॥ श्रीः ॥ सहृदयासंस्कृतग्रन्थावलिः -- ३. ॥ तिलकमञ्जरीसंग्रहः ॥ अभिनवभट्टबाणादिबिरुदभाजा वासवदत्ताप्रभृतीनामनेकेषां प्रबन्धानां व्याख्यात्रा सहृदयासहकारिसंपादकेन वात्स्यचक्रवर्तिना श्रीकृष्णसूरिणा संकलितः । श्रीरङ्गस्थ श्रीवाणीविलासमुद्रायन्त्रालये संमुद्रितः । १९०९ ॥ श्रीः ॥ ॥ विज्ञापना ॥ आर्याः, विदितमेवेदं भवतां महिम्नः, यदुत बाणभट्टगद्यकाव्योपजीविनां गद्यसंदर्भाणामयमप्यन्यतमो धनपालकविविरचितस्तिलकमञ्जरीप्रबन्ध इति । अयं च ग्रन्थो निर्णयसागरमुद्रालयान्मुद्रापयित्वा यद्यपि बहिरवतारितः, तथापि तत्र दुःसहानामशुद्धीनामापतनान्न तावते फलाय कल्पते, यावते भाव्यमेनेन । तत्र च वितुषीकरणाय प्रवृत्तो न कश्चिदपि संपूर्णं साफल्यं विन्देतेति दर्शनमात्र एव सचेतसां प्रतिभास्यति । अहं च समधिकं परिश्रमं स्वीकृत्य यावन्मति अशुद्धीः परिहृत्य प्रायेण तादृशानि स्थलानि अत्र घटयित्वा तिलकमञ्जरीसंग्रहनामकमेतं सन्दर्भं सह टिप्पण्या सहृदयाद्वारा बहिरवातारयम् । अस्य चायं प्रथमो भागः । क्रमेण च भविष्यन्ति भागान्तराणि । यथामतिवैभवं सर्वतः समालोच्य प्रकटितेऽत्र प्रबन्धे पाठतो व्याख्यानतश्च वैलक्षण्यं गद्यकाव्यपरिशीलिनः स्वयमेव ज्ञास्यन्ति भावुका इत्यलमधिकावेदनेन । श्रीरङ्गनगरम् । २६ - १ - ९०९. इति विदुषामनुचरः रा. चक्रवर्ति-कृष्णमाचार्यः । ॥ श्रीः ॥ ॥ तिलकमञ्जरीसंग्रहः ॥ प्राज्यप्रभाषः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मा न आद्योऽन्येऽपि मुदं जिनाः ॥ १ ॥ वन्द्यास्ते कवयः काव्यपरमार्थविशारदाः । विचारयन्ति ये दोषान्गुणांश्च गतमत्सराः ॥ २ ॥ शे षे से वा विशेषं ये न जानन्ति द्विजिह्वतः । यान्तो हीनकुलाः किं ते न लज्जन्ते मनीषिणाम् ॥ ३ ॥ [commentary] प्राज्येति । ददतामित्येतत् 'दद दाने' इति भौवादिकाल्लोटि एकवचने, 'डुदाञ् दाने' इति जौहोत्यादिकाल्लोटि बहुवचने च निष्पद्यते । कमेण तस्यान्वयः । आद्यजिनपक्षे, निर्वृतात्मा, नः, इति च्छेदः । प्रभवः उत्पत्तिस्थानम् । निर्वृतात्मा सानन्दमनाः मुक्तात्मा वा । पक्षान्तरे, प्राज्यप्रभाः, वः, इति च्छेदः । प्रभुशव्दस्य बहुवचने प्रभव इति, अस्तरजःशब्दात्तमपि ततो बहुवचने अस्तरजस्तमा इति च भवति । शेष इति । हीनकुलाः ये । शे शकारे । षे षकारे । से वा सकारे वा । विशेष परस्परभेदम् । न जानन्ति, अश्वे अस्वं दोषे दोशं च प्रयुञ्जत इत्यर्थः, अनभिज्ञमूर्धन्या इति यावत् । द्वयोः जिह्वयोः समाहारः द्विजिह्वं तेन तस्माद्वा द्विजिह्वतः, पैशुनवृत्त्येत्यर्थः । 'आबन्तो वा' इत्युक्त्या क्लीबत्वम् । यान्तः सर्वत्र गच्छन्तः व्यवहरन्तः इत्यर्थः । ते मनीषिणां मनीषिणः प्रति । संबन्ध- अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना श्रीमुञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः ॥ ९ ॥ अस्ति रम्यतानिरस्तसकलसुरलोका, मध्यभागमलंकृत्य स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलङ्घेन महता खातवलयेन वेष्टिता, पवनपटुचलितधवलध्वजकलापैश्चतुर्भिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराग्रज्वलत्कनककलशैरमरमन्दिरमण्डलैरुद्भासितचत्वरा, प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिरारामैः श्यामायमानपरिसरा, स्फुटविभाव्यमानमरकतेन्द्रनीलवज्रवैडूर्यराशिभिः पृथुलायतैर्विपणिपथैः प्रसाधिता, धृतोद्धुरप्राकारपरिवेषैर्दोलाविभूषिताङ्गणवेदिभिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया, कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरय्वाख्यया कृतपर्यन्तसख्या, सततगृहव्यापारनिषण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणीभिरनुल्बणोज्ज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिरलसाभिर्नितम्बभरवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिभ्रुवोः कलहेऽप्यनिष्ठुरभाषिणीभिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपताकायमानाभिः पादशोभयापि न्यक्कृतपद्माभिरुरुश्रियापि लघूकृ [commentary] अस्तीति । वप्रः प्राकारपीठभूमिः । खातं परिखा । कलापः समूहः, भूषणं वा । चत्वरं चतुष्पथम् । भूमिकाः कक्ष्याः । अनुल्बणं अनुद्धतम् तुच्छाः कृशाः । पादशोभा चरणकान्तिः, शोभायाश्चतुर्थांशश्च । पद्मं तामरसम्, पद्मा लक्ष्मीश्च । तरम्भास्तम्भाभिर्लक्ष्मीमनोवृत्तिभिरिव पुरुषोत्तमगुणहार्याभिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः कुलक्रमागतवैशिककलाकलापवैचक्षण्याभिर्विलासिनीभिर्वितीर्णत्रिभुवनजिगीषुकुसुमसायक- साहायका, ज्ञातनिःशेषपुराणेतिहाससारैः दृष्टसकलकाव्यनाटकप्रबन्धैः परिचितनिखिलाख्यायिकाख्यानव्याख्यानैः सर्वभाषाविचक्षणैः सात्त्विकैरपि राजसभावाप्तख्यातिभिः पूर्वाभिभाषिभिर्गुणग्राहिभिः संतुष्टैः संविभागपरैः परोपकारिभिर्निवासिलोकैः संकुला, सकृतयुगेव सत्पुरुषव्यवहारैः, सब्रह्मलोकेव द्विजसमाजैः, जपानुरागिभिरुपवनैरिव श्रोत्रियजनैः सच्छाया, सर्वाश्चर्यनिधानम्, उत्तरकोसलेषु अयोध्येति यथार्थाभिधाना नगरी ॥ यस्यां च वीथीगृहाणां राजपथातिक्रमः, कुमुदखण्डानां राज्ञा सर्वस्वापहरणम्, सूर्योपलानां मित्रोदयेन ज्वलनम् ॥ तस्यां च भुवनत्रयाश्चर्यभूतायां नगर्याम्, अवार्यभुजबलः, समस्तैकविष्टपाधिपतया तुल्यरेखया वासुकिवासवयोरवस्थितः, व्य [commentary] रम्भास्तम्भः कदलीकाण्डः, तथा रम्भायाः तन्नाम्नोऽप्सरोविशेषस्य स्तम्भः सौन्दर्यहर्षप्रयुक्तं जाड्यं गर्व इति यावत् । राजसभावः रजोगुणविशिष्टत्वम्, पक्षे राजसभा राज्ञां सभा च जपानुरागिभिः मन्त्रजपेष्वासक्तैः, जपाकुसुमैररुणवर्णैश्च । छाया कान्तिः, अनातपश्च । यस्यामिति । राजपथः राजवीथी, राजाज्ञा च । राज्ञा चन्द्रेण, नृपेण च । सर्वस्वापहरणं सर्वेषां स्वानां धनानां अपहरणम्, सर्वस्य स्वापस्य निद्रायाः मुकुलीभावस्येत्यर्थः अपहरणं विकासनमिति यावत् । मित्रः सूर्यः, मित्रं सुहृत् । तस्यामिति । विष्टप लोकः । तुल्यरेखया समानत्वेन । यथा वासुकिर्वासवश्च समस्तस्यापि पातालस्य स्वर्गस्य चैकस्य लोकस्याधिपः, तथा अयमपि सम- वस्थापितवर्णाश्रमधर्मः, प्रतिपक्षाणामान्तराणामनन्तराणां च विनेता, प्राप्तदैवपुरुषकारानुगुण्यः, षाड्गुण्यप्रयोगचतुरः, चतसृष्वपि विद्यासु लब्धप्रकर्षः, सर्वलोकानां विशेषज्ञोऽपि समदर्शनः, विशालहृदयासादितस्वेच्छावकाशयेवातिदूरप्रसृतया प्रज्ञया सम्यग्ज्ञातहेयोपादेयविभागः, गगनाभोग इव शशिभास्कराभ्याम् अच्युत इव शङ्खचक्राभ्याम् अम्भसां पतिरिवामृतबाडबाभ्याम् अभिरामभीषणो यशःप्रतापाभ्याम्, इन्दुविमलाभिर्व्याप्तभुवनान्तरालो गुणपरम्पराभिः, उच्चापशब्दः शत्रुसंहारे न वस्तुविचारे, अकृतकारुण्यः करचरणे न शरणे, शत्रुघ्नोऽपि विश्रुतकीर्तिः, अशेषशक्त्युपेतोऽपि सकलभूभारधारणक्षमः, सर्वसागरैरिवोत्पादितगाम्भीर्यः, सर्वमुनिभिरिव निर्मितोपशमः, पृथ्वीमय इव स्थैर्ये, तिग्मांशुमय इव तेजसि, सरस्वतीमय इव वचसि, सुधामय इव माधुर्ये, तपोमय इवासाध्यसाधनेषु, अनर्तितो लक्ष्मीमदविकारैः, अनाकृष्टो विषयग्राहैः सार्वभौमो राजा मेघवाहनो नाम ॥ यश्च संगरश्रद्धालुः अहितानामुन्नत्या तुतोष, न प्रणत्या ; दानव्यसनी जनानामर्थितयाप्रीयत, न कृतार्थतया ; कुशाग्रीयबुद्धिः कार्याणां वैषम्येण जहर्ष, न समतया ; विनयचिकीषया [commentary] स्तस्य भूलोकस्यैकस्याधिपतिरिति त्रयोऽप्यनेन प्रकारेण समाना इति भावः । अनन्तराः स्वदेशप्रत्यासन्नाः, सामन्ता इत्यर्थः । उच्चापशब्दः उद्गतचापध्वनिः, उच्चाः अधिकाः अपशब्दाः अपभ्रंशाः यस्य स च । अकृतकारुण्यः अकृतकं स्वाभाविकं आरुण्यं यस्य सः, अकृतं कारुण्यं दया येन स च । विश्रुतकीर्तिः श्रुतकीर्तिरहितः, श्रुतकीर्तिरिति रामसोदरस्य शत्रुघ्नस्य पत्नी । विश्रुता प्रसिद्धा कीर्तिर्यस्य स च । अशेषा समस्ता । शेषः सर्पराजः । विनयचिकीषा विनयसंपिपादयिषा । चिनोतेः सनि 'विभाषा चेः' इति कुत्वम् । शितमतिर्गुरूणां कोपेन मुमुदे, न प्रसादेन ; सकलाधर्मनिर्मूलनाभिलाषी कलेरवतारस्योदकण्ठत ; न कृतयुगस्य ॥ यस्य च प्रताप एव वसुधामसाधयत्, परिकर एव सैन्यनायकाः ; आकारं एव प्रभुतां शशंस, परिच्छदश्छत्रचामरग्राहाः ; धार्मिकतैव दुरितानि प्रतिचकार, प्रपञ्चः पुरोधसः ; प्रज्ञैव मन्त्रान्निश्चिकाय, शोभा मन्त्रिणः ; त्याग एव दिक्षु कीर्तिमगमयत्, विभवो वन्दिपुत्राः ॥ यस्मिंश्च राजन्यनुवर्तितशास्त्रमार्गे प्रशासति वसुमतीम्, इक्षूणां पीडनम्, पदानां विग्रहः, कुकविकाव्येषु यतिभ्रंशदर्शनम्, वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव ॥ यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्ध्रुवः । बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥ दृष्ट्वा वैरस्य वैरस्यमुज्झितास्त्रो रिपुव्रजः । यस्मिन्विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनाभिभाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम्, [commentary] यस्मिन्निति । विग्रहः विग्रहवाक्यम्, कलहश्च । यतिभ्रंशः संन्यासिनः स्वधर्माच्च्युतिः, यतेः छन्दःशास्त्रोक्तस्य नियतस्थानविरामस्य भ्रंशश्च । द्रव्यं धनम्, पृथिव्यादि च । गुणाः सौशील्यादिगुणाः, पारिभाषिका रूपरसादयश्च । यस्येति । हेतिहेतुशब्दयोः सप्तम्यां 'हेतौ' इति रूपम् । दोष्णि बौद्धतर्के इव स्फुरद्धेतावित्यन्वयः । प्रतीये ज्ञातः । निरन्वयः निर्वंशः, पक्षे निःसंबन्धः निःशेष इति यावत् । दृष्ट्वेति । विश्वस्य विश्वासं कृत्वा । विश्वस्य समस्तस्य । समारोपितस्वनामवर्णश्रेणीकानारोप्य दिशामष्टानामपि पर्यन्तेषु जयस्तम्भान्, उपार्जितप्रभूतकोशं वशीकृतसमस्तसामन्तं समग्रमपि राज्यम् आजन्मनः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्वमनीयस्य प्रज्ञावतां धौरेयस्य विदितनिःशेषनीतिशास्त्रसंहतेरमात्यवर्गस्यायत्तमकरोत् । आत्मनापि निःशेषितारिवंशतया विगतशङ्कः, स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, नवयौवनेनोपदर्शितेष्विन्द्रियग्रामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास । तदा च यदुचितं यौवनस्य, रुचितं चित्तवृत्तेः, अबाधकं लोकद्वयस्य -- अविकलतया विवेकस्य, स्थिरतया कुलाभिमानस्य, स्वभ्यस्ततया विनयस्य, यथा न धर्मः सीदति, यथा नार्थः क्षयं व्रजति, यथा न राजलक्ष्मीरुन्मनायते, यथा न कीतिर्मन्दायते, यथा न प्रतापो निर्वाति, यथा न गुणाः श्यामायन्ते, यथा न श्रुतमुपहस्यते, यथा न परिजनो विरज्यते, यथा न मित्रवर्गो ग्लायति, यथा न शत्रवस्तरलायन्ते तथा -- तदपरमपि सर्वमन्वतिष्ठत ॥ सेवकानुरागस्य संरक्षणाय च वितर्णसर्वावसरमन्तरान्तरा सभामण्डपमध्यास्त । धर्मपक्षपातितया च देवद्विजातितपस्विजनकार्येषु महत्सु कार्यासनं भेजे । पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवां निर्गत्य नगरीमपश्यत् । निसर्गत एवास्य पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातस्य परवशा वृत्तिरासीत् । यतः -- स तथा प्रसक्तोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरूकताममात्यानाम्, तासां प्रजानां सुस्थासुस्थोपलम्भाय केनाप्यनुपलक्ष्यमाणविग्रहः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं नगर्यां बभ्राम । किंवदन्तीशुश्रूषया च संनिविष्टा विशिष्टजनगोष्ठीर्जगाहे । राजव्यापारकथाप्रक्रमे च पौराणामाशयपरीक्षार्थमवनीपतेरमात्यस्य तदधिकृतानां च यथासंभवं परिकल्प्य दोषानुदकीर्तयत् । तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामिसचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामर्षैरप्रत्यभिज्ञानदोषेण परुषाक्षरमधिक्षिष्यमाणः परां मुदमुवाह ॥ सचिवलोकोऽपि, श्रुतत्वाद्धर्मशास्त्राणाम् अकर्कशत्वादाशयस्य, परिज्ञातत्वाच्च प्रभुचित्तवृत्तेः, परिहरन्प्रजाखेदम्, अखिलान्यपि राजकार्याणि चक्रे ॥ एवं च राज्ञः परित्यक्तसकलभुवनचिन्ताभारस्य अनन्तभोगलालितमूर्तेरतर्कित एव भूयान् जगाम कालः । भूयसा च कालेन, यत्किल लोके प्रसिद्धं महीभुजामपि योग्यम्, अखिलमपि तत्प्रायेण जीवलोकसुखमनुबभूव । केवलमात्मजाङ्गपरिष्वङ्गनिर्वृतिं नाध्यगच्छत् । समग्राण्यपि कारणानि न प्राग्जन्मजनितकर्मोदयक्षणनिरपेक्षाणि फलमुपजनयन्ति । यतोऽस्य नूतनेऽपि वयसि, महत्यप्यन्तःपुरे, बहुनापि कालेन नैकोऽप्युदपादि तनयः ॥ क्रमादतिक्रामति च यौवने, जरठतालिह्यमानवपुषस्तरोरिव त्रुटति कुसुमेषुरसे, पल्लवस्येवाविर्भवति वैराग्ये, अपत्यमुखदर्शनं प्रति निराशस्य, 'राजन्, अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि [commentary] एवं चेति । कर्मोदयः कर्मफलं कर्मपरिपाको वा । उदपादि उत्पन्नः । 'चिण् ते पदः' इति कर्तरि लुङि चिण् । क्रमादिति । कुसुमेषुः मन्मथः । पक्षे कुसुमेष्विति भिन्नं पदम् । जरठतेति विशेषणं पल्लवेऽप्यन्वेति । वैराग्यं वितृष्णता रक्तिमाभावश्च नः ; पितॄणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासनतया संनिहितैर्देवर्षिभिः, 'वत्स, निवापदानैरिदानीमायुष्मता संभाविताः स्मः प्रभूतं कालम् ; अग्रतस्तु का गतिरस्माकम्' इति मुहुर्मुहुरुच्यमानस्येव स्वप्नेषु पितृभिः, 'नाथ, कस्यचित्काचिदस्ति गतिः, अहमेव निर्गतिका ; कुरु तत् सांप्रतं यदुचितम्' इति सखेदया संतानार्थमभ्यर्थितस्येव भुजलग्नया भुवा, 'देव, त्वद्वंश्येन गोप्त्रा विना कालान्तरे बलवदरातिहठावलुप्यमानाभिः शरणाय कः समाश्रयणीयोऽस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः प्रजाभिः, 'विद्वन्, किमपरैस्त्रातैः ; आत्मानं त्रायस्व पुंनाम्नो नरकात्' इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्मदाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्तासंज्वरः । येन ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या नारमत । दृष्टवंशवृद्धिषु न नाम स्वबान्धवेषु, धर्मारण्येष्वपि दृष्टिं ददौ । अपत्यपरिवारनिर्वृतेभ्यो न परं पौरेभ्यः, पशुभ्योऽपि स्पृहयांचकार ॥ तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेव द्वितीया, नाभिचक्रादपि गम्भीरेण कुचमण्डलादप्युन्नतेन जघनस्थलादपि विशालेन भुजलतायुगलादपि सरलेन कपोललावण्यादपि स्वच्छेन महतामाहितप्रमोदा मानसेन, निधानेन गुणानां प्रधानेन सर्वालंकाराणाम् अतिदुरापेण इतरप्रमदाभिः सर्वदा हृदिस्थेन हारेणेवापरेण परं शुद्धिशालिना शीलेन अलंकृता, भाग्यसंपत्तिरिव सौभाग्यस्य, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धि [commentary] उत्प्रासः सावज्ञहसनम् । शासितपदं प्रकृते कथंचित्समर्थनीयम् । मुर्मुरः तुषानलः । वंशः कुलम्, वेणुश्च । रिव संकल्पयोनेः, शरत्कालागतिः केलिकलहंसीनाम्, समस्तान्तःपुरशिरोरत्नभूता मदिरावती नाम देव्यभवत् ॥ यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसंभावना पावनतया न परभागं प्राप गङ्गा ; प्रीतिप्रतिपक्षभूता सकललोकगणदर्शनीयायास्तृणं गणनायां रतिः ; अधिकमलमात्मानं धारयन्ती शुचितया न काचित्सरस्वती ; मकरध्वजविनाशहेतुः सौभाग्यभङ्गिविचारे रेणुः अचलकन्या; धनविसरकृतार्थीकृतप्रणयिसार्थाया गत्यभावेन गृहीतरत्नाकरवेला कलयापि न समाना मेदिनी; पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशि तमसि पट्टमधिशयाना न लेशेनापि सदृशविभवा बभूव राजलक्ष्मीः ॥ या च परां कोटिमारूढा स्वामिभावस्य सर्वदा सत्त्वे स्थिता, असत्यनिर्मुक्ता स्वप्नेऽप्यजातस्वैरिणीसङ्गा, निरपत्या सततमुत्सङ्गेन लालिता पत्या ॥ [commentary] यस्याश्चेति । सुरापगा देवानां नदी, सुराप मद्यपायिन गच्छति या सा च । संभावना प्रवादः । परभागः उत्कर्षः । भूत प्रमथगणः, प्राणिजात च । शिवस्य विरोधित्वेन तदीयानामपि विरोधिता । तृणमपि हि प्रेमास्पदत्वाभावेन प्रीतिप्रतिपक्षभूतम् । गणः समूहः, प्रमथगणश्च । 'तृणगणनायाम्' इति पाठोऽपि नासमीचीनः । अधिकमलं नितरां मलविशिष्टम् । पक्षे, पद्म इत्यर्थः । विभक्त्यर्थे अव्ययीभावः । न काचित्, सरस्वती शुचित्वविषये गणनीयैव न भवतीत्यर्थः । मकरध्वजः मन्मथः, समुद्रश्च । समुद्रं स्थलीकर्तुं रेणुभिः किल भाव्यमिति श्लेषेण एवमुक्तिः । 'संप्राप्तं मकरध्वजेन मथनम्' इति रत्नावली । गतिः गमनम्, उपायश्च । रत्नाकरवेला समुद्रकूलम् कस्यचित् धनिकस्य समयश्च । कलयापि लेशेनापि । पट्ट फलकं चतुष्पथं वा । पक्षे, निशितं असिपट्टमिति च्छेदः । या चेति । स्वामिभावः प्रभुता, पत्युरनुरागश्च । सर्वदासत्वं सर्वेषामपि भृत्यता विरोधपक्षे एवम् । परिहारे तु सर्वदा सत्त्वं इति च्छेदः । सर्वदा एकदा च राजा, याममात्रे वासरे, समुच्छ्रितानेकभूमिकस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्टः समीपदेशोपविष्टया सह तया प्रस्तुतालापः, सहसैवान्तरिक्षेण दक्षिणापथादापतन्तम्, उद्योतितसमस्तान्तरिक्षमार्गम्, प्रचण्डपवनेरितरेणुपटलमिव सुवर्णद्वीपस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुच्चलितमन्तरात्मानमिव रोहणाचलस्य, तप्ततपनीयपिङ्गलेन समन्ततः प्रसर्पता देहप्रभाप्रवाहेण संतर्पयन्तमिव क्षीणातपं दिवसम्, त्रयीमिव महामुनिसहस्रोपामितचरणां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाणब्रह्मसूत्राम् अचिरपरिणतामङ्गलक्ष्मीं दधानम्, अञ्जनत्विषा निजशरीरच्छायापुरुषेण दक्षिणोत्तरभागवर्तिना सदृशवेषाकारधारिणानुगम्यमानम्, अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्घकुसुमस्रग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुनेव स्वभावमृदुना चरणद्वयेन द्योतमानम्, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम्, क्षेत्रगणितमिव लम्बभुजकर्णोद्भासितम्, अम्बिकायौवनोदयमिव वशीकृतविषमाक्षचित्तम्, निष्परिग्रहमपि सकलत्रम्, भूतापद्रुहकमम्बुधरागमं साधुमयूरा [commentary] सर्वस्मिन् काले, सकलप्रदा वा । असत्यनिर्मुक्ता असतीभिः स्वैरिणीभिः अनिर्मुक्ता, असत्येन मिथ्यावादेन निर्मुक्ता च । लालितापत्या इति विरोधपक्षे एकपदम् । परिहारे तु लालिता पत्या इति पदद्वयम् । पत्या भर्त्रा उत्सङ्गेन लालितेत्यर्थः । एकदेति । चरणः पादः, वेदशाखा च । ब्रह्मसूत्रं यज्ञोपवीतम्, विधातुर्व्यवस्था च । अधःप्रवर्तितपुण्यरज्जुनेति बहुव्रीहिः । अर्घकुसुमस्रक्षु तादृशपुण्यरज्जुत्वोत्प्रेक्षा । 'जटा लग्नकचे मूले' । लम्बभुजकर्णाः पारिभाषिका रेखाविशेषाः । प्रकृते तु स्पष्टोऽर्थः । सकलत्रः कलत्रेण भार्यया सहितः, सकलान् णाम्, दुर्विषहतेजसं महामन्त्रमनङ्गविकाराशीविषाणाम्, आचारमिव चारित्रस्य, प्रज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, तैजसं मूर्त्या, पावनं चरितैः, आप्यं पुण्यैः, पार्थिवमतीतकालावस्थया, विद्याधरमुनिमपश्यत् ॥ दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपरतनिमेषतया दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तावाविर्भूतदिव्यभाव इव मुहूर्तमराजत । अभिमुखीभूतं च तं प्रासादस्य, सुदूरविकासितमुखः समं मदिरावत्या प्रत्युज्जगाम ॥ धार्मिकजनानुवृत्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । यतः -- स तं तथाकृताभ्युत्थानम् आदरातिशयपुनरुक्तस्वागतम् उपारूढप्रौढपुलकप्रकटितान्तःप्रीतिम् उत्पक्ष्मलोचनयुगललक्ष्यीकृतमुखम् अग्रतः सपरिग्रहमवलोक्य, समुपजातपक्षपातो विसृज्य मुनिभावस्य सहभाविनीं निरपेक्षताम्, अपेक्षितनिजप्रयोजनो जन इवेतरस्तरसा अभिमुख्यभवत् ; अवातरच्चाम्बरतलात् ॥ उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयम्, अवनीपतिः प्रगुणीकृतार्घपात्रो विधाय विधिसंपादितया सपर्यया सानन्दम्, आनन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुराज्ञ्या दूर [commentary] त्रायते रक्षति यः स च । भूतापद्रुहकः भूतानां प्राणिनां अपद्रुहकः द्रोहकर्ता न, पक्षे भूतापं दोग्ध्रि यः सः । तेजः कान्तिः, मन्त्रशक्तिश्च । पावनः पवित्रः, पवनसबन्धो च । आप्यः प्राप्यः, जलमयश्च । अपां विकार इत्यर्थे आणि ततः स्वार्थे ष्यञ् । पार्थिवः राजा, पृथिवीविकारश्च । दर्शितादरया मदिरावत्या निजोत्तरीयपल्लवेन प्रमृष्टरजसि हेमविष्टरे न्यवेशयत् ॥ कृतगृहागतमहर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधिदैवतमिवोपास्य, सुचिरमास्यनिहितनिश्चलचक्षुरवनीतलोपविष्टः सप्रश्रयमुवाच -- 'भगवन्, एष तावदभ्रंकषाग्रशिखरस्तुषारगिरिरिव गङ्गास्रोतसा गगनमण्डलादवतीर्य मुनिगणमाननीयेन गुरुतां परामारोपितः प्रासादस्त्वया ; तदनु सर्वतः कृतावलोकनेन स्वच्छशिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातैर्दूरीकृतो दुरितराशिरम्य समग्रस्यापि नगरीनिवासिनो मत्परिग्रहस्य । प्रणामसमये च मूर्धानमधिरोपितेन प्रकृतिपूतेन निजपादपांसुना संपादितमखिलतीर्थस्नानफलम् । एवं च सामान्येन सर्वतः समुपजातमप्यसंजाततृप्तिरधिकतरकल्याणसंपल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो विशेषेणानुग्रहम् । इदं राज्यम्, एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम्, एतद्गृहम्, गृह्यतां स्वार्थसिद्धये परार्थसंपादनाय वा; यदत्रोपयोगार्हम् ।' इति व्याहरन्तं च तं समुपजातहर्षो महर्षिरुवाच -- 'महाभाग, सर्वमनुरूपमस्य ते महिमातिशयतृणीकृतवारिराशेराशयस्य । केवलमभूमिर्मुनिजनो विभवानाम् । विषयोपभोगगृध्रवो हि धनान्युपाददते । मद्विधास्तु संन्यस्तसर्वारम्भाः समस्तसङ्गविरता निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसंतोषाः किं तैः करिष्यन्ति । ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृत्तये गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन चेतसाभिवाञ्छति ; ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहेतुमर्थं गृह्णन्ति । परार्थसंपादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम् ; नान्यथा । तदलमत्र निर्बन्धेन । कथय तावत्केयमुपहसितसुरलोकरामणीयका नगरी। कश्चास्यां महाभागस्त्वम् । कतमं च महापुरुषवंशमात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि । का चेयं पुण्यभागिनी सिंहलद्वीपभूमिरिव रत्ननिवहस्य पात्रमकृत्रिमस्य विनयादिगुणगणस्य, पार्श्ववर्तिनी भवतः । किं चाभिधानमस्याः । किंनिमित्तं च कोटरोदरनिमग्नदावाग्निमुर्मुर इव महाद्रुमः, सान्तस्ताप इव लक्ष्यते भवान् । इयमपि च कल्याणी किमिति म्लानदेहा पाणितलसंक्रान्तकज्जलकलङ्कपिशुनिताश्रुप्रमार्जना सद्योविरतेव रोदनाद्विज्ञायते । कञ्चिन्न संपन्नः प्रयत्नसंरक्षितस्यार्थस्य कस्यचिदतर्कितो विनाशः । कश्चिन्न जातः केनापि प्रेमैकनिबन्धनेन बन्धुना सह प्रवासादिकारणसुलभो विप्रलम्भः । कश्चिन्न संभाविता दुर्लभता चिरं हृदि स्थापितस्य कस्यचिन्मनोरथस्य । कथय यदि नातिरहस्यं श्रवणार्हं वास्मद्विधानाम् ॥' इति कुतूहलाकृष्टेन पृष्टो महर्षिणा क्षोणीपतिरवोचत् -- "भगवन्, सकलदुःखितप्राणिवत्सलानां परमवाङ्मनःकायसंयमवतां सर्वदा परोपकारप्रवणवृत्तीनां भवादृशामपि किमु रहस्यमश्रावणार्हमस्ति । एष विज्ञापयामि -- असावस्य सकलस्यापि भारतवर्षस्य चूडालंकारभूता अयोध्याभिधाना पुरी । अहमपीक्ष्वाकुकुलसंभवो भोक्तास्य कियतोऽपि भारतक्षेत्रस्य मेदिनीपतिर्मेघवाहनाख्यः । इयमप्युपजातजन्मा महति मूर्धाभिषिक्तक्षत्रियान्ववाये सर्वान्तःपुरप्रधानभूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनया अस्माकमविकला त्रिवर्गसंपत्तिः, अनुद्वेजको राज्यचिन्ताभारः, सफलं यौवनम्, रमणीयो जीवलोकः, माननीया मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थितिः । अस्वस्थताकारणं च आवयोर्नाल्पमध्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् । तत्तु दैवादतिशयेनासह्यतां गतम् । तथा हि -- अशक्यप्रतीकारेण प्रतिक्षणमनेन जनिततीव्रहृदयव्यथावेगयोः शतयामा इव प्रयान्ति नौ विभावर्यः । एवं च यत्समादिष्टं तदुदितम् । रुदितनिमित्तमप्यमुष्याः कथयामि -- अद्य क्षपाचरमयामे क्षणमात्रलब्धक्षीणनिद्रोऽहमासादितावसरेण यामाङ्गरक्षेणेव समुपेत्य सत्वरमपत्यचिन्तासंज्वरेण विहितसांनिध्यः, बौद्ध इव सर्वतः शून्यदर्शी, संतानसिद्ध्यर्थमात्मनस्तांस्तानुपायानितस्ततोऽन्वेषयन्, उषःकालकृत्यावेदनाय प्रविष्टेन वन्दिना मसृणमुपगीयमानमिदमपरवक्त्रमशृणवम् - 'विपदिव विरता विभावरी नृप निरपायमुपास्स्व देवताः । उदयति भुवनोदयाय ते कुलमिव मण्डलमुष्णदीधितेः ॥' श्रुत्वा चोपजातहर्षश्चिन्तितवान् -- 'अहो महात्मनानेन मागधपुत्रेण यदृच्छयापि गायता इदमपरवक्त्रम् आवेदितः करणीयमूढस्य मे कार्यसिद्ध्युपायः । तदिदमेवाङ्गीकरोमि सारस्वतमस्योपदेशवचनम् ; आराधयामि गत्वा अरण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम्' इत्युत्थाय च यथाक्रियमाणं पौर्वाह्णिकानुष्ठानमनुष्ठाय, अधिरुह्यान्तःपुरप्रासादमिमम्, अस्याश्चित्रशालिकायाः प्राङ्गणवितर्दिकोपविष्टां समाश्लिष्य देवीमिमां सदुःखमवदम् -- 'देवि, त्वदपत्यसंततिनिमित्तमितो मया गत्वा अरण्यम्, आ वरप्रदानाद्देवताराधनं कर्तुमध्यवसितम् । यावच्च सिद्धप्रयोज- नोऽहमागच्छामि, तावत्त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्' इति ॥ निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकम्, अकस्मादेव मूर्च्छितेयम् । उच्छिन्नसंज्ञा च तिर्यक्पतन्ती सत्वरेणोपसृत्य धारिता परिजनेन । स्थित्वा च क्षणं समाश्वस्ता । निःश्वस्य चातिदीर्घम्, इदम् अपारदुःखभारभिद्यमानगलसरण्या गदितम् अनया स्वरेण गद्गदेन स्वैरम् -- 'आर्यपुत्र, संतानकार्यसिद्धये तव प्रस्थितस्य नाहं परिपन्थिनी । कि पुनरिदं विज्ञापयामि -- यथा तव, तथा ममाप्याराधनीया देवता । एवं च कस्मात्परित्यज्य मामेक एव व्रजसि वनम् । अथ मन्यसे मदीयाराधनेनैव सिद्धं तवाराधनमिति, कस्यात्र संदेहः । कि त्विदानीं त्वमुज्झितापरान्तःपुरिकासमीहितो मत्कृते, व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि । न च त्वया विरहिता मुहूर्तमपि स्थातुं शक्नोमि । तदवश्यं मयापि गन्तव्यमरण्यम् । अवमन्य चेद्गच्छसि माम्, गम्छ । सिध्यतु तवाभीष्टम् । दृष्टस्त्वमधुनैव ।' इत्यभिधाना ललाटविलुलितविशृङ्खलालकपद्धतिरधोमुखीभूता । भूयोऽप्यनुबध्यमानया च निषिध्यमानया च निःशब्दं रुदितमनया, न पुनः किंचिदुदितम् । तदियमस्थान एवात्मानुगमनेन कुर्वती मे गमनभङ्गं भगवतोऽपि युज्यते वक्तुं यथायुक्तम् ॥" इत्युक्तवति पार्थिवे चित्तपरिभाविततदीयोपतापदावदत्तोद्वेगो मुनिस्तत्क्षणमेव योगनिद्रामगात् । उन्मुद्रितेक्षणश्च अनतिचिरेण सप्रहर्षो नृपमुवाच -- 'राजन्, भुक्तभूयिष्ठमधुना वर्तते तवापत्यसंततिप्रतिबन्धकमदृष्टम् । मनसि धृतिमाधेहि । मा विधाः स्वल्पमपि विषादम् । मा समुत्पादय चित्तखेदमस्याः सदा सुखोचिताया निजप्रणयिन्याः प्रतिकूलाचरणेन । मुञ्चारण्यगमनस्पृहाम् । गृहावस्थित एव कुरु देवताराधनम् । अङ्गीकुरु मुनिव्रतक्रियाम् । किं च ते दूरवर्तिनीभिरपराभिर्दुराराधाभिर्देवताभिः । इमामेव प्रकृतिसौम्यां सततसंनिहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम् । इयं हीक्ष्वाकुभरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया धार्मिकेण निगृहीतेन्द्रियवृत्तिना प्रमादपरिहारिणा विधिवदाराध्यमाना नियमात्प्रसादं गमिष्यति ; अभिमतार्थविषयं च वरमचिरेण वितरिष्यति । अमूं च भक्तिप्रवणेन चेतसा गृहाण अपराजिताभिधानामशेषविद्याधरेन्द्रपूजितां विद्याम् । कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवतार्चनेन । अवसाने च तस्य, जप जप्यचरित, समाहितेन चेतसा । भक्तिमज्जनैकचिन्तामणिमिमामवेहि । महाप्रभावासौ प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना, नास्ति तत्फलम्, यन्न साधयति । फलाभिमुखीभूता च त्रिलोकीपतेः पुरंदरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् । केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् । आलोचितव्यं च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् । प्रज्ञोद्यमावरणिमन्थाविव हविर्भुजः पितरौ कार्यसिद्धेः; तौ हि पुरुषव्यापारानुगृहीतौ, नास्ति तद्वस्तु, यन्न साधयतः ।' इत्यभिधाय कृतपार्श्वावलोकनो विहितमन्त्रदेवतानुध्यानस्मरणविधिर्विधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचम्, उपकर्णमूलमनुच्चकैरुच्चरिताक्षरपदस्तां विद्यां न्यवेदयत् ॥ [commentary] इतीति । इमां अपराजितां नाम विद्याम् । असौ अपराजिता नाम विद्या । राजापि सविनयाबद्धकरसंपुटः श्रद्धावता हृदयेन परमनुगृहीतमात्मानं मन्यमानो विधानतस्तां जग्राह । संज्ञादिष्टपरिजनसंपादितैश्च पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयांचकार ॥ विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे, प्रीतहृदयो मुनिः पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्रं स्थित्वा, किंचिद्विवलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावतीं प्रसादार्द्रया दृष्ट्या सुचिरमवलोक्य सस्मितमवादीत् -- 'राजपुत्रि, निवर्तितस्तावदरण्यगमनादेष ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधनकर्मणि । मा स्म कुप्यश्चेतसि ; यदस्माभिरकृत्वा प्रश्नम्, अश्रुत्वा प्रतिवचनम्, । अगृहीत्वानुमतिं महाभागायाः कृतास्य चेतसो नियन्त्रणा, निवारणा च विषयोपभोगसुखानाम् । अत्र च भवत्कल्याणसंपादनसत्वरा चित्तवृत्तिरेवापराध्यति । कल्पश्चायम्, यत् अस्य कतिचिद्दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः' इत्युक्ते महर्षिणा, मदिरावती त्रपातरलतारया दृशा अवलोक्य पत्युर्मुखमधोमुखी बभूव । तां च तथावस्थितां निर्वचनामधःस्रस्ताभिरलकवल्लरीभिराच्छादितकपोलदर्पणां करनखशुक्तिभिरलग्नमपि विलेपनाङ्कं चरणोर्मिकारत्नशकलेषु पुनः पुनरुल्लिखन्तीम्, अवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुखचन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं पुनः पुनरवलोक्य कृतस्मितो नरपतिर्मुनिमाबभाषे -- 'भगवन्, किमिति वारं वारमेनां नियमयसि । नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपन्नं च मनसा । करिष्यति चाद्यप्रभृति सर्वं भगवदादिष्टम् । असावपि बुध्यते स्वयं वा अस्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं वक्तुम्, अभ्युपगमावेदनेन च भगवतः प्रमोदं जनयितुम्, आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् । अथ वा न किंचिदुपदिष्टेमानेन । संप्रति प्रस्थिता वनमियम् । गतायां च तत्रास्याम् इह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराधनम् ।' इत्यभिधानं च पार्थिवमधिकतरमवनतानना रचितभङ्गुरभ्रुकुटिभूषणेन साभ्यसूयेव चक्षुषा तिर्यगैक्षत ॥ मुनिरपि मनागुपजातहासः 'राजन्, अतिमात्रमुत्सुकस्त्वमिदानीमेव वनमिमां नेतुमिच्छसि । विधेहि तावन्मन्त्रजपविधिम् । आराधितप्रसन्नया राजलक्ष्म्या वितीर्णम् आप्नोतु पुत्रवरमियम् । आसादयतु तत्प्रभावेण भुवनत्रयख्यातमहसमात्मजम् । ततो धृताधिज्यधनुषि भुवनभारधारणक्षमे तत्र निक्षिप्य निजराज्यसंपदं समर्प्य प्रजाः प्रस्थितेन स्वस्थमनसा त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् । अस्माकमप्येतदर्थ एवायमारम्भः । अन्यथा गृहस्थकार्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकारः ।' इत्युक्त्वा पुनरवादीत् -- 'नरेन्द्र, पुष्करद्वीपादागतेन मयापि जम्बूद्वीपवर्तिषु प्रधानतीर्थेषु संप्रति प्रयातव्यम् । अनुजानीहि माम् ।' इत्यभिधाय संवृतवल्कलांशुको जपन् शनकैराकाशगमनदायिनीं विद्याम्, आसनादुत्तस्थौ । अनूत्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य पक्षपातार्द्रतारकं चक्षुः, ईषदुत्क्षिप्तदक्षिणकरः स्फुटाक्षरोच्चारया गिरा दत्त्वाशिषम्, अन्तरिक्षमुदपतन् ॥ अन्तरितदर्शने च तस्मिन्रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्तं हर्म्यशिखरादवततार । निर्वर्तितमाध्याह्निकविधिश्च तत्कालकृतसंनिधीनां गुरूणां बान्धवानां बुद्धिसचिवानां च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत् ; देवताराधानविषये चापृच्छत् । उच्छिद्यमानभरतवंशदर्शननित्योद्विग्नैश्च तैरालोच्य कार्यगौरवमभ्यनुज्ञातः, प्रमदवनमध्य एव संनिधावाक्रीडपर्वतस्य नाति सर्वं नातिविस्तीर्णम् अतिमनोहरतया सुरलोकवासिनामप्युत्पादितनिवासस्पृहं देवतागृहमकारयन् ॥ तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः, सर्वप्रतिमालक्षणोपेतां सर्वदोषनिर्मुक्तां भगवत्याः श्रियः प्रतिकृतिं यथाविधि प्रतिष्ठाप्य, प्रतिपन्ननैष्ठिकोचितक्रियो मुनिप्रदर्शितेन क्रमेण प्रतिदिनमुपासांचक्रे ॥ तथ हि -- प्रातरेवोत्थाय प्रस्थितो गत्वा कृत्रिमाद्रिपरिसरसरिति गृहीतदन्तधावनो निर्वर्तितस्नानजपविधिः, परिधाय तत्कालधौते दुकूलवाससी, विधाय संध्योपासनकृत्यम्, आगत्यायतनम्, उत्तमाङ्गघटितग्रन्थिनोत्तरीयपल्लवेन मुद्रितमुखो मुखोद्गीर्णमुखरवारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिञ्चत् । एणनाभिकर्पूरकणसंतर्पितमोदेन च स्पर्शेन्द्रियहारिणा चन्दनद्रवेण विरचिताङ्गरागां सादरमुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या, पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिः पुष्टार्थाभिः स्तुतिभिरतिचिरं तुष्टाव । समापितमन्त्रजपविधिश्चातिक्रान्ते कियत्यपि समये विनिर्गत्य देवतागृहात्, दर्शनार्थमागतमुचितस्थानस्थितं गत्वा गुरुजनं ववन्दे । विहितमध्यंदिनावश्यकविधिश्चापराह्णसम- यानुज्ञातदर्शनेन सर्वग्रन्थार्थवेदिना विद्वज्जनेन सार्धं तैस्तैः कथालापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रियः पूजोपचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत । एवं च तस्योपरतराज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृतस्थितेस्त्रिकालस्नायिनः परिमितफलाहारपरिपालितशरीरस्य कुशतल्पशायिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसंततिनिबन्धनमनतिचारं पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः ॥ एकदा तु विहितमन्त्रदेवतापूर्वसेवः स राजा, पर्वदिवसे विशेषेण निर्वर्त्य देव्याः श्रियः सायंतनीमायतनपूजाम्, अनुपलक्षितः परिचारकगणेन, नगरबाह्याराममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्गशिखरतोरणप्राकारं शक्रावतारं नाम सिद्धायतनमगमत् ॥ प्रविशन्नेव च तस्य द्वारदेशे झटिति दत्तदर्शनम्, अखिलविष्टपत्रयाधिपतिना भगवता स्वयं शक्रेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्य भगवतो युगादिजिनस्य कृत्वा प्रणाममभिमुखमापतन्तम्, अल्पावशेषदेवायुषम्, उल्लिखितशातकुम्भस्तम्भावदातदेहम्, उचितप्रमाणशालिनाम् अतिभास्वरतया तडिद्दण्डैरिव निर्मितानाम् अङ्गानाम् अनलस्फुलिङ्गपिङ्गलेन गलता समन्ततः प्रभाजालेन ज्वलदनेकदीपिकाचक्रवालमिव मण्डपान्तरालं कुर्वाणम्, अन्तरिक्षगतमप्यतिबहलतया चरणतलप्रभायाः स्पृष्टभूतलमिवोपलक्ष्यमाणम्, गत्युत्कम्पगलितवैकक्षकस्रग्दामरेणुनिश्चलनिलीनैर [commentary] प्रविशन्निति । वैकक्षकस्रक् तिर्यग्धारिता माला । श्लक्षणं मृदुलं लिभिः पुनरागमनप्रार्थनापुरःसरमानतायास्त्रिदशलोकश्रियो वियोगाश्रुभिरिव सकज्जलैः कल्माषितेन चरणद्वयेन द्योतमानम्, अग्रतोऽग्रतः श्लक्ष्णपरिमण्डलजङ्घाकाण्डेन मूले मूले स्थूलेन भ्राजमानम् ऊरुस्तम्भयुगलेन, निवसितातिसूक्ष्मदेवार्हवसनम्, उन्निद्रकाञ्चनारविन्दचारुणा आवर्तिना नाभिमण्डलेन अलंकृतप्रतनुमध्यभागम्, वामेन सविलासभुजगतागतद्राघितया तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभया विराजितेन दक्षिणेन चादिदेवप्रणामसमयस्त्रस्तस्य कुसुमापीडस्य निबिडनाय तिर्यगुन्नमितेन पाणिना बन्धुजीवकचापधारिणः प्रारब्धपृष्ठतूणीरशराकर्षणस्य कुसुमधनुषः स्थानकमङ्गीकुर्वाणम्, आमुक्तमेघमुक्तास्फारमुक्ताफलहारम्, अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखलेखाभिः कपिशितोग्रशौचसिचयोत्तरासङ्गम्, अन्तकालनिद्रोदयादीषन्निमिषितस्य दूरविस्तारिणो नयनयुगलस्योन्मेषलीलासु विसर्पता धवलेन प्रभाप्रवाहेण क्षीरमिवोद्गिरन्तम्, उल्लसिताधरप्रभासान्द्रविद्रुमवनम् उद्धूतधवलदीर्घलोचनतरङ्गम् उत्सङ्गितकपोलमुक्ताशुक्तिकान्तम् आक्रान्तोज्ज्वलललाटतटम् आविष्कृतभ्रूलताशैवलवल्लरीकम् आपीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितम् उपहसितशरच्चन्द्रिकाप्रकाशम् आस्यलावण्यमुद्वहन्तम्, अनिलकृतसू [commentary] मसृणं वा । परिमण्डलं वर्तुलम् । द्राघिता दीर्घीकृता । गतागताभ्यां वक्रतया स्वयं रक्तिम्ना च नखमणिप्रभायां बन्धुजीवकचापत्वोत्प्रेक्षा । एतदर्थमेव तत्क्षणोदितत्वं उपमानभूतायामिन्दुलेखायां विशेषणम् । पृष्ठतूणीरः पृष्ठे लम्बितः इषुधिः । स्थानकं स्थितिः, सादृश्यं वा । मेघमुक्ताः करकाः । उग्रशौचः अतिशुद्धः । उत्तरासङ्गः उपरिवस्त्रम् । उत्सङ्गिता मध्ये कृता । अधरप्रभादिषु विद्रुमवनत्वादिरूपणं आस्यलावण्ये क्षीरोदसलिलत्वोत्प्रेक्षोपयोगि । क्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैर्निर्दयचरणप्रणोददलितदलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिरुद्यानदीर्घिकामधुकरकुलैः कृततुमुलकोलाहलम्, किंचिदारूढम्लानिना पारिजातकुसुमशेखरेण विराजमानम्, जवागमनखेदादनवरतमुद्वमन्तं श्वासपवनान्, एकं वैमानिकमपश्यत् ॥ आलोकनमात्रेणैव तं प्रति उपजातदिव्यतानिश्चयस्य चक्षुर्निमेषादिलिङ्गदर्शनोन्नीतस्वर्गच्यवनसमयस्य रूपसंपन्निरूपणादात्मनि श्लथीभूतचारुताभिमानग्रन्थेः पार्थिवस्याभून्मनसि -- 'अहो प्रभावः सुरलोकभूमीनाम् ; यत्र खलु संभूतानि पुण्यभागिनां शरीराण्यप्येवंविधानि भवन्ति ; यानि चरमास्वपि दशासु, तावदास्तामुपसर्पितुम्, द्रष्टुमप्यनलमनलमिव वैद्युतं पुमांसः । अस्य वपुषि प्रकामसौम्येऽपि स कोऽपि स्वभावभास्वरः स्फुरति प्रतापः, यस्मिन्नसौ प्रकृतिप्रगल्भापि भीतेव मे न चिरमाबध्नाति लक्ष्यमीक्षणद्वयी । सर्वथा कृतार्थोऽहम्, यस्य मे मर्त्यभावेऽपि प्रकटितदिव्यवपुषा दर्शनमनेन दत्तम् ।' इति विचिन्त्य, मुक्त्वा च सफलकं प्रभुताभिमानेन सार्धं कृपाणम्, आबद्धाञ्जलिः स्तोकमुपेत्य स्वागतमकरोत् ॥ सोऽपि तथा समुपसृत्य तं पुरस्तादवस्थितम् अतिस्तिमितप्रगल्भस्निग्धदृष्टिप्रकटितान्तःप्रीतिम् आबद्धकरसंपुटम्, अतिशयस्पृहणीयदेहावयवदर्शनानन्दनिस्पन्दविकसितेन पुनरपि प्राक्तनीं [commentary] आलोकनेति । उपसर्पितुमिति चिन्त्यम् । उपस्रप्तुमिति भाव्यम् । स्वार्थणिजन्तो वा । फलकः खेटकः । प्रकृतिमापन्नेनेव चक्षुषा सुचिरम्, उपजातप्रत्यभिज्ञानलव इव सत्वरोपसंहृतगतिः, आचरणयुगलादुत्तमाङ्गं यावदालोकितवान् ॥ आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते वक्षसि, स्तोकमुपदर्शितस्मितः प्रस्तुतपरीहास इव सलिलनिर्भराम्भोधरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत् -- "नरेन्द्र, सर्वदा शरीरसंनिहितैर्निवेदितोऽसि चक्रवर्तिलक्षणैः । स खलु भवान्मध्यमलोकपालो राजा मेघवाहनः, योऽस्माभिः पुरा दिव्यसदसि देवस्य पाकशासनस्य मर्त्यलोकवार्तानिवेदनाधिकारयुक्तैः प्रधाननाकिभिः, एवं जिगीषुः, एवं शूरः, एवं त्यागशीलः, एवं धार्मिक इति बहुप्रकारमङ्कुरितपुलकपक्ष्मलकपोलैरवनिपालकथाप्रक्रमे सुचिरमुपवर्ण्यमानः श्रुतोऽसि । सर्वथा नः कृतार्थं चक्षुरुपजातम् । फलितं च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलोकनेन । गच्छामि सांप्रतम् । अनुजानीहि माम् । जानीहि च मदीयमपि लेशतो वृत्तान्तम् । अहं हि सौधर्मसुरलोकसद्मा ज्वलनप्रभाभिधानो वैमानिकः । संप्रत्येव नाकतः प्रस्थितो गच्छन्पुरःस्थितेन कियतापि परिजनेनानुगम्यमानो गगनपथेन, पथि विलोक्य लोकान्तरे देवतायतनमिदम्, इदं मनस्यकरवम् -- 'इन्त, स एष भगवानशेषजगन्नाभिः, नाभिकुलकरकुलालंकारः, द्रष्टा कालत्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रणष्टस्य धर्मतत्त्वस्य, सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, ऋषभनामा जिनवृषः ; यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः ।' [commentary] आनीतेति । श्रीवृक्षः वक्षसि स्थित आवर्तविशेषः, पक्षे अश्वत्थवृक्षः बिल्ववृक्षो वा । नाभिः प्रधानभूतः । नाभिकुलकरः नाभेयः । अवधार्य चैतदधिकोपजातभक्तिः, 'आसतामिहैव मुहूर्तमेकं भवन्तः' इति निवर्त्य पृष्ठानुपातिनः सुरपदातीन्, अतिमात्रमुत्सुको गन्तुमङ्गमात्रेणैवागतः । दृष्टश्चैष भगवानशेषकल्मषक्षयहेतुरादिदेवः । इदानीं गन्ता अहमधिगतनिर्वृतिः, विलक्षणं रामणीयकेन सकलद्वीपानाम् अपारजलपूरितान्तरिक्षेण सर्वतः कृतपरिक्षेपं नन्दीश्वरोदनाम्ना नदीनाथेन, नन्दीश्वराभिधानं प्रधानद्वीपम् ॥ तत्र मे परममित्रम्, ममैव सदृशप्रभावर्द्धिः अतिशयेन प्रसादपात्रं वृत्रशत्रोः, अत्युदाररूपबलविभवशाली सुमाली नाम देवः, देवलोकतः कौतुकाकृष्टमनसा स्वयंप्रभाभिधानया देव्या दिव्यवनिताजनादुपश्रुतरम्यतातिशयां जिनायतनविंशतेः श्रियं द्रष्टुमानीतः, सांप्रतमतिशयितनन्दनवनेषु महापुष्करिणीनामुपान्तवर्तिषु विचित्रतरुकाननेषु कान्तासखः क्रीडासुखमनुभवति ॥ अस्ति च द्वीपे तत्र दीपभूता मर्त्यलोकस्य, जिनायतनयात्रासु त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती, परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैः, तदीयसंनिधावपि अनाथेव उद्ध्वंसितेव प्रणष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिव कटाक्षिता, सर्वतो विजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहृतसर्वनिजनिजव्यापारा, रणरणकगृहीतगृहदेवतावनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा, स्थानस्थानपूज्यमानस्विन्नसिद्धायतनदेवताप्रतिमा, प्रतिमन्दिरमाकर्ण्यमा [commentary] अस्तीति । रणरणकः उत्कण्ठा, चित्तावेग इति यावत् । नश्रवणदुष्टहाकष्टशब्दा दृष्टा । मन्दिरमपि तदीयमप्रवृत्तोत्सवम्, धृतानुचितवेषनिर्व्यापारनिःशेषकलत्रम्, अप्रमत्तविबुधयोधशतसंरक्ष्यमाणगोपुरप्राकारम्, उद्विग्नसकलपरिजनं दृष्टम् ॥ इदं चारिष्टमतिकष्टमप्रतिविधेयं विधिवशात्तत्रोपजातम्, तस्य तत्कलत्रस्य वा प्रधानस्य अचिरकालभाविनं विनाशमवश्यतया निवेदयति । न हि येषु केषुचिदनर्थोपनिपातेषु, कदाचिदपि दिव्यानामास्पदेषु संपद्यन्ते ईदृशाः पदार्थानां प्रकृतिविपर्ययाः, तत्संनिवासिनां च विबुधलोकानामन्तरत्यन्तशोकातङ्कशंसिनो हृदयायासाः । तेन च मया तत्र गत्वा द्रष्टव्योऽसौ कदाचिदप्यदृष्टदीर्घमद्विरहदुःखः सखा । सुखयितव्यः सर्वकालमभिलषितमद्दर्शनो निजदर्शनेन । शमयितव्या दिव्यलोकच्यवनसुलभा सर्वभावानां विनश्वरस्वभावतावेदनेन हृदयेऽस्य दाहकारिण्यरतिवेदना । देयो दिव्यशक्त्यनुरोधेन सुगतिसाधनेषु धर्मकार्येषु सविशेषमुपदेशः । ततस्तेन सह पूर्वानुभूतसुखदुःखवृत्तान्तकथाव्यतिकरेण नीत्वा विभावरीमेताम्, विभातकाले कथमपि प्रार्थितपुनर्दर्शनेन पुनरपि प्रतीपं निवर्तितव्यम् । कर्तव्यं च किमपि कालोचितमकृतकालक्षेपेण ख्यातेः सुखस्य चामुष्मिकस्य साधकं कुशलानुष्ठानम् । यतो ममापि निष्ठितप्रायमायुः । अल्पावशेषा त्रिदशलोकस्थितिः । उपस्थितो दीर्घकालप्ररूढगाढप्रणयैर्नाकिभिः साकमात्यन्तिको विरहः । क्रोडीकृतं मनुष्यलोकावतारस्मरणपीडया निबिडमन्तःकरणम् । ईदृशे च सर्वतः समुपस्थितातिदुर्वारव्यसनजाते उपजनितसंसारसुखवैमुख्ये विवेकिनाम् उदीरितपरोपकारबुद्धौ उदारचे [commentary] इदमिति । अरिष्टं अशुभम् । निष्ठितप्रायं भूयसा गतम् । तसाम् अतिदारुणे दशापाके, कथंचिदुपजातसंगमस्य सुरपतिप्रशंसाश्रवणदिवसादारभ्य प्रतिदिवसमभिलषितदर्शनप्राप्तेराकारदर्शनेनैव प्रशमितसकलहृदयोद्वेगतमसो महात्मनो न च सर्वात्मना प्रियमकर्तुमन्तःकरणमुत्सहते मदीयम् ; मन्दायते च त्रिभुवनातिशायि सत्त्वमलुब्धतां च तावकीं प्रागुपश्रुतां विचिन्त्य, प्रत्याख्यानलाघवमुत्प्रेक्षमाणम् । अतो न शक्नोमि सर्वथैवोपचारक्रियापराङ्मुखो भवितुम्, नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन कदर्थयितुम् । केवलमवलम्ब्य मध्यमं पन्थानमुपरचयामि तेऽञ्जलिम् । अनुगृहाणेमां मनःपरितोषाय मे, नृपचन्द्र चन्द्रातपाभिधानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणापि कृतसकलदुरितापहारं हारम् । एष किल क्षीरोदेन परिणतामलकीफलस्थूलनिस्तलानि मुक्ताफलान्यादाय कौतुकेन स्वयं ग्रथितः ; कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् । उपनीतश्च देव्यापि कमलया जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति पुलोमदुहितुः । तयापि कृत्वातिदीर्घकालमात्मनो मण्डनम्, अर्पितः सखीप्रेमहृतहृदयया मत्प्रियायाः प्रियङ्गुसुन्दर्याः कण्ठदेशे । अद्य तु क्वापि धर्म्ये कर्मणि नियुज्य ताम्, आगच्छता मया विरहविनोदार्थमारोप्य कण्ठे, सुहृद्दर्शनोत्कण्ठितेनानीतः । तदेष संप्रति स्वभावधवलरुचिः कालच्छायाकबलितमरुच्येव मोक्तुकामो माम्, अवाप्य कथमपि पुण्यपरिणत्या प्राङ्मया संयोजितं त्वां मुक्तामयवपुषम् अशेषतो मुक्तामयः, त्रासविरहितम् अपेतत्रासः, स्वच्छा [commentary] निस्तलानि वर्तुलानि । कालच्छाया कृष्णा कान्तिः, यमच्छाया च । शयम् अतिस्वच्छः, गुणवन्तम् अतिशयोज्ज्वलगुणः प्राप्नोतु सदृशवस्तुसंयोगजां प्रीतिम् । अस्य हि परित्यक्तसुरलोकवासस्य दूरीभूतदुग्धसागरोदरस्थितेस्त्वद्वसतिरेव स्थानम् । न हि त्र्यम्बकजटाकलापमन्तरिक्षं वा विहाय, क्षीणोऽपि हरिणलक्ष्मा क्षितौ पदं बध्नाति । मयाप्यनन्ययोग्योपभोगां भव्यतामस्य भावयता, दिव्यदर्शनममोघमिति घोषणां जनस्य किंचिच्चरितार्थां चिकीर्षता क्षणमात्रपरिचितमात्मानमीषदनुस्मरणविषयतां नेतुभिलषता, प्रीतिप्रगुणितस्य चात्मनस्तरलतां तिरोधातुमक्षमेण अयमुपनीयते, न पुनरुपकाराय प्रीतये वा । सर्वस्वदानेनापि देहिनामुपकुर्वतः परेण प्रार्थितां पृथिवीमपि तृणगणनया परित्यजतः, किं तद्वस्तु ; यत्प्रदानेन प्रीतिरुपकारो वा भविष्यति भवतः । सर्वथा दत्तोऽयं मया । 'विपत्प्रतीकारासमर्थः क्षीणायुषोऽस्य भिषगिव कथं ऋक्थमाहरामि । अलंकारः क्षत्रियकुलस्य याचकद्विज इव कथं प्रतिग्रहमङ्गीकरोमि' इत्यनेकविकल्पविप्रलब्धमनसा त्वया मनस्विनां वरेण, त्रिदशनाथेऽपि भगवति कदाचिदकृतप्रणयभङ्गस्य मे न कार्यः प्रथमप्रार्थनाभङ्गः । ग्रहीतव्यो निर्विचारेण, यस्मादुपरोधभीरुत्वादगृह्यमाणोऽपि भवता दूरीभूत एवैष मे स्वर्गच्युतस्य । गृहीतस्तु कदाचिन्मनुष्यलोके लब्धजन्मनः पुनरानन्दयति मे दृष्टिम् । इष्टतमदर्शनं चैनम् अमरलोकाच्च्युता कालक्रमेण देव्यपि मे प्रियङ्गुसुन्दरी कदाचिदालोकयति । दर्शनाभ्यासजातपूर्वजातिस्मृतिश्च स्मरति रतिकराण्यसक्तं मया सहोपभुक्तानि स्वर्गवासक्रीडासुखानि । [commentary] मुक्तामयः मौक्तिकनिर्मितः, रोगहीनश्च । त्रासः भयम्, मौक्तिकदोषश्च । गुणः सौशील्यादिः, रज्जुश्च । ऋक्थं धनम् । असक्तं अविलम्बेन । विरहदुःखदत्तोद्वेगा च प्रवर्तते यथाशक्ति कुशलावाप्तिसाधके कर्मणि । एवं च तस्या अप्युपकृतं भवति । संभवन्ति च भवार्णवे विविधकर्मवशवर्तिनां जन्तूनामनेकशो जन्मान्तरजातसंबन्धैर्बन्धुभिः सुहृद्भिरर्थैश्च नानाविधैः सार्धमबाधिताः पुनस्ते संबन्धाः । स्मरणानि चात्यन्तविस्मयकराणि पूर्वजातेः । अतो नायमालापो मोहप्रलाप इति मे समर्थनीयः । कदर्थनीयश्च न पुनरहं प्रार्थनाभङ्गदैन्यसंपादनेन" इत्युदीर्य कण्ठादवतार्य किंचिदवनतेक्षणो दक्षिणकरेण हारमुपनिन्ये । नरेन्द्रोऽपि, तेन चर्मचक्षुषामगोचरेण तस्य साक्षान्निजदिव्यरूपाविष्करणेन, तेन स्मितोद्भेदपूर्वेण वक्षसि रचितकोमलकराञ्जलिना प्रथमाभिभाषणेन, तेन सुरपतिप्रशंसाप्रकाशनपुरःसरेण विस्तरवता स्ववृत्तान्तकथनेन, तेन च दूरं परिहृत्य दिव्यतावलेपं स्पृहणीयेन प्रतिग्राहणाय भूयो भूयः कृतेन प्रणयप्रार्थनेन दूरमावर्जितमनाः, प्रकृतिनिःस्पृहोऽपि परोपचारेष्वतिस्पृहयालुरिव सत्वरमुपसृतः प्रसार्य करयुगलमग्रतस्तं जग्राह ॥ देवोऽप्यसौ अलक्षितगतिस्तस्मिन्नेव क्षणे झगित्यदर्शनमगमत् । तिरोभूते च तस्मिन्, उपजातविस्मयो नरपतिर्निरीक्ष्य चक्षुषा निश्चलेन तं हारम्, उत्तरीयाञ्चलैकदेशे बबन्ध । प्रविश्य च शक्रावतारायतनमध्यम्, आराध्य भगवन्तमतिचिरमादिदेवम्, आगत्य निजसदनम्, उपपाद्य भक्त्यतिशयेन श्रियः सायंतनीं सपर्याम्, अभिमुखीभूय तन्मुखे निहितनिश्चललोचनो निषसाद । निजगाद च -- 'भगवति, त्वच्चरणारविन्दसेवानुभावोऽयम्, यदस्मादृशामपि मनुष्यमात्राणामशेषत्रिभुवनमाननीया वैमानिकाः संनिधिमभिलषन्ति ; योगिज्ञानगोचरं चात्मनो रूपमध्यक्षविषयीकुर्वन्ति ; प्रकटितसंभ्रमाश्च दृष्टिदानसंभाषणादिना बहुमानेन महिमानमारोपयन्ति । एतच्च यद्यपि अनिमित्तबन्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वाङ्गभूषणीकृतमाभरणमेकं दत्तम्, तथापि त्वदीयमेतत् । अतो न मे शरीरस्पर्शमर्हति । दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् । तेन तावक एव परिवारलोके भवतु कस्यचित् ; अनुभवतु वा अदृष्टोदयान्मनुष्यलोकमागतमपि पुनस्त्रिदशलोकस्थितिसमुचितं शोभातिशयम्' इत्यभिधाय तं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुञ्चत् ॥ अत्रान्तरे नितान्तभीषणो विशेषजनितस्फातिरास्फालिताशातटैः प्रतिशब्दकैः शब्दमयमिवाधानस्त्रिभुवनं हासध्वनिरुदलसत् । उपश्रुत्य च तमश्रुतपूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हासम्, न तु स्वल्पमात्रमपि संत्रासम् । अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तमुद्भूतकौतुकस्तदनुसारेण संचारयामास तिर्यग्वलिततारकं चक्षुः ॥ दक्षिणेतरविभागे संनिहितमेव देवताया झागति दत्तदर्शनम्, निदर्शनमिवाशेषत्रिभुवनभीषणानाम्, अतिकृशप्रांशुविकरालकर्कशकायम्, अनतिपुराणशुक्तिकाश्रेणिसितभासा स्थूलपृथुलया नखपरम्परया प्रकाशितनिजप्रभातिमिरतिरोहितचरणयुगलाङ्गुलिविभागम्, अक्षुद्रसरलसिरादण्डनिचितेन निश्चेतुमुच्छ्रायमूर्ध्वलोकस्य संगृहीतानेकमानरज्जुनेवोपलक्ष्यमाणेन गगनसीमोल्लङ्घिना जङ्घाद्वितयेन [commentary] अत्रेति । स्फातिः वृद्धिः । दक्षिणेति । उच्छ्रायः औन्नत्यम् । निरन्तरारूढविततव्रततिजालयमलतालशिखरनिषण्णमिव दृश्यमानम्, उल्बणास्थिग्रन्थिना जानुयुगलेन क्षीणमांसेन च निकाममूरुकाण्डद्वयेन विश्राणितपरस्परगुणप्रकर्षम्, असृक्प्रवाहपाटलया वैतरणीसरित्सलिलवेणिकयेव पृथुलदीर्घया रोमलतया सीमन्तितकरालकुक्षिकुहरपातालम्, अचिरखण्डितं मन्त्रसाधकमुण्डं गलावलम्बितं बिभ्राणम्, कबलितपिशितचर्वणायासचञ्चलेन कूर्चकचकलापेन कबलितं प्रलम्बपृथुलं चिबुकमुद्वहन्तम्, शिखिकणारुणया तिर्यग्विसर्पिण्या फणामणिकिरणमालया जटालीकृतसरलभोगनालाभ्यामलघुना निष्पतन्तमोघेन घोणापुटश्वासमुभयतः पातुमवतीर्णाभ्यां कर्णाभरणविषधराभ्यां द्विधाप्यधःकृतोष्ठपृष्ठलोमलेखम्, मुहुरुदञ्चता मुहुर्न्यञ्चता मुहुः प्राञ्चता तिर्यगजगरदेहदीर्घपृथुलेन जिह्वालताग्रेण ललाटचिबुकसृक्कप्रान्तगतमार्द्रार्द्रं मेदःकर्दममास्वादयन्तम्, अन्तर्ज्वलितपिङ्गलोग्रतारकेण करालपरिमण्डलाकृतिना नयनयुगलेन यमुनाप्रवाहमिव निदाघदिनकरप्रतिबिम्बगर्भोदरेणावर्तद्वयेनातिभीषणम्, आभोगिना ललाटस्थलेन सद्यःस्थापितमसृक्पङ्कपञ्चाङ्गुलं दधानम्, ऊर्ध्वस्थितेन स्थिरतडित्तन्तुसंतानस्थानकविडम्बिना कपिशभासुरेण केशभारेण भर्त्सयन्तम् उपरि जाज्वल्यमानज्वालाखण्डमुत्पातधूमदण्डम्, आयतनभित्तिसङ्गिना बलिप्रदीपप्रभाप्रकाशितेन केशनखदशनवर्जमात्मनो निर्विशेषच्छायेन प्रतिच्छायापुरुषेण पार्श्वचारिणा सानुचरमिव दृश्यमानम्, [commentary] व्रततिः लता । यमलतालौ तालवृक्षद्वयम् । तादृशजङ्घाद्वयविशिष्ट एतादृशतालयुगलस्थित इव भातीति तात्पर्यम् । सृक्क ओष्ठप्रान्तः । ओष्ठपृष्ठलोमलेखा श्मश्रुराजिः । पञ्चाङ्गुलं अङ्गुलिपञ्चकनिवेशः, यः प्रतिहस्तकपदेन व्यपदिश्यते । 'तत्पुरुषस्याङ्गुलेः --' इति समासान्तः । धूमदण्डः धूमकेतुः । दशनमालयाप्यन्तरालप्रविष्टकुणपास्थिशकलया सकलत्रिभुवनाभ्यवहाराय सहायीकृतानन्तदन्तयेवाक्रान्तमुखकुहरम्, अस्थिनूपुरैरपि पदप्रयोगमुखरैर्भयप्रस्तुतस्तुतिभिरिव सततसेवितचरणम्, मांसेनापि खादनभीतेनेव सास्त्रेण परित्यक्तसर्वावयवम्, आजानुलम्बमानशवशिरोमालमेकं वेतालमद्राक्षीत् ॥ तं च क्रमानुसारिण्या दृशा आ चरणयुगलादामस्तकं प्रत्यवयवमवलोक्य किंचित्कृतस्मितो नरपतिरुवाच -- 'महात्मन्, अनेन ते प्रवृद्धेन सहसाकाशसंनिभप्रभाभारभरितककुभा निकामभीषणश्रवणेन वपुषेव भुवनत्रयत्रासकारिणा हर्षाट्टहासेन जनितमतिमहत्कुतूहलं मे । कथय किमेतदसमञ्जसं हस्यते ॥' स जगाद -- 'राजन्, न किंचिदन्यत् । त्वदीयमेव चेष्टितम् । त्वया हि फलमभिलष्य किंचिदियमस्मत्स्वामिनी श्रीरनुदिवसमासेवितुमुपक्रान्ता । सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिग्रहलोकमावर्जयन्ति । ततस्तेन कृतपक्षपरिग्रहेण ग्राहितसंबन्धाः प्रभूणामसक्तमात्मसक्तिमुपदर्शयन्ति । एष तावज्जगति दृश्यते व्यवहारः । त्वया तु विपरीतः प्रस्तुतोऽयं सेवाविधिः । तथा हि -- स्नपनवस्त्रमाल्यानुलेपनालंकारादिभिः सततमेनां देवतामुपचरसि । यस्तु प्रणयपात्रमस्याः सर्वदा सविधवर्ती कार्यकर्ता जनोऽयम्, तमाहारमात्रादानमात्रायापि [commentary] कुणपाः शवाः । पदप्रयोगः चरणविन्यासः, शब्दरचना च । अस्रं अश्रु रक्तं च । तमिति । सहसाकाशेत्यत्र वपुःपक्षे आकाशेति, अट्टहासपक्षे काशेति च च्छेदः । श्रवणं श्रोत्रम्, आकर्णनं च । स इति । असक्तं अविलम्ब यथा तथा । मात्रा लेशः, अल्पं परिमा नामन्त्रयसे । मित्रीकृते हि मयि साधकानामभीष्टसिद्धिः । किमियमैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचारं पश्यति । दृष्ट्वा च किं प्रकृतिचञ्चला चेतस्यवधारयति । कृतावधारणापि किमेकान्ततो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपातं गृह्णाति । गृहीतपक्षपातापि किमवज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा बध्नाति वरप्रदानाय बुद्धिम् । तदलमबुद्धिपूर्वकेण बुधजनहासकारिणा निरवधिक्लेशैकफलेन फल्गुनानेन सेवाप्रकारेण । यदि स्फुटमेव फलमुत्कृष्टमीप्ससि, लिप्ससे वा विघ्नविरहितं जपध्यानादिकर्म, कामयसे वा मनः प्रसादयितुमचिरेण देव्याः, तदस्मदुपचारपूर्वकमद्यप्रभृति सर्वमुपकल्पय क्रियाकलापम् । अन्यथा केशो भविष्यति तवैष सेवावेशः ॥' इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस्य किंचित्सोपहासम़वदत् -- 'सर्वमुपपन्नमभिहितम् । उपदिष्टमक्लिष्टया युक्त्या । प्रबोधिता वयम् । यथा निदर्शितः सूक्ष्मदर्शिना, तथैवैष सेवामार्गः । परिग्रहजने संनिधौ सति, कोऽधिकारः प्रभूणामग्रपूजायाम् । महती मूढता, गाढमविवेकविलसितम्, अप्रतिविधेया वैधेयतेयम्, यदस्माभिः सर्वसेव्यगुणसंपदुपेतं भवन्तमपहाय प्रमादादिदोषोपहतचित्तवृत्तिभिरियमग्रत एव देवता सेवितुमुपक्रान्ता । कृतश्च पूजाविधेरकरणेन कियानप्यबहुमानः । अथ वा जन्मनः प्रभृत्यकृतपरसेवानामत्र लवमात्रोऽपि नास्माकं दोषः । [commentary] णम् । मात्रादानशब्दश्च सांप्रदायिको बल्यादिषु । फल्गुः व्यर्थः । ईप्ससि आप्तुमिच्छसि । आवेशः अभिनिवेशः । इतीति । वैधेयः मूर्खः । तवैव प्रमत्ततासौ, यज्जानतापि नीतिमार्गमादित एव त्वया नोपदिष्टोऽस्मभ्यमेष क्रमः । किमिदानीं कुर्मः । प्रस्तुतमिदं कर्म । कृतश्च निश्चलो मनसि संकल्पः -- यावन्नैष परिसमाप्तः कल्पः, तावदल्पाप्यनुवृत्तिरुपचारो वा न कस्यचिद्दैवतस्य विवक्षितफलापेक्षया कर्तव्योऽस्माभिः । अवधार्य चेदं धीमता न कार्यः प्रस्तुतेऽस्मिन्नस्मत्कर्मणि कार्यसिद्धिविषयो विकारः ; नापि कतिचिद्दिनानि प्रार्थनीयः पूजोपचारः । यदि चाभ्यवहारेण प्रयोजनं पूज्यस्य, ततः सज्जा वयं तदुपपादनाय । गृह्यतामयम्, उपयुज्यतां च विविक्तमस्यैव देवतागृहस्य स्पृहणीयतममाश्रित्य कोणमेकमखिलोऽप्येष देव्या विशेषपूजार्थमाहृतोऽद्य हृद्यानेकफलमूलोपदंशो दृष्टमात्रः क्षुदुपबृंहणो मोदकादिप्रभूतो भक्तबलिः ॥ इत्युक्तवति भूपे भूयोऽप्यसौ सहासमवदत् -- 'नरेन्द्र, न वयं पक्षिणः न पशवः, न मनुष्याः । कथं फलानि मूलान्यन्नं चाहरामः । क्षपाचराः खलु वयम् । व्याघ्राणामिवास्माकमात्मभुजविक्रमोपक्रीतमामिषमाहारः । तस्य चिन्तय प्राप्त्युपायम् । किमनेन कर्णोद्वेगजनकेन द्विजस्येव मदिरास्वादसौन्दर्यकथनेन भक्ष्येतरवस्तुतत्त्वप्रकाशनेन । यदि वा अन्येऽपि बहवः क्षुद्रसाधकाः संप्रति खलीकर्तुमुद्यताः स्वामिनीम् ; तदीयदेहावयवेष्वेव सिद्धा तत्प्राप्तिः । आस्स्व तावन्निराकुलः । केवलं याचे किंचन । त्वया हि बहवः कृताः संग्रामाः ; हताश्च संख्यातीताः क्षत्रियक्षोणिपतयः । तत्र, येन कदाचिदपि नानुभूतो भङ्गः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रा [commentary] विकारः अन्यथाबुद्धिः । उपदशः व्यञ्जनविशेषः । भक्तं अन्नम् । इतीति । खलीकर्तुं उपद्रोतुम् । संगरः युद्धम् । र्थनासु, न कृतः प्रणामः प्राणसंशयेऽपि शत्रोः, तस्य भुवनत्रयश्लाघनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्तललितललाटलेखाक्षरमारूढच्छवि च्छत्रसदृशाकारमर्पय मे कपालकर्परं प्रत्यग्रमेकम् ; यदपवर्जितैरसृग्भिः पुण्यासु कृष्णचतुर्दशीषु दुर्विनीतक्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदग्न्यमुनिरिव मुहुर्मुहुः करोमि तर्पणम् ॥' इति ब्रुवाणं च किंचिद्विहस्य पुनरुवाच नक्तंचरं नृपतिः -- 'प्रेतनाथ, नान्यथोदितं भवता । तथ्यमेवेदम् । कृताः शतकृत्वो मया संग्रामाः । हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः । किं त्वनेकराजकार्यव्यापृततया कदाचिदप्यकुर्वता दिव्यकार्यपर्यालोचनम्, अतीन्द्रियज्ञानविकलतया स्वयमनावेदितमजानता परेषां हृदयगतमर्थम्, अशृण्वता च युष्मद्विधानामत्र विषये कुतश्चिदप्यर्थित्वमुद्यमं च धर्मक्रियाकल्पविषयम्, अल्पमपि न कृतस्तत्कपालानां संग्रहः । तद्यदि नातिमात्रमवसीदति पितृप्रयोजनम्, अनभ्यर्णवर्ती वा पूर्वसूचितः पुण्यदिवसः, तत्प्रतीक्षस्व कतिचिद्दिनानि ; यावत्क्वचित्तदवाप्तिर्भवति । अथ न सह्यः कालातिपातः, तदिदमेव मे स्वीकुरु शिरः । केवलं विलोकय, चिरं विचारय च चेतसा । यदि संभवन्ति कतिचिदिह पूर्वसूचिता गुणाः, प्रीयते वा चक्षुरुत्तमाङ्गलक्षणविधिविचक्षणस्य, तन्न किंचिदन्यान्वेषणेन ॥' स पुनरब्रवीत् -- 'नृपवरिष्ठ, सुष्ठु शुभलक्षणम् । सुष्ठु चक्षुष्यम् । किं विलोक्यते, किं वा विचार्यतेऽस्य जात्यस्येव जात [commentary] अपवर्जितैः क्षरितैः । नरेन्द्रः राजा, मन्त्रसाधकश्च । रूपस्य रूपशोभासौभाग्यम् । भाग्यवानहम्, यस्य प्रार्थनामन्तरेण समुपस्थितमिदम् ॥' इति व्याहृत्य वामकरतलवर्तिनः कपालस्य कर्णवर्तौ निर्दयावृत्तकषणप्रकीर्णवह्निस्फारविस्फुरत्स्फुलिङ्गव्राताम् उत्पातमेघलेखामिव विमुक्तघनरुधिरबिन्दुवर्षां कालायसकर्तिकां निजघर्ष । हर्षोत्तालकृततुमुलकिलिकिलारावश्च साटोपमेत्य समुपनिन्ये सव्येतरकरेण । क्षोणीपतिरप्यजातसंक्षोभः सधीरमुवाच -- 'क्षपाचरेन्द्र, दिव्यमायुधमिदं नार्हति करस्पर्शमस्मद्विधानाम् । अतस्तिष्ठतु तवैव हस्ते । त्वत्प्रयोजनमसावेव मे निर्वर्तयिष्यति कृपाणः ।' इति वदन्नेव सविधवर्तिनः कुशस्त्रस्तरस्य शिरसि तत्क्षणमेव निक्षिप्तमाक्षेपदूरविक्षिप्ताक्षवलयेन दक्षिणपाणिना जग्राह कृपाणम् । आबद्धपरिकरश्च कृत्वा देवतायाः प्रणामम्, कृपाणमुज्झितकृपः स्कन्धपीठे न्यपातयत् ॥ अथ भीमकर्मावलोकनोद्भूतभीतिभिरिव स्थायिभिरपि शोकभयजुगुप्साप्रभृतिभिः परित्यक्तधीः, विसर्पदतिबहलखड्गप्रभानुलेपश्यामलितविग्रहतया प्रत्येकमेकावलीमौक्तिकादर्शदृश्यमानप्रतिमागतोत्तमाङ्गतया प्रणत्यनादरकुपितपार्वतीप्रसादनार्थमुपक्रान्तद्वितीयकण्ठच्छेद इव रावणः, तत्क्षणमधत्त रमणीयभीषणं रूपम् । अर्धावकृत्तकन्धरे च शिरसि, सहसैवास्य केनापि नियन्त्रित इव नाल्पमपि चलितुमक्षमत दक्षिणो बाहुः । अतितीक्ष्णधारोऽपि कुण्ठीभूत इव, [commentary] इतीति । कर्णवर्तिः कर्णद्वारम् । कषणं तेजनम् । स्रस्तरः शयनम् । अथेति । स्थायिनः रसबीजभूताः स्थायिभावाः । एकावली एकसरो हारः । धारा खड्गाग्रम् । स्त्यानलोहितपङ्कलग्न इव, निरायतशिरातन्तुसंयत इव, मन्दमपि पूर्वच्छेदतः परेण प्रसर्तुं न शशाक निस्त्रिंशः । किमेतदिति संजातविस्मयश्च नृपतिः स्तम्भनिश्चलाङ्गुलीगाढगृहीतत्सरुं मत्सरादिवानिच्छतो मोक्तुमाच्छिद्य दक्षिणकरादितरेण पाणिना कृपाणं करविमुक्तमौलिबन्धनिरालम्बकंधरे च शिरसि निर्दयं व्यापारयितुमाहितप्रयत्नस्तत्कालमुल्लासितेन मूर्छागमेन विरलविलुप्तसंज्ञः, स्वप्न इवाकालजलधरध्वनिक्षुभितराजहंसीकुलकोलाहलध्वनिकलमश्रुतपूर्वममरसुन्दरीजनस्य हाहारवमशृणोत् ॥ तदनुसारप्रतिदृष्टिश्चाग्रतो नातिनिकटे झगिति दत्तदर्शनाम्, आक्रान्तदशदिशा शङ्खधवलेन देहप्रभाप्रवाहेण क्षीरसागरगतामिव विभाव्यमानाम्, इन्दुकरपाण्डुरत्विषि पुण्डरीके कृतावस्थानाम्, अब्जिनीखण्डसंचरणसंक्रान्तकमलधर्ममिव सुकुमारारुणं चरणद्वितयमुद्वहन्तीम्, विततमेखलागुणपिनद्धमच्छधवलं दिव्यदुकूलमम्बुजवनप्रीत्या पद्मिनीनालसूत्रेणेव कारितमलघुना जघनमण्डलेनोद्वहन्तीम्, आयतिशालिनीभिः शक्तिभिरिव वलिभिस्तिसृभिरुद्भासितेन नीतिमार्गेणेवातिसूक्ष्मदृष्टिलक्ष्येण मध्यभागेन भ्राजमानाम्, उदधिमथने सुधारसच्छटावलयमिव लग्नमानाभिलम्बं कम्बुपरिमण्डलेन कण्ठनालेन मुक्ताकलापं कलयन्तीम्, अलिकुलक्वाणमुखरया स्निग्धसान्द्रया मन्दारमञ्जर्या समाश्रितैकश्रवणाम्, शशिकलासंनिभललाटभित्तिना कौस्तुभाताम्रबिम्बाधरेण [commentary] स्त्यानः घनीभूतः । तदन्विति । आयतिः दैर्घ्यम्, भाविकालफलं च । लोचनतरङ्गः नेत्रप्रभापरंपरैव वीचिः । सुधाधवललोचनतरङ्गेण मदिरासुरभिनिश्वासमारुतामोदेन वदनेन्दुना निजसहोदरसमाजमिव समुदितं दर्शयन्तीम्, काभिश्चिदलसचलितश्वेतवालव्यजनाभिः काभिरपि करसंश्लिष्टयष्टिदीपिकाकिरणपटलपल्लवितदेहलावण्याभिः अन्याभिरात्तसदृशसितनेपथ्याभिरादिभूपालकीर्तिभिरिव समीपवर्तिनीभिरमराङ्गनाभिः परिवृताम्, प्रदोषचन्द्रकलामिव विनिद्रकोकनदविनिवेशितकराम्, धीरतरवारिवासिनीमपि प्रकटितपृथुप्रतापां श्रियमपश्यत् ॥ अनन्यदेवतासामान्यचिह्नदर्शनेन श्रीरसावित्युपजातनिश्चयोऽपि किंचिदुत्पन्नविभीषिकाशङ्कः प्राकृतामिव स्त्रियमदर्शितसंभ्रमस्तामपृच्छत् -- 'भद्रे, का त्वम् । किमर्थं वा देवतायतनमिदमागतासि' । सा त्ववादीत् - 'राजन्, न जानासि माम् । अहं हि सकलभूपालबृन्दवन्दितपादा राजलक्ष्मीस्त्वदभिकाङ्क्षितवस्तुसंपादनार्थमागता । कथय किं ते प्रियं कर्तव्यम्' इति । पार्थिवोऽपि तदवस्थानुरूपदर्शितादरः प्रणम्य तां तदागमनजन्मना हर्षेण करणवैक्लव्येन च दरस्खलितवचनः शनैरलपत -- 'भगवति, कृतार्थोऽहम् ; यस्य मे समुपस्थितायाममुष्यामन्तिमावस्थायामुपेत्य भगवत्या प्रकाशितमिदमशेषपापप्रशमनं दिव्यमात्मीयं रूपम्, अभ्युपगता च मनीषितवस्तुसिद्धिः । देवि, मेऽभिमतम् -- अमुष्य महात्मनस्त्वत्परिग्रहाग्रेसरस्य नक्तंचरपतेः प्रयोजनवशादुपदर्शितार्थिभावस्य दातुमुत्तमाङ्गं मया परिकल्पितम् । अर्धकल्पिते चास्मिन्नक [commentary] कोकनद रक्तोत्पलम्, कोकानां चक्रवाकाणां नदः आर्तध्वनिश्व, करः हस्तः किरणश्च । धीरतरं अगाधं वारि जलम्, तरवारिः खड्गश्च । प्रतापः महिमा, प्रकृष्टस्तापश्च । स्मादपगतपरिस्पन्दौ संदानिताविव केनाप्यकिंचित्करौ करौ संवृत्तौ । तदनयोर्यथा स्वसामर्थ्यलाभो भवति भूयः, तथा प्रसीद ; येनाहमनृणो भूत्वा निर्वाणमधिगच्छामि ॥' देव्यपि श्रीस्तेन तस्यातिमात्रकष्टायामपि दशायामनुज्झितावष्टम्भेन वचसा जनितविस्मया अवलोक्य तद्वाक्यश्रवणभावितानामभ्यर्णवर्तिनीनां सखीनामानन्दपुलकितानि वारं वारमास्यकमलानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गवलितायतापाङ्गस्य चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती मूर्छागमविलुप्तसंज्ञं राज्ञो वपुः पुनरवादीत् -- 'नरेन्द्र, बाढमविदितमत्स्वरूपोऽसि, तेनैवं वदसि । सर्वदा सौम्यपरिजनपरिवाराहम् । न मे नक्तंचराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य एष विकृतवेषाकारधारी वेतालबुद्ध्याध्यवसितस्त्वया, नायं यातुधानः । प्राधानभूतो मत्प्रतीहाराणां महोदरो नाम यक्ष एषः । परीक्षितुमनेन सत्वमप्रतीक्षितमदीयागतिना झगित्यागत्य सत्याभासमिदमनेकप्रकारमात्मीयया दिव्यशक्त्या विनिर्मितं मायाजालमखिलमपि ते प्रदर्शितम् । अतस्त्यज विषादम् । उत्सृज मृषागृहीतमिममात्मविग्रहस्य निग्रहविधावाग्रहम् । ब्रूहि चात्मनोऽभिलाषम् । अनेन तव सर्वातिशायिना सत्वेन साहसेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषेण पूजाविशेषेण निःशेषितप्रमादनिर्मलेन च व्रताचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन, सुकविकाव्यमिव सज्जनपरिग्रहेण, सप्रसादमपि किमपि मे प्रसादितं हृदयम् । आचक्ष्व कार्यं विचक्षण, किमद्य ते संपादयामि । [commentary] देवीति । भाविताः संतुष्टाः । सत्याभासं सत्यवत् प्रतीयमानम् । किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गत्वा गृहीतविकटप्रसाधनशुद्धान्तवनिताबृन्दपरिवृतः कनकगिरिकंदरप्रभानुलिप्तपादपेषु कल्पतरुतलनिषण्णकिंनरारब्धगान्धारग्रामगीतिरमणीयेषु सविभ्रमभ्राम्यदभ्रमुवल्लभकरावभज्यमानसंतानकसरसपल्लवेषु नन्दनवनाभ्यन्तरेषु सविस्मयत्रिदशपालिकावलोकितः क्रीडासुखमनुभवसि । अथाधुनैवाधिगतविद्याधरेन्द्रभावः संकल्पानन्तरोपनतमनल्पवातायनसहस्रालंकृतममलचीनांशुकवितानलम्बमानमुग्धमौक्तिक -प्रालम्बं विमानमधिरुह्य विदग्धवल्लभाप्तसुहृत्कदम्बकानुयातो विलोकयन्विविधान्याश्चर्याणि, सशैलद्वीपकाननामुदधिमर्यादां मेदिनीं पर्यटसि । किं बहुना । अन्यदपि यत्ते मनसि वर्तते, तत्सर्वमावेदय, येनाचिरात्संपादयामि ॥' इति वादिनीमेव तां नरपतिरुपजातसंमदः सप्रश्रयमवादीत् -- 'देवि, सर्वमुपपन्नमेतत् । किं न संभाव्यते । प्रणतसुरसहस्रमौलिविश्रान्तपादः पुरंदरोऽपि देवस्त्वत्प्रसादादासादयति सुरलोकराज्यसुखानि । सागरोऽपि त्वयि संभूतायां रत्नाकरत्वमुपगतः । तिष्ठन्तु चैते । नीचप्रकृतयोऽपि त्वया परिगृहीता जगति गुरुतां परामागता दृश्यन्ते । तथाहि -- प्राणिविशेषास्थिशकलमपि मुख्यः पावनानां शङ्खः, भुजङ्गकुलदूषितमपि वन्द्यं चन्दनम्, प्राकृतजनगृहीतदण्डमपि छायार्थिभिरुत्तमाङ्गोपरि धार्यते छत्रम् । किं च वर्ण्यते -- क्षीरजलधिगर्भसंभवा द्वितीया कामधेनुस्त्वम्, सुरद्रुम [commentary] ग्रामः स्वरसंदोहः । अभ्रमुवल्लभः ऐरावतः । त्रिदशपालिकाः देवपङ्क्तयः, देवस्त्रिय इति परे । इतीति । भुजङ्गाः सर्पाः, धूर्ताश्च । दण्डः यष्टिः, दण्डना च । सहवासिनी जङ्गमा कल्पलता । किं न प्रयच्छसि प्रसन्ना प्रणयिनाम् ; किं वा न विदधासि कल्याणमाराध्यमानानुजीविनाम् । यद्यपि त्वया कथंचिदुपजातकृपया मनोरथानामप्यपथभूताः सकललोकहृदयहारिणः सुप्रसादसदृशाः पृथक्पृथग्दर्शिताः समृद्धिविशेषाः ; तथाप्येतेषु नास्ति मेऽभिलाषः । अमुनैव पूर्वपुरुषप्रभावोपार्जितेन विभवलेशेन कृतार्थोऽहम् । न मे प्रयोजनं दिव्यजनोचितैरुपभोगैः । अथ येन केनचित्प्रकारेणानुग्राह्योऽयं जनः ; ग्राहयितव्यश्च कमप्यभिप्रेतमर्थम् ; तदलमन्येन । इदमेव प्रार्थितासि -- यथाहमेषामशेषभुवनवन्दितावदातचरितानां चतुरुदधिवेलावधिवसुंधराभुजामिक्ष्वाकुवंश्यानामवनीभृतां पश्चिमो न भवामि ; यथा च देवी मदिरावती जगदेकवीरात्मजप्रसविनीनामस्मत्पूर्वपुरुषमहिषीणां महिमानमनुविधत्ते; तथा विधेहि ।' इत्यभिधाय लज्जया किंचिदवनतमुखोऽभवत् ॥ देव्यपि श्रीरीषदवनमितवदनतामरसा अस्य वचसो विविञ्चती तात्पर्यमुज्झितायासनिस्तरङ्गतारकेण चक्षुषा क्षणमात्रमतिष्ठत् । मुहूर्ताच्च किंचिदुन्नमितवदना शरज्ज्योत्स्नाविशदेन दशनांशुजालकेन स्वमनसः प्रसादमिव दर्शयन्ती मन्दं मन्दं विजहास । व्याजहार च -- 'नरेन्द्र, निजगोत्रसंततेरविच्छेदाय मदिरावत्याः पुत्रमिच्छसीति निश्चितं मया । केवलमिदं पृच्छामि -- किमेष वक्रया वचनभङ्ग्या युक्तिगम्यः कृतोऽर्थः । पुत्रं देहि मदिरावत्या इति व्यक्तमेव किं नोक्तम् । अन्यथोक्ते कुतोऽपि वृत्तान्तमुपलभ्य समुपजातेर्ष्याः कदर्थयिष्यन्ति मामन्या अपि प्रणयिन्य इति कच्चिदाशङ्का ? न कश्चिदत्रास्ति दुर्जनः प्रतिपक्षो वा तवास्मत्परिजने, यस्तासां निवेदयिष्यति । एको महोदरः प्रयत्नेन रक्षणीयः । तेन त्वीदृशेष्वतिनिपुणदृष्टिना गोपितोऽपि गाढमवगाढस्त्वदीयालापस्य तात्पर्यार्थः । कथयिष्यति च केनापि प्रकारेण निष्कारणापकारी नियतमेष जाल्मः । प्रकृतिकेलिप्रियतया कोपयिष्यति च ताः कामम् । एवं च बुद्धिकौशलेन रक्षितमपि बलात्तवागतं व्यसनमप्रतिविधेयम् ।' इत्युक्त्वा विरराम ॥ क्षितीशोऽपि तेन प्रसादातिशयशंसिना श्रियः परिहासवादेन द्विगुणतरोपजातसंमदः स्मित्वा मन्दमवदत् -- 'देवि, प्राञ्जलोक्त्या कृतं प्रार्थनमतिव्रीडाकरमिति मन्यमानेन मया प्रयुक्तेयमीदृशी वचनयुक्तिः, न तु भयेन । त्वया हि प्रसादपरया संप्रति कृतः स्वीकारः । पुरंदरादप्यहं न बिभेमि, किं पुनर्महोदरात् । किं विलम्बते, यात्वयमिदानीमेव गुह्यकः । शक्नोति यदि न रक्षितुं गुह्यम्, आवेदयतु शतगुणीकृत्य मद्भाषितमिदम् । ता अपि सपत्नीबहुमाननिशमनोत्पन्नमत्सराः कुप्यन्तु कामं पुत्रकाम्यन्त्यः । किं मे करिष्यन्ति कुपिता अपि । मया नैव ताः प्रसादनीयाः । त्वयि कृतप्रसादायामिदानीमपगता मे तदीयचिन्ता । यथा मदिरावत्यास्तथा तासामपि त्वया पुत्रो जनयितव्यः । एवं च तत्कृता कदर्थना मे नास्ति । वृथैव मां भगवती भीषयते ।' इत्युक्तवति राजनि विहस्य जातहर्षा लक्ष्मीः पुनरवोचत् -- 'राजन्, कृतमतः परं नर्मकर्मणा । जिता त्वयाहम् । किं त्वतिमात्रचतुरोऽपि वञ्चितस्त्वमेतेन दर्शितालीकोन्नतिना महापुरुषता [commentary] क्षितीश इति । प्राञ्जलोक्तिः अनागरकवत् ऋजु कथनम् । पुत्रकाम्यन्त्यः पुत्रम् आत्मना इच्छन्त्यः । भिमानग्रहेण ; येनैवमुपदर्शितप्रसादायामपि मयि न किंचिन्त्वया प्रार्थितम् । सर्वथा यदस्ति तदस्तु । कस्ते मनोरथानां परिपन्थी भविष्यति । तवाशेषभुवनत्रयख्यातकीर्तिरार्तजनपरित्राणक्षमः क्ष्मापतिबृन्दवन्दितचरणारविन्दो मत्प्रभावादचिरेण भोक्ता भूमिगोचरखेचराधिपतिराज्ययोः प्रतापवान्पुत्रः । यस्योत्पन्नस्य भङ्गिचित्राष्टापदपादपीठप्रान्तसततनिषण्णः सविभ्रमोत्क्षिप्तैर्दक्षिणकरैः प्रचलयन्नवसरेषु वालव्यजनकानि विलासयन्त्रपुत्रिकाविदग्धतां धास्यति प्रकटिताष्टबाहुदेहद्वयो जनोऽयम् ।' इत्युदीर्य भूयो जगाद -- 'नृपचन्द्र, योऽयमसदृशस्वभक्तिहृतहृदयेन महापुरुषचित्तवृत्तिसहचरीमौचित्यमुद्रामाद्रियमाणेन चन्द्रातपाभिधानो दिव्यमुक्ताकलापः पूजार्थमुपकल्पितस्त्वया मे, सोऽनल्पमभ्युदयमभिलष्यन्त्या भवत एव मया प्रदत्तः ; सर्वथा प्रयत्नेन रक्षणीयः । यदा च नवयौवनश्रिया प्रतिपन्नसर्वाङ्गस्तवाङ्गजो भविष्यति, तदा तस्य भूषणार्थमुपनेतव्यः । यद्यपि सुचिरकालसंचितेन सततानुगामिना सद्भृत्येनेव शुभकर्मणा कृतरक्षाणां महापुरुषाणां सर्वदापि दूरवर्तीन्येव दुरितानि ; तथापि नीतिरनुसर्तव्या ; यतोऽस्य संग्रामभूमिमवतरतः, विपक्षदुर्गाणि गाहमानस्य, विषमाटवीषु कार्यवशेन विशतः, अन्येषु च संभाव्यमानापत्तिषु स्थानकेषु व्यवहरतोऽसौ विशेषतः संनिधापयितव्यः । सर्वदा निर्विघ्नमस्तु ते प्रयोजनम् । अनुजानीहि मां गमनाय । मयापि प्रसङ्गेनैव निर्गतया निजनिवासात्क [commentary] भङ्गिः शिल्परचनाविशेषः । अष्टापदं सुवर्णम् । पुत्रिका प्रतिमा । उभयोरपि पीठप्रान्तयोर्द्विधा परिकल्प्य देहमवस्थानात्, एकैकस्य बाहुचतुष्टयमिति देहद्वयस्य अष्टबाहुत्वम् । तिचिदप्यहानि दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु वेलापर्वतेषु, क्षीरोदप्रभृतिषु महार्णवेषु, नन्दीश्वरप्रमुखेषु द्वीपेषु, अन्येषु चातिरमणीयेषु प्रदेशेषु विहृत्य, भूयस्तत्रैव तुहिनाचलशिखरवनराजिराजतदर्पणे स्वसद्मनि पद्मनाम्नि महाह्रदे गन्तव्यम् । त्वमपि मदनुज्ञया गच्छाधुना स्वमावासम् । अध्यास्स्व राज्यधुराम् । आधेहि विषयोपभोगसुखेषु प्रणयम् । आत्मदर्शनामृतेन विरहाकुलीकृतप्राणाः प्रीणीहि सर्वाः प्रणयिनीः । कुरु सफलानि रङ्गशालासु लासिकाजनस्य निजावलोकनेन लास्यलीलायितानि, अपराण्यपि नियमग्रहणकालत्यक्तानि । चिन्तय निराकुलः सकलानि राजकार्याणि । अद्यैव तव मया व्यपनीतो नियमनिगडग्रन्थिबन्धः ।' इत्यभिधाय दत्त्वा च शंसितप्रभावमवतार्य करतलाद्बालारुणाभिधानं प्रधानरत्नाङ्गुलीयकम्, ईषत्प्रचलितोत्तमाङ्गा कराञ्जलिबन्धसमकालं स्मितमुखी झगित्यदर्शनमगात् ॥ गतायां च तस्यां सविषादविस्मयः स्थित्वा पार्थिवः क्षणं कोणमेकमायतनस्याश्रित्य, परिचारकैः पूर्वमेव प्रकल्पितं कुशतल्पमगात् । निषण्णस्य चास्य संजातपरमनिर्वृतेरतीतमनुष्यभावमिव देवभूयं गतमिव भुवनत्रयसृष्टिसंहारक्रियाक्षममिव देवताकृतबहुमानमात्मानं मन्यमानस्य, क्षणं शक्रावतारगमनमुत्प्रेक्षमाणस्य, क्षणं ज्वलनप्रभस्य रूपसंपदं निरूपयतः, क्षणं शक्रावतारायतनलब्धस्य मुक्ताफलहारस्य प्रभावमद्भुतं भावयतः, क्षणमात्मनः कण्ठच्छेदकर्मणि कठोराशयतां विमृशतः, क्षणमग्रतः सहसैव दर्शितदिव्यनिजरूपां राजलक्ष्मीं ध्यायतः, क्षणं तस्याः प्रकटितप्रसादातिरेकस्पृहणीयानि श्रवणामृतस्यन्दीनि जन्मफलभूतानि जल्पितानि स्मरतो विस्मयमयीव प्रमोदमयीव क्रीडामयीव धृतिमयीव हासमयीव सा विभावरी विराममभजत ॥ जातप्रभोद्भेदायां च पाकशासनककुभि, शयनादुत्थितस्य निर्वर्तितनिरवशेषप्रभातावश्यकविधेः, अवसरोपस्थायिना वारिकजनेन विरजीकृतविविक्ततलायामविरलप्रसूनप्रकरभाजि देवतागृहप्राङ्गणवितर्दिकायामुपविष्टस्यास्य, दर्शनार्थिनो महर्षयः श्रोत्रियाः प्रधानमन्त्रिणोऽमात्यवृद्धा मूर्धाभिषिक्तनृपतयो महासामन्ता ज्ञातयः सुहृदः समग्रनगरलोकाग्रेसराश्च पौराः समाजग्मुः ॥ प्रतीहारसूचिताश्च प्रविश्य यथोचितकृतप्रणामाः परिजनविश्राणितेषु यथायोग्यं स्वासनेषूपाविशन् । क्षणमात्रनिभृतैश्च तैरपूर्ववदनच्छायावलोकनोल्लसितचित्तवृत्तिभिर्देवताप्रसादविषये कृतप्रश्नः शक्रावतारगमनपुरःसरं राजलक्ष्मीस्वस्थानगमनपर्यवसानं सर्वमेव यथावृत्तं प्रदोषवृत्तान्तमकथयत् । आदिष्टान्यतमपरिचारकोपनीतं च तं त्रिदशादासादितं दिव्यहारमङ्गुलीयकं चादर्शयत् । तत्क्षणोपजातपरमप्रीतिभिश्च तैः कौतुकवशेन मुहुः कथामावर्तयद्भिः, मुहुर्महिमानमुत्कीर्तयद्भिः, मुहुः पुण्यपरिणतिं प्रपञ्चयद्भिः, विस्मयस्मेरदृष्टिभिरनेकप्रकारमभिनन्द्यमानः परां मुदमदत्त । प्रस्तुतकथाविच्छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यात्वा तिर्यग्वलितदृष्टिः, अनतिदूरोपविष्टं महोदधिनामानं प्रधानरत्नाध्यक्षमैक्षत ॥ ससंभ्रमोपसृतं च तं सादरमवदत् -- 'भद्र, चन्द्रातपाभिधानोऽयं हारः प्रतिदिवसमर्चनीयानां चिन्तामणिप्रभृतीनां प्रधानरत्नानां मध्यवर्ती कर्तव्यः । अयमपि बालारुणाख्यो दिव्याङ्गुलीयकालंकारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणापथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः । वक्तव्यश्च तत्प्रधानप्रणयी विजयवेगः -- एष यामिनीयुद्धेषु विषमशत्रुसैन्यसंनिरुद्धस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतव्यः ॥' तथेति तेनाङ्गीकृतादेशश्चोत्थाय तैः प्रधानराजलोकैः परिवृतः, प्रवर्त्यमानकुलदेवताविशेषपूजम्, अभ्यर्च्यमानमुनिजनम्, आरब्धनिर्विच्छेदसांतानिककर्मकाम्यक्रतुशालम्, आगृहीतकनकभृङ्गारेण हरितकुशगर्भपाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्त्युदकशीकरम्, अहरहः श्रोत्रियविश्राणनार्थमाह्रियमाणानां कुण्डपरिमण्डलोध्नीनां गवामुत्कर्णतर्णकानुसृताभिः परम्पराभिरापूर्यमाणबाह्यकक्ष्यान्तरम्, उपनीतकुसुमफलताम्बूलेन पुरोवर्तिना नृपतिज्ञातिलोकेन होराकृष्टिषु नियुञ्जानेन अङ्गुष्ठकादिप्रश्नं प्रति प्रवर्तयता कर्णपिशाचिकाविधानेष्ववधापयता दृष्टशुभस्वप्नफलानि पृच्छता दिवानिशमुपास्यमाननैमित्तिकम्, अवधीरितापरकथेन स्थानस्थानेषूपविष्टेन निरपत्यपूर्वनृपतिपुत्रलाभोपायप्रधानाः पौराणिककथाः प्रस्तावयता देवद्विजप्रसादादिहापि सर्वं शुभं भविष्यतीति प्रकृते योजयता राजलोकेनातिवाह्यमानदिवसम्, आप्तोपदिष्टदृष्टप्रत्ययौषधपानप्रसक्ताभिः प्रथमालापजिघृक्षया च देव्याः पुत्रो भविष्यति न वेति संनिधावेव परिचारिकाभिरनुयुज्यमानानामप्रगल्भशिशूनां भीतभीतेन मनसा वचनमाकर्णयन्तीभिः उज्झितान्यकर्तव्येन वृद्धसंप्रदायागतानि विविधौषधानि प्रयुञ्जानेन महानरेन्द्रलिखितान् मन्त्रकरण्डकानाबध्नता शुद्धान्तजरतीजनेन शश्वत्क्रियमाणगर्भग्र [commentary] तथेति । कुण्डवत् परिमण्डलं ऊधः यासां तासां कुण्डपरिमण्डलोध्नीनाम् । नरेन्द्राः मान्त्रिकाः । करण्डकः अल्पः संपुटः । एतादृशे प्रकरण एव हणोपचाराभिः पुत्रकाम्यन्तीभिरन्तःपुरकामिनीभिर्विधीयमानविविधव्रतविशेषम्, सर्वतश्च प्रशान्तेन शुचिना शुद्धवेषधारिणा परिजनेनाधिष्ठितम्, उत्साहमयमिव श्रद्धामयमिव राजकुलमव्रजत् ॥ तत्र च समाहृतसमस्तोपकरणेन परिजनेन यथाविधिविहितमज्जनोपचारः सकललोकाचारकुशलाभिः ससंभ्रममितस्ततो विचरन्तीभिर्वारवनिताभिः कृतावतरणकमङ्गलः क्षणमात्रं विलम्ब्य ताम्बूलकर्पूरातिसर्जनविसर्जितपुरोधःप्रमुखमुख्यद्विजातिः 'उत्तिष्ठत, व्रजामो देवतायतनेषु' इत्यभिदधानः संनिधानभाजं प्रणयिजनमासनादुत्तस्थौ ॥ सत्वरनिषादिढौकितकरेणुकारूढश्च पश्चादधिरूढेन ताम्बूलकरङ्कवाहिना विधूयमानचामरः पुरः प्रधावता ऊर्ध्वीकृतकनकवेत्रप्रतीहारनिर्दिश्यमानमार्गेण गृहीतविविधहेतिना पदातिनिवहेन विराजमानः, पृष्ठतः प्रचलितेन च संभ्रमोत्तालगतिना गन्धोदकक्षीराज्यदधिभृतः शातकुम्भकुम्भानुद्वहता प्रेष्यलोकेनानुगम्यमानो राजकुलान्निरगच्छत् ॥ गत्वा च शक्रावतारे प्रथममेव विहितपूजासत्कारो नगरदेवतायतनेषु सर्वेष्वानुपूर्व्या विचचार । चिरदर्शनादभिनवीभूतकौतुकस्य चास्य यदृच्छया पुरप्रासादसुरसदनकूपोद्यानवापीसहस्रसंकुलामकाल एव प्रकटितोत्सवैः पौरलोकैः प्रतिभवनमुत्तम्भिता [commentary] 'करंण्डकानुवाह' इति कादम्बरी । तत्रेति । अवतरणकमङ्गलं नाम भूतावेशदृष्टिदोषादिपरिहाराय क्रियमाणः पादादिकेशावधिवलयनात्मकः शुभाचारः । 'कृतावतरणकमङ्गला' इति कादम्बरी । नेकरागवस्त्रध्वजप्रभाविस्तारितापूर्वसंध्यामयोध्यां पुरीं पश्यतः, क्वचिददर्शनादुन्मनीभूतमानसं मान्यमृषिजनं गत्वा तदाश्रमेषु दर्शनेनानन्दयतः, क्वचिद्दर्शनपथावतीर्णेषु शीर्णदेवतायनेषु कर्मारम्भाय सपदि संपादितपूजासत्कारान्सूत्रधारान्व्यापारयतः, क्वचिदासन्नसेवकनिवेदितदानविच्छेदासु दानशालासु दीनानाथपथिकसार्थस्य सविशेषमन्नपानशयनौषधादिदानमधिकृतैः प्रवर्तयतः, मार्गघटितं च सूक्तवादिनं दरिद्रयाचकसार्थमर्थसंभारेण भूरिणा कृतार्थीकुर्वतः, तीव्रतिग्मांशुकरनिपातोपतापितः स्वदुःखमाचिख्यासुरिव प्रत्याससाद मध्याह्नसमयः ॥ क्षितिपालशिथिलितकरग्रहाः स्वेदनिःश्वासानिव समुत्स्रष्टुमुष्णान्नभस्वतः स्वैरस्वैरमारेभिरे ककुभः । तरुमूलदृश्यमानश्यामपरिमण्डलच्छायावलया बलवदातपदाहविच्छेदाय देहनिहितार्द्रपद्मिनीदला इवालक्ष्यन्त नगरोपान्तवनभुवः । पर्याकुलितपर्यन्तगृहनिवासिगणिकाजनाः सवेदनाः सुरगृहाङ्गणेषु सुखविश्रान्तदेवलकवदनवातनिर्भराध्मातकुक्षिविवराः शृङ्खलाधूतवेलाशङ्खाः प्रभिन्नशङ्खक्षरन्मदासारसिक्तराजपथाः प्रतस्थिरे जलावगाहाय सरयूमग्रतः प्रहतपटुमृदङ्गपटहाः पट्टहस्तिनः । कपाटदारुपाशकनिर्दयास्फालन [commentary] सूत्रधाराः शिल्पिनः । करः किरणः, राजग्राह्यभागश्च । क्षितीति । करग्रहः विवाहः, बलिग्रहणं च । पर्यन्तगृहं देवालयसमीपवर्ति गृहम् । देवलकः देवपूजकः । वेदनापनोदनाय मान्त्रिकैर्देवलकैः फूत्कारो मुखे क्रियत इत्याचारः । शृङ्खलाभ्यः लम्बमानाभ्यः शृङ्खलाभ्यो विधूताः आकृष्य विक्षिप्ताः वेलाशङ्काः ध्वनिभिस्तत्तत्कालसूचकाः शङ्खाः यैस्ते तथोक्ताः । शङ्खः कर्णसमीपास्थि । स्फुटितान्नाडीचक्रादस्थितो वा मदः प्रवहतीनि गजशास्त्रम् । निर्णयसागरमुद्रितपुस्तके अत्र विद्यमाना दुःसहा अशुद्धयो यथामति वारिताः । दारु- वाचालानि गृहोन्मुखापणिकसंवृतपण्यासु विपणिवीथीषु प्रत्यापणद्वारमघटन्त कालायसतालकानि ॥ क्रमेण च कठोरतां प्रपन्ने दिवसतारुण्ये, किंचिदुपरतपौरकोलाहलायां नगर्याम्, वन्दिताचार्यचरणशिष्यगणसंव्रियमाणनिजनिजपुस्तकासु क्षणमात्रप्रवृत्तयदृच्छालाभरमणीयासूत्तिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुचरगृहीततैलामलककङ्कतेषु प्रस्थितेषु स्नानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिषु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवनखण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि कबलयति तरुफलानि संवृतालापे शुकशारिकाकलापे, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः, समासादितावसरैः श्रवणमूलमागत्य मध्याह्नकृत्याय प्रवर्तितो मागधश्लोकैरधिकृतैश्च राजलोकैः, प्रववृते शनैः शनैः स्वनिवासमागन्तुम् ॥ अवहिताधोरणचालितवारणश्चोर्ध्वीकृत्य विधृतेन तत्कालमाक्रान्तचूडामणिं दिवसमणिमदृष्टपूर्वमाराद्द्रष्टुमागतेन पौर्णमासीहिमगभस्तिनेव निवारितललाटंतपातपो धवलशिलातपत्रेण, प्रथममेव सत्वरप्रविष्टैरितस्ततः प्रहितदृष्टिभिर्द्वारपालैर्निरीक्षिताशेषकक्षान्तरमन्तरिक्षोल्लेखिभिरनेकशतसंख्यैः सितप्रासादैः सर्वतः समाकुलं राजकुलमाससाद ॥ द्वारदेशे च तस्य विधृतवाहनस्तिमितमावासगमनाय तिर्य [commentary] पाशकः दारुमयी शृङ्खला । 'द्वारयन्त्रं तु तालकम्' इति हेमचन्द्रः । गुन्नमितमुखसंज्ञया प्रस्थाप्योभयतः पार्थिवसमूहम्, अन्तः प्रविश्य द्वितीये द्वारे वारणादवततार । निवारितपरिवारलोकश्च द्वारपालैः, परिमिताप्तराजपुत्रपरिवृतश्चरणाभ्यामेव गत्वा मध्यमां मण्डपिकाम्, तन्मध्यभागे तत्क्षणोपलिप्ताया निरन्तरक्षिप्तसरसपुष्करसुरभेरास्थानवेदिकायाः पृष्ठभागे प्रतिष्ठापितं दन्तपट्टमध्यास्त । व्यपास्तसकलविहारकालकल्पितवेषः प्रक्षालितचरणपल्लवश्च परिचारकगणेन, शिशिरवारिणा प्रक्षाल्य मुखेन्दुम्, अग्रतः स्थापिते मणिपतद्ग्रहके प्रक्षिप्य कतिपयानुदकगण्डूषान्, उपस्पृश्य, परिमृज्य वस्त्रपल्लवेन सहस्तपल्लवं वदनम्, आदरगृहीतजलार्द्रतालवृन्तेनान्यतमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा, अङ्गणोपान्तपुञ्जीभूतभूरिभुञ्जानकलोकम्, औत्सुक्यतरलारालिकश्रेणिसंचार्यमाणानेककाञ्चनस्थालीसहस्रम् आहारमण्डपमयासीत् ॥ तत्र नृपासनासन्ननिषण्णभिषजि संनिधापितशुकसारिकाचकोरक्रौञ्चकोकिलप्रमुखपत्रिणि यथास्थानमुपविष्टेन प्रधानपार्थिवगणेनान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वन्नन्तरान्तरा सह सुहृद्भिर्नर्म भोजनकर्म निरवर्तयत् । उपस्पृश्य च समाघ्रातधूपधूमवर्तिः, उद्वर्त्य शरीरं कर्पूरमृगनाभिसंभेदसंभृतामोदेन घ्राणेन्द्रियानन्दिना चन्दनद्रवेण, अग्रहस्तेन गृहीत्वा च ताम्बूलम्, अप्रतिकूलभाषिभिरशेषकलाशास्त्रकृतपरिचयैः परचित्तविद्भिः सुहृद्भिरनुगम्यमानः, गन्धसलिलच्छटासेकशिशिरीकृतसकलभित्तिं क्षणापतत्पवनगुञ्जन्मणिगवाक्षपुञ्जामपराह्णरम्यामावासहर्म्यशिखरप्रान्तवार्तिनीं दन्तवलभिकामगच्छत् । तत्र च सितस्वच्छमृदुदुकूलोत्तरच्छदम् [commentary] द्वारेति । पुष्करं पङ्कजम् । पतद्ग्रहः कलाची । आरालिकाः पाचकाः । उदग्ररत्नप्रतिपादकप्रतिष्ठम् उभयपार्श्वविन्यस्तचित्रनेत्रगण्डोपधानं विद्रुमदारुपर्यङ्कमधिशयानः, तत्कालसेवागतैर्गान्धर्विकोपाध्यायैः सह वेणुवीणावाद्यस्य विनोदेन दिनशेषमनयत् । अस्तशिखरपर्यस्तमण्डले च तरणौ उत्थाय कृतसकलसांध्यकृत्यो विधाय देवतासपर्यामागृहीतविकटशृङ्गारवेषः, घटितपरिवेषैः सर्वतः परिवृतः शरीररक्षाविधावधिकृतैर्वीरपुरुषैः, अनेकभङ्गरचितरङ्गवल्लीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गम्, क्वचित्सुखासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागम्, क्वचिद्वाञ्छिताधिकारसेवकचारपरिवार्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवम्, क्वचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवम्, सर्वतश्च प्रकटिताहंकारैः परुषहुंकारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयद्भिर्महाप्रतीहारैः कृतावेक्षणम्, द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वरशिरोभिर्महा- -दण्डनायकैरध्यासितमध्यम्, अतिभूयस्तया च राजलोकस्य कृच्छ्रलभ्यनिर्गमप्रवेशावस्थानमास्थानमण्डपमगच्छत् ॥ तत्र च नृपतिर्देवताराधनव्यतिकरेण चिरकाललब्धावसरम् अतिदूरदर्शितादरैः प्रधानदौवारिकैः प्रवेश्य प्रवेश्य प्रत्येकशः कारितप्रणामम् उपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां प्रधानप्रणिधिलोकम् अवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा, स्थित्वा च क्षणमास्थाने, विसर्जित [commentary] वलभिका सौधाग्रप्रदेशः । प्रतिपादकाः पादाकाराः पर्यङ्काधारभूः स्तम्भविशेषाः । पादुकेति पाठान्तरम् । नेत्रं सूक्ष्मवस्त्रम् । रङ्गवल्ली तण्डुलादिचूर्णैर्भक्तिरचना । 