक्रे इति । प्रथम आश्वासः । २१ । सुदर्शन.वं यच्चकं तच्छिवसंवन्धि पूर्वमभूत् । तम्मिश्चक्रे अतिगृनुमनाः अतिगृप्नु अत्यर्थ काङ्क्षणशीलं मनो यस्य स तथा । शिवाच्चकादानाभिसन्धित्युरित्यर्थः । किमर्थमम्य चक्रादित्सा इत्याह कर्तुमिति । अनायस्य आयासं क्लेशमकृत्वा । अस्विधं शत्रुनिग्रहं कर्तुम् । पुरा शिवप्रसाद नाय तपश्चरन् हरिः प्रतिदिनं नियमितसंयै पद्म: शिवार्चनरूपं तमतिष्ठत् । शिवः तस्य नियमस्थैये परीक्षार्थ अर्चनसमये पद्ममेकं तिरश्चकार । ततो हरिः तत्सच्यापरिपूरणाय स्वीयं नेत्रमुत्पाच्याचितवान् इति या पौराणिकी परिद्धिः तामनुसृत्याची विशिनष्टि स्वचक्षुषा इति । स्वम्या मनः विष्णोश्चक्षुषा उनसङ्ख्यापूरणार्थमुत्पाटितेन नेवण, पूर्णपुष्करचयां पूर्ण: पुष्कराणां पद्मानां च्यम्समूह: म्यां सा तथा । पुष्करं करिहस्ता जले वाद्यमु चे युधि । स्खेऽब्जे दिव्यसुरायां च तीर्थभेषजभेद्यः ॥ पटहे मुखे त्वन्ये पुमांस्तोंर्य च मारुते । शेषं च शोमने तु म्यात् भेद्यलिङ्गमिति स्मरेत् ॥ " इति केशवः ॥ २४ ॥ पुरा खलु जगदीशम्मन्यतया परम्परं विवढमानी हरिविरिञ्चभूताम् । ततस्तद्भवेनिर्वापणाय तयोः पुरस्त,ददृष्टोमयकोटि कं ज्योतिलिङ्ग प्रादुरभूत् । ततश्चैतदन्तं यो यति सजगदीशो मवत्विनि समयं कृत्वा तद्न्तरिक्षया हरिरस्तान विरिञ्च उपरिष्ट्राच द्वाघीयसा कालेन दवीयांसम् अचानं गत्वापि तदन्तमपश्यन्तौ यथागतं प्रत्यागताविति पुराणप्रसिद्धिमनुसृत्य भगव-महिमानमुद्वाटयति सत्वरगत्या यस्य ब्रह्मोवं हरिरधो जगत्यायस्य । अविजानानाबादौ विनिवृत्तावन्तमात्तनानावाड़ी ॥ २५ ॥ आदौ प्रथमसर्गे, ब्रह्मा विरिञ्चः, जगति ऊर्ध्वं उपरिष्टात्, हरिः विष्णु, अधः अधस्तात् । सत्वरगत्या सत्वरया सवेगया, गत्या गमनेन हेतुना, आयस्य यलं २२ सध्याख्ये त्रिपुरहने कृत्वा, यस्य स्थाणोः ज्योतिर्लिङ्गात्मना स्थितस्य अन्तमरिजानानौ अपश्यन्त्र, विनिवृत्तौ यथागतं प्रत्यागतवन्तौ । अत्रोगयोरपि अन्योन्यस्मात् पूर्वमेवैतदन्त- दिदृक्षया गतेः सत्वरमित्यवगन्तव्यम् । आचनानावादाविति तात्कालिकं विशेषणम् । शिवोत्कर्पदर्शनादात्तोऽङ्गीकृतो नानाविधो लौकिकवैदिकादिभेदा (द) नेकपकारः शिवस्तुति- रूपो वाढी वागिन्द्रियवृत्तियांभ्यां तौ तथोक्ती ॥ २५ ॥ इत्यमभिधत्सितवस्तु नायक भगवन्तमुपवण्येदानां प्रतिनायक दर्शनाय प्राप्तोऽवसर इति तदुत्पत्तिमाह अथ रतिमापुण्यन्तस्त्रयोऽय भगवन्तः । अचिरादागन्नसुगः पूर्वाणा ॥ २६ ॥ अथेति। प्रकृतार्थादर्थान्तरारम्भार्थी शब्दः । इदानीमर्थान्तरमारभ्यत इत्यर्थः । अत्र उक्तगुणविशिष्टेऽस्मिन् भगवति स्थाणी अन्तः मनसि रति कार्यान्तर चिन्तामानात " 7 बैरविहारम् आपुषि प्रप्ते सति अचिगन तारकान परमविलम्वेन त्रयः ु त्रिसङ्ख्याकाः, असुरा आसन् अभूवन् । की। अवम् अघानां पापानामोधं सञ्चयम् आपुष्यन्तः प्राप्नुवन्तः । कुर्माणा इति यावत । सदा पापमेव चरन्त इत्यर्थः । असुरान्, विशिषन् तैर्देवाः पराजिता इत्याह कुणा इति ।सोन्मिन् काले, दश दिश: आशाः, सन्नसुराः कुर्माणाः सन्नाः सुराः सुतस्तथा । असुराभिभृतैः स्वर्गमपि लयकथा पलायमानद वैरधिष्ठित त्या दिशां सन्नसुरत्वम् ॥ २६ ॥ अश्र जगदुपद्रवकरणे तेषां स्वाभाविकी शक्तिसम्पदं दर्शयन् तान् विशिनष्टि द्वाराः परमध्ये ये भक्ताः परमेश्वरे च परमध्येये । ये सुमपाता रोगास्त्रय इव तारकभुवो नपातारो गाः ॥ २७ ॥ प्रथम आश्वासः । २३ १ शूरा इति । येऽसुराः परमध्ये परेषां शत्रुणांमध्ये शरा निर्भया: । परमेश्वरे `भक्ताश्च । कीदृशे । परमध्येये परमरुत्नैः ध्येये ध्यातुं योग्ये । न तु यस्यां कस्याश्चित तामस्यां मूतों भक्ता इति भावः । अनेन तत्तदिएफलप्राप्तौ सुलभता द्योत्यते । व पुरुषकारसम्पन्नानां किमशक्यमिति भावः । ये च त्रयो रोगाः रोगहेतवो वातपित्तश्लेष्मा न्या, इव समपाताः तुल्थगतयः । ( त ? य) था वातपित्तश्लेष्मम्वन्यस्मिन् विकृते अन्यायपि विकुलतः तथैषामन्य(तरः) स्मिन् फिञ्चिकालपति प्रवृत्तेऽन्यावपि तत्सहकारिणाविन्यर्थः । उपमया चैकनत्यम्याव्यभिचारी द्योत्यते । शौर्य दिगुणयोगाद् एकैकस्याव्यकार्यनिग्रहक्षमत्त्रे सति जन्योन्यसस्कृतानां कि नामाशक्य निति भावः । ये च तारकभुवः तास्कात् नारकाव्यादरान गवन्तीति । अथ अनेनामुप्यायणन्वकथनेन सहजावादशौयांदिगुणसम्पत्तेः उत्कर्षा द्योत्यते। ईदृश्या शक्तिसम्पदा कुत्रोपक्रयते इत्यत्राह नपातार इति । गुप्युपति समासादेकं पढ़न । उक्तं च वाननेन "एकशब्दम्प्युपति समासाद् " का० ० ५. २. १२) इति । गोशब्देन वाक् स्वर्गो भूमिश्च उच्यन्ते । अत एव बहुवननप्रयोगः। बाकु चादलक्षणा । ये च गाः वाचः वेदलक्षणाः स्वर्ग भृतिं च नपातारः रक्षणशीला । पीडविवार इत्यर्थः । नपातार इति तृन्नन्तं रूपम् । वैवाधिनलं सच्चोदिनकर्मवाकया अत एवं हविभागामाबात् स्वर्गम्य बाधकत्वं, हवि मांगागावदेव दृष्टचनावेन लामाबाद् भूमेरपि बावकत्वमित्यवगन्तव्यम् । वर्गस्य तुबुद्धबेलायामुपमर्दितत्वाद् विशिष्य बाधक । लोकपीडायमेव तच्छतेरुपकार इति " भावः ॥ २७ ॥ १ शक्तिमाधातुमुपक्रान्ता इत्याह अथ ते जगत्पीडझविधौ स्वाभाविक्या शक्यैवालम्ययमलनमानाः पुनरौप, धिका वृत्तौ राजस्यां नमः पर्वताधिराजस्यान्ने । धृतरभसं तापस्यवतमधुरुदयाय भुवनमन्तापस्य ॥ २८ ॥ वृत्ताविति । ते प्रस्तुता असुराः पर्वताधिराजस्य हिमवतः । अन्ते अवसाने, अधित्यकायामित्यर्थः । तापस्यव्रतं तापसेभ्यो हितं (पं) च ग्निमध्यस्थित्यादिकं व्रतमभङ्ख्या२४ सव्याख्ये त्रिपुरदहने नुष्ठानम्, अधुः धृतवन्तः । धृतरभसमिति क्रियाविशेषणम् । श्रुतो रमसो वेगो यथा तथेति । स्वोत्पत्तिसमनन्तरमेव तपश्चेरुरित्यर्थः । 66 ' रभसस्तु पुमान् वेगे हर्षसंरम्भयोरपि । त्रि तु स्यान्महतिं द्वे तु म्लेच्छ " इति केशवः । किमर्थं तपश्चक्रु त्यत्रा - उद्याचेति । भुवनमन्तापस्य भुवनम्य भुवनवासिनो जनस्य यः सन्ताप: पीडा तस्योदयाय उत्पत्तये । लोकपीटा- सामर्थ्यलाभार्थमित्यर्थः । कथं ते पाप कर्मणि प्रवृत्ता इति शङ्कां शकलयितुं तान् विशिनष्टि - वृत्ताविति । राजस्यां रजोगुणमय्यां वृत्तांत मा) ने तम कृतक्रुद्धयः । राजम्यामित्येतत् तामन्यामप्युअलक्षणन् । राजनामसम्वभावा इत्यर्थः । हि पाप एवं प्रवृत्तिसंभाविनीति भावः ॥ २८ ॥ अथैषामुपासनाविषयो ब्रह्मा; ते प्रसजं च तं स्वाभिमतं प्रार्थयामासुरित्याह- तैः कामो देवारिप्रवर्धातुम्पति प्रोऽवारि । शक्तयाज गतावध्या स्याम वयं सामरण जगतावध्याः ॥ २९ ॥ 7 तैरिति । तैः ब्रतमनुतिष्ठद्भिः देवाविरैः धातुः ब्रह्मणः, प्रमोदे हर्षे, सति विद्यमाने । कारणभृतेन प्रमोदन कार्यभृतः प्रत्यक्षमावो लक्ष्यते । प्रत्यक्षतायां सत्यामित्यर्थ: । कामोऽभिमतोऽर्थः अवारि वृतः धातुरित्यनुवाद तेषामुपासना- विषयो धानैवेति विधिं प्रत्याययति । वरणप्रकारमाह - शक्त्येति । अज, हे ब्रह्मन्, वयं गतावध्या गतोऽपगतोऽवधिः सीमा यम्याः तया, शक्त्यास्मत्संवन्चिन्या हेतुना, नामरेण अमरैस्सहितेन, जगता जगद्वासिना जनेन, अवध्या हन्तुमशक्या:, स्याम । प्रार्थनायां लिङ् । अमराणां जगद्न्तर्भावेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् । ब्राह्मणा आयाताः वसिष्ठोऽप्यायातः इतिवत् । स्वेषां लोकोत्तरशक्तिमत्त्वं केन चिदष्यवध्यत्वं च वरयामासुरित्यर्थः ॥ २९ ॥ + प्रथम आश्वासः । ततो ब्रह्मणा किं प्रतिपन्न मित्यत्राह- स विधानेत्यर्थनतः तान् प्रत्यूचे जगद्वितेत्यर्थः । दुर्लभमन्यङ्का मन्निर्भरणत्वं लभध्वमन्यं कामम् ॥ ३० ॥ - स इति । मोऽसुरैः प्रार्थितो, विधाता ब्रह्मा, इति उक्तप्रकारेण अर्धनतोऽसुर- कृतात् प्रार्थनाद्धेतोः, तान् प्रति असुरानुद्दिश्य, ऊचे उक्तवान् । "अभितः परितः" (पा० सू० वा० २-४-४८) इत्यादिना प्रतियोगे द्वितीया । कीदृशः । जगद्विते जगते जगद्व।सिने जनाय यद्धितं श्रेयः तम्मिन्, अत्यर्थं नतः अत्यन्तं रतः। एतत् प्रार्थिताप्रदाने हेतुः । उक्तिप्रकारं दर्शयति दुर्लभमिति । अन्यङ्का न्यको दोषः, अविद्यमानो न्यको येषां तेषां सम्बोधनं । तथा। " युष्मदर्थसारा संबुद्धिः" इति न्यायात् युष्माकमिति सेत्यति । युप्माकं, (मन् ) मत्तो, निर्भरणन्त्रं मृतिरहितत्वं दुर्लभं लब्धुमशक्यम् । जगढवःयत्वे दत्तेऽन्तरस्यापि जगदन्तर्भावात् तदवश्यत्वमपि दत्तं भवति । एतच्चाशक्यमेव । देहारम्भकर्मक्षये देहपातम्यावश्यम्भवादिति भावः । अत एवोक्तं निर्मरणत्वं दुर्लभ मिति । एतदप्रदाने हेतुराक्यत्वमेव न तु युष्माकं योग्यत्वाभाव इति द्योतयितुं अन्यङ्का इत्यामन्त्रणम्। इदमेकमेव मम।प्रदेयम् अन्यत सर्व देयमेवत्याह - लभध्वमिति । अन्यं निर्मरणत्व- व्यतिरिक्तं, कामम् अभिमतं वस्तु, लमध्धं वृणुध्वमित्यर्थः ॥ ३० ॥ अथ ते भयन्तरेण जगद्वभ्यत्वमेव वव्रुरिति श्लोकद्वयेनाह २५ निरंतर्जगदे कलये तैरित्युक्तर्विचार्य जगदेकलये । जगदधिष रमेमहि ते पुरत्रये यदि कृपास्ति परमे महिते ॥ ३१ ॥ निरतैरिति । इति उक्तप्रकारेण उक्त ब्रह्मणा कथितैः, तैः असुरैः, विचार्य मिलित्वा निरूप्य, जगढ़े गदितम् । 6. · धातोरर्थान्तरे वृत्तेर्धात्वथनोपसंग्रहात् । प्रसिद्धेरविवक्ष्यत्वं कर्मणोऽकमिका क्रिया " ॥ * ' प्रसिद्धे रविवक्षातः' इति धातुवृत्त्यादिपाठ: । सव्याख्ये त्रिपुरदइने इति वचनात् भावे लिट् । कस्मै प्रयोजनायेत्यत्राह कलय इति । कलये अनर्थाय । मरणायेति यावत् । स्वेषामिति शेषः । फलित र्थकथनमेतत् । 66 66 कलिविभीतके तस्य फलेऽनर्थे च संयुगे । कलिहि श्रीरिति प्राह शब्द विच्छाकटायनः ॥ विवाहमात्रे त्वजय: कलिशब्दमभाषत । युगे चतुर्थे चालक्ष्म्याम् " इति केशवः । तेष/मभिसन्धिस्तु अन्यथेति ख्यायितुं तान् विशिष्टि - निरतैरिति । जगदेकलये जगतः एक निन् केवले लये नाशे, निरतैः जगन्नाश एकस्मिन्नेव बद्धमनस्कैरित्यर्थः । एकशब्दस्तु धीमद्भिः समाम्नातश्च केवले । प्रधाने प्रथनेऽन्यस्मिन् समानेऽल्पेऽप्यसौ पुनः ॥ एकत्वसंख्यायुक्ते स्यात् संख्येये तत्र चाप्यसौ । नित्यैकवचनान्तः स्य.दिति प्राहुः" इ ति केशवः । उक्तिप्रकारं दर्शयति - जगदधिपेति । जगदधिप ! हे जगत्वामिन् ते तव, कृपा दया, अस्ति यदि विद्यते चेत् । अस्मास्थिति शेषः । तर्हि वयं पुरत्रये पुराणां त्रितये, रमेमहि विहरेम । प्रार्थनायां लिङ् । तब करुणा चेदस्माकम् एकैकं पुरमनुगृहाणेत्यर्थः । कीदृशे पुरत्रये । परमे उत्कृष्टे, अतएव महिते पूजिते । पुरान्तरेभ्यो विशिष्टे इत्यर्थः ॥ ३१ ॥ । । तत्रोक्तं परमत्वं विवृण्वानाः कमपि विशेषं प्रार्थयन्ते पृथगहितावध्यं ते जगति चरित्याब्ददशशतावध्यन्ते । सुरसत्तम नो निलया गत्या घटनाभियुर्जित मनोनिलया ॥ ३२ ॥ प्रथम आश्वासः । पृथगिति । हे सुरसत्तम, हे देवश्रेष्ठ, नः अस्माकं ते भवदनुग्रंहविषयत्वेन पंकृता: निलयाः, पुराणि, जगति अहितावध्यं अहितैः शत्रुभिरवध्यमनिग्राह्यं यथा भवति तत्रा, पृथक् असंभूय, चरित्वा इतस्ततो गत्वा, अब्ददशशतावध्यन्ते अब्दानां संवत्सराणां दशशनानि सहस्रं तान्येवावधि सीमा तस्यान्तेऽवसाने । संवत्सराणां सहस्रे पूर्ण इत्यर्थः । जितमनोनिलया लोके मनोनिलौ हि वेगातिशये प्रसिद्धौ तावपि जितौ परिभूतौ यया तया, गत्या गमनक्रियया, घटनां सङ्ग तिम्, इयुः प्राप्नुयुः । एतदुक्तं भवति- सहस्रसंवत्सरान् शत्रुभिरपरिभान्या भूत्वा जगति पृथक् पृथक् चरितानामस्मन्निलयानां संवत्सरसहस्रसंख्यापू(रे?रके) समये वैगितया गत्या सङ्गतिरस्त्विति । वेगितगत्या संयोगे तदैव वियोगोऽवश्यम्भावीति सङ्गतिमेव वृतवन्तः ॥ ३२ ॥ २७ अथैते ब्रह्मणो मुखान्निर्मरणत्वस्याल भ्यताश्रवणात् स्वेषां वध्यत्वमङ्गीकुर्वाणास्तत्र कालस्य च साधनस्य, कर्तव्यस्य च कर्तुश्च नियमं प्रार्थयन्ते सच हन्नेह न नेन स्यादस्माकं यतिष्यते हनने नः । ताश्च भिदांमानीय स्वयमेकेनेपुणा तदा मानी यः ॥ ३३ ॥ 19 स चेति । चौ वाक्यार्थसमुच्चये। इन हे खामिन् इह अस्मिल्लोके, नोऽस्माकं, हन्ता वधकर्ता न न स्याच्च । द्वयोर्नञोः प्रकृतार्थावधारकत्वात् स्यादेवेत्यर्थः । स इत्युक्तम् । कोऽसावित्यत्राह - यतिष्यत इति । यो मानी अभिमानवान् अस्मत्प्रसरणा- सहिष्णुरित्यर्थः । स्वयं सहायानपेक्षः, तदा यस्मिन् काले पुर्यो घटनामियुः तस्मिन् काले । एकेन एकत्वसङ्ख्यायुक्तेन, इपुणा शरेण, ताः भवता अनुग्रहीप्यमाणत्वेन, प्रकृतमदः पुरं, भिदां भेदम् आनीय नोऽस्माकं हनने च वधे विषये, यतिष्यते यत्नं करिष्यति । शक्ष्यतीत्यर्थः । एतदुक्तं भवति । योऽस्मच्छत्रुः सहायान्तरनिरपेक्षः सन् पुरत्रयसंयोगकाले एकेन शरेण तत् प्रमथ्य तेनैवास्मद्वधे शक्तो भविष्यति सोऽस्मा निगृह्णीया (तू) नान्य इति । अत्र तदेत्यनेन कालस्य, एकेनेपुणा इति साधनस्य, ताइच भिदामानीयेति कर्त्तव्यस्य, स च हन्तेति कर्तुश्च नियमः कृतः । ईदृशशक्ति- योगः कस्यापि न स्यादि त्यस्माकं जगदवध्यत्वमेवायातमिति तेषांमाशयः ॥ ३३ ॥ " । A २८ सव्याख्ये त्रिपुरदहने अथैवं भवत्विति ब्रह्मणानुगृहीते तेषां प्रवृत्तिमाह वरमादाय पुराणान्नाथाद्विधये दुरासदाय पुराणाम् । पदमतिदैवमयन्ते यतोऽसुराः प्रापुरिति तदैव मयं ते ॥ ३४ ॥ वरमिति । प्रकृता दैत्याः पुराणात् चिरन्तनाद्, नाथाद् ब्रह्मणः, वरम् ईप्सितम्, आदाय गृहीत्वा, तदैव यस्मिन् काले वरो लब्धः तस्मिन् काल एव, मयं मयनामानम् असुरशिल्पिनं, प्रापुः प्राप्तवन्तः । " बरो ना भूपज/मात्रोर्देव देरीप्सिते कृधि । " : इति केशवः । किमर्थं प्रापुरित्यत्राह - विधय इति । पुराणां पुरीणां, विधये निर्मापणायेत्यर्थ: । कीदृशाय । दुरासदाय दुष्पापाय । अलभ्यायेत्यर्थः अन्येषामिति शेषः । कुतस्ते शिल्पिजनशिरोमणौ विश्वकर्मणि त्रियमाणे मयं प्रापुरित्यत्राह-पदमिति । असुराः । जातिपरोऽयं निर्देशः । (अ ? आ)सुरी जातिरित्यर्थः । यतः यस्मात् मयात्, पढ़ं पुरादिलक्षणं, स्थानम्, अयन्ते अद्यापि प्राप्नुवन्ती ति इतिहतौ । असुरजनैर्निज- शिल्पित्वेनाङ्गीकारो मयप्राप्तौ हेतुरित्यर्थः । न केवलमसुरशिल्पिवमेवेत्यस्य शिल्पातिशयोऽपि हेतुभावं भजते इति प्रकटयन् पदं विशिनष्टि - अतिर्देवमिति । देवानमिदं दैवं स्वर्गादि, दैवमतिक्रान्तम् अतिदैवं स्वर्गादेरपि विशिष्टतरमित्यर्थः ॥ ३४ ॥ अथ पुरनिर्माणे प्रयुक्तस्य मयस्य प्रवृत्तिम।ह पटुमनसा रूप्यायस्वर्ण मयं त्रिभुवनस्य सारूप्याय । रमणीयं प्राकारि प्रचिन्त्य तेन च पुरत्रयं प्राकारि ॥ ३५ ॥ पटुमनसेतिं । तेन मयेन, (वि ? प्र) चिन्त्य स्मृत्वा । सङ्कल्पमात्रेणेति यावत् । सङ्कल्प एवास्य पुरनिर्माणे सहकारी न तु वासीकुठारादिकमिति भावः । पुरत्रयं प्राकारिं कृतम् । कथं सङ्कल्पमात्रेण कृतवानित्यत्र तं विशिनष्टि - पटुमनसेति । पटु निपुणं मनो प्रथम आश्वासः । यस्य स तथा । योगप्रभावजमिह पटुत्वं विवक्षितम् । तथा च वक्ष्यति – 'मनसः सद्योगेहादू' इति । योगनभाव(व) तां किमशक्यनिति भावः । पटुमनसा करणेन प्रचिन्त्येति केचित् । लागतार्थस्यापि मनप उपादानं पटुत्य विशेषगदानार्थमिति न दोषः । न केवलं सहकार्येव, उपादानमप्यसाधारणमेवासीदिति वक्तुं पुस्त्रयं विशिष्ट रूप्यायः स्वर्णमयामिति । रूप्यं रजतम् । " रूप्यं तु की विभूषणे । आहते हेनरजनद्वये रजत एव च ॥ त्रि तु प्रशस्तरूपेऽपि रुपणीये " द्वन्द्वान परे श्रयमाणं प्रत्येकमपि सेंबध्यते " इति न्यायाद् रुप्यमयनयोमयं स्वर्णमय मिति । एतेषामन्यतमे नैव इति केशवः । मयट: प्रत्येकमपि संवन्धः निर्मातव्ये किमर्थमुपादानत्रैविध्यमङ्गीकृतमित्यत्राह - त्रिभुवनस्येति । त्रयाणां भुवनानां समाहारः त्रिभुवनम् । पात्रादित्वात् स्त्रीत्वाभावः । तस्य सारूप्याय सादृश्याय । भुवनत्रयम्य सत्त्वर्जस्तमोमयत्वात् तेषां च शुकुरक्तकृष्णरूपत्वात् त्रिरूपत्वे पुराणामपि शुकादिरूपतया तादृष्यं सम्भावयितुमित्यर्थः । अनेन पुस्त्रयप्रातिभचे भुवनान्येव पर्याप्तानि न तु पुरान्तराणि इति द्योत्ते । पुनरपि तदेव विशिनष्टि – रमणीयमिति । रचनावैचित्र्यान्नयनम(नु.नो)हारीत्यर्थः । तथा प्राकारि अतिशयिता बहवो वा प्राकारा यस्मिन् तत्तथा । अतिशायने वा भूमनि वा मत्वर्थीयः । शत्रुभिर्दुर्गम इत्यर्थः ॥ ३५ ॥ अथ पञ्चभिः श्लोकैः पुस्त्रयं वर्णयति यत्र सदानवलोकस्थायी मायावलात् स दानवलोकः । स्थितिमादायामाधद् योजनशत मानमभत्रदायामाद् यत् ॥ ३६॥ " " यत्रेति । सः प्रकृतो दानवलोक: दैत्यजनः, यत्र पुरत्रये, स्थितिं निवासम् आदाय परिगृह्य विधायेति यावत् । सदा सर्वस्मिन् काले, अमाद्यत् हृष्टोऽभूत् । यन्निवासाद्धेतोः दुःखेनानन्तरितत्वेन सुखमेव प्राप्तवा नित्यर्थः । अनेन पुराणामचिन्त्यः कोऽप्यनुभावः ३९ सव्याख्ये त्रिपुरदहने प्रत्याय्यते । दानवलोकं विशिनष्टि अनलोकस्थायी (मायाबलात्) मायायाः मयनिर्मितायाः बलाद् शक्तेर्हेतोः अनवलोकस्थायी अनवलोकमविद्यमानोऽवलो कोऽन्यकर्तृकं दर्शनं यथा भवति तथा स्थितिशीलः । मयमायावैचित्र्येण न्यैरदृश्यमानस्तिष्ठन् इत्यर्थः । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः । अथास्य परिमाणमाह - योजनेति । यत् पुरत्रयम्, आया नात् आयामो ये तमाश्रित्य योजनशत मानें चतुष्कोशपरिमितो वा अष्टक्रोशपरिमितो वा अध्वा योजनम् । इति केशत्र: उपलक्षणम् । "अथ योजनं परमात्मनि । अध्वमाने चतुष्कोशे मगधादिषु भूमिषु ॥ अष्टक्रोशं तु देशेषु कोसलादिषु मन्यते । तथा युक्तिक्रियायां च " । योजनानां शतनानं परिमाणं यस्य तत्तथा । आयामो विस्तारस्य उक्तं च श्रीमद्वयासमुनिना66 एकैकं योजनशतं विस्तृतं तावदायतम् ।" इति । अनेन पुरान्तरेभ्यो व्यतिरेको दर्शितः ॥ ३६ ॥ अथ नित्योत्सवादिमत्तया वर्णयति उल्वणनानापण वध्वनि बित्राणं वणिग्जनानापणत्रत् । द्राधीयोगुरुपरिखं यद् यत्र च केतुयष्टयोऽगुरुपरि खम् ॥ ३७॥ उल्बणेति । यत् पुरत्रयम्, उल्बण नानावणवध्वनि उल्चणः स्फुटो नानाविध: उत्सवदेवपूजाराजयात्राद्यर्थत्वात् अनेकप्रकारः पणवानां डिण्डिमाख्यवाद्यविशेषाणां ध्वनिः नादो यस्मिन् तत्तथा । 'स्फुटं प्रव्यक्तमुल्यणम्" इत्यमरः । "पणवस्त्वपि डिण्डिमे गजस्कन्धेऽपि" इति केशवः । यत्र वणिग्जनान् वाणिज्यकर्तॄणां जनानां समूहान्, । प्रथम आश्वासः । 5 बिभ्राणं दधानम् अत एव यच्चापणत्रत् निषद्यायुक्तम् । "आपणस्तु निषद्यायाम्" इत्यमरः । यच्च द्राधीयो गुरुपरिवं द्राधीयस्यो दीर्घतरा (उ?गु)र्व्यः पृथ्व्यः परिखा यस्मिन् तत्तथा । "खेये तु परिखाम्बुधौ। भूभृत्यपि इति केशवः । यत्र च यस्मिन्, केतुयष्टयः ध्वजदण्डाः, उपरि ऊर्ध्वप्रदेशे, खं नीलाकारतया प्रतीयमानम् आकाशम्, अगुः गतवन्तः । ध्वजोच्छ्रायो हि प्रशस्यनानोत्कर्षाविहां भवति । तथाहि राजानः कविभिरुपश्लोक्यन्ते उद्दण्ड इति ॥ ३७ ॥ अथ परपरिभवाविषयत्वेन वर्णयति यद्यधि नानापत्तिस्यन्दनगजवा जिवाहनानापत्ति । प्राप्य च वासव्यापद् वरूथिनी दश दिश: सवासव्यापत् ॥ ३८ ॥ यदिति। वासवी इन्द्रसंबन्धिनी, वरूथिनी सेना, युधि युद्धे निमित्ते । युद्धार्थमिति यावत् । यत् पुरत्रयं, प्राप्य गत्वा, दश दशसंख्याकाः, दिश आशाः, आपत् प्राप्तवती । नानादिक्षु पलायनमकरोदित्यर्थः । भीत्येति शेषः । युधीत्यत्र "निमित्तात् कर्मसंयोगे सप्तमी चक्तव्या" (पा० सू० वा० २-३-३६) इति सप्तमी । वरूथिनीं विशिनष्टि-नानेति । (नानापत्तिस्यन्दनगजवाजिवाहना) पत्तिः पदातिः, स्यन्दनो रथः, गजो हस्ती, बाजी तुरगः । स्यन्दनाश्च गजाश्च वाजिनश्चेति द्वन्द्वः । स्यन्दनगजवाजिनश्च ते वाहनानीति विशेषणस्वमासः । पत्तयञ्ध स्यन्दनगजवाजिवाहनानि चेति द्वन्द्व । नानाविधानि पत्तिस्यन्दनगजवाजि वाहनानि यस्यां सा तथा । शक्तिहीनत्वमेव पलायने हेतुः, न तु सामग्रीविरह इति भावः । पुस्त्रयं विशिनष्टि अनापत्तोति । अविद्यमाना आपत्ती देवसेनाकृता पीडा यस्य तत्तथा । पुरत्रयं प्राप्य प्राप्तिकार्यमकृत्वा बहिर्भागादेव पलायिता देवा इत्यर्थः । देवसेना तु नैतादृशीत्याह - सवालव्यापदिति । वासो वासस्थानम् । "अकर्तरि च कारके संज्ञायाम् " (पा० सू० ३-३-१९) इत्यधिकरणे घञ्ञ् । वासस्य व्यापत् असुरक्कृता पीय तया सह वर्तमाना तथोक्ता । असुरोपमर्दितखर्गा इत्यर्थः ॥ ३८ ॥ ३२. सव्याख्ये त्रिपुरद हने अथ रत्युद्दीपनत्वेन वर्णयति यत्र च लोलं बकुळं बन्धुत्वादिव बभार लोलम्बकुलम् । तद्रदशोकारामाः स्तनभारालसगतीरत्रोका रामाः ॥ ३९ ॥ यत्वेति । यत्र यस्मिन् पुरत्रये, बकुळं कर्तृ केसरशःखी । "केसरो बकुळी स्त्रियाम्" इति सिंहः । लोलम्बकुलं लोलम्बानां भृङ्गानां कुलं समूहं भार धृतवत् । मकरन्द- भरितमप्राचुर्याद्भृङ्गव्यासमभूदित्यर्थः । बकुलं विशिनष्टि - लोउनिति । लोलं वायु शनित्य नवनेनन् । अत्र शब्दशक्त्या भ्रमरेषु सतृष्णमिति ध्वन्यते । अत्र यथा ब्राह्मणो ब्राह्मणस्य, क्षत्रियः क्षत्रियस्य सजातीयत्वा बन्चुर्भवति तथा लऊयोरभेदाङ्गीकार विशेषग विशेष्ययोलंलिम्बकुळ- शब्दयोः (लोलम्बकुळशब्दयो::) सन्धायाभिधानात् एकपदवत् प्रतीयमानत्वेऽपि यः केसर- वृक्षः स्वयं लोलं बकुळे भवति तस्य भिन्नार्थ नपि शब्दं योलम्पकुळं तदाश्रयणेन सजातीयत्वाद् लोलम्बकुलान्तरं प्रति बन्धुत्वमुपप भवति इति लोलम्बकुलभरणे हेतुमुत्प्रेक्षते - बन्धुत्यादिवेति । एतदन्यत्र प्यतिदिशति- तद्वदिति । यद्वल्लोलं बकुळं बन्धुत्वादिव लोलम्बकुळं बभार तद्वद् बन्दुत्वादिव अशोकारानाः बभ्रुः । अशोकप्रधाना आराम।ः उपवनानि अशोकारामाः । अशोकाः तत्तदभिमतसम्पत्त्या कड़ा- चिदष्यविद्यमानदुःखाः रामाः सुन्दरी: बभ्रुः किसलयकुसुमसमृद्ध या तदानुकूल्य- माचरन्नित्यर्थः । कीदृशीः । स्तनभाराल सगतीः स्तनभारेण कुचमरेण हेतुना अलसा मन्दा गतिर्गमनं यासां तास्तथा । सर्वाङ्गसुन्दरी (रि) त्यर्थः । अत्रापि विशेषणविशेष्ययोः अशोकारामपदयोः सन्धायाभिधानात् एकत्वप्रतीतौ सजातीयत्वाद् अशोकारामाणां अशोका रामाः प्रति बन्धुत्वमुपपन्नं भवति इत्युत्लेक्षाहेतुरतिदिष्टः ॥ ३९ ॥ यत्र न मन्दा रागा भुत्रो दधानेऽपि विपुल नन्दारागांः । इतनानाकुरवापि भ्रमरीसुरवेण सुबहुना कुरवापि ॥ ४० ॥ प्रथम आश्वासः । ३३ यत्रेति । अत्र अपिशब्द वाक्यर्थ समुच्चिन्वन्तौ आभासमानं विरोधं च द्योतयतः । तत्र वाक्यार्थसमुच्चये भिन्नकौ । यत्र पुस्त्रये, रागाः विषयाभिलाषा:, मन्दाः अल्पा, न भवन्ति अपि । " रागोऽनुरागे मात्सर्ये रक्तवर्गे रजस्यपि लाक्षादिरञ्जनद्रव्ये दीतों क्लेशादिकेऽपि च ॥ " इति केशवः । तत्र हेतुं प्रकटयन् पुस्त्रयं विशिनष्टि – भुव इति । विपुलमन्दारागा विपुला महान्तो मन्दारागा मन्दाराव्या वृक्षाः यासु ताः, भुव: प्रदेशन् दधाने बिभ्राणे। प्रदेशानां कुत्सुनादिमृत्युपदव्यरूपतत्वं रागवृद्धी हेतुरित्यर्थः । , 66 भृर्भूम्यां स्थानमात्रे च सौराष्ट्रयां व्योमदेहयोः ।" इति केशवः । यत्र कुः भूमिः, सुबहुना भूयसा, भ्रमरीसुरवेण भ्रनरीणां भृङ्गीणां सुरवेण शांभनेन रवेण झङ्कारण कर्ता, अवापि प्राप्ता च । तत्र हेतुः धृतनाना- कुरवेति । कुरवो वृक्षविशेषः । कुसुमकोरकाङ्कुरा दिमत्तया नानात्वम् । यत्र मन्दा रागा न भवन्ति तत्रैव मन्दारागा भवन्ति च । यत्र भूमिः सुखयुक्ता तत्रैव सा कुरवयुक्ता चेति विरोधाभासः ॥ ४० ॥ अत्र त्रिभिः श्लोकैः मयस्य प्रवृत्तिविशेषमाह तत्र च सरना मकरोद्भूताः पङ्क्ती: स एव सरसामकरोत् । उत्पलकमलसमेताचक्रुः कामोत्सवेषु कमलसमेताः ॥ ४१ ॥ तत्र चेति । तत्र पुरत्रये,स एव मय एव,सरसां वापीनां, पङ्क्तीः आवली:, अकरोत् । तत्र तारकाक्षः कमलाक्षो विद्युन्मालीति त्रयाणामसुराणां नामानि । तत्र तारकाक्षस्य हरिर्नाम पुत्रोऽभूत् । तस्य वचनाद् मयः तत्र वापीः कृतवान् । यथोक्तं श्रीमदृव्यासमुनिना 66 तारकाक्षसुतश्चासीद्धरिनम महाबलः । तपस्तेपे परमकं तेनातुष्यत् पितामहः ॥ ३४ सव्याख्ये त्रिपुरदहने स तुष्टमवृणोदेवं वापी भवतु नः पुरे । शस्त्रैर्बिनिहतास्तत्र क्षिप्ताः स्युर्बलवत्तराः ॥ अनुजज्ञे विधाता तं जम्मुर्मयमथासुराः । सोऽपि वापीर्हरेर्वाक्यादकरोन्मय उत्तमाः ॥ 99 इति । इत्थं च यत् प्रमेयमत्रानुक्तं तं सूचयन् सरः पङ्क्ती विशिनष्टि - सरसा इति । रसो वीर्थं तत्सहिताः । ब्रह्म गोऽनुग्रहात् शस्त्रहतज (न) नैरुज्योत्पादनसामर्थ्यश लिनीरित्यर्थः । 66 रसो रागे विषे वीर्य तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ " इति केशवः । तथा मकरोइताः मकरैः झषसंज्ञैः । महामत्स्य विशेषैरित्यर्थः । उद्भूता उत्कम्पिताः । मकराश्रयत्वेन सरसां वैपुल्यमग / धता च प्रत्याय्यते । 66 मकरस्तु ना । निधिभेदे च राशौ च दशमे स्याद् द्वयोः पुनः । झषसंज्ञे जलचरे " इति केशवः । तासां रत्युद्दीपनत्वमाह - उत्पलेति । एताः सुरतोत्सवेषु, कं पुरुषम्, अलमं मन्द चक्रुः? न कमपि । समेता इति । उद्दीपनभूतैरुत्पलैः कमलैश्च समेतत्वादित्यर्थः ॥ ४१ ॥ सर: पङ्क्तयः, कामोत्सवेषु तत्र हेतु: उत्पलकमल- अपि तेन प्रतिभवनं भवभवनं दत्तनन्दनप्रतिभवनम् । व्यसनश मायातानि ध्रुवमसुरकुलान्यतः शमायातानि ॥ ४२ ॥ अपीति । तेन मयेन, प्रतिभवनं भवने भवने, भवभवनं भवस्य भवनं निकेतनं च अतानि रचितम् । किमर्थं तदित्यत्राह-व्यसनेति । (व्यसनश माय) व्यसनानामनर्थानां शान्तये प्रथम आश्वासः । ३५ अनुद्भवाय। भवभवनं विशिष्टि- दत्त इति । ( दत्तनन्दनप्रतिभवनं ) दत्ता वितीर्णा नन्दने नन्दनोयाने विषये प्राप्ता प्रतिभा इदं नन्दनोद्यानमिति प्रतीतिर्थेन तत् दत्तनन्दनप्रतिभं, तथाविधं वनं यस्मिन् तत्तथा । अत एतस्माद्धेतो, असुरकुलानि शं सुखम् आयातानि प्राप्तानि, ध्रुवं निश्चितमेतदित्यर्थः ॥ ४२ ॥ मनसः सद्यो गेहान्महासुराणां पृथक् च सद्यो गेहान् । अकृतासुरतक्षेमे न्यव मंत्रिपुरेऽत्र दत्तसुरतक्षेमे ॥ ४३ ॥ मनस इति । असुरतक्षा मयः, महासुराणां पृथक् प्रत्येकं, मनसः मनश्चित्तं सहकारितया तदाश्रित्य । ल्यचूलोपे पञ्चमी । सङ्कल्पमात्रेणेत्यर्थः । गेहांश्च गृहाण्यपि, (मुद्यः) अकृत कृतवान् । " न नोदवसितं न स्त्री गेहं पुं भूम्नि वा गृहम् । 66 इति यादवः । मनो विशिनष्टि - सद्योगेहादिति । सती विशिष्टा योगे चित्तनिरोधे ईहा व्यापारो यस्य तत्तथा । योगप्रभावः किं न साधयेदिति भावः । ते च पुराणि प्राविक्ष- न्नित्याह - इम इति । इमे त्रयोऽनुराः, अत्रेतस्मिन्, त्रिपुरे त्रयाणां पुराणां समाहारस्त्रि पुरम् । तद्धितार्थ " (पा० सू० २-२-५२) इत्यादिना समासः । पात्रादित्वात् स्त्रीत्वाभावः । तस्मिन् न्यवसन् निवासमकुर्वन् । कीदृशे । दत्तसुरतक्षेमे दत्तं सुरतस्य क्षेमो रक्षा येन तत्तथा । निवासानां रमणीयतया चोद्दीपनपदार्थसार्थसमृद्धया च रत्यनुकूल इत्यर्थः । अनेन तन्मनोरथपरिपूत्तिदर्शिता ॥ १३ ॥ अथ श्लोकद्वयेन तेषां विभागेनावस्थानमाह यो ज्यायानेषु मतः स तारकाक्षो हरेश्च यानेषुमतः । जेता काञ्चन्यायात् पुर्या द्यां वृत्तिमकृत कां च न्यायात् ॥ ४४ ॥ य इति। य एषु त्रिष्वसुरेषु मध्ये, ज्यायान् ज्येष्ठो, मतः लोकैर्ज्ञातः, स तारकाक्षः तारकाक्षो नामासुरः, काञ्चन्या काञ्चनविकारेण, पुर्या करणेन; द्यां च स्वर्गमपि, आयात् ३६ सव्याख्ये त्रिपुरदहने प्राप्तवान् । चशब्दो वक्ष्यमाणान्तरिक्षभूम्योम्समुच्चयार्थः । ननु इन्द्रे प्रियमाणे कथमसौ देवशत्रुः स्वर्ग प्राप्तवानित्यत्राह - हरेरिन्द्रस्य, जेता अभिभविता । कीदृशस्य । यानेषुमतः यानं वाहनं इपुश्शरः। उपलक्ष गमेतद् वज्रादेः । ऐरावतोपरि आयुधं गृहीत्वा स्थितस्येत्यर्थः । तारकाक्षस्य बलोत्कर्ष एव हरेः पराजये हेतुः, न तु सामग्रयभावः । किं बहुना सर्वमप्यमर्यादमेवाचरितवा नित्याह- - वृत्ति निति । चशब्दोऽलङ्कारपूरणार्थः । उक्तं च भोजेन – वा च - स्म - ह हि वै - अहो खलु - अही इत्यादयोऽलङ्कारपूरणार्थाः इति । असौ न्यायात् न्यायं मर्यादामाश्रित्य कांकृतिं प्रवृत्तिम् अकृत । न कार्माप सर्वामध्यन्यायेन कृतवानित्यर्थः : ॥ ४४ ॥ " स्वत्रशं राजत्यागात् कमलाक्ष: ग्वं च खचरराजत्यागात् । विद्युन्माल्यावस्या स्थलं भुवो भृमयः समाल्या यस्याः ॥ ४५ ॥ स्ववशमिति । अत्र पुर्येत्यनुषयते । कमलाक्षः तारकाक्षस्य कनीयान्, राजत्या रजतविकारेण, पुर्या रवं चाकःशम्, अगात् गतवान् । खं विशिष्ट स्त्रत्रशनिति। खचर राजत्यागान् खे चरन्तीनि खचराः । " चरेट: " ( पा० सू० ३-२-१६) इति टः । विद्याधराः तेषां राजानः ग्वचरराजाः । 'राजाहः सखिभ्यष्टच् " (पा० ० ५-४९१ ) समासान्तः । तेषां त्यागात् परिभूत्र निष्कासनाद्धताः । स्वशं स्वाधीनं विद्युन्माली 66 कमलाक्षम्य कनीयान् च प्रदेशमध्यगात् । आयस्या अयोविकारेण पुर्या, भुवो भूमेः, स्थलं अगादित्यनुपज्यते चशव्दश्च । काञ्चनराजतापेक्षयायः प्रसक्तं 2 न्यग्भावं तिरोधित्सुरायसीं विशिनष्टि - भूमय इति । यस्याः आयस्याः पुर्याः, भूमयः प्रदेश : समाल्याः पुष्पसहिताः । उपलक्षणमे दुत्कृष्टवस्तूनाम् । " माल्यं क्की कुसुमे पुष्पे मालायां चाथ भेद्यवत् । धायें " इति केशवः । अत्र तारकाक्षादि संज्ञाशब्दानां पूर्व केनचित् प्रमाणेन सिद्धत्वाद्विधातुं योग्यत्वेऽपि तेषां प्रसिद्ध चतिशयं द्योतयितुमुद्देश्यत्वेन निर्देशः कृत इति बोद्धव्यम् ॥ ४६॥ प्रथम आश्वासः । ३७ अथ तेषामवस्थितं निगमयन् "वृत्तिमकृत कां च न्यायाद्" इति यदुक्तं न्यायातिक्रमणं तद्विवृणोति इत्यलघोरजवरतस्त्रिजगति स जनश्वचार घो रजवरतः । आस्थायागारं भान्निजधान च तत्र तत्र यागारम्भान् ॥ ४६॥ इतीति । स जनो दैत्यजनः, अजवरतः अजस्य ब्रह्मणः वरतः अनुग्रहाद्धेतोः, अगारम् जातावेकवचनम्, अगाराणीत्यर्थ: । आस्थाय अधिष्ठाय, इति उक्तप्रकारेण, त्रिजगति चचार पर्यटितवान् । अजवरं विशिनष्टि - अलघोरिति । अलधोर्गुस्तरात् । ईदृशि दैवानुग्रहे किमशक्यमिति भावः । तत्र तत्र यत्र यत्र याग आरभ्यतेतस्मिंस्तस्मिन्, यागारम्भान् यज्ञारम्भान्, निजघान च भग्नानकरोत् । तत्र तत्र "नित्यवीप्सयो:" (पा० सू० ८-१-४) इति वीप्सायां द्विर्वचनम् । वीप्सया यज्ञभङ्गस्य कचिदपि व्याप्तिभङ्गो नासीदिति द्योत्यते । जनं विशिष्टि - घोरजवरत इति । घोरे भयानके जवे वेगे रतः । यावता वेगेन एकक्षण एव निखिलयज्ञभङ्गो भवेत् तावता वेगेन युक्त इत्यर्थः । । "वोरस्त्रिषु भयानके । "" कष्ट इत्यपरे द्वे तु सृगाले क्ली तु कुङ्कुमे । इति केशवः । तथा भान् जगत्रयेऽपि केनचिदप्यवार्यवीर्यत्वाद् द्योतमानः ॥ ४६ ॥ अथ द्वाभ्यां श्लोकाभ्यामसुरैर्लोकत्रयवासिनो जना बाध्यन्ते स्म इति भयन्तरेणाहप्रेक्ष्य पुरस्ता देवप्रवराः सञ्चारिणीः पुरस्तादेव । यद्यपि विप्राचल्या: स्पर्धा दधुरेव सह च विप्रावल्या ॥ ४७ ॥ • प्रेक्ष्येति । देवप्रवराः श्रेष्ठाः इन्द्रादयः, पुरस्तादेव स्वेषामग्रत एव, न तु यत्र कुत्रचित् प्रदेशान्तरे । सञ्चारिणीः पुनः पुनः सञ्चरन्तीः । " बहुलंमाभीक्ष्ण्ये " (पा०सू०३-२-८१) इति णिनिः । ताः पुरः पुरीः, प्रेक्ष्य प्रेक्षणाद्धेतोः, विप्राबल्याः विगतं प्राबल्यं प्रकृष्टबलत्वं येभ्यस्ते तथा, हीनशक्तयः, यद्यपि त्रिप्रावल्या च विप्राः ब्राह्मणास्तेषामावलिः समूहः तया। चशब्दादन्तरिक्षवासिना जनेन च सह स्पर्धा दधुः सङ्घर्षं धृतवन्तः । ३८ सव्याख्ये त्रिपुरदहने 66 'बहूनां क्षुद्रसाराणां समवायोऽतिदारुण: । " इति न्यायाद् विप्रावलीसहाया: स्पर्धन्ते स्मेत्यर्थः । ननु क्त्वाप्रत्ययस्य वाच्योऽर्या भाव एव। ''अव्ययकृतो भावे भवन्ति इति वचनात् । द्योत्योऽर्थस्तु पूर्वकाल एव । "समानकर्तृकयो: पूर्वकाले " (पा०स०३ - ४ - २१) इत्युक्तत्वात् । तदतिरिक्तोऽर्थस्ततो न प्रतीयते । तत् प्रेक्ष्येत्यस्य कुतस्त्येवं हेत्वर्थता । उच्यते - क्त्वाप्रत्ययेन भाव एवोच्यते । पूर्वकाल एव घोत्यते । नान्धः कश्चित् । हेत्वर्थता तु वाक्यार्थसमय तू () क्षिप्तव । किञ्च नियतपूर्वभावि कारणं नियतपश्चाद्भावि कार्यमिति हि न्यायविदः । अनेन क्त्वाप्रत्यवान्तम्य हेत्वर्थतायामेवोपपत्तिः । क्वचिद्धेत्वर्थता दृश्यते । अत्रानुयोगो न युक्तः ॥ ४७ ॥ स्पर्धा दधुरित्युक्तं, तद्विवृणोति ताच विमाननाना दृष्ट्वा ते चाभवन् विज्ञानमनानाः । ता अपि सुरतन्यागञ्चक्रुस्तैरप्यकारि सुरतत्यागः ॥ ४८ ॥ ता इति । अत्र प्रथमश्चशब्दः पादपूरणार्थ: । उक्तं च भोजेन "क, ईशित इ, उ, तु, हि, च इति पादपूरणार्था" इति । द्वितीयः पादपुरणार्थ एवं सन्नपि आभासमानानुष्ठितानुष्ठ.नकर्तृसमुच्चयाभासार्थश्च। अपिशब्दौ तु देवसमूहापराधसंभोगत्यागलक्षणकर्मसमुच्चयार्थांवपि आभासमानानुष्ठितानुष्ठानकर्तृसमुच्चयाभासार्थो च । अत्र कृस्वस्तीनां कारकाणां च नित्यसंबन्धाद् भवन्तीरिति सिध्यति । ताः पुरी: विमानसमाना: भवन्तीः विमानर्देवयानैः समानाः कामगत्वादिना सदृशीस्सती:, दृष्ट्वा ते देवा, विमानसमाना अभवन् । तत्कृतपीडानिवारण/सामर्थ्याद् विगतो मानसो मनसि भवो मानोऽभिमानो येषां ते तथा । मनम्यपि मानस्थितेरभावे बहि: स्थिति प्रति का कथा इति द्योतयितुं मानस (ते: स्वे) न मानो विशेषितः । ताः पुर्यः, सुरतत्यागोऽपि सुराणां देवानां ततौ समूहे विषये आगः क्रतुभङ्गादिलक्षम् अपराधं, चक्रुः कृतवत्यः । तदेवैः सुरतत्यागोऽपि सुरतस्य संभोगस्य त्यागः त्यजनं च, अकारि कृतः । असुरैः पीडितत्वादेव नष्टमुखा बभूवुरित्यर्थः । ता विमानसमाना दृष्ट्वा ते च विमानसमाना अभूवन् । ता अपि सुरतत्यागश्चक्रुः । ततस्तैरपि सुरतत्यागोऽकारि इति शब्दोऽनुष्ठितानुष्ठानाभासः । तदपेक्षया स्पर्धा दधुरित्युक्तियुक्तिमती भवति ॥ ४८ ॥ प्रथम आश्वासः । अधासुरोपद्रुतः शक्रः युद्धायौद्युक्तवानित्याह- अथ पुरतोऽगरपाता स्वचमृश्चलयन् सवाणतोमरपाताः । सुदुरासदमारेभे स्थितः स्वयं योद्धुमसुरसदमारेभे ॥ ४९ ॥ अथेति । अथ असुरपीडानन्तरम्, अमरपाता अमरान् पाति रक्षति तच्छीलः, अमरपाता इन्द्रः । तृन्नन्तं रूपम् । असुरसदमा असुरसमूहेन सह, योद्धगारेभे उपक्रान्तवान् । कीदृशः । पुस्तः अग्रे, स्वचम्ः देवसेनाः, चलयन् युद्धाय निर्गमयन् । णिचा चमूनां युद्धं प्रत्यनुद्युक्तता द्योत्यते । तथा स्वयं सुदुरासदार सुदुरासदे सुदुष्प्रापे दुरभिभव इत्यर्थः । अत एव सारे उत्कृष्टे इमे गजे ऐरावते स्थितः आसीन: । चमूविंशिनष्टि - सवाणेति । स्वाणतोमरपाताः तोमर आयुध विशेषः । बाणाश्च तोमराश्चेति द्वन्द्वः । तेषां पात: तथा बाणतोमरपातेन सह वर्त्तमानः तथा सबाणतोमरपाताः पतनं यासां तास्तथा । उपलक्षणमेतढायुधान्तरम्य । गृहीतनिखिलायुधा इत्यर्थः ॥ ४९ ॥ अथ युद्धोद्युक्तमिन्द्रं दृष्ट्वा दैत्या अपि युद्धोधुक्ता बभूवुरित्याह – पेतुस्साध्यवसायाः क्षेप्तारो जगति सिद्धसाध्यवसायाः । अतिकटुकवचोरमिते देवबले दानवाः सकवचोरसि ते ॥ ५० ॥ पेतुरिति । ते प्रकृता दानवाः, देवबले देवस्य इन्द्रस्य बले सैन्ये विषये, पेतुः देवबलं प्रति योद्धुं पुरत्रयं जम्मुरित्य: । कीदृशाः । साध्यवसायाः अध्यवसायेन देवान् जेप्याम इति निश्चयेन सहिताः । तथा जगति सिद्धसाध्यवसायाः सिद्धाः साध्याश्च देवविशेषाः तेषां वसायाः क्षेप्तारः खण्डयितारः । वसा नाम शरीरान्तर्गतो धातुभेद: । सिद्धसाध्योपादान मन्येषामप्युपलक्षणम् । देवानां पीडयितार इत्यर्थः । न तु स्वर्गस्थाना मेवा भिनिहन्तारः चतुर्दशभुवनेषु यत्र कचिन्निलीनानामध्यन्विष्य निहन्तारः इति द्योतयितुं जगतीत्युक्तम् । देवबलं विशिनष्टि – (अतिकटुकवचोरसिते) अतिकटुकं अतिकरं वचो रे दानवापशदाः ! युद्धाय निर्गच्छत इदानीमेव युष्मच्छरीराणि गृध्रादीनां प्रातराशाय सव्याख्ये त्रिपुरदहने विभज्य दास्याम इत्यादिवचनं रसितं सिंहनादश्च यस्य तत्तथा । तथा सकवचोरमि कवचेन उरस्त्राणेन सह वर्त्तमानं उरो वक्षः प्रदेशो यस्य तत्तथा । युद्धसन्नद्ध इत्यर्थः ॥५०॥ अथ देवा असुराश्च योद्धप्रतियोद्धृभावेन समागच्छन्त इत्याह ४० क्षुभितांम्बुद्धयालोके गम्भीरे विस्तृते च बुद्ध्या लोके । परुषगिरा जघटाते सुरराजघटा च दनुजराजघटा ते ॥ ५१ ॥ क्षुभितेति । (सुरराजघटा) सुरराजस्य इन्द्रम्य घटा अर्थात् सेनासमूह, दनुजराजघटा दनुजराजानां तारकाक्षादीनां घटा च, ते उभे, परुषगिरा परुषया श्रुतिकटुकया गिरा वचनेन सह जघटाते अन्योन्यं सङ्गते बभूवतुः । घटाद्वयं विशिनष्टि क्षुभिनेति । आलोक्यत इत्यालोको रूपं क्षुभितो विकृताम्बुः अम्बुधिः समुद्रः तस्यालोक इवालोको ययोस्ते तथा । क्षुभितसमुद्रवदप्रधृप्यक इत्यर्थः । तथा लोके जगति, बुद्धया धिया, गम्भीरे अगाधे, विस्तृते च विस्तारशालिन्यौ । न केवलं रूपमात्रेण बुद्ध्यापि समुद्रतुल्ये इत्यर्थः ॥ ५१ ॥ अथ चतुर्भिः श्लोकैयुद्धं वर्णयति सत्फलकरत्वामिप्रवरैः समरे न सैनिकैरवासि । उन्नदता चापेन प्रणतिर्गुणिना धनुर्भृता चापे न ॥ ५२ ॥ सत्फलर्करिति । अत्र देवासुरकर्तृके, समरे युद्धे, असिप्रवरैः असिषु खड्ङ्गेषु मध्ये प्रवरैः श्रेष्ठैः,अत्रासि । (सैनिकैः नात्रासि) असिप्रवरसैनिकान् विशिनष्टि – सत्फलकेंरिति । सन्ति परप्रहारनिपुणत्वाद् उत्कृष्टानि फलकानि चर्माणि साहचर्येण वा देहत्राणसाधनतया वा येषाम् असिप्रवराणां च सैनिकानां च तैः तथा । शत्रुन् प्रहर्तुमसीनां चलने च सैनिकानां भयाभावे च सत्फलकत्वं हेतुः । चापेन धनुषा, प्रणतिः आकर्णकर्षण, त् कौटिल्यम् आपे प्राप्ता। (धनुर्भुता च प्रणतिः न आपे न प्राप्त ) । धनुषः कौटिल्ये च धनुभृतो नमनाभावे च हेतुर्गुणिनेति । गुणो मौर्वी शौर्यादिश्च । उन्नदत्तेत्येतदप्युभयसाधारणं विशेषणम् उन्नदता शब्दायमानेन । धनुष: शब्दष्टङ्कारः, धनुर्भूतः सिंहनादः ॥ ५२ ॥ ." प्रथम आश्वासः । अव्यथितः सद्योद्धा पदमकृत द्वेष्टुरग्रतः सद्योद्धा । घटया शैलीमुख्या दलितोऽप्येषा सुभटशैली मुख्या ॥ ५३ ॥ अव्यथित इति । (अव्यथितः सद्यो द्धा पदमकृतेति ? ) । शिलीमुवाः शराः तेषामियं शैलीमुखी । >> " पुल्लिङ्गः स्याच्छिलीमुखः शरे मधुकरे च द्वे । " इति केशवः। शैली मुख्या घटया समूहेन, दलितोऽपि त्रणितोऽपि, सद्योद्धा सन् विशिष्टो योद्धा, सद्यः शरपातसमय एव, द्वेष्टुः प्रहर्तुः, अग्रतः पुरस्तात्, अद्धा प्रत्यक्षं, पदं पद- बिन्यासम्, अकृत कृतवान् । शरनिकस्त्रणिताङ्गोऽपि पराङ्मुखो नाभूदित्यर्थः । कीदृशः । अव्यथितः बीर्थयत्त्वेनाविदितव्यथः । अस्य युक्ततां समर्थयितुम् अर्थान्तरमाह - एषेति । महत्यपि कृच्छ्रे द्विपतः पुरोऽवस्थितिः मुख्या श्रेष्ठा, सुभटशैली हि, सुभटानां सद्योद्धणां शैली खभावः । शीलमेव शैली । "प्रज्ञादिभ्यश्च" (पा० सू० ५ - ४ ३८) इति स्वार्थेऽण्प्रत्यः। स्वार्थिकाश्च प्रकृ (ति)तो लिङ्गवचनान्यतिवर्त्तन्तेऽपि इति स्त्रीलिङ्गता ॥५३॥ ८ क्षुधितेनापि शितेपुव्याप्तेषु विलम्बनं शुना पिशितेषु । प्रियमशनं प्रत्यूहे न विषक्तं किं प्रयोजनं प्रत्यूहे ॥ ५४ ॥ क्षुधिनेनेति । शुना सारमेयेण, क्षुधितेनापि बुभुक्षितेनापि, पिशितेषु मांसेषु, प्रियम् इएम्, अशनं भक्षणं, प्रति विलम्बनं कालक्षेप ऊहे । शितेपुव्याप्तेष्विति । शितैर्निशितैः इषुभिश्शरैः व्याप्तेषु । शल्यनिकरप्रोतेवित्यर्थः अर्थान्तरमाह - नेति । किं प्रयोजनं फलं, प्रत्यूहे विघ्ने, न विषक्तं व्याप्तं भवति । सर्वमपि प्रयोजनं प्रत्यूह- व्याप्तमेवेत्यर्थः । विघ्नोऽन्तरायः प्रत्यूहः " इत्यमरः ॥ ५४ ॥ 66 वानः कानकवलयं निष्क विशेषांश्च हाटकानकवलयन् । मत्वामी मांसानि स्फुटं तिरवां मनांस्यमीमांसानि ॥ ५५ ॥ श्वान इति । अमी रणभूमौ वर्त्तमानाः, श्वानः कौलेयकाः, कानकवलयं कानकं कनकविकारं वलयं कङ्कणं, हाटकान् स्वर्णविकारान्, निष्क विशेषान् उरोभूषणं ४२ सव्याख्ये त्रिपुरदहने निष्कः तद्भेदान् । मांसानि रक्तवर्णसाम्यात् पिशितानीति मत्वा अकबलयन् दटवन्तः । "निष्कोऽस्त्री हेम्नि दीनारे साष्टकर्षशते पंले । अजयश्शाश्वतश्चैनं हेन्न एव पलेऽपठीत् ॥ "" वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि । इति केशवः । कनकवलयादौ रक्ततासाभ्यात् अलङ्कारः । उक्तं च काव्यप्रकाशकृता मांसमविदुत्पत्तरत्र आन्तिमानत्रान्तिमानन्थसं वित्तत्तुल्यदर्शने " ( १० - ४६) इति । शुनामेति (?) समर्थयितुम् अर्थान्तरं न्यभ्यति स्फुटमिति । तिरवां तिर्यग्योनिजातानां, मनांसि अमीमांसानि मीमांसा विचार सहितानि । स्फुटं निश्चिनम् एतत्। मीमांसेति "मान्यधदानशानभ्यो दीर्घश्चाभ्यासम्ब'' (पा० सू० ३-१-६) इति "मानेजिज्ञासायाम्" (वा० ३ - १ - ६) इति वचनात् जिज्ञासायां सन्प्रत्ययः । " घातो" रित्यधिकृत्य विधानाभावेन आर्धधातुकसंज्ञाभावाद बलादित्वेऽपीडभावः । 'अ प्रत्ययाद् ' (पा० ० ३-३-१०२) इत्यासत्ययः । 66 "अथ मीमांसा वेदवाक्यार्थचिन्तक । शास्त्रे विचारणायां च इति केशवः ॥ ५५ ॥ युद्धे देवाः पराजिता आसन्नित्याह 1 66 तत्र च सा दिव्यापत्सेना भङ्गं सनागमा दिव्यापत् । अपि नानाककुभोऽगाच्छको निर्व: मेत्य नाककुभोगात ॥ ५६ ॥ चमूः, तत्रेति । तत्र युद्धे, मा युध्यमाना, दिव्या दिवि भवा, सेना भङ्गं च पराजयं चकारात् पलायनं च, आपत् प्राप्तवती । कीदृशी । सनागसादिव्यापद् नागा गजा:, सादिनोऽश्वारोहाः । उपलक्षणमेतत् स्थानां पत्तीनां च । तेषां व्यापदा चरणाद्यङ्गभङ्गमरणादिलक्षणया विपदा सह वर्त्तमाना । न केवलं सेनैव, शक्रः स्वयमपि पराजित इत्याह – अपीति । शक्रोऽपि इन्द्रः स्वयमपि, नाककुभोगात् नाकस्य स्वर्गस्य कुत्सिताद् असुरैः पीड्यमानत्वेन गहिंताद् भोगाद् अनुभवाद्धेतोः । प्रथम आश्वासः । ४३ निर्वेदं विषयवैराग्यं, एत्य नानाककुभः नानाविवाः ककुम: दिशः, अगान् गतवान् । एकस्यां दिशि स्थितेनेंयत्ये दैत्यास्तावदा गत्य पीडयिष्यन्तीति मत्वा शकस्य नियमेन दिक्षु स्थितवानिति द्योतयितुं नानार्थेन ककुभो विशेषिताः ॥ ५६ ॥ जगदीश्वरा विष्ण्वादयोऽपि परिभूता इत्याह असुररुचक्रोऽधवक्रे तक गणि रुचक्रोधः । द्रुतवानवान गुणोऽप्यतः के हि तव न त्रामनगुः ॥ ५७ ॥ असुरैरिति । तैः प्रकृतैः असुरैः चक्रपाणिर्विष्णुः अधश्चक्रे , " अधोऽधस्तान्नीचैः कृतः । परिभूत इति यावत् । कीदृशः । उच्चक्रोधः उच्चः उच्चैर्मृतोऽतिशयितः क्रोधो यस्य स तथा । अत एव उच्चक्रः अरिशिरश्छेदार्थ- मुद्धृतं चक्रं सुदर्शनं येन स तथा । अत्र एतस्मिन् युद्धे, असमगुः असमा विषम।स्त्रिसङ्ख्यात्वादयुग्मा गावी नेत्राणि यस्य गणम्य स तथा । गणोऽपि एकादश- रुद्राणां वर्गाऽपि, द्रुतत्रान् भीत्या पलायते स्म । महेश्वरांशत्वाद्रुद्वगणान् प्रति पराजयस्यात्यन्ता- संभाव्यतामपिशब्दो द्योतयति । ( के हि तत्र न त्रामसगुः) इति । सर्वेऽपि त्रासं गतवन्तः । हिशब्द इतिहासप्रसिद्धिं द्योतयति । ननु परमेश्वर एव एकादशरुद्ररूपेण वर्त्तते । तस्यात्र पराजयकथन मध्यनुचितमेव इतिवृत्तनायकत्वात् । उच्यते - अंशिनः परमेश्वरस्य पराजयकथन एवानौचित्यम् । एकादशरुद्रा हि परमेश्वरांशा एव । तेषां पराजयकथने नानौचित्यम् । अन्यथेन्द्रादीनामपि पराजयो न वर्गनीय: स्वात् । तेषामपि परमेश्वरांशत्वात् ॥ ५७ ॥ अथ न केवलमसुरैः कर्मिण एव, योगिनोऽपि वाध्यन्ते स्मेत्याहL अभजत मानसमाधिः स्थिरमपि यमिनां विहीयमानसमाधि । प्रोज्झ्य शुचा रुचमूषुः स्वर्गसझे गवि हतासु चारुचमूषु ॥५८॥ अभजतेति । आधिर्मन:पीडा, स्थिरमपि विषयेभ्यः प्रत्याहरणान्निश्चलमपि, यमिनां योगिनां, मानसं चित्तम्, अभजत श्रितवान् । तत्र हेतुः - विहीयमानसमाधीति । विहीयमानोव्याख्ये ऽसुरभयात्त्यज्यमानः समाधिः ऐकाव्यं येन तत्तथा । दिव्या सेना भङ्गमापदित्युक्तम्, ततः सा किमकरोदित्यत्राह – प्रोज्येति । स्वर्गसदो देवाः, चारुचमृणु चापु शौर्यादि- गुणयोगात् सौन्दर्यशालिनीषु, चमूपु, हतासु दैत्यैर्निगृहीतासु सतीपु. शुचा नाहनन- जनितदुःखेन हेतुना रुचं मुखकान्तिं प्रोज्य त्यक्त्वा गवि स्वर्गे वस्तुमशक्यत्वात् भूमौ, ऊषुः वासं कृतवन्तः ॥ ५८ ॥ "शको नानाककुभोऽगाद् " इत्युक्तम् । ततः कीदृगस्थावस्थानमित्यत्राह - हरिरपि नानाहारस्फुरितः प्राग्भूषण विनानाहारः । प्रविवेश ऋत्वन्ते शोकसमुद्रं धुश्च शऋत्वं ते ॥ ५९ ॥ ४४ हरिरिति । हरिरपि इन्द्रश्च, क्रत्वन्ते ऋतूनां यज्ञानामन्ते नाशे सति, शोकसमुद्रं समुद्र इवादृष्टपारत्वात् अम्बुधिरिव यः शोकः दुःखं तं, प्रविवेश प्रविष्टवान् । कीदृशः । प्राक् ऋतुनाशात् पूर्वं नानाहारस्फुरितः नानाविधैश्चरुपुरोडाशादिभेदाद् बहुविषैराहारैः हविर्भागलक्षणैरन्नैः स्फुरितः उपचि(ता?तका) यत्वात् प्राप्तशोभः । अत एव नानाविधैः हार्मुक्तादामै: म्फुरितः इति चार्थद्वयमावृत्तिमाश्रित्याभिधातव्यम् । हारी भूषणान्तरस्याप्युपलक्षणम् । भुक्ताः कामेन बाध्य. ते " इति ग्वायाद् देहसंस्कारादावाम्थायुक्त इत्यर्थः । 66 "हरिन विष्णुसूर्येन्द्र चन्द्राग्नियमवायुषु । . अशौ शॠहये मुझे रुक्मे रुक्माभवर्णके ॥ श्वेते वररुचिर्वणं म्रुते तु जयमङ्गलः । हरिद्वर्णेऽपि कपिले त्रिपु त्वेष गुणैयुते ॥ एतैश्चतुमि त्वेष मर्त्यजात्यन्तरे भवेत् ॥ शूद्रा निषादजे सिंहकपिभेकशुकादिषु । अश्चेऽश्वभेदे हरितपीतवर्ण" इति केशवः । अत्र प्रागित्युक्तिरेव पश्चादिति पदमा क्षिपति । पश्चात् ऋतुनाशात् परन्तु अनाहारो यज्ञाभावादू भोजनरहितः, अत एव भूषणैरलङ्कारैर्विना विनाभूतः । C+ 'वीणा वेणुदर्शनीया च नारी शय्या यानं चन्दनं चन्द्रविम्बम् । प्रथम आश्वासः । इति न्यया देहसंस्कारावस्थारहित इत्यर्थः । देवान् पराजित्यासुराः बैलोक्येश्वरा बभूवुरियाह- दुधुरिति । ते दैत्याः, शऋत्वम् इन्द्रवं, दधुः धृतवन्तः ॥ ५९॥ पराजिता देवाः किमकुर्वन्नित्याह29 न भ्राजन्ते क्षुत्पिपासार्दितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ सा जनता परतापि स्वान्तं विपि प्रतापरतापि । प्रभुमा प्रतिष्ठितं तज्जजाय पावननाम ॥६० ॥ मेति । सा त्यैः परिभूता, जनता जनसमूहः, देववर्गः, परतापि (स्वान्तं बिभ्रत्यपि प्रतापरतापि दरादेवारीणां भयजनकत्वं प्रतापः तत्र स्तापि । नयशौर्य सम्पन्नापीत्यर्थः । प्रतिष्टितं काशीदक्षिण कैलासादिस्थानेषु निमासु कृतसन्निधानं, प्रभुं परमेश्वरमाप शरणं प्राप्तवती, अवननाम प्रणालमकरोच । तत लोकवेदप्रसिद्धं, पावननाम पावनं सकृदुच्चारणमात्रेणापि शुद्धिकरं यत्र नाम नमाया येति तत्, जजाप सदैव तदुच्चरितयती च । एतदुक्तं भवति – देवास्तावन्नयशौर्ययुक्तत्वेऽपि असुराक्रमणन्य दुर्निवारत्वात् पुरुषकारस्याकिञ्चित् करतामवगम्य दैवमेव शरणमिति मन्यमानाः प्रतिमासु कृतसन्निधानं परमेश्वरं प्राप्य जपनमस्कारादिलक्षणं तपश्चकुरिति । उक्तं च इत्यादि । ६० ॥ श्रितवन्त इत्याह 66 " दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः । " "" अथ द्वाभ्यां इलोकाभ्यामसुरा लब्धस्यैश्वर्यस्य स्थिरीकरणाय परमेश्वरभक्तिमेवा- असुरैरुद्धतरागस्थितैर्वितन्वद्भिरपि विरुद्धतरागः । घृतपरशौ चेतःस्थे जगत्प्रभौ सततमेव शौचे तस्थे ॥ ६१ ॥ 29 सव्याख्ये त्रिपुरदहने , , असुरैरिति । उद्धृतरागस्थितैः उद्धते उच्छृङ्खले । अनियन्तव्य इति यावत् । रा विषयाभिलाषे, स्थितैरवस्थितैः अपि तदा विरुद्धतरागः विरुद्धतरं शौचं प्रत्यत्यन्तविरुद्धं यदागो यज्ञमङ्गादिलक्षणं पापं तद् वितन्वद्भिः कुर्बाणैः अप्यसुरैः सततमेव सदैव, शौचे उत्कर्षहेतौ शुद्धतायां तस्थे अवस्थितम् । तत्र हेतुमाह - धृत- परशाविति । घृतपरशौ धृतः परशुः कुठारो येन स तथा। परशुर्मुगादेरुपलक्षणम् । " बिश्रदोर्भिः कुठारम्" इत्यायुक्तलक्षणमित्यर्थः । जगत्प्रभौ परमेश्वरे, चेतःस्थे सतत- चिन्तनेन हृदयस्थिते सति । तेषामत्यन्ताशुचिताहेतौ पापकर्मपरत्वे विपयकपरत्वे चापि भगवद्ध्यानं शुद्धिहेतुरासीदित्यर्थः ॥ ६१ ॥ ४६ जित्वा देवप्रभृतिद्विषतो मेरौ दुरासदे वप्रभृति । यदवापुरहरहस्ते धनं तदम्विलं न्यधुश्च पुरहरहस्ते ॥ ६२ ॥ जित्वेति । ते दैत्याः, वप्रभृति सानुयुक्ते, अत एव दूरामदे दुष्प्रापे, मेरौ । तन्मूर्धम्थे स्वर्गे इति यावत् । देवप्रभृतिद्विषतः प्रभृतिशब्देनोपदेवाः सिद्धविद्याधरा गृह्यन्ते तान् जित्वा । अहरहः । 