'आरचयन्ति रङ्गवल्लीम्' इति वामनः । दण्डः सैन्यम् । लोकः स्तोकशुचिसमाचारपरिचारकपरिवृतः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरभसदोलायमानकज्जलस्निग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारिसमूहेन च समकालमावेद्यमानवर्त्मा शुद्धान्तमगच्छत् ॥ तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृणमणिकुट्टिमे सुकल्पितास्तरणतल्पतलोपशोभिनि शय्याशिरोभागनिहितधौतकलधौतनिद्राकलशे विशालवेश्मनि कृतावस्थानाम्, व्रतचरणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीराम्, उज्झितालंकारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिव सहृदयानां हृदयमावर्जयन्तीम्, राकारजनिमिव ज्योत्स्नावदातनिर्मलाम्बरधारिणीम्, शाक्रावतारगमने सबहुमानेन वैमानिकदर्शने सविस्मयेन राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन, भाविखेचरचक्रसाम्राज्यसुतवरप्राप्त्यवसरे समारूढपरमानन्दनिष्पन्देन मनसा पार्श्ववर्तिपरिजननिवेद्यमानं पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम्, अनतिदूरवर्तिनीभिः संनिधापितसितकुसुमदामदूर्वाक्षतदधिलवाभिरमलकाञ्चनस्थालविनिहितोच्छिखज्वलत्पिष्टमय- -मङ्गलप्रदीपाभिः प्रत्यग्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिर्मुहुर्मुहुर्द्वारदेशप्रहितलोचनाभिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् ॥ दृष्ट्वा च दूरविकसितस्मितार्द्रदृष्टिस्तां ससंभ्रमकृताभ्युत्थानां [commentary] तत्र चेति । कान्तिसुकुमारतामाधुर्याणि काव्यगुणाश्च । काव्यपक्षे अङ्गं शब्दार्थौ । अम्बरं वस्त्रं आकाशश्च । चतुष्कं चतुःस्तम्भो मण्डपः । करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि हेमविष्टरे न्यवेशयत् । उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः, क्रमेणैताभिः सकललौकिकाचारकुशलाभिर्वारवनिताभिः प्रयुक्तमवतरणमङ्गलमन्वभवत् ॥ अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशलकथासु स्थित्या मुहूर्तमपसृतासु सव्याजं प्रियसहचरीषु, प्रकटिताङ्गरागशुक्तिषु प्रमृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्बूलरत्नालंकारपटलकासु निर्यातासु शुद्धान्तशय्यापालिकासु, विविक्ततामुपगते द्वारकपाटसंघटनविसर्पदगरुघनसारधूपोद्गारसौरभे दासभवने, भूमिपालस्तिर्यगावलितकण्ठकाण्डेन वदनपुण्डरीकेणे प्रत्यवयवं विलोक्य, स्पृष्ट्वा च करतलेन मन्दमन्दमानन्दनिर्यत्पुलककलिकाकोरकितानि मदिरावतीगात्राणि किंचिदाकुञ्चितेक्षणः सकृपः खिन्नाक्षरोद्गारं शनैव्याजहार -- 'देवि, दृढमायासितासि । मयैव गाढकृतनिश्चयेन त्वदर्थसिद्ध्यर्थमध्यवसिते देवतासमाराधनविधौ किमिति निष्कारणमियन्ति वासराणि प्रकृतिकर्कशजनोचितैर्व्रतकर्मभिः कदर्थितोऽयं सततसुखोचितस्त्वयात्मा । किमर्थमेषा मदङ्कशय्याशयनलालिता ललिताङ्गि, शायिता निरावरणासु स्थण्डिलस्थलीषु स्थलारविन्दकेसरसरससुकुमारा काययष्टिः । अहो ते बालिशत्वम् । अहो अनालोचकत्वम् । अहो यदृच्छाकारिता ।' इत्यभिधाय सत्वराकृष्टसंनिकृष्टविलासोपकरणपटलकः सविलेपनां सालंकारां सतिलकां सावतंसां [commentary] अथेति । पटवासः सुगन्धचूर्णम् । पटलकं परिमण्डलः पात्रविशेषः । सशेखरां स्वकरेण तां चकार ॥ दृष्ट्वा च विरतानमेषया दृष्ट्या सुचिरम्, अतिचारुणा तेन वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत । तत्रैव च तया सह सुष्वाप ॥ स्वल्पावशेषायां च क्षपायाम्, अधोमुखविषाणकोटिनोर्ध्वचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये व्रजत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके चन्द्रमसि, प्रतिवेलमुन्नतानतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, राजा राजतगिरिशिखरमधिरूढायाः श्वेतवसनस्रग्विलेपनालंकारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितं कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् ॥ उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमतरमुत्थितायाः 'देवि, संपन्नास्ते गुरुजनाशिषः । प्रसन्ना समासन्न एव देवी राजलक्ष्मीः । भविष्यत्यशेषभूभृच्चक्रचूडारत्नमचिरेणैव सूनुः ।' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे । सापि बद्धावधाना सविस्मयव्रीडमवनतेन शिरसा तमश्रौषीत् ॥ आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वावयवा च प्रतिपन्नेव सद्यो गर्भेण द्विगुणमुपजातशोभा तत्क्षणमजायत । स्थित्वा च किंचित्कालं प्रस्थिते राज्ञि, निर्गत्य रतिगृहाद्यथाक्रियमाणमुचि- तव्यापारमन्वतिष्ठत् । अनतिबहुषु च व्यतीतेष्वहस्सु, ऋतौ स्नाता शरद्दिवसकरमूर्तिरिव भास्वरं तेजो बभार गर्भमुदरेण । चलितुमसहापि खेलालसं पदन्यासमकरोत् । कृष्णतारोचितामपि क्षीरधवलामधत्त दृष्टिम् । सततमात्मनाधःकृतस्य मध्यस्य गौरवं पश्यन्तौ श्लथत्वमासेदुषो दयितनिर्दयाश्लेषसुखरसस्य च स्मरन्तौ शुचेव श्याममुखतां जग्मतुः स्तनौ । अनपत्यतादर्शनदुःखतप्तां निर्वापयितुमिव बन्धुतामायताः प्रसस्रुः पदन्यासेषु निःश्वासाः । प्रतिदिवसमुपचीयमानगर्भा च सा सकललोकाश्चर्यकारिणोऽभिलाषविभ्रमानभृत । तथा हि -- वासभवनाङ्गणभ्रमिषु खिन्ना शरदा प्रसन्ने मानससरःपयसि ससखीजना स्नातुमियेष । विबुधवृन्दपरिवृता शाश्वतेषु सागरान्तरद्वीपसिद्धायतनेषु सांध्यमारब्धमप्सरोभिः प्रेक्षानृत्यमीक्षितुमाकाङ्क्षत् । अपास्तरणपरिकरं प्रकामगुणवन्तमपि भृत्यलोकं पर्यङ्कमिव सावज्ञमैक्षत । सर्वदिग्व्यापिना पत्युरपि प्रतापेन समतप्यत । कृतापकारेऽपि करुणापरा प्राणिनिवहे बभूव ॥ पूर्णेषु च क्रमेण किंचित्सातिरेकेषु नवसु मासेषु, सारतिथिवारकरणाश्रितेऽतिश्रेयस्यहनि, पुण्ये मुहूर्ते, यथास्वमुच्चस्थानस्थितैः कौतुकादिव शुभग्रहैरवलोकिते विशुद्धे लग्ने, लग्नचारुतादर्शनजातपरितोषायामिवोर्ध्वमुख्यां होरायाम्, अग्रत एव जातेन सहितमखिलप्रजाप्रमोदेनाद्वितीयरूपमजनयत्तनयम् ॥ [commentary] आनन्देति । खेलालसं लीलामन्दम्, खे आकाशे लालसं उत्सुकं च । कृष्णा तारा कनीनिका, कृष्णतया नीलिम्ना रोचिता च । बन्धुता बन्धुसमूहः । अपास्तः रणपरिकरः, अपगतः आस्तरणपरिकरश्च यस्य तम् । उत्पन्नमात्र एव च कार्यान्तरनियन्त्रितोऽप्यननुपालितपरस्परः प्रकटितसंभ्रमः पूर्णपात्रग्रहणाय भूमिपालाभिमुखमचलत् सकञ्चुकिकिरातकुब्जक्षुल्लमूकवामनोऽनेकशतसंख्यः शुद्धान्तवारस्त्रीजनः । प्रमुदितपौरजनजयजयारावपीवरः, आदिशन्निव रङ्गवल्लीयोग्यरत्नानयनाय पृथ्वीतलोपान्तेषु पाथोनिधीन्, बभ्राम मथनभ्रान्तमन्दरविघूर्णितमहार्णवध्वानघर्घरो जगति नान्दीघोषः । प्रसर्पन्नितस्ततः प्रस्तुतपरीहास इव तत्कालमधिगतविकासासु प्रमुदितास्विव दिक्षु चिक्षेप पिष्टातकपिञ्जरं सरोजकिञ्जल्कजालमुन्नानानिलः । प्रचलितारुणपाणिपल्लवम्, आन्दोलितालिनीलालकभङ्गम्, आभङ्गुरमुरोजस्तबकभारेण, रणरणितताररत्नाभरणमालम्, अनिलाहतकल्पलतावनमिव ननर्त सान्तःपुरं नगरनारीवृन्दम् ॥ अवनीश्वरोऽपि परमोत्पन्ननिर्वृतिः जलकटाहक्रोडनिक्षिप्तनाडिकानिहितचक्षुषा गणकनिवहेन निश्चित्य देव्याः प्रसवलग्नमागतेन मुहुर्मुहुरनेकप्रकारैः कृतोपवर्णनमाकर्ण्य जन्मग्रहबलं बालकस्य, कृतमज्जनादिकृत्यः, शुभे मुहूर्ते निवर्तितानुचरलोकः, परिगतप्रान्तमुत्खातखड्गैः समन्ततो वीरपुरुषैः, प्रशस्ततरुपल्लवास्तृतमुखेन द्वारशाखासङ्गिना मङ्गलकलशयुगलेनावभासितम्, साशीर्वादमन्तःप्रकीर्णकुसुमाक्षतकणाभिर्बन्धुवृद्धाभिराबद्धमङ्गलगीतकोलाहलम्, अदत्तबाह्यपरिजनप्रवेशेन प्रशस्तालापिना सकललौकिकाचारकुशलेन 'कुरुत हरिचन्दनोपलेपहारि मन्दिराङ्गणम्, दत्त द्वारि नूतनं चूतपल्लवदाम, कारयत सर्वतः शान्तिसलिलक्षेपमकृतकालक्षेपम्, [commentary] उत्पन्नेति । पूर्णपात्रम् -- 'हर्षादुत्सवकाले यदलंकाराम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ।' आहरत भगवतीं षष्ठीदेवीम्, निधत्त पर्यन्तेषु शयनस्य सद्योऽभिमन्त्रितां रक्षाभूतिरेखाम्' इत्यादि जल्पता तल्पनिकटोपविष्टेन शुद्धान्तजरतीजनेन क्रियमाणविविधशिशुरक्षाविधानम्, अधिकोदञ्चितात्मभिरचञ्चलावस्थानैरुत्थाय विस्मितैरिव त्रिभुवनातिशायिशोभमर्मकरूपमवलोकयद्भिर्मङ्गलप्रदीपैः प्रकाशिताभ्यन्तरं प्रियायाः प्रसूतिगृहमविक्षत् ॥ प्रविश्य च सतर्षमुद्भूतप्रहर्षस्मितो विस्मयस्तिमितपक्ष्मणा लोचनयुगेन स्फुटविभाव्यमानसकलचक्रवर्तिलक्षणां प्रतिक्षणमवलोक्य सूनोस्त्रिभुवनविलक्षणामवयवश्रियम्, अमन्दनिर्गतानन्दाश्रुबिन्दुरप्रतिपादनीयां सुखमयीं कामपि दशां प्राप । निर्गत्य च विमोचिताशेषबन्धनः सदृशमाधिपत्यस्य भूतेरुदारतायाः प्रमोदस्य च निजस्य विस्मापितजगत्त्रयं मासमात्रमनुदिवसमुत्सवमकारयत् ॥ अतिक्रान्ते च षष्ठीजागरे, समागते च दशमेऽह्नि, कारयित्वा सर्वनगरदेवतायतनेषु पूजाम्, मानयित्वा मित्त्रज्ञातिवर्गम्, अभ्यर्च्य गुरुजनम्, दत्वा समारोपिताभरणाः सवत्साः सहस्रशो गाः सुवर्णं च प्रचुरम् आरम्भनिःस्पृहेभ्यो विप्रेभ्यः, स्वप्ने शतमन्युवाहनो वारणपतिर्दृष्ट इति संप्रधार्य, तस्यैव स्वप्नस्य सदृशमात्मीयनाम्नश्चैकदेशेन समुदायवाच्येन चार्थेन समर्थितानुहारं हरिवाहन इति शिशोर्नाम चक्रे । क्रमेण च प्रसवदिवसादारभ्य तत्कालोपजातप्रसवाभिरव्यङ्गनीरोगाङ्गयष्टिभिराप्ततया निपुणमवधृताभिर्धात्रीभिरनवरतमुपचर्यमाणस्य, शुद्धपक्षचन्द्रमस इव प्रतिदिवसोपचीयमानदेहा- वयवकान्तेः, अखिलवेदोक्तविधिविदा वेधसेवापरेण स्वयं पुरोधसा निर्वर्तितान्नप्राशनादिसकलसंस्कारस्य, प्रकटितसंभ्रमाभिरन्तःपुरिकाभिराहूयाहूय गाढमाश्लिष्यमाणस्य, स्थानस्थानारोपितमहाप्रभावानेकमणिभिः प्रधानभूषणैः प्रसाधितललितसर्वाङ्गस्य धृतायुधान्तर्वंशिकव्रातसततानुगम्यमानमार्गस्य, स्वभावरम्येषु मणिकुट्टिमेषु क्रीडाशैलकटकेषु नन्दनवनप्रासादकेषु कृत्रिमापगापुलिनेषु च कपोलदोलायमानकमनीयकाकपक्षैः क्षितिपालदारकैः सह क्रीडासुखमनेकप्रकारमनुभवतो निरङ्कुशप्रचारस्य पञ्च वर्षाणि तस्यान्तःपुरेऽतिचक्रमुः ॥ अवतीर्णे च षष्ठे, किंचिदुपजातदेहसौष्ठवस्य, व्यक्तवर्णवचनप्रवृत्तेः, विनयारोपणाय राजा राजकुलाभ्यन्तर एव कारितानवद्यविद्यागृहः सम्यगावेशितगुरुकुलानामवगताखिलशास्त्रमर्मनिर्मलोक्तियुक्तीनामाम्नायलब्धजन्मनामसन्मार्ग- -गतिनिसर्गविद्विषां विद्यागुरूणामहरहः संग्रहमकरोत् । उपनिन्ये च तेभ्यः शोभनदिनमुहूर्ते निर्वर्तितसमस्तेतिकर्तव्यः प्रत्युरसमामुक्तमुक्ताकलापम्, अवदातवेषतया सविशेषदर्शितादरमभ्युत्थितायाः पुरः सरस्वत्याः सितांशुधवलया शरीरच्छाययेव च्छुरितमात्मजम् । अवनिपतिपूजाविशेषवर्धितप्रीतयश्च ते तन्निर्विशेषदर्शिनः प्रेमपुरःसरमशेषाण्यपि शास्त्राणि तस्मै क्रमेणोपादिक्षन् ॥ कुमारोऽपि सतताभियुक्ततया गुरूणाम्, कुशाग्रीयतया च निजबुद्धेः, अल्पेनैव कालेन तेषामभ्यन्तरोऽभवत् । अमुक्ताभियोगश्च दशभिरब्दैश्चतुर्दशापि विद्यास्थानानि सह सर्वाभिरुपवि [commentary] प्रत्युरसं वक्षसि । 'प्रतेरुरसः --' इति समासान्तः । द्याभिर्विदांचकार । कलाः शास्त्रं च निरवशेषं विवेद । विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप । भुजबलं चास्य विस्मापितसुरासुरं केसरिकिशोरस्येव सहजमभवत् । आरब्धकार्यस्य त्रिभुवनेऽप्यशक्यं किमपि न प्रायेणाभूत् । एवं च परिणताशेषशास्त्रम्, आसादितसकलास्त्रविद्यान्तरम्, उपलब्धसर्वबुधजनसाधुवादम्, आरूढनवतारुण्यलक्ष्मीलब्धपरिपूर्णसर्वावयवशोभम्, अनुमोदितविद्यं गुरुजनेन हरिवाहनम्, अतिक्रान्ते षोडशे वर्षे हर्षनिर्भरो राजा विसर्जितैराकारणाय सादरमुदाराकारवेषैः प्रधानपुरुषैरनुगम्यमानमतिभूयसा विभवेन स्वभवनमानिनाय । निर्वर्तिताखिलगृहप्रवेशमङ्गलश्चास्य नगरबाह्यायाम् अलघुवप्रालंकृतप्राकारलङ्घिताभ्रम्, अदभ्रतोरणस्तम्भम्, उभयतो निखातशातकुम्भपूर्णकुम्भोद्भासितद्वारदेशम्, अनेकगजतुरङ्गशालाभिरामं कुमारभवनमकारयत् । कर्तुकामश्च यौवराज्याभिषेकम्, तस्य साहायकार्थमाज्ञाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेनापरैश्च त्यागशौर्यगाम्भीर्यादिभिः प्रभुगुणैर्धृतानुकारमुर्वीपतिकुमारमादरप्रेषितैः प्रणिधिपुरुषैरनिशमुर्व्यामन्वियेष ॥