'कालाध्वनो: (पा० सू० २-३- ५ ) इत्यादिना द्वितीया । 'नित्यवीप्सयोः' (पा० सू० ८-१-४) इति द्विवचनम् । प्रतिदिनम् । यद्धनमवापुः प्राप्तवन्तः, तदखिलं, पुरहरहस्ते शिवस्य हस्ते, न्यधुः निहितवन्तः । हस्ते इति लोकोक्त्यनुसारेणोक्तिः । 'मासानन्यान् गमय चतुरो लोचने मीलयित्वा " । . इतिवत् । परमेश्वरो नः प्रीयंतामिति सर्वस्वं भगवते समर्पयामासुरित्यर्थः । 66 * वप्रवाक् पुनः । अस्त्री क्षेत्रे वास्तुभूमौ प्राकारे सानुरोधसोः ॥ " इति केशवः ॥ ६२ ॥ अथ ऋतुवर्णनादे: काव्यलक्षणत्वात् तस्येदानीमवसर इति तद्वर्णनमारभते । तत्रादौ पञ्चभिः श्लोकैः ऋतून् वर्णयति । तत्राद्येन ऋतूनां सामान्येनाविर्भावः कथ्यते । 30 प्रथम आश्वासः । पुनर्वाभ्यां पूर्वोतरार्धेसन्तायाः चत्वारः । ततो द्वाभ्यामेकैकेन हेमन्तः शिशिरध वर्ण्यते स्वगुणमपारं पर्याकर्षन्ती दत्तगुच्छपारम्पर्या । तं जनमाप शुभर्तुश्रेणी किङ्करमनुत्तमा पशुभर्तुः ॥ ६३ ॥ स्वगुण इति । तं त्रिजगज्जेतारं, जनम् असुरसमूहं, ऋतुश्रेणी ऋतूनां चसन्तादीनां कालवयव विशेषाणां श्रेणी पङ्क्तिः, आप प्राप्तवती । सेवितुमिति शेपः । जनं विशिनष्टि – पशुभर्तुः। पशुवत् कर्मपाशबद्धा जीवात्मानः पशवः तेषां भर्ता नियामकः परात्मापरपर्यायः परमशिवः पशुभर्ता तस्य । किङ्करं दासम् । शिवभक्ताप्तिर्हि सर्वैरप्य भिलपणीया । तस्मादृतूनां तत्याप्तिरुचितैवेति भावः । ऋतुश्रेणीं विशिनष्टि – अपारम् अनवधिकम् । स्त्रगुणम् जातावेकवचनम् । स्वगुणानित्यर्थः । दोषप्रतियोग्युत्कर्षावहः पदार्थो गुणः । स्वम् आत्मीयं गुणं कुसुमकिसलयादिशालित्वादिकं, विवृणोति - दत्तंति परम्परैव पर्याकर्षन्ती परितः प्रसारयन्तीत्यर्थः । गुणान् पारम्पर्यम् । 'चातुर्वर्ण्यादीनां स्वार्थे उपसख्यानम् 66 (पा० सू० वा० ५-१-१२४ ) इति प्यञ् । दत्तं वितीर्णन् । आविष्कृतमिति यावत् । गुच्छानां स्तबकानां पारम्पर्य समूहो यया सा तथा । उपलक्षणमेतत् फलकिसलयादे: । अत एव शुभा मनोहारिणीत्यर्थः । अत एव अनुत्तमा न विद्यते उत्तमा यस्याः सा तथा ॥ ६३ ॥ लक्ष्मीर्वानं तेने सरसिरुहां मण्डले च वासन्तेने । रविकरविधुरं शुचितः स्वकरैर्जनभरमयच्च विधुरंशुचितः ॥ ६४ ॥ "" लक्ष्मीरिति । लक्ष्मी: शोभा । "लक्ष्मी: श्रीभूतिशोभासु" इति केशवः । सरसिरुहां पद्मानां, मण्डले समूहे, वासन्तेने वसन्तकालोदिते इने सूर्ये च, वासं स्थितिक्रियां तेने । चकारात् प्राप्ते वसन्ते हि प्रतिघाताभावात् पद्मानि सजातानि सूर्यः प्रकृष्टप्रकाशश्चासीदित्यर्थः । विधुश्चन्द्रः, 'जनं लोकं, स्वकरैः निजरश्मिभिः, अरमयच्च सुखयामास च । 66 विधुः पुंसि विष्णौ चन्द्रे हुताशने । वायौ काले राक्षसे तु द्वे त्रि तु स्यादुपद्रुते ॥ जगदिति व्याख्यानुसारी पाठ: स्यात् . 31 सव्याख्ये त्रिपुरदहने इति केशवः । कीदृशः । अंशुचितः रश्मिभिर्व्याप्तः । सम्पूर्ण भण्डल इत्यर्थः । पूर्णस्यैवेन्दोहिं सकलांशुत्र्याप्तिः संभवति । जगद्विशिनष्टि - रविकरेति । शुचित इति सप्तम्यन्तात्तसिः । शुचि: ग्रीष्मावयवो मासः तस्मिन् । रविकरविधुरं रविकरैरादित्यरश्मिभिर्हेतुभिर्विधुरं क्लिष्टम् । घर्मार्तमित्यर्थः । ४८ 66 विज्ञेयं विधुरं स: क्लिष्टविक्लिष्टयोरपि । विकले प्रत्यवेते च " । इति केशवः ॥ ६४ ॥ विरहिभिराशा बभ्रे न जीवने नदति साम्बुराशाय । शशिनाकाशे नवभे गर्केर भूतले च काशेन बभे ॥ ६५ ॥ विरहिभिरिति । पुरानी अम्बुराशिर्जलमहः तत्सहिते। वृष्ट्यर्थमुपात्तजले " इत्यर्थः । अभ्रे मेघे, नदतिशयमाने सति धिरहिभिः । विरहिणश्च विरहिण्यश्च विरहिणः।' पुमान् स्त्रिया ' (पा० सू० १-२-६७) इत्येकशेपः । तैः । जीवन प्राणधारणे, आशा इच्छा, न बभ्रे न भृता । मेघध्वनेः कामोद्दीपनतया सोढुमशक्यत्वादिति भावः । विरहिणां प्रावृषि जीविताशा नासीदित्यर्थः । आकाशे नमसि, शशिना चन्द्रेण, भृतले काशेन च इक्षुगन्धाख्यतृणविशेषेण च, बभे दीप्तम् । शरदि (प्रेम: मेवा) वरणाभावात् शशिनश्च, कुसुमाविर्भावात् काशस्य च दीप्तिरासीदित्यर्थः । " काशस्त्विक्षुगन्धाख्यवीरुधि । अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशीति सा स्त्रियाम् । " वाराणस्याम् " इति केशवः । आकाशं विशिनष्टि - नवभ इति । नवानि नूतनानि (भानि) नक्षत्राणि यस्मिस्तत्तथा । नक्षत्रैश्च बभे इत्यर्थः । क्षेत्राणां नवकं हि प्रावृषि तं विशिनष्टि ? - सकेरव इति । कैरवाणि कुमुदानि तैस्सहिते । कैरवैश्च बभे इत्यर्थः । 32 प्रथम आश्वासः । स्त्री चतुरा गवि कासौ सभवृत या सहसि मदनरागविकासौ । विकसितफलिनीजाता वीक्ष्य दिशो दृग् जनस्य फलिनी जाता ॥ ६६ ॥ , स्त्रीति । सहसि हेमन्तावयवे मासि । हेमन्तर्ताविति यावत् । गवि भूमौ या स्त्री योषित्, चतुरा इङ्गिताकारगोपने निपुणा सती, मदनरागत्रिकासौ रागो विषय भिलाष: तदधिष्ठात्री देवता मदनः विकासो विकार: मदनस्य विकारः पुष्पेष्वमिनिवेशः तौ समवृत निगूढवती, असौ का, न कापि । सर्वापि मदनराग विकासगोपनेऽचतुरासीदित्यर्थः । जनस्य दृग् दृष्टि:, विकसितफलिनीजाता विकसितानि विकचानि फलिनीजात नि श्याम कुसुमवृन्दानि यासु ताः, दियो हरितो, वीक्ष्य फलिनी दर्शनीयवस्तुदर्शनात फलवती, जाता जज्ञे। "प्रियङ्गुः फलिनी श्याम " इत्यमरः ॥ ६६ ॥ के न्वेनेऽवश्याये भर्तुदरा विजृम्भितेऽवश्या ये । नाकृत का कुन्दलता कुसुमेनेन्दोः कलासु काकुंदलता ॥ ६७ ॥ ८८ ४९ केन्विति । अवश्याये हिमे, विसति ये दाराः जायाः, भर्तुः कमितुः अर्थादपराधिनः, । वश्या वयङ्गता न भवन्ति एते के नु, न केचित् । शिशिरकाल वैशिष्टयात् सर्वेऽपि दारा वश्या इत्यर्थः। शिशिरेऽपि हेमन्तवद् हिमप्राचुर्य भवत्येव । तथा च वर्णयन्तिअवनितले शीतरुजः कर्तापि भृशं तुपारलेशी तरुजः । पवमानस्तापस्यः स्थापयिताभूद्वियोगिनस्तापस्य ॥ " इति । का कतमा, कुन्दलता कुन्दाख्यो लताविशेष: दलता विकसता कुसुमेन हेतुना, धावल्यादिन्दो: कलासु काकुं ध्वनिविकारम् । न्यकृतिमिति यावत् । नाकृत न कृतवती । सर्वापि कुन्द्रलता कुसुमधावल्याड् इन्दुसादृश्यं धृतवतीत्यर्थः ॥ ६७ ॥ अथ ऋतुवर्णनमुपसंहरन् वनक्रीडामाह इति कृतपूर्व्यापारं जनमृतुरखिलस्तमानुपूर्व्यापारम् । वनमधिकालोलालि प्राप्य विहृत्यामुना स कालोऽलालि ॥ ६८ ॥ 33 " सव्याख्ये त्रिपुरदहने इतीति । अखिल ऋतुः वसन्तादिः, आनुपूर्व्या वसन्तादिक्रमेण, तं जनम् असुरजनम्, इति उक्तप्रकारेण, अरम् अत्यर्थं, आप प्राप्तवान् । जनं विशिनष्टि - कृतेति । कृतः पूर्यापारः पुरां पुरीणां व्यापारः सकललोक (गमन) लक्षणा प्रवृत्तिर्येन स तथा तम् । अनेन कृतकृत्यतया दैत्यानां कामाधिकारित्वमुक्तम् । अमुना जनेन, स ऋतुलक्षणः कालः, वनं प्राप्य विहृत्य, क्रीडित्वा अलालि सम्मानितः । कीदृशं वनम् – अधिकालोलालि अधिकमत्यर्थ गालोला: कुसुमात् कुसुमान्तर जगमिषया चञ्चला: अलयो भृङ्गा यस्मिन् । अनेन वनस्य रामणीयकत्वमुक्तम् ॥ ६८ ॥ ५० अथ जलक्रीडामाह स्त्रीघटयामा सरसीरेत्य जनोऽयं विलोलयामास रसी । सलिलं सारवहंस श्रेणीसहिताम्बुजप्रसारवहम् ॥ ६९ ॥ स्त्रीघटयेति । सः प्रकृतः अयं कृतवननिहारो, जनः स्त्रीघटया अमा स्त्रीणां समूहेन सह, सरसी: वापी:, एत्य अवगाह्य, सलिलं जलं, विलोलयामास विहरणात् कम्पयामास । जनं विशिनष्टि - रमीति । रसी रागवान् । क्रीडायामिति शेषः । सलिलं विशिनष्टि - सारवेति । वहतीति वह पचाद्यच् । बिसास्वाद सजातमदतया आरवेन शब्देन सह वर्तमानया हंसानां श्रेण्या समूहेन सहितानामम्बुजानां प्रसारः प्रसरणं समृद्धिरिति यावत् । तस्य वह्माधारत्वेन स्थितमित्यर्थः॥ ६९ ॥ अथासुराः कामातम्सन्तः संभोगे प्रावर्तन्तेत्याह- यो भुवने सौमनसः ख्यातः सफलोऽपि भेदनेऽसौ मनसः । झषकेतोरजनीषुः स्त्रोभिरमी रेमिरे ततो रजनीषु ॥ ७० ॥ य इति। सुमनस एव गौ मनसः । प्रज्ञादित्वादण् स्वार्थिकः । झषकेतोः, कामस्य, य इषुः शरः, भुवने सौमनसः ख्यातः पुष्पमयत्वेन प्रसिद्धः, असौ इषुः, मनसः चित्तस्य, भेदने शकलीकरणे, सफलः सप्रयोजनोऽजनि जातवान् । शराणां हि लक्षभेदः प्रयोजनम्। कामशराणां मनोल्क्षत्वात् तद्भेदेन फलवत्त्वमा सीदित्यर्थः । असुराणां मनः कामशरविद्ध- मभूदित्युक्तं भवति । यतो मनसः कामशरविद्धत्वं ततस्तस्माद्धेतोः, अमी दैत्याः, रजनीषु निशासु, स्त्रीभिः दयिताभिः सह रेमिरे सम्भोगसुखमनुबभूवुः ॥ ७० ॥ 34 अथ प्रथम आश्वासः । 66 " इष्ट हि विदुषां लोके समासव्यासधारणम्। " ร इत्युक्तनीत्या संक्षेपतः संभोगं वर्णयितुमुपक्रमते । असुरा रेमिरे इत्युक्तम् । तत्रैषां रतेरुद्दीपनं किम । सीदित्याशङ्कायामाहउडुघटयामा सद्यो रजनिक्रुदुदरं विराजयामास द्योः । सुनृषु सुरामास्वाद्यः स्फुरितः स जनस्तदा सुरामास्वाद्य ॥ ७१ ॥ उडघटयेति । रजनिकृत् चन्द्रः सद्यः तत्क्षणं, उडुघटया नक्षत्रसमूहेन, अमा सह, द्यो: आकाशस्य, उदरमन्तर्भार्ग, विराजयामास निजकरनिकरैः प्रकाशयामास । सुनृषु शोभनेषु नृषु पुरुषेषु, सुरामासु शोभनासु स्त्रीपु, च मध्ये आद्यः प्रधानभूतः, स जनः असुरजनः स्त्रीजनश्च, यस्मिन् काले चन्द्र उदितवान् तदा तस्मिन् काले, मुरां मधम्, आस्वाद्य पीत्वा, स्फुरितः चलितः । विकृति प्राप्त इति यावत् ॥ ७१ ॥ असुराः स्त्रीभिस्सह रेमिरे इत्युक्तम् । ते कीदृशाः स्त्रियोऽपि कीदृश्य: इत्याशङ्कायामाह- ते शय्यासु समाल्या मदमदन निरस्तलज्जयासुसमाल्या । हितिदारामापूरराज : सुखिभिरियमुदारामा पूः ॥ ७२ ॥ त इति । ते चन्द्रोदयमथुपानाभ्याम् उद्दीपितरतत्रोऽसुराः, शय्यासु तल्पेषु, समाल्याः सन्तः माल्यैः स्रग्भिः तदुपलक्षितैः कस्तूरी कर्पूरादिपरिमलद्रव्यैश्च सहिताः । सम्पादितसम्भोगसामग्रीका इत्यर्थः । मदमदननिरस्तलज्जया मद: मद्यपानजनितो विकारः मदमदनाभ्यां निरस्त निर्वासिता लज्जा यम्यास्तया, असुनमाल्या असुसमानां दयितानामाल्या समूहेन सह, उदारां महतीं सम्भोगलक्षणां, विहति क्रीडां आपुः प्राप्तवन्तः । अत्र समाल्यतया संभोगस्या विकलता निरस्तलज्जतया निर्यन्त्र गप्रवृत्तिश्च प्रत्याय्यते। ननु पूर्वं 'स्त्रीभिरमी रेमिरे' इत्यनेन यदुक्तं तदेवेदानीमपि 'उदारां विहृतिमापुः'इत्यनेनाप्युक्तम्, अतोऽत्र पौनरुक्त्यम् । उच्यते - अत्र समाल्यत्वं निरम्तलज्जत्वं च विधेयम् । असुसमाल्या उदारां विहृतिमापुरित्युद्देश्यमेव । अतो न पौनरवत्यम्। इयम् असुरसम्बन्धिनी, पू: पुरी, सुखिभिः सुरतसुखयुतैः, तैरसुरैर्हेतुभिः रराज शोभते स्म । कीदृशी । 35 सव्याख्ये त्रिपुरदहने उदारामा उद्धृत आराम: उपवनं यस्याः सा तथा । उपलक्षणमेतत् सौधनदीतीरादेः अनेन यथाभिलाषं विहरणानुकूल्यं पुर्या उक्तम् ॥ ७२ ॥ · अथोत्तरश्वासस्य वीजमुपक्षिपन् असुराणां चरितमुपसंहरति ५२ घुसदामुदयानवतानवता नवता न बताश्नुत तन्महसा । स जनो विजहार सदारसदा रसदार सदा जयतूर्यमपि ॥ ७३ ॥ घुसदामिति । तन्महसा तेपामसुराणां महसा तेजसा हेतुना नवता, नूतनता द्युमदां देवानाम्, उदयान् समृद्धी:, नाश्नुत न प्राप्तवती । उद्यानां नवत्वं नाम नष्टानां पुनरुत्पत्तिः सा चारप्रभावाद्देवानां नामूदित्यर्थः । तेति विस्मये । न्यायवृत्तानामन्याय- वृत्तभ्यो विपदुत्पत्तिराश्चर्थमित्यर्थः । तन्मही विशिनष्टि – अवतानवतेति । अवतानो विस्तारः तद्युक्तेन। सर्वातिशायिनेत्यर्थः । स जनोऽसुरजनः सदारसदा: दाराणां दयितानां स( दा दसा) सहन सहितः, सदा विजहार चिक्रीड । रसत् शब्दायमानं जयतूर्यम्, अन्तरान्ारा देवादीनां जयात्तद्धांतकतूर्यन्, आर अपि प्राप्तश्च ॥ ७३ ॥ " अथ ते दुःखासंस्पृष्टनेव सुखमनुबभूवुरित्याहपुस्त्रचे मुदं अधुनिवासापुरत्र ये । पराभवेन वर्जिताः प्रणामतत्परा भवे ॥ ७४ ॥ पुरत्रयेति । (ये) दैत्याः अत्रास्मिन् ब्रह्मणोऽनुग्रहलब्धे, पुरत्रये निवासं स्थितिम्, आपुः प्राप्तवन्तः। ते पराभवेन पराजयेन, वर्जिताः त्यक्ताः सन्तो, मुदं दधुः धृतवन्तः। अत्र पराभववर्जितत्वमेव विधेयम् अन्यत् सर्वमहेश्यमेव । कथमधर्मरतानामेवामेवं जातभित्याशङ्कायां शिवभक्तिरव तत्र हेतुरिति वक्तुं तान् विशिनष्टि - प्रणामतत्परा भव इति । भवे शिवे प्रणानतत्पराः प्रणामे नमस्कारे तत्पराः। शिवभक्ता इत्यर्थः । अत्यन्तं पापिष्ठानामपि तेषामभ्युदये शिवभक्तिरेव हेतुरित्यर्थः ॥ ७४ ॥ इति श्री वैष्णत्रकुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणाकरनाम्नो विद्वत्वरस्य भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां प्रथम आश्वासः ॥ । acareva 36 अथ द्वितीय आश्वासः । अथ उपक्षिप्तां विपदं प्रतिचिकीर्षूणां देवानां प्रवृत्तिमाह अथ हरिमापन्नत्त्राद्द्युसदः क्षीरो वसतिमापन् नत्वा । हृतसर्चस्वा दित्याः कुलजस्तैरविरुद्रवस्वादित्याः ॥ १ ॥ अथेति । अथ पराजयप्राप्त्यनन्तरं, ह्युमदो देवाः, आपन्नत्वात् कृच्छ्रप्राप्ता आपन्नाः तेषां भावस्तत्त्वं तद्धेतोः, नत्वा प्रस्थानारम्भ एवेष्टफलसिद्धये नमस्कर्तव्यान् विषेश्वरादीन प्रणम्य, हरिं विष्णुम्, आपन् । शरणान्तरमलभमानाः तं शरणं जम्मुरित्यर्थः । यद्वा 'पूर्वकालिक' इत्यस्य प्रायिकत्वाद् मुखं व्यादाय स्वपितीतिवद् नत्वा हरिमापन्निति प्रयोगः । ततो हरिं प्राप्य नेमुरित्यर्थो लभ्यते । कुत्रस्थं हरिमित्याह क्षीरोदवसतिमिति । क्षीरोदः क्षीरसमुद्रः वसतिर्वासस्थानं यस्य स तथा । १ "वसतिस्तु गृहे रात्राववस्थाने जिनाश्रये । " इति केशवः । के ते घुसद इत्यत्राह अविरुद्रवस्वादित्याः द्वावश्विनौ च एकादशरुद्राश्च अष्टौ वसवश्च द्वादशादित्याश्च तथोक्ताः । घुसदो विशिनष्टि – हृतेति । (दिल्या:) दिति: असुरमाता तस्याः, कुलर्जः तैः प्रकृतैः तारकाक्षादिभिलिभिरसुरैः, हृतसर्वस्वाः हृतमपहृतं सर्व सकलं स्वमात्मीयं वस्तु स्वर्गादिकं येषां ते तथा । दैतेयाना- मादितेयानां च मातृसोदरतानिबन्धनं निसर्गवैरित्वं द्योतयितुं दित्याः कुलजैरित्युक्तम् ॥१॥ अथ पञ्चभिः श्लोकैः देवानां स्तुतिनमस्कारपूर्वकं असुरनिराकरणं प्रति स्वासामर्थ्य कथयित्वा प्रार्थनां प्रार्थितस्य तत्प्रार्थनानङ्गीकारं चाह " १. मे इति मुद्रितपाठः । विकसितनालीकान्त र्दलरुचिलोचन ! हरे ! घनालीकान्त ! । श्रितजनतापात्रन ! ते नमो दयां कुरु जनेऽत्र तापावनते ॥ २ ॥ 37 सव्याख्ये त्रिपुरदहने विकसितेति । विकसितनालीकान्तर्दलरुचिलोचन विकसितस्य विकचस्य नालीकस्य यदन्तदलं गर्भस्थं पत्रं तस्य रुचिरिव रुचिश्शोभा ययोस्तथाविधे लोचने यस्य तस्य संवोधनं तथा । हरे हरिरिति श्रीनामशालिन् ! घनालीकान्त घनानां मेघानामाली समूहः तद्वत् कान्त, सान्द्रमेघश्यामल! श्रितजनतापावन श्रिताया: भक्ति पुरस्सरं ( प्राप्तायाः) जनतायाः जनसमूहस्य पावन शुद्धिकर!, ते तुभ्यं, नमः नमस्क्रिया । अस्त्विति शेषः । तापावनते तापेन मनोदाहेन हेतुना अवनते प्रणते, अत्र एतस्मिन्नाका रदर्शनेनैवानुमेय- दुरवस्थे अस्मिन्, जने। अस्मास्विति यावत् । दयां करुणां, कुरु। प्रार्थनायां लोट् ॥ २ ॥ ५४ अहिता वरदैते ये पुरत्रयेऽस्मिन् वसन्ति वरदैतेये । शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तः प्रथाति मोहं तुः ॥ ३ ॥ अहिता इति । हे वरद भक्ताभीष्टप्रद ! ये एते सर्वेषामपि भयजनकतया सर्वदैव मानसप्रत्यक्षवद् बुद्धिस्थाः, अहिताः शत्रवः तारकाक्षादयः, अस्मिन् सर्वंदा सर्वत्र सञ्चरणाद् अखिलैरप्यवलोक्यमाने, पुरत्रये वसन्ति निवासं कुर्वन्ति, तान् हन्तुं निगृहीतुं, वयं न शक्ष्यामः समर्था न भविष्यामः । भूतवर्तमानयोरिव भविष्य- कालेऽपि शक्त्यभावोऽनुमेय एव इत्यभिप्रायेण लप्रयोगः । पुरत्रयं विशिंपन्ति - वरदैतेय इति । चरा बलवत्त्वेन उत्कृष्टा दैतेया यस्मिन् तत्तथा । एतद् हनने शक्त्यभावे हेतुत्वेनोक्तम् । दण्डापूपिकया स्वशक्त्यमावस्योपपन्नतामाहुः – स्वयमिति । इन्द्रः त्रयाणामपि लोकानां परमेश्वरात्मा स्वामी, स्वयं तैः असुरैः तुन्नः व्यथितस्सन्, मोहं इतिकर्तव्यतामौढ्यम्, प्रयाति प्राप्नोति । इन्द्रस्यासामर्थ्य तद्रक्ष्याणां नः कथं सामर्थ्यमिति यावत् ॥ ३ ॥ तल्लोकेश ! शिवद ! नः स्फीतेऽत्र त्रिपुरवावके शशिवदन! । न यथानघ! नश्यामः स्मरेस्तथा त्वं जनार्दन ! घनश्याम ! ॥ ४ ॥ तदिति । लोकेश लोकानां भुवनानामीश स्वामिन् ! शिवद भक्तानां मङ्गलप्रद ! शशिवदन शशीव मनोहरत्वाचन्द्र इव वदनं यस्य तस्य सम्बोधनं तथा । 38 द्वितीय आश्वासः । ५५ अनघ निर्दोष ! जनाईन इति श्रीनामशालिन् । घनश्याम घनो मेघ इव श्यामलवर्ण ! यस्माद् नः शक्त्यभावः तस्मात् स्फीते वर्धिते, अत्र त्रिपुरपावके त्रिपुर एव पावके अग्नौ, यथा येन प्रकारेण, न नश्याम: (न) नाशं गच्छामः; तथा तेन प्रकारेण, त्वं नः अस्मान्, स्मरेः निरूपय । सास्तिक्यमिति शेष : ( ? ) ॥ ४ ॥ यद्वयमतसीदामश्यामल ! लोकत्रयाभिमत ! सोदामः । स तत्र महानवमानः तद्रक्षा दीयतामिहानवमा नः ॥ ५ ॥ , यदिति । अतसीदामझ्यामल अतसी उमाख्यो धान्यविशेषः तस्या दाम पुष्पं तद्वत् श्यामल ! लोकत्रयाभिमत सर्वान्तरांत्मत्वादभीष्टतम ! यत् यस्माद्, वयं त्वढेकशरणाः सीदामः असुरपीडितत्वात् सादं गच्छामः, स सादः, तव महान् अनल्पः, अवमानः अवमानहेतुः निन्दाहेतुर्भवति । नास्माक- मन्यस्य वा कस्यचिद् । अवमानस्य महत्त्वोवत्या अनुपेक्षणीयत्वं भगवदेक सम्बन्धित्वोक्त्या अवश्यपरिहरणीयत्वं च ध्वन्यते । तत् तस्मात्, नः अस्माकम्, इह सादे विषये, अनवमा भयहेतोः अत्युच्छेदादुत्तमा, रक्षा त्राणं, दीयताम् । असुरान्निगृह्णीष्वेति यावत् ॥ ५ ॥ इत्थं तान्ततमानां घुसदां मतिमुज्झतां तां ततमानाम् । अर्थितमनुमेने न प्रभुणा तत्केन शक्यमनुमेनेन ॥ ६ ॥ प्रभुणा जगत्स्वामिना हरिणा, घुसदां देवानाम्, इत्थम् अनेन असुरनिग्रहलक्षणं प्रार्थितं, नानुमेने नानुमतम् । करिष्यामीति अनुमतावेव देवस्य योग्यतामापादयितुं घुसदो विशिनष्टिअतिशयेन तान्तानां असुरपीडया ग्लानिं गतानाम् । अत एव ततमानां व्याप्तगव, तां वलवृत्राद्यसुरविषये सर्वैरप्यनुभूतां, मतिं बुद्धिम्, इत्थमिति । प्रकारेण, अर्थितम् न प्रतिज्ञातमित्यर्थः । तान्ततमानाम् इति । उज्झताम् । 39 स॒व्या॑ख्ये त्रिपुरदहने " शक्ष्यामो हन्तुं न स्वयमिन्द्रस्तैः प्रयाति मोहं तुन्नः । " इति कण्ठोक्त्या त्यजतां च । एतच्चोपपन्नमित्यर्थान्तरेण समर्थयते - तदिति । तद् अर्थितम् अनुमेने॑न । अत्रान्यत्वं नञभिधत्ते । यथोक्तम्– 2 ५६ " प्रतिषेधेऽप्यसत्तायामन्यत्वे सदृशेऽपि च । कुत्साल्पविरहार्थेषु विपक्षे चापि नञ् भवेत् ॥ " इति । उमा पार्वती तस्या इनः स्वामी परमेश्वरः तस्मादन्येन । केन शक्यं, न केनापि । यच्छिवव्यतिरिक्तानां सर्वेषामप्यशक्यं तत्र हरेरनुमत्यकरणमेव युक्त मित्यर्थः । सर्वाशक्यत्वसामान्येन विशे(ष ? षा) शक्यत्वसमर्थनादर्थान्तरन्यासोऽलङ्कारः ॥ ६ ॥ अथ हरिस्तत्प्रार्थनानुमत्य करणे हेतुमाह निरतः परमो देवः सततं परमेश्वरो हि परमोदे वः । तस्मान्मनसा मयं कर्तुं भवतां सुरा मम न सामर्थ्यम् ॥ ७ ॥ निरत इति । हे सुराः देवाः! परमः उत्कृष्टः । सर्वेषामप्यस्माकम् उपरि वर्तमान इत्यर्थः। परमेश्वरः रुद्रः, देवः वः युष्माकं, परमोदे परेषां शत्रूणां मोदे प्रीतौ विषये, सततं सदा निरतः तत्परो, हि यस्मात् (तस्मात् ) ततो हेतोः भवतां युष्माकं, मनसाम् अर्थ्य प्रार्थनीयम् असुरवधलक्षणं वस्तु, कर्तु मम न सामर्थ्य शक्तिरिति । मम सामर्थ्याभाव एव युष्मत्प्रार्थनानङ्गीकारे हेतुरित्यर्थः । परमेश्वर इत्यत्राश्वकर्णादिवत् केवलैव रूढिराश्रयणीया, न तु योगसहिता । तथा (सति) परम इति पुनर्विशेषणीयो न स्यात् ॥ ७ ॥ इत्थं स्वासामर्थ्यश्रवणाद् विषण्णान् देवानवलोक्य हरिस्तन्निग्रहायोपायमाह प्रार्थ्यो हि ततो देवः पिनाकपाणिः स एवाहिततोदे वः । यमग मसावध्यास्ते तं यामस्तस्य तेजसा वध्यास्ते ॥ ८ ॥ प्रार्थ्य इति । अत्र युष्मत्संबोधनगर्भत्वात् सुरा इति सम्बोधनं सिद्ध्यति । हे सुराः! 40 द्वितीय आश्वासः । यतः परमेश्वरस्य असुरप्रीतौ निरतत्वं, ततस्तस्माद्धेतोः वः युष्माकम्, अहिततोदे शत्रुवधे विषये, स एव तन्निग्रहायापि (प्रार्थ्यः ।) प्रार्थनीय इत्यर्थः । कीदृशः । पिनाकपाणि: पाणौ हस्ते पिनाकः पिनाकाख्यं धनुर्यस्य स तथा । स्वयमेव जगत्कण्टकोद्धरणाय गृहीतशस्त्रः प्रवर्त्तमानस्सन् अस्मत्प्रार्थनासहकृतोऽसुखधं करिप्यत्येवेति भावः । तस्यापि सामर्थ्याभावे कथं ते वध्याः स्युरित्यत्राह - तस्येति । हिशब्दोऽवधारणे । ते दैत्याः, तस्य परमेश्वरस्य, तेजसा शक्त्या, वध्या हि हन्तुं शक्या एव । तत्र न सन्देह इत्यर्थः। तदानीमस्माभिः किं कर्तव्यमित्यत्राह- असौ परमेश्वरः, यम् अगं पर्वतम्, अध्यास्ते अधितिष्ठति, तम् अगं यामः अधुनैव कैलासाय यास्यामः । वर्तमानसामीप्ये लट् । " गत्यर्थकर्मणि " (पा० सू० २-३-१२) इत्यादिना द्वितीया ॥ । अथ हरिः परमेश्वरप्रसादोपलब्धये मतिमकरोदित्याह- इत्थममेयज्ञानान्नाथः स्मृत्यै प्रचक्रमे यज्ञानाम् । परमनुरागमनन्ते तन्वति तरसैव चक्रुरागमनं ते ॥ ९ ॥ 3 इत्थमिति । समनन्तरोक्तस्य श्लोकद्वयस्यानेन संबन्धः । अत्रार्थसामर्थ्यादुक्त्वेति पदमाक्षिप्यते । नाथो जगत्वामी हरिः, इत्थमभेन प्रकारेण, उक्ता अमेयज्ञानाद् अमेये निखिलैरपि दुविज्ञेये वस्तुनि यद् ज्ञानं तस्माद्धेतोः । यज्ञप्रियत्वात् परमेश्वरो यज्ञेनैव प्रसाद्य इति जानन्नित्यर्थः । यज्ञानां ऋतूतां, स्मृत्यै प्रचक्रमे आरब्धवान् । यज्ञेन परमेश्वरं प्रीणयितुं यज्ञान् सस्मारेत्यर्थः । स्मृतिः फलवती चासीदित्याह - परमिति । ते यज्ञाः, अनन्ते विष्णौ परम् अतिशयि (नम्)... अनुरागं स्मृतिलक्षणं प्रमाणं, तन्त्रति कुर्वति सति, तरसव वेगेनैव, आगमनं चक्रुः कृतवन्तः । भृत्यानां हि प्रभूणां स्वविषयं स्मरणमपि परोऽनुराग एव इति स्मृतेरनुरागत्वम् । ननु क्रियात्मकत्वादचेतनानां यज्ञानां कथमागमनम् । उच्यते- अधिदेवताविषयेयमुक्तिः न तु क्रियाविषया । अधिंदेवता च सर्वेषां पदार्थाना मस्त्येव ॥ अथ हरिः परमेश्वरप्रसादनाय कैलासं गतवानित्याह - 41 सव्याख्ये त्रिपुरदहने ऋतुरुपसन्नामा यः स्वयममुमादाय रुद्रसन्ना माय । शम्भुनिवासायागान्मुक्त्यान्यान् सपदि पीतवासा यागान् ॥१०॥ , ऋतुरिति । सपदि तत्क्षणमेव, पीतवासाः विष्णुः, स्वयं यः क्रतुरुपसन्नामा उपसदिति नाम आख्या यस्य, अमुम् अभीष्टफलसम्पादनेऽन्तरङ्गभूतम् आदाय परिगृह्य, अन्यान् (यागान् ) ऋतून्, मुक्त्वा प्रस्थाप्य, शम्भुनिवासाय अगात् गतवान् । न तु देवानेव प्रस्थापयामास । अनेन कार्यस्य गौरवातिशयः प्रत्याय्यते । किमर्थमगादित्यत्राह - रुद्रसन्ना मायेति । रुद्रस्य सन्नामाय नमस्काराय । रुद्रयागायेति यावत् ॥ १० ॥ अथ चतुर्भि: लोकै: कैलास वर्णयति यत्र हि सद्योगरतिः स्मरतामहांसि यच्च सद्यो गिरति । यन्नाम हरहरति प्रणद्य मुनिसिद्धवृन्दमहरहरेति ॥ ११ ॥ यत्रेति । यत्र शम्भुनिंबासे, सद्योगिरतिर्हि सतां जीवब्रह्मैक्य साक्षात्करणादुत्कृष्टानां योगिनां रतिः स्थितावासक्ति: । हिशब्द: शास्त्रीयां प्रसिद्धि द्योतयति । स्मरतां परमेश्वरा- धिष्ठानत्वेन कैलासं ध्यायताम्, अंहांसि पापानि, सद्यः स्मरणसमय एव, गिरति निगीर्णानि करोति । नाशयतीति यावत् । यं शम्भुनिवासं, मुनिसिद्धवृन्दं मुनीनां मध्ये ये सिद्धाः विदिततत्त्वाः तेषां वृन्दं समूहः, हरहरेति नाम भगवतो नामधेयं, प्रणद्य उच्चार्य अहरहः प्रतिदिनं, एति प्राप्नोति । अहरहः अत्यन्तसंयोगे द्वितीया । वीप्सायां द्विवेचनम् ॥ ११ ॥ यं विविधन्यङ्कुरुते शिरसि वसन् धनद् एव धन्यं कुरुते । यस्माद्वै रूप्यमयादमरगिरिः काञ्चनोऽपि वैरूप्यमयात् ॥ १२ ॥ यमिति । एवकारो भिन्नक्रमः । पौनर्वच निकश्च । धनदः यक्षराजः, शिरसि शिखरे, वसन् यमेव धन्यं उत्कर्षवन्तं कुरुते । वसन्निति हेतौ शता । विशिष्ट 42 द्वितीय आश्वासः । स्याधेयत्याधारोत्कर्षावगमकत्वादिति भावः । शिरो विशिष्टि - विविधन्यङ्कुरुते इति । विविधानि हर्षक्रोधादिमूलत्वाद् बहुविधानि न्यकूनां मृगविशेषाणां रुतानि शब्दा यस्मिन् तत्तथा । उपलक्षणमेतत् सत्त्वान्तरस्यापि । वस्तूनां स्वधर्मोपेतत्वं हि गुणः । मृग शकुन्याद्यनेक (स)त्त्वोपसेव्यत्वादिकं पर्वतधर्मः । तस्मादनेनापि पर्वतप्रशस्तिरेव कृता इत्येवगन्तव्यम् । वैशब्दोऽवधारणे भिन्नक्रमश्च । रुप्यमयाद् वै रजतस्वरूपादेव, यस्ता कैलासाद्धेतोः, अमरगिरिमरुः काञ्चनोऽपि काञ्चनविकारोऽपि, वैरूप्यं विकृतरूपताम्, अयात् प्राप्तः । 'धातृनामस्मि काञ्चनम् " इति भगवद्वचनात्, तथा लोकन सिद्धेश्ध काञ्चनम्यैवोत्कर्षः । तन्मयस्य मेरो रजतमयस्य कैलासस्य प्रभा- प्रसराक्रान्तत्वात् वर्णापकर्पा जात इत्यर्थः । सर्वस्मादुत्कृष्टस्य काञ्चनस्य रजतापेक्षया वर्णहानेरत्यन्तासम्भाव्यताम् अपिशब्दो द्योतयति ॥ १२ ॥ 66 ५९ चभ्रु करालं केशं विभ्राणं दशशिरः पुरा लङ्केशम् । भ्रमयत् पातालसदो रुराव रक्षो यदन्तपातालसदोः ॥ १३ ॥ बभिवति। पुरा किल रावणः भुजकण्डूविनोदनाय कैलासमुद्भृत्योत्क्षिप्य उत्क्षिप्य व्यहरत् । तदा हरः कुपितस्सन् स्वाङ्गुष्ठाग्रेण पर्वते गौरवमाहितवान् । तद । स्वोपरिं निपततः कैलासस्य गौरवमसहिष्णुः रावणः रोदनमकरोत् । तदेतदनेनोच्यते । पुरा लङ्केशं लङ्काया ईशं स्वामीभूतं रावणाख्यं रक्षः राक्षसः, यदन्तपातालसदोः यस्य कैलासस्यान्तो मूलकोटे- रेकदेशः, तस्य पातेन पतनेन हेतुना अलसा जडीभूता दोषः बाहवो यस्य तत्तथाविधं भूत्वा, रुराव ' हा हतोऽह' मित्यादिशब्दमकरोत् । रक्षसो लोकोत्तरतां प्रकटयन् तद्विशिनष्टि- बभिवति [बभ्रु पिङ्गलं, करालं भयङ्करं, केशं कचं, बिभ्राणं दधानं, पातालसदः पाताले सीदन्तीति तथा तान् पातालवासिनः । भ्रमयत् ] ॥ १३ ॥ तौ च सदानवसानौ गौरीशानौ सदैत्यदानवसानौ । सविलासं यत्र स्तः श्रयति च सुरगणोऽरिसंयत्वरतः ॥ १४ ॥ 43 सव्याख्ये त्रिपुरदहने तौ चेति । तौ लोकशास्त्रप्रसिद्धौ, गौरीशानौ पार्वतीपरमेश्वरौ, यत्र कैलासे सदा सबिलासं विलासेन लीलया सह वर्त्तमानं यथा भवति तथा स्तः विद्येते च । तस्य महिमा कथं वर्ण्य इति भावः । कीदृशावित्यत्राह - अनवसानौ इति । देशतः कालतः स्वरूपतश्चाद्यन्तशून्यौ । नित्यशुद्धा वित्यर्थः । यत्रेत्युक्तं विशिनष्टि - सत्येति । दितेरपत्यानि दैत्याः दनोरपत्यानि दानवाः । भगवत्सेवार्थमागतैः दैत्यदानवै: सहितानि सानूनि प्रस्थानि यस्य स तथा । अरिसंयन्त्रस्तः अरीणां संयतः युद्धात् त्रस्त भीतः, सुरगणो यं कैलासं, श्रयति शरणं प्रपद्यते तस्मै शम्भुनिवासायेति पूर्वेणान्वयः ॥ १४ ॥ अथ हरिः कैलासं प्राप्य परमेश्वरप्रसाद नायोपक्रान्तवा नित्याह६० तं स्थित मुपसद्यागस्त्राम्ये हरिणा कृतोऽयमुपसद्यागः । कैलासं भृतेशं प्रीणयता यत्र समुदि सम्भूते शम् ॥ १४ ॥ तमिति । हरिणा विष्णुना, तम् उक्तगुणविशिष्टं, कैलासमुपसद्य प्राप्य, अयं पूर्वानीतः, उपसद्यागः, उपसत्संज्ञो यागः, कृतः अनुष्ठितः । कैलासं विशिनष्टि - अगस्वाम्ये स्थितमिति। अगस्वाम्ये गौरीशानवासत्वादिगुणशालित्वात् पर्वताधिपत्ये, स्थितम् अव- स्थितम्। एतत् ऋतोरन्यत्रानुष्ठेयत्वेऽपि तत्र गत्वानुष्ठाने हेतुः । कस्मै फलायायं क्रतुः कृतः इत्यत्राह – भूतेशमिति । भूतानां श्रीमहाभूतगणानां निखिलजन्तूनां वा ईशं परमेश्वरं, श्रीणयितुम् । परमेश्वर॑प्रसादलाभायेत्यर्थः । तस्य किं फलमित्यत्राह – यत्रेति । यत्र यस्मिन् भूतेशे, समुदि संभृते सति शं परमप्रयोजनभूतं सुखं भवति । तत्तदभिमतफलसम्पत्त्या सुखाबाप्तिरीश्वरप्रसादस्य फलमित्यर्थः ॥ १५ ॥ रागः फलवांश्चासीदित्याह मुक्त्वा हासं सद्यः प्रमथगणो मथित रिपुमहासंसद्यः । प्रययावच्छाद्यागादुदयं त्रिपुरञ्च जगदवच्छाद्यागात् ॥ १६ ॥ 44 तृतीय आश्वासः । " मुक्त्वेति । अच्छाद् यथाविध्यनुष्ठानेन निर्दोषाड् यजनसमनन्तरमेव प्रतथगणः भूनगगः, उदयम् ¹9 FA " किं कृत्वा । अट्टहासं मुक्ता । कृत्वेत्यर्थः । कीदृशः । यः प्रमथगणः, मथितरिपुमहासंसद् मथिता महती रिपूणां संसत् समूहो येन स तथा । शौर्य- शालीत्यर्थः । जगद् भूरादिलोकन, अवच्छाद्य रावृत्य, त्रिपुरं पुस्त्रयम् अगाच्च गतवान् । प्रमथितुमिति शेषः । त्रिरमिति । तिस्त्रः पुरः समाहृता इति विगृह्य ' तद्धितार्थ' (पा०सू०२-१-५१) इला दिना गम सः । 'ऋपूः' (पा०सू० ५-४-७४) इत्य: दिना समासान्तोऽच्प्रत्ययः । त्रीणि पुरणि समाहृतानीति वा विग्रहः । तदा पात्रादित्वात् स्त्रीत्वाभावः ॥ १६ ॥ यागाद् यजनाद्धेतो , सद्यः आविर्भावं, प्रययौ प्राप्तः । विष्णोर्व्याप रो बिलोऽभूदिन्याह- तान्यपि वासवानिप्रदानि नगराणि शिवनिवासवहानि । प्रध्वंसं भूतानि द्रुतमनयन् यानि यजनसम्भूतानि ॥ १७ ॥ । तानीति । नगराणि पुराणि कर्तृभूत.नि तानि भूतानि प्रमथान्, द्रुतं क्षित्रं, प्रध्वंसं विनाशम् अनयनपि प्रापयन्ति स्म च । कानि नगराणी- त्यत्राह – वासत्रेति । वासवस्येन्द्रस्य ह. नि पीडां प्रददातीति । असुरसंबन्धिनीत्यर्थः । एतत् प्रध्वंसे हेतु: । शिवनिवासवानीति । वहन्तीति वहानि । पचाद्यच् । शिव- निवासस्य शिवालयस्य वहानीति विगृह्म 'कुद्योगा च पष्ठी समस्यत इति वक्तव्यम्' (पा०सू०वा ०२-२-८) इति समासः । शिवसानिध्य मेवासुराणां भूतनध्वंसे सामर्थ्यावहमिति भावः । भूतानि विशिनष्टि – यानीति । यानि भूतानि यजनसंभूतानि यजनाद् उपसद्यागात् सम्भूतानि उत्पन्नानि । अशक्यपरिवानी यर्थः ॥ १७ ॥ अथ विफलीकृतव्यापारो विष्णुः किमकरोदित्याशङ्कायां तत्प्रवृत्तिं वक्तुमुपक्रमते" शक्ति रकम्प्रा सागिता जनयंत्र चाधिकं प्रासादि । यत्कटकं प्रासादिस्फीतं यत्तुङ्गवेदिकं प्रामादि ॥ १८ ॥ 45 सव्याख्ये त्रिपुरदहने शक्तिरिति । अस्योत्तरश्लोकेन सम्बन्धः । यत्र त्रिपुरे, सादिगता सादिनोऽश्वारोहाः तान् गता प्राप्ता, शक्तिः सामर्थ्यम्, अकम्प्रा अकम्पशीला स्थिरा भवति । अनभिभवनीयेत्यर्थ: । प्रासादि च मनःप्रसादो नाभी च कदाचिदपि दुःखासम्पर्शात् सुखेनै बावस्थितमित्यर्थः । य (द) इत्यनुषज्यते । यत्कटकं यस्मिन् कटकं सैन्यं, प्रासादिस्फीतं प्रासादिभिः कुन्तप्रमुखैः आयुधैः स्फीतम् । " सैन्येषु कटकोऽस्त्रियाम्" इति यादवः । यत् पुरत्रयं, तुङ्गवेदिकं तुङ्गा उन्नता वेदिः बिनर्दिः यस्मिन् तत्तथा । ६२ "वेदिवित यागाय परिष्कृतमहीतले । अग्निकुण्डे चतुष्कोणे त्वग्मि(द? कु)ण्डे परे जगुः ॥ " इति केशवः । यच प्रासादि प्रासादो मन्दिरविशेषः । " प्रासादो मन्दिरान्तरे । नृपाढ्यदेवतादीनाम् " इति केशवः ॥ १८ ॥ विप्रततावध्यायध्वंसि स्फीतं श्रिया गतावध्या यत् । हरिरहितावध्याय त्रिपुरायेर्ष्यन् हते ऋतायध्यायत् ॥ १९ ॥ 9 विप्रतताविति । यच्च विमततौ अध्यायध्वंलि अध्यायो वेदपाठः तद्र्ध्वंसन- शीलं, यच्च गतात्रध्या गतोऽवधिस्सीमा यस्यास्सा तथा । अपरिमितयेत्यर्थः । श्रिया सम्पदा, स्फीतं, हरिः विष्णुः, ऋतौ क्रोः कार्यभूने प्रमथगणे, हो निगृहीते, तस्मै उक्तगुण विशिष्टाय, त्रिपुराय ईन् क्रुध्यन् सन् अध्यायत् चिन्तयामास । " क्रुधद्रुह" (पा० सू० १ ४ ३७) इत्यादिना त्रिपुरस्य सम्पदानसंज्ञा । पुरत्र्यं विशिनष्टि – अहितेति । अहितैः शत्रुभिस्खध्याय हन्तुमशक्याय । पुरत्रयस्याध्याय- ध्वंसाद्यधर्माचारित्वे सति सादिस्थितशक्तेर कम्प्रता दिवशिष्ट्यं चाहितावध्यत्वं च । प्रयास विकली करणं चेया हेतुः ॥ १९ ॥ 46 ध्यानप्रकारं दर्शयति 1 तृतीय आश्वासः । अनुते न विनाशं शिवप्रसादादमी न तेन विना शम् । अहमाशु भवादरतः तःमून् व्यावर्तयाम्यशुभत्रादरतः ॥ २० ॥ " . अश्नुत इति । अभी चारा: अपुरा:, शिवप्रसादाद्धेतोः, विनाशं निप्राह्मत्वं, न अश्नुते प्राप्नुवन्ति । एते अवध्या भवन्तीति यावत् । तत्र शिवनसाद एव हेतु: नान्यत् किञ्चिदित्यर्थः । एतच्चो पत्ति तो निश्चितवान् इति दर्शयति - तेनेति । तेन शिवनसा देन, विना अन्तरेण, शं सुखं, न भवति । एषां सुखन तेरन्यथानुरपत्त्या शिवनेसाद एवं हेतुतां व्रजतीत्यर्थः । तन्मया किमत्र कर्तव्यमिति विनृश्य तदपि निश्चित वानिति (आह) अहमिति । यस्माच्छिवप्रसादस्य तदवध्यत्वे हेतुत्वं तत् तस्मात् कालविलम्बनं विना अशुभवादरतः अशुभः तर्काभासरूपत्वादमङ्गलः यो वादस्तत्र रतः तत्परः । पाषण्डागमोक्त प्रस्थान नवर्त्तक इत्यर्थः । भूत्वेति शेषः । अमृन् ठासुरान् भवादरतः शिवभक्तेः व्यावर्तनाभि वर्त्तमान- सामीप्ये लट् । कालक्षेपमन्तरेणासुरान् भवभक्त विमुखान् करिष्यामीत्यर्थः ॥ २० ॥ हरिरेवमुद्दिश्य तेषां भक्ति निरासार्थमुपक,न्तव, नित्याह इति तासान्निध्याय लये पुरां पशुपतेरसान्निध्याय । रूपं महितमतानि प्रभुणास्तिक्यान्निरोद्ध महितमतानि ॥ २१ ॥ ६३ इतीति । प्रभुणा विष्णुना, इति उक्तप्रकारेण निध्याय नितरां सोपपत्तिकं ध्यात्वा, अहित नतानि अहितानां शत्रूगां मतानि सङ्कल्पान् आस्तिक्याद् ईश्वरोऽस्तीति मतिर्यस्य स आस्तिकः। 'अस्ति नास्ति दिष्टं मतिः' । ( पा० सू० ४-४-६०) आस्तिकस्य भावमास्तिक्यं तस्मात्। शिवभक्तेरित्यर्थः । निरोद्धुं व्यावर्त्तयितुं, महितं पूजितं, रूपम् . 47 सव्याख्ये त्रिपुरदहने पीत्यर्थ: । क्रियाणां जडत्वात् पाकादि क्रियाणामिव यागादि क्रियाणामपि फलदातृत्वा- नुपपत्तेरिति भावः ॥ २४ ॥ ननु देहव्यतिरिक्त एवात्मा, सच एतद्देहपाते देहान्तरं गृहीत्वा देशान्तरकाला- न्तरभावि. कर्मफलं भुङ्क्ते च । तस्माद्धर्माऽनुष्ठेय एव इत्यत्राह- का पुनरङ्गात्र मितिः स्मरत यदि विशत्यसौ परं गात्रमिति । ` यद्ययमक्षे पतति ध्रुवं मतं युष्मदीयमक्षेपतति ॥ २५ ॥ का पुनरिति । पुनश्शब्दो वाक्यालङ्कारे । अङ्ग इत्यामन्त्रणे । अत्र इतिशब्दार्थमहिम्ना मन्यध्त्रे इति पदमाक्षिप्यते । अङ्ग ! हे असुराः, असौ पुमान् परम् एतद्देहादन्यद्, गात्रं त्रिशति कर्म कसाघनत्वेनाङ्गीकरोति इति मन्यध्वे यदि तर्हि अत्र परगात्र प्रवेशे, का पुनर्मितिः प्रमाणञ् । न कापीत्यर्थः । स्मरत युक्तितो विचारयध्वम् । तदा युष्माकमप्येतद्धृदयङ्गममेवेति भावः। चार्वाकमते प्रत्यक्षमेकमेव प्रमाणम् । अनुमानादीनि न प्रमाणानि । यथाहु:'प्रत्यक्षदृष्टमेवास्ति नास्त्यदृष्टभदृष्टतः । "" 66 इति । तदाश्रयणेनात्र प्रमाणाभावं हृदयङ्गमीकृत्य धर्मस्यानुष्ठेय तामाक्षेप्नुमाह - यदीति । अयं परगात्रमवेशलक्षणोऽर्थः, अक्षे प्रत्यक्षे, पतति विषयो भवति, यदि तर्हि युष्मदीयं युप्नत्संबन्धि, मतं धर्मेस्यानुष्ठेयलक्षणो वः सिद्धान्तः, अक्षेपतति क्षेपः खण्डनीयता तेषां ततिः समूहः तद्रहितं भवेद् ध्रुत्रं निश्चितमेतत् । अक्षेपमिति वक्तव्ये अक्षेपततीत्युक्तं युष्मन्मतखण्डने अहमहमिकया शतशो युक्तयः प्रसरन्तीति द्योतयितुम् । अयमर्थः - यद्यात्मनः परगात्रप्रवेशस्य प्रत्यक्षविषयत्वं तर्हि युष्माकं पक्षः (स्वर्गा? सा) धिष्ठ: अन्यथा खण्डित एव इति । आत्मनो देहान्तरग्रहणस्याप्रत्यक्षत्वे कस्यापि न विमतिः । तस्माद्धर्मो नानुष्ठेय इति भावः ॥ २५ ॥ 9 ननु प्रत्यक्षविषयो देह एव नात्मा देहव्यतिरिक्तोऽप्रत्यक्षो बोधलक्षणः कश्चित् पदार्थोऽस्त्येव । स एवात्मा । स च देहान्तरं गृह्णातीत्यत्राह 50 द्वितीय आश्वासः । श्राव्या मदवध्येयं वाग् बोधं वित्त मद्यमदवद् ध्येयम् । साधं तन्या तेन प्रणश्यते विघटनान्तु तन्त्राते न ॥ २६ ॥ श्राव्येति । अत्र 'संबोधनसारो युष्मदर्थः' इति न्यायाद् मध्यमपुरुषाक्षितो युष्मदर्थः अनुरा इति पदमाक्षिपति । हे असुराः !, मद् मत्सकाशाद् इयं वाक् वक्ष्यमाणा वाकू भारती, श्राव्या अवश्यं श्रोतुं योग्या । कीदृशी । अवध्या युक्तिमत्त्वात् केनाप्यबाध्या । अत्र वक्तव्यार्थवचनव्यतिरेकेग वाचः श्राव्यत्व विधानाद् मया सिद्धान्तसार उपदिश्यते तत् सावधानाः शृणुतेति व्यज्यते। बोधं देहगतं चैतन्यं मद्यमदद् मद्येन हेतुना यो मदः मनोविकारः तेन तुल्यं तद्वदागन्तुकं, ध्येयं ध्यातुं योग्यं, बोद्धव्यं, वित्त जानीत । तस्य देहान्तरग्रहणं न संभवतीत्या सार्वमिति । तेन बोधेन तन्त्रा शरीरेण सार्ध सह, प्रणश्यते अत्यन्ताभावः प्राप्यते । कारणाभावे कार्यमपि नश्यत्येवेति भावः । तनुबोधौ विघटनां विश्लेषम् इतरेतरस्माद् अन्यतरत्यागेऽन्यतरस्य गमनं, न तु नैव तन्त्रात्रे कुर्बाते । कार्यकारणयोर्भेदाभावादिति भावः । एतदुक्तं भवति – चार्वाकमते आकाशशप्रत्यक्षत्वेनासत्यात् पृथिव्यप्तेजो वायुधत्वार्येव भूतानि । भूतचतुष्टयारब्धो देह एवात्मा । देहगतं चैतन्यं मदवदागन्तुकमेव । यथा मद्यसंयोगे मदो जायते मद्यशक्तिवियोगे विलीयते च तथा चैतन्यनपि भूनचतुष्टयसंयोगे जायते तद्वियोगे लीयते च । अतो देहव्यतिरेकेण देशान्तर कालान्तरभाविकर्म फलभोगाय देहान्तरं गृह्णन् कश्चित् पदार्थो नास्त्येव इति ॥ २६ ॥ " अस्तु वा देहव्यतिरिक्त आत्मा; तस्य देहान्तरग्रहणमप्यस्तु । तथापि कर्मणां फलदातृत्वानुपपत्तेः तस्य फलभोक्तृता न सम्बोभवीति इत्याह क्रियते यत्तावदथ श्रुतिगम्यं यच्च यत्ता वदथ । इह लोके नाश्येतद् ध्रुत्रगंस्य फलं परत्र केनाश्येत ॥ २७ ॥ क्रियत इति । अत्र मध्यमपुरुषा क्षिप्तयुष्मदर्थेबलाद् असुरा इति संबोधनं सिध्यति । हे असुराः ! यूयं यत्ताः सषडङ्ग चतुर्वेदाध्ययने तदर्थविचारे च महान्तं यत्नं प्राप्ताः भूत्वा 51 सव्याख्ये त्रिपुरदहने श्रुतिगम्यं वेदवाक्यवेद्यं, यत् कर्म दर्शपूर्णमासज्योतिष्टोमादिकं वदथ श्रेयस्साधनतया कर्तव्यत्वेन 'समर्थयथ । अथ अर्थविचारानन्तरं यत् कर्म, तात्रत् साकल्येन यत्किञ्चिदप्यवयवैः (वें) कल्यमन्तरेणेत्यर्थः । क्रियते अनुष्ठीयते च एतत् कर्म, इह अस्मिन्, लोके नाश अतिशयेन नाशयुक्तम् । अतिशायने मत्वर्थीयः । अनुष्ठानसमनन्तरमेव निखिलैरप्यवयवैः सहात्यन्ताभावं प्राप्तमित्यर्थः । ध्रुवं निश्चितमेतत् । उभयवादिसम्मतत्वादितिं भावः । तस्माद् अस्य अत्यन्ताभावमापन्नस्य कर्मणः फलं स्वर्गादिकं, परत्र परलोके, केन अश्येत भुज्येत । न केनापि । असतो ऽर्थक्रियाकारित्वाभावादिति भावः ॥ २७ ॥ ६८ " अस्तु वा कर्मणः फल्दातृत्वं, तथापि अभिमतफललाभो (स?) न सेत्स्यतीत्याह फलमपि न भवेदिष्टं लभतेऽसौ यदि पुरातनभवे दिष्टम् । तर्हि समिद्धोमरतः समिधममुत्राश्नुते समिद्धोऽमरतः ॥ २८ ॥ फलभिति । इष्टं स्वाभिमतं, फलम् उर्वशीसम्भोगादिकं, न भवेदिति प्रति(ष्ठा?ज्ञा । ) (समा धर्मा )नुष्ठातुरिति शेषः । प्रतिज्ञासमर्थमुपपादयन्नाह - लभत इति । असौ धर्मानुष्ठाता पुरुषः, पुरातनभवे पूर्वजन्मनि, दिष्टं दत्तं लभते प्रामोति, यदि तर्हि समिद्धोमरतः समिधां पलाशादिकाष्ठखण्डानां होमे रतः तत्परः पुरुषः, समिद्धः धर्मानुष्ठानमाहात्म्यशालितया प्रज्वलितः अमुत्र परलोके, अमरतो देवेभ्यः समिध, मश्नुते प्राप्नोति । नोर्वशीसम्भोगादिकम् । "दीयते देवताभ्यो यदिह तद् भुज्यते पुनः ।'' इति वचनाद्, दत्तस्थैवादानोपपत्तेश्चेति भावः ॥ २८ ॥ श्रौतवत् स्मार्त्तं कर्मापि नानुष्ठेयमित्याह स्याद्यदि मोदनतोऽयं प्रेतोऽन्यत्राश्नतीष्टमोदनतोयम् । पथि जनता पाथेयं नयति कुतोऽतः सभारतापाथेयम् ॥ २९ ॥ 52 द्वितीय आश्वासः । स्यादिति । युष्मादृशैः देहव्यतिरिक्ततया कथ्यमानः प्रेतः मृतः पुरुषः अन्यत्र स्वस्मादन्यस्मिन् पुरुषे इष्टमभिमतं ओदनतोयं पुत्रादिना दीयमान - मोदनमन्नं तोयं पानीयं च अश्नति भुञ्जाने सति मोइनतः क्षुन्निवृत्त्या प्रीतियुक्तः स्याद्यदि तर्हि इयं जनता जनसमूहः अथ साकल्येन सर्वापीत्यर्थः । अतः एतस्मादपादानभूतात् प्रदेशात् कुतः कस्माद्धेतोः पथि मार्गे पाथेयं पथि साधु तण्डुलादिकं नयति । तत्र न कोऽपि हेतुः प्रयोजनाभावात् । क्षुन्निवृत्तिस्तु गृहावस्थितपुत्रादिना क्रियमाणान्यजनभोजनेनैव सेत्स्यतीति भावः । कीदृशी जनता ? सभारतापा भारेण पाथेयवहनेन हेतुना यस्तापः खेदः तेन सह वर्त्तमाना । प्रकारान्तरेणेष्टफलसिद्धावनिष्टफलदकर्म नानुष्ठेयमित्यर्थः ॥ २९ ॥ एवं वैदिकपक्षमा क्षिप्य पाषण्डपक्षस्यैवानुष्ठेय (त्व) मित्याह तद् बचने शस्पे मे तिष्ठत धर्मा हिताय नेशस्येमे । प्राप्त भो गानसुरास्वा वधूश्लेषणादिभोगानसुराः ॥ ३० ॥ तदिति । अत्र तदितिपदम् 66 एकेस्यैवोभयार्थत्वे तन्त्रमित्यभिधीयते । तच्च काकाक्षिवत् क्वापि भित्तिदीपसमं कचित् ॥ इति न्यायेनोमयत्र संबध्यते । (भो) हे असुराः यस्मात् श्रौतस्मातें धर्माणामनुष्ठेयत्वं तत् तस्मादीशस्य शिवस्य संबन्धिनः इमे वेदमूलपाशुपतादिशवागमसिद्धा धर्माः त्रिपुण्डूरुद्रांक्षधारणपञ्चाक्षरीजपहोमतर्पण लिङ्गार्चनादीनि कर्माणि हिताय श्रेयसे न । भवन्तीति शेषः । यस्मादीशकर्मणामहितकरत्वं तत् तस्मात् यूयं मे वचने तिष्ठत हितबुद्धिं कुरुध्वम् । कीदृशे । शस्ये स्तुत्थे । उपपत्तिमत्त्वाद बाध्ये न तु वैदिकपक्षवत् बाध्ये इत्यर्थः । तर्हि किं तद् वचनमित्याह प्राप्नुतेति । यूयं गानसुरास्वादवऋषणा 37 सव्याख्ये त्रिपुरदहने दिभोगान् गानं गीतिः सुरास्वादो मधुपानं वधूश्लेषणं वधूनां नवोढयोषितां श्लेषणमालिङ्गनम् । उपलक्षणमेतत् सम्भोगस्य । ७० वधूः स्त्रीमात्रभार्ययोः । नवोढ्योषास्नुषयोर्भार्यायां पूर्वजस्य च । स्पृक्कानद्योश्च " इति केशवः । आदिशब्दान्मृष्टाशनादिपरिग्रहः । गानादिभोगान् कामान् प्राप्नुत सेवध्वम् । अयमेव स्वर्गानुभाव इति भावः। यथाहुः स्वर्गानुभूतिर्मृष्टाष्टिद्वर्चष्टवर्षवधूरतिः 66 इति ॥ ३० ॥ यद्यपि वैदिकपक्षमाक्षिप्य पाषण्डपक्षः स्थापितः तथापि चिराभ्यस्तत्व द्रुढमूलायाः शिवभक्तेर्वासना प्रयत्नमन्तरेण न निवर्तत इति तान् समूलमुन्मूलयितुमुपक्रमते मम पुनरपरा गावः श्रूयन्तां यदि न बुद्धिरपरागा वः । भजथ महेशं सततं कः प्रमितौ हेतुरस्य हे शंसत तम् ॥ ३१ ॥ ममेति । अत्र प्रकरणसहकृतः सम्बोधनद्योतको हेशब्दः असुरा इति द्योत्यं संबोध्यविशेषमाक्षिपति । हे असुराः वः युष्माकं बुद्धि: अपरागा अपगतरागदोषा यदिन तर्हि (पुनर्मम अपरा गाव: अपराणि बचनानि ) श्रूयन्तामित्यामन्त्रणे लोट् । अहिते वस्तुनि रागाविष्टे मनसि शतकृत्वः कथितमपि हितवचनं वदनं निदधातीति (?) भावः । काः पुनस्ता इत्यत्राह - भजथेति । यूयं सततं. सर्वदा महेशं भजथ जपनमस्कारादिभिः सेवध्वे । युष्माभिर्व्यापारान्तरनिरपेक्ष महेश्वरसेवैव क्रियते इत्यर्थः । ममापि किञ्चित् प्रष्टव्यमस्ति । अस्य महेशस्य प्रभितौ यथार्थज्ञाने सद्भावाबगतावित्यर्थः । (यो ? को) हेतुः युक्तिः प्रमाणमित्यर्थः । तं हेतुं शंसत । 38 द्वितीय आश्वासः । ईश्वरसद्भावे किञ्चित् प्रमाणं नास्ति । अस्ति चेद्वक्तव्यम् । तच्च वक्तुं न शक्यते । अभावादेव हेतोः । तस्मात् प्रमाणाभावे प्रमेयमण्यसदेव । तस्मान्महेश्वरसेवा न कर्तव्या । असतो महेश्वरस्य सेवा कर्तव्या चेत् शशशृङ्गेण किमपराद्धम् । तस्य सेवा च क्रियता- मित्यभिप्रायः ॥ ३१ ॥ पूर्वत्र तात्पर्यवृत्त्या सिद्धं मानाभाव विवृणोति न पतति तं प्रत्यक्षं बुध्यध्वमतो निराकृतं प्रत्यक्षम् ॥ तत्स्थितिमानवलम्बः प्रमाणराशेस्ततः क्व मानबलं वः ॥ ३२ ॥ न पततीति । तं महेशं प्रति अक्षमिन्द्रियं चक्षुरादि न पतति प्राप्नोति । ईश्वरों नीलपीतादिवदिन्द्रियाणां विषयो न भवतीत्यर्थः । अत एतस्मादक्षपाताभावाद्धेतोः प्रत्यक्षं प्रत्यक्षाख्यं प्रमाणं निराकृतम् ईश्वरसद्भावसाधकत्वे निरस्तं बुध्यध्वं जानीत । ननु मा भूत् प्रत्यक्षम् अनुनानादिरीश्वर सद्भावे प्रमाणमित्यत्राह - तत्स्थितिमानिति । प्रमाणराशेः अनुमानादियमाणवर्गस्य अवलम्बः आश्रयस्वरूप इति यावत् । तत्स्थितिमान् तेन प्रत्यक्षेण हेतुना स्थितिमान् प्रतिष्ठावान् । भवतीति शेषः । अनुमानादीनां व्याप्तिग्रहणादिसापेक्षत्वात् प्रत्यक्षमन्तरेण स्वरूपलाभो न सिद्ध यतीत्यर्थः । यद्वा तदिति पृथकूपदम् । तत् प्रत्यक्षं प्रमाणराशेः स्थितिमान् प्रतिष्ठावानवलम्बः । यत इत्थं ततः तस्माद्धेतोः वः युष्माकं मानबलं मानेन प्रमाणेन हेतुना यद् बलं प्रतिवादियुक्तिखण्डने सामर्थ्य तत् क्क न बकापीत्यर्थः ॥ ३२ ॥ , नन्वीश्वरः प्रत्यक्षगोचरः इति को वा ब्रूते । यत्तावदुक्तं 'तत्स्थितिमानवलम्ब' इत्यादिना तदयुक्तम् । तथाहि अनुमानादीनां व्याप्तिग्रहणादावेव प्रत्यक्षापेक्षा, न तु साध्येऽपि । तथात्वे प्रत्यक्षेणैवाल किमनुमानेन । तस्मादनुमानेन ईश्वरसद्भावे प्रमाणेनैव भाव्यमित्यत्राह 1 39 ७२ सव्याख्ये त्रिपुरदहने यदि वो माने नमति स्फुटं जगत्कर्तृकानुमानेन मतिः । जगतः कार्यत्वेन स्थिताः स्थ तदसिद्धितोऽधिकार्यत्वेन ॥ ३३ ॥ यदीति। हे असुराः चः युष्माकं मतिर्बुद्धिः जगतः प्रपञ्चस्य कार्यत्वेन कृतिसाध्य त्वेन हेतुना जगत्कर्तृकानु मानेन जगतः कर्तृकः कर्त्ता । स्वार्थे कः । तस्यानुमानेन क्षित्यादिकं सकर्तृकं कार्यत्वाद् घटवत् इत्यादिरूपे (ण) । माने ईश्वरसत्ता साधके प्रमाणे (स्फुटं) नमति प्रदीर्भवति । ईश्वरसत्तासाधकत्वमभ्युपगच्छतीत्यर्थः । तर्हि यूयम् अधिकार्यत्वेन प्रतिवादियुक्तिखण्डनादत्यन्तमहनीयत्वेन स्थिताः स्थ भवथ । तत्र हेतुमाह - तदसिद्धित इति । तस्य कार्यत्वस्य हेतोरसिद्धितोऽसिद्धेः । यदि जगतः (कार्यत्वं) येन केनचित् प्रकारेण सिद्धं तर्हि युष्मत्पक्षः साधीयान् तत्तथा च न भवति । तस्मात् सिद्धत्वेन हेतोराभासत्वात् खण्डिता एव यूयमित्यर्थः । नित्यसिद्धस्य जगतः कथं कार्यत्वमिति भावः ॥ ३३ ॥ तर्हि माभूदनुमानपरं, ईश्वरसद्भावे श्रुतिः प्रमाणं भवतीत्यत्राह L या वागेकर्तारं ब्रवीति देवं युगे युगे कर्तारम् । सा हि समस्ता वितथा तया पुनर्देवता समस्तावि तथा ॥ ३४ ॥ या वागिति । या एका युष्मत्पक्षेऽपौरुषेयत्वेन मुख्या ऋता सत्या वाग् वेदलक्षणा वाणी युगे युगे सर्गे सर्गे इति यावत् । कर्तारं जगत्स्रष्टारं देवमीश्वरं (अरं) ब्रवीति व्यक्तं भाषते सा समस्ता कृत्स्ना वितथा मिथ्यैव । तस्याः स्वार्थे न प्रामाण्यमित्यर्थः । तत्र हेतुमाह - तयेति । पुनश्शब्दो वाक्यालङ्कारे । तया वाचा पुनः देवता आस्तिकजनमनोरथमात्रसिद्धा, ईश्वरः । तथा तेन जगत्कर्तृकत्यादिना प्रकारेण समस्तावि अभिष्टुता । हि यस्मात् । यतो निखिलस्यापि वेदस्य स्तुति- परत्वेन स्वार्थेऽप्रामाण्यमतः श्रुतिरीश्वरसद्भावे प्रमाणं न भवतीत्यर्थः ॥ ३४ ॥ 40 द्वितीय आश्वासः । एवं प्रमाणतया आभासमानान्यनुमानानि प्रत्येकं निराकृत्य समुदायेनेतराण्यपि निराकरोति तस्मान्मान समृहे युष्माभिर्यत्र यत्र मानसमूहे । तत्तत् सच्चे नेष्टे महेशितुर्देहिनाल्पसच्चेष्टे ॥ ३५ ॥ ७३ तस्मादिति । यस्मात् प्रमाणतया आभासमानानामनुमानः दीन। मपीश्वरसत्ता साधना- यासामर्थ्य तस्माद्युष्माभिः मानसमूहे प्रमाणकदम्बके । निर्धारणे सप्तमी। प्रत्यक्षानुमानागमार्थापत्त्युपमानाभावसंभवैतिषु मध्ये इत्यर्थ: । ( यत्र यत्न यस्मिन् यस्मिन् मानसं मनः ऊहे ऊढं) तत्तत् प्रमाणं महेशितुरीश्वरस्य सच्चे सद्भावे नेष्टे न प्रगल्भते । अनुमानादीनामप्यसामर्थ्य किमुतान्येषामिति भावः । तर्हीश्वरो - इस्तीति कुतस्त्योऽयं प्रवाद इत्याशङ्काव्युदासाय सत्त्वं विशिनष्टि देहिनेति । अल्पसवेन अल्पबुद्धिवलेन देहिना पुरुषेण इष्टेऽभिमते । 'राहो: शिरः' 'सालभञ्जिका- याः शरीर' मितिबद्देहिनेति प्रयोगः । अन्यथा देहव्यतिरिक्तात्माङ्गीकारः प्रसज्येत । देहिनां शुभाशुभकर्मफलप्रदाता कश्चिदीश्वरोऽस्ति इति तस्माद् भयं जनयित्वा प्रबल- कृतपीडां निवारयितुकामैर्दुर्बलैरुद्घोषित एवायमीश्वरसद्भाव इत्यर्थः ॥ ३५ ॥ अपिचाम्बरवासा यः श्मशानभूमिश्च यस्य वरवासाय । यो नृशिरस्यत्यन्धः श्रेयस्तत्सेवको निरस्यत्यन्धः ॥ ३६॥ एवं निखिलप्रमाणाविषयत्वेन ईश्वरासत्त्वं द्रढीकृत्य पुनर्येनकेनचित् प्रकारेण ईश्वरसद्भावाङ्गीकारेऽपि तत्सेवा न कार्या इत्याह अपिचेति । अपिचेत्ययं निपातसमुदायः समुच्चये । अत्र सत्त्वे इति षदमध्याहर्त्तव्यम् । सत्त्वेऽपिच ईश्वरस्य सद्भावेऽपि न केवलमसत्त्वे । तत्सेवकः तत्येश्वरस्य सेवकः अन्धः कार्याकार्यज्ञानशून्यः श्रेयः अभ्युदयं निरस्यति 41 सव्याख्ये त्रिपुरदहने त्यजति । तत्र हेतुतया ईश्वरं विशिनष्टि अम्बरवासा इत्यादि । यः ईश्वरः अम्बरवासाः अम्बरमाकाशं वासो वस्त्रं यस्य स तथा नग्न इत्यर्थः । यस्य वरवासाय उत्कृष्टवासस्थानाय श्मशानभूमिश्च । योऽत्यन्ताशुचौ श्मशान एव वसती- त्यर्थः । यो नृशिरसि नृणां शिरसि । शिरः कपालः तत्र, अन्धः अन्नम् अत्ति भुङ्क्ते च । लोके हि नग्नत्वं श्मशानवासित्वं नृकपालधारित्वं चात्यन्तगर्हास्पदमेव । तथाविधः परमेश्वर इति युप्मादृशा एव कथयन्ति । तस्मात् श्रेयोथिंभिः युष्माभिस्तत्सेवा न कार्या इति भावः ॥ ३६॥ । ७४ इति द्वा अथ हरिः प्रारब्धमर्थं यथामनीषितं घटितवानित्याह इत्थमसत्यध्वनिते व्यापारयतात्नमतमसत्यध्वनि ते । नाथेनास्थाप्यन्त श्रेयसि तेषां बभूव नास्थाप्यन्तः ३७ ॥ इत्थमिति । इत्थम् अनेन प्रकारेण आत्ममतं आत्मनः स्वस्य मतं नास्तिकवादलक्षणं सिद्धान्तं व्यापारयता प्रवर्त्तयतां असुराणाम (पवा?नुपा) देयबुद्धिं जनयतेति यावत् । नाथेन जगत्स्वामिना विष्णुना तेऽसुराः असति अश्रेयस्करत्वाद् दुष्टेऽध्वनि नास्तिक पक्षलक्ष गे मार्गेऽस्थाप्यन्त स्थापिताः । अध्वानं विशिनष्टि - असत्यध्वनित इति । असत्यं कल्पना रूपत्वान्मिथ्याभूतं ध्वनितमुक्तिर्यस्मिन् स तथा । एतदसत्त्वे हेतुः । तेषामसुराणां श्रेयसि धर्मेऽन्तर्मनसि आस्था (अभिनिवे) शोऽपि न बभूव । किंपुनः...... भावः ॥ ३७ ॥ तेषां न केवलं श्रेयस्यास्थाभाव एवासीद् अपि तु अश्रेयस्करं कर्म कृतवन्तश्च भ्यामाह ते द्रुतमक्षमयेषु स्फोटं वलयेषु कर्तुमक्षमयेषुः । बिभिदुर्भवनमनेकं प्रभोरतः कैर्व्यतानि भवनमने कम् ॥ ३८ ॥ 42 द्वितीय आश्वासः । त इति । अतो द्धेतो: ते असुरा अक्षमया आस्तिक पक्ष प्रतीया हेतुना द्रतं वेगेन अक्षमयेषु रुद्राक्षस्वरूपेषु बलयेषु... नबन्धेषु स्फोटं भेदनं कर्तुम् ईपु: इच्छां कृतवन्तः । प्रभोः शिवास्यानेकं बहुस...... लयं विभिदुः क्षुण्ण रौः भवनमने भवस्य शिवस्य नमने नमस्कारे विषये कं शिरः व्यतानि कृतम् न कैरपि ॥ ३८ ॥ सर्वेऽपि शिवनमस्कारपर। ङ्मुखा आसन्नित्या (ह) निश्शङ्कं पादानां पातैः प्रतिमां प्रभोः सकम्पादानाम् । कर्तुं भवनेऽत्रेषुः श्रेयः क्व पराङ्मुखेषु भवनेत्रेषु ॥ ३९ ॥ निश्शङ्कमिति । अत्र अस्मिन् स्वैर्भिन्न भवने शिवालये पादानां चरणानां पातैः प्रभोः शिवस्य प्रतिमां प्रतिष्ठितं लिङ्गं सकम्पादानां कम्पश्चलनं तस्यादानं स्वीकारः तत्सहितां कर्तुं निश्शङ्कं निर्गता शङ्का भयं यथा तथा ईपुः इष्टवन्तः । शिवलिङ्गान्यप्युन्मूल- यामासु रित्यर्थः । नम्वत्यन्तभक्तास्ते कथमेवं कृतवन्त इत्यत्राह- श्रेय इति । भवनेत्रेषु शिवदृष्टिषु पराङ्मुखेषु सल्यु क्व श्रेयः कुशलं, न कापि । दैवे प्रतिकूले सर्वेष।मप्यकुशलमेवेत्यर्थः ॥ ३९ ॥ अथ देवा: नारदमुखेनासुर स्त्रियोऽसन्मार्गे ... रित्याहनारदनामा ज्ञातः परमर्षियः स नाकिनामाज्ञातः । तेषां शुद्धान्तरतः स्त्रीणां धर्म निराल शुद्धान्ततः ॥ ४० ॥ त्याजयामासेत्यर्थः ॥ ४० ॥ ॥ ७५ L नारदेति । यः परमर्षिः उत्कृष्टो मुनिः नारदनामा नारद इत्याख्यावान् ज्ञातः लोके ख्यातः । स नाकिनां देवानां आज्ञातो नि (देशात् ते ) षामसुराणां शुद्धान्तरत: शुद्धान्तेऽन्तः पुरे रतः सन् तेषां स्त्रीणां भार्याणां शुद्धान्तरतः शुद्धं विहितधर्मानुष्ठानैकपरत्वान्निर्दोष धर्मं पातिव्रत्यादिकं निरास निरस्तवान् । धर्मस्य कर्तव्यता बुद्धिं 43 धर्मनिरासप्रकारं दर्शयति सव्याख्ये त्रिपुरदहने अयि ललिता नार्यो हे भवतीभिर्धीविरं बतानार्यो । व्रजत निकामनुतेन स्वेनैव पथा सुखाय का मनुते न ॥ ४१ ॥ अयीति। अयीति संबोधनद्योतको निपातः । ललिताः सुकुमार्य: हे नार्यः स्त्रियः भवती भिश्चिरं बहुकालं अनार्या कुत्सिता धी: पातिव्रत्यादिको धर्मोऽनुष्ठेय इति बुद्धिः ऊहे ऊढा । बतेति सुकुमारीभिर्भवतीभिः सुख... तावान् कालः वृथा नीत इत्याश्चर्यमित्यर्थः । यद्वा खेदे बतशब्दः। अतिसुकुमारीणां ब... मासे धर्मधिया एतावान्...इति मे महान् खेदो जा- यते इत्यर्थः । अलमतिक्रान्तानुशोचनेन इतः परं किंकर्तव्यमित्यत आह व्रजतेति । स्वेनैत्र ...तः प्रवृत्तेन नतु श्रुतिस्मृतिविधिपरतन्त्रेण पथा मार्गेण व्रजत प्रवर्तध्वमित्यर्थः । पन्थानं विशिनष्टि – निकामनुतेनेति । य... तेन युक्तिचिन्ताया मिदमेव कर्तव्यमिति भावः । नचास्माकं सुखापेक्षा इति न वाच्यमित्य... ति सुखाय परमप्रयो... खं सर्वस्यापि तदर्थ- त्वात् तस्यानन्यार्थत्वाच्च तथाविधं सुखमनुभोक्तुं का स्त्री न मनुते कल्पयति । नेच्छतीति यावत् । न कापि । सर्वापि स्त्री सुखमभिलपत्येवेत्यर्थः । 'कियार्थोपपद-' (पा० सू०२-३-१४) इत्यादिना चतुर्थी । सुखानीति वा पाठः । सुखेच्छायाः स्त्रीपुंससाधारण्येऽपि स्त्रियो विशिष्य सुखाभिलाषिण्यो भवन्तीति द्योतयितुं स्त्रीलिङ्गतया निर्देशः । यथाहु: – "सुखाभिलाषी स्त्रीभाव" इति ॥ ४१ ॥ ननु दानपातित्रत्यादिलक्षणको धर्मोऽनुष्ठेय इति हि कथ्यते । तत्कथं ... तैवमुच्यते इत्याशङ्क्य एषा नाभियुक्तोक्तिरित्याह दानं परमाहारं दरिद्रलोको विचिन्त्य परमाहारम् । या सरसा बालपतिः स्त्री पातिव्रत्यमप्यसावालपति ॥ ४२ ॥ दानमिति । दरिद्रलोकः दरिद्राणां निःस्वानां लोकः समूह: परमाहारं उत्कृष्टमशनं विचिन्त्य निरूप्य (दानं) अन्नहिरण्यादिवितरणम् अरम् अत्यर्थ परं श्रेयस्साधनेत्कृष्टं 44 द्वितीय आश्वासः । आह व्यक्तं भाषते । दरिद्रा एव स्वेषामशनार्थ दानस्य धर्मरूपतां उद्घोषयन्ति न तु तत्त्व- बिद इत्यर्थः । या स्त्री बालपतिः युवभर्तृका, सरसा स्वपतौ रसेन रागेण सह वर्तमाना च, असौ पातिव्रत्यमपि परम् आलपति । परमित्यनुषज्यते । स्वभर्तर्येव प्रणयवती स्त्री स्त्रीणां पातिव्रत्यमेव परो धर्म इति ब्रूत इत्यर्थः । तस्मात् स्वार्थपरत्वेन दरिद्रादिवचनस्य न प्रामाण्यमिति भावः ॥ ४२ ॥ एवं पातिव्रत्यादी नामकर्तव्यतामुपपाद्य कर्तव्यमर्थमुपदिशति ७७ सन्मा गच्छत मोहं श्रद्धेयोऽस्म्यद्य सम्यगच्छत मोऽहम् । प्राणसमा जारा वः सेव्या निन्द्योऽर्थिनां समाजारावः ॥ ४३ ॥ तदिति । यस्मात् पातित्रत्यादीनामननुष्ठेयत्वं तत् तस्माद्, अद्य इदानीम् इतः परस्मिन् कालेऽपि, मोहं अकर्तव्ये कर्तव्यबुद्धिलक्षणं भ्रमं, मा गच्छत प्राद्भुत मा इत्ययं निरनुबन्धको निपातः । सानुबन्धकत्वे 'माङि लुङ्' (पा०सू० ३-३-१७५) इति लुङा भवितव्यम् । तर्हि किमस्माभिः कर्तव्यं तदुपदिश्यता मित्यत्राह-प्राणसमा इति । प्राणसमा अत्यन्तवल्लभाः, जारा उपपतयः, वः युष्माकं, सेव्या उपभोग्याः, न तु स्वभर्तारः । पातिव्रत्यादिधर्माणां कर्तव्यत्वं न कतिपये कथयन्ति अपितु बहव एव, ते सर्वेऽपि किं निराकरणीया इत्यत्राह - निन्द्य इति । अर्थिनां स्वभर्तृभोगान्ना (ति? दि) काङ्क्षिणां जनानां, यः समाजः समूहः तस्य आरावः 'स्त्रीणां पातिव्रत्यमेव धर्मः' 'दानमेव परो धर्मः' इत्यादिरूपः शब्दो, निन्द्यः गई: । अनुपादेय इति यावत् । ननु तवापि रागादिदूषितत्वं चेत् कथं विश्वास्यत्वमित्यत्राह - श्रद्धेय इति । अहं सम्यक् सुठु, अच्छतमः अतिशयेनाच्छः । शुद्धान्तःकरण इत्यर्थः । अत एव श्रद्धेयः विश्वास्यः, अस्मि । न मदुक्तौ किञ्चिदप्रामाण्यमाशङ्कनीयमि- त्यर्थः ॥ ४३ ॥ अथासुरस्त्रियो नारदवचनादसन्मार्गस्थिता अभूवन्नित्याहइति बहुधा वाचारं परमपर्यः परं दधावाचारम् । गत महिमाशुचिकायः स्त्रीलोकः पापमधिकमाशु चिकाय ॥ ४४ ॥ 45 सव्याख्ये त्रिपुरदहने इतीति । सः स्त्रीलोकः असुरस्त्रीजनः, परमर्षेः नारदस्य, इति उक्तप्रकारेण बहुधा अनेकप्रकारेणावस्थितया, वाचा आशु कालबिलम्बनं विना, अधिकं बहु, पापं परपुरुष संसर्गादिलक्षणं निषिद्धाचरणं, चिकाय सञ्चितवान् । अकरोदित्यर्थः । स्त्रीलोकं विशिनष्टि – य इति । यः स्त्रीलोकः, नारदवचनात् पूर्व परं श्रुतिस्मृतिमूलत्वाद् उत्कृष्टम् आचारं पातिव्रत्यादिलक्षणम् अरम् अत्यर्थ, दधौ । दैवे प्रतिकूले किं नामासंभावनीयमिति भावः । नारदवचनात् परम् अशुचिकाय: अशुचिः परपुरुष- संसर्गादशुद्ध: कायो देहो यस्य स तथा । अत एव गतनहिमा अपगत- माहात्म्यः ॥ ४४ ॥ " अथ द्वाभ्यां श्लोकाभ्यां पापाचरणं विवृणोति ७८ त्यक्तसुहृत् स्थविरोऽधःकृतः स्नुपाभिर्निगूढहृत्स्थविरोधः । उज्झितवानाश्वश्रूःकारी श्वशुरः शुचोऽश्नुवाना श्वश्रूः ॥ ४५ ॥ " त्यक्तेति । श्वशुरः भर्तुः पिता, आशु नारदवचन श्रवणसमनन्तरमेव, अश्रु मयनजलम् उज्झितवान् मुक्तवान्, दुःखितोऽभूदित्यर्थः । कीदृशः । ऊःकारी ऊ:कारखान् । अयमपि दुःखानुभावः । " ऊर्दुः खभावने कोपे " इति भट्टः । 'तत्र हेतु: प्रार्थिताभिः, अधःकृतः । स्नुपाभिः पुत्रभार्याभिः अत्यर्थं धिकृत इति यावत् । तत्र हेतु: - स्थविर वृद्ध इति । त्यक्तसुहृत् त्यक्ताः सुहृदः स्नुषादिरतिर्न कर्तव्या खदाररतिरेव कर्तव्या इत्यादि हितमुपदिशन्तो जना: येन स तथा । भवितव्यताक्रान्ते मनसि शतकृत्वोऽभिहितमपि हितबचनं नावगाहत इति भावः । निगूढहृत्स्थविरोधः निगूढः स्नुषाणामविधेयत्वात् स्वस्य तत्प्रतीकारासामर्थ्याच्च आच्छादितो हृत्स्थ: हृदयस्थो विरोध: द्वेष: येन स तथा । अपिशब्दोऽध्याहर्तव्यः । श्वश्रूरपि भतृमातापि, शुचः दुःखस्य अश्नुवाना प्राप्नुवती । अभूदिति शेषः । अत्रापि · रत्यर्थ प्रार्थितैः पुत्रैः स्थविरेयमित्यषः कृतेति हेतुरतिदेष्टव्यः । शब्दतस्त्यत्तसुहृत्त्वं चार्थतो निगूढद्वितीय आश्वसः । हृत्स्थविरोधत्वं च ऊःकारित्वं च श्वना अपि विशेषणं भवति । ' पतिपत्न्यो: प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः । ' इत्यमरः ॥ ४५ ॥ युगमवजानानं दम्पत्योवृत्तीजहौ निजा नानन्दम् । तद् व्यचरज्जारहितं परदारहितञ्च वीक्ष्य लज्जारहितम् ॥ ४६ ॥ युगमिति । दम्पत्योः जायापत्योः, युगं युगळं, निजा भात्मीया, वृत्ती : स्वपत्येकनिष्ठत्वस्वमार्यैकनिष्ठत्वादिलक्षणानाचारान्, जहौ त्यक्तवत् । आनन्दं न जहौ । स्वैराचारजनितं सुखमङ्गीकृतवदित्यर्थः । कीदृशम् । अवजानानं भार्या भर्तॄन् प्रति भर्तारो भार्या : प्रति परस्परमवज्ञां कुर्वाणम् । यस्मान्निजवृत्तेनं स्वैराचारात् सुख- स्योपादानं चाङ्गीकृतं तत् तस्मात्, जारहितं जारेभ्यो हितमिष्टं वस्तु, परदारहितं च परदारेभ्यो हितं च, वीक्ष्य विचिन्त्य, लज्जारहितं लज्जाकार्य करणादुत्पन्नया दिया रहितं शून्यं यथा भवति तथा व्यचरत् आचरति स्म । स्त्रियो जारहितं बीक्ष्म व्यचरन् । पुरुषाः परदारहितं च वीक्ष्य व्यचरन्नित्यर्थः ॥ ४६ ॥ असुराणामधर्मव्यापारमुपसंहरति इति हरिनारदमततः स जनौधो धर्मवर्त्म नार दमततः । चण्डालोपमचेष्टः स्थाणोरपि च प्रसादलोपमचेष्ट ॥ ४७ ॥ इतीति । स जनौधः असुरलोकः, हरिनारदमततः हरिनारदयोर्मतात् सिद्धान्ताद्धेतो: हरिमतात् असुरजन: नारदमतात् तत्स्त्रीजनश्च इति उक्तप्रकारेण, धर्मवर्त्म धर्मः श्रुतिस्मृतिचोदितं कर्म तत्प्रधानं वर्त्म मार्ग, न आर न प्राप्तवान् । अधर्म एव प्रावर्तिष्टेत्यर्थः । कीदृशः । दमततः दम इन्द्रियजयः तेन ततः व्याप्तः । दमोपलक्षितेन सदाचारेण व्याप्त इत्यर्थः । भूतकालविशेषणमेतत् । 'दम इन्द्रियनिग्रहे । दण्डे गृहे च ' इति केशवः । चण्डालोपमचेष्ट: चण्डाल: श्वपत्र: 47 सव्याख्ये त्रिपुरदहने तदुपमा तत्सदृशी चेष्ट। प्रवृत्तिर्यस्य स तथा । तत्कालविशेषणमेतत् । पूर्व सदाचारपर: (त:इ) दानीं दुराचारपरो जातः । अहो विचित्रा दैवगतिरिति भावः । अत एव स्थाणोः शिवस्य, प्रसादलोपं प्रीतिविनाशम् अचेष्ट अकरोदपि च । 'चिञ् चयने' इति धातोः लुङ् । असुराणां दुराचारपरत्वदर्शनात् शिवोऽपि रुष्टोऽभूदित्यर्थः ॥ ४७ ॥ अथ देवानां प्रवृत्तिमाह अथ विजयाशां भव्या दधतो देवा दिदृक्षया शाम्भव्या । तस्थुस्तापस्यां ते धुरि गिरिभर्तु रुप्रतापस्यान्ते ॥ ४८ ॥ ९ अथेति । अथ सुराणामसन्मार्गस्थापनानन्तरं, ते त्रिपुरपराजिता देवाः, शाम्भव्या शम्भुसंबन्धिन्या, दिदृक्षया द्रष्टुमिच्छया हेतुना, गिरिभर्तुः पर्वतश्रेष्ठस्य हिमवतोऽन्तेऽवसाने अधित्यकायामित्यर्थः । तापस्यां तपस्सम्बनिधन्यां, धुरि व्यापारे, तस्थुः स्थितवन्तः । किं फलमुद्दिश्य तपश्चकुरित्याशङ्कां परिजिहीर्षुः देवान् विशिनष्टि–विजयाशामिति । विजयेऽसुराभिभवे आशामिच्छां दधतः बिभ्राणाः । तथा भव्याः कल्याणगुणशालिनः । एषामभिलषितसिद्धिर्भविष्यत्येवेति भावः । "भव्यः पुनर्ना पादपान्तरे । कमरङ्गाह्वये क्ली तु फले तस्य धने तथा । कल्याणाख्यगुणे च स्याद् मेद्यलिङ्गं च तद्वति ॥ योग्ये भवितरि प्राप्ये भवितव्ये तु तन्नपि । " इति केशवः । गिरिभर्तारं विशिनष्टि - गुरुप्रतापस्येति । गुरुमहान् प्रतापो वैशिष्ठ्यं यस्य स तथा। अत्राचेतने पर्वते दूरादेवारीणां भयजनकत्वलक्षणस्य प्रतापस्यासंभवाद् मुख्यार्थबाघे विशिष्टताविशेषेण प्रतापेन विशिष्टतासामान्य लक्ष्यते । सामान्यविशेषभावः सम्बन्धः । कार्यकारित्वनैयत्यप्रतीतिः प्रयोजनम् । वैशिष्ठ्यं चास्य क्षेत्रान्तरेभ्यः पावनत्वाद्यतिशयात्। एतच्च देवानां तत्रावस्थाने हेतुः ॥ ४८ ॥ 1 द्वितीय आश्वासः । तपश्चर्या विवृणोति- अकृत जपञ्चाक्षरतः त्रिदशसमूहोर्चनञ्च पञ्चाक्षरतः । अतनुत मनुविद्धोमं तेन ततोऽस्तावि दैवमनुविद्धोमम् ॥ ४९ ॥ ८१ अकृतेति । त्रिदशसमूहो देवजनः पञ्चाक्षरतः पञ्चाक्षरमन्त्रस्य, जपं यकृत, चकारेणानुक्तं तर्पणमपि । कीदृशः । मनुवित् मनुर्मन्त्रः मन्त्र- मन्त्रार्थर्षिच्छन्दोदेवताविनियोगज्ञ इत्यर्थः । अक्षरतः अक्षेषु रुद्राक्षेषु रतः । रुद्राक्षमालया क्लप्मजपसङ्ख्य इत्यर्थः । पञ्चाक्षरतः पञ्चाक्षरमन्त्रेण अर्चनं पूजाम् । चकारोऽकृतेत्य- नुकर्षणार्थः । पञ्चाक्षरतो हो ममग्निकार्य चातनुत कृतवान् । पञ्चाक्षरत इत्यत्र जपविषये पष्ठचन्तात्तसिः । अन्यत्र तृतीयान्तात् । ततो जपार्चनाद्यनन्तरम् । तेन त्रिदशसमूहेन । अनुविद्धोमं अनुविद्धा संबद्धा उभा पार्वती यस्य तत् तथाविधं दैवं श्रीपरमेश्वरः अस्तावि ॥ ४९ ॥ अथ नवभिः श्लोकैः स्तुतिप्रकारमाह- शुभकर्मा ना नियतः प्राप्नोति फलानि काम्यमानानि यतः । लोके वेदे वा यः स्तुतो नमस्तेऽस्तु शम्भवे देवाय ॥ ५० ॥ शुभकर्मेति । अत्र नास्तिकपक्षावलम्बिना हरिणा य आस्तिकपक्षाक्षेपः कृतः तं समाददद्भिदेवैः स्तुतिः क्रियते इत्यवगन्तव्यम् । तत्रानेन 'यदि हैवायात्यन्तमि' त्यारभ्य ' युष्मदीयमक्षेपतती' त्यन्तेन 'क्रियते यत्तावदथे' त्यारभ्य 'कुतोऽतस्सभारतापाथेयमि' त्यन्तेन च ग्रन्थेन यदा क्षिप्तं तत्परिहरन्तः स्तुवन्ति तस्मै शंभवे ते तुभ्यं नमः नमस्क्रियास्तु भवतु । कीदृशाय । देवाय दीव्यति द्योतते अहमस्मीति सर्वप्राणिनामप्यन्तः स्फुरतीति देवः । सर्वेषामप्यन्तरहमिति प्रकाशमानस्य किं प्रमाणान्तरान्वेषणमिति भावः । 'यदिहैवायात्यन्तमि' त्यादिना च'क्रियते यत्ताबदथेत्यादिना' च यदाक्षिप्तं तत्परिहर्तुं शम्भुं बिशिषन्ति यतो यस्मात् शम्भोः, 1 शुभकर्मा चोदितकर्मानुष्ठाता, ना पुरुषः, नियतः फलभोगे व्यभिचाररहितस्सन्, सव्याख्ये त्रिपुरदहने काम्यमानानि अभिलप्यमाणानि फलानि देशान्तरकालान्तरदेहान्तरभोग्यानि स्वर्गादीनि, प्रामोति लभते । 'का पुनरङ्गात्र मितिरि'त्यादिना यदाक्षिप्तं तत्परिहर्तुं शम्भुं विशिषन्तिलोक इति । यश्शुभकर्मा ना लोके ८२ " 'तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते । इत्यादिवचनैः वेदे वा त्रय्यां च स्तुतः प्रतिपादितः । पुरुषस्य देहान्तरग्रहणे फलभोक्तृत्वे चागमः प्रमाणमिति भावः । लोके वेदे वा यः स्तुत इत्यनेनावृत्त्या शम्भुरपि विशेषणीयः । अत्रेश्वरसत्तायामागमः प्रमाणमिति भावः । 'फलमपि न भवेदिष्टमि'त्यादिना 'स्याद्यदि मोदनतोऽय' मित्यादिना च यदाक्षिप्तं तदप्यनेनैव समाहितम् । अग्निष्टोमादेः श्राद्धादेश्च श्रुतिस्मृतिचोदितत्वात् ॥ ५० ॥ 'श्राव्या मदवध्येय' मित्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति अद्वैतं परममलं चिन्मय मानन्दमच्युतं परममलम् । सकलेशं सत्यमृतं वचनं त्वामप्रमेय शंसत्यमृतम् ॥ ५१ ॥ अद्वैतमिति । अप्रमेय! निखिलप्रमाणाविषय ! ऋतं वेदलक्षणं, वचनं त्वामलम् अत्यर्थं, शंसति तात्पर्येण प्रतिपादयति । कीदृशं शंसतीत्याशङ्कायां विशिषन्ति-अद्वैत- मिति । अद्वैतं द्वयोर्भावो द्विता द्वितै (व) द्वैतं तद्रहितम् । सजातीय विजातीयस्वगतभेदशून्य- मित्यर्थः । ननु जीवानां पृथक्सत्त्वे कथमद्वैतत्वं इत्यत्राहुः सकलेशमिति । सकलस्य भूतेन्द्रियान्तःकरणात्मकस्य विश्वस्येशं प्रवर्तयितारम् । ईश्वर एव चराचरेषु देहेषु (तिष्ठति । उक्तं च ) श्रीभगवता- "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ इति । नन्वेवं चेद् जन्मविनाशवत्त्वादीश्वरस्य बिकारित्वप्रसङ्ग इत्यत्राहुः 50 द्वितीय आश्वासः । अमृतमिति । मृतं मरणम् । 'नपुंसके भावे क्त: ' (पा० सू० ३-३-११४) इति क्तः । जन्मोपलक्षणमेतत् । जन्मबिनाशरहितमित्यर्थः । जन्मविनाशौ तु देहस्यैवेति भावः । तथोक्तं भागवते"नात्मा जजान न मरिष्यति नैधतेऽसौ नक्षीयते वनविद्व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् । " ८३ इति । 'विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । इति च। नन्वीश्वरस्य जीवात्मना स्थितत्वे स्वगत भेदसंभवान्ना द्वैत सिद्धिरित्यत्राहुः परमिति । परं सर्वोपरिष्टात् स्थितं मायातत्कार्याणामप्युपरि वर्तमानम् । अत एवामलम् । मलशब्देन मायाभिधीयते । तदुक्तं वासिष्ठे "क्कचिन्मलमिति प्रोक्तं कचिन्मायेति कल्पितम् । इति । मायासंबन्धरहितमित्यर्थः । अत एवाच्युतं अवयवविनाशात्मकक्षय- रहितम् । अथास्य सात्त्विकं रूपमा हु: - सत्यं परमार्थभूतं सद्रूपमित्यर्थः । आनन्दं सुखखरूपं, चिन्मयं बोधखरूपम्, अत एव परमं सर्वोत्कृष्टम् । सर्वस्यापि मूलकारणत्वा- दीश्वरस्य प्रमाणगम्यत्वे प्रमेयत्वेन यज्जदत्वं प्रसज्येत तत्परिजिहीर्षुभिर्देवैः 'अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि' इत्याद्यभियुक्तोक्तनीत्या वेदोऽप्यतन्निरसनेनैव ईश्वरं प्रतिपादयतीति द्योतयितुमप्रमेयेति सम्बोधनमित्यवगन्तव्यम् । अनेन देहव्यतिरिक्त एवात्मा स एव परमेश्वरः । श्रुतिरत्र प्रमाणमित्युक्तं भवति ॥ ५१ ॥ अथ 'तद्वचने शस्ये मे तिष्ठत धर्मा हिताय नेशस्येऽमे ।' इति यदुक्तं तन्निरस्यन्तः स्तुवन्ति येऽखिलयोनिं दन्तित्वग्वसन ! भवन्तमपधियो निन्दन्ति । उत्तारानन्वेते निरये निपतन्ति हर ! नरा नन्वेते ॥ ५२ ॥ सव्याख्ये त्रिपुरदहने य इति । हे दन्तित्वग्वसन ! दन्ती गजः तस्य त्वक् चर्म वसनं वासो यस्य तस्य सम्बोधनम् तथा । हे हर ! हरश्रीनामशालिन् । भक्तानां पापं हरतीति हरः । अत्र सम्बोधनद्वयेन गजासुरं निहत्य तच्चर्मवासिनस्तस्य जगत्कण्टको- द्धारणपरत्वं च भक्तानां नः दुरवस्थामूलं पापं संहरणीयमिति च ध्वन्यते । ये नराः चार्वाकादय:, भवन्तं निन्दन्ति 'धर्मा हिताय नेशस्येमे' इत्यादिना दुप्यन्ति एते निरये नरके, निपतन्ति । ननुरवधारणे । निपतन्त्येवेत्यर्थः । नरान् विशिषन्ति - अपधिय इति । बुद्धिशून्याः । तेषां बुद्धिशून्यत्वमेव भवन्निन्दाया हेतुः । बुद्धिमन्तस्तु न निन्दन्तीति भावः । भगवन्तं विशिंषन्ति - अखिलयोनिमिति । अखिलस्य योनिं कारणम् । अतो वन्दनीयत्वमेव न निन्दनीयत्वमित्यर्थः । निरयं विशिषन्ति - उत्तारानन्वेत इति । उत्तार उत्तरणं तेनानन्वेते (सर) हिते । भवन्निन्दकाः कदाचिदपि नरकान्नोत्तरिष्यन्तीत्यर्थः ॥ ५२ ॥ 1 ८४ 'न पतति तं प्रत्यक्षम्' इत्यादिना यत्प्रत्यक्षा विषयत्वमुक्तं तन्निरस्यन्तः स्तुवन्ति अनितरसादृश्यत्वं दधतोऽस्य हि भवति तेऽञ्जसा दृश्यत्वम् । शान्तो यो योग्यास्ते ये तु न पश्यन्ति हतधियोऽयोग्यास्ते ॥ ५३ ॥ अनितरेति । यः पुरुषः, शान्तः विषयेभ्य उपरतमनाः, अत एव योगी योगश्चित्तवृत्तिनिरोधः तद्वान्, आस्ते तिष्ठति । अस्य पुरुषस्य, ते तव, अञ्जसा तिरोधानमन्तरेण दृश्यत्वं दर्शनयोग्यत्वं, भवति । हिशब्दः प्रसिद्धौ । द्विविधं हि प्रत्यक्षम् । यो गिप्रत्यक्षमयोगिप्रत्यक्षं च । तत्रेश्वरो योगिप्रत्यक्षगम्य इत्यर्थः । योगिनोऽपि किमिति चक्षुर्भ्यां न पश्यन्तीत्याशङ्कायां ते इति षष्ठयन्तनिर्दिष्टम् ईश्वरं विशिंषन्ति - अनितरेति । खव्यतिरिक्ता इतरेऽस्मदादयो देहिनः तैस्सादृश्य मितरसादृश्यम् अविद्यमानमितरसादृश्यं यस्यास्मदादिवद्देहग्रहणायोगात् तस्य भावोऽनितरसादृश्यत्वं ततः बिभ्राणस्य । चिन्मात्रविग्रहः कथं चक्षुर्भ्यां गृह्यत इति भावः । तर्ह्ययो,गिनः किमिति न पश्यन्तीत्यत्राहुः – ये त्विति। तुरवधारणे भिन्नक्रमश्च । ये ज(नतानाः) न पश्यन्ति । त्वामिति शेषः । ते अयोग्यास्तु अनर्हा एव । तत्र हेतुः इतषिय इति । नष्टबुद्धयः । द्वितीय आश्वासः । अयोगिनो हि अयोग्यत्वादेव त्वां न पश्यन्ति, न तु नास्तित्वादित्यर्थः । एवञ्च योगिप्रत्यक्षविषयत्वाद् 'न पतति तं प्रत्यक्षम्' इत्यादिना यदुक्तं तदयुक्तं, स्वानुभूतिरेकैव ईश्वरसद्भावे प्रमाणमिति भावः । उक्तं च मर्तृहरिणा "दिकालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥" ८५ इति ॥ ५३ ॥ 'या वागेकर्तारमि'त्यादिना कृतमाक्षेपं परिहरन्तः स्तुवन्ति- बुद्धिरजाबाधातः स्वतः पचत्यादिशब्दजा वा धातः ! । अखिल। वै तथ्य। यत्त्रय्युत्था त्वयि तु केन वैतध्याय ॥ ५४ ॥ बुद्धिरिति । वाशब्दोऽप्यर्थः । वैशब्दोऽवधारण । हे अज!जन्मरहित!, हे धातः!विश्वकर्तः! । आभ्यामीश्वरस्य कारणरहितत्वाद् विश्वस्य ईश्वर- कारणत्वाच्च त्वमेव नः शरणमिति ध्वन्यते । पचत्यादिशब्दजा वा देवदत्तः पचति, यज्ञदत्तः पठतीत्यादेलौंकिकवाक्याज्जातापि, अखिला बुद्धिर्ज्ञानं, स्वतो निसर्गतः, अबाधा नायं पचतीत्यादिकज्ञानानुदयाद् बाधरहिता, अत एव तथ्या परमार्थभूता, यत् यस्माद् अतः एतस्माद्धेतोः त्वयि त्वद्विषये, त्रय्युत्था वेदवाक्योत्पन्ना, बुद्धिस्तु तुशब्दो विशेषद्योतकः । केन हेतुना वैतथ्याय मिथ्यात्वाय । भवेदिति शेषः । नात्र किञ्चिदपि कारणमित्यर्थः । यतः पाकादिक्रियादावपि लौकिकवाक्यानामपि प्रामाण्यं ततः केनाप्यनपह्नवनीये त्वयि वैदिकवाक्यानां प्रामाण्य भवत्येवेत्यर्थः । अतः श्रुततथ्यसमर्थनं स्तुतिपरतया योजनं च नोपपन्न मिति भावः । ततस्तस्मादीश्वर सद्भावे आगमः च प्रमाणं भवतीत्याशयः ॥ ५४ ॥ " यत्पुनः 'यदि वो माने नमती'त्यादिना कार्यत्वस्य हेतोरसिद्धतया हेत्वाभासत्वमुद्भावितं तन्त्रि स्यन्तः स्तुवन्ति सावयवत्वादेव प्रमिते जगतो भवे भव ! त्वा देव ! । वदिता वादी न स्रष्टारं को नु निरसिता वादीनः ॥ ५५ ॥ सव्याख्ये त्रिपुरदइने सावयवत्वादिति । हे! भव! भव इति श्रीनामशालिन् ! । भवत्यस्मा- द्विश्वमिति भवः । हे देव! देवयति द्योतयति, निखिलं जगत् प्रकाशयतीति देवः । विश्वकर्तृत्वाद् विश्वावभासकत्वाच्च त्वत्सत्तां को वा निराकुर्यादिति भावः। सावयवत्वादेव अवयवसहितत्वादेव, जगतः भत्रे उत्पत्तौ । कार्यत्व इत्यर्थः । प्रमिते सम्यगवगते, को वादी त्वा त्वां, स्रष्टारं विश्वकर्तारं, न वदिता । सर्वोऽपि वादी बदितैत्र । वदितेति तृन्नन्तं रूपम् । नान्तत्वेऽपि हि "न लोक" (पा० सू० २-३-६९) इत्यादिना कर्मणि षष्ठी न स्यात् । ननु केचिदीश्वरस्य जगत्कर्तृतां निरस्यन्ति । तत्कुतो हेतोरित्यत्र हुः - को न्विति । अदीनः बुद्धिहीनो दीनः तस्मादन्योऽद्दीनः बुद्धिमान् तादृशः को नु निरसिता निराकर्ता, वा । बुद्धिमांस्त्वां न निराकरोनीत्यर्थः । अतो बुद्धिशून्यत्वमेव त्वन्निरसने हेतुः इति भावः " विमतं जगत् कार्य भवति । सावयवत्वात् । यद्यत् सावयवं तत्तत्कार्यं दृष्टम् । यथा घटः । सावयवं चेदम् । तस्मात् कार्य- मित्यनुमानात् कार्यत्वस्य यदुक्तमसिद्धत्वं तन्न सङ्गच्छत इत्यर्थः । अतः कार्यत्वेन जगत्कर्तुरनुमेयत्वादनुमानमपीश्वरसत्तायां प्रमाणमित्याशयः॥ ५५ ॥ .9 'तस्मान्मानसमूहे' इत्यादिना यदाक्षिप्तं तत्परिहरन्तः स्तुवन्ति -- कतरनामानन्त! त्रिणयन ! शंसन्ति दुर्जना मानन्तत् । हतसुरसंसत्तान्ते! न साधयेद्यत् समञ्जसं सत्तां ते ॥ ५६ ॥ कतरदिति । हे अनन्त ! देशतः कालतो वस्तुतश्यावसानरहित ! हे त्रिणयन ! तेजस्त्रात्मकनेत्र त्रितययुक्त ! । आभ्यां सगुण निर्गुण भेदेनेश्वरस्यावस्थितत्वमुक्तम् । हतसुरसंसचान्ते! इता सुरसंसद: त्रिदशसमूहस्य तान्तिः परपरिभवलक्षणग्लानिर्येन तस्य संबोधनम् तथा । इदानीमपि भवतैवं भाव्यमित्यभिप्रायः । यत् कर्तृभूतं, ते तब ईश्वरस्य, सत्तां सद्भावं, समज्जसं सम्यक्, न साधयेदिति दुर्जनाइशंसन्ति कथयन्ति, तन्मानं प्रमाणं, कतरन्नाम । नामशब्दः प्रसिद्धौ । अष्टसु प्रमाणेषु मध्ये किन्नाम । न किमपि प्रसिद्ध मेतत् । सकलमपि प्रमाणम् ईश्वरसत्तास धकमेवेत्यर्थः ॥ ५६ ॥ द्वितीय आश्वासः । 'अपि चाम्बरवासा य' इत्यादिनोक्तं परिहरन्तः स्तुवन्ति ८७ त्वामवदातारम्भो रुद्र ! ध्यात्वा फलस्य दातारं भोः । स्वं कर्मानन्तनुते! जनोऽयमाम्नायगम्यमानं तनुते ॥ ५७ ॥ त्वामिति । भो रुद्र ! रुद्र इति श्रीनामशालिन् !, हे अनन्वनुते ! अनन्ना निरवसाना नुतिः स्तुतिर्यस्य तस्य संबोधन तथा । अम्बर- वासत्वश्मशानवासित्वादिकं तु तव स्तुतिरेवेति भावः । अयं चतुर्वणीश्रम- लक्षणो जनः, फलस्य कर्मफलस्य, दातारं त्वां ध्यात्वा स्वमात्मीयं स्वस्ववर्णाश्रमविहितं कर्म तनुते । कर्मणः फलमीश्वरो दास्यतीति श्रेय- स्कामो जनः कर्म करोतीत्यर्थः । कीदृशो जन इत्यत्राह — अवदातारम्भ इति । अवदातः कल्पसूत्रायुक्त विध्यनुल्लङ्/धित्वत् शुद्ध आरम्भोऽनुष्ठानं यस्य स तथा । कीदृशं कर्मेत्यत्राहु - आम्नायगम्यमानमिति । आम्नायो वेदः तेन गम्यमानं वेद्यमानं वेदैकप्रमाणमित्यर्थः । 'श्रेयस्कामः परमेश्वर- सेवां कुर्वीते'ति श्रुत्या विहितामीश्वरसेवां कुर्वन् जनः कथं श्रेयोनिरासकः स्यादिति भावः । ॥ ५७ ॥ एवं नास्तिका क्षिप्तमास्तिकपक्षं समाधाय स्तुत्वा स्वाभिमतमर्थं प्रार्थयितुका मास्तदनुगुणमपदानं प्रकटयन्तः स्तुवन्ति त्रिजगत्समरक्षोऽदः पुरान्धकादपि च दत्तसमरक्षोदः । त्वं पुनरक्षामतनोर्नाथ ! महाभैरवाच्च रक्षामतनोः ॥५८ ॥ त्रिजगदिति । हे नाथ ! स्वामिन् ! त्वं पुरा अन्धकाद् अन्धकनाम्नोऽसुराद् । अपि चादः इदं त्रिजगत्, समरक्षः सम्यग् रक्षितवान् । अपि चेत्यनेन वक्ष्यमाणोऽर्थः समुच्चीयते । कीदृशः । दत्तसमरक्षोदः दत्तः समरे युद्धे क्षोदश्चूर्णीभावो येन स तथा । पुनः पश्चाद् । अक्षामतनोः बृहत्कायात्, (महाभैरवाद्) महाभैरवनामोऽसुराच्च, रक्षां त्राणम्, अवनं कृतवान् । त्रिजगत इति शेषः ॥ ५८ ॥ ८८ सव्याख्ये त्रिपुरदहने एवं स्तुतिं विधायोत्तराश्वासस्य बीजमुपक्षिपन्तः स्वाभिमतमर्थ प्रार्थयन्ते- अधुनापि तथैव समस्तगुरो ! परिरक्ष जगत् समुदस्य पुरः । इति देवगणस्य तदा स्तुवतः प्रभुराविरभूत् समुदस्य पुरः ॥ ५९ ॥ अधुनापीति । हे समस्तगुरो ! जगत्स्वामिन् । यथैव पुरान्धकादिभ्यो जगद्रक्षितवान् तथैव अधुनापि इदानीमपि, पुरः पुराणि, समुदस्य संहृत्य, जगत् परिरक्ष पाहि । देवानां प्रयलः फलवानासीदित्याइ - इतीति । तदा तस्मिन् काले, इति उक्तप्रकारेण, स्तुवतः स्तुतिं कुर्वतोऽस्य स्वाभिमतं प्रार्थयतो, देवगणस्य, पुरोऽग्रभागे, प्रभुर्महेश्वरः, आघिरभूत् प्रत्यक्षता- मगमत् । कीदृशः । समुत् । नयनविका सहासादिप्रीत्यनुभावयुक्त इत्यर्थः ॥ ५९ ॥ इति श्रीवैष्णव कुलालङ्कृतेः कविहृदयसार्वभौमस्य करुणा करनाम्नो विद्वत्प्रवरस्य भागिनेयेन पङ्कजाक्षनाम्ना विरचितायां त्रिपुरदहनव्याख्यायां हृदयग्राहिण्यां ॥ द्वितीय आश्वासः ॥ अथ तृतीय आश्वासः । अथोपक्षिप्तं पुरसमुद्सनं प्रपञ्चयितुमुपक्रमते— अथ परमं गलपन्ते पुमांसमासोनम खिलमङ्गल्यं ते । सविकासाक्षा देवप्रवरा ददृशुः क्षणेन साक्षादेव ॥ १ ॥ · अथेति । अथ प्रभोराविर्भावानन्तरं, ते शिवस्तुतिकर्तारो देव (प्रवरा :) क्षणेन झटिति, परमं सर्वोत्कृष्टं, पुमांसं परमेश्वरं, साक्षादेव प्रत्यक्षमेव, दहशुः दृष्टवन्तः । कीदृशम् । गल्यन्ते गळी वृषभः तस्यान्ते उपरिप्रदेश, । आसीनं स्थितम् । कुतोऽस्य परमपुरुषत्वमित्यत्राह – अखिलमङ्गल्यमिति । अखिलस्य जगतो मङ्गल्यं मङ्गलस्य निर्मित्तं सत्तास्फूर्तिप्रदत्वात् । तृतीय आश्वासः । " मङ्गल्यं तु निमित्ते स्यान्मङ्गलस्याभिधेयवत् ।" इति केशवः । कीदृशा देवप्रवराः । सविकासाक्षा: विकासो विकस्वरता तत्सहितमक्षि नेत्रं येषां ते तथा । भगवद्दर्शनेन हृष्टा इत्यर्थः ॥ १ ॥ अथ देवानां प्रवृत्तिमाह · घृतभासुरमालेयं भसितेन भवं निरीक्ष्य सुरमालेयम् । अधिकं सन्तुष्टावस्थितं पुरः कृत्तिवाससं तुष्टाव ॥ २ ॥ धृतेति । इयं शिवस्तुतिंकरी, सुरमाला देवसमूह, पुरः पुरस्ता दवस्थितं मवं शिवं, निरीक्ष्य दृष्ट्वा, अधिकमत्यर्थ, सन्तुष्टा प्रीता सती, तुष्टाव स्तुतिमकरोत् । भवं विशिनष्टि - घृतेति । भसितेन भस्मना, - घृतभासुर मालेयं धृतं भासुरं भासनशीलं मालेयं चन्दनं येन स तथा । मालयेनेव भसितेनालिप्तगात्रमित्यर्थः । तथा कृत्तिवाससं कृत्तिर्गजस्य व्याघ्रस्य वा चर्म सा वासो वसनं यस्य स तथा ॥ २ ॥ अथ चतुर्भिः श्लोकैः स्तुतिप्रकारमाह ८९ जय वरदेशानन्त ! स्थाणो! बिभ्राण ! भुवनदेशानन्तः । वेष्टित! रोमावल्याह्वयमधुपत्रातमन्थरोमावल्या ॥ ३ ॥ " जयेति । हे वरद ! भक्तानामभीष्टप्रद !, ईश! जगत्सर्गादिप्रवृत्तौ शक्तियुक्त !, अनन्त ! देशतः कालतो वस्तुतश्चान्तरहित !, स्थाणो ! जन्मादिविकाराभावात् स्थिरस्वरूप! अन्त: स्वान्तर्भागे भुवनदेशान् चतुर्दशभुवनानीत्यर्थः । बिभ्राण! दधान ! हे रोमावल्याह्वय मधुपत्रात मन्थरोमावल्या वेष्टित ! रोमावली रोमराजि: इत्याइयो नाम यस्य तेन मधुपत्रातेन ! मन्थस्या मनोहारिण्या उमा पार्वत्येव बली लता तया बेटिस आश्लिष्ट इत्यर्थः । जय सर्वोत्कृष्टतया वर्तस्व । अत्र रोमावलीरूपेण तिरोहितो मधुपत्रात एवायमिति प्रतीतेः "प्रकृतं यन्निषिध्यान्यत् साध्यते सा त्वपहनुतिः । " सव्याख्ये त्रिपुरदहने इति लक्षितापह्नुतिरलङ्कारः । उमायाः बल्लत्वेिन रूपणाद् भगवतो द्रुमत्वेन रूपणमर्थ सामर्थ्यादवसीयते । अत एकदेशविवर्तिरूपकं च । अत्र मधुपत्रातमन्थरत्वस्योमाया बल्लीत्वारोपं प्रति उपपादकत्वेनापहनुते रूपकं प्रत्यङ्गस्वात् रूपका पहनुत्योः "अविश्रान्तिजुषामात्मन्यज्ञाङ्गित्वं तु सङ्करः ।" इत्युक्तलक्षणः सङ्करः ॥ ३ ॥ चूडाकेत कलेश स्पर्धि जटाजूटकृतनिकेत कलेश! । जय मुखतामरसरसास्वाद नकलहंस ! गिरिसुतामर सरसः ॥ ४ ॥ १ चूडेति । चूडाकेत कलेश स्पर्धिजटाजूटकृत निकेतकलेश ! चूडा मूर्धा तत्र यः केतकलेशः भूषणार्थं घृतं केतककुसुमशकलं तेन स्पर्धितुं शील- मस्येति तथा केतकलेशसदृश इत्यर्थः केतकस्य ले शोपादानं चन्द्रकला या स्त नीयस्त्वेन तत्साम्यसिद्ध्यर्थं, चूडया विशेषणं च केतकलेशकलेशयोरे कत्रा व स्थानमत् स्पर्धायास्सम्भाव्यत्वसिद्ध्यर्थम् । 'अथ मूर्धनि । चूडाशिखावलभ्योश्चे'ति केशवः । जटाजूटो जटाबन्धः तत्र कृतो निकेतो निवासो येन स तथा । चूडाकेत कलेशस्पर्धिजटाजूटकृतनिकेतः कलेशश्चन्द्रो यस्य तस्य सम्बोधन तथा । गिरिसुतामरसरसः गिरिसुता पार्वती सैव यदमरसरो गङ्गा तस्य, मुखतामर सरसास्वाद नकलहंस ! मुखमेव यत्तामरसं पद्मं सत्र यो रसः अधरा- मृतलक्षणो मकरन्दः तस्यास्वादने कलहंस ! राजहंस ! जय सर्वोत्कृष्टतया वर्तस्व ॥ ४ ॥ अङ्कार्धन्य स्तन गप्रियतन याकुङ्कुमार्द्रघन्यस्तनग! । प्रेत सकाशात्रासस्थिरचित्त ! जय त्र्यम्बकाशावास ! ॥ ५ ॥ अङ्कार्थेति । अङ्कार्घन्यस्तन गप्रियतनया कुङ्कुमाई धन्यस्तनग अङ्कस्योत्सङ्गस्यार्धे वामोरूपरि न्यस्तायाः स्थापिताया नगप्रियतनयायाः पार्वत्याः कुङ्कुमेन घुसृणेन अ सरसौ धन्यौ विशिष्टौ कमनीयौ स्तनौ गच्छति आलितृतीय आश्वासः । ९१ जन्नसमयै प्राप्नोतीति तथा । (प्रेतसकाशावासस्थिरचित्त ! ) प्रेतानां गणविशेषाणां सकाशे सविधे आवासो वासक्रिया तत्र स्थिरचित्त !, त्र्यम्बक ! त्रिनेत्र!, आशावास ! दिगम्बर ! जय सर्वोत्कृष्टतया वर्तस्व ॥ ५ ॥ इन्दुसमाननदेशप्रमया जय भक्तकुमुद माननदेश ! । जय जितकाम! जयाहिस्फुरित! कृपामिह जनेऽधिकामज! याहि ॥ ६ ॥ इन्द्विति । इन्दुसमाननदेशप्रभया इन्दुना चन्द्रेण तुल्यस्यानन देशस्य मुखप्रदेशस्य प्रभया कान्त्या, भक्तकुमुदमाननद ! भक्ता एव यानि कुमुदानि तेषां माननं सम्माननात्मकं विकास ददातीति तथा, हे ईश विश्वसर्गादौ शक्त! जय । जितकाम! परिभूतमन्मथ ! जय । अहिस्फुरित! कटक.कटिसूत्रा- दिभूषणतां गतैरहिभिः सर्पैः स्फुरित ! शोभित! जय । एवं स्तुत्वा भगवन्तं प्रार्थयन्ते. कृपामिति । हे अज ! जन्मरहित । इहास्मिन् त्वदेशरणे जने । अस्मास्वित्यर्थः। अधिकां प्रभूतां, कृपां दयां, याहि प्राप्नुहि ॥ ६ ॥ कः पुनरिदानीं विशिष्य कृपा प्रार्थनावकाश इत्यत्राहुः नाथ! बलादेवाद्य त्रिभिरसुरैर्देहिनोऽखिला देवा ! । निजविपदे बाध्यन्ते तिष्ठत्यपि भवति शश्वदेवाध्यन्ते ॥ ७ ॥ नाथ । बलादेवाद्य त्रिभिर सुरैरिति । हे नाथ ! स्वामिन् ! देवाद्य ! देवश्रेष्ठ ! अद्येदानीमाध्यन्ते आधिर्मानसी पीडा तस्यन्ते नाशे विषये, शश्वत सदैव, भवति त्वयि, तिष्ठति सत्यपि, त्रिभिस्तारकाक्षादिभिस्प्रिंभिर सुरैः, अखिला न केवलं वयमेव सर्वेऽपि, देहिनः शरीरिणः, निजविपदे आत्मीयायै विपदे विनाशाय, बलादेव स्वसामर्थ्यादेव न तु यं कञ्चन बलीयांसमाश्रित्य, बाध्यन्ते । अयमर्थ:- जगद्रक्षा जागरूके त्वयि वर्तमाने यतोऽमी जगत् पीडयन्ति ततस्त्व- गोषपावकज्वालामालावलीढदेहतया भस्मीभाव एवैषां फलं भविष्यतीति ॥ ७ ॥ किमिति मां प्रति विज्ञाप्यते । भवद्भिः प्रतिविघातव्यमेतत् । इत्यत्राहुः नगरीर्भव ! तिस्रस्ता द्युसदां सेना समेत्य भवति स्रस्ता । सकुमारा शिव! देव ! प्रभञ्जनं प्राप्य तूलराशिवदेव ॥ ८ ॥ सव्याख्ये त्रिपुरदहने . नगरीरिति । हे भव ! शिव ! इति श्रीनामशालिन् । विश्वोत्पत्ति- स्थानत्वाद् भवः, मङ्गलरूपत्वाच्छिवः, देव ! द्योतनात्मक!, घुसदां देवानां सेना चमूः, ताः असुरसम्बन्धिनीः, तिस्रः त्रिसङ्ख्याता: नगरी: पुरी:, समेत्य युद्धार्थ प्राप्य, स्रस्ता गलिता, भवति । पलायनपरा वर्तत इति यावत् । कीदृशी । सकुमारा कुमारेण स्कन्देन सहिता । देवसेनानी स्कन्द पुरीं प्राप्य पलायत एवेत्यर्थः । अनेन दण्ड पूपिकया असामर्थ्यस्य दोषाभावः कथ्यते । किं प्राप्य किमिवेत्यत्राइ- प्रभञ्जनमिति । प्रभञ्जनं वायुं प्राप्य तूलराशिवत् तूलराशिना बन्धुरसमूहेन (१) तुल्यम् । यथा वायौ वाति तूलराशिः इतस्ततो विक्षिप्यमाणो भवति तथा असुरेषु युद्धांद्युक्तेषु देवसेना इतस्ततः पलायिता भवतीत्यर्थः ॥ ८ ॥ तर्ह्यस्मत्तः किं प्रार्थ्यते ०२ ३त्यत्राहुः तद्दहनसमायां तु त्वद्रुषि भगवंत्रिलोचन ! समायान्तु । अरयोऽमी शालभ्यं त्वत्तोऽस्माकं भवेत् किमीशालभ्यम् ॥ ९ ॥ तदिति । हे भगवन् ! ऐश्वर्यादिगुणयुक्त ॥ तादृशस्य तव किमशक्यमिति भावः । हे त्रिलोचन त्र्यम्बक ॥ एतदेव ते लोकोत्तरत्वमभिव्यक्तीति भावः । यदस्माकमसुरवधे सामर्थ्याभावः, (यतः ) तस्मादमी प्रकृता, अस्यः शत्रवः दहनसमायां तु । तुरवधारणे । अग्नितुल्यायामेव, त्वद्रुषि तब क्रोधे, शालभ्यं शलभत्वं, समायान्तु प्राप्नुवन्तु । यथा शलभा दहने पतित्वा भस्मसाद्भवन्ति तथास्मदरिभिरपि त्वत्कोपामौ पतित्वा भस्मसाद्भवितव्यमित्यर्थः । कुत इयं मां प्रति प्रार्थना किमित्यन्यो न प्राथ्येते इत्याहुः - त्वत्त इति । हे ईश! अस्माकं त्वत्तः त्वत्सकाशाद्, अलभ्यमप्राप्यं किं भवेत्, न किमपि । सर्वमप्यस्माकं त्वत्त एव लभ्यं नान्यस्मादित्यर्थः । अतः त्वां प्रार्थयाम इति भावः ॥ ९ ॥ इत्थं स्तुत्वा दुरवस्थां विज्ञाप्य तत्प्रतीकारार्थ सशक्तिकं भगवन्तं भक्तयतिरेकात् साष्टाङ्गपातं प्रणेमुरित्याह -- इत्थं साधुतरा गा निगद्य विषयान्तरेषु सा धुतरागा । सुरततिका रं माञ्चस्फुरिता रुद्रं नमश्चकारोमाञ्च ॥ १० ॥ तृतीय आश्वासः । इत्यमिति । सा साक्षात्कृतपरमेश्वरा, सुरततिका देवसमूहः इत्थम् अनेन प्रकारेण साधुतराः भक्तिररूपितत्वादतिशयेन साध्वीः, गाः वाचः, निगद्य उक्त्वा, रुद्रं परमेश्वरं, नमश्कार प्रणतवती । उमां च ''शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि । " । इत्यायुक्तदृष्ट्या शक्तिमन्तरेण शक्तिमतोऽकिश्चित्करत्वं मन्यमाना भगवत्लेयमीं पार्वतीमपि नमश्चकार । कीदृशी विषयान्तरेषु शब्दादिष्विन्द्रियार्थ- विशेषेषु, धुतरागा त्यक्ताभिलाषा । भगवत्येव बद्धरागेत्यर्थः । तथा रोमाश - स्फुरिता रोमाश्चेन भक्त्यतिरेकोद्भिन्नेन रोमहर्षेण स्फुरिता शोभिता ॥ १० ॥ अथ शिवः श्रीनन्दिकेश्वरमुखेनासुरवधं प्रतिज्ञातानित्याह- अथ नन्दी प्रोवाच स्थितबान् पार्श्वे हरस्य दीप्रो घाश्वः । पुरुषोत्तमरुद्राजस्कन्दादित्याग्निमारुतमरुद्राजः ॥ ११ ॥ अथेति । अत्रैवं प्रमेयसंक्षेपो बोद्धव्यः- देवानामनिवार्यवीर्यासुरसमा पादितानां विपदामुक्तिसमये पार्वती 'पुरतः क्रीडन्तं तव पुत्रं स्कन्दं पश्ये 'ति भगवन्तमुक्तवती । ततः पुत्राक्षिप्तहृदयो भगवान् देवानचिन्तयित्वा स्वगेहूं पुत्रादिभिराविवेश । ततो भगवदन्तर्धानाद् 'असुरा एव धन्याः वयमधन्या एव' इत्यादि बहूच्चैर्भाषमाणान् देवान् किं तावच्छन्दं कुरुतेति दण्डेन कुण्डोदर स्वाडयामास । ततो भीत्या गमनायोपक्रान्तान् देवान् भगवदाज्ञयैवेति नन्दीशः कुण्डोदरं निवार्य उवाच । तथाचोक्तम् – । "क्रीडमानं विभो ! पश्य षड़वक्रं रविसन्निभम् । पुत्रं पुत्रवतां श्रेष्ठ! भूषितं भूषणैः शुभैः ॥ इत्याद्यैर्लोकमातुश्च वचोभिश्वोदिनः शिवः । न ययौ तृप्तिमीशानः पिबन् स्कन्दानामृतम् ॥ न सस्मार च तान् देवान् दैत्यशस्त्रनिपीडितान् । अविशत् सह देवोऽपि देव्या स्कन्देन नन्दिना ॥ ९४ सव्याख्ये त्रिपुरदहने सह गेहं स्वकं देवाः पुरद्वार्येव संस्थिताः । ते च संखिन्नमनसः प्रोचुरन्योन्यमातुराः ॥ वयं भाग्यविहीनास्ते भाग्यवन्तः सुसरयः । तैरेव पूजितो देवो नास्माभिर्यन्न दृश्यते ॥ एवं प्रलपतां तेषां श्रुत्वा शब्दाननेकशः । कुण्डोदरो महातेजा दण्डेनाताडयत् सुरान् ॥ दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः । ततः कपर्दी नन्दीशो देवदेवाज्ञया तदा ॥ वृषमारुह्य सुश्वेतं ययौ देवजनान्तिकम् । नन्दीशं तु ततो देवास्तुष्टुवुर्हष्ट चेतसः ॥ नमस्ते रुद्रभक्ताय रौद्रजप्रताय 1 रुद्रभक्कार्तिनाशाय रुद्रकर्मरताय ते ॥ च एवं तैरीडितो नन्दी कुण्डोदरमवाश्यत् । अथ देवानुवाच ।" इत्यादि । अथ नमस्कारानन्तरं, नन्दी प्रमथाभ्रणीः नन्दीश्वरः, पुरुषोचम- रुद्रा जस्कन्द । दित्याश्विमारुतमरुद्राजः पुरुषोत्तमो विष्णुः, रुद्रा एकादश, अजो ब्रम, स्कन्दः षण्मुखः, द्वादशादित्याः, अश्विनौ द्वौ. मारुतो बायुः, मरुतो देवाः तेषु राजतीति मरुद्राडिन्द्रः, एतान् वाचो वचनानि प्रोवाच । कीडशः, रहसि हरस्य शिवस्य पार्श्वे स्थितवान् । शिक्स्यात्यन्तबल्लभ इत्यर्थः । अत एव दीप्रः दीपनशीलः । नन्दिनो वचनमपि भगवद्वचनवद् माननीयमेवेति भावः ॥ ११ ॥ द्वाभ्यां श्लोकाभ्यामुक्तिप्रकारमाहजगतां पाता यातः प्रसादनं त्रिपुरवासिपातायातः । तस्यामन्दे वाहे धनुषि शरे कुरुत चोद्यमं देवा हे! ॥ १२ ॥ तृतीय आश्वासः । जगतामिति । हे देवाः! जगतां लोकानां पाता रक्षिता शिवः, त्रिपुरवासिपाताय त्रिपुरवासिनां तारकाक्षादीनां पाताय, प्रसादनं प्रसादं, यातः । त्रिपुरवासिनोऽसुराहं वधिप्यामांति प्रतिज्ञातवानित्यर्थः । अतं एत. स्मात् प्रसादप्राप्तेर्हेतोः तस्य जगत्पातु वाहे अश्वे, धनुषि चापे, शरे इषौ, च उद्यमं उद्योगं, कुरुत । वाहधनुश्शरादीनां साधारण विशेषण- माह - अमन्द इति । अमन्दे अनल्पे ॥ १२ ॥ "9 ९५ सम्पादितसाधनानामस्माकं यत्नमन्तरेणान्यत् किश्चित् न फलति इसि न शङ्कनीयमित्याह सत्सु शरासज्येषुप्रभृतिषु करणेषु हरकरासज्येषु । दानवराजानीतः स्वक्लेशो नष्ट इति सुरा! जानीत ॥ १३ ॥ सरस्वति । हे सुरा: देवा: हरकर।सज्येषु हरकरग्रहणये ग्येषु, शरासज्येपुप्रभृतिषु शरासो धनुः ज्या गुणः, इषुः शरः तत्प्रभृतिषु तदाद्येषु, करणेषु युद्धोपकरणेषु सत्सु भवत्सु, दानवराजानीतः दानवराजस्तारक'क्ष'- दिभिरानंतः, आसादितः । सम्पादित एवेत्यर्थः । स्वक्केशः खषां देवानां युष्माकं लश पीडा, नष्टः अदर्शनं कृतमिति जानीत बुध्यध्वम् ॥ १३ ॥ अथ देवाः किं कृतवन्त इस्यत्राह- इति ते शैलादिवचः श्रुत्वा शोकाद् व्यपेत्य शैलादिव च । त्वष्टुः सदनं तरसा ययुस्तिरोगे भवे च सदनन्तरसाः ॥ १४ ॥ इती ते । ते देवाः, (शिचॆभवे ) रुद्रे, तिगेगे तिरोधानं गते, इति उक्तप्रकारेण शैलादिवचः शिलादस्यापत्यं शैलादिः नन्दीश्वरः तस्य वचः श्रुत्वा अत एव शैलादिव स्थिरत्वमहत्त्वादिना पर्वतसदृशात्, शोकात् अपुरपीडाहेतोः शुचः, व्यपेत्य अपेता भूत्वा, च तरसा वेगेन, त्वण्टुर्देवशिल्पिनो विश्वकर्मणः, सदनं भवनं, ययुः गतवन्तश्च । कीदृशाः । सदनन्तरसा : सद् विशिष्टः अनन्तो निरवसानो रसः सुखं येषां ते तथा ॥ १.४ ॥ ९६ सव्याख्ये त्रिपुरदहने देवाः स्थनिर्माण स्वष्टारं नियुक्तवन्त इत्याह द्विषतां तोदे शम्भो रतस्य तेषां यियासतो देशं भोः । कुरु रथमस्य त्वष्टः श्रेष्ठ काष्ठाश्च कृच्छ्रमस्यत्वष्ट ॥ १५ ॥ , द्विषतामिति । भो त्वष्टः ! विश्वकर्मन् अस्य प्रकृतस्य, शम्भोः सुव कारणस्य, रथं स्यन्दनं, कुरु सम्पादय । कीदृशस्य । द्विषतां जगदपकारिणाम् असुराणां, तांदे वधे, रतस्य अभिनिविष्टबुद्धेः अत एव तेषां द्विषतां, देश पुरत्रयसमागमस्थानं, पियासतः गन्तुमिच्छतः । कीदृशं रथम् । श्रेष्ठमुत्कृष्ठम् । शम्भोरारोहणक्षममित्यर्थः । एतत्तु न केवलमस्मदुपकारकमपि तु सर्वेषामप्यु - पकारकमित्याहुः --- काष्ठा इति । कृच्छ्रे दुःखं कर्तृभूतम् अष्ट काष्ठाः अष्ट- संख्याका दिशः अस्यतु त्यजतु । स्थादिकरणस्यासुरवधोपायभूतत्वेन निखिलस्यापि दुःखस्य निवर्तकत्वादिति भावः ॥ १५ ॥ त्वष्टा च देवनियोगमङ्गी चक:रेत्याह- इति भासुरया च नतः शिल्पिक्रियया जगत्सु सुरयाचनतः । रणभूमिप्वासाद्यं यद्वस्त्व करोत् स सर्वमिष्वासाद्यम् ॥ १६ ॥ " इतीति । इति उक्तप्रकारेण सुरयाचनतः सुराणां याचनात् प्रार्थना- द्धेतोः । देवनियोगादिति यावत् । (सःत्वष्टा ) यद् रणभूमिषु युद्धप्रदेशेषु, आसाद्यं प्राप्यं वस्तु इष्वासाद्यं धनुरादिकं तत् सर्वमकरोत् उत्पादितवान् । त्वष्टारं विशिष्टि मासुरेति । भासुरया शोभनशीलग, शिल्पिक्रियया शिल्पिनां तक्ष्णां क्रियया कौशलेन, नतः शिल्प्यन्तरेण प्रणतः । शिल्पक्रिययेति वा पाठः । लोकोत्तरवस्तुरचनाचतु/येत्यर्थः ॥ १६ ॥ अथ चतुर्भिः श्लोकः त्वष्टा स्थादिरचनायां लोकविलक्षणं वस्तूपादत्तवानित्याह -- वेदांश्चक्रे चतुरः सोऽश्वान् शशिभास्करौ च चक्रे चतुरः । रथमकतावान्यायं योगिजनस्यावलम्ब्य तावन्न्यायम् ॥ १७ ॥ द्वितीय आश्वासः । वेदानिति । सोऽयं देवनियोगाद् स्थादिरचनामारभमाणः त्वष्टा, योगिजनस्य योगश्चित्तवृत्तिनिरोधः लढतो जनस्य, न्यायं नीतिम् आलम्ब्य तावदाश्रित्यैव । तावच्छन्दोऽवधारणे । चतुरः चतुस्संख्याकान्, वेदान् ऋग्यजु- स्सामाथर्वलक्षणान्, अश्वान् हयान्, चक्रे कृतवान् । वेदानश्वतया परिण- मितबानित्यर्थः । शशिभास्करी चन्द्रादित्यौ, चक्रे रथाङ्गे । चक्रे इत्य नुषज्यते । अवन्या भूम्या, रथं स्यन्दनम्, अकृत । रथत्वे भूमिं कल्पित- वानित्यर्थः । कीदृशः । चतुर: विदग्धः । तस्य किं न शक्यमिति भावः । यथा अणिमादिसिद्धि मन्तो योगिनः सङ्कल्पमात्रेणाभिमतं साधयन्ति तथा स्वष्ट्रपि सङ्कल्पमात्रेणैव वेदादिभिरश्वादिकं निरमायीत्यर्थः ॥ १७ ॥ स ज्ञानी चापाय स्मृतवा नद्रीन्द्र मिष्टनीचापायः । अकृत तदासज्या या स्थाने संवत्सरं तदा स ज्यायाः ॥ १८ ॥ " स इति । (स) त्वष्टा चापाय चापं कर्तुम् अद्रीन्द्रं हिमवन्तं, स्मृतवान् । कीदृशः । ज्ञानी सारासारवस्तुपरिज्ञानी । स तदा तस्मिन्काले, मा तदासज्या सस्मिन् धनुषि आसज्या संसर्गयोग्या लस्या ज्याया मौर्व्याः, स्थानेऽवकाशे, संवत्सरम हो।त्राभ्याम् अवयवोपेतं कालम्, अकृत कृतवान् । सवत्सरात्मकं कालं गुणत्वेन कल्पितवानित्यर्थः । "स्थानं क्लीबे नरेऽप्यन्ये प्राहुर्गेहावकाशयोः । सम्बन्धभेदे जन्तूनां स्यान्निवृत्तिप्रसङ्गयोः ॥ अपकर्षे च सादृश्ये क्लीचं तु स्थितिकर्मणि । एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः ! युक्तार्थे कारणार्थे च तन्नेह ब्रूमहे वयम् । शब्दावस्थाय स्थाने ना भुवि ॥" इति केशवः । अत्र राज्या त्र्यंशात्मको हि संवत्सरः (१) । तत्र राज्यंश ज्यात्वेन कल्पित वानित्यवगन्तव्यम् । कीदृशः । इष्टनीचापायः इष्टः ९८ सव्याख्ये त्रिपुरदहने अभिमतः नीचानां दुष्टानामपायो नाशो यस्य स तथा । न केवलं देवाज्ञैवास्य रथादिनिर्माण प्रयोजिका अपि तु सुरपीडायाः स्वनाभ्यनुभूयमानत्वात् स्वेच्छापि प्रयाजिकेति भावः । ननु भुजङ्गराजो हि भगवद्धनुषो ज्यात्वमुपगतवानिति केचित् कथयन्ति । उक्तं च लैङ्गे'शैलेन्द्रं कार्मुकं चक्रे ज्या भुजङ्गाधिपः खयम् ।' इति । नत्कथमत्र संवत्सरस्य ज्यात्वमुक्तम् । उच्यते - संवत्सर- स्यापि च्यात्वमस्त्येव । तदपि लैङ्ग एवोक्तम्- 'काळरात्र्या तथैवेह तथेन्द्रधनुषा पुनः ।' इति । तत्र काळरात्रिरिति रात्र्यंश उच्यते । तदनुसारेणेदं ज्याकथनम् ॥ १८ ॥ जगदहितोदग्राहकृतिकृत्यै पद्मजं प्रतोदग्राहम् । तोत्रं समतनुतारं तस्यैव तर्टिद्गुणेन समतनुतारम् ॥ १९ ॥ त्वष्टा जगदिति । अत्र प्रकृतत्वात् त्वष्टेति कर्ता सिध्यति जगदहितोद ग्राहकृतिकृत्यै जगतो लोकस्य, येऽहिता: शत्रवः असुराः तेषां उदमाया जगत्पीडा हेतुत्वात क्रूराया: अहङ्कतर्गर्वस्य कृत्यै छेद- नाय । असुरवधायेति यावत् । पद्मजं ब्रह्माणं, प्रतोद ग्राइं समतनुत अक रोत् । प्रतोदं तोत्रं गृह्णातीति प्रतोदप्राहः । ब्रह्माणं सारथि कल्पित- वानित्यर्थः । तस्यैव पद्मजस्यैव । एवकारः पौनर्वचनिकः । तारं प्रणवम्, तोत्रं प्रतोदं, समतनुत । च शब्दोऽर्थाक्षिप्तो वेदितव्यः । तोत्रस्थाने प्रणवं कल्पितवानित्यर्थः । कीदृशं तारम् । अरमत्यर्थ, तटिद्गुणेन विद्युद्दामा, समतनु तुल्याकारं वेदसारत्वेनोज्ज्वलरूपत्वात् ॥ १९ ॥ परमं धामानन्तं यः खल्वकरोच्छवं त्रिधामानं तम् । शम्भुकराक्षप के विषहेर सति पुष्कर क्षेऽपङ्के ॥ २० ॥ परममिति । स तं त्रिधामानं विष्णुं शरमिषुमकरोत् । त्रिधामानं विशिनष्टि --- परममिति । यः त्रिधामा परमं विश्वाभासकानां सूर्यादीनामप्याभासकत्वादुत्कृष्टं धाम परब्रह्मादिशब्दाभिषेयं तेजः, (अनन्तम् अन्त9 तृतीय आश्वासः । रहितम्, ) खलु । प्रसिद्धौ खलुशष्ठदः । अतः परं कः शरस्योत्कर्ष इति भावः । नन्षन्येषु विद्यमानेष्वखिलेश्वरं विष्णुं कुतोऽसौ शरत्वेनाकल्पयदिस्यत्राह- शम्भुकरेति । पुष्कराक्षे विष्ण, असति शरत्वेनाविद्यमाने, के शरत्वेन कल्पिता:, शम्भुकराक्षेप शम्भो शिवस्या करेण य आक्षेपः पीडनं तं विषहेरन् । न केऽपि । शम्भुकराक्षेपं सोढुं सर्वेऽप्यसमर्था एव । तत्र बिष्णुरेव समर्थ इत्यर्थः । तत्र हेतुरपङ्क इति । अपके दोषरहिते ॥ २० ॥ अथ देवाः किं कृतवन्त इत्यत्राह- तस्यैव धन्यस्य त्वष्टृकृतस्यायुधप्रबन्धं न्यस्य । नमनमधुर्धूरन्ते रथस्य विबुधा विकीर्य धुरं ते ॥ २१ ॥ तस्येति । ते निर्मापितयुद्धोपकरणाः, विबुधाः देवा:, आयुध प्रबन्धं आयुधानां धनुरादीनां प्रबन्धं परम्परां, न्यस्य रथे स्थापयित्वा, एबमुक्तप्रकारेण त्वष्ट्रकृतस्य विश्वकर्मनिर्मितस्य धन्यस्यावन्यादेरुपाडानस्वादुत्कृष्टस्य तस्य शिवारोहणक्षमतया निर्माविश्वस्य रथस्य, धूरन्ते धुरः यानमुखाख्यो रथाघयवविशेषस्तस्य अन्ते समीपे । रथपुरोभाग इति यावत् । घुघूरमुन्मत्ताख्यं पुष्पविशेष, विकीर्य विक्षिप्य, नमनं नम स्कारें, अधुः कृतवन्तः । रुद्रायेति शेषः । ननु व्यापूर्वत्वा भावे कथं दधाते: करणार्थत्वम् । उच्यतेधारणवत् करणमपि दघातेरेवार्थ: । उपसर्गास्तु धातुलीनमर्थ द्योतयन्त्येव न तु धात्वर्थात् पृथक् कश्चिदर्थमभिदषति । न चात्र द्योतकाभावे कथं द्योत्यार्थप्रतीतिरिति वाच्यम्, उपपत्तिवशादेव तत्प्रतीतेः । 'धू: स्त्री क्लीबे यानमुख स्याद्रथाङ्गमपस्कर; ।' इत्यमरः । ततः किमासीदित्यत्राह अघशत घस्मरह। सस्फुरितमुखाम्भोरुहोऽनघः स्मरहा सः । दहशे पुरतोदेऽवस्थितधरिथ सुरगणेन पुरतो देवः ॥ २२ ॥ सव्याख्ये त्रिपुरदहने अघशतेति । अथ नमस्कारानन्तरं, सुरगणेन देवसमूईन, य त्प्रत्यक्षीकरणाय देवा नमश्चक्रुः स देवः शिवः, पुरतेोऽग्रभागे, दहशे दृष्टः । कीदृशः । अनघो निष्पाप : निखिलँद्वैतातीतत्वात् । अत एवाघशतघस्मरहासस्फुरितमुखाम्भोरुहः भक्तजनानां यदघशतं अघानां पापानां शत. मनेकं तस्य कर्ममूतस्य घस्मरेणादनशीलेन हासेन देवान् प्रति प्रसादचिह्वेन मन्दहासेन स्फुरितं शोभितं मुखाम्भोरुहं पद्ममिव मुखं यस्य स तथा । हासस्फुरितत्वं मुखधर्मत्वात् रूपक परिग्रहे बाधकता प्रतिपादयति ।पुरतोदे पुरत्रय मर्दनेऽवस्थितधीः निगूढबुद्धिः । मुखप्रसादेन नुमेयमिति भावः । स्मरहा स्मरं काम इतवान् इति । ब्रह्मादिमशकान्तैर खिलैरपि प्राणिभिरजंय: कामः तस्यापि जेतुः शिवस्य पुरत्रयविजये कियती दुष्करतेति भावः ॥ २२ ॥ २०० अथ हरः कर्तव्यतःन्तरे देवान् नियुक्तवानित्याह- मनसा सुरसमुदायं नतमाशानः समीक्ष्य सुरसमुदा यम् । अवदत् पूरन्तरतः पशवो मे भवत वैरिपूरं तरतः ॥ २३ ॥ - मनसेति । पूरन्तरतः पुररामन्ते नाशे रतः सक्तचित्तो, यं प्रत्यक्षीभूतम्, ईशानः शिवः, मनसा हृदयेन, समीक्ष्य सर्वप्राणिसाधारणोऽहं देवप्रियार्थ कथमसुरान्निगृह्णीयामिति निरूप्य, नतं प्रणतं सुरसमुदायं देवसमूहम्, अवददुक्तवान्। मनो विशिष्टि - सुरसमुदेति । सोSतिशयो यस्या सा सुरसा, सुरसा मुद् प्रीतिः यस्य तत्तथा । इवेष्वत्यर्थ प्रसनेनेत्यर्थः । उक्तिप्रकारं दर्शयति -- यूयं वैरिपूरं पूरशब्दस्य नद्यः जलवृंहणं मुख्योऽर्थः । स च समूहविशेषः समूहसामान्य लक्षयति । मुख्यार्थबाधः स्फुट एव । सामान्यविशेषभावः सम्बन्धः । लक्ष्यार्थम्य दुर्निवारप्रसरत्वप्रतीतिः प्रयोजनम् । "अथ पूरो ना नद्याः सलिलबृंहणे । पुनर्नवायां नृ स्त्री तु पूर्वो पूरी तु सा स्त्रियाम् । तृतीय आश्वासः । वंशे वाद्ये" इति केशवः । वैरिणां शत्रूणां पूरं समूहं तरतः लङ्घयतः । निगृह्णानस्येति यावत् । मे मम, पशवः पशुवद् विशसनीया वध्या भवत । यथा असुराणां वध्यत्वं भवति तथा युष्माकमपि वध्यत्वं भवत्वित्यर्थः । अत्र पूरशब्दस्य शब्दशक्त्या प्रतीयमानं मुख्यार्थभूत जलप्रवाहमाश्रित्य तरत इत्युक्तम् । अयं भगवतोऽमिप्राय: - यतः स्वयं सकललोकानां साधारण्येन मङ्गलावहत्वात् शिवो भवति, देवप्रियार्थम् असुराणां वध्यत्व स्वस्यासाधारण्येन माङ्गलिकत्वमङ्गो जायेत. ततो देवानामपि पशुत्वमुद्भाव्यैवासुरा हन्तव्याः । ततश्चोभयेषां पशुत्वनिवर्तनार्था मे प्रवृत्तिः न पक्षपात दोषमावहति । तत्राघमें प्रवर्तमानानामसुराणां पशुत्वं वधेन निवर्तनीयम् । धर्मे प्रवर्तमानानां देवानां पशुत्वं तु पाशुपतत्रतचरणेन इति इयानेव भेदः । तस्माद्देवा अपि पशवो भवन्त्विति । तदुक्तं कर्णपर्वणि किन्स्वधर्मेण वर्तन्ते यस्मात्ते "समा भवन्ति मे सर्वे दानवाश्यामराश्च ते शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः ॥ सुरशत्रवः । तस्माद्वध्या मया ह्यद्य युष्माकं च हितेच्छया ॥ शरणं वः प्रपन्नानां धर्मेण च जिगीषताम् । साह्यं रणे करिष्यामि" इति । पुनरपि तत्रैवोक्तम् – "पशुत्वं चैव मे सर्वे लोका: कल्पन्तु पीडिताः । पशूनामाधिपत्यं मे भवत्वद्य दिवौकसः ॥ एवं न पापं प्राप्स्यामि पशून् हत्वा सुरद्विषः ।" इति । श्रीलैः संहितायामप्युक्तम् १०१ "अथाह भगवान् रुद्रो देवानालोक्य शङ्करः । पशूनामाधिपत्यं मे देवा इन्तु दितेस्सुतान् ॥ १०२ इति ॥ २३ ॥ सव्याख्ने त्रिपुरवहने पृथक् पशुत्वं लोकानां तथा द्वेषां सुरोधमाः । कल्यैव दैत्या वध्यास्ते मान्यथा देवसत्तमाः ॥ इति श्रुत्वा वचस्सर्वे देवदेवस्य धीमतः । विषादमगमन् देवा: पशुत्वं प्रति शकिताः ॥ तेषां भावं ततो ज्ञात्वा देवान् तानिदमब्रवीत् । मा बोऽस्तु पशुभाबेऽस्मिन् भयं विबुधसत्तमाः ॥ श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः । यो वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यते ॥ पशुत्वाद् अथ शिवः पशुत्वाद् मीतान् सुरानवलोक्य तन्निवृत्त्युपायमुपदेशति- अपि देब' ! गच्छत मा भियं मम श्रूयताञ्च वागचलतमा । नतु भविता पशुभावस्तेषां ये मतप्रतापशुभा वः ॥ २४ ॥ अपीति । हे देवाः ! मियं पशुत्वनिबन्धनां भांतिं. मा गच्छत न प्राप्नुतापि । अपिम्ममुचये । कथं पशुत्वाद् भीतिन भवदित्यत्राह- ममेति । मम वाग् वचनं, श्रूपताम् । कीदृशी वाक् । अच्छतमा निर्दोषा । प्रामाणिकीत्यर्थ: । वाचमवाह न न्विति । तेषां वो युष्माकं, पशुभावो न भविता नैव भविष्यति । अवसिनो भविष्यतीत्यर्थः । केवा- मित्यत्राह – य इाते । ये यूयं मद्वतप्रतापशुभाः मम पशुपनेः यद् व्रतं पाशुपताख्यं तस्य प्रताषेत सामध्येन शुभाः शुद्धान्तःकरणाः । पाशुपतव्रत चर्यमा युष्माकं पशुत्वनिवृत्तिरष्यतीत्यर्थः ॥ २४ ॥ ततो देवैः किं प्रतिपन्न मित्यत्राह इत्थं वादे वचसम्तदन्बोदत जनो जवादेव च सः । काष्ठा पाशम्यापत त्रिदशांश्र जगच दसपाचव्यापत् ॥ २५ ॥ पत् तृतीय आश्वासः । १०३ इत्यमिति । (इत्थम्) अनेन प्रकारेण (चसो भगवद्वाक्यस्य वाद उक्तौ सति, यः पशुत्वाद् भीत आमीत, सजने देवजनः जबाद् जवमाश्रित्य वगनैव. तत् पशुत्वम् अन्वमोदत तर्हि पशवो भविष्यामः पात्यतामस्म सु पशुत्वमित्यनुमतिं चक्रे । ततः किमासीदित्यत्राह काष्ठति । पाशव्या पशुसंबन्धिनी, काष्ठा परमावस्था त्रिदशांश्चापत् प्राप्तवती । चशब्दो वक्ष्यमाणजगत्स मुच्चयार्थः । ततो देवाः पशवोऽभवन्नित्यर्थः । " "काष्ठा स्त्री कालभेदे स्यादष्टादशमिमेषके । स्थित्याख्यमर्यादायां च दिशि चाप्युपदिश्यपि ॥ दक्षिणोत्तरयोग्न्यतरस्मिन्नयने रखेः । आदित्ये परमावस्थोत्कर्षयोसाजसंज्ञिनः ॥ समभूमिप्रदेशस्याप्यन्ते भूमि तुवारिणि । क्लो तु दारुणि" इति केशवः । किञ्च न केवलं देवानाम्, अनि तु निम्विलस्य जगतोऽपि पशुत्वमासीदित्याह जगदिति । जगच्च जामी निखिलो जनोऽपि, दत्तपाशव्यापत पाश्यते बध्यतेऽनेनोपाधिभूमपाश । पाशो माया । उक्तं च श्रीराघवानन्दाचार्यपाढै: "पतिः : पाश: पशुश्चेति त्रोणि तत्त्वानि तत्त्वतः । पतिः शिवः पशुजधः पाशो मायैव केवलम् ॥" इति । दत्ता भगवता वितीर्णा पाशेन हेतुना व्यापत् अस्वातन्त्र्यलक्षणा आपत्तिर्यस्य तत्तथा । भगवत्सलत गर्न जगदपि पशुतामग दित्यर्थ ॥ २५ ॥ भगवतस्तदा तन्निभित्तकं नामान्तरमा सीदित्याह- तस्य पुरवधाय यतः त्रिदशा: पशुभावमापुरवधाय यतः । प्रभुरजनि जनाम्नातः पशुपतिरिति विश्रुतेन निजनाम्नातः ॥ २६ ॥ १०२ सव्याख्ये त्रिपुरदह मे तस्येति । त्रिदशा देवाः, अवधायास्माभिः पशुत्वेऽङ्गीकृत एव अपुरा वध्या भवेयुरिति निश्चित्य पुरवधाय पुरवासिनां निग्रहाय, यतो गच्छतः, तस्य शिवस्य, पशुभावं पशुत्वमापुः प्राप्तवन्तः । यतो यस्मान द्धेतोः, अत एतस्माद्धेतोः, प्रभुशिवः पशुपतिरिति विश्रुतेन प्रसिद्धेन, निजनाम्ना निजेन नित्येन वा आत्मीयेन वा नाम्ना संज्ञया, जनाम्नातो जनैराम्नातः उक्तः अजनि अभूत् । पशूनां पतित्वादस्य पशुपतिरिति यौगिक नामाभूदित्यर्थः । "निजं तु त्रिः सनातने । आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् ।' इति केशवः ॥ २६ ॥ अथोपातपशुत्वानां देवानां दशामाह समजान तापश्चात्ते पशुत्व उक्ते च भगवता पश्चात्ते । योऽतिमहानायामी तं नियमं विदधुरस्य हानायामी ॥ २७ ॥ समजनीति । भगवता शिवेन, पशुत्व उक्ते च यूयं पशवो भवत इत्याज्ञापितेच, आत्ते च देवैः स्वीकृते च सति । चशब्दौ वचनादान्योयोग पद्यं द्योतयतः । भगवदाज्ञासमकालमव तेषां पशुत्बे जाते इत्यर्थः । तापो मनस्ताप समजनि समभूत् । देवानामित्यर्थात् । अथ ते पशुत्वनिवर्तक कर्माकुर्वमित्याह पश्चात् पशुभावन तापोत्पस्यनन्तरं, ते च पशुत्वं प्राप्ताः, अभी इमे देवाः अस्य पशुत्वस्य हानाथ निवृत्तय, तत्रियमं व्रतं विदधुः कृतवन्तः । नियमं विशिनष्टि - य इति । यो नियमः, अतिमहान् भक्तिश्रद्धाबिहीनस्यापि अनुष्ठानमात्रेण परपुरुषार्थप्रदत्वाद् अत्युत्कृष्टः । तथा य आयामी आयामो दैर्ध्य स यात्र कालगतो विवक्षितः, तद्वान् अतिदीर्घकालेन समापनीय इत्यर्थः । अतिमहत्त्वमायामित्वं च पाशुपतव्रतस्यैवास्ति । अतः पाशुपतं व्रतम् अनुष्ठितवन्त इत्युक्तं भवति । यद्यप्यस्य यमक पदेषु प्रक्रान्तस्य विभक्तिभदस्य भङ्गो भवति तथापि वचनस्य भिन्नत्वादसौ नात्यन्तं दोषाय भवति । केचित् प्रक्रमभङ्ग परिजिहीर्षया आयामीठमिति पदच्छेदं कुर्वन्ति । - · तृतीय आश्वासः । आयाम: प्राणायामः तद्वन्तो योगिनः तैरितं प्राप्तम् इति नियमविशेषणतथा व्याचक्षते च । अत्रपि यच्छन्दस्य पूर्वत्र क्यगतत्वात् तच्छब्दं प्रति यत् साकाड़क्षत्वं तन्महान् दोष एव । तस्यापि सोदव्यत्वे अर्थस्याञ्जस्यं न भवति । अत्र विभक्तिभदः प्रक्रमभङ्गो वा साकाङ्क्षत्वदोषो वा सोढव्य इति न जानीमः । तत्र सहृदया एक प्रमाणम् ॥ २७ ॥ अथ शिथः त्रिपुरवषायोयुक्तवानित्याह- उद्यति नांदे वाद्यश्रेणीनामथ महामना देवाद्यः । त्रिपूरहरी हतदत्यप्रमहो रथमख्यमारुरोह तदैत्य ॥ २८ ॥ उद्यतीति । अथ रथादिसामग्री सम्पादनानन्तरं, यस्मिन् काले दवा: व्रतं समाहितवन्तः तदा तस्मिन् काले, देवाद्यः शिवः त्रिपुरहर पुरत्रयसंहर्सा भविष्यन् । त्रिपुरं संहर्तमित्यर्थः । प्रत्य स्वावासादागत्य, रथमुख्यं स्थानां मध्ये मुख्यम् अवन्याधात्मकत्वात प्रधानमारुरोड आरूढवान् । किं तत्रोपलक्षका मत्यत्राह -- उद्यतीति । बाद्यश्रणीनां बाधानां मेरीपणवादीनां श्रेणीनां वर्गाणां मङ्गला" दवैर्वाद्यमानानां ना ध्वनौ, उद्यति उद्गच्छति साते । देवाद्यं विशिनाष्ट महामना इति । महदुत्कृष्टं मनो यस्य स ● तथा । सङ्कल्पमात्रेणापि सकलार्थसाधनक्षम इत्यर्थः । हसदत्यप्रमदः हतः विलयं नीतो दैत्यानां प्रमदो हर्षो येन स तथा । भगवतो रथारोहणसमय एव देत्यानां हर्षो नष्ट इत्यर्थः ॥ २८ ॥ अथ भगवत उत्कर्षातिशयं प्रकट अथ परमे घायनित स्थास्थित बेघसोऽपि मेधामनित । प्रविषेदः सहसारं पतुश्च हया विहाय दुःसहसारम् ॥ २९ ॥ १०५ अथेति । अथ रथारोहणानन्तरमेव परमे सर्वावमासकत्वाद्रकृष्टं (घामनि) तेजसि च परमेश्वरे, रथस्थिते स्यन्दनस्थिते सनि, ते चतुर्वेदाः, हयाः श्वा सहसा शटित्थेव, अरम् अत्यर्थ प्रविषेदुः भगवतो गौरव सोदुमशक्नुषाना विषाद • १०६ सव्याख्ये त्रिपुरदहने प्रापुः । दुस्सहसारं दुस्सहं परैः से दुमशक्यं सारं बलं विहाय त्यक्त्वा, पेतुश्च पतितवन्तः । धाम विशिनष्टि वेधस इति । वेधसोऽपि जगत् स्रष्टुः ब्रह्मणोऽपि, मेघां बुद्धिम् अनितेऽप्राप्ते । ब्रह्मणोऽप्यपरिच्छेद्यस्वरूप इत्यर्थः ॥ २९ ॥ अथ सारथैर्व्यापारमाह स्वकरेऽभीशन न्यस्य प्रोत्थाप्य हयान् हरस्य भीशून्यस्य । विद्वान् वेधा रयतः समचोदयदुद्धतिं जबे धारयतः ॥ ३० ॥ स्वकर इति । वेधा ब्रह्मा, रयतो वेगेन, स्वकर निजहस्ते, अभीशून प्रग्रहान्, न्यस्थ स्थापयित्वा हरस्य हयानखान्, प्रोत्थाप्य तोत्रप्रहारणो- त्थितान् कृत्वा समचोदयत प्रेरितवान् । वेघसं विशिनष्ठि - विद्वानिति । अश्वहृदया दिविद्याविदित्यर्थः । हरं विशिनष्टि – भीशून्यस्येति । भिया भीत्या शून्यस्याश्वेषु पतितेषु साधनवैकल्याद या भीतिरुत्पद्येत तथा वियुक्त स्येत्यर्थः । अनेन सामग्रीविरहेऽपि भगवदद्योगस्या प्रतिहतप्रसरता प्रत्याय्यते । हयान विशिनष्टि उद्धतिमिति । तत्कालिकं विशेषणमेतत् । जव बर्ग, उद्धतिम् ऊष्मळतां धारयत: बिभ्राणान् ॥ ३० ॥ अथ द्वाभ्यां श्लोकाभ्यां कर्तव्याकरणात् प्रयाणस्यान्तरा विघात अभू दित्याह मुक्त्वा शम्भावयति स्वपूजनं यो जगत्सु शं भावयति । विघ्नः कोपमतनुत श्रान्ता देवान्ततोऽन्तकोषमतनुतः ॥ ३१ ॥ मुक्त्त्रेति । विघ्नो गणपतिः, म्वपूजनं स्वस्यात्मनः पूजनम् अर्चा मुक्त्वा विहाय, शम्भौ शिवेऽयति गच्छति सनि, कोपमतनुत अकरोत् । विघ्नं विशिनष्टि -- य इति । यो विघ्नः जगत्सु शं प्रारब्धतात्पर्य परिसमाप्त्या सुख भावयति उत्पादयति । पूजित इति शषः । अनेनापूजितो दुःखमपि भावतृतीय आश्वासः । १०७ यति इति सेत्स्यति । तत इति लोप पञ्चम्यन्तात्तसिल । अन्तकोप- मतनुतः क्रोमिता जाज्वल्यमानत्वादन्तकोपमा कालतुल्या तनुः शरीरं यस्य स तथा । अतिक्रुद्धादित्यर्थः । तथाविधातोः विघ्नात् विघ्नं वीक्ष्य, देवाः श्रान्ताः खिन्नाः । अभूवन्निति शेषः । अतिक्रुद्धावेननिरीक्षणादेव विमनसो बभूवुरित्यर्थः ॥ ३१ ॥ पदमपि मदनादरतः शक्यं गन्तुम चेति मदन'दरतः । सोऽभियसागमीषां पुगे रथग्य च रुगंध सारामीषाम् ॥ ३२ ॥ पदमिति । मदनादरतः ममानादरः पूजाया अकरणं तस्माद्धेतोः, पदमपि एकं पढविन्यासमपि गन्तुं यानं कर्तुमिति यावत् । नच नैव शक्य- मित्यं मुक्त्वा स विघ्नं मीष देवानां, पुरतोऽभिमसागभिमुखं गतवान् रथम्य मार्ग स्थिराम ईप लालदण्ड, रुरोध च गतिनिवारणार्थम् । ई काभ्यां गृहीतवानित्यर्थः । विघ्नं विशिनष्टि - मदति । मदो हप्तता नादः शब्दायमानता तयां गतः सक्तः । गर्वित इत्यर्थः ॥ ३२ ॥ 9 अथ देवा विघ्नप्रमादनाय प्रवृत्तवन्त इत्याह आजामीज्ञाननतः प्राप्य तदर्थ जनोऽयमीशाननतः । सम्भृतेमकरोदिक्षु प्रभृतिद्रव्यस्य सम्भ्रमकरो दिक्षु ॥ ३३ ॥ आजमित अयं वदं प्राप्तो जनो देवजन:, तदर्थ विघ्नपूजार्थम, ईशा♦ ♦ ननतः ईश्वरस्थाननात मुखाइ आज्ञाम इक्ष्वादिः गणेशं प्रमादयध्वम् हप्ते नियोग प्राप्य इक्षुभूतिद्रव्स्यहरु केर फलपूपा दिव्यरूप संभृति सम्पति यावत् । आयतमकोन कृतवान् । जनं विशिष्ट-भ्र. मति दिक्षु सर्वान्याशासु सम्भ्रमकर इक्ष्वादिद्रव्य हरणाय नानादिक्षु पर्यटनशीलः, तथा ईशाननतः ईशान शिवे नतः प्रहूबः । तदाशानुष्ठाने विहितादर इत्यर्थः ॥ ३३ ॥ १०८ सव्याख्ये त्रिपुरदहने अथ द्वाभ्यां श्लोकाभ्यां गणपति प्रसादयामासुरित्याह- जय जय भो गजवदन ! श्रेयः कुरु भक्तवर्गभोगजवद नः । उन्नतदन्तेशानप्रिय ! भक्ष्यं दयिततम मिदन्तेऽशान ॥ ३४ ॥ जयेति । भो गजवदन ! हे करिमुख ! हे भक्तवर्गभोगजवद ! भक्तवर्गस्य भोगे फलानुभवे यो जवः शीघ्रता तं ददातीति तस्य सम्बोधनं सथा । भक्तानां झटित्येव फलदैत्यर्थ: । जय जय सर्वोत्कृष्टतया वर्तस्व । भक्त्यत्तिशयाद द्विक्तिः । नः अस्माकं श्रेयः कुशलं, कुरु सम्पादयस्व । हे उन्नतदन्त ! । दन्तुरत्वं हि गजानां प्रशस्तिहेतुः । हे ईशानप्रिय ! ईशानस्य शिवस्य प्रिय ! स्वपुत्रत्वात् प्रेमास्पन्द ! ते तब, दयिततमम् अत्यन्तमिष्टं भक्ष्यम् अस्मदाहृतमिवादि द्रव्य मिदं कर्तृ । पुरस्तिष्ठतीति शेषः । अशान यथेष्टं भक्षय इति पृथग्वाक्यम् ॥ ३४ ॥ जगतां मोदकर ! सदा तुभ्यन्नम इत्यपूपमोदकरसद ! । जनता विननामेयं विघ्नेशं निपतिता मुवि ननामेयम् ॥ ३५ ॥ जगतामिति । सदा सर्वस्मिर काले, जगतां जगद्वा सिनां, मोदकर हर्षोत्पादनशील ! तुभ्यं नमः नमस्क्रिया अस्तु इत्येवमुक्त्वा इयं जनता देवजनसमूहः, विघ्नेशं गणपति नन विननाम प्रणतवती । द्वयोर्नञोः प्रकृतार्थावधारकत्वाद् ननामैवेत्यर्थः । कहिशः -- अपूपमोदकरसद ! अपूपो मोदकश्च पिष्टकृतो भंक्ष्यविशेषः तयोर्यो रसः पञ्चभूतानां सूक्ष्मांशः तं ददातीति तथा । देवोपहारे हि निवेद्येषु रसांशमेव देवो गृह्णाति । यथाहुः "मलघातुरसाभिधानमेतत् पृथिवी वाहिजलात्मकं जलाधम् । उपहारविधानमत्र देवे रस एवाञ्चति पञ्चभूतसूक्ष्मः ॥ " इति । यद्वा अपूपमोदकयोः रसो माधुर्य तददातोति तथा । भुवि निपतिता भूमौ दण्डवत् पतिता । साष्टाङ्गपातं नमश्चक्र इत्यर्थः । एतच्च मक्त्यतिशयं तृतीय आश्वासः । १०९ गमयति । विघ्नेशं विशिनष्ट - अमेयनिति । अमेयपरम् ॥ ३५ ॥ विघ्नेशः देवैरर्पितं भक्ष्यजातं पर्यग्रहीदित्याह -- सोऽपि वली लाजालीरपूपपृथुकैः सहैव लीलाजाली । अकुरुत कुक्षौ द्राक्ता या न कुषाकान्विता न कुक्षौद्राक्ताः ॥ ३६ ॥ सोऽपीति । सोऽपि विघ्नेशोऽषि, अपूपपृथुकैः सहैव अपूपः पिष्ट- कृतो भक्ष्यविशेषः पृथुकश्चिपिटाख्यो भक्ष्यविशेषः । 'पृथुको चिपिटा- भेकौ' इति यादवः । अपूपैः पृथुकैश्च सार्धमेव, ता लाजाली: भ्रष्टाः व्रीहयो लाजाः तेषामाली: समूहान्, द्राग् झटिति, कुक्षौ उदरे, अकुरुत । अपूपादिकमभ्यवहृतवानित्यर्थः । विघ्नशं विशिष्टि - बलीति । बली बलवान् । समर्पितपदार्थसार्थाभ्यवहारे शक्त इत्यर्थः । तथा लीलाजाली लीलान बुभुक्षासूचकानां चेष्टानां जालं समूहः तस्यास्तीति तथा । लाजायैर्विशिनष्टि – या इति । या लाजालयः, कुषाकान्चिताः कुत्सितेन पकेनान्विताः युक्ताः न भवन्ति । पाऋस्य कुत्सितत्वमपकत्वादतिपक्वत्व च भवति । याः कुक्षौद्राक्ता: कुत्सितेन क्षौद्रेण माक्षिकेणाक्त: सिक्ताश्च न भवन्ति । सुपाकान्विताः सु- क्षौद्राक्ताश्चेत्यर्थः ॥ ३६॥ विघ्नेशो देवकार्य प्रत्यानुकुल्य (त्व ! ) म गादित्याह निघ्नन् सोऽमरविघ्नं विघ्नो यद्धाम दीप्तोत्ररविघ्नम् । स्वपितर मरिपुं जनयन्नचलत् पुग्तो निहन्तुमरिपुञ्जनयम् ॥ ६७ ॥ निघ्नन्निति । सः अतितेजस्वी, विघ्नः, पुरतः भगवद्रथस्य पुरोभागे, अचलत् अगच्छत् । किंमर्थमचलादित्यत्राह - निहन्तुमिति । अरिपुञ्जनयम् अस्य शत्रुवर्गस्य यो नयः स्वपरपक्षानुग्रह निग्रहाघायिव्यापारलक्षणा नीति तं, निहन्तुम् । असुरान् निश्राहयितुमित्यर्थः । विघ्नं विशिनधि - निघ्नन्निति । अमरविघ्नम् अमराणां देवानां यो विघ्नः असुरवधं प्रति तं, निघ्नन् विनाशयन्, अत एव स्वपितरं शिवम्, अरिपुं अविद्यमानशत्रु, जनयन् कुर्वन्, यद्धाम यस्य ११० सव्याख्ये त्रिपुरदहने विघ्नस्य धाम चक्षुश्शक्तिहरत्वलक्षणं तेजः, दीप्तसो मरविघ्नं दीप्तौ मेघाद्या- वरणाभावात् प्रकाशमानौ सोमरवी चन्द्रादित्यौ हन्ति स्वस्याधिक्याद् निष्प्र(मू ? भौ) करोतीति तथा । अनेनास्य प्रसादातिशयो द्योत्यये ॥ ३७ ॥ अथ तैः प्रस्तुतकार्यनिर्वाहा यो पक्रान्तमित्याह - चलति ससत्वरवेऽधः कृतजलधौ विबुधसदसि सत्वरवेधः । यानं बद्धरवादिप्रकरप्रग्रहमारवाहि ॥ ३८ ॥ चलतीति । अथ गणेशपूजानन्तरं, विबुधरादसि देवसमूहे, चलति पुरो गच्छति, हरवाहि शिवबाहकं, यानं रथम्, आद्रवत् वेगेनागच्छत् । विबुधसदो विशिनष्टि - ससत्त्वरव इति । सत्त्वं बलं पराक्रमो वा व्यवसायो वा । "सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः । माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु ॥ प्राणे च" इति केशवः । रवः सिंहनादः ताभ्यां सह वर्तमाने, अधःकृतजलधौ अमेयत्वादिक्कृतसमुद्रे । समुद्रतुल्य इत्यर्थः । अत्र ससत्त्वरवत्वादपि समुद्रतुल्यत्वं विवक्षितम् । समुद्रोऽपि ससत्त्वरो भवति । तत्र सत्त्वानि जन्तवः । यामं विशिनष्टि - सत्वरेति । सत्वरोऽश्वनियमने त्वरासहितो वेधा ब्रह्मा यस्मिन् तत्तथा । बद्धरवाहिप्रकरप्रग्रहं बद्धरवाणाम् अश्ववलगनवशास् खणखणायमानानाम् अहीनां कार्कोटकादि महानागानां प्रकर: समूह एव प्रग्रहा रश्मयो यस्मिन् तत्तथा । अनेन तद्धयानां महानागाः प्रग्रहतां प्राप्ता इत्यावेदितं भवति ॥ ३८ ॥ कां प्राप्यभूमिमुद्दिश्य यानमाद्रवद् इत्याह - योगो भावी तरसा यत्र पुरां यत्र सुरसभा वीतरसा । निरतिशयानन्देशं तमागमत्तत्क्षणेन यानं देशम् ॥ ३९ ॥ तृतीय अश्वासः । १११ योग इति । यानं रथः, (तत्क्षणेन) येन क्षणेन गमनमुपक्रान्तं तेन क्षणेन अल्पीयसा कालेन, तं देशम् आगमद् आगतवान् । यानं विशिनष्टि - निरति- शयेति । अतिशयः निष्क्रान्तो निरतिशय: । 'निरादयः क्रान्ताद्यर्थे पञ्चम्य' (पा० सू० वा० १ ४.७९) इति समासः । आनन्दस्य निरतिशयावं दुःख संस्पृष्टत्वाद् नित्यत्वाच्च । निरतिशयश्चासावानन्दश्चेति विशेषणसमासः । लोकोत्तर सुखस्वरूप : ईशः परमेश्वरो यस्मिन् तत्तथा । यद्वा निरतिशयः आनन्दः देवेषु प्रीतिर्यस्य इति विग्रहः। तं देशमित्युक्तम्, कोऽसौ देश इत्यत्राह - योग इति । यत्र यस्मिन् देशे, पुरां पुराणां, तरसा 'सुरसत्तम ! नो निलया गत्या घटना मिथुर्जितमनो- निलया' इत्युक्तलक्षणेन बेगेन, योगः समागमो, भावी भविष्यति । यत्र यस्मिन् देशे, सुरसभा देवसमूह, वीतरसा वीतो रसो बीर्य यस्याः सा तथा । यत्रासुरैर्देवाः पराजिता इत्यर्थः । यद्वः यत्र यासु पूर्षु सुरसभा वीत्तरसा तासां पुरां संयोग इति वा सम्बन्धः ॥ ३९ ॥ अथ विरिश्चवरात पुराणां संयोगसमय एवं हन्तव्यत्वात् संयोगस्य क्षणिकत्वःच्च प्रागेव धनुर्ग्रहणमारभ्याकर्षणपर्यन्तमुद्यमं कृत्वा पुरयोग प्रति- पालयता मया भवितव्यमिति मन्यमानस्य भगवतः प्रवृत्तिं पञ्चभिः श्लोक- राह । तत्र प्रथमेन धनुर्ग्रहणं, द्वितीयेन गुणारोपणं, तृतीयेन शरसन्धानं, चतुर्थेनाकर्षण, पञ्चमेन पुरयोगं प्रतीक्ष्यावस्थानं चोच्यते-- अथ विभुरच्छशिखण्डश्रित दिव्यनदी जलस्खलच्छशिखण्डः । सुरवरहैमवतंसस्फुरितपदो धनुरुदास हैमवत सः ॥ ४० ॥ ॥ अथेति । अथ पुराणां संयोगस्थानागमनानन्तर, स पुरवधोद्युक्त, विभुः शिवः, हैमवतं हिमवद्भिरिविकारं, धनुरुदाम उद्धृतवान् । विभुं विशिनष्टि अच्छेति । अच्छं निर्मलं शिखण्डमुपपत्तिबलाज्जटाभारं श्रितायाः प्राप्तायाः दिव्यनद्याः गुरुतरधनुरादानसमये भगवद्वपुषश्चाञ्चल्याच्चल्तिजलाया गङ्गायाः नले स्वलन् वीचिपरम्पराभिः इतस्ततो विक्षिप्यमाणः शशिखण्डश्चन्द्रकला यस्य स तथा । शिखण्डशब्द: शिखिपिञ्छशिंखयोरेवाभिधायकः । तत्र शिखायां स्त्रीलिङ्ग एव । ११२ सव्याख्ये त्रिपुरदहने "शिखण्डस्तु पुमानयम् । मयूरपिञ्छे स्त्री तु स्यात् शिवायां हि शिवण्ड्यसौ" । इति केशवः । तस्मात् शिखण्डशब्देनात्र किमभिधीयत इति चिन्त्यम् । सुरवरेति । सुरवराणामिन्द्रादीनां हैमेन हेमविकारेण वसंसेन शेखरेण स्फुरितं शोभितं पदं पादो यस्य स तथा । जगदीश्वराणामीश्वरस्य तस्य किं नामाशक्यमिति भावः ॥ ४० ॥ या हतसुरविप्रभया तथा च मौर्व्या विभावसुरविप्रभया । चापमयोजयद मलं जगतां नाथ: सुदुर्जयो जयदमलम् ॥ ४१ ॥ येति । जगतां नाथः शिवः, तया मौर्व्या गुणेन, चापमयोजयच सङ्गमितवान् । मौवीं विशिष्टि - विभावखिति । विभावसुरभिः रविरादित्यः तयोः प्रभेव प्रभा दीप्तिर्यस्याः सा तथा तथा । कालात्मकत्वेन दिव्यत्वाद् दुर्निरीक्षयेत्यर्थः । अत एव या मौर्वी, इतसुरविप्रभया हतं निरस्तं सुराणां विप्राणां च भयं यया सा तथा । साधनगुणे सति साध्यसिद्धिरवश्यंभाविनीति सुरादीनां भीतिमत्र्यैव निरस्तवतीत्यर्थः । चापं विशिनष्ट- अमलमिति । लघुज्याक्षतत्वादयो ये चापदोषाः तद्रहितम् । अत एव अलमत्यर्थ, जय- दम् अरिपरिभवदम्। शिवं विशिनष्टि (सु) दुर्जय इति । सुतरां जेतुमशक्यः इति । कर्तुः करणस्य च गुणवत्त्वे का विचिकित्सेति भावः ॥ ४१ ॥ यस्य मरुद्वाजगतः फलेऽनलेन्द्र यदार्तिरुद्वा जगतः । सज्ये चापे तदयं समधित बाणाख्यधाम चापेतदयम् ॥ ४२ ॥ यस्येति । अयं शिवः, सज्ये आरोपितज्ये, चांप उद् बाणाख्यधाम बाणाख्यं बाण इत्याख्या संज्ञा यस्य तत्तथा । बाणरूपेण परिणतमित्यर्थः । बाणाख्यं यद् घाम विष्ण्वादिरूपं तेजः तद् अपेतदयं अपगता दया करुणा दैत्येषु यथा भवति तथा समधिन च समाहितवानपि । तदिति सामान्येम तृतीय आश्वासः । ११३ निर्दिष्टं विशेषेऽवस्थापयितुमाह - यस्येति । यस्य बाणाख्यधाम्नः, मरुद्वायुः, बाजगतः वाजे पत्रे गतः । वाजत्वं गत इत्यर्थ: । फलेऽनलेन्द्र फले मुले अनलेन्दू अग्नीषोमौ गतौ । अत्र बाजशब्देन समस्तोऽपि गतशब्दोऽर्थसामर्थ्यादनुषज्यते । सोऽर्थवशद् द्विवचनान्तश्च भवति । पूर्व विष्णोरेव शररूपत्वमुक्तम् । तत्र यदनुक्तं देवतान्तरस्य शरावयवरूपत्वं तदिदानीमावेदितं भवति । यद् बाणाख्यधाम जगतः आर्तिरुद् वा आर्ति पीडां रुणद्धीति तथा, विष्ण्वादिरूत्वाद् । वाशब्दः समुच्चये । ननु (बाल ? वाज) फलवत्ता योग्यत्वं बाणस्यैव न तु धाम्नः । अत्र बाणस्य धम्न एव धनुषि सन्धानमुक्तं न तु बाणस्य । धनुषि सन्धानमपि बाण- स्यैवोपपद्यते न तु धाम्नः । तत् कथमेवमुक्तम् । उच्यते अत्र न कवलस्य धाम्नो धनुषि संहितत्वम् । ( वाजः किमर्थं चोक्तम् ) । अपितु बाणाख्यतया विशिष्टस्यैव । विशिष्टस्य तु सर्वमेतदुपपन्नमव ।॥ ४२ ॥ ज्वलदन लोप महस्तस्थिरकृष्टरणद्गुणेन रोपमहस्तः । तेन महारिपुपूरे रुष्यति चापं हरेण हारि पुपूरे ॥ ४३ ॥ ज्वलदिति । महारि (पु)पूरे महति वीर्यशौर्यादिनोत्कृष्टेरि (पु) पूरे शत्रु- समूहे, रुष्पति नारदमुखात् स्ववधोद्यम श्रवणात् क्रुध्यति सति, तेन शरं संहित- बता, हरेण चापं पुपूरे पूरितम् । आकर्णम कृष्टमित्यर्थः । हरं विशिनष्टि - ज्वलदिति । ज्वलदनलोपमेन ज्वलता दीप्यमानेनानलेनाग्निना उपमां सादृश्यं यस्य स तथा । शुद्धसत्त्व मयत्वादतितेजस्वितया च प्रकाशमानेनेत्यर्थः । तेन हस्तेन स्थिरं दृढं यथा भवति तथा कृष्ट आकृष्टः अत एव रणन् शब्दाय- मानो गुणो ज्या येन स तथा । चापं विशिष्टि रोपेत । रोपः शरः । * अस्त्री रोप इषुर्द्वयोः इत्यमरः । तस्य मह (सा १ स्तः ) तेजसा, हारि मनो- हरम् ॥ ४३ ॥ — सुचिरमिहासावस्थान्नाथः कुर्वन् सुरान् सहासावस्थान् । धृतधनुरा पूर्योगात् ततः स कालो द्विषद्भिरापूर्योऽगात् ॥ ४४ ॥ * 'पत्री रोप' इति मुद्रितपाठ:. सव्याख्ये त्रिपुरदहने • सुचिरमिति । असौ आकृष्टचापो, नाथ: स्वामी शिवः, आ पूर्योगात् पुरत्रय संयोगावधि, धृतधनु: आकृष्टशरासनस्सन्, सुचिरं बहुतिथं कालम्, ३६ पुरत्रयसंयोग (स्थापने अतः ? स्थाने अस्थात् ) पुरत्रय संयोगं प्रतीक्षमाणः स्थितवान् । नाथं विशिनष्टि - कुर्वन्निति । सुगन् सझसावस्थान् कुर्वन् सहासा हास- संयुक्ता अवस्था अवस्थानं येषां ते तथा । हर्षयुक्तान् कुर्वत्यर्थः । प्रतिपाल्य- मानकालविशेषो वर्तमानतामगमदित्याह- तत इति । ततो भगवत्स्थानानन्तरं, द्विषद्भिः शत्रुभिः आपूर्य: ब्रह्मसकाशाद्वरत्वेन प्रार्थितया स्वैनियमितया सङ्ख्यया पूरणीयः स काल: अब्ददशशतावध्यन्त इत्युक्तलक्षणः समयो- डगात् आगतवान् ॥ ४४ ॥ ११४ अथ शरं मुमुक्षोभगवतः शरव्यं पुरस्थितमभूदित्याह - तदनु कृताशावलयस्थितयः सहसः जितामृताशावलयः । सङ्गतिमापुर्योद्धा यत्रायं तत्र समाहेमा पुर्योऽवा ॥ ४५ ॥ तदन्विति । तदनु संयोगप्राप्त्यनन्तरं, पुर्य: पुराणि, सहसा झटिति, अद्धा प्रत्यक्षतः, तत्र सङ्गति संयोगं (ग्र । ? आ) पुः प्राप्तवत्यः । तत्रेत्युक्तं, कुत्रेत्यत्राह -- यांद्भुति । यत्र यस्मिन् देशे, योद्धा युद्धोद्युक्तोऽयं शिवः। अतिष्ठ- दिति शेषः शिवं विशिनष्ट- समाहिति । समहिमा महिम्ना महत्त्वेन सहितः । भगवन्महत्त्वेनैवामी भस्म भविष्यन्ति रथ ग्रुपकरण जातं तु वृथैवो- दितमिति भावः । पुर्विशिष्टकृतति । कृतः आशावलये दिङमण्डले स्थितिर्याभिस्त स्तथा । काम मत्वात् सर्वदिक्षु कृतपर्यटना इत्यर्थः । तथा जितामृताशावलय: जिता अभिभूताः अमृताश'नां देवानामावलिः समूहो याभिस्ताः तथा । कृतकृत्य । इत्यर्थः ॥ ४५ ॥ भगवतः पुरत्रयम्थनाय सम्पादितसाधनव्यतिरेकेण नाधनान्तरमासीदिति वक्तुं पीठिकां प्रतिष्ठापयति युगगनभूतलयानान्निमित्तभूतं समस्तभूतलयानाम् । स रुषमगच्छत्रिपुरस्थायि बलं प्रेक्ष्य नृतुरगच्छत्रि पुरः ॥ ४६ ॥ तृतीय आश्वासः । ११५ युगगनेति । स शिवः, पुरोऽये, त्रिपुरस्थायि पुरत्रयस्थितिशीलं, बलं सैन्यं, प्रेक्ष्य प्रेक्षणाद्धेतोः, रुषं क्रोधम् अगच्छत् प्राप्तवान् । बलं विशिनष्टि - द्युगगनभूतलयानादिति । द्यौः स्वर्गः, गगननाकाशं, भूतलं भूलोकः, एषु यानात् पर्यटनाद्धेतोः, समदभूतलयानां सर्वजन्तुनाशानां, निमित्तभूतं हेतुभूतम् । एतद् रोषे हेतुः । तथा नृतुरगच्छन्त्रि नराः पुरुषाः । पदातय इति यावत् । तुरंगा अश्वाः, छत्रं श्वेतातपत्रम् । उपलक्षणमेतत् परिच्छदान्तरस्य । किञ्चिदप्यवयववैकल्यमप्र [तमित्यर्थः ॥ ४६ ॥ अथ साधनान्तरोत्पत्तिमा ह अथ संरम्भान्विततस्तृतीयनयनाग्निरम्बरं भान् विततः । प्रविवेश तदा हरतः पुरमाप च तत्कर्ण रिशतदाहरतः ॥ ४७ ॥ अथति । अथ गेषोत्पश्यनन्तरम् । यस्मिन् काले रोष उदपद्यत, तदा तस्मिन् काले, संम्भान्विततः संम्भः क्रोधः तेनान्वितात युक्तात्, हरतः हरात्, तृतीय नयनाग्निः तृतीयनयने ललाटलोचने योऽग्निः, सोऽम्बरं आकाश, प्रविवेश प्रविष्टवान् । कुपितस्य भगवतो नयनामिरुद्गच्छदित्यर्थः । कीदृशः । भान् जाज्वल्यमानः, विततः विस्तृतः । चतुर्दशभुवनान्यपी धनी- कर्तुं पर्याप्त इत्यर्थः । स च त्रिपुरसंहाररायोपक्रान्तवानित्याह – पुरमिति । तत्कणः तस्याः कणः लेश: स्फुलिङ्गः । एकत्वं विवक्षितम् । एक- स्फुलिङ्ग के लीयन्त' इति वक्ष्यमाणत्वात् । पुरमाप प्राप । पुरत्रयं तेन संस्पृष्ट- मभूदित्यर्थः । पुराणां त्रित्वेऽपि संयोगसमये एकीभावेन प्रतिभासमानत्वात् पुरमित्येकवचनान्ततया निर्दिष्टम् । कणं विशिनष्टि - अरीते। अरीणां - शतस्यानेकस्य दाहे भस्मीकरणे रतस्तत्परः ॥ ४७ ॥ स च भगवन्मनोरथं पूरितवा नित्याह तेनैव समस्तारि प्रादीपि च दत्तपरिभवसमस्तारि । शिखिना साकं पतता त्रयी पुरामस्फुटच्च सा कम्पतता ॥ ४८ ॥ --सव्याख्ये त्रिपुरदहने तेनेति । एवकारोऽन्ययोगव्यवच्छेदपरः । तेन पुरं प्राप्तेन, शिखिना अभिनैव तु शरेण, पुरां त्रयी दत्तपरिभवसमस्तारि दत्तः परिभवो येषां तादृशाः समस्ता निखिला अरयो यथा भवन्ति तथा समस्तारि सञ्छादिता । असुरैरनिवार्यप्रसरोऽग्निस्सर्वतो व्याप्तवानित्यर्थः । प्रादीपि च दहनज्वाला- मालाकुलाभूदित्यर्थः । शिखिनं विशिनष्टि - साकमिति । साकं सह, पतता। तिसृष्वपि पूर्षु युगपत् संसृजतेत्यर्थः । सा पुरत्रयी अस्फुटच्च दशमानसन्धि. बन्धा सती स्फुटितवती । कीदृशी । कम्फ्तता कम्पेन व्याप्ता । स्वस्थानच्युत- निस्विलावयवेत्यर्थः ॥ ४८ ॥ नयनामिनैव पुरत्रये दह्यमाने पूर्वमेव शरे सङ्क्रान्तः कोपाग्निः सार्थक्रियाविषयः भवन् जगद् गोचरीकर्तुं प्राक्रमतेत्याह शत्रुषु दाहं तेषु श्रयत्सु *रोषेण वै तदा हन्तेषुः । सागरिवनोदधि कबलीकर्तुं जगदर्चिरातनोद धिकवली ॥ ४९ ॥ शत्रुध्विति । वैशब्दोऽवधारणे । अत्र रोषशब्देन कारणे कार्यो- पचारात् रोषकार्यभूतो नयनाग्निः प्रतिपाद्यते । यस्मिन् काले पुरत्रयी दह्य- मानाभूत् तदा तस्मिन् काले, इषुः सङ्क्रान्तभगवत्कोपो धनुषि संहितश्शरः, रोषेण वै रोषकार्यभूतेन तृतीयनयनामिनैव तेषु प्रकृतेषु शत्रुषु दाई भस्मी- भावं, श्रयत्सु प्राप्नुवत्सु सगिरिवनोदधि गिरिभि पर्वतैः वनैररण्यैरुदधि- भिः समुद्रैः तदुपलक्षितः पदार्थान्तरैश्च सहितं, जगत् कवळीकर्तुम र्चिः ज्वालाम् आतनोत् अकरोत् । प्रसारया मासेत्यर्थः । हस्त । विषादे हन्तशब्दः । महत् कष्टमापतितमित्यर्थः । कीदृशः अधिकली अत्यन्तं बलवान् केनाप्य- निवार्यप्रसर इत्यर्थः ॥ ४९ ॥ अथ त्रिभिः श्लोकैः तद्दहनसम्भ्रान्ता देवर्यादयः तत्पशमनाय प्रावर्त्तन्तेत्याह अकृत गिरस्तदनु जनस्त्यज रोषं पाहि हर निरस्तदनुज नः । जगदतिरेकोपेते भस्मी भवतीव गुरुतरे कोपे ते ॥ ५० ॥ 'रोषेण स च तदा' इति मूलकौशपाठः. a तृतीय आश्वासः । अकृतेति । तद्नु अस्त्रज्वलनानन्तरं, जनो देवर्ष्यादिः, गिरो वचनानि, अकृत कृतवान् । भगवन्तमुक्तवा नित्यर्थः । गिर एव दर्शयति - हे हर निरस्तदनुज ! निगृहांतसुर ! । दनुजनिरास एव ते करणीयः, अतिप्रसङ्गो न कार्य इत्यभिप्रायेणैव सम्बोधनं कृतम् । ते तवा तिरकोपेते अतिरेक आधिक्यं तेनोपेते सहिते, अत एव गुरुतरे सोढुमशक्ये, कोपे शरसङ्क्रन्ते कोपौ जगद् ( भस्मीभवतीय) भस्मीभवदिव बर्तते । तन्नः अस्मान्, पाहि त्रायख । किं कृत्वा रक्षणीया यूयमित्यत्राह - त्यजेति । रोषमसुरजनितं क्रोधं, त्यज संहर । रोपत्यजनमेचा स्मद्रक्षेति भावः ॥ ५० ॥ शिखिनिकरोपम! मुञ्च श्रीकण्ठ । त्रिपुर एव रोपममुं च । जगदाय । स्यत्यन्तं तद्न्यथा चंदतश्च यास्यत्यन्तम् ॥ ५१ ॥ शिखीति । हे शिखिनिकरोपम ! कोपेनोप्मायमाणत्वाद झिप्रकर तुल्य ! हे श्रीकण्ठ ! नीलकण्ठ । अमुं जगद्धस्मरार्चिमलाशालिनं, रोपं च तृतीय नेत्र निवत् शरमपि, त्रिपुर एव मुञ्च, न जगति । अमेोचने दोषमाह - तदन्यथा चेदिति । तस्मात् शरमोचनादन्यथा अन्येन प्रकारेण यदि । क्रियते इति शेषः । अतश्च एतस्माच्छर देव (जगत् ) अन्तं यास्यति प्राप्स्यति । जगद्विशिनष्टि - आयासोति । अत्यन्तमायासि शरानलज्वालालीढप्रायत्वात् क्लशयुक्तम् ॥ ५१ ॥ प्रीतिमुयोध्य क्रोधमपनेतु भगवतो महत्त्वमाविष्कुर्वन्नाह - रणभूमिषु चापादि ग्राह्यं यद्वस्तुजातमिषुचापादि । सर्व केळीयं ते पुरो यदेकरफुलिङ्गके लीयन्ते ॥ ५२ ॥ रणभूमिष्विति । रणभूमिषु ग्राह्यं गृहीतुं योग्यम् षुचापादि सर्व वस्तुजातं पदार्थसमूह आपादि उत्पादितं यद् इयं ते तव, कळी क्रांडव । चशब्द: पादपूरणार्थः । कुत एतदवगतमित्याह – पुर इति । पुर: पुराणि, एक स्फुलिङ्ग के एकस्मिन्नेव स्फुलिङ्गे अल्पेऽमिकण । P ११८ सव्याख्ये त्रिपुरदहने अल्पार्थे कः । लीयन्ते नश्यन्तीति (यद्) यस्मात् । यद्यप्येवं तथापि अस्मदनुग्रहार्थ शरमोक्षः कार्य इति शेषः । उक्तं च लैङ्गपुराणे "सोमश्च भगवान् विष्णुः काला निर्वायुवे च । शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम् ॥ दग्धमप्यथ देवेश ! वीक्षणेन पुरत्रयम् अस्मद्धितार्थ देवेश ! शरं मोक्तुमिहार्हसि ॥ " इति ॥ ५२ ॥ अथ द्वाभ्यां श्लोकाभ्यां शिवों देवप्रार्थनां सफलीचकारे त्याह- इत्थं सुवाचारं नतमृपिमञ्च वीक्ष्य सुग्दाचारम् । उत्थितमधियागारि प्रभुणा रोषार्चिरुत्तमधियागारि ॥ ५३ ॥ इत्थमिति । प्रभुणा शिंदेन, इत्थम् अनेन प्रकारण, सुग्वाचा सुराणां वाचा वचनेन हेतुना, अरमत्यर्थ, नतं प्रीभूतमृषिसंघं वीक्ष्य च नतस्य ऋषिसङ्घस्य बीक्षणाच्च घेतोरधियागारि । विभक्त्यर्थेऽव्ययीभावः । यागारयोऽसुराः तेषु मूर्चिछतं वृद्धि प्राप्त रोपः चिः कोपा ग्निज्वाला, अगारि निगीर्णम्। ननु क्त्वाप्रत्ययस्य वाच्योऽर्थो भाव एवं । अव्ययकृतो भावार्थत्वाद्। द्योत्यार्थस्तु पूर्वकाल एव । तत् कुतस्त्येयं हेत्वर्थता । उच्यतेक्त्वाप्रत्ययान्तस्य यत् क्वचिद्धेत्वर्थत्वं दृश्यते तन्न पदार्थ । अपि तु वाक्यार्थसामर्थ्यादायातमेव । ऋषिस विशिनष्टि - सुम्बेति । शोभनो रवः स्तुतिरूपः शब्दश्चाचारोऽज्ञ्जलिबन्धनमस्कारादिरूपो व्यापारश्च यस्य स तथा । प्रभुं विशिनष्टि-- उचमधियेति । उत्तमा शुद्धसत्त्वमयत्वादुत्कृष्टा धीर्बुद्धिर्यस्य स तथा । तादृशोऽसौ कथं न प्रसीदतीति भावः ॥ ५३ ॥ त्रस्तरिषु सारचितं शरं वपुर्यस्य परमपुंसा रचितम् । त पुर्यामासुर्यां स मुमोच सुरा न दारयामासुर्याम् ॥ ५४ ॥ १. मूर्च्छितमिति व्याख्यानुसारी पाठ: तृतीय आश्वासः । शिवः तं शरं, तम्याम् आसुर्याम् असुरसम्बन्धियां, पुर्यां मुमोच विसृष्टवान् । पुरीष्ट - सुरा इति । यां पुरीं, सुरा देवा: नदारयामासुः न विदारितवन्तः सामर्थ्याभावात् । तादृश्याः तस्या विदाणे मगवतोऽन्यः कः शक्नुयादिति भावः । शरं विशिनष्टि चपुरिति । यस्य शरस्य वपुः स्वरूपं परमपुंसा विष्णुना करणेन रचित निर्मितम् अत एव सारचितं नारेण स्थिरांशन चितं व्याप्तम् अत एवं स्तरिपुं त्रस्ता भीता रिपत्र यस्मात् स तथा ॥ ५४॥ • > अथ प्रस्तुतं कार्य निर्वृत्तमामादित्याह, कृतदानवतापतति क्षुरेऽत्र दहनेन मूर्च्छनवता पतति । सासारर पुर्या ते पुरतः परीनसाररिपुर्या ॥ ५५ ॥ कृतेति । अत्र भगवता मुक्तेऽस्मिन् क्षु शरे, मूर्च्छनवता वृद्धियुक्तेन, दहनेनामिना सकृतदानवतापति कृता दानबेषु तापानां ततिस्समूहो यथः भवति तथा पतति पुरत्रयं प्राप्नुवति सति तया पुर्या पुरत्रयेण पुरतो भगवद ग्रे, साट्टम् अट्टो गृहविशेषः तेन सह वर्तमान यथा मवति तथा च सारारे अररीभिः क्वाटैः तदुपलक्षितैरनुक्तैस्वयवैश्च सह वर्तमानं यथा भवति तथा च, पते भस्मीभूय भूमौ पतितम् । पुरी विशिनष्टिया पुरी परीतमारापुः परीतः परितः प्राप्तः सारो बलं येस्त तथा परीतसारा चलवन्तो रेपवो जगद्वैरिणोऽसुरा यस्य : सा तथा । देवे प्रतिकूले पुरुषकारेण किञ्चिदपि नोपक्रियते इति भावः । इति, मा "अट्टा नातिशय घाते क्षौनसंज्ञगृहान्तरे । शुष्करफुटेिनभूभागे त्रिषु पक्कौदने तु न्प् ॥" - "अथ पुंसि स्यादररः सोमसंज्ञके । यज्ञाङ्गेऽग्नौ च युद्धे च लोहलोहशलाकयोः । अपि क्लीयं कवाटे तु स्यात् स्त्री शण्डेडररी इति ॥ आरायामर स्त्रयेव शीघ्र स्याद् भेद्यलिङ्गकम् ।" १२० सव्याख्ये त्रिपुरदने अथ हृष्टानां देवादीनां व्यापारमाह अथ सुतरामुदराणि प्लुष्टारिगणान्यधः पुरामुदराणि । दृष्ट्वा वरदेवर्षिवातैः पुष्पं प्रभौ च वरदेवपि ॥ ५६ ॥ अथेति । अथ त्रिपुरदाहानन्तरं, वरदेवपित्रातः वराणां श्रेष्ठानां देवानामृषीणां च व्रतैः समूहै: 'लुष्टारिंगणानि प्लुष्टो दग्धो अरिंगणो येषु तानि पुगं पुराणाम् उदराणि अन्तर्भागान्, अधो दृष्ट्वा भूमौ पतितानि विलोक्य, सुतरामत्यर्थम्, उदराणि भक्तिहर्षाभ्यां परवशीभूतैः सद्भिः 'जय जय महादेव ! जगत्त्राणैिकधुरन्धर पार्वतीवल्लभ ! त्वमेव न शरणम् एवमेव स्मन् त्रायस्' इत्याच्चै गणितं शब्दितम्, प्रभौ जग- स्वामिनि शिव, पुष्पवर्षि च । कीदृशे । वरदे पुग्त्रयदा हात् सर्वेषा- मभीष्टप्रदे ॥ ५६ ॥ " अथ इलोकद्वयेन पुग्दहनमुपसंहरन् भगवतः प्रवृत्तिशेषमाह प्लुष्ट्वा पूर्वसुरसद: त्रिपुरघ्नः सुरगणाय पूर्वसुरसदः । मुद्रमधिकामारीक: स्वञ्च न भक्तोऽत्र भवति कामारौं कः ॥ ५७ ॥ । प्लुट्वेति त्रिपुग्नः शिवः तदानीं शिवः त्रिपुरघ्नवाच्यताम् अध्यगच्छदिति त्रिपुरघ्नशब्देन निर्दिष्ट: । पूर्वसुरसद: पूर्व असुगः तेषां सदः समूहः । प्लुष्ट्वा दग्ध्वा, अधिकां मुदमा साध्यस्य कर्मणः साधितत्वात् प्रभृतां प्रीतिमा स्वमात्मीयमकः स्थानं चर । कीदृशः । सुरगणाय पूर्वग्सद: पू स्वर्ग: वसूनि धनानि रत्नानि च र तज्जन्यं सुखं च ददाति (इति) तथा पूर्वमसुगहृतत्वत् पूरादिकं तदा भगवता दत्तमवेत्यर्थः । इत्थं भगवतो भक्तेनुग्रहकताम् अभक्तेषु निग्राहकतां च निरूप्य सर्वैरपि भगवति भक्तैरेव भवितव्यम् इत्युपदेष्टुं कविराह – नेति । अत्रेत्थं भक्त नुप्राहके भक्तिीनग्राहके चास्मिन्, कामारी शिवे, कः पुरुषो, भक्तो न भवति । सर्वोऽपि भक्तो भवत्येव । सर्वेरेव भरेव भवितव्यमित्यर्थः । स्वप्रातिकूल्यानुकूल्या- चरणमेवास्य निग्रहानुग्रहयोरुपाधिः न तु सुर ( सुर) जातिभेद इत्येतत् कामारि पदेन द्योत्यते ॥ ५७ ॥ तृतीय आश्रासः । स हि तपनानलसोमस्फुरिताक्षित्रितयचुम्बनानलसोमः । कुर्वन्नस्तत्रासौ लोकाववस त्रिलोचनस्तत्रासौ ॥ ५८ ॥ १२१ स हीति । सः कृतत्रिपुरदाहोऽसौ स्वाबासं प्राप्तः, त्रिलोचनः शिवः, तत्र तस्मिन्नो कसि। अवमद्धि । हिशब्दः ऐतिहासिक प्रसिद्धि द्योतयति । कर्तव्यान्तराभाव तू तत्रपिवान् । त्रिलोचन विशिनष्टि - कुवे- निति । लोकौ भूमिस्वर्गो, अन्तत्रासौ त्रिपुरवधानष्टभयौ, कुर्वन् । इतर- लोकानामुभयत्रान्तर्भावदेवमुक्तम् । तपनेति । तपन आदित्यः अनलो- ऽभिः सोमश्चन्द्रः तैः स्वरूपभूतैः स्फुरितं यदक्षणां त्रितयं तस्य चुम्बने अनलसा अमन्दा उमा पार्वती यस्य स तथाः । कृतकृत्यस्य कामा- धिकारित्वात् स्त्रीणां वीरकामित्वाच्च तंदानीं तयोः कामे प्रवृत्तिरुपपन्नैव ॥ ५८ ॥ अथ, "शिव शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेइेवं देवो न खलु कुशलः स्पन्दितुमपि ।" "परब्रह्मण पापणे परस्पर विरोधिनि । बिना विमर्शमीशस्य सद्भवो व्योमनी द्रमा (!) ॥" इत्याद्यभियुक्तोक्त्या शक्तिमन्तरेण शक्तिमतः स्वरूपलाभस्याप्यभावात् परशक्य त्मिकायाः पार्वत्याः स्वरूपं परामृत - यहरोकारो हि व्यधित यदङ्गं महेश्वरोऽङ्कारोहि । योगिभिरुरुचेतनया या गननीया नगस्थ रुरुचे तनया ॥ ५९ ॥ यद्वपुरिति । नगस्य हिमवद्भिः, तनया पार्वती, रुरुचे भगवता संयुक्ता दीप्यते स्म । निष्कळरूपं परामृशन् तां विशिनष्टि - यद्धपुरिति । यस्या नगतनयायाः वपुः शरीरम्, ओङ्कारः निखिलवेदसारः प्रणवो हि । हिशब्दः शास्त्रीयां प्रसिद्धिंद्यतयति । तथा या योगिभिः सनकादिभिः, उरुचेवनया उर्व्या महत्या सर्वव्याप्तथा चेतनया चिद्रूपतया, गमनीया ज्ञातव्या । उरुचेतनयेति प्रकृत्यादित्वात् तृतीया । योगिभिः सव्याख्ये त्रिपुरदहने समाधिदशायामखण्डपरिपूर्णचिद्रूपतया अनुभूयते इत्यर्थः । केचिद् उरुचेतनया उर्व्या महत्या चेतनया बुद्धयेति व्याचक्षते । तदयुक्तम् । योगिनां समाधिदशायां यद् ज्ञानं तस्य निष्कळविपयत्वात् निष्कळ याः तस्या अवाङ्मनसगोचरत्वाच्च । चिद्रुपस्या वाङ्मनसगोचरत्वं श्रुत्या किल प्रतिपाद्यते । उक्तं च भागवते १२२ "नैनं मनो विशति वागुत चक्षुगत्मा प्राणेन्द्रियाण्यपि यथानलमर्चिषः स्वा: ।" इति । अथ सकळं रूपं परामृशन् तां दिशिनष्टि – ( यदङ्गमिति ।) ( यस्याः नगतनययाः अङ्गं वपुः महेश्वरः शिवः अङ्कारोहि । 'वाम कारूढगौरीनिबिडकुचभसभोगगाढोपगूढम् ' इत्याद्युक्तदृष्ट्य वामाङ्कारोहणशीलपि व्यधित कृतवान् ॥ ५९ ॥ अथ सा तेन सम्भोगसुन्वमनुत्रभूवेत्याह् विपिनं कैलामालङ्कारि विशन्ती सकेत कैलासालम् । मदनरिपुं सा माद्यनियमगजोपय पुसामाद्यम् ॥ ६० ॥ विपिनमिति । या समनन्तरमेवोपदशित रू रूप सा अगजा पार्वती, मदनरिपुं शिवं, निर्दयं निर्गता दया यथा भवति तथा उप- गृह्य अतिगाढमालिप्य, उपगूहनोपलक्षतां रति प्राप्य अमाद् । आनन्दितवती । मदनरिपुं विशिष्ट पुंसाति । पुमां ब्रह्मादीनाम्, आद्यम् आदौ भवम् । ब्रह्मादिकीटपर्यन्तानां जीवानां कारणभूतमित्यर्थः । अनेनाहा धन्यता भगवत्या : या तादृश भगवन्तमुपगूढवती इति ध्वन्यते । अगजां विशिनष्टि -- सकेनकैलासाल केतकैरेलाभिः लताविशेषैः सालैः वृक्षविशेषैः तदुपलक्षितैरन्यैरुद्दीपन भूतैर्मल्लिका जातिशेफालिंका चम्पकाशोकादिभिश्च सह वर्तमानम् । अत एव कैलासालङ्करि कैलासपर्वतालङ्करणशीलं विपिनं वनं, विशन्ती प्रविशन्तीत्यर्थः ॥ ६० ॥ अथ प्रबन्धमुपसंहरति - बबन्धुरेव बन्धुरे स्ववर्त्मनि स्थितिं जनाः । पिनाकिनापि नाकिनाममोदि मोदकारिणा ॥ ६१ ॥ तृतीय अश्वासः ! १२३ :बबन्धुरिति । जनास्त्रैलोक्यवासिनः स्ववर्त्मनि स्वस्मिन्नात्मीये वर्त्मनि मार्गे । स्वाधिकृते कर्मर्ण त्यर्थः । स्थितिं च बबन्धुरेव । कृतवन्त इत्यर्थः । अत्रैवकारः क्रियासङ्गत्तत्वादत्यन्तायोगं व्यवच्छिनत्ति । जनेषु स्वमार्गस्थितिरत्यन्तं बद्धैवेत्यर्थः । एवकारस्य त्रयोऽर्थाः • अयोगव्यव च्छेदः अन्ययोगव्यवच्छेदः अत्यन्तायोगव्यवच्छेद्रश्चेति । तत्र विशेषणसङ्गतः अयोगं व्यवच्छिनत्ति । यथा देवदत्तो दण्ड्यवेति । विशेष्य सङ्गतोऽन्ययोग व्यवच्छिनत्ति । यथा देवदत्त एव दण्डीति । क्रियासङ्गतः अत्यन्तायोगं व्यवच्छिनत्ति । यथा देवदत्तो दण्डी भवत्येव इति । पूर्वमसुरैर्बाधितत्वात् सर्वेषामपि स्वाधिकारे स्थितिरशक्यैवाभूत् । असुरेषु हतेषु बाधक भावात सर्वेऽपि खाधिकारेऽत्यन्तं स्थितवन्त इत्यर्थः । स्ववर्त्म विशिनष्टि - बन्धुर इति । बन्धुरे सुन्दरे स्वाधिकृतत्वात् शुभरूप इत्यर्थः । "बन्धुरस्तु द्वयोहंस त्रिस्तु सुन्दरनर्भयोः ।" इति केशवः । यथोक्तं व्यासपा:1 "स्वे स्वेऽधिकारे या निष्ठः स गुणः परिकीर्तितः । विपर्ययस्तु दोप: स्याङ्कुभयोरेष निश्चयः ॥" इति । न केवलं जनैरेव शिवनापि स्ववर्त्मनि स्थितमित्याह -- पिना- किनेति । पिनाकिंना शिवेनापि अमोदि हृष्टम् । तत्र हेतुः नाकिनां मोदकारिणेति । नाकिनां देवानां मोदकारिणा हर्षकत्र । नाकिनां मोदकारित्वं हि भगवतोऽधिकारः ॥ । इति त्रिपुरदहनव्याख्यायां हृदयम्र हिण्यां तृतीय आश्वासः ॥ शुभम् । शेकः कृत गिरस्तदनु अकृत जपञ्चाक्षरतः ४९ अघशतघस्मर २२ अर्धन्यस्त ५ जतिभीमं २२ जय नन्दी ११ अथ परमं १ अथ परमे २९ जय पुरतोऽमरपाता ४९ अथ रतिमापुष्यन्तः २६ अथ विजयाशां ४८ अथ विजहारामेयं १० अथ विभुरच्छ ४० अथ संरम्भान्विततः ४७ अथ सुतरामुदराणि ५६ अथ हरिमापन्नत्वाद् १ अद्वैतं परममलं ५१ मधुनापि तथैव ५९ अनितरसादृश्यत्वं ५३ अपि चाम्बरवासा ३६ अपि तेन प्रतिभवन ४२ अपि देवा! गच्छत २४ अपि तपसे २२ अभजत ५८ अयि ललिता ४१ अर्चा २४ अव्यथितः ५३ अनुवते २० असुरैरुचक्रोऽधः ५७ त्रिपुरदहनम् श्लोकानुक्रमणी पुट श्लोकः असुरैरुद्धतराग ६१ अम्ति स ६ अहिता र ३ 116 81 99 90 । आज्ञामीशाननत: ३३ 19 इति कृतपूर्व्यापार ६८ 93 इति तालान्निध्याय २१ 88 । इति ते शैलादिव ८: १४ छ 105 इति बहुधा ४४ 39 । इति भासुरया १६ 22 । इति हरिनारद ४७ 80 इत्थं तान्ततमानां ६ 11 इत्थं वादे २५ 111 115 20 । इत्थममेय ९ 53 इत्थमसत्य ३७ 82 *8 इत्थं साधुतरा १० इत्थं सुरवाचार ५३ इत्यलघोरजवरत: ४६ इन्दुसमानन ६ 84 उडुघटयामा ७१ 73 उद्यति नादे २८ 34 । उल्बणनाना ३७ 102 ।कतरन्नामानन्त ! ५६ 64 का पुनरङ्गात्र २५ 43 कुलिशं ३ 76 कृतदानव ५५ 20 । केन्वेते ६७ 41 ऋतुरुपसन्नामा १० 63 । क्रियते यत्तावदथ २७ 43 क्षुधितेनापि ५४. पुटम् 45 7 54 107 49 63 95 77 96 79 55 10 2 92 118 57 74 37 [[91 51 105 30 86 66 4 119 49 58 67 41 श्लोकः क्षुभिताम्बुद्ध्यालोके ५१ चलति ३८ चूडाकेतक ४ जगतां पाता १२ जगतां मोदकर ! ३५ जगदहितोदग्राहक १९ जय जय भो ३८ जय वरदेशानन्त ! ३ जित्वा देवप्रभृति ३२ ज्वलदनलोपम ४३ तं स्थितमुपसाग १४ सत्र च सरसा ४१ यत्र च सादिव्यापत् ५६ तदनु कृताशा ४५ तहहनसमायां ९ तवचने ३० तन्मा गच्छत ४३ तल्लोकेश ! ४ तस्मान्मानसमूहे ३५ तस्य पुरवधाय २६ तस्यैवं धन्यस्व २१ तान्यपि वासव १७ ताश्र विमान ४८ ते द्रुतमक्ष ३८ तेनैव समस्तारि ४८ ७२ तैः कामो देवारि २९ सौ च सदानव १४ स्वतसुहृत् ४५ स्तरिपुं ५४ ब्रिजगत्समर ५८ स्वामवदातारम्भो ५७ पुटम् / श्लोक: 40 । दानं परमाहारं ४२ 110 । घुगगन ४६ १० धुसदामुदयान् ७३ द्विषतां तोदे १५ 94 108 । धृतभासुर २ 98 । धृतमशनाय १२ नगरीभव ८ 103 89 46 नारदनामा ४० 113 60 निघ्नन् सोऽमरविघ्नं ३७ निजया ९ निरतः परमो ७ निरतर्जगदे ३१ निश्शङ्क ३९ पटुमनसा ३५ पदमपि मदनादरतः ३२ पदयोरापाशु २३ परमं धाम ध्येय ११ परमं धामानन्तं २० 33 42 114 92 69 77 54 73 103 न पतति तं ३२ नाथ! बलादेवाय S पुरचये मुदं ७४ पृथगहितावध्यं ३२ 99 61 38 74 115 51 24 59 78 बबन्धुरेव ६१ 118 । बभ्रुकराळं १३ 87 87 पेतुः साध्यवसाया: ५० प्राप्तेनासुर २३ प्रार्थो हि ८ प्रेक्ष्य पुरस्ता ४७ प्लुष्ट्वा पूर्वसुरसदः ५७ फलमपि न २८ बुद्धिरजाबाघातः ५४ मनसः सद्योगेहात् ४३ पुटम् 76 114 52 96 89 12 91 71 9 I 75 :09 10 56 25 75 28 107 19 12 98 52 26 39 64 56 37 120 68 122 59 85 35 श्लोकः मनसा सुरसमुदाय २३ मम पुनरपरा ३१ मुक्त्वा शम्भावयति ३१ मुक्त्वा हा १६ यं वा काळी १७ यै विविध १२ यत्र च लोलं ३९ यत्र न मन्दा ४० यत्र सदानव ३६ यत्र हि सयोग ११ यत्समवेता १८ यदि वो माने ३३ यदि वायत्यन्तं २४ ययुधि नाना ३८ यद्वपुरोङ्कारो हि ५९ यद्वयमतसीदाम ५ यस्य च विलसन्नेत्र २३ यस्य च वेकुण्ठेषु १६ यस्य मरुद्वाज ४२ यस्य विलोकन १४ या वागेकर्तारं ३४ या इतसुर ४१ युगमवजानानं ४६ येऽखिलयोनिं ५२ येन च कालो २ येन रिपूष्णोदन्त २० येम सशङ्कालस्य: १९ योऽवति गामपि १५ योगो भावी ३९ यो ज्यायानेषु ४४ यो भासा ५ यो भुवने ७. पुटम् श्लोकः 100 70 लक्ष्मीवांस ६४ 106 वपुरति १ 60 वरमादाय ३४ विकसित २ 16 58 विपिनं ६० 32 32 29 58 16 72 65 31 121 15 112 14 72 112 रणभूमिषु चापादि ५२ 55. शूराः २७ 18 79 83 37 15 JIO विप्रततावध्याय १९ विरहिभिराशा ६५ वृत्तौ राजस्यां २८ वेदांश्च के १७ व्रतममलं १३ शक्तिरकम्प्रा १८ शत्रुषु दाहं ४९ शिखिनिकरोपम! ५१ 35 6 50 शुभकर्मा ना ५० श्राव्या २६, श्वान: ५५ सच हन्तेह ३३ सज्ञानी १८ सत्फलकैरासि ५२ 4 18 स हि तपनानल ५८ सा जनता ६● साधूनां ७ सावयवत्वादेव ५५ सुचिरमिहासा ४४ सोऽपि बली ३६ स्त्रीघटयामा ६९ सत्वरगत्या २५ सत्सु शरास १३ समजनि २७ स विधातेत्यर्थनतः ३० १२७ पुटम् 117 47 I 28 53 122 62 48 23 96 14 61 116 117 81 22 67 41 27 97 40 21 95 104 25 121 45 85 113 109 50 १२८ श्लोकः स्त्री चतुरा ६६ स्याद्यदि २९ स्व करेऽमोशन ३० पुटम् श्लोक: 49 स्वगुणमपार ६३ 5 स्वपद ८ 68 स्वबर्श ४५ 106 हरिरपि ५९ DONATED TO TTD CENTRAL LIBRARY पुडम् 47 9 36 44