THE WORKS OF SRI SANKARACHARYA. VOLUME A 茶茶茶茶茶茶茶茶 SRI VANI VILAS PRESS नानाजन्मसु संचितेन तपसा पूतन चित्तात्मना • मित्रेण प्रतियोचितेन कुत्कुत्सवः कृती: शांकरीः । समुद्र प्रथमं जगद्गुरुपदे भक्त्या मयाचार्पिताः स्वीकृत्य करोतु गुरुराड़ धन्यं तथेमं जनम् ॥ श्रीमच्छंकर देशिकेन्द्ररचितान्सर्वान्प्रबन्धान्मुदा तत्प्रात्यं परिशोध्य पुस्तकचयः संमुख साकं बुधैः । तच्छात्रप्रवरादिमध्यविलमच्छी देशिकेन्द्रेषु - स्कृत्वाद्योपहृति पक्तिविनयं नूनं कृतार्थोऽस्म्यहम् । सौम्यादमावार्जुनपक्ष राजत्सूर्याङ्कतिथ्याश्रितसोमवारे । श्रीशंकराशतिमा प्रतिष्ठाकाले मयेोपहृतिव्यंधायि ॥ श्रीशंकरकृतिमाया गुरुवरतुष्ट्यं समर्पिता मदाता । बालादिद्भाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥ CONTENTS. BRIHADARANYAKOPANISHAD-BHASHYA. CHAPTER III. CHAPTER IV. PAGE. 351-681 351 491 : ॥ विषया: 11 पृष्ठभू बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ३५१-६८१ चतुर्थोऽध्यायः ་་་་་ P THE UPANISHAD-BHASHYA VOL. 6. BRIHADARANYAKA CHAPTERS III & IV. 4444 ॥ । ॥ उपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । षष्ठो भागः ॥ बृहदारण्यकम् ॥ अध्याय ३ - ४. ॥ श्रीः ॥ ॥ विषयानुक्रमणिका ॥ तृतीयोऽध्यायः प्रथमं ब्राह्मणम् पृष्ठम् ३५१ - ४९० ... ३५३- ३७० ... अतीतेनागमप्रधानेन मधुकाण्डेन उपपत्तिप्रधानस्यास्य याज्ञवल्क्यकाण्डस्य पुनरुक्तिशङ्कानिराकरणपूर्वकं तत्त्व- ज्ञाने आगमोपपत्त्य आवश्यकत्वप्रतिपादनम् आख्यायिका तु ब्रह्मविद्यास्तुत्यर्था, विद्याग्रहणोपायभूत- दानविधिपरा, ब्रह्मविद्भिः सह संयोगः विद्याप्राप्त्युपा- यः इति प्रदर्शनपरा च इति कथनम् ... सार्वभौमस्य जनकस्य स्वयज्ञे समागतेषु ब्रह्मवित्सु अनू- चानतमः क इति जिज्ञासया तन्निर्णयाय स्वगोष्ठे साल- कारगोसहस्रावरोधनप्रदर्शनम् ततो ब्राह्मणान्प्रति यो वो ब्रह्मिष्ठः तस्यैतद्गोसहस्रमिति जनेकेनोक्ते इतरेष्वप्रगल्भेषु चतुर्वेदी याज्ञवल्क्यः स्वी- यब्रह्मचारिणं गवानयने आज्ञापयामास ततः क्रुद्धेषु S. B. U. II. () [ २ ] ... ब्राह्मणेषु कश्चित् होता अश्वलो नाम ब्रह्मिष्ठाभिमानी याज्ञवल्क्यं प्रष्टुमुपचक्रमे इति प्रतिपादनम् मधुकाण्डव्याख्यातोद्गीथोपासनस्यैवायं विस्तरः इति सं-- गतिप्रदर्शनपूर्वकं स्वाभाविकाज्ञानासहप्रयुक्तात् कर्म- स्वरूपान्मृत्योः केन साधनेन यजमानस्यातिमुक्तिः- इति अश्वलप्रश्नमुपन्यस्य वाचि होतरि च अनिदृष्टया इति समाधानम् ... ३५७ काललक्षणान्मृत्योः किमतिमुक्तिसाधनम् इति प्रश्नस्य चक्षुरादौ आदित्यादिदृष्टिरिति उत्तरम् ... कर्मफलं प्रतिपद्यमानो यजमानः केनावष्टम्भेन तत्प्रा- नोति इति प्रश्नस्य मनसि ब्रह्मणि च चन्द्रमादृष्टया- इति समाधानम् अल्पीयः सु कर्मसु महतां कर्मणां तर्फलस्य वा केनचि- त्सामान्येन अभेदध्यानात्मकानि संपदुपासनान्युच्यन्ते इति कथनम् ऋगाहुतिमनःप्रभृतिषु संपदुपासनोपन्यासः अश्वलप्रश्नोपरमोपपादनम् द्वितीयं ब्राह्मणम् -- आर्तभागयाज्ञवः ल्क्यसंवादः ३७१ - ३८४ बन्धज्ञानं विना ततो विश्लेषायोगात् मुमुक्षुः सप्रयोजक- ग्रहातिग्रहलक्षणमृत्युरूपबन्धज्ञानाय अनन्तरब्राह्मणप्र- [ 2 ] वृत्तिरिति वृत्तानुवादपुरःसरं संबन्धकथनम् कति ग्रहाः कत्यतिग्रहाः - इति आर्तभागप्रश्नस्य प्राणा- दयस्त्वगन्ता अष्टौ ग्रहाः, गन्धादयस्पर्शान्ता अष्टौ अतिग्रहाः -- इति समाधानम् उक्तग्रहातिग्रहलक्षणमृत्योः को मृत्युरिति प्रश्नस्य परमा- त्मदर्शनमित्युत्तरम् ... परमात्मदर्शनेन मुक्तस्य विदुषः मृतौ प्राणानामुत्क्रमण- मस्ति न वा- इत्यादिप्रश्नस्य, नास्त्युत्क्रमणम्, आ- त्मन्येव तेषां प्रविलयः- इत्यादिसमाधानम् ... अविदुषः मृत्यनन्तरं पुनः कार्यकरणसंघातोपादानस्य प्रयोजकं किमिति प्रश्नस्य कर्म इत्युक्ते समाधाने आर्तभाग उपरराम इति प्रदर्शनम् तृतीयं ब्राह्मणम् - भृज्युयाज्ञवल्क्य- संवादः ... ३८५- ३९९ पुण्यपापरूपकर्मणां बन्धहेतुत्वे उक्ते पापफलस्य दुःखब- हुलस्य लोकप्रसिद्धत्वेन शास्त्रैकगम्यं पुण्यफलं प्रति- पादयितुं मोक्षस्य पुण्यफलत्वं निरसितुं च उत्तरं ब्राह्म- णमिति वृत्तानुवादपूर्वकं संबन्धकथनम् विद्यासहितस्य कर्मण एव मोक्षजनकत्वमिति केषां चित् मतमुपन्यस्य नित्यसिद्धात्मस्वरूपमोक्षस्य जन्यत्वं न सं- भवतीति तन्मतदूषणपूर्वकम्, कर्म अज्ञाननिवृत्तिसा- [ ४ ] घनीभूतज्ञानसाधनं भविष्यतीति स्वमतप्रपञ्चनम् ... अश्वमेधयाजिनः क्वाभवन्निति अश्वमेधयाजिनां गम्य- स्थाने भृज्युना पृष्ठे हैरण्यगर्भे पदमेव तेषां गम्यस्थान- मिति महर्षि याज्ञवल्क्येन समाहिते भृज्योः तूष्णीमव- स्थानकथनम् चतुर्थ ब्राह्मणम् - उषस्तयाज्ञवल्क्य - संवादः ... ४००–४०६ यत् ब्रह्म द्रष्ट्रात्मकमगौणम्, यः सर्वान्तर: आत्मा, तं मे विस्पष्टं कथय — इति उषस्तिप्रश्नस्य -- यः कार्य- करणसंघातं तद्विलक्षण: सन् चेष्टयति, स आत्मेति आत्मास्तित्वमुक्त्वा घटादिवत्तस्य प्रत्यक्षतो विषयक - रणं तु तत्साक्षित्वादशक्यम् - इत्यादिसमाधानोपन्यासः ४०० पञ्चमं ब्राह्मणम् - कहोलयाज्ञवल्क्य - संवादः ... ४०७-४२१ ... बद्धस्य बन्धमोक्षसाधनं ससंन्यासमात्मज्ञानं वक्तव्यमिति उत्तरारम्भः इति वृत्तानुवादपूर्वकं संबन्धकथनम् यदेव साक्षादपरोक्षाद्ब्रह्म, य. आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति कहोलप्रश्नमुपन्यस्य, तस्य क्षेत्रज्ञविषयात् उषस्तप्रश्नात् परमात्मरूपार्थपरत्वमिति मतान्तरोप- न्यास: [4] प्रश्नप्रतिवचनयोरैकरूप्यादिना अर्थान्तरपरत्वं न संभव- तीति तन्मतदूषणपूर्वकं पूर्व पृष्टस्यैव अशनायाद्यतीत- त्वादिविशेषो वक्तव्य इति पुनः प्रश्नः- इति स्वम- तोपन्यासः - ... आत्मनः परमार्थतः अशनायादिसर्वधर्मातीतत्वमुपपाद्य तमेतमात्मानं विदुषः त्रिविधैषणाभ्यो व्युत्थानरूपसं- न्यासविधिनिरूपणम् 6 ... ' व्युत्थाय अथ भिक्षाचर्ये चरन्ति' इत्यस्य विधायकप्र- त्ययाभावेन अर्थवादत्वमेवेति शङ्कायाः, औदुम्बरो यूपो भवति' इतिवत् अज्ञातार्थत्वेन पञ्चमलकारत्व- निश्चयात् विधायकत्वोपपत्ति:- इति निरसन पारिव्राज्यस्य मुख्यामुख्यभेदेन द्वैविध्यकथनम् सर्वकर्मपरित्यागरूपमुख्यसंन्यासविशिष्टेन अशनायादिसर्व- धर्मातीतात्मस्वरूपविज्ञानेन ब्राह्मणः कृतकृत्यो भवति, अतः स एव विज्ञेयः इत्युपपादनम् षष्ठं ब्राह्मणम् - गार्गीयाज्ञवल्क्यसं- वादः ... ... ४२२-४२५ उक्तस्य सर्वान्तरस्यात्मनः स्वरूपाधिगमाय उत्तरो ग्रन्थः इति संबन्धकथनम् ... गार्ग्याः स्थूलप्रपञ्चकारणपरम्पराप्रश्नः, याज्ञवल्क्येन त- त्तत्कारणनिरूपणक्रमेण अण्डारम्भकभूतपर्यन्तकारण- निरूपणं च [ ६ ] सप्तमं ब्राह्मणम् - उद्दालकयाज्ञव- ल्क्यसंवादः ४२६–४३८ सूत्रात्मनः अन्तर्यामिणश्च आचार्योपदेशैकगम्यत्वख्याप- नाय इतिहासपुरःसरं कः सूत्रात्मा कश्चान्तर्यामी- इति उद्दालकप्रश्नोपन्यासः " - यत् सर्वभूतसंदृब्धिहेतुभूतं वाय्वात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि, तत् सूत्रम् यः सर्वप्रपञ्चाभ्य- न्तरः सर्वैरवेद्यः सर्वनियन्ता अमृतः आत्मा, सः अ- न्तर्यामी — इति च याज्ञवल्क्यप्रतिवचनोपन्यासः अष्टमं ब्राह्मणम् - गार्गीयाज्ञवल्क्य- संवादः ४३९—४५४ पूर्व याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती गार्गी पुनः ब्राह्मणानुज्ञापुरःसरं प्रश्नद्वयं प्रष्टुमुत्थितवती --इत्युपपादनम् ... सर्वे जगत् यस्मिन् सूत्रसंज्ञके एकीभवति, तत्सूत्रं कस्मि- नोतं च प्रोतं च- इति प्रथमस्य गार्गीप्रश्नस्य, अ- व्याकृताकाशे - - इति याज्ञवल्क्य प्रतिवचनम् स चाव्याकृताकाशः कस्मिन्नोतश्च प्रोतश्च इति द्वि- तीय प्रश्नस्य — अक्षरे परब्रह्मणि - इत्युत्तरमुक्त्वा तस्य चाक्षरस्य ' अस्थूलम् ' इत्यादिना निषेधमुखेन अस्ति- त्वोपपादनम् ... ४४ १ [ ७ ] तस्यैवाक्षरस्यास्तित्वसिद्धये जगद्वयवस्था प्रशासितृपूर्वि - का, व्यवस्थात्वात् राजव्यवस्थावत् - इत्याद्यनुमानोप- न्यासः मोक्षहेतुज्ञानविषयत्वेनापि तदस्तित्वोपन्यासः ... ... दुरुत्तरस्य प्रश्नद्वयस्य समाधाने दत्ते, न कोऽपि युष्मा - कं मध्ये याज्ञवल्क्यस्य जेता विद्यते इति — ब्राह्मणा- नुक्त्वा गार्गी उपरराम इत्युपपादनम् - नवमं ब्राह्मणम् -- शाकल्ययाज्ञवल्क्य- संवादः ... ४५५-४९० ब्रह्मणः सर्वनियन्तृत्वस्योक्तत्वात् नियन्तव्यदेवताभेदसं- को विकासद्वारा तस्यैव साक्षादपरोक्षत्वे अधिगन्तव्ये ाकल्यब्राह्मणारम्भः— इति वृत्तानु - • इत्येतदर्थे वादपूर्वकं संबन्धकथनम् शाकल्यकृतस्य देवतासंकोचविकासप्रश्नस्य- - प्राणान्तः संकोचः आनन्त्यपर्यन्तो विकास इति संकोचविका- साभ्यां प्राणस्वरूपोक्त्या प्रतिवचनम् तस्यैव प्राणस्य ब्रह्मणः देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्यावस्थितस्य उपासनार्थ पुनः अ- ष्टधा भेदोपदेशः ... अथ याज्ञवल्क्योक्तं स्वानिष्टबोधकमपि वाक्यमन्यथा प्र- तिपद्य शाकल्येन दिग्विज्ञानविषये कृतस्य प्राच्यां का [<] - आ- देवता दिगात्मनस्तवाधिष्ठात्री इत्यादिप्रश्नस्य- दित्यदेवता — इत्याद्युत्तरमुपन्यस्य, अन्ते स एष नेति नेत्यात्मा' इत्यात्मस्वरूपोपदेशः ... अथ औपनिषदः पुरुषः क इति याज्ञवल्क्यप्रश्नस्य उत्तरं वक्तुमशक्त्या शाकल्य मूर्धपातवर्णनम् ... अथ ब्राह्मणान्प्रति याज्ञवल्क्येन यो वः कामयते स मा पृच्छतु - इत्युक्ते, तेष्वप्रगल्भेषु पुनस्तान्प्रति जगन्मूल- प्रश्ने कृते तैस्तदज्ञानात् जिता ब्राह्मणा याज्ञवल्क्येन नीतं च गोधनं तेनैवेति आख्यायिकासमाप्तिप्रदर्श- नम् ... ' विज्ञानमानन्दं ब्रह्म' इति श्रुत्या विधिमुखेन ब्रह्मण उप- देश: विचारपूर्वकं ब्रह्मानन्दस्य संवेद्यत्वाभावसमर्थनम् चतुर्थोऽध्यायः प्रथमं षडाचार्यब्राह्मणम् ... ४९१ – ६८१ ४९३ - ५०४ उपदिष्टस्यैव ब्रह्मण अधिगमने उपायान्तरस्य प्रदर्शना- र्थमयमारम्भ इति वृत्तानुवादपूर्वकं ब्राह्मणद्वयस्य संब- न्धकथनम् ... स्वसभागतयाज्ञवल्क्यं प्रति किमर्थमागमनं पश्विच्छया सू- क्ष्मवस्तुनिर्णयान्तप्रश्नश्रवणेच्छया वा- इति जनके- नोक्ते उभयार्थमिति याज्ञवल्क्योक्तिः ... [ ९ ] जनकं प्रति परैरुपदिष्टस्य ज्ञानसाधनस्य वागाद्यधिष्ठातृ- देवतासु ब्रह्मोपासनस्य याज्ञवल्क्येन विशेषणानामुपदे- शेन संपूर्णोपासनोपदेशः द्वितीयं कूर्चब्राह्मणम् ... ५०५-५११ विश्वतैजसप्राज्ञविज्ञानोपपादनपूर्वकं तुरीयबह्मप्रतिपत्ति- प्रकारोपन्यासः ... तृतीयं ब्राह्मणम् ५१२ – ६०० जाग्रत्स्वप्नसुषुप्त तुरीयोपन्यासानन्तरं जाग्रत्स्वप्नादिद्वारेणैव महता तर्केण विस्तरेण तस्यैव प्रस्तुतस्य ब्रह्मण अधि- गमः कर्तव्यः, ब्रह्मणश्च व्यतिरिक्तत्वशुद्धत्वादिकं प्रद- र्शनीयमित्येतदर्थमुत्तरारम्भः - इति वृत्तानुवादपूर्व- कसंबन्धकथनम् जनकं द्रष्टुं गतस्य न वदिष्ये -- इत्येवं संकल्पस्यापि याज्ञवल्क्यस्य पूर्वमेव राजे कामप्रदानाख्यवरस्य दत्त - त्वेन संकल्पितान्यथाकरणोपदेशः किं ज्योतिरयं पुरुषः - इत्यादिजनककृतप्रश्नानाम् - आदित्यज्योतिः- इत्यादियाज्ञवल्क्यदत्तोत्तरोपन्यासः ५१४ -- आदित्यादिवागन्तेषु ज्योतिः षु अस्तमितेषु किं ज्योतिरयं इति जनककृतप्रश्नस्य, आत्मैवास्य ज्योतिः पुरुष:- इति याज्ञवल्क्यप्रतिवचनोपन्यासः [१०] कार्यकरणसंघात एवात्मा — इति लोकायतमतमुपन्यस्य, स्वप्नस्मृत्यादिसिद्ध्यनुपपत्त्या देहातिरिक्त आत्मा अभ्यु- पगन्तव्यः इति सिद्धान्तोपन्यासः - ** कतम आत्मा - इति जनकप्रश्नस्य- योऽयं विज्ञान- मयः इत्यादियाज्ञवल्क्योत्तरम् - ... जाग्रत्काले आत्मज्योतिष: मुञ्जेषीकावत् निष्कृष्य दर्शयि- तुमशक्यत्वात् स्वप्ने स्वयंज्योतिष्टुप्रतिपादनम् धीव्यतिरिक्त आत्मा नास्त्येव, धीव्यतिरिक्ता बाह्यार्था अपि न सन्त्येव -- इत्यादि सौगतपक्षमुपन्यस्य, अवभास्यस्यैव अवभासकत्वं न संभवति इत्याद्यनेकयुक्तिभिः तत्ख- ण्डनपूर्वकं धीव्यतिरिक्तात्मव्यवस्थापनम् विशेषतः स्वप्नावस्थोपपादनपूर्वकम् आत्मनः स्वयंज्यो- तिष्टस्यैव विस्तरेणोपपादनम् स्वयंज्योतिष्ट्वाद्युक्तार्थप्रतिपादकमन्त्रार्थविवरणम् ... स्वप्ने कार्यकरणव्यावृत्तस्यापि मोदत्रासादिदर्शनात् नैवायं मृत्युमतिक्रामति, अतो विमोक्षाय ब्रूहि - इत्येवं जनकपर्य- नुयुक्तयाज्ञवल्क्येन सुषुप्ते आत्मनो मोदत्रासादिराहित्य- प्रतिपादनपूर्वकमसङ्गत्वोपपादनम् स्वप्ने कर्तृत्वाभावात् जागरिते च कारकावभासकत्वेन कर्तृत्वोपपत्तेः स्वतः कर्तृत्वाभावात् असङ्गत्वोपपादनम् ५५८ उक्तार्थे महामत्स्यदृष्टान्तप्रदर्शनम् श्येनवाक्येन आत्मनः सौषुप्तरूपोपन्यासः [ ११ ] आत्मनः परोपाधिकृतं संसारधर्मित्वं यन्निमित्तम्, तस्याः सर्वानर्थबीजभूताया अविद्यायाः सतत्त्वोपपादनम् ५६४ सर्वात्मभावरूप मोक्षस्य विद्याफलस्य प्रत्यक्षतो निर्देश- पूर्वकं जीवस्य परेणात्मना एकीभूतस्य विशेषज्ञाना- भावे -- ' तद्यथा प्रियया स्त्रिया ' - इत्यादिदृष्टान्तो- पन्यास: सुषुप्ते पित्रादीनां पितृत्वाभावप्रतिपादनम् सुषु द्रष्टुः अविनाशित्वात् तदृष्ट्यादेरविनाशित्वप्रति- पादनपूर्वकम्, द्वितीयवस्त्वभावात् न पश्यतीति व्य- वहारोपपत्तिः इत्युपन्यासः ... प्रतीचः चिन्मात्रज्योतिषः विशेषविज्ञानराहित्यमेव स्व- रूपम्, तथापि स्वाविद्याकल्पितविशेषविज्ञानवत्त्वमा. श्रित्य अवस्थाद्वय सिध्यतीति प्रतिपादनम् ५७८. ... पूर्वोक्तस्य प्राज्ञस्य सलिलवत् स्वच्छस्य आनन्दरूपस्य ब्रह्मवस्तुनः उपपादनोपसंहारः ... यस्य परमानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति तस्य मात्रिणः मनुष्यानन्दमारभ्य उत्तरोत्तरं शतगुणो- त्कर्षवर्णनेन सर्वोत्कृष्टत्वप्रतिपादनम् प्रतिपादितस्य सुषुप्तिस्वप्नादेः वक्ष्यमाणमोक्षबन्धनदृष्टान्त- त्वात्, दाष्टन्तिके ते वक्तव्ये - इत्येतदर्थमुत्तरारम्भः- इति पूर्वोत्तरसंबन्धकथनम् ८ तद्यथा अन:' इत्यारभ्य ' इति नु कामयमानः ' इत्य- [ १२ ] न्तेन ग्रन्थेन संसारवर्णनमिति ग्रन्थविभागकथनम् - ... अस्माद्देहात् आत्मन: स्वप्नान्तात् बुद्धान्तगमनवत् - देहान्तरप्रतिपत्तौ भृशाहितसंभारशकटदृष्टान्तोपन्यासः आत्मन ऊर्ध्वोच्छ्रासित्वं कस्मिन्काले किंनिमित्तं कथं किमर्थं वा इति प्रश्नानुत्थाप्य, यदा जरादिना काये प्राप्नोति, तदा अनेकविधमरणनिमित्तेभ्यः वृन्तेभ्यः फलानीव पुनः प्राणानां विशेषाभिव्यक्तिलाभाय अने- भ्यः प्रमुच्यते - इत्युत्तरोपन्यासः शरीरं परित्यज्य गच्छत आत्मनो देहान्तरोपादाने साम- भावशङ्कायाः राजभृत्यदृष्टान्तेन सर्वभूतान्यादित्या दीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोपभोगसाधनैः कर्मफलवेदितारं प्रतीक्षन्ते — इति समाधानकथनम् ५९८ 'राजानं प्रयियासन्तम् ' इत्यादिदृष्टान्तेन' आत्मानमन्त- काले सर्वे प्राणा अभिसमायन्ति - इति कथनम् ६०० चतुर्थं शारीरकब्राह्मणम् ... ६०१-६७८ आत्मन अङ्गेभ्यः संप्रमोक्षणस्य उक्तस्यैव विस्तरेण उप- पादनम् ... परलोकाय गच्छन्तमात्मानं विद्याकर्मणी पूर्वप्रज्ञा च अनु- गच्छन्तीत्युपपादनम् देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चतीत्यत्र तृणजलूं- कादृष्टान्तोपन्यासः [१३] आत्मनः ये बन्धनसंज्ञका उपाधिभूता बुद्धयादयः काम- कर्मादयश्च तेषां पुञ्जीकृत्य निर्देश: संसारप्रकरणमुपसंहृत्य अकामस्य आत्मकामस्य ब्रह्मविदः न प्राणा उत्क्रामन्ति, किं तु इहैव ब्रह्मैव सन् ब्रह्म अप्येति इति प्रतिपादनम् उक्तस्य मोक्षस्य मोक्षसाधनस्य दृढीकरणाय मन्त्रार्थों- पन्यास: आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्राह्म- णाभ्यामुपसंहृते तस्यैवार्थस्य विस्तरेण प्रतिपादका एते श्लोका इति उत्तरसंदर्भस्य संबन्धकथनपूर्वकं ज्ञानमा- स्य मोक्षसाधनत्वोपदेश: ... प्रस्तुतज्ञानमार्गस्तुत्यर्थे मार्गान्तर निन्दाप्रतिपादनम् उक्तात्मज्ञानस्तुत्यर्थमेव तन्निष्ठस्य कायक्लेशराहित्यप्रति- पादनम् ब्रह्मविदो विद्यया कृतकृत्यत्वे स्वानुभवसंप्रतिपत्तिप्रतिपा- दनम् ६२७- ... ૬૩૪ विद्यास्तुत्यर्थे विदुषो विहिताकरणादिप्रयुक्तभयाभावप्रति- पादनम् आचार्योपदेशजन्यपरमार्थज्ञानसंस्कृतमनसो ब्रह्मदर्शनसा- धनत्वोपदेशः प्रतिपादिते ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थ- [ १४ ] मुत्तरकण्डिकेत्येवं पूर्वोत्तरसंबन्ध प्रदर्शनपूर्वकं विविदि- घावाक्येन ब्रह्मात्मज्ञाने विनियोगकरणार्थे तत्पूर्वतनवा- क्येन ब्रह्मात्मनोऽनुवाद प्रदर्शनम् ष्ठप्रपाठक विहितायां ब्रह्मविद्यायां वेदानुवचनादीनां वि नियोगप्रदर्शनम् आत्मलोकावाप्त्यर्थत्वेन पारिव्राज्यविधाननिरूपणम् उक्ते विद्याफले मन्त्रेण संवाद निरूपणम् ... निरुपाधिकबह्मविद्याया मोक्षफलकथनपूर्वकं याज्ञवल्क्याय गुरवे कृतकृत्यजनककृतस्वनिवेदनप्रतिपादनम् सोपाधिकब्रह्मविद्याया अभ्युदयफलप्रदर्शनम् समस्तारण्यकार्थस्य समुच्चित्य निर्देशः 'पञ्चमं मैत्रेयीब्राह्मणम् ... ... ६५७ ६.. ६५९-६७८ आगमेनाधिगतममृतत्वसाधनं ससंन्यासमात्मज्ञानं तर्के - णाप्यधिगन्तव्यमित्येतदर्थमुत्तरं ब्राह्मणमिति वृत्तानु- वादेन संगतिकथनम् प्रव्रजिष्यन्तं याज्ञवल्क्यं प्रति स्वज्येष्ठभार्यांया मैत्रेय्या अमृतत्वसाधनं किमिति प्रश्नोपन्यासः निरुपाधिक परमप्रेमास्पदीभूतात्मज्ञानमेव ससंन्यासममृत- त्वसाधनमित्युपदिश्य याज्ञवल्क्यः प्रवत्राज इत्युपपा- दनम् यावज्जीवादिश्रुतीनां व्युत्थानादिश्रुतीनां च विचारपूर्व- [१५] कम् अविद्वत्कामिकर्तव्यार्थत्व विद्वद्विरक्तकर्तव्यार्थकत्व- रूपविषयविभागप्रदर्शनम् षष्ठं वंशब्राह्मणम् ... ६७९–६८१ ब्रह्मविद्यास्तुत्यर्थ याज्ञवल्क्यकाण्डस्य आचार्यपरम्परो- पदेशः श्रीमच्छंकरभगवत्पादविरचितम् बृहदारण्यकोपनिषद्भाष्यम् तृतीयोऽध्यायः S. B. U. II. 1 ॥ तृतीयोऽध्यायः ॥ 'जनको ह वैदेह:' इत्यादि याज्ञव- ल्कीयं काण्डमारभ्यते; उपपत्तिप्र धानत्वात अतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता ; मधुकाण्डं हि आगमप्रधानम्; आ- गमोपपत्ती हि आत्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगत बिल्वमिव दर्शयितुम् 'श्रोतव्यो मन्तव्य:' इति ह्युक्तम; तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते । आख्यायिका तु विज्ञानस्तुत्यर्था उपायविधिपरा वा ; प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्ट:- दानम् दानेन ह्युपन- मन्ते प्राणिनः प्रभूतं हिरण्यं गोसहस्रदानं च इहोपलभ्य- ते; तस्मात् अन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रद र्शनार्था आख्यायिका आरब्धा । अपि च तद्विद्यसंयोग: तैश्च सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्ट: ; बृहदारण्यकोपनिषद्भाष्ये [बा. १. तञ्च अस्मिन्नध्याये प्राबल्येन प्रदर्श्यते ; प्रत्यक्षा च विद्वत्सं- योगे प्रज्ञावृद्धिः । तस्मात् विद्याप्राप्त्युपाय प्रदर्शनार्थैव आ- ख्यायिका ॥ ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वै- देहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति स ह ग- वाँ सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥ तत्र जनको नाम ह किल सम्राट् राजा बभूव विदेहानाम् ; तत्र भवो वैदेहः ; स च बहुदक्षिणेन यज्ञेन - शाखान्तर प्रसिद्धो वा बहुदक्षिणो नाम यज्ञः, अश्वमेधो वा दक्षिणा- बाहुल्यात् बहुदक्षिण इहोच्यते- तेनेजे अयजत् । तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पथ्चालानां च ब्राह्मणाः- तेषु हि विदुषां बाहुल्यं प्रसि- द्धम् - अभिसमेताः अभिसंगता बभूवुः । तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यज- क. २.] मानस्य, तृतीयोऽध्यायः । को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा, बभूव; कथम् ? कः स्वित् को नु खलु एषां ब्राह्मणानाम् अनूचानतम :- सर्व इमेऽनूचाना:, कः स्वि- देषामतिशयेनानूचान इति । स ह अनूचानतमविषयोत्प- नजिज्ञास: सन् तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवय- साम् अवरुरोध गोष्ठेऽवरोधं कारयामास ; किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते- पलचतुर्थभागः पादः सुवर्णस्थ, दश दश पादा एकैकस्या गोः शृङ्गयोः आबद्धा बभूवुः, पञ्च पञ्च पादा एकैकस्मिन् शृङ्गे ॥ तान्होबाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सोम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्मणाश्चुकुधुः कथं नो ब्रह्मिष्ठो ब्रुवी- तेत्यथ ह जनकस्य वैदेहरू होताश्वलो बभूव स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी ३ इति स हो- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १ पनं च मृत्युना वशीकृतं च- केन दर्शनलक्षणेन साधनेन यजमान: मृत्योराप्तिमति मृत्युगोचरत्वमतिक्रम्य मुच्यते स्वतन्त्रः मृत्योरवशो भवतीत्यर्थः । ननु उद्गीथ एवाभिहि तम् येनातिमुच्यते मुख्यप्राणात्मदर्शनेनेति - बाढमुक्तम् ; योऽनुक्तो विशेषस्तत्र तदर्थोऽयमारम्भ इत्यदोष: । होत्रा ऋत्विजा अग्निना वाचा इत्याह याज्ञवल्क्यः । एतस्यार्थ व्याचष्टे - कः पुनर्होता येन मृत्युमतिक्रामतीति उच्यते- वाग्वै यज्ञस्य यजमानस्य, 'यज्ञो वै यजमान:' इति श्रुते:, यज्ञस्य यजमानस्य या वाक् सैव होता अधियज्ञे ; कथम ? तत् तत्र येयं वाक् यज्ञस्य यजमानस्य, सोऽयं प्रसिद्धोऽ- ग्निः अधिदैवतम् ; तदेतत्त्र्यन्नप्रकरणे व्याख्यातम् ; स चा- निः होता, ' अनिर्वै होता' इति श्रुतेः । यदेतत् यज्ञस्य साधनद्वयम् - होता च ऋत्विक् अधियज्ञम् अध्यात्मं च वाक्, एतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वा- भाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथा- त्वमापद्यमानं वशीकृतम् तत् अनेनाधिदैवतरूपेणाग्निना दृश्यमानं यजमानस्य यज्ञस्य मृत्योरतिमुक्तये भवति ; तदे - तदाह-- स मुक्ति: स होता अग्निः मुक्ति: अग्निस्वरूपदर्श- नमेव मुक्ति: ; यदैव साधनद्वयमभिरूपेण पश्यति, तदा- क. ४.] तृतीयोऽध्यायः । नीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्या त्मिकात्परिच्छिन्नरूपात् आधिभौतिकाश्च; तस्मात् स होता अग्निरूपेण दृष्टः मुक्ति: मुक्तिसाधनं यजमानस्य । सा अतिमुक्ति:- यैव च मुक्तिः सा अतिमुक्तिः अतिमुक्ति- साधनमित्यर्थः । साधनद्वयस्य परिच्छिन्नस्य या अधिदै - वतरूपेण अपरिच्छिन्नेन अभिरूपेण दृष्टिः, सा मुक्ति:; या असौ मुक्तिः अधिदैवतदृष्टिः सैव अध्यात्माधिभूत- परिच्छेदविषयाङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्य अ- निभावस्य प्राप्तिर्या फलभूता सा अतिमुक्तिरित्युच्यते ; तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमु- क्तिरित्याह । यजमानस्य हि अतिमुक्तिः वागादीनामग्न्या- दिभावः इत्युद्गीथप्रकरणे व्याख्यातम् ; तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम्, न तद्विशेष: ; वा- गादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते ; मृत्यु प्राप्त्यति- मुक्तिस्तु सैव फलभूता, या उद्गीथब्राह्मणेन व्याख्याता- 'मृत्युमतिक्रान्तो दीप्यते ' इत्याद्या ॥ याज्ञवल्क्येति होवाच यदि सर्व- महोरात्राभ्यामाप्तः सर्वमहोरात्राभ्याम- भिपन्नं केन यजमानोऽहोरात्रयोरासिम- . बृहदारण्यकोपनिषद्भाष्ये ब्रा. १. तिमुच्यत इत्यध्वर्युणर्त्विजा चक्षुषादि- त्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः सातिमुक्तिः ॥ ४ ॥ r; याज्ञवल्क्येति होवाच । स्वाभाविकात् अज्ञानासङ्गप्रयु- क्तात् कर्मलक्षणान्मृत्योः अतिमुक्तिर्व्याख्याता ; तस्य कर्म- णः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसा- धनानां यो विपरिणामहेतुः कालः, तस्मात्कालात् पृथक् अतिमुक्तिर्वक्तव्येतीदमारभ्यते, क्रियानुष्ठानव्यतिरेकेणापि प्राक् ऊर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापार- दर्शनात्कालस्य; तस्मात् पृथक् कायादतिमुक्तिर्वक्तव्येत्यत आह— यदिदं सर्वमहोरात्राभ्यामाप्तम्, स च कालो द्वि- रूप:- अहोरात्रादिलक्षणः तिथ्यादिलक्षणश्च तत्र अहो - रात्रादिलक्षणात्तावदतिमुक्तिमाह- अहोरात्राभ्यां हि सर्व जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च - यज्ञस्य यजमानस्य चक्षुः अध्वर्युश्च; शिष्टान्यक्षराणि पूर्ववन्नेयानि ; यजमानस्य चक्षुः अध्वर्युश्च साधनद्वयम अध्यात्माधिभूत- परिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत् स मुक्ति:- सो- ऽध्वर्युः आदित्यभावेन दृष्टो मुक्ति: मैव मुक्तिरेव अति- ; ; क. ५.] तृतीयोऽध्यायः । ३६१ · मुक्तिरिति पूर्ववत् आदित्यात्मभावमापन्नस्य हि नाहोरात्रे संभवतः ॥ ; याज्ञवल्क्येति होवाच यदि‍ सर्व पूर्वपक्षापरपक्षाभ्यामाप्तः सर्व पूर्वपक्षा- परपक्षाभ्यामभिपन्नं केन यजमानः पूर्व- पक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गा- त्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञ- स्योद्गाता तथोऽयं प्राणः स वायुः स उद्गाता स मुक्तिः सातिमुक्तिः ॥ ५ ॥ इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते - यदिदं सर्व- म् - अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रतिपदादीनां तिथीनाम् ; तासां तु वृद्धिक्षयोपगमनेन प्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता; अतः तदापत्त्या पूर्वपक्षापरपक्षात्यय:, आ- दित्यापत्त्या अहोरात्रात्ययवत् । तत्र यजमानस्य प्राणो वायु:, स एवोद्गाता - इत्युद्गीथब्राह्मणेऽवगतम्, 'वाचा च ह्येव स प्राणेन चोदगायत्' इति च निर्धारितम्; अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्र:' इति च ; प्राण- वायुचन्द्रमसा मेकत्वात् चन्द्रमसा वायुना चोपसंहारे न बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. कश्चिद्विशेषः — एवंमन्यमाना श्रुतिः वायुना अधिदैवत- रूपेणोपसंहरति । अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ; तेन तिध्यादिलक्षणस्य कालस्य कर्तुरपि कार- यिता वायु: । अतो वायुरूपापन्नः तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति । तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टि: मुक्तिरतिमुक्तिश्च ; इह तु काण्वानां साधनद्वयस्य तत्कार- णरूपेण वाय्वात्मना दृष्टिः मुक्तिरतिमुक्तिश्चेति न श्रुत्यो- विरोधः ॥ याज्ञवल्क्येति होवाच यदिदमन्तरि- क्षमनारम्बणमिव केनाक्रमेण यजमा- नः स्वर्ग लोकमाक्रमत हृति ब्रह्मण- विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमो- क्षा अथ संपदः ॥ ६ ॥ मृत्योः कालात् अतिमुक्तिर्व्याख्याता यजमानस्य । सो- ऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतीत्य फलं प्राप्नोति - अतिमुच्यते- इत्युच्यते - यदिदं प्रसि- क. ६.] तृतीयोऽध्यायः । ; द्धम् अन्तरिक्षम् आकाशः अनारम्बणम् अनालम्बनम् इव- शब्दात् अस्त्येव तत्रालम्बनम्, तत्तु न ज्ञायते इत्यभिप्राय: । यत्तु तत् अज्ञायमानमालम्बनम्, तत् सर्वनाम्ना केनेति पृच्छयते, अन्यथा फलप्राप्तेरसंभवात् येनावष्टम्भेन आक्रमेण यजमानः कर्मफलं प्रतिपद्यमानः अतिमु. च्यते, किं तदिति प्रश्नविषयः केन आक्रमेण यज- मानः स्वर्गे लोकमाक्रमत इति - स्वर्ग लोकं फलं प्राप्नोति अतिमुच्यत इत्यर्थः । ब्रह्मणा ऋत्विजा मनसा चन्द्रेणेत्यक्ष- रन्यासः पूर्ववत् । तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः सोऽसौ चन्द्रः अधिदैवम् मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ; स एव चन्द्रमा ब्रह्मा ऋत्विक् तेन - अधिभूतं ब्रह्मणः परिच्छिन्नं रूपम् अध्यात्मं च मनसः एतत् द्वयम् अपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ; तेन चन्द्रमसा मनसा अवलम्बनेन कर्मफलं स्वर्ग लोकं प्राप्नोति अतिमुच्यते इत्यभिप्रायः । इतीत्युपसं- हारार्थे वचनम् इत्येवंप्रकारा मृत्योरतिमोक्षाः; सर्वाणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसरे उक्तानीति कृत्वा उपसंहार : - इत्यतिमोक्षा:- एवंप्रकारा अतिमोक्षा इत्यर्थः । अथ संपद :- अथ अधुना संपद उच्यन्ते । संपन्नाम केन- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. चित्सामान्येन अग्निहोत्रादीनां कर्मणां फलवतां तत्फलाय संपादनम्, संपत्फलस्यैव वा; सर्वोत्साहेन फलसाधनानु- ष्ठाने प्रयतमानानां केनचिद्वैगुण्येनासंभव:; तत् इदानी- माहिताग्निः सन् यत्किंचित्कर्म अग्निहोत्रादीनां यथासंभव - मादाय आलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफ- लकामो भवति, तदेव संपादयति; अन्यथा राजसूयाश्वमे- धपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामपि अ- संभव:- तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात्, यदि तत्फलप्राप्त्युपायः कश्चन न स्यात्; तस्मात् तेषां संपदैव तत्फलप्राप्तिः, तस्मात्संपदामपि फलवत्त्वम्, अतः संपद आरभ्यन्ते ॥ याज्ञवल्क्येति होवाच कतिभिरयम- भिर्होतास्मिन्यज्ञे करिष्यतीति तिसृ भिरिति कतमास्तास्तिस्र इति पुरोनु- वाक्या च याज्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किंचेदं प्राणभृ- दिनि ॥ ७ ॥ याज्ञवल्क्येति होवाच अभिमुखीकरणाय । कतिभिग्य- क. ८.] मद्यभिर्होतास्मिन्यज्ञे तृतीयोऽध्यायः । कतिभिः कतिसंख्याभिः ऋग्भिः ऋग्जातिभिः, अयं होता ऋत्विक्, अस्मिन्यज्ञे करिष्यति शस्त्रं शंसति; आह इतर :- तिसृभिः ऋग्जातिभिः - इति- उक्तवन्तं प्रत्याह इतर :- कतमास्तास्तिस्र इति; संख्येय- विषयोऽयं प्रश्न, पूर्वस्तु संख्याविषयः । पुरोनुवाक्या च- प्राग्यागकालात् या: प्रयुज्यन्ते ऋचः, सा ऋग्जाति: पुरो- नुवाक्येत्युच्यते; यागार्थं याः प्रयुज्यन्ते ऋचः, सा ऋ- ग्जाति: याज्या ; शस्त्रार्थ याः प्रयुज्यन्ते ऋचः सा ऋग्जा- तिः शस्या; सर्वास्तु याः काश्चन ऋचः, ताः स्तोत्रिया वा अन्या वा सर्वाः एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति । किं ताभिर्जयतीति किचेदं प्राणभृदिति - अतश्च संख्या- सामान्यात् यत्किंचित्प्राणभृज्जातम्, तत्सर्व जयति तत्सबै फलजातं संपादयति संख्यादिसामान्येन याज्ञवल्क्येति होवाच कत्ययमद्याध्व- र्युरस्मिन्यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उ- ज्ज्वलन्ति या हुता अतिनेद्न्ते या हुता अधिशेरते किं ताभिर्जयतीति या हुता बृहदारण्यकोपनिषद्भाष्ये [जा. १. उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अ- तिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मतु- ष्यलोकमेव ताभिर्जयत्यध इव हि मनु- ष्यलोकः ॥ ८ ॥ याज्ञवल्क्येति होवाचेति पूर्ववत् । कत्ययमद्याध्वर्युर- स्मिन्यज्ञ आहुतीर्होष्यतीति - कति आहुतिप्रकारा: ? तिस्र इति ; कतमास्तास्तिस्र इति पूर्ववत् । इतर आह-या हुता उज्ज्वलन्ति समिदाज्याहुतयः, या हुदा अतिनेदन्ते अतीव शब्दं कुर्वन्ति मांसाद्याहुतयः, या हुता अधिशेरते अधि अधो गत्वा भूमेः अधिशेरते पयः सोमाहुतयः । किं ताभिर्जयतीति; ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जय- तीति ; या आहुतयो हुता उज्ज्वलन्ति उज्ज्वलनयुक्ता आहुतयो निर्वर्तिता:- फलं च देवलोकाख्यं उज्ज्वल- मेव; तेन सामान्येन या मयैता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमाना:, ता एता:- साक्षाद्देवलोकस्य कर्मफलस्य रूपं देवलोकाख्यं फलमेव मया निर्वर्त्यते इत्येवं संपादयति । - क. ९.] तृतीयोऽध्यायः 1 या हुता अतिदन्ते आहुतयः, पितृलोकमेव ताभिर्जयति, कुत्सितशब्दकर्तृत्व सामान्येन; पितृलोकसंबद्धायां हि संय- मिन्यां पुर्यां वैवस्वतेन यात्यमानानां ' हा हताः स्म, मु मुच ' इति शब्दो भवति ; तथा अवदानाहुतय: ; तेन पितृलोकसामान्यात्, पितृलोक एव मया निर्वर्त्यते - इति संपादयति । याहुता अधिशेरते, मनुष्यलोकमेव ताभि- र्जयति, भूम्युपरिसंबन्धसामान्यात अध इव हि अध ; एव हि मनुष्यलोकः उपरितनान् साध्यान् लोकानपेक्ष्य, अथवा अधोगमनमपेक्ष्य ; अतः मनुष्यलोक एव मया निर्वर्त्यते - इति संपादयति पयः सोमाहुतिनिर्वर्तनकाले ॥ याज्ञवल्क्येति होवाच कतिभिरयम द्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपा- यतीत्येकयेति कतमा सैकेति मन एवे - त्यनन्तं वै मनोऽनन्ता विश्वे देवा अन- न्तमेव स तेन लोकं जयति ॥ ९ ॥ याज्ञवल्क्येति होवाचेति पूर्ववत् । अयम् ऋत्विक् ब्रह्मा दक्षिणतो ब्रह्मा आसने स्थित्वा यज्ञं गोपायति । कति- भिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्बहुवचनम् - एकया S.BP. II. 2 बृहदारण्यकोपनिषद्भाष्ये [ बा. १. हि देवतया गोपायत्यसौ; एवं ज्ञाते बहुवचनेन प्रश्नो नो- पपद्यते स्वयं जानत: ; तस्मात् पूर्वयोः कण्डिकयो : प्रश्नप्र- तिवचनेषु - कतिभिः कति तिसृभिः तिस्रः - इति प्रसङ्गं दृष्ट्वा इहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते; अथवा प्रति- वादिव्यामोहार्थं बहुवचनम् । इतर आह— एकयेति ; एका सा देवता, यया दक्षिणतः स्थित्वा ब्रह्म आसने यज्ञं गोपायति । कतमा सैकेति- मन एवेति, मनः सा देवता ; मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव, ' तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा' इति श्रुत्यन्तरात् ; तेन मन एव देवता, तया मनसा हि गोपा- यति ब्रह्मा यज्ञम् । तच्च मन: वृत्तिभेदेनानन्तम; वै-शब्द: प्रसिद्धावद्योतनार्थः ; प्रसिद्धं मनस आनन्त्यम् ; तदानन्त्या - भिमानिनो देवाः ; अनन्ता वै विश्वे देवा: - ' सर्वे देवा यत्रैकं भवन्ति' इत्यादिश्रुत्यन्तरात् तेन आनन्त्यसामा- न्यात् अनन्तमेव स तेन लोकं जयति ॥ याज्ञवल्क्येति होवाच कत्ययमद्योगा- तास्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति ति- स्र इति कतमास्तास्तिस्र इति पुरोनुवा - क्या च याज्या च शस्यैव तृतीया कत- क. १०.] तृतीयोऽध्यायः । मास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरो- नुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोक शस्यया ततो ह होताश्वल उ- परराम ॥ १० । इति प्रथमं ब्राह्मणम् ॥ याज्ञवल्क्येति होवाचेति पूर्ववत् । कति स्तोत्रिया: स्तोष्यतीति अयमुद्गाता । स्तोत्रिया नाम ऋक् सामसमु- दाय: कतिपयानामृचाम् । स्तोत्रिया वा शस्या वा या: काश्चन ऋचः, ताः सर्वास्तिस्र एवेत्याह; ताश्च व्या- ख्याता:- पुरोनुवाक्या च याज्या च शस्यैव तृतीयेति । तत्र पूर्वमुक्तम्- यत्किं चेदं प्राणभृत्सर्वं जयतीति तत् केन सामान्येनेति ; उच्यते- कतमास्तास्तिस्र ऋचः या अध्यात्मं भवन्तीति ; प्राण एव पुरोनुवाक्या, पशब्द सामान्यात् ; अपानो याज्या, आनन्तर्यात् - अपानेन हि प्रत्तं हविः देवता प्रसन्ति, यागश्च प्रदानम्; व्यानः शस्या- णन्ननपानन्नृचमभिव्याहरति' इति श्रुत्यन्तरात् । किं ताभि- " अप्रा- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. जयतीति व्याख्यातम् । तत्र विशेषसंबन्धसामान्यमनुक्त- मिहोच्यते, सर्वमन्यद्व्याख्यातम् ; लोकसंबन्धसामान्येन प्र- थिवीलोकमेव पुरोनुवाक्यया जयति ; अन्तरिक्षलोकं या- ज्यया, मध्यमत्वसामान्यात्; द्युलोकं शस्यया ऊर्ध्वत्वसा- मान्यात् । ततो ह तस्मात् आत्मनः प्रश्ननिर्णयात असौ होता अश्वल उपरराम- नायम् अम्मगोचर इति ॥ इति तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् ॥ आख्यायिकासंबन्ध: प्रसिद्ध एव । मृत्योरतिमुक्तिर्व्या- ख्याता काललक्षणात् कर्मलक्षणाच ; कः पुनरसौ मृत्युः, यस्मात् अतिमुक्तिर्व्याख्याता ? स च स्वाभाविकाज्ञानस- ङ्गास्पदः अध्यात्माधिभूतविषयपरिच्छिन्नः प्रहातिग्रहलक्षणो मृत्यु: । तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाणि अ- ग्न्यादित्यादीनि उद्गीथप्रकरणे व्याख्यातानि ; अश्वलप्रश्ने च ततो विशेष: कश्चित् ; तच्च एतत् कर्मणां ज्ञानसहितानां फलम् । एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्य- तः बन्धनरूपस्य मृत्योः स्वरूपमुच्यते ; बद्धस्य हि मोक्ष : कर्तव्यः । यदपि अतिमुक्तस्य स्वरूपमुक्तम्, तत्रापि ग्रहाति- ग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ; तथा चोक्तम्- अशनाया हि मृत्यु: '; ' एष एव मृत्यु : ' इति आदित्यस्थं पुरुषमङ्गीकृत्य आह्, ' एको मृत्युर्बहवा' इति च ; तदात्मभा- वापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ; न च तत्र ग्रहा- तिग्रहौ मृत्युरूपौ न स्तः ; ' अथैतस्य मनसो द्यौः शरीरं ज्यो- तीरूपम सावादित्य: ' ' मनश्च ग्रहः स कामेनातिग्राहेण गृही 6 ' बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. तः' इति वक्ष्यति - 'प्राणो वै ग्रहः सोऽपानेनातिग्राहेण ' इति, 'वाग्वै ग्रहः स नाम्नातिग्राहेण ' इति च । तथा त्र्यन्न- विभागे व्याख्यातमस्माभिः । सुविचारितं चैतत् - यदेव प्रवृत्तिकारणम्, तदेव निवृत्तिकारणं न भवतीति ॥ केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते; अतः कारणात् — पूर्वस्मात्पूर्वस्मात् मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमान:- व्यावृत्त्यर्थमेव प्रतिपद्यते, न तु तादर्थ्यम् - इत्यतः आ द्वैतक्षयात् सर्व मृत्यु:, द्वैतक्षये तु परमार्थतो मृत्योराप्तिम- तिमुच्यते ; अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले । सर्व- मेतत् एवम् अबार्हदारण्यकम् । ननु सर्वैकत्वं मोक्षः, 'त- स्मात्तत्सर्वमभवत्' इति श्रुतेः- बाढं भवत्येतदपि ; न तु ' ग्रामकामो यजेत ' ' पशुकमो यजेत ' इत्यादिश्रुतीनां ताद- र्थ्यम्; यदि हि अद्वैतार्थत्वमेव आसाम्, ग्रामपशुस्वर्गा- यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन गृह्यन्ते तु कर्मफलवैचित्र्य विशेषा:; यदि च वैदिकानां कर्मणां ताद- र्थ्यमेव, संसार एव नाभविष्यत् । अथ तादर्थ्येऽपि अनु- निष्पादितपदार्थस्वभावः संसार इति चेत्, यथा च रूपद- र्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव - प्रमाणानुपपत्तेः; अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहि- - न, क. १.] ' तृतीयोऽध्यायः । तानाम् अन्यस्यानुनिष्पादितत्वे प्रमाणानुपपत्तिः - न प्र- त्यक्षम्, नानुमानम्, अत एव च न आगमः । उभयम् एकेन वाक्येन प्रदर्श्यत इति चेत्, कुल्याप्रणयनालोकादि- वत् — तन्नैवम्, वाक्यधर्मानुपपत्तेः ; न च एकवाक्यगत- स्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते; कुल्याप्र- यनालोकादौ अर्थस्य प्रत्यक्षत्वाददोषः । यदप्युच्यते- मन्त्र अस्मिन्नर्थे दृष्टा इति - अयमेव तु तावदर्थः प्रमा- णागम्य: ; मन्त्राः पुनः किमस्मिन्नर्थे आहोस्विदन्यस्मि- न्नर्थे इति मृग्यमेतत् । तस्माहातिग्रहलक्षणो मृत्युः बन्धः, तस्मात् मोनो वक्तव्य इत्यत इदमारभ्यते । न च जानीमो विषयसंबन्धाविव अन्तरालेऽवस्थानम् अर्धजरतीयं कौश- लम् । यत्तु मृत्योरतिमुच्यते इत्युक्त्वा ग्रहातिग्रहावुच्येते, तत्तु अर्थसंबन्धात् ; सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्र- हातिगृहाविनिर्मोकात् ; निगडे हि निर्ज्ञाते निगडितस्य मो- क्षाय यत्नः कर्तव्यो भवति । तस्मात् तादर्थ्येन आरम्भः ॥ अथ हैनं- जारत्कारव आर्तभागः प- प्रच्छ याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति । अष्टौ ग्रहा अष्टाव- बृहदारण्यकोपनिषद्भये [ ब्रा. २. तिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावति- ग्रहाः कतमे त इति ॥ १ ॥ " अथ हैनम् - इ - शब्द ऐतिह्यार्थ : ; अथ अनन्तरम् अश्वले उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारवः ऋत- भागस्यापत्यम् आर्तभागः पप्रच्छ ; याज्ञवल्क्येति होवाचेति अभिमुखीकरणाय ; पूर्ववत्प्रश्नः - कति ग्रहाः कत्यतिग्रहा इति । इति - शब्दो वाक्यपरिसमाप्त्यर्थः । तत्र निर्ज्ञातेषु वा प्रहातिग्रहेषु प्रश्नः स्यात् अनिर्ज्ञातेषु वा यदि तावत् महा अतिग्रहाश्च निर्ज्ञाता:, तदा तद्गतस्यापि गुणस्य सं ख्याया निर्ज्ञातत्वात् कति ग्रहाः कत्यतिग्रहा इति संख्या - विषय: प्रश्नो नोपपद्यते ; अथ अनिता: तदा संख्येयवि- षयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यम, न तु गृहाः कत्यतिग्रहा इति प्रश्न: ; अपि च निर्ज्ञातसामान्य- केषु विशेषविज्ञानाय प्रश्नो भवति - यथा कतमेऽत्र कठाः कतमेsa कालापा इति; न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः, येन विशेषार्थः प्रश्नः स्थात्ः ननु च ' अतिमुच्यते' इत्युक्तम्, ग्रहगृहीतस्य हि मोक्ष:, ' स मुक्तिः सातिमुक्ति:' इति हि द्विरुक्तम्, तस्मात्प्राप्ता ग्रहा अतिप्रहाश्च - ननु तत्रापि चत्वारो ग्रहा · क. ३.] तृतीयोऽध्यायः । " अतिमहाश्च निर्ज्ञाताः वाक्चक्षुः प्राणमनांसि तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् न, अनवधारणार्थत्वात् ; न हि चतु तत्र विवक्षितम् ; इह तु ग्रहातिग्रहादर्शने अष्टत्वगुणविवक्षया कतीति प्रश्न उपपद्यत एव तस्मात् ' स मुक्ति: सातिमुक्ति:' इति मुक्त्यतिमुक्ती द्विरुक्ते ; महा- तिग्रहा अपि सिद्धाः । अतः कतिसंख्याका ग्रहाः, कति वा अतिग्रहाः इति पृच्छति । इतर आह— अष्टौ ग्रहा अष्टावतिमा इति । ये ते अष्टौ ग्रहा अभिहिताः कतमे ते नियमेन ग्रहीतव्या इति ॥ I प्राणो वै ग्रहः सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघति ॥ २ ॥ तत्र आह— प्राणो वै ग्रह:- प्राण इति घ्राणमु- च्यते, प्रकरणात्; वायुसहितः सः ; अपानेनेति गन्धेने- त्येतत् ; अपानसचिवत्वात् अपानो गन्ध उच्यते ; अपा- नोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ; तदेतदु- च्यते - अपानेन हि गन्धाञ्जिघ्रतीति ॥ वाग्वै ग्रहः स नाम्नातिग्राहेण गृही- तो वाचा हि नामान्यभिवदति ॥ ३ ॥ बृहदारण्यकोपनिषद्भाष्ये [ बा. २. जिह्वा वै ग्रहः स रसेनातिग्राहेण गृ- हीतो जिह्वया हि रसान्विजानाति ॥ ४ ॥ चक्षुर्वै ग्रहः स रूपेणातिग्राहेण गृ- हीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥ श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रीवेण हि शब्दाञ्शृणोति ॥ ६ ॥ मनो वै ग्रहः स कामेनातिग्राहेण गृ- हीतो मनसा हि कामान्कामयते ॥ ७ ॥ हस्तौ वै ग्रहः स कर्मणातिग्राहेण गृ- हीतो हस्ताभ्या हि कर्म करोति ॥ ८ ॥ त्वग्वै ग्रहः स स्पर्शेनातिग्राहेण गृही- तस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥ - वाग्वै ग्रहः वाचा हि अध्यात्मपरिच्छिन्नया आस- ङ्गविषयास्पदद्या असत्यानृता सभ्य बीभत्सादिवचनेषु व्यापृ- तया गृहीतो लोकः अपहृत:, तेन वाक् ग्रहः; स नाम्नाति - क. १०.] तृतीयोऽध्यायः । ग्राहेण गृहीतः - सः वागाख्यो ग्रहः, नाम्ना वक्तव्येन विष- ये, अतिप्राहेण अतिप्राहेणेति दैर्ध्य छान्दसम्; वक्तव्यार्था हि वाक् ; तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक् तेन वशीकृता; तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ; अतः नाम्नातिग्राहेण गृहीता वागित्युच्यते; वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थैर्युज्यते । समानमन्यत् । इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैते अष्टावतिग्रहा इति ॥ याज्ञवल्क्येति होवाच यदि सर्व मृत्योरनं का स्वित्सा देवता यस्या मृ- त्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पु- नर्मृत्युं जयति ॥ १० ॥ उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः — याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्योरन्नम् - यदिदं व्याकृतं सर्वे मत्योरन्नम्, सर्व जायते विपद्येत च ग्रहातिग्रहलक्षणेन मृत्युना प्रस्तम्- का स्वित् का नु स्यात् सा देवता, यस्या देवताया मृत्युर- यन्नं भवेत् - 'मृत्युर्यस्योपसेचनम्' इति श्रुत्यन्तरात् । अ- यमभिप्रायः प्रष्टुः– यदि मृत्योर्मृत्युं वक्ष्यति, अनवस्था स्यात् ; अथ न वक्ष्यति, अस्माहातिप्रहलक्षणान्मृत्योः बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. २. मोक्षः नोपपद्यते ; ग्रहातिग्रह मृत्युविनाशे हि मोक्षः स्यात् ; स यदि मृत्योरपि मृत्युः स्यात् भवेत् ग्रहातिग्रहलक्षणस्य मृत्योर्विनाश: - अत: दुर्वचनं प्रश्नं मन्वानः पृच्छति 'का स्वित्सा देवता' इति । अस्ति तावन्मृत्योर्मृत्युः ; ननु अ- नवस्था स्यात्— तस्याप्यन्यो मृत्युरिति- नानवस्था, स- मृत्योः मृत्य्वन्तरानुपपत्तेः; कथं पुनरवगम्यते - अस्ति मृत्योर्मृत्युरिति ? दृष्टत्वात् ; अग्निस्तावत् सर्वस्य दृष्टो मृत्यु, विनाशकत्वात्, सोऽद्भिर्भक्ष्यते, सोऽग्निः अपामन्नम, गृ- हाण तर्हि अस्ति मृत्योर्मृत्युरिति तेन सर्व ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना; तस्मिन्बन्धने नाशिते मृत्युना भ- क्षिते संसारान्मोक्ष उपपन्नो भवति बन्धनं हि महातिग्र- हलचणमुक्तम् ; तस्माच्च मोक्ष उपपद्यत' इत्येतत्प्रसाधितम् । अतः बन्धमोक्षाय पुरुषप्रयास: सफलो भवति ; अतोऽप- जयति पुनर्मृत्युम् ॥ ; याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्या हो३ ने- ति नेति होवाच याज्ञवल्क्योऽत्रैव सम- वनीयन्ते स उच्छ्रयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥ क. १२.] तृतीयोऽध्यायः । ३ ७९. · परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्त: विद्वान्, सोऽयं पुरुषः यत्र यस्मिन्काले म्रियते, उत् ऊर्ध्वम्, अस्मात् ब्रह्मविदो म्रियमाणात् प्राणा:- वागादयो ग्रहाः नामादयश्चातिग्रहा वासनारूपा अन्तस्था: प्रयोजका:- क्रामन्त्यूर्ध्वम् उत्क्रामन्ति, आहोस्विन्नेति । नेति होवाच याज्ञवल्क्य:- नोत्क्रामन्ति; अत्रैव अस्मिन्नेव परेणात्मना अविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मतत्त्वे समवनीयन्ते, एकीभावेन सम- वसृज्यन्ते, प्रलीयन्त इत्यर्थ:- ऊर्मय इव समुद्रे । तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्र- लयं दर्शयति-- ' एवमेवास्य परिद्रष्टुरिमाः षोडश कला: पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति' इति अविभागं गच्छन्तीति दर्शितम् । न तर्हि मृत:- मृतश्च अयम्- यस्मात् स उच्छ्रयति उच्छूनतां प्रतिपद्यते, आध्मायति बाह्येन वायुना पूर्यते दृतिवत्, आध्मातः मृतः शेते निश्चेष्टः बन्धननाशे मुक्तस्य न क्वचिद्गमन- मिति वाक्यार्थः ॥ परेणात्मना न हि ; याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं • ३८० बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२ ॥ मुक्तस्य किं प्राणा एव समवनीयन्ते ? आहोस्वित् तत्प्र- योजकमपि सर्वम् ? अथ प्राणा एव, न तत्प्रयोजकं सर्वम्, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः; अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यते इत्येवमर्थः उत्तरः प्रश्नः । याज्ञवल्क्येति होवाच- यत्रायं पुरुषो म्रियते कि- मेनं न जहातीति; आह इतर :- नामेति ; सर्वे समवनी- यते इत्यर्थः ; नाममात्रं तु न लीयते, आकृतिसंबन्धात्; नि- त्यं हि नाम; अनन्तं वै नाम ; नित्यत्वमेव आनन्त्यं नाम्नः । तदानन्त्याधिकृता: अनन्ता वै विश्वे देवा:; अनन्तमेव स तेन लोकं जयति - तन्नामानन्त्याधिकृतान् विश्वान्देवान आत्मत्वेनोपेत्य तेन आनन्त्यदर्शनेन अनन्तमेव लोकं जयति ॥ : याज्ञवल्क्येति होवाच यत्रास्य पुरुष- स्य मृतस्याग्निं वागप्येति वातं प्राणश्च- क्षुरादित्यं मनश्चन्द्रं दिशः श्रोतं पृथिवी शरीरमाकाशमात्मौषधीमानि वन- स्पतीन्केशा अप्सु लोहितं च रेतश्च नि- क. १३.] तृतीयोऽध्यायः । धीयते क्कायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्त भागावामेवैतस्य वेदि- यावो न नावेतत्सजन इति । तौ हो- eat मन्त्रयांचाते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशसतुः कर्म हैव तत्प्रशशसतुः पुण्यो वै पुण्ये- न कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥ ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपम् तस्य च मृत्योः मृत्युसद्भावान्मोक्षश्चोपपद्यते ; स च मोक्षः ग्रहातिग्रहरूपा- णामिव प्रलयः, प्रदीप निर्वाणवत्; यत्तत् ग्रहातिप्रहाख्यं बन्धनं मृत्युरूपम्, तस्य यत्प्रयोजकं तत्स्वरूप निर्धारणार्थ- मिदमारभ्यते— याज्ञवल्क्येति होवाच ॥ - अत्र केचिद्वर्णयन्ति ग्रहातिग्रहस्थ सप्रयोजकस्य विना- शेऽपि किल न मुच्यते ; नामावशिष्टः अविद्यया ऊषर- स्थानीयया स्वात्मप्रभवया परमात्मनः परिच्छिन्नः भोज्याच जगतो व्यावृत्त: उच्छिन्नकामकर्मा अन्तराले व्यवतिष्ठते; तस्य परमात्मैकत्वदर्शनेन द्वैतदर्शनमपनेतव्यमिति - अतः बृहदारण्यकोपनिषद्भाष्ये । [बा. २. परं परमात्मदर्शन मारब्धव्यम् - इति; एवम् अपवर्गा- ख्यामन्तरालावस्थां परिकल्प्य उत्तरग्रन्थसंबन्धं कुर्वन्ति ॥ - तत्र वक्तव्यम् — विशीर्णेषु करणेषु विदेहस्य परमात्म- दर्शनश्रवणमनननिदिध्यासनानि कथमिति समवनीतप्रा- णस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ; ' मृतः शेते' इति ह्युक्तम् ; न मनोरथेनाप्येतदुपपादयितुं शक्यते । अथ जीव- नेव अविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते, तत्त किं निमित्तमिति वक्तव्यम् ; समस्तद्वैतैकत्वात्मप्राप्तिनिमित्त- ' मिति यद्यच्येत तत् पूर्वमेव निराकृतम् ; कर्मसहितेन द्वैतैक- त्वात्मदर्शनेन संपन्नो विद्वान् मृतः समवनीतप्राण: जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयात्, असमवनीतप्राणः भोज्यात् जीवन्नेव वा व्यावृत्तः विरक्तः परमात्मदर्शनाभिमुखः स्यात् । न च उभयम् एकप्रयत्न निष्पाद्येन साधनेन लभ्यम्; हिर- ण्यगर्भ प्राप्तिसाधनं चेत्, न ततो व्यावृत्तिसाधनम् ; पर- मात्माभिमुखीकरणस्य भोज्याव्यावृत्तेः साधनं चेत्, न हिरण्यगर्भ प्राप्तिसाधनम् न हि यत् गतिसाधनम्, तत् गतिनिवृत्तेरपि । अथ मृत्वा हिरण्यगर्भे प्राप्य ततः सम- वनीतप्राण: नामावशिष्टः परमात्मज्ञानेऽधिक्रियते, ततः अस्मदाद्यर्थे परमात्मज्ञानोपदेशः अनर्थक: स्यात् ; सर्वेषां क्र. १३. ] तृतीयोऽध्यायः । हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते - ' तद्यो यो देवानाम् ' इत्याद्यया श्रुत्या । तस्मात् अत्यन्त निकृष्टा शास्त्रबाह्यैव इयं कल्पना । प्रकृतं तु वर्तयिष्यामः : ॥ तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधा- रयिषया आह- यत्रास्य पुरुषस्य असम्यग्दर्शिन: शिरः पाण्यादिमतो मृतस्य- वाक् अग्निमध्येति, वातं प्रा- णोऽप्येति, चक्षुरादित्यमप्येति - इति सर्वत्र संबध्यते ; मन: चन्द्रम्, दिश: श्रोत्रम्, पृथिवीं शरीरम्, आकाश- मात्मेत्यत्र आत्मा अधिष्ठानं हृदयाकाशमुच्यते स आका शमप्येति ; ओषधीरपियन्ति लोमानि ; वनस्पतीनपियन्ति केशा: ; अप्सु लोहितं च रेतश्च - निधीयते इति - पुनरादा- नलिङ्गम् ; सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते ; न तु करणान्येवापक्रामन्ति प्राड्योक्षात; तत्र देवताभि- रधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि विदेहश्व कर्ता पुरुष: अस्वतन्त्रः किमाश्रितो भवतीति पृच्छयते-- कार्यं तदा पुरुषो भवतीति - किमाश्रित: तदा पुरुषो भवतीति ; यम् आंश्रियमाश्रित्य पुनः कार्यकरणसंघातमुपादत्ते, येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत् किमिति प्रश्नः । अत्रोच्यते — स्वभावयदृच्छा कालकर्मदेवविज्ञानमात्रशून्यानि S. B. C. IL. 3 बृहदारण्यकोपनिषद्भाष्ये हस्तम् [ब्रा. २. ; वादिभिः परिकल्पितानि; अतः अनेकविप्रतिपत्तिस्थानत्वात् नैव जल्पन्यायेन वस्तुनिर्णय: ; अत्र वस्तुनिर्णयं चेदिच्छसि, आहर सोम्य आर्तभाग है - आवामेव एतस्य त्वत्पृ- ष्टस्य वेदितव्यं यत्, तत् वेदिष्यावः निरूपयिष्याव: कस्मात् ? न नौ आवयोः एतत् वस्तु सजने जनसमुदाये निर्णेतुं शक्यते; अत एकान्तं गमिष्यावः विचारणाय 1 तौ हेत्यादि श्रुतिवचनम् । तौ याज्ञवल्क्यार्तभागौ एकान्तं गत्वा किं चक्रतुरित्युच्यते - तौ ह उत्क्रम्य सजनात् दे- शात् मन्त्रयांचक्राते; आदौ लौकिकवादिपक्षाणाम् एकैकं परिगृह्य विचारितवन्तौ । तौ ह विचार्य यदूचतुः अपोह्य पूर्वपक्षान्सर्वानेव - तच्छृणु; कर्म हैव आश्रयं पुन: पुन:- कार्यकरणोपादानहेतुम् तत् तत्र ऊचतुः उक्तवन्तौ न के- वलम् ; कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंस तुस्तौ कर्म हैव तत्प्रशशंसतुः - यस्मान्निर्धारितमेतत् कर्मप्रयुक्तं महातिग्रहादिकार्य करणोपादानं पुनः पुनः तस्मात् पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति, तद्विपरीतेन विपरीतो भवति पापः पापेन - इति एवं याज्ञवल्क्येन प्रश्नेषु निर्णी- तेषु, तत: अशक्यप्रकम्पत्वात् याज्ञवल्क्यस्य, ह जारत्कारव आर्तभाग उपरराम ॥ '' ' इति तृतीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥ तृतीयं ब्राह्मण: ॥ अथ हैनं भुज्युह्यायनिः पप्रच्छ । ग्रहातिप्रहलक्षणं बन्धनमुक्तम्; यस्मात् सप्रयोजकात् मुक्त: मुच्यते, येन वा बद्धः संसरति, स मृत्युः ; तस्माच्च मोक्ष उपपद्यते, यस्मात् मृत्योर्मृत्युरस्ति; मुक्तस्य च न गतिः क्वचित् - सर्वोत्साद: नाममात्रावशेष: प्रदीपनिर्वाणवदिति चावधृतम् । तत्र संस- रतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने, मुक्तानामत्यन्तमेव पुनरनुपादानम् - संसरतां तु पुनः पुन- रुपादानम् - येन प्रयुक्तानां भवति, तत् कर्म — इत्यवधारितं विचारणा पूर्वकम् ; तत्क्षये च नामावशेषेण सर्वोत्सादो मो- क्षः तञ्च पुण्यपापाख्यं कर्म, 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्यवधारितत्वात् एतत्कृत: संसार: तत्र अपुण्येन स्थावरजङ्गमेषु स्वभावदुः खबहुलेषु नरकति- ये प्रेतादिषु च दुःखम् अनुभवति पुनः पुनर्जायमान: म्रियमाणश्च इत्येतत राजवर्त्मवत् सर्वलोकप्रसिद्धम् । यस्तु शास्त्रीयः पुण्यो वै पुण्येन कर्मणा भवति, तत्रैव आदर: क्रियत इह श्रुत्या । पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादा: । मोक्षस्यापि पुरुषार्थत्वात् तत्साध्यता बृहदारण्यकोपनिषद्भाष्ये. [बा. ३. प्राप्ता ; यावत् यावत् पुण्योत्कर्षः तावत् तावत् फलोत्कर्ष- प्राप्तिः; तस्मात् उत्तमेन पुण्योत्कर्षेण मोक्षो भविष्यतीत्य- शङ्का स्यात्; सा निवर्तयितव्या । ज्ञानसहितस्य च प्रकृ- स्य कर्मण एतावती गतिः, व्याकृतनामरूपास्पदत्वात् कर्मणः तत्फलस्य च ; न तु अकार्ये नित्ये अव्याकृतधर्मिणि अनामरूपात्मके क्रियाकारक फलस्वभाववर्जिते कर्मणो व्या- पारोऽस्ति ; यत्र च व्यापारः स संसार एव इत्यस्यार्थस्य प्रदर्शनाय ब्राह्मणमारभ्यते ॥ ' अनारभ्य- यत्तु कैश्विदुच्यते--- विद्यासहितं कर्म निरभिसंधि विषदध्यादिवत् कार्यान्तरमारभत इति --- तन्न, त्वान्मोक्षस्य ; बन्धननाश एव हि मोक्षः, न कार्यभूत: बन्धनं च अविद्येत्यवोचाम; अविद्यायाश्च न कर्मणा नाश उपपद्यते दृष्टविषयत्वाच्च कर्मसामर्थ्यस्य; उत्पयाप्तिवि- कारसंस्कारा हि कर्मसामर्थ्यस्य विषया:; उत्पादयितुं प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्य कर्मणः, न अतो व्य- तिरिक्तविषयोऽस्ति कर्मसामर्थ्यस्य, लोके अप्रसिद्धत्वात; न च मोक्ष एषां पदार्थानामन्यतमः ; अविद्यामात्रव्यवहित इत्यवोचाम । बाढम् ; भवतु केवलस्यैव कर्मण एवंस्वभा- वता ; विद्यासंयुक्तस्य तु निरभिसंधेः भवति अन्यथा स्व- क. १.] तृतीयोऽध्यायः । भाव: ; दृष्टं हि अन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानाम् अन्यविषये सामर्थ्यम्; तथा कर्मणोऽप्यस्त्विति चेत्- न । प्रमाणा- भावात् । तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नाथ- पत्तिः न शब्दोऽस्ति । ननु फलान्तराभावे चोदनान्यथा- नुपपत्ति: प्रमाणमिति ; न हि नित्यानां कर्मणां विश्वजिन्न्याये- न फलं कल्प्यते ; नापि श्रुतं फलमस्ति ; चोद्यन्ते च तानि ; पारिशेष्यात् मोक्षः तेषां फलमिति गम्यते; अन्यथा हि पुरुषा न प्रवर्तेरन् । ननु विश्वजिन्न्याय एव आयातः, मो- क्षस्य फलस्य कल्पितुत्वात् - मोक्षे वा अन्यस्मिन्वा फले अकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुता- र्थापत्त्या, यथा विश्वजिति ; ननु एवं सति कथमुच्यते, विश्व- जिन्न्यायो न भवतीति ; फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते । मोक्षः फलमेव न भ- वतीति चेत्, न, प्रतिज्ञाहानात् कर्म कार्यान्तरं विषद्- ध्यादिवत् आरभत इति हि प्रतिज्ञातम् ; स चेन्मोक्षः कर्म- णः कार्य फलमेव न भवति, सा प्रतिज्ञा हीयेत । कर्मका- र्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः । अथ चेत्- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. का- कर्मकार्य न भवति, नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोऽर्थ इति वक्तव्यम् । न च कार्यफलशब्द- भेदमात्रेण विशेष: शक्यः कल्पयितुम् । अफलं च मोक्षः, नित्यैश्च कर्मभिः क्रियते — नित्यानां कर्मणां फलं न, र्यम् - इति च एषोऽर्थः विप्रतिषिद्धोऽभिधीयते - यथा अग्निः शीत इति । ज्ञानवदिति चेत् — यथा ज्ञानस्य कार्य मोक्षः ज्ञानेनाक्रियमाणोऽप्युच्यते, तद्वत् कर्मकार्यत्वमिति न, अज्ञाननिवर्तकत्वात् ज्ञानस्य ; अज्ञानव्यवधान- निवर्तकत्वात् ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते । न तु कर्मणा निवर्तयितव्यमज्ञानम् न च अज्ञानव्यति- रेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् - नित्यत्वा- न्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च - यत्कर्मणा निवर्त्येत । अ- ज्ञानमेव निवर्तयतीति चेत्, न विलक्षणत्वात् -- अनभि व्यक्ति: अज्ञानम् अभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते ; कर्म तु नाज्ञानेन विरुध्यते तेन ज्ञानविलक्षणं कर्म । यदि ज्ञानाभाव:, यदि संशयज्ञानम्, यदि विपरीतज्ञानं वा उच्य - ते अज्ञानमिति, सर्व हि तत् ज्ञानेनैव निवर्त्यते ; न तु कर्म- णा अन्यतमेनापि विरोधाभावात् । अथ अदृष्टं कर्मणाम अ- ज्ञाननिवर्तकत्वं कल्प्यमिति चेत्, न, ज्ञानेन अज्ञाननिवृत्तौ क. १.] तृतीयोऽध्यायः । गम्यमानायाम् अदृष्टनिवृत्तिकल्पनानुपपत्तेः ; यथा अवघा - तेन ब्रीहीणां तुषनिवृत्तौ गम्यमानायाम् अग्निहोत्रादिनित्य- कर्मकार्या अदृष्टा न कल्प्यते तुषनिवृत्तिः, तद्वत् अज्ञाननि- वृत्तिरपि नित्यकर्मकार्या अदृष्टा न कल्प्यते । ज्ञानेन विरुद्ध- त्वं च असकृत् कर्मणामवोचाम । यत् अविरुद्धं ज्ञानं कर्मभिः, तत् देवलोकप्राप्तिनिमित्तमित्युक्तम्- 'विद्यया देवलोक : ' इति श्रुतेः । किंचान्यत् कल्प्ये च फले नित्यानां कर्मणां श्रुतानाम्, यत् कर्मभिर्विरुध्यते - द्रव्यगुणकर्मणां कार्यमेव न भवति - किं तत् कल्प्यताम्, यस्मिन् कर्मणः सामर्थ्यमेव न दृष्टम् ? किं वा यस्मिन् दृष्टं सामर्थ्यम्, यश्च कर्मणां फलमविरुद्धम्, तत्कल्प्यतामिति । पुरुषप्रवृत्तिजननाय अवश्यं चेत् कर्म- फलं कल्पयितव्यम् - कर्माविरुद्ध विषय एव श्रुतार्थापत्तेः क्षीणत्वात् नित्यो मोक्षः फलं कल्पयितुं न शक्यः, तद्व्यवधा- नाज्ञाननिवृत्तिर्वा अविरुद्धत्वात् दृष्टसामर्थ्यविषयत्वाच्चेति । पारिशेष्यन्यायात् मोक्ष एव कल्पयितव्य इति चेत्-- सर्वेषां हि कर्मणां सर्व फलम् ; न च अन्यत् इतरकर्मफल- व्यतिरेकेण फलं कल्पनायोग्य मस्ति; परिशिष्टश्च मोक्षः ; स च इष्ट: वेदविदां फलम्; तस्मात् स एव कल्पयितव्यः इति चेत्- न, कर्मफलव्यक्तीनाम् आनन्त्यात् पारिशेष्य- • बृहदारण्यकोपनिषद्भाष्ये [जा. ३. न्यायानुपपत्तेः ; न हि पुरुषेच्छाविषयाणां कर्मफलानाम् एतावत्त्वं नाम केनचित् असर्वज्ञेनावधृतम्, तत्साधनानां वा, पुरुषेच्छानां वा अनियतदेशकालनिमित्तत्वात् पुरुषे- च्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात्; प्रतिप्राणि च इच्छावैचित्र्यात् फलानां तत्साधनानां च आनन्त्यसि- द्धिः; तदानन्त्याच्च अशक्यम् एतावत्त्वं पुरुषैर्ज्ञातुम् ; अज्ञा- ते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति । कर्मफलजातिपारिशेष्यमिति चेत् — सत्यपि इच्छाविष- याणां तत्साधनानां च आनन्त्ये, कर्मफलजातित्वं नाम स- र्वेषां तुल्यम्; मोक्षस्तु अकर्मफलत्वात् परिशिष्टः स्यात् ; तस्मात् परिशेषात् स एव युक्तः कल्पयितुमिति चेत - न ; तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वो- पपत्तेः परिशेषानुपपत्तिः । । तस्मात् अन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्ति:; उत्पन्त्यातिविकार संस्काराणामन्यतम- मपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्ति: चतुर्णामन्यतम एव मोक्ष इति चेत् -- न तावत् उत्पाद्यः, नित्यत्वात्; अत एव अविकार्य: ; असंस्कार्यश्च अत एव - असाधनद्रव्यात्मकत्वाच्च - साधनात्मकं हि द्रव्यं संस्क्रियते, यथा पात्राज्यादि प्रोक्षणादिना; न च संस्क्रियमाणः, सं- क. १.] तृतीयोऽध्यायः । ' स्कार निर्वत्यों वा यूपादिवत्; पारिशेष्यात् आप्यः स्यात्; न आप्योऽपि, आत्मस्वभावत्वात् एकत्वाच्च । इतरैः कर्म- भिर्वैलक्षण्यात् नित्यानां कर्मणाम्, तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् न कर्मत्वसालक्षण्यात् सलक्षणं कस्मात् फलं न भवति इतरकर्मफलैः निमित्तवैलक्षण्यादि- ति चेत्, न, क्षामवत्यादिभिः समानत्वात् ; यथा हि- गृहदाहादौ निमित्ते क्षामवत्यादीष्टिः, यथा भिन्ने जुहोति, स्कने जुहोति' इति — एवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते - तैश्वाविशेषान्नैमित्तिकत्वेन, जीवना- दिनिमित्ते च श्रवणात्, तथा नित्यानामपि न मोक्षः फलम् । आलोकस्य सर्वेषां रूपदर्शनसाधनत्वे, उलूकादय: आलो- केन रूपं न पश्यन्तीति उलूकादिचक्षुषो वैलक्षण्यादितर- लोकचक्षुभिः, न रसादिविषयत्वं परिकल्प्यते, रसादिवि- ये सामर्थ्यस्यादृष्टत्वात् । सुदूरमपि गत्वा यद्विषयं दृष्टं सामर्थ्य तत्रैव कश्चिद्विशेषः कल्पयितव्यः । यत्पुनरुक्तम्, विद्यामन्त्रशर्करादिसंयुक्तविषदध्यादिवत् नित्यानि कार्या- न्तरमारभन्त इति - आरभ्यतां विशिष्टं कार्यम तत् इष्टत्वादविरोधः निरभिसंधे: कर्मणो विद्यासंयुक्तस्य वि- ; शिष्टकार्यान्तरारम्भे न कश्विद्विरोधः, देवयाज्यात्मयाजिनोः वृहदारण्यकोपनिषद्भाष्ये [त्रा. ३. आत्मयाजिनो विशेषश्रवणात्- 'देवयाजिनः श्रेयानात्म- याजी' इत्यादौ 'यदेव विद्यया करोति' इत्यादौ च । यस्तु परमात्मदर्शनविषये मनुनोक्त: आत्मयाजिशब्द : ' संप- श्यन्नात्मयाजी' इत्यत्र - समं पश्यन् आत्मयाजी भव- तीत्यर्थः । अथवा भूतपूर्वगत्या - आत्मयाजी आत्मसं- स्कारार्थे नित्यानि कर्माणि करोति - ' इदं मेऽनेनानं संस्क्रि यते' इति श्रुतेः ; तथा 'गाहोंमै:' इत्यादिप्रकरणे कार्य - करण संस्कारार्थत्वं नित्यानां कर्मणां दर्शयति ; संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति, तस्य इह जन्मान्तरे वा समम् आत्मदर्शनमुत्पद्यते ; समं पश्यन् स्वा- राज्यमधिगच्छतीत्येषोऽर्थः ; आत्मयाज़िशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्र- दर्शनार्थम् । किंचान्यत् - 'ब्रह्मा विश्वसृजो धर्मो महानव्यक्त- मेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः' इति च देवसाष्टिव्यतिरेकेण भूताप्ययं दर्शयति- ' भूतान्यप्येति पञ्च वै' 'भूतान्यत्येति' इति पाठं ये कुर्वन्ति तेषां वेदविषये परिच्छिन्न बुद्धित्वाददोष: ; न च अर्थवादत्वम् - अध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्व्यतिरिक्तात्मज्ञानार्थस्य च कर्म- काण्डोपनिषद्भ्यां तुल्यार्थत्वदर्शनात् विहिताकरणप्रतिषिद्ध- , ' क. १.] " तृतीयोऽध्यायः । ; ३.९३ कर्मणां च स्थावरश्वसूकरादिफलदर्शनात्, वान्ताश्यादिप्रेत- दर्शनाश्च । न च श्रुतिस्मृतिविहितप्रतिषिद्धव्यतिरेकेण विहि तानि वा प्रतिषिद्धानि वा कर्माणि केनचिदवगन्तुं शक्य- न्ते येषाम् अकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते न च एषाम् कर्मफलत्वं केनचिदभ्युपगम्यते । तस्मात् विहिताकरणप्रति- षिद्धसेवानां यथा एते कर्मविपाका : प्रेततिर्यक्स्थावरादयः, तथा उत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम्; तस्मात् 'स आत्मनो वपामुदखिदत् ' ' सोऽरोदीत्' इत्यादि- वत् न अभूतार्थवादत्वम् । तत्रापि अभूतार्थवादत्वं मा भू- दिति चेत् - भवत्वेवम् ; न च एतावता अस्य न्यायस्थ बाधो भवति ; न च अस्मत्पक्षो वा दुष्यति । न च 'ब्रह्मा विश्वसृजः' इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम्, तेषां देवसाष्र्ष्टिताया: फलस्योक्तत्वात् । तस्मात् साभिसंधी- नां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि येषां पुनः नित्यानि निरभिसंधीनि आत्मसंस्का रार्थानि तेषां ज्ञानोत्पत्त्यर्थानि तानि ' ब्राह्मीयं क्रियते तनुः ' इति स्मरणात् ; तेषाम् आरादुपकारत्वात् मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते यथा चायमर्थः, षष्ठे ज- , ; - " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. नकाख्यायिकासमाप्तौ वक्ष्यामः । यत्तु विषदध्यादिवदित्यु- क्तम्, तत्र प्रत्यक्षानुमानविषयत्वादविरोधः ; यस्तु अत्यन्त - शब्दगम्योऽर्थः तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् । न च प्रमाणान्तर- विरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते, यथा- शीतोऽग्निः क्लेदयतीति ; श्रुते तु तादर्थ्ये वाक्यस्य, प्रमाणान्तरस्य आभासत्वम् यथा ' खद्योतोऽग्निः' इति ' तलमलिन- मन्तरिक्षम् ' इति बालानां यत्प्रत्यक्षमपि तद्विषयप्रमाणान्त- रस्य यथार्थत्वे निश्चिते, निश्चितार्थमपि बालप्रत्यक्षम् आभा- सी भवति तस्मात् वेदप्रामाण्यस्याव्यभिचारात् तादर्थ्ये सति वाक्यस्य तथात्वं स्यात्, न तु पुरुषमति कौशलम् ; न हि पुरुषमतिकौशलात् सविता रूपं न प्रकाशयति ; तथा वेद- वाक्यान्यपि न अन्यार्थानि भवन्ति । तस्मात् न मोक्षार्थानि कर्माणीति सिद्धम् । अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते ॥ अथ हैनं भुज्युर्लायायनिः पप्रच्छ याज्ञवल्क्येति होवाच । मद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहा- नैम तस्यासीद्दुहिता गन्धर्वगृहीता तमपृ- क. १.] तृतीयोऽध्यायः । च्छाम कोऽसीति सोऽब्रवीत्सुधन्वाङ्गिर- स इति तं यदा लोकानामन्तानपृच्छामा- थैनमब्रूम क पारिक्षिता अभवन्निति क पारिक्षिता अभवन्स त्वा पृच्छामि या- ज्ञवल्क्य क पारिक्षिता अभवन्निति ॥ अथ अनन्तरम् उपरते जारत्कारवे, भुज्युरिति नामतः, लह्यस्यापत्यं लाह्यः तदपत्यं लाह्यायनिः, प्रपच्छ ; याज्ञव- ल्क्येति होवाच । आदावुक्तम् अश्वमेधदर्शनम् ; समष्टिव्य- ष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुचितो वा केवलज्ञानसंपादि- तो वा, सर्वकर्मणां पराकाष्ठा भ्रूणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि क्रमरन्ति; तेन हि समष्टिं व्यष्टीश्व प्राप्नोति ; तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेध - यागफलभूताः ; मृत्युरस्यात्मा भवत्येतासां देवताना- 'मेको भवति' इत्युक्तम; मृत्युश्च अशनायालक्षणो बुद्धधा- त्मा समष्टिः प्रथमजः वायुः सूत्रं सत्यं हिरण्यगर्भः ; तस्य व्याकृतो विषयः - यदात्मकं सर्वे द्वैतकत्वम् यः सर्वभू- तान्तरात्मा लिङ्गम् अमूर्तरसः यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसंबद्धानां च विज्ञानानां परा गतिः परं फलम् । तस्य कियान गोचरः कियती व्याप्तिः सर्वत: 6 ' बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. परिमण्डलीभूता सा वक्तव्या तस्याम् उक्तायाम्, सर्वः संसारो बन्धगोचर उक्तो भवति ; तस्य च समष्टिव्यष्ट्रयात्म- दर्शनस्य अलौकिकत्वप्रदर्शनार्थम् आख्यायिकामात्मनो वृत्तां प्रकुरुते ; तेन च प्रतिवादिबुद्धि व्यामोहयिष्यामीति मन्यते ॥ मद्रेषु - मद्रा नाम जनपदाः तेषु, चरका:- अध्ययनार्थं व्रतचरणाश्चरका : अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः ; ते पतञ्जलस्य - ते वयं पर्यटन्तः, पतञ्जलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहान ऐम गतवन्तः; तस्यासीद्दुहिता गन्ध- र्वगृहीता - गन्धर्वेण अमानुषेण सत्त्वेन केनचित् आविष्टा ; गन्धर्वो वा धिष्ण्योऽग्निः ऋत्विक् देवता विशिष्टविज्ञान- त्वात् अवसीयते ; न हि सत्त्वमात्रस्य ईदृशं विज्ञानमुपपद्यते । तं सर्वे वयं परिवारिताः सन्तः अपृच्छाम - कोऽसीति-क- स्त्वमसि किंनामा सितत्त्वः । सोऽब्रवीद्गन्धर्वः - सुधन्वा नामतः, आङ्गिरसो गोत्रतः । तं यदा यस्मिन्काले लोका- नाम अन्तान् पर्यवसानानि अपृच्छाम, अथ एनं गन्ध- र्वम् अब्रूम - भुवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेषु आत्मानं श्लाघयन्तः पृष्टवन्तो वयम् कथम् ? क पारिक्षि- ता अभवन्निति । स च गन्धर्वः सर्वमस्मभ्यमब्रवीत् । तेन दिव्येभ्यो मया लब्धं ज्ञानम् ; तत् तव नास्ति; अतो नि. क. २.] तृतीयोऽध्यायः । इत्यभिप्रायः । सोऽहं विद्यासंपन्नो लब्धाग- मो गन्धर्वात् त्वा त्वाम् पृच्छामि याज्ञवल्क्य - क पारि- क्षिता अभवन् - तत् त्वं किं जानासि ? हे याज्ञवल्क्य, कथय, पृच्छामि - क्क पारिक्षिता अभवन्निति । स होवाचोवाच वै सोऽगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति क न्वश्वमेधयाजिनो गच्छन्तीति द्वात्रि- तं वै देवरथाहृयान्ययं लोकस्त समन्तं पृथिवी द्विस्तावत्पर्येति ताः समन्तं पृ- थिवीं द्विस्तावत्समुद्रः पर्येति तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्तान्वायुरात्मनि धित्वा तत्रागमयद्यताश्वमेधयाजिनोऽभ- वन्नित्येवमिव वै स वायुमेव प्रशशस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुन- मृत्युं जयति य एवं वेद ततो ह भुज्यु- लौह्यायनिरुपरराम ॥ २ ॥ बृहदारण्यकोपनिषद्भाष्ये स होवाच याज्ञवल्क्यः; उवाच वैस:- [ब्रा. ३. वै-शब्द: : स्मर- णार्थ:- उवाच वै स गन्धर्वः तुभ्यम् । अगच्छन्वै ते पारिक्षिता:, तत् तत्र ; क ? यत्र यस्मिन् अश्वमेधयाजिनो गच्छन्ति - इति निर्णीते प्रश्न आह- क नु कस्मिन् अश्वमेधयाजिनो गच्छन्तीति । तेषां गतिविवक्षया भुवन- कोशपरिमाणमाह- द्वाविंशतं वै द्वे अधिके विंशत्, , " द्वात्रिंशतं वै देवरथाह्नपानि- देव आदित्यः तस्य रथो देवरथः तस्य रथस्य गत्या अह्ना यावत्परिच्छिद्यते देशपरिमाणं तत् देवरथाह्वयम्, तद्वात्रिंशद्गुणितं देव- रथाह्नयानि तावत्परिमाणोऽयं लोकः लोकालोकगिरिणा परिक्षिप्त:- यत्र वैराजं शरीरम्, यत्र च कर्मफलोपभोग: प्राणिनाम् स एष लोक: ; एतावान लोक:, अतः परम अलोकः, तं लोकं समन्तं समन्ततः, लोकविस्तारान द्विगु- णपरिमाणविस्तारेण परिमाणेन तं लोकं परिक्षिप्ता पर्येति पृथिवी; तां पृथिवीं तथैव समन्तम् द्विस्तावत् द्विगुणेन परिमाणेन समुद्रः पर्येति यं घनोदमाचक्षते पौराणिका: । तत्र अण्डकपालयोर्विवरपरिमाणमुच्यते, येन विवरेण मा- र्गेण बहिर्निर्गच्छन्तो व्याप्नुवन्ति अश्वमेधयाजिनः ; तत्र यावती यावत्परिमाणा क्षुरस्य धारा अग्रम्, यावद्वा सौ- , : क्र. २. ] तृतीयोऽध्यायः । क्ष्म्येण युक्तं मक्षिकाया: पत्रम्, तावान् तावत्परिमाणः, अन्तरेण मध्येऽण्डकपालयोः, आकाश: छिद्रम्, तेन आका- शेनेत्येतत् ; तान् पारिक्षितानश्वमेधयाजिनः प्राप्तान् इन्द्रः परमेश्वरः- योऽश्वमेधेऽग्निश्चितः, सुपर्ण:- यद्विषयं दर्श- नमुक्तम् ' तस्य प्राची दिक्शिर:' इत्यादिना - सुपर्णः पक्षी भूत्वा, पक्षपुच्छात्मकः सुपर्णो भूत्वा, वायवे प्रायच्छत्- मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति । तान् पारिक्षितान् वायुः आत्मनि घित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन् अगमयत् ; क ? यत्र पूर्वे अतिक्रान्ताः पारिक्षिता अश्वमेध - याजिनोऽभवन्निति । एवमिव वै- एवमेव स गन्धर्वः : वायु- मेव प्रशशंस पारिक्षितानां गतिम् । समाप्ता आख्यायिका ; आख्यायिकानिर्वृत्तं तु अर्थम् आख्यायिकातोऽपसृत्य स्वेन श्रुतिरूपेणैव आचष्टेऽस्मभ्यम् । यस्मात् वायुः स्थावरजङ्गमा- नां भूतानामन्तरात्मा, बहिश्च स एव, तस्मात् अध्यात्माधि- भूताधिदैवभावेन विविधा या अष्टिः व्याप्तिः स वायुरेव ; तथा समष्टिः केवलेन सूत्रात्मना वायुरेव । एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेन उपगच्छति यः - एवं वेद, तस्य किं फलमित्याह-अप पुनर्मृत्युं जयति, सकृन्मृत्वा पुनर्न म्रियते । तत आत्मन: प्रश्ननिर्णयात् भुज्युर्लायायनिरुपरराम ॥ इति तृतीयाध्यायस्य तृतीयं ब्राह्मणम् ॥ N. B. C. II. 4 चतुर्थं ब्राह्मणम् ॥ अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ । पुण्यपापप्रयुक्तैर्महा- तिग्रहैर्गृहीतः पुनः पुनः ग्रहातिग्रहान् त्यजन् उपाददत् संस- रतीत्युक्तम् ; पुण्यस्य च पर उत्कर्षो व्याख्यातः व्याकृत- विषय: समष्टिव्यष्टिरूपः द्वैतैकत्वात्मप्राप्तिः । यस्तु ग्रहाति - प्रस्तः संसरति, सः अस्ति वा न अस्ति; अस्तित्वे च किंलक्षण: - इति आत्मन एव विवेकाधिगमाय उषस्तप्रश्न आरभ्यते । तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनि- मुक्तस्वभावस्य अधिगमात् यथोक्ताद्बन्धनात् विमुच्यते स- प्रयोजकात् आख्यायिकासंबन्धस्तु प्रसिद्धः ॥ अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ या - ज्ञवल्क्येति होवाच यत्साक्षादपरोक्षा- य आत्मा सर्वान्तरस्तं मे व्याच- क्ष्वेत्येष त आत्मा सर्वान्तरः कतमो या ज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापा- नीति स त आत्मा सर्वान्तरो यो व्या- क. १.] तृतीयोऽध्यायः । नेन व्यानीति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वा- न्तर एष त आत्मा सर्वान्तरः ॥ १ ॥ अथ ह एनं प्रकृतं याज्ञवल्क्यम्, उषस्तो नामतः, चक्रस्यापत्यं चाक्रायणः, पप्रच्छ । यत् ब्रह्म साक्षात् अव्य- वहितं केनचित् द्रष्टुः अपरोक्षात्- अगौणम्-न श्रोत्र- ब्रह्मादिवत् - किं तत् ? य आत्मा- आत्मशब्देन प्रत्यगा- स्मोच्यते, तत्र आत्मशब्दस्य प्रसिद्धत्वात्; सर्वस्याभ्यन्तर: सर्वान्तर: ; यद्यः शब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति- तम् आत्मानम्, मे मह्यम्, व्याचक्ष्वेति - विस्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथा आचक्ष्व, सोऽयमित्येवं कथयस्वेत्यर्थः पः । एवमुक्तः प्रत्याह याज्ञवल्क्यः ― एषः ते तव आत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ; सर्व विशेषणोपल- क्षणार्थ सर्वान्तरग्रहणम् यत् साक्षात् अव्यवहितम् अप- रोक्षात् अगौणम् ब्रह्म बृहत्तमम् आत्मा सर्वस्य सर्वस्या- भ्यन्तरः, एतैर्गुणैः समस्तैर्युक्तः एषः कोऽसौ तवात्मा ! योऽयं कार्यकरणसंघातः तव सः येनात्मना आत्मवान् स एष तव आत्मा-तब कार्यकरणसंघातस्येत्यर्थः । तत्र पिण्डः, तस्याभ्यन्तरे लिङ्गात्मा करणसंघातः, तृतीयो यश्च संदि- बृहदारण्यकोपनिषद्भष्ये [ ब्रा. ४. ह्यमान:- तेषु कतमो मम आत्मा सर्वान्तरः त्वया विव- क्षित इत्युक्ते इतर आह— यः प्राणेन मुखनासिकासंचा- रिणा प्राणिति प्राणचेष्ठां करोति, येन प्राणः प्रणयित इत्यर्थ:- सः ते तव कार्यकरणसंघातम्य आत्मा विज्ञान- मय: ; समानमन्यन ; योऽपानेनापानीति यो व्यानेन व्या. नीतीति - छान्दसं दैर्घ्यम् । सर्वा: कार्यकरणसंघातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते - न हि चेत- नावद धिष्ठितस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ; तस्मात् विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत प्राण- नादिचेष्टां प्रतिपद्यते तस्मात् सोऽस्ति कार्यकरणसंघात - विलक्षण:, यश्चेष्टयति ॥ - स होवाचोषस्तश्चाक्रायणो यथा वि ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्यप- दिष्टं भवति यदेव साक्षादपरोक्षाद्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष न आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येन श्रुतेः श्रोतार शृणुया न मतेर्मन्तारं मन्वीथा क. २.] तृतीयोऽध्यायः । न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरोऽतोऽन्यदाते ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥ इति चतुर्थ ब्राह्मणम् ॥ स होवाचोषस्तश्चाक्रायणः ; यथा कश्चित् अन्यथा प्र- तिज्ञाय पूर्वम्, पुनर्विप्रतिपन्नो ब्रूयादन्यथा— असौ गौर: असावश्व: यश्चलति धावतीति वा, पूर्व प्रत्यक्षं दर्शयामीति प्रतिज्ञाय, पश्चात् चलनादिलिङ्गैर्व्यपदिशति - एवमेव एतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया; किं बहुना ! त्यक्त्वा गोतृष्णानिमित्तं व्याजम् यदेव साक्षादपरोक्षा- द्ब्रह्म य आत्मा सर्वान्तर:, तं मे व्याचक्ष्वेति । इतर आह- यथा मया प्रथमं प्रतिज्ञातः तव आत्मा- एवंल- क्षण इति- तां प्रतिज्ञामनुवर्त एव; तत् तथैव यथोक्तं मया । यत्पुनरुक्तम्, तमात्मानं घटादिवत् विषयी कुर्विति - तत् अशक्यत्वान्न क्रियते । कस्मात्पुनः तदशक्यमित्याह- वस्तुस्वाभाव्यात; किं पुनः तत् वस्तुस्वाभाव्यम ! दृष्टया- दिद्रष्टृत्वम; दृष्टेर्द्रष्टा ह्यात्मा; दृष्टिरिति द्विविधा भवति - लौकिकी पारमार्थिकी चेति तत्र लौकिकी चक्षुः संयुक्ता- न्त: करणवृत्तिः; सा क्रियत इति जायते विनश्यति च ; ; बृहदारण्यकोपनिषद्भाष्ये । , [ ब्रा. ४. या तु आत्मनो दृष्टिः अग्न्युष्णप्रकाशादिवत् सा च द्रष्टुः स्वरूपत्वात्, न जायते न विनश्यति च ; सा क्रिय- माणया उपाधिभूतया संसृष्टेवेति व्यपदिश्यते - द्रष्टेति, भेदवच्च - द्रष्टा दृष्टिरिति च ; यासौ लौकिकी दृष्टि: चक्षु- द्वारा रूपोपरक्ता जायमानैव नित्यया आत्मदृष्ट्या संसृ- ष्टेव, तत्प्रतिच्छाया - तया व्याप्तैव जायते, तथा विनश्यति च; तेन उपचर्यते द्रष्टा सदा पश्यन्नपि - पश्यति न पश्यति चेति ; न तु पुनः द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ; तथा च वक्ष्यति षष्ठे -- ' ध्यायतीव लेलायतीव', 'न हि द्रष्टु- ईष्टेर्विपरिलोपो विद्यते' इति च । तमिममर्थमाह — लौकि- क्या दृष्टेः कर्मभूतायाः, द्रष्टारं स्वकीयया नित्यया दृष्टधा व्याप्तारम्, न पश्येः; यासौ लौकिकी दृष्टिः कर्मभूता, सा रूपोपरक्ता रूपाभिव्यञ्जिका न आत्मानं स्वात्मनो व्याप्तारं प्रत्यभ्वं व्याप्नोति ; तस्मात् तं प्रत्यगात्मानं दृष्टेर्द्रष्टारं न पश्येः । तथा श्रुतेः श्रोतारं न शृणुयाः । तथा मते: मनोवृत्तेः 1 केवलाया व्याप्तारं न मन्वीथाः । तथा विज्ञातेः केव- लाया बुद्धिवृत्तेः व्याप्तारं न विजानीयाः । एष वस्तुनः स्वभाव : ; अतः नैव दर्शयितुं शक्यते गवादिवत ॥ 'न दृष्टेर्द्रष्टारम्' इत्यत्र अक्षराणि अन्यथा व्याचक्षते क. २.] तृतीयोऽध्यायः । केचित् — न दृष्टेर्द्रष्टारम् दृष्टेः कर्तारम् दृष्टिभेदमकृत्वा ; दृष्टिमात्रस्य कर्तारम्, न पश्येरिति दृष्टेरिति कर्मणि षष्ठी; सा दृष्टि: क्रियमाणा घटवत् कर्म भवति ; द्रष्टारमि- ति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ; तेन असौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातृणामभिप्रायः । तत्र दृष्टेरिति षष्ठयन्तेन दृष्टि- ग्रहणं निरर्थकमिति दोषं न पश्यन्ति ; पश्यतां वा पुनरुक्तम् असारः प्रमादपाठ इति वा न आदरः; कथं पुनराधिक्यम् ? तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वात् दुष्टेरिति निरर्थकम् ; तदा 'द्रष्टारं न पश्ये: ' इत्येतावदेव वक्तव्यम् ; यस्माद्धातोः परः तृच् श्रूयते, तद्धात्वर्थकर्तरि हि तृच् स्मर्यते; 'गन्तारं भेत्तारं वा नयति' इत्येतावानेव हि शब्दः प्रयुज्यते ; न तु 'गतेर्गन्तारं भिदेर्भेत्तारम्' इति असति अर्थविशेषे प्रयोक्त- व्य: ; न च अर्थवादत्वेन हातव्यां सत्यां गतौ ; न च प्रमा- दपाठः, सर्वेषामविगानात्; तस्मात् व्याख्यातृणामेव बुद्धि- दौर्बल्यम्, नाध्येतृप्रमादः । यथा तु अस्माभिर्व्याख्यातम् - लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्य:- तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्वि: प्रयोग उपपद्यते आत्मस्वरूपनिर्धारणाय ; 'न हि द्रष्टुर्दृष्टेः' इति च प्रदेशा- न्तरवाक्येन एकवाक्यतोपपन्ना भवति ; तथा च 'चक्षूंषि बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. पश्यति' 'श्रोत्रमिदं श्रुतम्' इति श्रुत्यन्तरेण एकवाक्यता उपपन्ना । न्यायाञ्च- एवमेव हि आत्मनो नित्यत्वमुपपद्यते विक्रियाभावे; विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् । ' ध्यायतीव लेलायतीव ' ' न हि द्रष्टुर्हष्टेर्विपरिलोपो विद्यते' ' एष नित्यो महिमा ब्राह्मणस्य' इति च श्रुत्यक्षराणि अन्यथा न गच्छन्ति । ननु द्रष्टा श्रोता मन्ता विज्ञाता इत्येवमादीन्यक्षराणि आत्मनोऽविक्रियत्वे न गच्छन्तीति- न, यथाप्राप्तलौकिकवाक्यानुवादित्वात् तेषाम् न आत्म- तत्त्वनिर्धारणार्थानि तानि ; ' न दृष्टेर्द्रष्टारम' इत्येवमादी- नाम् अन्यार्थासंभवात् यथोक्तार्थपरत्वमवगम्यते । तस्मात् अनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति । एषः ते तव आत्मा सर्वैरुक्तैर्विशेषणैर्विशिष्टः ;' अत: एतस्मादात्मन: अन्यदार्तम् - कार्य वा शरीरम् करणात्मकं वा लिङ्गम; एतदेव एकम् अनार्तम् अविनाशि कूटस्थम् । ततो इ उषस्तश्चाक्रायण उपरराम ॥ " इति तृतीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥ पञ्चमं ब्राह्मणम् ॥ बन्धनं सप्रयोजकमुक्तम् । यश्च बद्धः, तस्यापि अस्ति- त्वमधिगतम्, व्यतिरिक्तत्वं च । तस्य इदानीं बन्धमोक्षसा- धनं ससंन्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आर- भ्यते— अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच यदेव साक्षादपरो- क्षाद्रह्मय आत्मा सर्वान्तरस्तं मे व्याच- क्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो या- ज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै त - मात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाया- थ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैष- णोभे ह्येते एषणे एव भवतः । तस्माद्रा- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. ह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठा सेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एवातोऽन्यदात ततो ह कहोल: कौषीत- केय उपरराम ॥ १ ॥ इति पञ्चमं ब्राह्मणम् ॥ अथ ह एनं कहोलो नामतः, कुषीतकस्यापत्यं कौषीत - केयः, पप्रच्छ; याज्ञवल्क्येति होवाचेति, पूर्ववत् - यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति- यं विदित्वा बन्धनात्प्रमुच्यते । याज्ञवल्क्य आह— एष ते तव आत्मा ॥ किं वा किम् उषस्तकहोलाभ्याम् एक आत्मा पृष्टः, भिन्नावात्मानौ तुल्यलक्षणाविति । भिन्नाविति युक्तम, प्रश्न- योरपुनरुक्तत्वोपपत्तेः ; यदि हि एक आत्मा उषस्तकहोल- प्रश्नयोर्विवक्षितः, तत्र एकेनैव प्रश्नेन अधिगतत्वात् तद्वि- षयो द्वितीयः प्रश्नोऽनर्थकः स्यात्; न च अर्थवादरूपत्वं वा- क्यस्थ ; तस्मात् भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्यावि- क. १.] तृतीयोऽध्यायः । ति केचिद्व्याचक्षते । तन्न, ' ते ' इति प्रतिज्ञानात्; 'एष त आत्मा' इति हि प्रतिवचने प्रतिज्ञातम् ; न च एकस्य का- र्यकरणसंघातस्य द्वावात्मानौ उपपद्येते; एको हि कार्य- करणसंघातः एकेन आत्मना आत्मवान् ; न च उषस्तस्यान्यः कहोलस्यान्यः जातितो भिन्न आत्मा भवति द्वयोः अगौ- णत्वात्मत्व सर्वान्तरत्वानुपपत्तेः ; यदि एकमगौणं ब्रह्म द्वयो: इतरेण अवश्यं गौणेन भवितव्यम्; तथा आत्मत्वं सर्वा- न्तरत्वं च - विरुद्धत्वात्पदार्थानाम्; यदि एक सर्वान्तरं ब्रह्म आत्मा मुख्य:, इतरेण असर्वान्तरेण अनात्मना अमु- ख्येन अवश्यं भवितव्यम्; तस्मात् एकस्यैव द्वि: श्रवणं विशेषविवक्षया । यत्त पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तम्, तावन्मात्रं पूर्वस्यैवानुवाद:- तस्यैव अनुक्तः कश्चि- द्विशेषः वक्तव्य इति । कः पुनरसौ विशेष इत्युच्यते- पूर्वस्मिन्प्रने अस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयो जको बन्ध उक्त इति द्वितीये तु तस्यैव आत्मनः अश- नायादिसंसारधर्मातीतत्वं विशेष उच्यते-यद्विशेषपरिज्ञानात् संन्याससहितात् पूर्वोक्ताद्बन्धनात् विमुच्यते । तस्मात् प्रश्न- प्रतिवचनयो: ' एष त आत्मा' इत्येवमन्तयोः तुल्यार्थतैव । ननु कथम एकस्यैव चैत्र आत्मनः अशनायाद्यतीतत्वं तद्वत्त्वं चेति बृहदारण्यकोपनिषद्भाष्ये - [ब्रा. ५. विरुद्धधर्म समवायित्वमिति न, परिहितत्वात् ; नामरूपवि- कारकार्यकरणलक्षणसंघातोपाधिभेदसंपर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम, विरुद्धश्रुतिव्याख्यानप्रसङ्गेन च; यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः, स्वतः केवला एव रज्जुशुक्तिका - गगनादय:- न च एवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोध: । नामरूपोपाध्यस्तित्वे ' एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन' इति श्रुतयो विरुध्येरन्निति चेत्- न, सलिलफेनदृष्टान्तेन परिहृतत्वात् मदादिदृष्टान्तैश्च ; यदा तु परमार्थदृष्ट्या परमात्मतत्त्वात् श्रुत्यनुसारिभिः अन्यत्वेन निरूप्यमाणे नामरूपे मृदादिविकारवत् वस्त्वन्तरे तत्त्वतो न स्तः- सलिलफेनघटादिविकारवदेव, तदा तत् अपेक्ष्य 'एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन' इत्यादिपरमा- र्थदर्शन गोचरत्वं प्रतिपद्यते ; रूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सत् नामरूपकृत कार्यकरणोपा- धिभ्यो विवेकेन नावधार्यते, नामरूपोपाधिदृष्टिरेव च भव- ति स्वाभाविकी, तदा सर्वोऽयं वस्त्वन्तराम्तित्वव्यवहारः । अस्ति चायं भेदकृतो मिध्याव्यवहारः, येषां ब्रह्मतत्त्वादन्य- त्वेन वस्तु विद्यते येषां च नास्ति परमार्थवादिभिस्तु ' क. १.] तृतीयोऽध्यायः । - - श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि किं तस्वतोऽस्ति वस्तु किं वा नास्तीति ब्रह्मैकमेवाद्वितीयं सर्वसंव्यवहारशून्यमिति निर्धार्यते ; तेन न कश्चिद्विरोधः । न हि परमार्थावधारण- निष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे — 'एकमेवाद्विती यम्' 'अनन्तरमबाह्यम्' इति श्रुतेः ; न च नामरूपव्यवहा- रकाले तु अविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्ती- ति प्रतिषिध्यते । तस्मात् ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यव- हार: शास्त्रीयो लौकिकश्च ; अतो न काचन विरोधशङ्का । सर्ववादिनामप्यपरिहार्यः परमार्थसंव्यवहारकृतो व्यवहारः ॥ तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः कतमो याज्ञ- वल्क्य सर्वान्तर इति । प्रत्याह इतर :- योऽशनायापिपासे, अशितुमिच्छा अशनाया, पातुमिच्छा पिपासा; ते अश- नायापिपासे योऽत्येतीति वक्ष्यमाणेन संबन्धः । अविवेकिभिः तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति परमा- र्थतः- ताभ्यामसंसृष्टस्वभावत्वात् - तथा मूढैः अशनाया- पिपासादिमा गम्यमानमपि - क्षुधितोऽहं पिपासितोऽह- मिति, ते अत्येत्येव- परमार्थतः ताभ्यामसंसृष्टस्वभावत्वात् ; ' न लिप्यते लोकदुःखेन बाह्य:' इति श्रुते:- अविद्वल्लोका- ध्यारोपितदुःखेनेत्यर्थः । प्राणैकधर्मत्वात् समासकरणमश- बृहदारण्यकोपनिषद्भाष्ये ; [ ब्रा. ५. नायापिपासयोः । शोकं मोहम् - शोक इति काम: ; वस्तु उद्दिश्य चिन्तयतो यत् अरमणम्, तत् तृष्णाभिभू- तस्य कामबीजम् ; तेन हि कामो दीप्यते; मोहस्तु विप- रीतप्रत्ययप्रभवः अविवेकः भ्रमः स च अविद्या सर्व- स्यानर्थस्य प्रसवबीजम् भिन्नकार्यत्वात्तयोः शोकमोहयो: असमासकरणम् । तौ मनोऽधिकरणौ ; तथा शरीराधिक- रणौ जरां मृत्युं च अत्येति ; जरेति कार्यकरणसंघातविप- रिणाम: वलीपलितादिलिङ्गः ; मृत्युरिति तद्विच्छेदः विपरि- णामावसानः ; तौ जरामृत्यू शरीराधिकरणौ अत्येति । ये ते अशनायादयः प्राणमनः शरीराधिकरणाः प्राणिषु अनव- रतं वर्तमानाः अहोरात्रादिवत् समुद्रोर्मिवञ्च प्राणिषु संसार इत्युच्यन्ते; योऽसौ दृष्टेष्टेत्यादिलक्षणः साक्षादव्यवहितः अपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानाम् अशनायापिपासादिभिः संसारधर्मैः सदा न स्पृ- श्यते - आकाश इव घनादिमलै:- तम् एतं वै आत्मानं स्वं तत्त्वम्, विदित्वा ज्ञात्वा - अयमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति, ब्राह्मणाः- ब्राह्मणाना- मेवाधिकारो व्युत्थाने, अतो ब्राह्मणग्रहणम् - व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ; कुत इत्याह- पुत्रैषणायाः पुत्रार्थे- - क. १.] तृतीयोऽध्यायः । - ' षणा पुत्रैषणा - पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रति इच्छा एषणा दारसंग्रहः ; दारसंग्रहमकृत्वेत्यर्थः j वित्तैषणायाश्च - कर्मसाधनस्य गवादेरुपदानम् - अनेन कर्म कृत्वा पितृलोकं जेष्यामीति, विद्यासंयुक्तेन वा देवलोकम्, केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् । देवाद्वित्तात् व्युत्थानमेव नास्तीति केचित् यस्मात् तदू- लेन हि किल व्युत्थानमिति तदसत्, 'एतावान्वै काम : ' इति पठितत्वात् एषणामध्ये देवस्य वित्तस्थ; हिरण्यगर्भा- दिदेवताविषयैव विद्या वित्तमित्युच्यते, देवलोकहेतुत्वात् ; न हि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः, तस्मात्तत्सर्वमभवत्' 'आत्मा ह्येषां स भवति' इति श्रुते: ; तद्बलेन हि व्युत्थानम् एतं वै तमात्मानं विदित्वा ' इति विशेषवचनात् । तस्मात् त्रिभ्योऽप्येतेभ्यः अनात्म- लोकप्राप्तिसाधनेभ्यः एषणाविषयेभ्यो व्युत्थाय - एषणा काम:, ' एतावान्वै काम:' इति श्रुते:- एतस्मिन् विविधे अनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः । सर्वा हि साधनेच्छा फलेच्छैव, अतो व्याचष्टे श्रुतिः- एकैव एषणे- ति; कथम्? या ह्येव पुत्रैषणा सा वित्तैषणा, दृष्टफल- साधनत्वतुल्यत्वात्; या वित्तैषणा सा लोकैषणा ; फलार्थैव ' बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. सा; सर्व फलार्थ प्रयुक्त एव हि सर्व साधनमुपादत्ते; ra एकैव एषणा या लोकैषणा सा साधनमन्तरेण संपा- दयितुं न शक्यत इति, साध्यसाधनभेदेन उभे हि यस्मात् एते एष एव भवतः । तस्मात् ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा- अतो येऽतिक्रान्ता ब्राह्मणाः, सर्व कर्म कर्मसाधनं च सर्व देवपितृमानुषनिमित्तं यज्ञोपवीता- दि - तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते, 'निवीतं मनुष्याणाम्' इत्यादिश्रुतेः । तस्मात पूर्वे ब्राह्मणा: ब्रह्म- विदः व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः, परमहंसपरिव्राज्यं प्रतिपद्य, भिक्षाचर्ये चरन्ति - भिक्षार्थ चरणं भिक्षाचर्यम्, चरन्ति - त्यक्त्वा स्मार्त लिङ्ग केव- लमाश्रममात्रशरणानां जीवनसाधनं पारिव्राज्यव्यञ्जकम् ; विद्वान् लिङ्गवर्जितः - ' तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गो- ऽव्यक्ताचारः' इत्यादिस्मृतिभ्यः, 'अथ परित्राड्विवर्णवासा मुण्डोsपरिम:' इत्यादिश्रुतेः, 'सशिखान्केशान्निकृत्य वि- सृज्य यज्ञोपवीतम्' इति च ॥ , ननु ' व्युत्थायाथ भिक्षाचर्य चरन्ति' इति वर्तमानाप- देशात् अर्थवादोऽयम् ; न विधायकः प्रत्ययः कश्चिच्छ्रय ते लिङ्लोट्तव्यानामन्यतमोऽपि ; तस्मात् अर्थवादमात्रेण श्रुति- क. १.] तृतीयोऽध्यायः । ' 6 उपा- स्मृतिविहितानां यज्ञोपवीतादीनां साधनानां न शक्यते परित्यागः कारयितुम् ; ' यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा' । पारिव्राज्ये तावदध्ययनं विहितम् - वेदसंन्यस- नाच्छूद्रस्तस्माद्वेदं न संन्यसेत्' इति 'स्वाध्याय एवोत्स- ज्यमानो वाचम्' इति च आपस्तम्बः ; 'ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः । गर्हितान्नाद्ययोर्जग्धिः सुरापान- समानि षट् ' - इति वेदपरित्यागे दोषश्रवणात् । सने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्' इति परिव्राज - कधर्मेषु च गुरूपासनम्वाध्याय भोजनाचमनादीनां कर्मणां श्रुतिस्मृतिषु कर्तव्यतया चोदितत्वात् गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात् तत्परित्यागो नैवावगन्तुं शक्यते । यद्यपि एषणाभ्यो व्युत्थानं विधीयत एव, तथापि पुत्राद्येष- णाभ्यस्तिसृभ्य एव व्युत्थानम्, न तु सर्वस्मात्कर्मणः कर्म- साधनाश्च व्युत्थानम्; सर्वपरित्यागे च अश्रुतं कृतं स्यात, श्रुतं च यज्ञोपवीतादि हापितं स्यात् ; तथा च महानपराधः विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ; तस्मात् यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव ॥ न, 'यज्ञोपवीतं वेदांश्च सर्वे तद्वर्जयेद्यति:' इति श्रुतेः । S. B. C. 11. 5 बृहदारण्यकोपनिषद्भाष्ये [जा. ५. अपि च आत्मज्ञानपरत्वात्सर्वस्या उपनिषदः - आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतम् ; स च आत्मैव साक्षादपरोक्षात्सर्वान्तरः अशनायादिसंसारधर्मव- जित इत्येवं विज्ञेय इति तावत् प्रसिद्धम् ; सर्वा हीय- मुपनिषत् एवंपरेति विध्यन्तरशेषत्वं तावन्नास्ति, अतो नार्थ- वाद:, आत्मज्ञानस्य कर्तव्यत्वात् । आत्मा च अशनायादि - धर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्य: ; अतोऽव्य- तिरेकेण आत्मनो ज्ञानमविद्या - अन्योऽसावन्योऽहम- ' स्मीति ' 'न स वेद,' 'मृत्योः स मृत्युमाप्नोति ' य इह नानेव पश्यति' 'एकधैवानुद्रष्टव्यम्' 'एकमेवाद्वितीयम् ' 'तत्त्वमसि' इत्यादिश्रुतिभ्यः । क्रियाफलं साधनं च अश- नायादिसंसारधर्मातीतादात्मनोऽन्यत् अविद्याविषयम् — 'यत्र हि द्वैतमिव भवति' ' अन्योऽसावन्योऽहमस्मीति ' 'न स वेद' 'अथ येऽन्यथातो विदुः' इत्यादिवाक्यशतेभ्यः । न च विद्याविद्ये एकस्य पुरुषस्य सह भवतः, विरोधात - तमः प्रकाशाविव; तस्मात् आत्मविदः अविद्याविषयो- ऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः, 'मृ- त्योः स मृत्युमाप्नोति' इत्यादिनिन्दितत्वात् सर्वक्रियासा- धनफलानां च अविद्याविषयाणां तद्विपरीतात्मविद्यया " क. १.] हातव्यत्वेनेष्टत्वात् ' तृतीयोऽध्यायः । यज्ञोपवीतादिसाधनानां च तद्वि- षयत्वात् । तस्मात् असाधऩफलस्वभावादात्मन: अन्यवि- या विलक्षणा एषणा; उभे ह्येते साधनफले एषणे एव भवत: यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात्, 'उभे ह्येते एषणे एव' इति हेतुवचनेनावधारणात् । यज्ञोपवीतादि- साधनात् तत्साध्येभ्यश्च कर्मभ्यः अविद्याविषयत्वात् एषणा- रूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव ननूपनिषद् आत्मज्ञानपरत्वात् व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः- न, विधित्सितविज्ञानेन समानकर्तृकत्व श्रवणात्; न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं संभवति ; कर्तव्यानामेव हि अभिषवहोमभक्षाणां यथा श्रवणम् - अभिषुत्य हुत्वा भक्षयन्तीति, तद्वत् आत्मज्ञानैष- णाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्व श्रवणं भवेत् । अविद्याविषयत्वात् एषणात्वाच्च अर्थप्राप्त आत्मज्ञा- नविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत् — न; सुतरामात्मनज्ञानविधिनैव विहितस्य समानक- र्तृकत्वश्रवणेन दार्योपपत्तिः, तथा भिक्षाचर्यस्य च । यत्पुनरुक्तम्, वर्तमानापदेशादर्थवादमात्रमिति - न, औदु- म्बरयूपादिविधिसमानत्वाददोषः ॥ i वृहदारण्यकोपनिषद्भाष्ये [त्रा. ५. व्युत्थाय भिक्षाचर्य चरन्ति ' इत्यनेन पारिव्राज्यं विधी- यते; पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि लिङ्गं च श्रुतिभि: स्मृतिभिश्च ; अतः तत् वर्जयित्वा अन्य- स्माद्वयुत्थानम् एषणात्वेऽपीति चेत् न, विज्ञानसमान- कर्तृकात्पारिव्राज्यात् एषणाव्युत्थानलक्षणात् पारिव्राज्यान्त- रोपपत्तेः; यद्धि तत् एषणाभ्यो व्युत्थानलक्षणं पारित्रा- ज्यम्, तन् आत्मज्ञानाङ्गम्, आत्मज्ञानविरोध्येषणापरित्या- गरूपत्वात्, अविद्याविषयत्वाश्चैषणायाः; तद्व्यतिरेकेण च अस्ति आश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं यज्ञोपवीतादिसाधनविधानं लिङ्गविधानं च । न च एषणा रूपसाधनोपादानस्य आश्रमधर्ममात्रेण पारि- व्राज्यान्तरे विषये संभवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणा- रूपसाधनोपादित्सायां च अवश्यम् असाधनफलरूपस्य अश- नायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मीति विज्ञानं बाध्य - ते । न च तद्बाधनं युक्तम्, सर्वोपनिषदां तदर्थपरत्वात । • भिक्षाचर्य चरन्ति इत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत् — अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणैकदेशं भिक्षाचर्य ग्राहयन्ती तत्संबद्धमन्यदपि ग्राह- 1 क. १.] तृतीयोऽध्यायः 1: 1 यतीति चेत् — न, भिक्षाचर्यस्याप्रयोजकत्वात्- हुत्वोत्तर- कालभक्षणवत् ; शेषप्रतिपत्तिकर्मत्वात् अप्रयोजकं हि तत्; असंस्कारकत्वाञ्च्च- भक्षणं पुरुषसंस्कारकमपि स्यात्, न तु भिक्षाचर्यम् ; नियमादृष्टस्यापि ब्रह्मविदः अनिष्टत्वात् । नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत्- न, अन्य- साधनात् व्युत्थानस्य विहितत्वात् । तथापि किं तेनेति चेत्- यदि स्यात्, बाढम् अभ्युपगम्यते हि तत् । यानि पारिव्राज्येऽभिहितानि वचनानि ' यज्ञोपवीत्येवाधीयीत ' इत्यादीनि तानि अविद्वत्परित्राज्यमात्र विषयाणीति परिह तानि ; इतरथात्मज्ञानबाधः स्यादिति युक्तम् ; ' निराशिषम- नारम्भं निर्नमस्कार मस्तुतिम । अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदु:' इति सर्वकर्माभावं दर्शयति स्मृतिः विदुषः- 'विद्वाँल्लिङ्गविवर्जित: ', ' तस्मादलिङ्गो धर्मज्ञ : ' इति च । तस्मात् परमहंसपरिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येत आत्मवत सर्वकर्मसाधन परित्यागरूपमिति ॥ यस्मात पूर्वे ब्राह्मणा एतमात्मानम् असाधनफलस्वभावं विदित्वा सर्वस्मात् साधनफलस्वरूपात एषणालक्षणात् व्युत्थाय भिक्षाचर्ये चरन्ति स्म दृष्टादृष्टार्थे कर्म तत्साधनं च हित्वा तस्मात् अद्यत्वेऽपि ब्राह्मण: ब्रह्मवित्, पा- बृहदारण्यकोपनिषद्भाष्ये ". [ब्रा. ५. ण्डित्यं पण्डितभावम्, एतदात्मविज्ञानं पाण्डित्यम्, तत् निर्विद्य निःशेषं विदित्वा, आत्मविज्ञानं निरवशेषं कृत्वे- त्यर्थः- आचार्यत आगमतश्च एषणाभ्यो व्युत्थाय - एषणा - व्युत्थानावसानमेव हि तत्पाण्डित्यम्, एषणा तिरस्कारोद्भव- त्वात् एषणाविरुद्धत्वात्; एषणामतिरस्कृत्य न ह्यात्मविषयस्य पाण्डित्यस्योद्भव इति आत्मज्ञानेनैव विहितमेषणाव्युत्थानम् आत्मज्ञानसमानकर्तृकक्त्वाप्रत्ययोपादानलिङ्गश्रुत्या दृढीकृत- म् । तस्मात् एषणाभ्यो व्युत्थाय ज्ञानबलभावेन बाल्येन ति- ष्ठासेत् स्थातुमिच्छेत्; साधनफलाश्रयणं हि बलम इतरेषाम- नात्मविदाम् ; तद्बलं हित्वा विद्वान् असाधनफलस्वरूपात्म- विज्ञानमेव बलं तद्भावमेव केवलम् आश्रयेत् तदाश्रयणे हि करणानि एषणाविषये एनं हृत्वा स्थापयितुं नोत्स- हन्ते; ज्ञानबलहीनं हि मूढं दृष्टादृष्टविषयायामेषणाया- मेव एनं करणानि नियोजयन्ति ; बलं नाम आत्म- विद्यया अशेषविषयदृष्टितिरस्करणम् अतः तद्भावेन बा- ल्येन तिष्ठासेत् तथा 'आत्मना विन्दते वीर्यम्' इति श्रुत्यन्तरात्, ' नायमात्मा बलहीनेन लभ्य:' इति च । बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वा अथ मनना - न्मुनिः योगी भवति एतावद्धि ब्राह्मणेन कर्तव्यम्, यदुत " क. १.] तृतीयोऽध्यायः । सर्वानात्मप्रत्यययतिरस्करणम् एतत्कृत्वा कृतकृत्यो योगी भवति । अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्ड- त्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययति- रस्करणस्य पर्यवसानं फलम् - तच्च निर्विद्य अथ ब्राह्मणः कृतकृत्यों भवति - ब्रह्मैव सर्वमिति प्रत्यय उपजायते । स ब्राह्मणः कृतकृत्य:, अतो ब्राह्मण:; निरुपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम् ; अत ब्राह्मणः केन स्यात् केन चरणेन भवेत् ? - आह- स येन स्यात् - येन केनचित् येन चरणेन भवेत्, तेन ईदृश एवायम् — चरणेन स्यात् तेन ईदृश एव उक्तलक्षण एव ब्राह्मणो भवति येन केनचिच्चरणेनेति स्तुत्यर्थम् - येयं ब्राह्मण्याव- स्था सेयं स्तूयते, न तु चरणेऽनादरः । अतः एतस्माद्ब्राह्म- ण्यावस्थानात् अशनायाद्यतीतात्मस्वरूपात् नित्यतृप्तात्, अ- न्यत् अविद्याविषयमेषणालक्षणं वस्त्वन्तरम्, आर्तम् विना- शि आर्तिपरिगृहीतं स्वप्नमायामरीच्युदकसमम् असारम्, आत्मैव एकः केवलो नित्यमुक्त इति । ततो ह कहोल: कौ- षीतकेयः उपरराम ॥ तृतीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्रा णम् ॥ अथ हैनं गार्गी वाचक्नवी पप्रच्छ या- ज्ञवल्क्येति होवाच यदिद सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गा- गति कस्मिन्नु खल्वन्तरिक्षलोका ओता- च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रो- ताश्चेत्यादित्यलोकेषु गार्गीति कस्मिन्नु स्वत्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्र- लोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति कस्मिन्नु खलु नक्षत्रलोका ओ- ताश्व प्रोताश्चेति देवलोकेषु गार्गीति कस्मिन्नु खलु देवलोका ओताश्च प्रांता- तीन्द्रलोकेषु गार्गीति कस्मिन्नु खल्वि- क. १.] तृतीयोऽध्यायः । न्द्रलोका ओताइच प्रोताश्चेति प्रजाप- तिलोकेषु गार्गीति कस्मिन्नु खलु प्रजा - पतिलोका ओताश्च प्रोताश्चेति ब्रह्म- लोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलो- का ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपसदन- तिप्रश्न्यां वै देवतामति पृच्छसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्न- व्युपरराम ॥ १ । इति षष्ठं ब्राह्मणम् ॥ " " यत्साक्षादपरोश्नाद्ब्रह्म सर्वान्तर आत्मत्युक्तम् तस्य स- वन्तरम्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणात् ग्रन्थ आ- रभ्यते । पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्बहि- र्भावेन व्यवस्थितानि ; तेषां यत् बाह्यं बाह्यम, अधिगम्या- धिगम्य निराकुर्वन द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः - अथ हैनं गार्गी नामतः, वाचक्नवी वचनोर्दुहिता, पप्रच्छ ; याज्ञव- ल्क्येति होवाच ; यदिदं सर्व पार्थिवं धातुजातम् अप्सु बृहदारण्यकोपनिषद्भाष्ये [त्रा. ६. उदके ओतं च प्रोतं च- ओतं दीर्घपटतन्तुवत्, प्रोतं तिर्यक्तन्तुवत्, विपरीतं वा - अद्भिः सर्वतोऽन्तर्बहिर्भूताभि- र्व्याप्तमित्यर्थः ; अन्यथा सक्तुमुष्टिवद्विशीर्येत । इदं तावत् यत् कार्ये परिच्छिन्नं स्थूलम्, अनुमानमुपन्यस्तम्- कारणेन अपरिच्छिन्नेन सूक्ष्मेण व्याप्तमिति दृष्टम् - यथा पृथिवी अद्भिः; तथा पूर्व पूर्वम् उत्तरेणोत्तरेण व्यापिना भवितव्यम् - इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः । तत्र भूतानि पश्च संहतान्येव उत्तरमुत्तरं सूक्ष्मभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते ; न च परमात्मनोऽ- वक् तव्यतिरेकेण वस्त्वन्तरमस्ति, 'सत्यस्य सत्यम' इति र्वाक् श्रुते: ; सत्यं च भूतपञ्चकम्, सत्यस्य सत्यं च पर आत्मा । कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति- तासामपि कार्य- त्वात् स्थूलत्वात् परिच्छिन्नत्वाच्च कचिद्धि ओतप्रोत भावेन भवितव्यम् ; क्क तासाम् ओतप्रोतभाव इति । एवमुत्तरोत्तर- प्रश्नप्रसङ्गो योजयितव्यः । वायौ गार्गीति ; ननु अग्नाविति वक्तव्यम् — नैष दोष: ; अग्नेः पार्थिवं वा आप्यं वा धातु- मनाश्रित्य इतरभूतवत् स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन् ओतप्रोतभावो नोपदिश्यते । कम्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । तान्येव भू- - क. १.] तृतीयोऽध्यायः । तानि संहतानि अन्तरिक्षलोका: ; तान्यपि — गन्धर्व- लोकेषु गन्धर्वलोकाः, आदित्यलोकेषु आदित्यलोकाः, चन्द्र- लोकेषु चन्द्रलोकाः नक्षत्रलोकेषु नक्षत्रलोकाः, देवलोकेषु देव- लोकाः, इन्द्रलोकेषु इन्द्रलोकाः, विराट्शरीरारम्भकेषु भूतेषु प्रजापतिलोकेषु प्रजापतिलोकाः, ब्रह्मलोकेषु ब्रह्मलोका नाम - अण्डारम्भकाणि भूतानि ; सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राण्युपभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पश्चेति बहुवचनभाञ्जि । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्वेति स होवाच याज्ञवल्क्य:- हे गार्गि माति- प्राक्षीः स्वं प्रश्नम्, न्यायप्रकारमतीत्य आगमेन प्रष्टव्यां देवताम् अनुमानेन मा प्राक्षीरित्यर्थः ; पृच्छन्त्याश्च मा ते तव मूर्धा शिरः "व्यपप्तत् विस्पष्टं पतेत्; देवताया: स्वप्रश्न आगमविषयः ; तं प्रश्नविषयमतिक्रान्तो गार्ग्य: प्रश्न:, आनुमानिकत्वात्; स यथा देवतायाः प्रश्नः सा अतिप्रश्न्या, न अतिप्रश्न्या अनतिप्रश्न्या, स्वप्रश्नविषयैव, केवल गम गम्येत्यर्थः ; ताम् अनतिप्रश्न्यां वै देवताम् अति- पृच्छसि । अतो गार्गी मातिप्राक्षीः मर्त चेनेच्छसि । ततो ह गार्गी वाचक्नव्युपरराम ॥ इति तृतीयाध्यायस्य षष्ठं ब्राह्मणम् ॥ सप्तमं ब्राह्मणम् ॥ अथ हैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेष्ववसाम प तञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयाना- स्तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छा- म कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकाजू- इच वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भू- तानि संदृब्धानि भवन्तीति सोऽब्रवीत्प- नञ्जलः काप्यो नाहं तद्भगवन्वेदेति सो- sब्रवीत्पतञ्जलं काप्यं याज्ञिकाच वे त्थ तु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोक सर्वा- णि च भूतानि योऽन्तरो यमयतीति सोऽब्रवीत्पतञ्जलः काप्यो नाहं तं भ क. १.] तृतीयोऽध्यायः । ४२७. गवन्वेदेति सोऽब्रवीत्पतञ्जलं काप्यं याज्ञिकाश्च यां वै तत्काप्य सूत्रं विद्यान्तं चान्तर्यामिणमिति स ब्रह्मवि- Fe लोकवित्स देववित्स वेदवित्स भूतवत्स आत्मवित्स सर्वविदिति ते- भ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वास्तं चान्तर्यामिणं ब्रह्मगवी- रुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमि- ति यो वा इदं कश्चिहूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥ इदानीं ब्रह्मलोकानाम् अन्तरतमं सूत्रं वक्तव्यमिति तदर्थ आरम्भः तश्च आगमेनैव प्रष्टव्यमिति इतिहासेन आगमो- पन्यास: क्रियते-- अथ हैनम् उद्दालको नामतः, अरुण- स्यापत्यम् आरुणि: पप्रच्छ ; याज्ञवल्क्येति होवाच ; मद्रेषु देशेषु अवसाम उषितवन्तः, पतञ्जलस्य- पतञ्जलो नामतः तस्यैव कपिगोत्रस्य काव्यस्य गृहेषु यज्ञमधीयानाः यज्ञ- शास्त्राध्ययनं कुर्वाणाः । तस्य आसीत् भार्या गन्धर्वगृही -. बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ७. ता; तमपृच्छाम - कोऽसीति । सोऽब्रवीत् - कबन्धो नामतः, अथर्वणोऽपत्यम् आथर्वण इति । सोऽब्रवीद्गन्धर्वः पतञ्जलं काप्यं याज्ञिकांश्च तच्छिष्यान् — वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम् ; किं तत् ? येन सूत्रेण अयं च लोकः इदं च सर्वाणि च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, भूतानि ब्रह्मादिस्तम्बपर्यन्तानि संदृब्धानि संग्रथितानि त्र- गिव सूत्रेण विष्टब्धानि भवन्ति येन - तत् किं सूत्रं वेत्थ सोऽब्रवीत् एवं पृष्टः काप्यः - नाहं तद्भगवन्वेदेति तत् सूत्रं नाहं जाने हे भगवन्निति संपूजयन्नाह । सोऽब्रवीत् पुनर्गन्धर्वः उपाध्यायमस्मांश्च - वेत्थ नु त्वं काप्य तमन्त- र्यामिणम् - अन्तर्यामीति विशेष्यते - य इमं च लोकं परं च लोकं सर्वाणि च भूतानि यः अन्तर: अभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव भ्रामयति, स्वं स्वमु चितव्यापारं कारयतीति । सोऽब्रवीदेवमुक्त: पतञ्जल: काप्यः -- नाहं तं जाने भगवन्निति संपूजयन्नाह । सो- ऽब्रवीत्पुनर्गन्धर्व: ; सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तू- यते - यः कश्चिद्वै तत् सूत्रं हे काव्य विद्यात् विजानी- यात् तं च अन्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात् यः इत्येवमुक्तेन प्रकारेण - स हि ब्रह्मवित् परमा- क. १.] " तृतीयोऽध्यायः । त्मवित् स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानान् लोकान् वेत्ति, स देवांश्वाग्न्यादीन् लोकिन जानाति, वेदांश्च सर्वप्रमाणभूतान्वेति भूतानि च ब्रह्मादीनि सूत्रेण प्रियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वे च जगत् तथाभूतं वेत्ति — इति ; एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्योऽभिमुखी- भूतः, वयं च तेभ्यश्च अस्मभ्यम् अभिमुखीभूतेभ्यः अब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च तदहं सूत्रान्तर्या- मिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन्; तच्चेत् याज्ञ- वल्क्य सूत्रम् तं चान्तर्यामिणम् अविद्वांश्चेत्, अब्रह्मवित्सन् यदि ब्रह्मगवीरुदजसे ब्रह्मविदां स्वभूता गा उदजस उन्न- यसि त्वम् अन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरः ते तव विस्पष्टं पतिष्यति । एवमुक्तो याज्ञवल्क्य आह— वेद जानामि अहम्, हे गौतमेति गोत्रतः, तत्सूत्रम् - यत् गन्धर्वस्तुभ्यमुक्तवान् ; यं च अन्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम्, तं च अन्तर्यामिणं वेद अहम् - इति; एवमुक्ते प्रत्याह गौतम :- यः कश्चित्प्राकृत इदं यत्त्वयोक्तं ब्रूयात्- 1 ' कथम् ? वेद वेदेति - आत्मानं लाघयन् किं तेन गर्जि- " बृहदारण्यकोपनिषद्भाष्ये तेन ? कार्येण दर्शय ; यथा वेत्थ तथा ब्रूहीति ॥ " [ब्रा. ७. स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संह- धानि भवन्ति तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्र सिषतास्याङ्गानीति वायु-- ना हि गौतम सूत्रेण संदृब्धानि भव- न्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रू- हीति ॥ २ ॥ स होवाच याज्ञवल्क्यः । ब्रह्मलोका यस्मिन्नाताश्च प्रो- ताश्च वर्तमाने काले, यथा पृथिवी अप्सु, तत् सूत्रम आ- गमगम्यं वक्तव्यमिति— तदर्थं प्रश्नान्तरमुत्थापितम; अत- स्तन्निर्णयाय आह— वायुर्वै गौतम तत्सूत्रम् ; नान्यत् ; वायुरिति - सूक्ष्ममाकाशवत् विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणि- नाम, यत्तत्समष्टिव्यष्ट्रयात्मकम, यस्य बाह्या भेदा: सप्त- सप्त मरुद्गणाः समुद्रस्येवोर्मय:- तदेतद्वायव्यं तत्त्वं सूत्र- मित्यभिधीयते । वायुना वै गौतम सूत्रेण अयं च लोक: क. ३. ] तृतीयोऽध्यायः । परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति : संग्रथितानि भवन्तीति प्रसिद्धमेतत्; द्धि: ; कथम् ? यस्मात् वायुः सूत्रम् " अस्ति च लोके प्रसि वायुना विधृतं सर्वम्, तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति - व्यस्रंसिषत विस्तानि अस्य पुरुषस्याङ्गानीति ; सूत्रापगमे हि मण्या- दीनां प्रोतानामवस्रंसनं दृष्टम् ; एवं वायुः सूत्रम् ; तस्मिन्म: णिक्त्प्रोतानि यदि अस्याङ्गानि स्युः, ततो युक्तमेतत् वाय्व- पगमे अवस्रंसनमङ्गानाम् । अतो वायुना हि गौतम सूत्रेण संधानि भवन्तीति निगमयति । एवमेवैतत् याज्ञवल्क्य, सम्यगुक्तं सूत्रम् ; तदन्तर्गतं तु इदानीं तस्यैव सूत्रस्य निय न्तारमन्तर्यामिणं ब्रूहीत्युक्तः आह ॥ यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्त- यम्यमृतः ॥ ३ ॥ यः पृथिव्यां तिष्ठन्भवति, सोऽन्तर्यामी । सर्वः पृथि- व्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि- पृथिव्या अन्तर: अभ्यन्तर: । तत्रैतत्स्यात् पृथिवी देवतैव S. B. U. II. 6 ' अन्तर्यामीति - अ बृहदारण्यकोपनिषद्भाष्ये - अत आह— यमन्तर्यामिणं पृथिवी देवतापि न वेद - मय्यन्यः कश्चिद्वर्तत इति । यस्य पृथिवी शरीरम् - यस्य च पृथिव्येव शरीरम नान्यत् - पृथिवीदेवताया य- : च्छरीरम, तदेव शरीरं यस्य ; शरीरग्रहणं च उपलक्षणार्थम ; करणं च पृथिव्याः तस्य; स्वकर्मप्रयुक्तं हि कार्य करणं च पृथिवीदेवताया:; तत् अस्य स्वकर्माभावात् अन्तर्यामिणो नित्यमुक्तत्वात, परार्थकर्तव्यतास्वभावत्वात् परस्य यत्कार्य करणं च तदेवास्य, न स्वत: ; तदाह-- यस्य पृथिवी श- रीरमिति । देवताकार्यकरणस्य ईश्वरसाक्षिमात्र सांनिध्येन हि नियमेन प्रवृत्तिनिवृत्ती स्याताम् ; य ईदृगीश्वरो नारायणा- रूयः, पृथिवीं पृथिवीदेवताम, यमयति नियमयति स्वव्या- पारे, अन्तर: अभ्यन्तरस्तिष्ठन् एष त आत्मा, " तव, मम च सर्वभूतानां च इत्युपलक्षणार्थमेतत, अन्तर्यामी य- स्त्वया पृष्ट:, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥ योऽप्सु तिष्ठन्नद्भूयोऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमय- त्येष त आत्मान्तर्याम्यमृतः ॥ ४ ॥ योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद क. १०.] तृतीयोऽध्यायः । याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ५ ॥ योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो य- मन्तरिक्षं न वेद यस्यान्तरिक्ष शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मा- न्तर्याम्यमृतः ॥ ६ ॥ यो वायौ तिष्ठन्वायोरन्तरो यं वायु- र्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ७ ॥ यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ८ ॥ य आदित्ये तिष्ठन्नादित्यादन्तरो यमा- दित्यो न वेद यस्यादित्यः शरीरं य आ- दित्यमन्तरो यमयत्येष त आत्मान्तर्या- म्यमृतः ॥ ९ ॥ यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो बृहदारण्यकोपनिषद्भाष्ये ब्रा. ७ न. विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १० ॥ यश्चन्द्रतारके तिष्ठश्चन्द्रतारकादन्त- रोयं चन्द्रतारकं न वेद यस्य चन्द्रतार- क शरीरं यश्चन्द्रतारकमन्तरो यमयत्ये- षत आत्मान्तर्याम्यमृतः ॥ ११ ॥ य आकाशे तिष्ठन्नाकाशादन्तरो य माकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्त- यमृतः ॥ १२ ॥ यस्तमसि तिष्ठस्तमसोऽन्तरां यं त- मो न वेद यस्य तमः शरीरं यस्तमोऽन्त- रो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ यस्तेजसि तिष्ठ स्तेज सोऽन्तरो यं तेः जो न वेद यख तेजः शरीरं यस्तेजोऽन्त-: रो यमयत्येष त आत्मान्तर्याम्यमृत इत्य-. धिदैवतमथाधिभूतम् ॥ १४ ॥ : क. १७.] तृतीयोऽध्यायः । समानमन्यत् । योऽप्सु तिष्ठन, अग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, दिक्षु, चन्द्रतारके, आकाशे, यस्त- मस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाश- सामान्ये -- इत्येवमधिदैवतम् अन्तर्यामिविषयं दर्शनं देव- तासु । अथ अधिभूतं भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु अन्तर्या- मिदर्शनमधिभूतम् ॥ यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूते- भ्योऽन्तरो य सर्वाणि भूतानि न विदु- र्यस्य सर्वाणि भूतानि शरीरं यः सर्वा- णि भृतान्यन्तरो यमयत्येष त आत्मा- न्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १६ ॥ यो वाचि तिष्ठत्वाचोऽन्तरो यं वाङ्- न वेद यख वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥१७॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. यश्चक्षुषि तिष्ठश्चक्षुषोऽन्तरो यं च- क्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १८ ॥ यः श्रोते तिष्ठञ्छ्रोत्रादन्तरो यः श्रो- तं न वेद यस्य श्रोत्रः शरीरं यः श्रोत्र- मन्तरो यमयत्येष त आत्मान्तर्यास्य- मृतः ॥ १९ ॥ यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्यामृतः ॥ २० ॥ यस्त्वचि तिष्टर् स्त्वचोऽन्तरो यं त्वङ्- न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ २१ ॥ यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञान‍ शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्त- क. २३. ] तृतीयोऽध्यायः । ४३७ र्याम्यमृतः ॥ २२ ॥ यो रेतसि तिष्ठत्रेतसोऽन्तरो य‍ रे- तो न वेद यस्य रेतः शरीरं यो रेतोऽन्त- रो यमयत्येष त आत्मान्तर्याम्यमृतोऽह- ष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽ- तोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्त- र्याम्यमृतोऽतोऽन्यदात ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥ , अथाध्यात्मम् - यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि त्वचि विज्ञाने, बुद्धौ, रेतसि प्रजनने । कस्मात्पुनः कारणात् पृथिव्यादिदेवता महाभागाः सत्यः मनुष्यादिवत् आत्मनि तिष्ठन्तम् आत्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आह- दृष्टो न विषयीभूतश्चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षु- षि संनिहितत्वात् दृशिस्वरूप इति द्रष्टा । तथा अश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं तु अलुप्त श्रवणशक्ति: - अदृष्टः न बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ७. सर्वश्रोत्रेषु संनिहितत्वात् श्रोता । तथा अमत: मन:संक- ल्पविषयतामनापन्नः; दृते एव हि सर्वः संकल्पयति ; अदृष्टत्वात् अश्रुतत्वादेव अमत:; अलुममननशक्तित्वात् सर्व- मनःसु संनिहितत्वाश्च मन्ता । तथा अविज्ञात: निश्चयगो- चरतामनापन्न: रूपादिवत सुखादिवद्वा, स्वयं तु अलुप्तवि - ज्ञानशक्तित्वात् तत्संनिधानाच्च विज्ञाता । तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति च अन्ये नियन्त- व्या विज्ञातारः अन्यो नियन्ता अन्तर्यामीति प्राप्तम् ; तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते-- नान्योऽतः- नान्य:- अतः अस्मात् अन्तर्यामिणः नान्योऽस्ति द्रष्टा ; तथा नान्योऽतोऽस्ति श्रोता; नान्योऽतोऽम्ति मन्ता नान्योऽ तोऽस्ति विज्ञाता । यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, य: अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृत: सर्वसंसारधर्मवर्जितः सर्वसंसा- रिणां कर्मफलविभागकर्ता — एष ते आत्मा अन्तर्याम्यमृतः ; अस्मादीश्वरादात्मनोऽन्यत् आर्तम । ततो होद्दालक आ- रुणिरुपरराम ॥ - इति तृतीयाध्यायस्य सप्तमं ब्राह्मणम् ॥ अष्टमं ब्राह्मणम् ॥ अतः परम् अशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादप- रोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भ:- - अथ ह वाचक्नव्युवाच ब्राह्मणा भग- वन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति पृच्छ गार्गीति ॥ १ ॥ • अथ ह वाचक्नव्युवाच । पूर्व याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते हे ब्राह्मणा : भगवन्त: पूजावन्तः शृणुत मम वचः ; हन्त अहमिमं याज्ञवल्क्यं पुनद्वौ प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भव- तामस्ति; तो प्रश्न चेत् यदि वक्ष्यति कथयिष्यति मे, कथं ' चित् न वै जातु कदाचित् युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चित ब्रह्मोयं ब्रह्मवदनं प्रति जेता-न वै कश्चित् भवेत् - इति । एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः - पृच्छ गार्गीति ॥ साहोवाचाहं वै त्वा याज्ञवल्क्य यथा काइयो वा वैदेहो वोग्रपुत्र उज्ज्यं धनु- वृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ८. रधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नाति- व्याधिनौ हस्ते कृत्बोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपादस्थां तौ मे ब्रूहीति पृच्छ गार्गीति ॥ २ ॥ - लब्धानुज्ञा ह याज्ञवल्क्यं सा ह उवाच - अहं त्व त्वाम् द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते ; कौ ताविति जि- ज्ञासायां तयोर्दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकं तावा - ह— हे याज्ञवल्क्य यथा लोके काश्य:- काशिषु भव: काश्यः, प्रसिद्धं शौर्य काश्ये - वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यम अवतारितज्या- कम् धनुः पुनरधिज्यम् आरोपितज्याक्रं कृत्वा, द्वौ बाण- वन्तौ - बाणशब्देन शराग्रे यो वंशखण्डः संधीयते, तेन वि- नापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति द्वौ बाणवन्तौ शरौ तयोरेव विशेषणम्- सपत्नातिव्याधिनौ शत्रोः पीडाकररावतिशयेन, हस्ते कृत्वा उप उत्तिष्ठेत् समी- पत आत्मानं दर्शयेत् — एवमेव अहं त्वा त्वाम शरस्था- नीयाभ्यां प्रश्नाभ्यां द्वाभ्याम् उपोदस्थां उत्थितवत्यस्मि त्वत्समीपे । तौ मे ब्रूहीति - ब्रह्मविच्चेत् । आह इतर :- पृच्छ गार्गीति ॥ - • क. ४.] तृतीयोऽध्यायः । सा होवाच यदूर्ध्व याज्ञवल्क्य दिवां यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यचेत्याचक्षते कस्मिस्तदोतं च प्रोतं चेति ॥ ३ ॥ सा होवाच- यत् ऊर्ध्वम् उपरि दिवः अण्डकपालात्, यच्च अवाक् अधः पृथिव्याः अधोऽण्डकपालात्, यच्च अ- न्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चानीतम्, भवञ्च वर्तमानं स्वव्यापारस्थम्, भविष्यच्च वर्तमानादूर्ध्वकालभावि लिङ्गग- म्यम् - यत्सर्वमेतदाचक्षते कथयन्त्यागमतः- तत्सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः- तत् सूत्रसंज्ञं पूर्वोक्तं कस्मिन ओतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥ स होवाच यदूर्ध्वं गार्गि दिवो यद- वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच भविष्यचेत्याचक्षत आ- काशे तदोतं च प्रोतं चेति ॥ ४ ॥ स होवाच इतरः- हे गार्गि, यत् त्वयोक्तम् ' ऊर्ध्व दिव:' इत्यादि, तत्सर्वम् ग्रत्सूत्रमाचक्षते - तत् सूत्रम्, बृहदारण्यकोपनिषद्भाष्ये आकाशे तत् ओतं च प्रोतं च- [ब्रा. ८. यदेतत् व्याकृतं सूत्रात्मकं जगत् अव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि - कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥ सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ५ ॥ पुनः सा होवाच ; नमस्तेऽस्त्वित्यादिप्रश्नस्य दुर्वच- त्वप्रदर्शनार्थम् ; यः मे मम एतं प्रश्नं व्यवोचः विशेषेणा- पाकृतवानसि ; एतस्य दुर्वचत्वे कारणम् - सूत्रमेव ताव- दगम्यम् इतरैर्दुर्वाच्यम; किमुत तत्, यस्मिन्नोतं च प्रोतं चेति; अतो नमोऽस्तु ते तुभ्यम अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुरु आत्मानमित्यर्थः । पृच्छ गार्गीति इतर ॥ ;- सा होवाच यदूर्ध्व याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यचेत्याचक्षते कस्मिस्तदोतं च प्रोतं चेति ॥ ६ ॥ व्याख्यातमन्यत् । सा होवाच यदूर्ध्व याज्ञवल्क्येत्या- क. ८.] तृतीयोऽध्यायः । दिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थे पुनरुच्यते ; न किंचिदपूर्वमर्थान्तरमुच्यते ॥ स होवाच यदूर्ध्वं गार्गि दिवो यदवा- पृथिव्या यदन्तरा द्यावापृथिवी इमे य- द्भूतं च भवच्च भविष्यच्चेत्याचक्षत आका- श एव तदोतं च प्रोतं चेति कस्मिन्नु ख- ल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥ - ग्र- सर्व यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारि- तवान् आकाश एवेति याज्ञवल्क्यः । गार्ग्याहि — कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । आकाशमेव तावत्कालत्र-. यातीतत्वात् दुर्वाच्यम्, ततोऽपि कष्टतरम् अक्षरम्, स्मिन्नाकाशमोतं च प्रोतं च, अतः अवाच्यम् - इति कृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकस- मये; अथ अवाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम् ; विरुद्धा प्रतिपत्तिर्हि सां, यदवाच्यस्य वद- नम; अतो दुर्वचनम् प्रश्नं मन्यते गार्गी ॥ स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहखमदीर्घमलो- ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ८. हितमस्नेहमच्छायमतमोऽवाय्वनाकाश- मसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवा- गमनोऽतेजस्कमप्राणममुखममात्रमनन्त- रमबाह्यं न तदश्नाति किंचन न तद्- श्नाति कश्चन ॥ ८ ॥ तद्दोषद्वयमपि परिजिहीर्षन्नाह - स होवाच याज्ञव- ल्क्यः एतद्वै तत्, यत्पृष्टवत्यसि - कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ; किं तत् ? अक्षरम् - यन्न श्रीयते न क्षर- तीति वा अक्षरम - तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदः अभिवदन्ति; ब्राह्मणाभिवदनकथनेन, नाहमवाच्यं वक्ष्यामि - न च न प्रतिपद्येयमित्येवं दोषद्वयं परिहरति । एवमपाकृते प्रश्न. पुनर्गार्ग्यः प्रतिवचनं द्रष्टव्यम- ब्रूहि किं तदक्षरम, यद्ब्राह्मणा अभिवदन्ति - इत्युक्त आह- अस्थूलम तत् स्थूलादन्यत् ; एवं तर्ह्यणु- अनणु; अस्तु तर्हि ड्रम्बम् - अह्रस्वम्; एवं तर्हि दीर्घम् - नापि दीर्घम् अदीर्घम ; एवमेते- चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्धः, न द्रव्यं तद- क्षरमित्यर्थः । अस्तु तर्हि लोहितो गुणः- ततोऽप्यन्यत् अलोहि- तम् ; आग्नेयो गुणो लोहितः भवतु तर्ह्यपां स्नेहनम् न अने- हम ; अस्तु तर्हि छाया - सर्वथापि अनिर्देश्यत्वात् छायाया - क. ९.] तृतीयोऽध्यायः । अप्यन्यत अच्छायम् अस्तु तर्हि तम: - अतमः ; भवतु वा- युस्तर्हि - अवायु: ; भवेत्तर्ह्याकाशम् - अनाकाशम; भवतु तर्हि सङ्गात्मकं जतुवत् - असङ्गम् ; रसोऽस्तु तर्हि - अरसम् ; तथा गन्धोऽस्तु-अगन्धम; अस्तु तर्हि चक्षुः - अचक्षुष्कम्, न हि चक्षुरस्य करणं विद्यते, अतोऽचक्षुष्कम्, 'पश्यत्य- चक्षुः' इति मन्त्रवर्णात; तथा अश्रोतम, 'स शृणोत्यकर्ण: ' इति ; भवतु तर्हि वाक्-अवाक् ; तथा अमन: ; तथा अते- जस्कम अविद्यमानं तेजोऽस्य तत् अतेजस्कम् ; न हि तेज: अग्न्यादिप्रकाशवत् अस्य विद्यते ; अप्राणम् - आध्यात्मिको वायुः प्रतिषिध्यतेऽप्राणमिति ; मुखं तर्हि द्वारं तत्- अमु- खम् ; अमात्रम् - मीयते येन तन्मात्रम्, अमात्रम् मात्रा- रूपं तन्न भवति, न तेन किंश्चिन्मीयते; अस्तु तर्हि - द्रवत्- अनन्तरम् नास्यान्तरमस्ति ; संभवेत्तर्हि बहिस्तस्य- अबाह्यम्; अस्तु तर्हि भक्षयितृ तत्- न तदश्नाति किं- चन; भवेत् तर्हि भक्ष्यं कस्यचित् - न तदश्नाति कश्चन । सर्वविशेषणरहितमित्यर्थः । एकमेवाद्वितीयं हि तत् केन किं विशिष्यते ॥ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत एतस्य वा बृहदारण्यकोपनिषद्भाष्ये [त्रा. ८. अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशा- सने गार्गि निमेषा मुहूर्ता अहोरात्राण्य- र्धमासा मासा ऋतवः संवत्सरा इति विघृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशा- सने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशसन्ति यज- मानं देवा दव पितरोऽन्वायत्ताः ॥। ९ ॥ 'अनेक विशेषण प्रतिषेधप्रयासात् अस्तित्वं तावदक्षरस्योप- गमितं श्रुत्या ; तथापि लोकबुद्धिमपेक्ष्य आशङ्कयते यत:, अतोऽस्तित्वाय अनुमानं प्रमाणमुपन्यस्यति — एतस्य वा अक्षरस्य । यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशा- सने— यथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमेतस्याक्षरस्य प्रशासनेहूं गार्गि सूर्याचन्द्रमसौ, सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ अहोरात्रयोर्लोक प्रदीपौ, क. ९.] तृतीयोऽध्यायः । तादर्थ्येन प्रशासित्रा ताभ्यां निर्वर्त्यमानलोकप्रयोजनविज्ञा- नवता निर्मितौ च स्याताम् - साधारणसर्वप्राणिप्रकाशो- पकारकत्वात् लौकिकप्रदीपवत् । तस्मादस्ति तत्, येन विधृतौ ईश्वरौ स्वतन्त्रौ सन्तौ निर्मितौ तिष्ठत: नि- यत देशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते ; त- दस्ति एवमेतयोः प्रशासितृ अक्षरम्, प्रदीपकर्तृवि- धारयितृवत् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृ- थिव्यौ - द्यौश्च पृथिवी च सावयवत्वात् स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे चेतना- वदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि - एतस्याक्षरस्य प्र- शासने वर्तेते विधृते तिष्ठत:; एतद्धि अक्षरं सर्वव्यव- स्थासेतुः सर्वमर्यादाविधरणम् अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः; तस्मात् सिद्धमस्यास्तित्वमक्षर- स्य ; अव्यभिचारि हि तल्लिङ्गम्, यत द्यावापृथिव्यौ नियते वर्तेते; चेतनावन्तं प्रशासितारम संसारिणमन्तरेण नैतद्यु- ' येन द्यौरुग्रा पृथिवी च दृढा' इति मन्त्रवर्णात् । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषाः मुहूर्ता: इत्येते कालावयवा: सर्वस्यातीतानागतवर्तमानस्य जनिमत: कल- यितार : - यथा लोके प्रभुणा नियतो गणक: सर्वम आयं क्तम, • 5. B. C. I. 7 , बृहदारण्यकोपनिषद्भाष्ये ब्रा. ८. व्ययं च अप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां का- लावयवानां नियन्ता । तथा प्राच्यः प्रागश्वनाः पूर्वदिग्ग- मनाः नद्यः स्यन्दन्ते स्रवन्ति, श्वेतेभ्यः हिमवदादिभ्यः पर्वतेभ्यः गिरिभ्यः, गङ्गाद्या नद्यः - ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्ते, अन्यथापि प्रवर्तितुमुत्सहन्त्य: ; तदे- तल्लिङ्गं प्रशास्तुः । प्रतीच्योऽन्याः प्रतीचीं दिशमथ्वन्ति सिन्धवाद्या नद्यः; अन्याश्च यां यां दिशमनुप्रवृत्ताः, तां तां न व्यभिचरन्ति ; तच लिङ्गम् । किंच ददत: हिरण्यादी- न्प्रयच्छतः आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनु- याः प्रशंसन्ति ; तत्र यश्च दीयते, ये च ददति, ये च प्रतिगृह्णन्ति तेषामिव समागमो विलयश्च अन्व- क्षो दृश्यते; अदृष्टस्तु परः समागमः ; तथापि मनु- या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति ; तज्ञ्च, कर्मफलेन संयोजयितरि कर्तु :- कर्मफलविभागज्ञे प्रशास्तरि असति, न स्यात्, दानक्रि- याया: प्रत्यक्षविनाशित्वात् ; तस्मादस्ति दानकर्तॄणां फलेन संयोजयिता । अपूर्वमिति चेत, त. तत्सद्भावे प्रमाणानु- पपत्तेः : । प्रशास्तुरपीति चेत् न, आगमतात्पर्यस्य सिद्ध- : त्वात; अवोचाम हि आगमस्य वस्तुपरत्वम् । किंचान्यत- क. १०.] तृतीयोऽध्यायः । अपूर्वकल्पनायां च अर्थापत्तेः क्षयः, अन्यथैवोपपत्तेः, से- वाफलस्य सेव्यात्प्राप्तिदर्शनान्; सेवायाश्च क्रियात्वात् त- त्सामान्याश्च यागदान होमादीनां सेव्यात् ईश्वरादेः फलप्राप्ति- रुपपद्यते । दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्प- नोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः । कल्प- नाधिक्याच्च - ईश्वरः कल्प्यः, अपूर्व वा ; तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्ति: दृष्टा, न त्वपूर्वान : न च अपूर्व दृष्टम्, तत्र अपूर्वमदृष्टुं कल्पयितव्यम, तस्य च फलदातृत्वे सामर्थ्यम, सामर्थ्ये च सति दानं च अभ्यधिकमिति ; इह तु ईश्वरस्य सेव्यम्य सद्भावमात्रं कल्प्यम्, न तु फलदान- सामर्थ्य दातृत्वं च सेव्यात्फलप्राप्तिदर्शनात् । अनुमानं च दर्शितम् - ' द्यावापृथिव्यौ विधृते तिष्ठत:' इत्यादि । तथा च यजमानं देवाः ईश्वराः मन्तो जीवनार्थेऽनुगताः चरुपुरो- डाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृ- पणां दीनां वृत्तिमाश्रित्य स्थिता:- तच प्रशास्तुः प्रशास- नाम्यात् । तथा पितरोऽपि तदर्थम्, दर्वीम् दवींहोमम अन्वायन्ता अनुगता इत्यर्थः समानं सर्वमन्यत ॥ यो वा एतदक्षरं गार्ग्यविदित्वा स्मिँल्लो- के जुहोति यजते तपस्तप्यते बहूनि वर्ष- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ८. सहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रति स कृपणोऽथ य एतदक्षरं गार्गि विदि- स्वास्माल्लोकात्प्रेति स ब्राह्मणः ॥ १० ॥ योपपत्ते: इतश्चास्ति तदक्षरम्, यस्मात् तदज्ञाने नियता संसारो- पपत्ति:; भवितव्यं तु तेन, यद्विज्ञानात् तद्विच्छेदः, न्या- : । ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत्, न- यो वा एतदक्षरं हे गार्गि अविदित्वा अविज्ञाय अ- स्मिन लोके जुहोति यजते तपस्तप्यते यद्यपि बहूनि वर्ष - सहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभो- गान्ते क्षीयन्त एवास्य कर्माणि । अपि च यद्विज्ञाना- कार्पण्यात्ययः संसारविच्छेद:, यद्विज्ञानाभावाच्च कर्म- कृत् कृपणः कृतफलस्यैवोपभोक्ता जननमरणप्रबन्धारूढः संसरति तदस्ति अक्षरं प्रशासितृ तदेतदुच्यते यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति स कृपण:, पणक्रीत इव दासादि: । अथ य एतदक्षरं गार्गि विदित्वा अम्मा- ल्लोकात्प्रेति स ब्राह्मणः ॥ अग्नेर्दहनप्रकाशकत्ववत् स्वाभाविकमम्य प्रशास्तृत्वम् अचेतनस्यैवेत्यत आह- --------- . क. ११.] तृतीयोऽध्यायः । तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुत श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतो- ऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यद- तोऽस्ति मन्तु नान्यदतोऽस्ति विज्ञात्रे - तस्मिन्नु खल्वक्षरे गायकाश ओत प्रोतश्चेति ॥ ११ ॥ तद्वा एतदक्षरं गार्गि अदृष्टम्, न केनचिद्दृष्टम्, अवि- षयत्वात् स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् । तथा अश्रुतं श्रोत्रा- विषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वान् । तथा अमतं मनसो- ऽविषयत्वात् स्वयं मन्तृ मतिस्वरूपत्वात् । तथा अविज्ञातं बुद्धेरविषयत्वान, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् । किं च नान्यत् अतः अस्मादक्षरात् अस्ति नास्ति किंचिद्दष्ट दर्शनक्रियाकर्तृ; एतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र । तथा नान्यदतोऽस्ति श्रोतृ तदेवाक्षरं श्रोतृ सर्वत्र । नान्यदतो- स्ति मन्तृ ; तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण । नान्यद- तोऽम्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानम् अन्यद्वा । एतस्मिन्नु खल्वक्षरे गायकाश ओतश्च प्रोतश्चेति । यदेव साक्षादप- वृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ८. राक्षाद्ब्रह्म, य आत्मा सर्वान्तर: अशनायादिसंसारधर्मातीत:, ' यस्मिन्नाकाश ओतश्च प्रोतश्च - एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥ सा होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्रह्मोद्यं जे- तेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥ इति अष्टमं ब्राह्मणम् ॥ साहोवाच- हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः ; तदेव बहुमन्येध्वम् ; किं तत ? यदस्मात् याज्ञवल्क्यात नमस्कारेण मुच्येध्वम - अस्मै नमस्कारं कृत्वा, तदेव बहु- मन्यध्वमित्यर्थः ; जयस्त्वस्य मनसापि नाशंसनीयः, किमुत कार्यतः ; कस्मान् ? न वै युष्माकं मध्ये जातु कदाचिदपि इमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता । प्रश्नौ चेन्मह्यं वक्ष्यति, न वै जेता भविता- इति पूर्वमेव मया प्रतिज्ञातम; अद्यापि ममायमेव निश्चय:- ब्रह्मोद्यं प्रति एतत्तुल्यो न कश्चिद्वि- द्यत इति । ततो ह वाचक्नव्युपरराम ॥ क. १२.] तृतीयोऽध्यायः । अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् - यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदुरिति च यमन्तर्यामिणं न विदुः, ये च न विदु:, यश्च तदक्षरं दर्शनादिक्रियाकर्तृत्वेन सर्वेषां चेतनाधातुरित्युक्तम् — कस्तु एषां विशेषः, किं वा सामान्यमिति । तत्र केचिदाचक्षते - परस्य महासमुद्रस्था- नीयस्य ब्रह्मण: अक्षरस्य अप्रचलितस्वरूपस्य ईषत्प्रचलिता- वस्था अन्तर्यामी; अत्यन्तप्रचलितावस्था क्षेत्रज्ञः, यः तं न वेद अन्तर्यामिणम् ; तथा अन्याः पश्वावस्था: परिकल्पय- न्ति ; तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति । अन्ये अक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च । अन्ये तु अक्षरस्य विकारा इति वदन्ति । अवस्थाशक्ती तावन्नोपपद्येते, अक्षरस्य अशनायादिसंसारधर्मातीतत्वश्रुतेः ; न हि अशनायाद्यतीतत्वम् अशनायादिधर्मवदवस्थावत्वं च एकस्य युगपदुपपद्यते ; तथा शक्तिमत्त्वं च । विकारावयव- त्वे च दोषाः प्रदर्शिताश्चतुर्थे । तस्मात् एता असत्या : सर्वाः कल्पना: । कस्तर्हि भेद एषाम् ? उपाधिकृत इति ब्रूमः ; न स्वत एषां भेदः अभेदो वा, सैन्धवघनवत् प्रज्ञानघनैकर सस्था- भाव्यात्, 'अपूर्वमनपरमनन्तरमबाह्यम्' 'अयमात्मा ब्रह्म इति च श्रुतेः— 'सबाह्याभ्यन्तरो ह्यज:' इति च आथर्वणे । , बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ८. तस्मात निरुपाधिकस्य आत्मनो निरूपाख्यत्वात् निर्विशेषत्वा- तू एकत्वाच 'नेति नेति' इति व्यपदेशो भवति; अविद्याकाम- कर्मविशिष्ट कार्यकरणोपाधिः आत्मा संसारी जीव उच्यते ; नि- त्यनिरतिशयज्ञानशक्त्युपाधिः आत्मा अन्तर्यामी ईश्वर उच्य- ते; स एव निरुपाधिः केवलः शुद्धः स्वेन स्वभावेन अक्षरं पर उच्यते । तथा हिरण्यगर्भाव्याकृतदेवताजातिपिण्डमनु- ध्यतिर्यक्प्रेतादिकार्य करणोपाधिभिर्विशिष्टः तदाख्यः तद्रूपो भवति । तथा ' तदेजति तन्नैजति ' इति व्याख्यातम् । तथा 'एष त आत्मा एष सर्वभूतान्तरात्मा' ' एष सर्वे- षु भूतेषु गूढ: 'तत्त्वमसि' ' अहमेवेदं सर्वम्' आत्म- वेदं सर्वम्' 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतयो नवि- रुध्यन्ते । कल्पनान्तरेषु एता: श्रुतयो न गच्छन्ति । त- स्मात् उपाधिभेदेनैव एषां भेदः, नान्यथा, 'एकमेवाद्वि- तीयम' इत्यवधारणात्सर्वोपनिषत्सु ॥ ' , इति तृतीयाध्यायस्य अष्टमं ब्राह्मणम् ॥ بع नवमं ब्राह्मणम् ॥ ; अथ हैनं विदग्धः शाकल्यः पप्रच्छ । पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन् ओ- तप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् तस्य च ब्रह्मणो व्याकृतविषये सूत्रभेदेषु नियन्तृत्वमुक्तम् — व्याकृ- तविषये व्यक्ततरं लिङ्गमिति । तस्यैव ब्रह्मणः साक्षादपरो- क्षत्वे नियन्तव्य देवता भेद संकोचविकासद्वारेणाधिगन्तव्ये इति तदर्थ शाकल्यब्राह्मणमारभ्यते— अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव नि- विदा प्रतिपेदे यावन्तो वैश्वदेवस्य नि विद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च श्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति वयस्त्रिदिव्योमि- ति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञ- वल्क्येति त्रय इत्योमिति होवाच कत्येव बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. देवा याज्ञवल्क्येति द्वावित्योमिति हो- वाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञव- ल्क्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सह- त्रेति ॥ १ ॥ अथ हैनं विदग्ध इति नामतः, शकलस्यापत्यं शाकल्यः, पप्रच्छ—— कतिसंख्याका देवा: हे याज्ञवल्क्येति । स याज्ञ- वल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे संख्याम्, यां संख्यां पृष्टवान् शाकल्यः ; यावन्तः यावत्सं- ख्याका देवाः वैश्वदेवस्य शस्त्रस्य निविदि- निविन्नाम देव- तासंख्यावाचकानि मन्त्रपदानि कानिचिद्वैश्वदेवे शस्त्रे शस्य- न्ते तानि निवित्संज्ञकानि; तस्यां निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा इति । का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्ते -- त्रयश्व वी च शता- त्रयश्च देवा, देवानां त्री च त्रीणि च शतानि ; पुनरप्येवं त्रयश्च त्री च सहस्रा सहस्राणि --- एतावन्तो देवा इति । शाकल्योऽपि ओमिति होवाच । एवमेषां मध्यमा , ' क. ३.] तृतीयोऽध्यायः । संख्या सम्यक्तया ज्ञाता ; पुनस्तेषामेव देवानां संकोच विषयां संख्यां पृच्छति कत्येव देवा याज्ञवल्क्येति ; त्रयस्त्रिंशत्, - षट्, त्रयः द्वौ अध्यर्धः, एक:- इति । देवतासंकोचवि- ' कासविषयां संख्यां पृष्ट्वा पुन: संख्येयस्वरूपं पृच्छति - कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ स होवाच महिमान एवैषामेते लय- स्त्रिशत्वेव देवा इति कतमे ते त्रयस्त्रि- शदित्यष्टौ वसव एकादश रुद्रा द्वाद- शादित्यास्त एकत्रिशदिन्द्रश्चैव प्रजाप- तिश्च त्रयस्त्रिशाविति ॥ २ ॥ स होवाच इतर :- महिमानः विभूतयः, एषां त्रयस्त्रि- शत: देवानाम, एते त्रयश्च त्री च शतेत्यादय: ; परमार्थ- तस्तु त्रयत्रिंशत्वं देवा इति । कतमे ते त्रयस्त्रिंशदित्यु- च्यते - अष्टौ वसवः, एकादश रुद्राः, द्वादश आदित्या:- ते एकत्रिंशत् - इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रि- शतः पूरणौ ॥ कतमे वसव इत्यग्निश्व पृथिवी च वा- युश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च बृहदारण्यकोपनिषद्भाष्ये नक्षत्राणि चैते वसव एतेषु हीद हितमिति तस्माद्वसव इति ॥ ३ ॥ [ ब्रा. ९. सर्व कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृच्छयते ; पृथिवी चेति - अग्न्याद्या नक्षत्रान्ता एते वसव:- - अग्निश्व प्रा- णिनां कर्मफलाश्रयत्वेन कार्यकरणसंघातरूपेण तन्निवासत्वेन च विपरिणमन्तः जगदिदं सर्वं वासयन्ति वसन्ति च ; ते यस्माद्वासयन्ति तस्माद्वसव इति ॥ कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्या दुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्माद्भुद्रा इति ॥ ४ ॥ कतमे रुद्रा इति । दश इमे पुरुषे, कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मनः एकादश:- एकादशानां पूरण: ; ते एते प्राणाः यदा अस्माच्छरीरात मर्त्यात प्राणिनां कर्म- फलोपभोगक्षये उत्क्रामन्ति- अथ तदा गेदयन्ति तत्सं- बन्धिनः । तत् तत्र यम्माद्रोदयन्ति ते संबन्धिनः, तम्मान कद्रा इति ॥ कतम आदित्या इति द्वादश वै मासाः क. ६.] तृतीयोऽध्यायः । संवत्सरस्यैत आदित्या एते हीद सर्व- माददाना यन्ति ते यदिद‍ सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥ कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य कालस्य अवयवाः प्रसिद्धाः, एते आदित्याः ; कथम् ? एते हि यस्मात् पुनः पुन. परिवर्तमानाः प्राणिनामायूंषि कर्म - फलं च आददाना : गृह्णन्तः उपाददत: यन्ति गच्छन्ति- ते यत् यस्मात् एवम इदं सर्वमाददाना यन्ति, तस्मादा- दित्या इति ॥ कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति क- तमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥ कतम इन्द्रः कतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति । अ- शनिः वज्रं वीर्य बलम्, यत् प्राणिनः प्रमापयति, स इन्द्रः ; इन्द्रस्य हि तत् कर्म । कतमो यज्ञ इति पशव इति - यज्ञस्य हि साधनानि पशव:; यज्ञस्यारूपत्वात् पशु- साधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ९. कतमे षडित्यग्निश्च पृथिवी च वायु- चान्तरिक्षं च आदित्यश्च द्यौश्चैते षडेते हीद५ सर्व५ षडिति ॥ ७ ॥ कतमे षडिति । त एव अग्न्यादयां वसुत्वेन पठिता: चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति षट्संख्या- विशिष्टाः । एते हि यस्मात् त्रयस्त्रिंशदादि यदुक्तम् इदं सर्वम् एत एव षड्भवन्ति; सर्वो हि वस्वादिविस्तर एतेष्वेव षट्सु अन्तर्भवतीत्यर्थः ॥ " कतमे ते त्रयो देवा इतीम एव त्रयो लोका एषु हीमे सर्वे देवा इति कतमौ नौ द्वौ देवावित्यन्नं चैव प्राणश्चेति कत- मोऽध्यर्ध इति योऽयं पवत इति ॥ ८ ॥ कतमे ते वयो देवा इति ; इम एव वयां लोका इति- पृथिवीमग्निं च एकीकृत्य एको देवः, अन्तरिक्षं वायुं च एकीकृत्य द्वितीय, दिवमादित्यं च एकीकृत्य तृतीय:- ते एव त्रयो देवा इति । एषु हि यस्मात् त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति, तेन एत एव देवास्त्रयः - इत्येष नै- रुक्तानां केषांचित्पक्ष: । कतमौ तौ द्वौ देवाविति — अन्नं " क. ९.] तृतीयोऽध्यायः । i चैव प्राणश्च एतौ द्वौ देवौ अनयो: सर्वेषामुक्तानामन्तर्भा वः । कतमोऽध्यर्ध इति - योऽयं पवते वायुः ॥ तदाहुर्यदयमेक इवैव पवतेऽथ कथम- ध्यर्ध इति यदस्मिन्निद सर्वमध्यानत्ते- नाध्यर्ध इति कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९ ॥ तत् तत्र आहुः चोदयन्ति यदयं वायुः एक इवैव एक एव पवते; अथ कथमध्यर्ध इति । यत् अस्मिन् इदं सर्वम- ध्यानत् - अस्मिन्वायौ सति इदं सर्वमध्यात्-अधि ऋद्धि प्राप्नोति - तेनाध्यर्ध इति । कतम एको देव इति, प्राण इति । स प्राणो ब्रह्म - सर्वदेवात्मकत्वान्महद्रा, तेन स ब्रह्म त्यदित्या - चक्षते - त्यदिति तद्ब्रह्माचक्षते परोक्षाभिधायकेन शब्देन । देवानामेतत् एकत्वं नानात्वं च अनन्तानां देवानां निवि- त्संख्याविशिष्टेष्वन्तर्भावः ; तेषामपि वयस्त्रिंशदादिषूत्तरोत्त- रेषु यावदेकस्मिन्प्राणे; प्राणस्यैव चैकस्य सर्वः अनन्तसं- ख्यातो विस्तरः । एवमेकश्च अनन्तश्च अवान्तरसंख्यावि- शिष्टश्च प्राण एव । तत्र च देवस्यैकस्य नामरूपकर्मगुणश- क्तिभेद: अधिकारभेदात ॥ च- बृहदारण्यकोपनिषद्भाष्ये [त्रा. ९. sarai तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा भेद उपादि - श्यते- पृथिव्येव यस्यायतनमग्निलोंको मनो- ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायण स वै वेदिता स्यात् । याज्ञव- ल्क्य वेद वा अहं तं पुरुषः सर्वस्या- त्मनः परायणं यमात्थ य एवाय‍ शा- रीरः पुरुषः स एष वदैव शाकल्य तस्य का देवतेत्यमृतमिति होवाच ॥ १० ॥ पृथिव्येव यस्य देवस्य आयतनम् आश्रयः ; अग्निर्लोको ; : ; यस्य - लोकयत्यनेनेति लोक:, पश्यतीति- अग्निना पश्यती- त्यर्थः ; मनोज्योति:- मनसा ज्योतिषा संकल्पविकल्पादि- कार्य करोति यः, सोऽयं मनोज्योतिः पृथिवीशरीर: अग्निदर्शन: मनसा संकल्पयिता पृथिव्यभिमानी कार्यकर- णसंघातवान्देव इत्यर्थः । य एवं विशिष्टं वै तं पुरुषं वि द्यात् विजानीयात्, सर्वस्य आत्मनः आध्यात्मिकस्य का- र्यकरणसंघातस्य आत्मन: परमयनम पर आश्रयः तं परायणम् - मातृजेन त्वङ्यांसरुधिररूपेण क्षेत्रम्थानीयेन क. ११.] तृतीयोऽध्यायः । बीज स्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परम् अय- नम्, करणात्मनश्च- - स वै वेदिता म्यात्; य एतदेवं वेत्ति सवै वेदिता पण्डितः स्यादित्यभिप्रायः । याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यभिप्राय: । यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषम् - सर्वस्य आत्मन: परायणं यमात्थ यं कथयसि - तमहं वेद । तत्र शाकल्य - स्य वचनं द्रष्टव्यम् - यदि त्वं वेत्थ तं पुरुषम्, ब्रूहि किंवि- शेषणोऽसौ । शृणु, यद्विशेषणः मः य एवायं शारीरः- पार्थिवांशे शरीरे भवः शारीरः मातृजकोशत्रयरूप इत्य- र्थः स एष देव:, यस्त्वया पृष्टः, हे शाकल्य ; किंतु अस्ति तत्र वक्तव्यं विशेषणान्तरम् ; तत् वदैव पृच्छैवेत्यर्थः, है शाकल्य । स एवं मक्षोभितोऽमर्षवशग आह, तोत्रार्दित इव गज:- तस्य देवस्य शारीरस्य का देवता- यस्मा- न्निष्पद्यते, यः ' सा तस्य देवता' इत्यस्मिन्प्रकरणे विव- क्षित:; अमृतमिति होवाच- अमृतमिति यो भुक्तस्यान्नस्य रसः मातृजस्य लोहितस्य निष्पत्तिहेतुः ; तस्माद्धि अन्नर- साल्लोहितं निष्पद्यते स्त्रियां श्रितम् ; ततश्च लोहितमयं श- रीरं बीजाश्रयम् । समानमन्यत् ॥ ; काम एव यस्यायतन हृदयं लोको S. B. U. II. 8 बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. मनो ज्योतियों वै तं पुरुषं विद्यात्सर्व- स्यात्मनः परायणः स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुष‍ सर्व- स्यात्मनः परायणं यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति स्त्रिय इति होवाच ॥ काम एव यस्यायतनम् । स्त्रीव्यतिकराभिलाष: काम: कामशरीर इत्यर्थः । हृदयं लोक:, हृदयेन बुद्धया पश्यति । य एवायं काममयः पुरुषः अध्यात्ममपि काममय एव, तस्य का देवतेति - स्त्रिय इति होवाच ; स्त्रीतो हि कामस्य दीप्तिर्जायते ॥ रूपाण्येव यस्यायतनं चक्षुर्लोको मनो- ज्योतियों वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायण स वै वेदिता स्यात् । याज्ञव- ल्क्य वेद वा अहं तं पुरुषः सर्वखात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति क. १३. ] तृतीयोऽध्यायः । ४६५ सत्यमिति होवाच ॥ १२ ॥ रूपाण्येव यस्यायतनम् । रूपाणि शुक्लकृष्णादीनि । य एवासावादित्ये पुरुष :- सर्वेषां हि रूपाणां विशिष्टं कार्यमा - दित्ये पुरुषः, तस्य का देवतेति - सत्यमिति होवाच ; सत्य- मिति चक्षुरुच्यते ; चक्षुषो हि अध्यात्मत आदित्यस्याधिदैव- तस्य निष्पत्ति: ॥ आकाश एव यस्यायतन‍ श्रोत्रं लो- को मनोज्योतियों वै तं पुरुषं विद्यात्सर्व- स्यात्मनः परायणः स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुष५ सर्व- स्यात्मनः परम्यणं यमात्थ य एवाय श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति दिश इति होवाच ॥ १३ ॥ आकाश एव यस्यायतनम्। य एवायं श्रोत्रे भवः श्रौत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य का देवतेति - दिश इति होवाच ; दिग्भ्यो हासौ आ- "यात्मिको निष्पद्यते ॥ बृहदारण्यकोपनिषद्भाष्ये [बा. ९. तम एव यस्यायतनँ हृदयं लोको मनोज्योतियों वै तं पुरुषं विद्यात्सर्व- स्यात्मनः परायणः स वै वेदिता स्या- त् । याज्ञवल्क्य वेद वा अहं तं पुरुष सर्वस्यात्मनः परायणं यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति मृत्युरिति होवाच ॥ तम एव यस्यायतनम् । तम इति गार्वराद्यन्धकारः परिगृह्यते ; अध्यात्मं छायामयः अज्ञानमयः पुरुषः ; तस्य का देवतेति - मृत्युरिति होवाच ; मृत्युरधिदैवतं तम्य नि- ष्पत्तिकारणम् ॥ - रूपाण्येव यस्यायतनं चक्षुलको म नोज्योतियों वै तं पुरुषं विद्यात्सर्वस्या- त्मनः परायणं स वै वेदिता स्यात् । याज्ञवल्क्यस्य वेद वा अहं तं पुरुष सर्वस्यात्मनः परायणं यमात्थ य एवा- यमादर्श पुरुषः स एष वदैव शाकल्य .: क. १६.] तृतीयोऽध्यायः । ४६७ तस्य का देवतेत्यसुरिति होवाच ॥ १५ ॥ " रूपाण्येव यस्यायतनम् । पूर्व साधारणानि रूपाण्युक्तानि st तु प्रकाशकाft विशिष्टानि रूपाणि गृह्यन्ते ; रूपाय- तनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि; तस्य का देवतेति - असुरिति होवाच; तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्ति: असोः प्राणात् ॥ आप एव यस्यायतन हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्या- त्मनः परायण स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुषः सर्वः स्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ॥ १६ ॥ आप एव यस्य आयतनम् । साधारणाः सर्वा आप आयतनम् ; वापीकूपतडागाद्याश्रयासु अप्सु विशेषावस्थानम् ; तम्य का देवतेति वरुण इति - वरुणात् संघातकः अध्यात्मम् आप एव वाप्याद्यपां निष्पत्तिकारणम् ॥ बृहदारण्यकोपनिषद्भाष्ये [बा. ९. रेत एव यस्यायतन हृदयं लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्व- स्यात्मनः परायण स वै वेदिता स्या- त् । याज्ञवल्क्य वेद वा अहं तं पुरुष‍ सर्वस्यात्मनः परायणं यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य का देवतेति प्रजापतिरिति हो- वाच ॥ १७ ॥ रेत एव यस्यायतनम् ; य एवायं पुत्रमयः विशेषायतनं रेत आयतनस्य - पुत्रमय इति च अस्थिमज्जाशुक्राणि पितु- जीतानि; तस्य का देवतेति, प्रजापतिरिति होवाच- प्रजापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥ शाकल्येति होवाच याज्ञवल्क्यस्त्वाँ खिदिमे ब्राह्मणा अंङ्गारावक्षयणमक्रता ३ इति ॥ १८ ॥ अष्टधा देवलोक पुरुषभेदेन विधा त्रिधा आत्मानं प्रवि- भज्य अवस्थित एकैको देव: प्राणभेद एव उपासनार्थं व्य- क. १९.] तृतीयोऽध्यायः । पदिष्टः ; अधुना दिग्विभागेन पश्वधा प्रविभक्तस्य आत्मन्यु- पसंहारार्थम् आह; तूष्णींभूतं शाकल्यं याज्ञवल्क्यो प्रहेणेव आवेशयन्नाह-- शाकल्येति होवाच याज्ञवल्क्यः; त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षयणम्- अङ्गारा: अवक्षीयन्ते यस्मिन् संदंशादौ तत् अङ्गारावक्षय- णम् - तत् नूनं त्वाम् अक्रत कृतवन्तः ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्राय: ॥ याज्ञवल्क्येति होवाच शाकल्यो य- दिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ - याज्ञवल्क्येति होवाच शाकल्यः - यदिदं कुरुपञ्चवा- लानां ब्राह्मणान् अत्यवादी: अत्युक्तवानसि - स्वयं भीता- स्त्वामङ्गारावक्षयणं कृतवन्त इति किं ब्रह्म विद्वान्सन् एवमधिक्षिपसि ब्राह्मणान् । याज्ञवल्क्य आह - ब्रह्मविज्ञानं तावदिदं मम ; किं तत् ? दिशो वेद दिग्विषयं विज्ञानं जाने ; तच्च न केवलं दिश एव, सदेवाः देवैः सह दिगधि - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ९. ष्ठातृभिः, किंच सप्रतिष्ठा: प्रतिष्ठाभिश्च सह । इतर आह- यत् यदि दिशो वेत्थ सदेवाः सप्रतिष्ठा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥ किंदेवतोऽस्यां प्राच्यां दिश्यसीत्या- दिव्यदेवत इति स आदित्यः कस्मिन्प्र- तिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रति- ष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद्याज्ञव- ल्क्य ॥ २० । किंदेवतः का देवता अस्य तव दिग्भूतस्य । असौ हि याज्ञवल्क्यः हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभू- तम्, तद्द्वारेण सर्वे जगत् आत्मत्वेनोपगम्य, अहमस्मि दि- गात्मेति व्यवस्थितः पूर्वाभिमुख:- सप्रतिष्ठावचनात्; यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति - किंदेवतस्त्व- , क. २०.] तृतीयोऽध्यायः । _g स आ- मस्यां दिश्यसीति । सर्वत्र हि वेदे यां यां देवतामुपास्ते इहैव तद्भूतः तां तां प्रतिपद्यत इति ; तथा च वक्ष्यति - 'देवो भूत्वा देवानप्येति' इति । अस्यां प्राच्यां का देवता दिगात्मनस्तव अधिष्ठात्री कया देवतया त्वं प्राचीदिग्रूपेण संपन्न इत्यर्थः । इतर आह- आदित्यदेवत इति प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः । सदेवा इत्येतत् उक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह- दित्यः कस्मिन्प्रतिष्ठित इति, चक्षुषीति; अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादा:- 'चक्षोः सूर्यो अजायत' 'चक्षुष आदित्य:' इत्यादय: ; कार्ये हि कारणे प्रतिष्ठितं भवति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति, रूपेष्विति ; रूपग्रहणाय हि रूपात्मकं चक्षुः रूपेण प्रयु- क्तम् ; यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणाय आरब्धं चक्षुः ; तस्मात् सादित्यं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वैः रूपेषु प्रतिष्ठितम् । चक्षुषा सह प्राची दिक्सर्वा रूपभूता ; तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति ; हृदय इति हो- वाच ; हृदगारब्धानि रूपाणि रूपाकारण हि हृदयं परि- णतम् ; यस्मात् हृदयेन हि रूपाणि सर्वो लोको जानाति ; हृदयमिति बुद्धिमनसी एकीकृत्य निर्देश: ; तस्मात् हृदये बृहदारण्यकोपनिषद्भाष्ये [त्रा. ९. ह्येव रूपाणि प्रतिष्ठितानि ; हृदयेन हि स्मरणं भवति रूपा - णां वासनात्मनाम् ; तस्मात् हृदये रूपाणि प्रतिष्ठितानीत्य- र्थः । एवमेवैतद्याज्ञवल्क्य ॥ किंदेवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्र सेऽथ दक्षिणां ददाति श्रद्धाया ह्येव दक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्र तिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्र तिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ - किंदेवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत - द- क्षिणायां दिशि का देवता तव । यमदेवत इति - यमो देवता मम दक्षिणादिग्भूतस्य । स यमः कस्मिन्प्रतिष्ठित इति, यज्ञ इति - यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा । क. २२.] तृतीयोऽध्यायः । -- कथं पुनर्यज्ञस्य कार्ये यम इत्युच्यते - ऋत्विग्भिर्निष्पादि- तो यज्ञः ; दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजायति ; तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया दिशा । कस्मिन्नु यज्ञः प्रतिष्ठित इति, दक्षिणायामिति — दक्षिणया स निष्क्रीयते ; तेन दक्षिणाकार्य यज्ञः । कस्मिन्नु दक्षिणा प्रतिष्ठितेति, श्रद्धा- यामिति — श्रद्धा नाम दित्सुत्वम् आस्तिक्यबुद्धिर्भक्तिसहि ता । कथं तस्यां प्रतिष्ठिता दक्षिणा ? यस्मात् यदा ह्येव श्रद्धत्ते अथ दक्षिणां ददाति, न अश्रद्दधत् दक्षिणां ददाति ; , " तस्मात् श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति, हृदय इति होवाच - हृदयस्य हि वृत्ति: श्रद्धा यस्मात्, हृदयेन हि श्रद्धां जानाति ; वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ; तस्माद्धृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन्प्रति- ष्ठित इत्यस्विति कस्मिन्त्वापः प्रतिष्ठि ता इति रेनसीति कस्मिन्नु रेतः प्रतिष्ठि- तमिति हृदय इति तस्मादपि प्रतिरूपं बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २२ । किं देवतोऽस्यां प्रतीच्यां दिश्यसीति । तस्यां वरुणो- Sधिदेवता मम । स वरुणः कस्मिन्प्रतिष्ठित इति, अप्स्वि- ति-- अपां हि वरुणः कार्यम्, 'श्रद्धा वा आप: ' श्रद्धा- तो वरुणमसृजत' इति श्रुतेः । कस्मिन्वापः प्रतिष्ठिता इति, रेतसीति–'रेतसो ह्याप: सृष्टा: ' इति श्रुतेः । कस्मिन्नु रेतः प्रतिष्ठितमिति, हृदय इति — यस्मात हृदयम्य कार्य रेतः; कामो हृदयस्य वृत्ति: ; कामिनो हि हृदयात रेतो- ऽधिस्कन्दति ; तस्मादपि प्रतिरूपम् अनुरूपं पुत्रं जातमाहु- लौकिकाः अस्य पितुर्हृदयादिव अयं पुत्रः सृतः विनि :- सृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः । तस्मात् हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्या- - ज्ञवल्क्य ॥ किंदेवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रति- ष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा क. २४.] तृतीयोऽध्यायः । ४७५. प्रतिष्ठितेति सत्य इति तस्मादपि दी- क्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रति- ष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रति- ष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ॥ २३ ॥ किंदेवतोऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति -- सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः । स सोमः कस्मिन्प्रतिष्ठित इति, दीक्षायामिति दीक्षितो हि यज मानः सोमं क्रीणाति; क्रीतेन सोमेन इष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति, सत्य इति— कथम् ? यस्मात्सत्ये दीक्षा पतिष्ठिता, तस्मादपि दीक्षितमाहु:- सत्यं वदेति- कारण भ्रेषे कार्यभ्रेषो मा भूदिति । संत्ये व दीक्षा प्रति- ष्ठिति । कस्मिन्नु सत्यं प्रतिष्ठितमिति ; हृदय इति होवा - च; हृदयेन हि सत्यं जानाति तस्मात् हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ ; किंदेवतोऽस्यां ध्रुवायां दिश्यसीत्यग्नि- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. देवत इति सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥ - " किंदेवतोऽस्यां ध्रुवायां दिश्यसीति । मेरोः समन्ततो वसतामव्यभिचारात् ऊर्ध्वा दिक् ध्रुवेत्युच्यते । अग्निदेवत इति – ऊर्ध्वायां हि प्रकाश भूयस्त्वम्, प्रकाशश्च अग्नि: सोऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय हृदय इति । त याज्ञवल्क्यः सर्वासु दिक्षु विप्रसृतेन हृदयेन सर्वा दिश आत्मत्वेनाभि- संपन्न: ; सदेवाः सप्रतिष्ठा दिश आत्मभूतास्तस्य नाम- रूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ; यत् रूपं तत् प्राच्या दिशा सह हृदयभूतं याज्ञवल्क्यस्य; यत्केवलं कर्म पुत्रो - त्पादनलक्षणं च ज्ञानसहितं च सह फलेन अधिष्ठात्रीभिश्च देवताभि: दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिका: हृदयमेव आपन्नास्तस्य ; ध्रुवया दिशा सह नाम सर्वे वाग्द्वारेण हृदय- मेव आपन्नम् ; एतावद्धीदं सर्वम्; यदुत रूपं वा नाम वेति तत्सर्वं हृदयमेव ; तत् सर्वात्मकं हृदयं ते - कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ कर्म वा पृच्छय - क. २६.] तृतीयोऽध्यायः । अहल्लिकेति होवाच याज्ञवल्क्यो य चैतदन्यत्रास्मन्मन्यासै यद्धयेतदन्यत्रा- स्मत्स्याच्छ्रानो वैनदद्युर्वयासि वैनद्वि- मथ्नीरन्निति ॥ २५ ॥ -- अहल्लिकेति होवाच याज्ञवल्क्यः- नामान्तरेण संबो- धनं कृतवान् । यत्र यस्मिन्काले, एतत् हृदयं आत्मा अस्य शरीरस्य अन्यत्र क्वचिद्देशान्तरे, अस्मत् अस्मत्तः, वर्तत इति मन्यासै मन्यसे-- यद्धि यदि हि एतद्धृदयम् अन्य- त्रास्मत् स्यात् भवेत्, श्वानो वा एनत् शरीरम् तदा अद्युः, वयांसि वा पक्षिणो वा एनत् विमथ्नीरन् विलो - डयेयुः विकर्षेरन्निति । तस्मात् मयि शरीरे हृदयं प्रति- ष्ठितमित्यर्थः । शरीरस्यापि नामरूपकर्मात्मकत्वाद्धृदये प्र- तिष्ठितत्वम् ॥ कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति प्राण इति कस्मिन्नु प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः प्रतिष्ठि- न इत्युदान इति कस्मिन्नूदानः प्रतिष्ठित बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ९. इति समान इति स एष नेति नेत्यात्मा- गृह्यो न हि गृह्यतेऽशीयों न हि शीर्यते- ऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । एतान्यष्टावायतनान्यष्टौ लो- का अष्टौ देवा अष्टौ पुरुषाः स यस्ता - न्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौप- निषदं पुरुषं पृच्छामि तं चेन्मे न विव- क्ष्यति मूर्धा ते विपतिष्यतीति । त‍ ह न मेने शाकल्यस्तस्य ह मूर्धा विपपा- तापि हास्य परिमोषिणोऽस्थीन्यपजहुर- न्यन्मन्यमानाः ॥ २६ ॥ हृदयशरीरयोरेवमन्योन्यप्रतिष्ठा उक्ता कार्यकरणयों: ; अतस्त्वां पृच्छामि-- कस्मिन्नु त्वं च शरीरम् आत्मा च तव हृदयं प्रतिष्ठितौ म्थ इति; प्राण इति ; देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ । कस्मिन्नु प्राण: प्रतिष्ठत इति, अपान इति — सापि प्राणवृत्तिः प्रागेव प्रेयात, अपानवृत्या चेन्न निगृह्येत । कस्मिन्न्वपानः प्रतिष्ठित इति, व्यान इति - साप्यपानवृत्ति: अध एव यायात् प्राणवृ- - क. २६.] तृतीयोऽध्यायः । त्तिश्च प्रागेव, मध्यस्थया चेत् व्यानवृत्या न निगृह्येत । क- स्मिन्नु व्यानः प्रतिष्ठित इति, उदान इति-- सर्वास्तिस्रो- sपि वृत्तय उदाने की स्थानीये चेन्न निबद्धाः, विष्वगेवेयुः । कस्मिन्नूदानः प्रतिष्ठित इति, समान इति - समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः । एतदुक्तं भवति -- शरीर हृदयवायवो- ऽन्योन्यप्रतिष्ठा: । संघातेन नियता वर्तन्ते विज्ञानमयार्थप्र- युक्ता इति । सर्वमेतत् येन नियतम् यस्मिन्प्रतिष्ठितम् आका- शान्तम् ओतं च प्रोतं च तस्य निरुपाधिकस्य साक्षादपरो- क्षाद्ब्रह्मणो निर्देश: कर्तव्य इत्ययमारम्भः । स एष:- -स यो 'नेति नेति' इति निर्दिष्टो मधुकाण्डे एष सः, सोऽयमात्मा अगृह्यः न गृह्य: ; कथम् ? यस्मात्सर्वकार्यधर्मातीतः, तस्मा- दगृह्यः ; कुत: ? यस्मान्न हि गृह्यते ; यद्धि करणगोचरं व्या- कृतं वस्तु, तद्ग्रहणगोचरम्; इदं तु तद्विपरीतमात्मतत्त्वम् । तथा अशीर्यः - यद्धि मूर्त संहतं शरीरादि तच्छीर्यते ; अयं तद्विपरीत: ; तु अतो न हि शीर्यते । तथा असङ्गः- -p मूर्ती मूर्तान्तरेण संबध्यमानः सज्यते ; अयं च तद्विपरीत: अतो न हि सज्यते । तथा असित: अबद्ध:- यद्धि मूर्त - तत् बध्यते ; अयं तु तद्विपरीतत्वात् असितः ; अबद्धत्वान्न व्यथते ; अतो न रिष्यति -- ग्रहणविशरणसङ्गबन्धकार्य- S. B. U. II. 9 बृहदारण्यकोपनिषद्भाष्ये ' [त्रा. ९ स धर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः . क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृ श्रुत्या स्वेन रूपेण त्वरया निर्देश: कृत:; ततः पुनः आ- ख्यायिकामेवाश्रित्याह— एतानि यान्युक्तानि अष्टावायत- नानि ' पृथिव्येव यस्यायतनम्' इत्येवमादीनि, अष्टौ लोका: अग्निलोकादयः, अष्टौ देवा: 'अमृतमिति होवाच ' इत्येव - मादयः, अष्टौ पुरुषा: 'शरीरः पुरुषः इत्यादय:- यः कश्चित् तान्पुरुषान् शारीरप्रभृतीन् निरुह्य निश्चयेनो गमयित्वा अष्टचतुष्कभेदेन लोकस्थितिमुपपाद्य पुनः प्राची- दिगादिद्वारेण प्रत्युद्य उपसंहृत्य स्वात्मनि हृदये अत्यका- मत् अतिक्रान्तवानुपाधिधर्मे हृदयाद्यात्मत्वम् स्वनैवात्मना व्यवस्थितो य औपनिषदः पुरुषः अशनायादिवर्जित: उप- निषत्स्वेव विज्ञेयः नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभि- मानिनं पुरुषं पृच्छामि । तं चेत् यदि मे न विवक्ष्यसि वि- स्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः । तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान्कि - छ । तस्य ह मूर्धा विपपात विपतितः । समाप्ता आख्या- यिका । श्रुतेर्वचनम्, 'तं ह न मेने ' इत्यादि । किं च अपि ह अस्य परिमोषिणः तस्करा: अस्थीन्यपि संस्कारार्थं ; क. २७.] तृतीयोऽध्यायः । शिष्यैर्नीयमानानि गृहान्प्रत्यपजह्रुः अपहृतवन्त:--- किं नि- मित्तम् - अन्यत् धनं नीयमानं मन्यमानाः । पूर्ववृत्ता ह्याख्यायिकेह सूचिता । अष्टाध्याय्यां किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव संवादो निर्वृत्त:; तत्र याज्ञवल्क्येन शापो दत्तः- ' पुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनिचन गृहान्प्राप्स्यन्ति' इति ' स ह तथैव ममार; तस्य हाप्यन्यन्मन्यमानाः परिमोषिणोऽस्थीन्यपजहुः ; त- स्मानोपवादी स्यादुत ह्येवंवित्परो भवतीति' । सैषा आ- ख्यायिका आचारार्थ सूचिता विद्यास्तुतये च इह ॥ 13 यस्य नेति नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देश: कृतः तस्य विधिमुखेन कथं निर्देशः कर्तव्य इति पुनरा- ख्यायिकामेवाश्रित्याह मूलं च जगतो वक्तव्यमिति । आ- ख्यायिकासंबन्धस्त्वब्रह्मविदो ब्राह्मणाञ्जित्वा गोधनं हर्तव्य- मिति / न्यायं मत्वाह-- अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा वः पृच्छामीति ते ह ब्राह्मणा न दधषुः ॥ २७ ॥ बृहदारण्यकोपनिषद्भाष्ये -- [ ब्रा. ९. अथ होवाच । अथ अनन्तरं तूष्णींभूतेषु ब्राह्मणेषु ह उवाच, हे ब्राह्मणा भगवन्त इत्येवं संबोध्य -. यो वः युष्माकं मध्ये कामयते इच्छति - याज्ञवल्क्यं पृच्छामीति, स मा माम् आगत्य पृच्छतु; सर्वे वा मा पृच्छत - सर्वे वायूयं मा मां पृच्छत ; यो वः कामयते- याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छामि ; सर्वान्वा वः युष्मान् अहं पृच्छामि । ते ह ब्राह्मणा न दधृषुः- ते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किंचिदपि प्रत्युत्तरं वक्तुम् ॥ तान्हैतैः श्लोकैः पप्रच्छ— यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृ- षा । तस्य लोमानि पर्णानि त्वगस्यो- त्पाटिका बहिः ॥ १ ॥ तेष्वप्रगल्भभूतेषु ब्राह्मणेषु तान् ह एतैः वक्ष्यमाणैः : लोकैः पप्रच्छ पृष्टवान् । यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति तथैव पुरुषोऽमृषा - अ- " - मृषा सत्यमेतत् ; तस्य लोमानि - तस्य पुरुषस्य लोमानि इतरस्य वनस्पतेः पर्णानि त्वगस्योत्पाटिका बहि:- त्वक् अस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥ क. २७.] तृतीयोऽध्यायः । त्वच एवास्य रुधिरं प्रखन्दि त्वच उ- त्पटः । तस्मात्तदातृष्णात्प्रेति रसो वृक्षा- दिवाहतात् ॥ २ ॥ • त्वच एव सकाशात् अस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेस्त्वचः उत्पटः– त्वच एव उत्स्फुटति यस्मात्; एवं सर्वे समानमेव वनस्पतेः पुरुषस्य च ; तस्मात् आतृष्णात् हिंसितात् प्रैति तत् रुधिरं निर्गच्छति, वृक्षादिव आहतात् छिन्नात् रसः ॥ माँ सान्यस्य शकराणि किनाट स्ला- व तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३ ॥ एवं मांसान्यस्य पुरुषस्य, वनस्पतेः तानि शकराणि शकलानीत्यर्थः । किनाटम्, वृक्षस्य किनाटं नाम शकले- , भ्योऽभ्यन्तरं वल्कलरूपं काष्ठसंलग्नम्, तत् स्नाव पुरुषस्य ; तस्थिरम् - तच किनाटं स्नाववत् दृढं हि तत्; अस्थीनि पुरुषस्य, स्नाव्नोऽन्तरत: अस्थीनि भवन्ति ; तथा किनाट - "; स्याभ्यन्तरतो दारूणि काष्ठानि; मज्जा, मज्जैव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमा मज्जोपमा, बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. नान्यो विशेषोऽस्तीत्यर्थः ; यथा वनस्पतेर्मज्जा तथा पुरुष- स्य, यथा पुरुषस्य तथा वनस्पतेः ॥ यदृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः विन्मृत्युना वृक्णः कस्मा- न्मूलात्प्ररोहति ॥ ४ ॥ यत् यदि वृक्षो वृक्णः छिन्नः रोहति पुनः पुनः प्ररोहति प्रादुर्भवति मूलात् पुनर्नवतर: पूर्वस्मादभिनव- तर:; यदेतस्माद्विशेषणात्प्राक् वनस्पतेः पुरुषस्य च, सर्व सामान्यमवगतम् ; अयं तु वनस्पतौ विशेषो दृश्यते - यत् छिन्नस्य प्ररोहणम् ; न तु पुरुषे मृत्युना वृक्णे पुनः प्ररो- हणं दृश्यते ; भवितव्यं च कुतश्चित्प्ररोहणेन ; तस्मात् वः पृच्छामि — मर्त्यः मनुष्यः स्वित् मृत्युना वृक्ण: कस्मात् मूलात् प्ररोहति, मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥ रेतस इति मा वोचत जीवतस्तत्प्रजा- यते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य संभवः ॥ ५ ॥ यदि चेदेवं वदथ - रेतसः प्ररोहतीति मा वोचत मैवं तृतीयोऽध्यायः । रेत: क. २७.] वक्तुमर्हथ कस्मात् ? यस्मात् जीवतः पुरुषात् तत् प्रजायते, न मृतात् । अपि च धानारुहः धाना बीजम्, बीजरुहोऽपि वृक्षो भवति, न केवलं काण्डरुह एव; इव- शब्दोऽनर्थकः ; वै वृक्ष : असा साक्षात् प्रेत्य मृत्वा संभवः धानातोऽपि प्रेत्य संभवो भवेत् अञ्जसा पुनर्वनस्पतेः ॥ यत्समूलमाषृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः स्विन्मृत्युना वृक्ण: कस्मन्मूला- प्ररोहति ॥ ६ ॥ W यत् यदि सह मूलेन धानया वा आवृहेयुः उद्यच्छेयुः उत्पाटयेयुः वृक्षम्, न पुनराभवेत् पुनरागत्य न भवेत् । तस्माद्वः पृच्छामि—॰सर्वस्यैव जगतो मूलं मर्त्यः स्वित् मृत्युना वृक्णः कस्मात् मूलात् प्ररोहति ॥ जात एव न जायते को न्वेनं जनये- त्पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति ॥ ७ ॥ इति नवमं ब्राह्मणम् ॥ जात एवेति मन्यध्वं यदि, किमत्र प्रष्टव्यमिति- ज- ' बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ९ अयं निष्यमाणस्य हि संभवः प्रष्टव्यः, न जातस्य ; जात एव अतोऽस्मिन्विषये प्रश्न एव नोपपद्यत इति चेत्- न; किं तर्हि ? मृत: पुनरपि जायत एव अन्यथा अकृता- भ्यागमकृतनाशप्रसङ्गात् ; अतो वः पृच्छामि- - को न्वेनं मृतं पुनर्जनयेत् । तत् न विजज्ञुर्ब्राह्मणाः -- यतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणै: :; अतो ब्रह्मिष्ठत्वात् हृता गावः ; याज्ञवल्क्येन जिता ब्राह्मणाः । समाप्ता आख्यायिका । यज्जगतो मूलम्, येन च शब्देन साक्षाद्वयपदिश्यते ब्रह्म, यत् याज्ञवल्क्यो ब्राह्मणान्प्र- ष्टवान् तत् स्वेन रूपेण श्रुतिरस्मभ्यमाह - विज्ञानं विज्ञप्तिः विज्ञानम्, तच्च आनन्दम्, न विषयवि- ज्ञानवद्दु : खानुविद्धम्, किं तर्हि प्रसन्नं शिवमतुलमना- यासं नित्यतृप्तमेकरसमित्यर्थः । किं तत् ब्रह्म उभय- विशेषणवद्रातिः रातेः षष्ठयर्थे प्रथमा, धनस्येत्यर्थः ; धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ । किंच व्युत्थायैषणाभ्यः तस्मिन्नेव ब्रह्म- णि तिष्ठति अकर्मकृत्, तत् ब्रह्म वेत्तीति तद्विच्च, तस्य- तिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति । अत्रेदं विचार्यते — आनन्दशब्दो लोके सुखवाची प्र- - क. २७.] तृतीयोऽध्यायः । सिद्ध:; अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयते- आनन्दं ब्रह्मेति ; श्रुत्यन्तरे च- ' आनन्दो ब्रह्मेति व्यजा- नात् ' ' आनन्दं ब्रह्मणो विद्वान् ' ' यदेष आकाश आनन्दो न स्यात् ' ' यो वै भूमा तत्सुखम् ' इति च; ' एष परम आनन्द:' इत्येवमाद्या: ; संवेद्ये च सुखे आनन्दशब्दः प्रसिद्धः; ब्रह्मानन्दश्च यदि संवेद्यः स्यात्, युक्ता एते ब्रह्मणि आनन्दशब्दा: । ननु च श्रुतिप्रामाण्यात् संवेद्या - नन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यमिति न विरुद्धश्रु- तिवाक्यदर्शनात् — सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते ; विज्ञानप्रतिषेधश्च एकत्वे- 'यत्र त्वस्य सर्वमात्मैवाभूत्, तत्केन कं पश्येत्, तत्केन कं विजानीयात् ' 'यत्र नान्य- त्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' 'प्रा- ज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद' इत्यादि ; विरुद्धश्रुतिवाक्यदर्शनात् तेन कर्तव्यो विचारः । तस्मात् युक्तं वेदवाक्यार्थनिर्णयाय विचारयितुम् । मोक्षवादिविप्र- तिपत्तेश्व - सांख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः अन्ये निरतिशयं सुखं स्वसंवेद्यमिति ॥ ; किं तावद्युक्तम् ? आनन्दादिश्रवणात् 'जक्षत्क्रीडन्रममा- UT: बृहदारण्यकोपनिषद्भाष्ये [ बा. ९. : ' ' स यदि पितृलोककामो भवति' ' यः सर्वज्ञः सर्व- वित्' ' सर्वान्कामान्समश्नुते' इत्यादिश्रुतिभ्यः मोक्षे सुखं संवेद्यमिति । ननु एकत्वे कारकविभागाभावात् विज्ञानानु- पपत्तिः, क्रियायाश्चानेककारकसाध्यत्वात् विज्ञानस्य च क्रि- यात्वात् — नैष दोष: ; शब्दप्रामाण्यात् भवेत् विज्ञानमान- न्दविषये; 'विज्ञानमानन्दम्' इत्यादीनि आनन्दस्वरूपस्यासं- वेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम । ननु वचनेनापि अग्नेः शैत्यम् उदकस्य च औष्ण्यं न क्रियत एव, ज्ञापकत्वाद्वचनानाम्; न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम्; अगम्ये वा देशान्तरे उष्णमुद- कमिति – न, प्रत्यगात्मन्यानन्द विज्ञानदर्शनात्; न 'वि- ज्ञानमानन्दम्' इत्येवमादीनां वचनानां शीतोऽग्निरित्यादिवा- क्यवत् प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वम् । अनुभूयते तु अविरुद्धार्थता; सुखी अहम् इति सुखात्मकमात्मानं स्वय- मेव वेदयते; तस्मात् सुतरां प्रत्यक्षाविरुद्धार्थता; तस्मात् आनन्दं ब्रह्म विज्ञानात्मकं सत् स्वयमेव वेदयते । तथा आनन्दप्रतिपादिकाः श्रुतय: समञ्जसा: स्यु: 'जनत्क्रीडन्र- ममाणः' इत्येवमाद्याः पूर्वोक्ताः ॥ न, कार्यकरणाभावे अनुपपत्तेर्विज्ञानस्य — शरीरवियो- क. २७.] तृतीयोऽध्यायः । ४८९. गो हि मोक्ष आत्यन्तिकः; शरीराभावे च करणानुपपत्तिः, आश्रयाभावात् ; ततश्च विज्ञानानुपपत्तिः अकार्य करणत्वात्; देहाद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थ- क्यप्रसङ्गः । एकत्वविरोधाश्च - परं चेद्र आनन्दात्मकम् आत्मानं नित्यविज्ञानत्वात् नित्यमेव विजानीयात् तन्न; संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत ; जलाशय इवोदकाञ्जलिः क्षिप्तः न पृथक्त्वेन व्यवतिष्ठते आनन्दात्म- कब्रह्मविज्ञानाय ; तदा मुक्त आनन्दात्मकमात्मानं वेदयत इत्येतदनर्थकं वाक्यम् । अथ ब्रह्मानन्दम् अन्यः सन् मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति ; तदा एकत्वविरोधः; तथा च सति सर्वश्रुतिविरोधः । तृतीया च क- ल्पना नोपपद्यते । किंचान्यत्, ब्रह्मणश्च निरन्तरात्मानन्दवि- ज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम्; निरन्तरं चेत् आत्मान- न्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इति आत्मा- नन्दं विजानातीति कल्पना अनुपपन्ना; अतद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेतीति ; न हि इष्वाद्यासक्तमनसो नैरन्तर्येण इषुज्ञानाज्ञानकल्पनाया अर्थ- वत्त्वम् । अथ विच्छिन्नमात्मानन्दं विजानाति - विज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः ; आत्मनश्च विक्रि - बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ९. यावत्त्वम्, ततश्चानित्यत्वप्रसङ्गः । तस्मात् 'विज्ञानमान- न्दम्' इति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवे- द्यत्वार्था । 'जक्षत्क्रीडन्' इत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेन्न, सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात् - मुक्तस्य सर्वा- त्मभावे सति यत्र क्वचित् योगिषु देवेषु वा जक्षणादि प्राप्तम् तत् यथाप्राप्तमेवानूद्यते तत् तस्यैव सर्वात्मभा- वादिति सर्वात्मभावमोक्षस्तुतये । यथाप्राप्तानुवादित्वे दु:- खित्वमपीति चेत् - योग्यादिषु यथाप्राप्तजक्षणादिवत् स्था- वरादिषु यथाप्राप्तदुःखित्वमपीति चेत् — न, नामरूप- कृतकार्य करणोपाधिसंपर्कजनितभ्रान्त्यध्यारोपितत्वात् सुखि- त्वदुःखित्वादिविशेषस्येति परिहृतमेतत्सर्वम् । विरुद्धश्रुतीनां च विषयमवोचाम । तस्मात् ' एषोऽस्य परम आनन्द: ' इतिवत् सर्वाण्यानन्दवाक्यानि द्रष्टव्यानि ॥ इति तृतीयाध्यायस्य नवमं ब्राह्मणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ॥ 8 श्रीमच्छंकरभगवत्पादविरचितम् बृहदारण्यकोपनिषद्भाष्यम् चतुर्थोऽध्यायः ज चतुर्थोऽध्यायः ॥ नको ह वैदेह आसांचक्रे । अस्य संबन्ध: - शारीराद्यानष्टौ पुरुषान्नि- रुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदेन च पुनः पञ्चधा व्यूह्य हृदये प्रत्युह्य, " हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपञ्चवृस्यात्मके समानाख्ये जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानं शरीर हृदयसूत्राव- स्थमतिक्रान्तवान् य औपनिषदः पुरुषः नेति नेतीति व्यप- दिष्टः, स साक्षाच्च उपादानकारणस्वरूपेण च निर्दिष्ट: 'वि- ज्ञानमानन्दम्' इति । तस्यैव वागादिदेवताद्वारेण पुनरधि- गमः कर्तव्य इति अधिगमनोपायान्तरार्थोऽयमारम्भो ब्राह्म- णद्वयस्य । आख्यायिका तु आचारप्रदर्शनार्था - 1 ॐ जनको ह वैदेह आसांचक्रेऽथ ह याज्ञवल्क्य आवब्राज । त होवाच या - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. ज्ञवल्क्य किमर्थमचारी: पशूनिच्छन्नण्व- न्तानिति । उभयमेव सम्राडिति हो - वाच ॥ १ ॥ ' जनको ह वैदेह आसांचक्रे आसनं कृतवान् आस्थायि- कां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः । अथ ह तस्मिन्न- वसरे याज्ञवल्क्य आवब्राज आगतवान् आत्मनो योगक्षे- मार्थम् राज्ञो वा विविदिषां दृष्ट्वा अनुग्रहार्थम् । तमागतं याज्ञवल्क्यं यथावत्पूजां कृत्वा उवाच ह उक्तवान् जनक:- हे याज्ञवल्क्य किमर्थमचारी: आगतोऽसि ; किं पशूनिच्छ- न्पुनरपि आहोस्वित् अण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनि - र्णयान्तान् प्रश्नान् मत्तः श्रोतुमिच्छन्निति । उभयमेव पशू- प्रश्नांश्च, हे सम्राट् — सम्राडिति वाजपेययाजिनो लिङ्गम् ; यश्चाज्ञया राज्यं प्रशास्ति, स सम्राट् ; तस्यामन्त्रणं हे स- नाडिति ; समस्तस्य वा भारतस्य वर्षस्य राजा ॥ यत्ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृ- मान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छै - लिनिरब्रवीद्वाग्वै ब्रह्मेत्यवदतो हि कि क. २.] चतुर्थोऽध्यायः । स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेsaवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । वागेवायतन- माकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लो काः सूत्राण्यनुव्याख्यानानि व्याख्याना- नीष्ट ५ हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभि क्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ सहस्रं ददा- मीति होवाच जनको वैदेहः । स होवा - च याज्ञवल्क्यः पिता मेऽमन्यत नाननु- शिष्य हरेतेति ॥ २ ॥ S. B. U. II. 10 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. किं तु यत् ते तुभ्यम्, कश्चित् अब्रवीत् आचार्य: ; अनेकाचार्यसेवी हि भवान् ; तच्छृणवामेति । इतर आह- अब्रवीत् उक्तवान् मे मम आचार्य:, जित्वा नामतः, शिलि- नस्यापत्यं शैलिनि:- वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति । आ- हेतर:- यथा मातृमान् माता यस्य विद्यते पुत्रस्य सम्य- गनुशास्त्री अनुशासनकर्त्री स मातृमान्; अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान्; उपनयनादूर्ध्वम् आ समाव- र्तनात् आचार्यो यस्यानुशास्ता स आचार्यवान् ; एवं शुद्धि- त्रयहेतुसंयुक्तः स साक्षादाचार्यः स्वयं न कदाचिदपि प्रामाण्याव्यभिचरति स यथा ब्रूयाच्छिष्याय तथासौ जि- त्वा शैलिनिरुक्तवान्- वाग्वै ब्रह्मेति; अवदतो हि किं स्या- दिति - न हि मूकस्य इहार्थम् अमुत्रार्थं वा किंचन स्यात् । किं तु अब्रवीत् उक्तवान् ते तुभ्यम् तस्य ब्रह्मण: आयतनं प्रतिष्ठां च- आयतनं नाम शरीरम् ; प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः । आहेतर:- न मेऽब्रवीदिति । इतर आह—- यद्येवम् एकपात् वै एतत् एकः पादो यस्य ब्रह्मणः तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यम् उपास्यमान- मपि न फलाय भवतीत्यर्थः । यद्येवम्, स त्वं विद्वान्सन् नः अस्मभ्यं ब्रूहि हे याज्ञवल्क्येति । स च आह— वागे- वाग्देवस्य ब्रह्मणः वागेव करणम् आयतनं व आयतनम्, " क. २.] चतुर्थोऽध्यायः । -- शरीरम्, आकाश: अव्याकृताख्यः प्रतिष्ठा उत्पत्तिस्थितिल- यकालेषु । प्रज्ञेत्येनदुपासीत प्रज्ञेतीयमुपनिषत् ब्रह्मणञ्चतुर्थः पाद:- प्रज्ञेति कृत्वा एनत् ब्रह्म उपासीत । का प्रज्ञता याज्ञ- वल्क्य, किं स्वयमेव प्रज्ञा, उत प्रज्ञानिमित्ता- यथा आ- यतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते, तद्वत्किम् । न; कथं तर्हि ? वागेव, सम्राट् इति होवाच; वागेव प्रज्ञेति ह उवाच उक्त- वान्, न व्यतिरिक्ता प्रज्ञेति । कथं पुनर्वागेव प्रज्ञेति उच्यते- वाचा वै, सम्राट् बन्धुः प्रज्ञायते - अस्माकं बन्धुरित्युक्ते प्र- ज्ञायते बन्धुः तथा ऋग्वेदादि, इष्टं यागनिमित्तं धर्मजातम्, हुतं होमनिमित्तं च, आशितम् अन्नदाननिमित्तम्, पायितं पा- नदाननिमित्तम्, अयं च लोकः, इदं च जन्म, परश्च लोकः, प्रतिपत्तव्यं च जन्म, सर्वाणि च भूतानि - वाचैव, सम्राट्, प्रज्ञायन्ते ; अतो वाग्वै, सम्राट्, परमं ब्रह्म । नैनं यथोक्तत्र- ह्मविदं वाग्जहाति ; सर्वाण्येनं भूतान्यभिश्वरन्ति बलिदाना- दिभि:; इह देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येति अपिगच्छति य एवं विद्वानेतदुपास्ते । विद्यानिष्क्रयार्थं हस्ति- तुल्य ऋषभो हस्त्यूषभः यस्मिन्गोसहस्रे तत् हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्य:- अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्यात् धनं न हरेतेति मे मम पिता- - अमन्यत ; ममाप्ययमेवाभिप्राय: ॥ --- . बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यत्र- वीन्म उदङ्कः शौल्वायनः प्राणो वै ब्र- ह्मेति यथा मातृमान्पितृमानाचार्यवा- न्ब्रूयात्तथा तच्छौल्वायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि कि ५ स्यादित्यब्रवी त्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदि- त्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य प्राण एवायतनमाकाशः प्र- तिष्ठा प्रियमित्येनडुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति हो- वाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्रादपरमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्य- भिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभः सहस्रं ददामीति होवाच जनको वैदेहः स क. ४.] चतुर्थोऽध्यायः । होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥ यदेव ते कश्चिदब्रवीत् उदको नामतः शुल्बस्यापत्यं शौल्बायन: अब्रवीत् ; प्राणो वै ब्रह्मेति, प्राणो वायुर्देवता- पूर्ववत् । प्राण एव आयतनम् आकाश: प्रतिष्ठा ; उपनिषत् - प्रियमित्येनदुपासीत । कथं पुनः प्रियत्वम् ? प्राणस्य वै, हे सम्राट्, कामाय प्राणस्यार्थाय अयाज्यं याजयति पतिता - दिकमपि ; अप्रतिगृह्यस्याप्युप्रादेः प्रतिगृह्णात्यपि ; तत्र तस्यां दिशि वधनिमित्तमाशङ्कम् - वधाशङ्केत्यर्थः- यां दिशमेति त- स्कराद्याकीर्णी च, तस्यां दिशि वधाशङ्का ; प्राणस्य प्रियत्वे भवति, प्राणस्यैव, सम्राट्, कामाय । तस्मात्प्राणो वै, सम्राट्, परमं ब्रह्म ; नैनं प्राणो जहाति ; समानमन्यत् ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यन्न- वीमे बर्कुर्वाणचक्षुर्वै ब्रह्मेति यथा मा- तृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वा- र्णोऽब्रवीचक्षुर्वै ब्रह्मेत्यपश्यतो हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति बृहदारण्यकोपनिषद्भाष्ये [बा. ९. स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवा- यतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपा- सीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट्प- श्यन्तमाहुरद्राक्षीरिति स आहाद्राक्ष- मिति तत्सत्यं भवति चक्षुर्वै सम्राट्प- रमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भू- तान्यभिक्षरन्ति देवो भूत्वा देवानप्ये- ति य एवं विद्वानेतदुपास्ते हस्त्यृषभ‍ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्य- त नाननुशिष्य हरेतेति ॥ ४ ॥ देव ते कश्चित् बर्कुरिति नामतः वृष्णस्यापत्यं वार्ष्ण: ; चक्षुर्वै ब्रह्मेति - आदित्यो देवता चक्षुषि । उपनिषत् - स- त्यम्; यस्मात् श्रोत्रेण श्रुतमनृतमपि स्यात्, न तु चक्षुषा दृष्टम्, तस्माद्वै, सम्राट्, पश्यन्तमाहुः - अद्राक्षीस्त्वं हस्ति- नमिति, स चेत् अद्राक्षमित्याह तत्सत्यमेव भवति ; ' यस्त्वन्यो ब्रूयात् — अहमश्रौषमिति, तद्वयभिचरति यत्तु चक्षुषा दृष्टं तत् अव्यभिचारित्वात् सत्यमेव भवति ॥ क. ५.] चतुर्थोऽध्यायः । यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्र वीन्मे गर्दभीविपीतो भारद्वाजः श्रोतं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्य - वान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि कि स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येक- पाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्र- तिष्ठानन्त इत्येनदुपासीत कानन्तता था- ज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद्वै सम्राडपि यां कां च दिशं ग- च्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशो दिशो वै सम्राट् श्रोत्र श्रोत्रं वै सम्रादपरमं ब्रह्म नैन श्रोत्रं जहाति स- र्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते ह- स्त्यृषभः सहस्रं ददामीति होवाच ज- नको वैदेहः स होवाच याज्ञवल्क्यः पि- ता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. यदेव ते गर्दभीविपीत इति नामतः भारद्वाजो गोत्रतः ; श्रोत्रं वै ब्रह्मेति - श्रोत्रे दिक् देवता । अनन्त इत्येनदुपा- सीत; का अनन्तता श्रोत्रस्य ? दिश एव श्रोत्रस्य आनन्त्यं यस्मात्, तस्माद्वै, सम्राट्, प्राचीमुदीचीं वा यां कांचिदपि दिशं गच्छति, नैवास्या अन्तं गच्छति कश्चिदपि ; अतो- ऽनन्ता हि दिशः ; दिशो वै, सम्राट् श्रोत्रम्; तस्मात् दिगानन्त्यमेव श्रोत्रस्य आनन्त्यम् ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्र वीन्मे सत्यकाम जाबालो मनो वै ब्रह्मे- ति यथा मातृमान्पितृमानाचार्य वान्ब्रूया- तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यम- नसो हि कि स्यादित्यब्रवीत्तु ते तस्या- यतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा ए- तत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठानन्द इत्ये- नदुपासीत कानन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्रा- स्त्रियमभिहार्यते तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट्परमं क. ७.] चतुर्थोऽध्यायः । ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूता- न्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभः सहस्रं ददामीति होवाच जनको वैदेहः स हो- वाच याज्ञवल्क्यः पिता मेऽमन्यत नान- नुशिष्य हरेतेति ॥ ६ ॥ सत्यकाम इति नामत: जबालाया अपत्यं जाबालः । चन्द्रमा मनसि देवता । आनन्द इत्युपनिषत्; यस्मान्मन एव आनन्दः, तस्मात् मनसा वै, सम्राट्, स्त्रियमभिकामय- मान: अभिहार्यते प्रार्थयत इत्यर्थः ; तस्मात् यां स्त्रियमभिका- मयमानोऽभिहार्यते, तस्यां प्रतिरूप: अनुरूपः पुत्रो जायते ; स आनन्दहेतु: : पुत्र: ; स येन मनसा निर्वर्त्यते, तन्मन: आनन्दः ॥ यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यव वीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मे- ति यथा मातृमान्पितृमानाचार्यवान्ब्रूया- तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्य- हृदयस्य हि कि स्यादित्यब्रवीत्तु ते त- स्वायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञव- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. ल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञ- वल्क्य हृदयमेव सम्राडिति होवाच हृ- दयं वै सम्राट्सर्वेषां भूतानामायतनं हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठि- तानि भवन्ति हृदयं वै सम्रादपरमं ब्रह्म नैन५ हृदयं जहाति सर्वाण्येनं भूतान्यभि- क्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभः सहस्रं ददा- मीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥ विदग्धः शाकल्यः-हृदयं वै ब्रह्मेति । हृदयं वै, सम्राट्, सर्वेषां भूतानामायतनम् । नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यब्राह्मणे हृदयप्रतिष्ठानि चेति । तस्मात् हृदये ह्येव, सम्राट्, सर्वाणि भूतानि प्रतिष्ठितानि भ वन्ति । तस्मात् हृदयं स्थितिरित्युपासीत ; हृदये च प्रजापति- देवता ॥ इति चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् ॥ -*- जनको ह वैदेहः कूर्चादुपावसर्पनुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वान- मेष्यन्रथं वा नावं वा समाददीतैवमेवै- ताभिरुपनिषद्भिः समाहितात्मास्येवं वृ- न्दारक आढ्यः सन्नधीतवेद उक्तोपनिष- एक इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन्वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति व्र- वीतु भगवानिति ॥ १ ॥ जनको ह वैदेहः । यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यः, तस्मात् आचार्यकत्वं हित्वा जनकः कूर्चात् आसनविशेषात् उत्थाय उप समीपम् अवसर्पन्, पादयोर्निपतन्नित्यर्थः, उवाच उक्तवान्- नमः ते तुभ्यम् अस्तु हे याज्ञवल्क्य ; अनु मा शाधि अनुशाधि मामि- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. २. त्यर्थः ; इति-शब्दो वाक्यपरिसमाप्त्यर्थः । स होवाच याज्ञव- ल्क्यः - यथा वै लोके, हे सम्राट्, महान्तं दीर्घम् अध्वा- नम् एष्यन् गमिष्यन्, रथं वा स्थलेन गमिष्यन्, नावं वा जलेन गमिष्यन् समाददीत - एवमेव एतानि ब्रह्माणि एताभिरुपनिषद्भिर्युक्तानि उपासीनः समाहितात्मा असि, अत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मा असि न केवलमुप- निषत्समाहित:; एवं वृन्दारकः पूज्यश्व आढ्यश्च ईश्वरः न दरिद्र इत्यर्थः, अधीतवेद : अधीतो वेदो येन स त्व- मधीतवेदः, उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोप- निषत्क : ; एवं सर्वविभूतिसंपन्नोऽपि सन् भयमध्यस्थ एव परमात्मज्ञानेन विना अकृतार्थ एव तावदित्यर्थ:- याव त्परं ब्रह्म न वेत्सि; इतः अस्माद्देहात् विमुच्यमानः एताभिनौ रथस्थानीयाभिः समाहितः क कस्मिन् गमि व्यसि, किं वस्तु प्राप्स्यसीति । नाहं तद्वस्तु, भगवन् पूजा- वन् वेद जाने, यत्र गमिष्यामीति । अथ यद्येवं न जानी- षे यत्र गतः कृतार्थः स्याः, अहं वै ते तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति । शृणु — " इन्धो ह वै नामैष योऽयं दक्षिणेऽक्ष- न्पुरुषस्तं वा एतमिन्ध र सन्तमिन्द्र इत्या- क. ३.] चतुर्थोऽध्यायः । चक्षते परोक्षेणैव परोक्षप्रिया इव हि दे.. वाः प्रत्यक्षद्विषः ॥ २॥ इन्धो ह वै नाम । इन्ध इत्येवंनामा, य: चक्षुर्वै त्रह्मेति पुरोक्त आदित्यान्तर्गत: पुरुष: स एषः, योऽयं दक्षिणे अक्षन् अक्षणि विशेषेण व्यवस्थितः - स च सत्यनामा; तं वै एतं पुरुषम्, दीप्तिगुणत्वात् प्रत्यक्षं नाम अस्य इन्ध इति, तम् इन्धं सन्तम् इन्द्र इत्याचक्षते परोक्षेण । यस्मात्परोक्षप्रिया sa हि देवा: प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति । एष त्वं वैश्वानरमात्मानं संपन्नोऽसि ॥ अथैतद्रामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट्तयोरेष सरस्तावो य एषोऽन्त हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽ- न्तर्हृदय लोहितपिण्डोऽथेनयोरेतत्प्राव- रणं यदेतदन्तर्हृदये जालक मिवाथैनयो- रेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युचरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतदास्रव- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. दास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥ अथैतत् वामेऽक्षणि पुरुषरूपम्, एषा अस्य पत्नी - यं त्वं वैश्वानरमात्मानं संपन्नोऽसि तस्यास्य इन्द्रस्य भोक्तः भोग्या एषा पत्नी, विराट अन्नं भोग्यत्वादेव तदेतत् अन्नं च अत्ता च एकं मिथुनं स्वप्ने । कथम् ? तयोरेष:- इन्द्राण्याः इन्द्रस्य च एषः संस्ताव:, संभूय यत्र संस्तवं कुर्वाते अन्योन्यं स एष संस्ताव: ; कोऽसौ ? य एषोऽन्त- हृदय आकाश :- अन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ; अथैनयोः एतत् वक्ष्यमाणम् अन्नं भोज्यं स्थितिहेतुः ; किं तत् ? य एषोऽन्त हृदये लोहितपिण्डः- लोहित एव पिण्डाकारापनो लोहितपिण्ड: ; अन्नं जग्धं द्वेधा परिणमते ; यत्स्थूलं तदधो गच्छति ; यदन्यत् तत्पुनरग्निना पच्यमानं द्वेधा परिणमते - यो मध्यमो रसः स लोहितादिक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ; योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभू- तस्य, यं तैजसमाचक्षते; स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनी - भूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति — तदे- तदुच्यते - अथैनयोरेतदन्नमित्यादि । किंचान्यत्; अथैनयो- क. ३.] - चतुर्थोऽध्यायः । रेतत्प्रावरणम् - भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके, तत्सामान्यं हि कल्पयति श्रुतिः ; किं तदिह प्रावरणम् ? यदे- तदन्तर्हृदये जा कमिव अनेकनाडी छिद्रबहुलत्वात् जालक- मिव । अथैनयोरेषा सृतिः मार्गः, संचरतोऽनयेति संचरणी, स्वप्नाज्जागरितदेशागमनमार्गः ; का सा सृतिः ? यैषा हृदयात् हृदयदेशान् ऊर्ध्वाभिमुखी सती उच्चरति नाडी; तस्या: परिमाणमिदमुच्यते यथा लोके केशः सहस्रधा भिन्न: अत्यन्तसूक्ष्मो भवति एवं सूक्ष्मा अस्य देहस्य संबन्धिन्यः हिता नाम हिता इत्येवं ख्याताः नाड्यः, ताश्चान्तर्हृदये मांसपिण्डे प्रतिष्ठिता भवन्ति हृदयाद्विप्ररूढास्ता: सर्वत्र कदम्बकेसरवत्; एताभिर्नाडीभिरत्यन्तसूक्ष्माभिः एतदन्नम् आस्रवत् गच्छत् आस्रवति गच्छति ; तदेतद्देवताशरीरम् अनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति । तस्मात् - य- स्मात् स्थूलेनान्नेन उपचितः पिण्डः, इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति, पिण्डोपचयकरमप्यन्नं प्र विविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य, लिङ्गस्थितिकरं तु अन्नं ततोऽपि सूक्ष्मतरम् -- अतः प्रविविक्ताहारः पिण्डः, तस्मा - प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मा इवैव भवति, अस्माच्छरीरात् शरीरमेव शारीरं तस्माच्छारीरात्, आत्मन: वैश्वानरात्- तैजसः सूक्ष्मान्नोपचितो भवति ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. तस्य प्राची दिक्प्राञ्चः प्राणा दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची दिक्प्रत्यश्चः प्राणा उदीची दिगुदञ्चः प्राणा ऊर्ध्वा दिगूर्ध्वाः प्राणा अवाची दिगवाञ्श्चः प्रा- णाः सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्यभयं वै जनक प्राप्तो- ऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञव- ल्क्य यो नो भगवन्नभयं वेदयसे नमस्ते- स्विमे विदेहा अयमहमस्मि ॥ ४ ॥ इति द्वितीयं ब्राह्मणम् ॥ स एष हृदयभूत: तैजसः सूक्ष्मभूतेन प्राणेन विधिय- माणः प्राण एव भवति ; तस्यास्य विदुषः क्रमेण वैश्वानरात् तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मा- नमापन्नस्य प्राची दिकू प्राञ्चः प्राग्गताः प्राणाः ; तथा क. ५.] चतुर्थोऽध्यायः । दक्षिणा दिक् दक्षिणे प्राणाः; तथा प्रतीची दिक् प्रत्यश्व: प्राणाः ; उदीची दिक् उदच: प्राणा: ; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणा: ; अवाची दिक् अवाञ्चः प्राणाः ; सर्वा दिशः सर्वे प्राणाः । एवं विद्वान् क्रमेण सर्वात्मकं प्राणमात्मत्वेनोप- गतो भवति ; तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुि द्रष्टृभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते; यम् एष विद्वान् अनेन क्रमेण प्रतिपद्यते स एष नेति नेत्यात्मे- त्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् । अभयं वै जन्म- मरणादिनिमित्तभयशून्यम्, हे जनक, प्राप्तोऽसि — इति ह एवं किल उवाच उक्तवान् याज्ञवल्क्यः । तदेतदुक्तम्- अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । स होवाच जनको वैदेह:- अभयमेव त्वा त्वामपि गच्छतात् गच्छतु, --- यस्त्वं नः अस्मान् हे याज्ञवल्क्य भगवन् पूजावन् अभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवान् उपाधिकृताज्ञानव्यवधा नापनयनेनेत्यर्थः किमन्यदहं विद्यानिष्क्रयार्थं प्रयच्छामि, साक्षादात्मानमेव दत्तवते; अतो नमस्तेऽस्तु इमे विदेहा: तव यथेष्टं भुज्यन्ताम् ; अयं चाहमस्मि दासभावे स्थित: ; यथेष्टं मां राज्यं च प्रतिपद्यस्वेत्यर्थः ॥ इति चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥ S. B. U. II. 11 तृतीयं ब्राह्मणम् ॥ - जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसंबन्धः । विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तर: पर एव- 'नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ ' इत्यादिश्रुति- भ्यः । स एष इह प्रविष्टः वदनादिलिङ्गः अस्ति व्यतिरिक्त इति मधुकाण्डे अजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्र- त्याख्यानेनाधिगतोऽपि सन्, पुनः प्राणनादिलिङ्गमुपन्यस्य औषस्तप्रने प्राणनादिलिङ्गो यः सामान्येनाधिगत: ' प्राणेन प्राणिति' इत्यादिना, 'दृष्टेर्द्रष्टा' इत्यादिना अलुप्तशक्तिस्व- भावोऽधिगतः । तस्य च परोपाधिनिमित्तः संसारः- यथा रज्जूषरशुक्तिकागगनादिषु सर्पोदकरजतमलिनत्वादि परोपाध्यारोपणनिमित्तमेव न स्वतः, तथा; निरुपाधिको निरुपाख्य: नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वा- न्तर: आत्मा ब्रह्म अक्षरम् अन्तर्यामी प्रशास्ता औपनिषद: पुरुष: विज्ञानमानन्दं ब्रह्मेत्यधिगतम् । तदेव पुनरिन्धसंज्ञ: प्रविविक्ताहारः ; ततोऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहार- तर:; ततः परेण जगदात्मा प्राणोपाधिः ; ततोऽपि प्रवि- लाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं वि द्यया, ' स एष नेति नेति -' इति साक्षात्सर्वान्तरं ब्रह्म क. १.] चतुर्थोऽध्यायः । - , ५,१३ अधिगतम् । एवम् अभयं परिप्रापितो जनकः याज्ञवल्क्येन आगमतः संक्षेपतः । अत्र च जाग्रत्स्वप्नसुषुप्ततुरीयाण्युप- न्यस्तानि अन्यप्रसङ्गेन — इन्धः प्रविविक्ताहारतर:, सर्वे प्राणाः, स एष नेति नेतीति । इदानीं जाग्रत्स्वप्नादिद्वारेणैव महता तर्केण विस्तरतोऽधिगमः कर्तव्य: ; अभयं प्रापयि- तव्यम् ; सद्भावश्च आत्मनः विप्रतिपत्त्याशङ्कानिराकरण- द्वारेण - व्यतिरिक्तत्वं शुद्धत्वं स्वयंज्योतिष्ट्वम् अलुप्तश- क्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यम् अद्वैतत्वं च अधि- गन्तव्यमिति - इदमारभ्यते । आख्यायिका तु विद्यासं- प्रदानग्रहणविधिप्रकाशनार्थी, विद्यास्तुतये च विशेषतः, वरदानादि सूचनात् ॥ । जनकर ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समुदाते तस्मै ह याज्ञवल्क्यो वरं ददौ स ह का- मप्रश्नमेव वत्रे तर हास्मै ददौ तहस- म्राडेव पूर्व पप्रच्छ ॥ १ ॥ जनकं ह वैदेहं याज्ञवल्क्यो जगाम । स च गच्छन् एवं मेने चिन्तितवान्- न वदिष्ये किंचिदपि राज्ञे; गम- बृहदारण्यकोपनिषद्भाष्ये [बा. ३. नप्रयोजनं तु योगक्षेमार्थम् । न वदिष्य इत्येवं संकल्पोऽपि याज्ञवल्क्यः यद्यत् जनकः पृष्टवान् तत्तत् प्रतिपेदे ; तन्त्र को हेतुः संकल्पितस्यान्यथाकरणे - इत्यत्र आख्यायिका - माचष्टे । पूर्वत्र किल जनकयाज्ञवल्क्ययोः संवाद आसीत् अग्निहोत्रे निमित्ते ; तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुप- लभ्य परितुष्टो याज्ञवल्क्यः तस्मै जनकाय ह किल वरं ददौ ; स च जनक: ह कामप्रश्नमेव वरं वत्रे वृतवान् ; तं च वरं ह अस्मै ददौ याज्ञवल्क्यः ; तेन वरप्रदानसामर्थ्येन अव्याचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव जनक: पूर्व पप्रच्छ । तत्रैव अनुक्ति:, ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् ; विद्यायाश्च स्वातन्त्र्यात्- स्वतन्त्रा हि ब्रह्म- विद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥ याज्ञवल्क्य किंज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाचादि- त्येनैवायं ज्योतिषास्ते पल्ययते कर्म कु· ad विपल्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ हे याज्ञवल्क्येत्येवं संबोध्य अभिमुखीकरणाय, किंज्यो- तिरयं पुरुष इति -- किमस्य पुरुषस्य ज्योतिः, येन ज्योतिषा व्यवहरति ? सोऽयं किंज्योति: ? अयं प्राकृत: कार्यक- क. २.] चतुर्थोऽध्यायः । रणसंघातरूपः शिरः पाण्यादिमान् पुरुषः पृच्छयते - किमयं स्वावयवसंघातबाह्येन ज्योतिरन्तरेण व्यवहरति, आहोस्वित् स्वावयवसंघातमध्यपातिना ज्योतिषा ज्योतिष्कार्यम् अयं पुरुषो निर्वर्तयति - इत्येतदभिप्रेत्य -- पृच्छति । किंचातः, यदि व्यतिरिक्तेन यदि वा अव्यतिरिक्तेन ज्योतिषा ज्योति- कार्य निर्वर्तयति ? शृणु तत्र कारणम् -- यदि व्यतिरिक्ते - नैव ज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वम् अस्य स्वभावो निर्धा- रितो भवति, ततः अदृष्टज्योतिष्कार्यविषये ऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति : अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति, ततः अप्रत्यक्षेऽपि ज्योतिषि ज्योतिष्कार्यदर्शने अव्यतिरिक्तमेव ज्योति: अनुमेयम्; अथा- नियम एव- व्यतिरिक्तम् अव्यतिरिक्तं वा ज्योति: पुरुषस्य व्यवहारहेतु:, ततः अनध्यवसाय एव ज्योतिर्विषये- इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यम् - किंज्योति- रयं पुरुष इति । ननु एवमनुमानकौशले जनकस्य किं प्रश्न, स्वयमेव कस्मान्न प्रतिपद्यत इति - सत्यमेतत् ; तथापि लिङ्गलिङ्गिसंबन्ध विशेषाणामत्यन्तसौक्ष्म्यात् दुरव- बोधतां मन्यते बहूनामपि पण्डितानाम्, किमुतैकस्य ; अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते, पुरुषविशेष- श्वापेक्ष्यते - दशावरा परिषत्, त्रयो वा एको वेति; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. तस्मात् यद्यपि अनुमानकौशलं राज्ञः, तथापि तु युक्तो या- ज्ञवल्क्यः प्रष्टुम् विज्ञान कौशलतारतम्योपपत्तेः पुरुषा- णाम् । अथवा श्रुतिः स्वयमेव आख्यायिकाव्याजेन अनु- मानमार्गमुपन्यस्य अस्मान्बोधयति पुरुषमतिमनुसरन्ती । याज्ञवल्क्योऽपि जनकाभिप्रायाभिज्ञतया व्यतिरिक्तमात्म- ज्योतिर्बोधयिष्यन् जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्ग प्रतिपेदे, यथा- प्रसिद्धमादित्यज्योतिः सम्राट् इति होवा च । कथम् ? आदित्येनैव स्वावयवसंघातव्यतिरिक्तेन चक्षु- षोऽनुग्राहकेण ज्योतिषा अयं प्राकृतः पुरुषः आस्ते उपव- शति, पल्ययते पर्येति क्षेत्रमरण्यं वा तत्र गत्वा कर्म कुरुते, विपत्येति विपर्येति च यथागतम् । अत्यन्तव्यतिरि- कन्योतिष्वप्रसिद्धताप्रदर्शनार्थम् अनेकविशेषणम्; बाह्यानेक- ज्योतिः प्रदर्शनं च लिङ्गस्याव्यभिचारित्व प्रदर्शनार्थम् । एव- मेवैतद्याज्ञवल्क्य ॥ अस्तमित आदित्ये याज्ञवल्क्य किं- ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योति- वास्ते पल्ययते कर्म कुरुते विपल्येतीत्ये- वमेवैतद्याज्ञवल्क्य ॥ ३ ॥ क. ५.] चतुर्थोऽध्यायः । तथा अस्तमिते आदित्ये, याज्ञवल्क्य, किंज्योतिरेवायं पुरुष इति - चन्द्रमा एवास्य ज्योतिः ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्र- मस्यस्तमिते किंज्योतिरेवायं पुरुष इत्य- निरेवास्य ज्योतिर्भवतीत्यग्निनैवायं ज्यो- तिषास्ते पल्ययते कर्म कुरुते विपल्येती- त्येवमेवैतद्याज्ञवल्क्य ॥ ४ ॥ अस्तमित आदित्ये, चन्द्रमस्यस्तमिते अग्निर्ज्योतिः ॥ अस्तमित आदित्ये याज्ञवल्क्य चन्द्र मस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति वांगेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कु रुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चर- त्युपैव तत्र न्येतीत्येवमेवैतद्याज्ञवल्क्य ॥ शान्तेऽमैौ वाक् ज्योतिः वागिति शब्दः परिगृह्यते ; शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते; श्रोत्रेन्द्रिये संप्रदीप्ते, ; मनसि विवेक उपजायते ; तेन मनसा बाह्यां चेष्टां प्रतिप- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. द्यते - 'मनसा ह्येव पश्यति मनसा शृणोति' इति ब्राह्मणम् । कथं पुनः वाग्ज्योतिरिति वाचो ज्योतिष्टुमप्रसिद्धमित्यत आह- तस्माद्वै सम्राट्, यस्मात् वाचा ज्योतिषा अनुगृहीतो- ऽयं पुरुषो व्यवहरति, तस्मात् प्रसिद्धमेतद्वाचो ज्योतिष्टुम् ; कथम् ? अपि - यत्र यस्मिन्काले प्रावृषि प्रायेण मेघान्धकारे सर्वज्योति: प्रत्यस्तमये स्वोऽपि पाणि: हस्तः न विस्पष्टं नि- ज्ञयते - अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योति - षोऽभावात् यत्र वागुञ्चरति श्वा वा भषति गर्दभो वा रौति, उपैव तत्र न्येति- तेन शब्देन ज्योतिषा श्रोत्रमन- सोनैरन्तर्य भवति, तेन ज्योतिष्कार्यत्वं वाक् प्रतिपद्यते, तेन वाचा ज्योतिषा उपन्येत्येव उपगच्छत्येव तत्र संनिहितो भवतीत्यर्थः ; तत्र च कर्म कुरुते, विषल्येति । तत्र वाग्ज्यो- तिषो ग्रहणं गन्धादीनामुपलक्षणार्थम् ; गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्त्यादयो भवन्ति ; तेन तै- रप्यनुग्रहो भवति कार्यकरणसंघातस्य । एवमेवैतद्याज्ञवल्क्य ॥ ' अस्तमित आदित्ये याज्ञवल्क्य चन्द्र- मस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्यो- तिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्य- क. ६.] चतुर्थोऽध्यायः । यते कर्म कुरुते विपल्येतीति ॥ ६ ॥ शान्तायां पुनर्वाचि, गन्धादिष्वपि च शान्तेषु बाह्येष्व- नुग्राहकेषु, सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य । एतदुक्तं भवति — जाप्रद्विषये बहिर्मुखानि करणानि चक्षुरादीनि आदित्यादिज्योतिर्भिरनुगृह्यमाणानि यदा तदा स्फुटतर: संव्यवहारोऽस्य पुरुषस्य भवतीति; एवं तावत् जागरिते स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धि- रस्य पुरुषस्य दृष्टा ; तस्मात् ते वयं मन्यामहे - सर्व बाह्य- ज्योति: प्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले जागरिते च तादृ- गवस्थायां स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योति- ष्कार्यसिद्धिरस्येति ; दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धि:- बन्धु संगमनवियोगदर्शनं देशान्तरगमनादि च; सुषुप्ताच उत्थानम्— सुखमहमस्वाप्तं न किंचिदवेदिषमिति ; तस्मा- दस्ति व्यतिरिक्तं किमपि ज्योतिः ; किं पुनस्तत् शान्तायां वाचि ज्योतिः भवतीति । उच्यते — आत्मैवास्य ज्योतिर्भव- तीति । आत्मेति कार्यकरणस्वावयवसंघातव्यतिरिक्तं कार्य- करणावभासकम् आदित्यादिबाह्यज्योतिर्वत् स्वयमन्येनानव- भास्यमानम् अभिधीयते ज्योति:; अन्तःस्थं च तत् पारि- शेष्यात्- कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् ; यश्च 1 बृहदारण्यकोपनिषद्भाष्ये " [ब्रा. ३. कार्यकरणव्यतिरिक्तं कार्यकरणसंघातानुग्राहकं च ज्योतिः तत् बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टम् ; न तु तथा तत् चक्षुरादिभिरुपलभ्यते, आदित्यादिज्योतिः षु उपरतेषु ; कार्यं तु ज्योतिषो दृश्यते यस्मात् तस्मात् आत्मनैवायं ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपल्येतीति; तस्मात् नूनम् अन्तःस्थं ज्योतिरित्यवगम्यते । किंच आदित्यादिज्योतिर्वि लक्षणं तत् अभौतिकं च स एव हेतुः यत् चक्षुराद्य- ग्राह्यत्वम्, आदित्यादिवत् ॥ न, समानजातीयेनैवोपकारदर्शनात् — यत् आदित्यादि- विलक्षणं ज्योतिरान्तरं सिद्धमिति, एतदसत् ; कस्मात् ? उप- क्रियमाणसमानजातीयेनैव आदित्यादिज्योतिषा कार्यकरण- संघातस्य भौतिकस्य भौतिकेनैव उपकारः क्रियमाणो दृश्य- ते ; यथादृष्टं चेदम् अनुमेयम्; यदि नाम कार्यकरणादर्था- न्तरं तदुपकारकम् आदित्यादिवत् ज्योतिः, तथापि कार्यकर- णसंघात समानजातीयमेवानुमेयम्, कार्यकरणसंघातोपकार- कत्वात्, आदित्यादिज्योतिर्वत् । यत्पुनः अन्तःस्थत्वादप्रत्य- क्षत्वाश्च वैलक्षण्यमुच्यते, तत् चक्षुरादिज्योतिर्भिः अनैका- न्तिकम् ; यत: अप्रत्यक्षाणि अन्तःस्थानि च चक्षुरादिज्यो- तींषि भौतिकान्येव । तस्मात् तव मनोरथमात्रम् - विलक्षण- मात्मज्योतिः सिद्धमिति । कार्यकरणसंघात भावभावित्वाश्च " चतुर्थोऽध्यायः । क. ६.] संघातधर्मत्वमनुमीयते ज्योतिष: । सामान्यतो दृष्टस्य च अनुमानस्य व्यभिचारित्वादप्रामाण्यम्; सामान्यतो दृष्टबलेन हि भवान् आदित्यादिवत् व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ; न च प्रत्यक्षम् अनुमानेन बाधितुं शक्यते ; अयमेव तु कार्यकरणसंघातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ; यदि नाम ज्योतिरन्तरमस्य उपकारकं स्यात् आदित्यादिवत् न तत् आत्मा स्यात् ज्योतिरन्तरम् आदि- त्यादिवदेव ; य एव तु प्रत्यक्षं दर्शनादिक्रियां करोति, स एव आत्मा स्यात् कार्यकरणसंघातः, नान्यः, प्रत्यक्षविरोधे अनु- मानस्याप्रामाण्यात् । ननु अयमेव चेत् दर्शनादिक्रियाकर्ता आत्मा संघातः, कथम् अविकलस्यैवास्य दर्शनादिक्रियाकर्तृ- त्वं कदाचिद्भवति, कदाचिन्नेति - नैष दोष:, दृष्टत्वात् ; न हि दृष्टेऽनुपपन्नं नाम; न हि खद्योते प्रकाशाप्रकाशकत्वेन दृश्यमाने कारणान्तरमनुमेयम्; अनुमेयत्वे च केनचित्सा- मान्यात् सर्व सर्वत्रानुमेयं स्यात्; तच्चानिष्टम् ; न च पदा - र्थस्वभावो नास्ति ; न हि अग्नेः उष्णस्वाभाव्यम् अन्यनिमि- त्तम्, उदकस्य वा शैत्यम् ; प्राणिधर्माधर्माद्यपेक्षमिति चेत, धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ; अस्त्विति चेत्, न, तदनवस्थाप्रसङ्गः ; स चानिष्टः ॥ न, स्वप्नस्मृत्योर्हष्टस्यैव दर्शनात् — यदुक्तं स्वभाववा . बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. दिना, देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति, तन्न ; यदि हि देहस्यैव दर्शनादिक्रिया, स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ; अन्ध: स्वप्नं पश्यन् दृष्टपूर्वमेव पश्यति, न शाक- द्वीपादिगतमदृष्टरूपम् ; ततश्च एतत्सिद्धं भवति - य: स्वप्ने पश्यति दृष्टपूर्व वस्तु, स एव पूर्व विद्यमाने चक्षुषि अद्रा- क्षीत्, न देह इति; देहश्वेत् द्रष्टा, स येनाद्राक्षीत् तस्मि नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वे न पश्येत्; अस्ति च लोके प्रसिद्धि: - पूर्व दृष्टं मया हिमवतः शृङ्गम् अद्याहं स्वप्नेऽद्राक्षमिति उद्धृतचक्षुषामन्धानामपि; तस्मात् अनुद्धृते- ऽपि चक्षुषि, य: स्वप्नदृक् स एव द्रष्टा, न देह इत्यवगम्यते । तथा स्मृतौ द्रष्टृस्मत्रः एकत्वे सति य एव द्रष्टा स एव स्मर्ता; यदा चैवं तदा निमीलिताक्षोऽपि स्मरन् दृष्टपूर्व यद्रूपं तत् दृष्टवदेव पश्यतीति; तस्मात् यत् निमीलितं तन्न द्रष्टृ ; यत् निमीलिते चक्षुषि स्मरत् रूपं पश्यति, तदेव अनिमीलितेsपि चक्षुषि द्रष्टृ आसीदित्यवगम्यते । मृते च देहे अविकलस्यैव च रूपादिदर्शनाभावात् - देहस्यैव द्रष्टृत्वे मृतेऽपि दर्शनादिक्रिया स्यात् । तस्मात् यदपाये देहे दर्शनं न भवति, यद्भावे च भवति, तत् दर्शनादिक्रियाकर्तृ, न देह इत्यवगम्यते । चक्षुरादीन्येव दर्शनादिक्रियाकर्तृणीति चेत्, न, यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसंधा- ' , क. ६.] चतुर्थोऽध्यायः । - ५२३. नानुपपत्तेः । मनस्तर्हीति चेत्, न, मनसोऽपि विषयत्वात् रूपादिवत् द्रष्टृत्वाद्यनुपपत्तिः । तस्मात् अन्तःस्थं व्यति- रिक्तम् आदित्यादिवदिति सिद्धम् । यदुक्तम्- कार्यकरणसं- घातसमानजातीयमेव ज्योतिरन्तरमनुमेयम्, आदित्यादिभिः तत्समानजातीयैरेव उपक्रियमाणत्वादिति तदसत् उपका- र्योपकारकभावस्यानियमदर्शनात् कथम् ? पार्थिवैरिन्धनैः पार्थिवत्व समानजातीयैस्तृणोलपादिभिः अमे: प्रज्वलनोपकार: क्रियमाणो दृश्यते ; न च तावता तत्समानजातीयैरेव अग्नेः प्रज्वलनोपकारः सर्वत्रानुमेयः स्यात्, येन उदकेनापि प्रज्व- लनोपकारः भिन्नजातीयेन वैद्युतस्याग्ने : जाठरस्य च क्रिय- माणो दृश्यते; तस्मात् उपकार्योपकारकभावे समानजाती- यासमानजातीय नियमों नास्ति; कदाचित् समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते, कदाचित् स्थावरपश्वादि- भिश्च भिन्नजातीयैः; तस्मात् अहेतुः कार्यकरणसंघातस- मानजातीयैरेव आदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति । यत्पुनरात्थ - चक्षुरादिभि: आदित्यादिज्योतिर्वत् अदृश्य- त्वात् इत्ययं हेतुः ज्योतिरन्तरस्य अन्तःस्थत्वं वैलक्षण्यं च न साधयति, चक्षुरादिभिरनैकान्तिकत्वादिति तदसत्, चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः । कार्यकरणसंघातधर्मत्वं ज्योतिष इति यदुक्तम्, तन्न, अनु- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. मानविरोधात् आदित्यादिज्योतिर्वत् कार्यकरणसंघाताद- र्थान्तरं ज्योतिरिति हि अनुमानमुक्तम्; तेन विरुध्यते इयं प्रतिज्ञा - कार्यकरणसंघातधर्मत्वं ज्योतिष इति । तद्भा - वाँवित्वं तु असिद्धम्, मृते देहे ज्योतिषः अदर्शनात् । सामान्यतो दृष्टस्यानुमानस्य अप्रामाण्ये सति पानभोजना- दिसर्वव्यवहारलोपप्रसङ्गः; स चानिष्टः ; पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवतः तत्सामान्यात् पान- भोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ; दृश्यन्ते हि उपलब्ध पानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तः तादर्थ्येन प्रवर्तमानाः । यदुक्तम् - अयमेव तु देहो दर्शनादिक्रियाकर्तेति तत् प्रथ- ममेव परिहृतम् - स्वप्नस्मृत्योः देहादर्थान्तरभूतो द्रष्टेति । अने- नैव ज्योतिरन्तरस्य अनात्मत्वमपि प्रत्युक्तम् । यत्पुनः ख- द्योतादेः कादाचित्कं प्रकाशाप्रकाशकत्वम्, तदसत्, पक्षाद्य- वयवसंकोच विकासनिमित्तत्वात् प्रकाशाप्रकाशकत्वस्य । य- त्पुनरुक्तम्, धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युप- गन्तव्य इति तदभ्युपगमे भवतः सिद्धान्तद्दानात् । एतेन अनवस्थादोष: : प्रत्युक्तः । तस्मात् अस्ति व्यतिरिक्तं च अ- न्तःस्थं ज्योतिः आत्मेति ॥ - कतम आत्मेति योऽयं विज्ञानमयः क. ७.] चतुर्थोऽध्यायः । प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव स हि खप्नो भूत्वेमं लोकम- तिक्रामति मृत्यो रूपाणि ॥ ७ ॥ - यद्यपि व्यतिरिक्तत्वादि सिद्धम्, तथापि समानजाती- यानुग्राहकत्वदर्शन निमित्तभ्रान्त्या करणानामेवान्यतमः व्य- तिरिक्तो वा इत्यविवेकतः पृच्छति - कतम इति ; न्याय- सूक्ष्मताया दुर्विज्ञेयत्वात् उपपद्यते भ्रान्तिः । अथवा शरी- व्यतिरिक्ते सिद्धेऽपि करणानि सर्वाणि विज्ञानवन्तीव, विवेकत आत्मनः अनुपलब्धत्वात्; अतोऽहं पृच्छामि - कतम आत्मेति; कतमोऽसौ देहेन्द्रियप्राणमनःसु, यः त्व- योक्तः आत्मा, येन ज्योतिषास्त इत्युक्तम् । अथवा योऽय- मात्मा त्वया अभिप्रेतो विज्ञानमयः, सर्व इमे प्राणा विज्ञानमया इव, एषु प्राणेषु कतम:- यथा समुदितेषु ब्राह्मणेषु, सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति । पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यम्, योऽयं विज्ञानमय इति प्रतिवचनम् द्वितीये तु व्या- ख्याने प्राणेष्वित्येवमन्तं प्रश्नवाक्यम् । अथवा सर्वमेव प्रश्नवाक्यम् — विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम -- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३० इत्येतदन्तम् । योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धा- रितार्थविशेषविषयत्वम्, कतम आत्मेतीतिशब्दस्य प्रश्नवा - क्यपरिसमाप्त्यर्थत्वम्— व्यवहितसंबन्धमन्तरेण युक्तमिति कृत्वा, कतम आत्मेतीत्येवमन्तमेव प्रश्नवाक्यम्, योऽयमि- त्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते ॥ योऽयमिति आत्मनः प्रत्यक्षत्वान्निर्देश: ; विज्ञानमय: विज्ञानप्रायः बुद्धिविज्ञानोपाधिसंपर्काविवेकाद्विज्ञानमय इत्यु- च्यते- बुद्धिविज्ञानसंपृक्त एव हि यस्मादुपलभ्यते, राहु- रिव चन्द्रादित्यसंपृक्तः; बुद्धिर्हि सर्वार्थकरणम्, तमसीव प्रदीपः पुरोवस्थितः ; 'मनसा ह्येत्र पश्यति मनसा शृणो ति' इति ह्युक्तम्; बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वे विषयजातमुपलभ्यते, पुरोवस्थित प्रदीपालोकविशिष्टमिव त- मसि ; द्वारमात्राणि तु अन्यानि करणानि बुद्धे: ; त- स्मात् तेनैव विशेष्यते - विज्ञानमय इति । येषां प- रमात्मविज्ञप्तिविकार इति व्याख्यानम्, तेषाम् ' विज्ञान- मय: ' ' मनोमयः' इत्यादौ विज्ञानमयशब्दस्य अन्यार्थ - दर्शनात् अश्रौतार्थता अवसीयते; संदिग्धश्च पदार्थ : अन्यत्र निश्चितप्रयोगदर्शनात् निर्धारयितुं शक्यः, वाक्यशेषात्, नि- श्चितन्यायबलाद्वा; सधीरिति चोत्तरत्र पाठात् । ' हृद्यन्तः ' इति वचनात् युक्तं विज्ञानप्रायत्वमेव । प्राणेष्विति व्यति- क. ७.] चतुर्थोऽध्यायः । रेक प्रदर्शनार्था सप्तमी - यथा वृक्षेषु पाषाण इति सामीप्यल- क्षणा ; प्राणेषु हि व्यतिरेकाव्यतिरेकता संदिह्यत आत्मन: ; प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः ; यो हि येषु भवति, स तद्व्यतिरिक्तो भवत्येव- - यथा पाषाणेषु वृक्षः । हृदि - - तत्स्यात्, प्राणेषु प्राणजातीयैव बुद्धिः स्यादिति, अत आह— हृद्यन्तरिति । हृच्छब्देन पुण्डरीकाकारो मांसपिण्डः, ता- त्स्थ्यात् बुद्धिः हृत्, तस्याम्, हृदि बुद्धौ । अन्तरिति बुद्धिवृत्तिव्यतिरेक प्रदर्शनार्थम् । ज्योतिः अवभासात्मकत्वात् आत्मा उच्यते । तेन हि अवभासकेन आत्मना ज्योतिषा आस्ते पल्ययते कर्म कुरुते, चेतनावानिव हि अयं कार्य - करणपिण्डः - यथा आदित्यप्रकाशस्थो घट: ; यथा वा मर- कतादिर्मणिः श्रीरादिद्रव्ये प्रक्षिप्तः परीक्षणाय, आत्मच्छा- यमेव तत् क्षीरादिद्रव्यं करोति तादृगेतत् आत्मज्योति: बुद्धेरपि हृदयात् सूक्ष्मत्वात् हृद्यन्तःस्थमपि हृदयादिकं का- र्यकरणसंघातं च एकीकृत्य आत्मज्योतिश्छायं करोति, पार- म्पर्येण सूक्ष्मस्थूलतारतम्यात् सर्वान्तरतमत्वात् । बुद्धि- स्तावत् स्वच्छत्वात् आनन्तर्याच्च आत्मचैतन्यज्योतिःप्रति- च्छाया भवति ; तेन हि विवेकिनामपि तत्र आत्माभिमान - बुद्धिः प्रथमा ; ततोऽप्यानन्तर्यात् मनसि चैतन्यावभासता, बुद्धिसंपर्कात्; तत इन्द्रियेषु, मनः संयोगात्; ततोऽनन्तरं S. B. U. II. 12 ' . बृहदारण्यकोपनिषद्भाष्ये । [ब्रा. ३. , शरीरे, इन्द्रियसंपर्कात् । एवं पारम्पर्येण कृत्स्नं कार्यकर- णसंघातम् आत्मा चैतन्य स्वरूपज्योतिषा अवभासयति । तेन हि सर्वस्य लोकस्य कार्यकरणसंघाते तद्वृत्तिषु च अनि- यतात्माभिमानबुद्धिः यथाविवेकं जायते । तथा च भग- वतोक्तं गीतासु - 'यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रवि: । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ' यदादित्यगतं तेज:--' इत्यादि च । 'नित्योऽनित्यानां चेतनश्चेतनानाम्' इति च काठके, ' तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विभाति' इति च । ' येन सूर्य- स्तपति तेजसेद्ध:' इति च मन्त्रवर्णः । तेनायं हृद्यन्तर्ज्यो- तिः । पुरुष: आकाशवत्सर्वगतत्वात् पूर्ण इति पुरुष: ; निरतिशयं च अस्य स्वयंज्योतिष्वम् सर्वावभासकत्वात् स्व- यमन्यानवभास्यत्वाच्च ; स एष पुरुषः स्वयमेव ज्योतिः स्व- भाव:, यं त्वं पृच्छसि - कतम आत्मेति ॥ - बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमये अ न्तःकरणद्वारेण हृद्यन्तर्ज्योति: पुरुष आत्मा अनुप्राहक: क- रणानामित्युक्तम् । यदापि बाह्यकरणानुप्राहकाणाम् आ- दित्यादिज्योतिषां भावः, तदापि आदित्यादिज्योतिषां परा- र्थत्वात् कार्यकरणसंघातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थ- ज्योतिष आत्मन: अनुप्रहाभावे अयं कार्यकरणसंघातः न क. ७.] चतुर्थोऽध्यायः । व्यवहाराय कल्पते; आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः, ' यदेतद्धृदयं मनश्चैतत्संज्ञानम्' इत्यादिश्रुत्यन्त- रात्; साभिमानो हि सर्वप्राणिसंव्यवहारः; अभिमान- हेतुं च मरकतमणिदृष्टान्तेनावोचाम । यद्यप्येवमेतत्, त- थापि जाग्रद्विषये सर्वकरणागोचरत्वात् आत्मज्योतिषः बुद्धयादिबाह्याभ्यन्तरकार्य करणव्यवहारसंनिपातव्याकुलत्वा- त् न शक्यते तज्ज्योतिः आत्माख्यं मुखेषीकावत् नि- कृष्य दर्शयितुमित्यत: स्वप्ने दिदर्शयिषुः प्रक्रमते - स समान: सन्नुभौ लोकावनुसंचरति । यः पुरुषः स्वयमेव ज्योतिरात्मा, स समानः सदृशः सन् - केन ? प्रकृतत्वात् संनिहितत्वाच्च हृदयेन ; 'हृदि' इति च हृच्छब्दवाच्या बुद्धिः प्रकृता संनिहिता च; तस्मात् तयैव सामान्यम् । किं पुन: सामान्यम् ? अश्वमहिषवत् विवेकतोऽनुपलब्धिः ; अवभास्या बुद्धि:, अवभासकं तत् आत्मज्योतिः, आलोक- वत्; अवभास्यावभासकयो: विवेकतोऽनुपलब्धिः प्रसिद्धा ; विशुद्धत्वाद्धि आलोकः अवभास्येन सदृशो भवति ; यथा रक्तमवभासयन् रक्तसदृशो रक्ताकारो भवति, हरितं नीलं लोहितं च अवभासयन् आलोकः तत्समानो भवति, तथा बुद्धिमवभासयन् बुद्धिद्वारेण कृत्स्नं क्षेत्रमव- भासयति-- इत्युक्तं मरकतमणिनिदर्शनेन । तेन सर्वेण यथा बृहदारण्यकोपनिषद्भाष्ये " [बा. ३. समान: बुद्धिसामान्यद्वारेण; 'सर्वमय:' इति च अत एव वक्ष्यति । तेन असौ कुतश्चित्प्रविभज्य मुखेषीकावत् स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति, सर्वव्यापारं तत्रा- ध्यारोप्य नामरूपगतम्, ज्योतिर्धर्मं च नामरूपयोः, नाम- रूपे च आत्मज्योतिषि, सर्वो लोकः मोमुह्यते - अयमा. त्मा नायमात्मा, एवंधर्मा नैवंधर्मा, कर्ता अकर्ता, शुद्ध: अ- शुद्ध:, बद्धः मुक्तः, स्थितः गतः आगतः, अस्ति नास्ति- इत्यादिविकल्पैः । अतः समानः सन् उभौ लोकौ प्रतिपन्न - प्रतिपत्तव्य इहलोकपरलोकौ उपात्तदेहेन्द्रियादिसंघातत्या- गान्योपादानसंतानप्रबन्धशतसंनिपातैः अनुक्रमेण संचरति । धीसादृश्यमेवोभयलोकसंचरणहेतु:, न स्वत इति-तत्र ना- मरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत् तदेव हेतु:, न स्व- तः- - - इत्येतदुच्यते--- यस्मात् सः समानः सन् उभौ लोका- वनुक्रमेण संचरति तदेतत् प्रत्यक्षम् इत्येतत् दर्शयति-यत: ध्यायतीव ध्यानव्यापारं करोतीव, चिन्तयतीव, ध्यानव्यापा- रवतीं बुद्धिं सः तत्स्थेन चित्स्वभावज्योतीरूपेण अवभासयन् तत्सदृशः तत्समानः सन् ध्यायति इव, आलोकवदेव- अतः भवति चिन्तयतीति भ्रान्तिर्लोकस्य ; न तु परमार्थतो ध्यायति । तथा लेलायतीव अत्यर्थ चलतीव, तेष्वेव कर- णेषु बुद्धयादिषु वायुषु च चलत्सु तदवभासकत्वात् तत्स- क. ७.] चतुर्थोऽध्यायः । दृशं तदिति - लेलायति इव, - न तु परमार्थतः चलनधर्मकं तत् आत्मज्योतिः । कथं पुनः एतदवगम्यते, तत्समानत्व- भ्रान्तिरेव उभयलोकसंचरणादिहेतुः न स्वतः - इत्यस्यार्थस्य प्रदर्शनाय हेतुरुपदिश्यते सः आत्मा, हि यस्मात् स्वप्नो भूत्वा - सः यया धिया समानः, सा धीः यद्यत् भवति, तत्तत् असावपि भवतीव; तस्मात् यदा असौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीः, तदा सोऽपि स्वप्रवृत्ति प्रतिप- द्यते ; यदा धी: जिजागरिषति, तदा असावपि ; अत आह - स्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन् धियः स्वाप - वृत्त्याकारो भूत्वा इमं लोकम् जागरितव्यवहारलक्षणं कार्य- करणसंघातात्मकं लौकिकशास्त्रीयव्यवहारास्पदम्, अतिक्रा- मति अतीत्य क्रामति विविक्तेन स्वेन आत्मज्योतिषा स्वप्नात्मि- कां धीवृत्तिमवभासयन्नवतिष्ठते यस्मात् - तस्मात् स्वयंज्योति:- स्वभाव एवासौ, विशुद्धः स कर्तृक्रियाकारक फलशून्य: पर- मार्थतः, धीसादृश्यमेव तु उभयलोकसंचारादिसंव्यवहार- भ्रान्तिहेतुः । मृत्यो रूपाणि- मृत्युः कर्माविद्यादिः, न तस्य अन्यद्रूपं स्वतः, कार्यकरणान्येव अस्य रूपाणि, अत: तानि मृत्यो रूपाणि अतिक्रामति क्रियाफलाश्रयाणि ॥ ननु नास्त्येव धिया समानम अन्यत् धियोऽवभासकम् बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. आत्मज्योतिः, धीव्यतिरेकेण प्रत्यक्षेण वा अनुमानेन वा अ- नुपलम्भात्— यथा अन्या तत्काल एव द्वितीया धीः । यत्तु अवभास्यावभासकयोः अन्यत्वेऽपि विवेकानुपलम्भात् सा- दृश्यमिति घटाद्यालोकयोः - तत्र भवतु, अन्यत्वेन आ- लोकस्योपलम्भात् घटादेः, संश्लिष्टयोः सादृश्यं भिन्नयोरेव ; न च तथा इह घटादेरिव धियोऽवभासकं ज्योतिरन्तरं प्र- त्यक्षेण वा अनुमानेन वा उपलभामहे; धीरेव हि चित्स्वरूपा- वभासकत्वेन स्वाकारा विषयाकारा च; तस्मात् नानुमानत: नापि प्रत्यक्षतः धियोऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् । यदपि दृष्टान्तरूपमभिहितम् - अवभास्यावभा सकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तयोः सादृश्यमिति —तत्र अभ्युपगममात्रमस्माभिरुक्तम् ; न तु तत्र घटाद्यवभा- स्वावभासको भिन्नौ; परमार्थतस्तु घटादिरेव अवभासात्मकः सालोकः ; अन्य: अन्य: हि घटादिरुत्पद्यते ; विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते यदा एवम् तदा न बाह्यो दृष्टान्तोऽस्ति, विज्ञानस्वलक्षणमात्रत्वात्सर्वस्य । एवं तस्यैव विज्ञानस्य ग्राह्यग्राहकाकारताम् अलं परिकल्प्य त- स्यैव पुनर्विशुद्धिं परिकल्पयन्ति । तत् ग्राह्यग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् । तस्यापि शान्ति केचिदिच्छन्ति; तदपि विज्ञानं संवृतं ग्राह्यग्राहकांश- " क. ७.] चतुर्थोऽध्यायः । विनिर्मुक्तं शून्यमेव घटादिबाह्यवस्तुवत् इत्यपरे माध्यमिका आचक्षते ॥ सर्वा एता: कल्पना: बुद्धिविज्ञानावभासकस्य व्यतिरि- तस्य आत्मज्योतिषोऽपह्नवात् अस्य श्रेयोमार्गस्य प्रतिपक्ष- भूता वैदिकस्य । तत्र येषां बाह्योऽर्थः अस्ति, तान्प्रत्युच्यते - न तावत् स्वात्मावभासकत्वं घटादेः; तमसि अव- स्थितः घटादिस्तावत् न कदाचिदपि स्वात्मना अवभास्यते, प्रदीपाद्या लोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सा- लोको घट इति - संश्लिष्टयोरपि घटालोकयोः अन्यत्वमेव, पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनात् रज्जुघटयो- रिव; अन्यत्वे च व्यतिरिक्तावभासकत्वम् ; न स्वात्मनैव स्वमात्मानमवभासयति । ननु प्रदीपः स्वात्मानमेव अवभा- सयन् दृष्ट इति- न हि घटादिवत् प्रदीपदर्शनाय प्रकाशा- न्तरम् उपाददते लौकिका : ; तस्मात् प्रदीपः स्वात्मानं प्रका- शयति---न, अवभास्यत्वाविशेषात् — यद्यपि प्रदीपः अन्य- स्यावभासकः स्वयमवभासात्मकत्वात्, तथापि व्यतिरिक्त- चैतन्यावभास्यत्वं न व्यभिचरति, घटादिवदेव; यदा चैवम्, तदा व्यतिरिक्तावभास्यत्वं तावत् अवश्यंभावि । ननु यथा घटः चैतन्यावभास्यत्वेऽपि व्यतिरिक्तमालोकान्तरमपेक्षते, न त्वेवं प्रदीपः अन्यमालोकान्तरमपेक्षते; तस्मात् प्रदीपः बृहदारण्यकोपनिषद्भाष्ये ' [ब्रा. ३. अन्यावभास्योऽपि सन् आत्मानं घटं च अवभासयति — न, स्वतः परतो वा विशेषाभावात् — यथा चैतन्यावभास्यत्वं घटस्य तथा प्रदीपस्यापि चैतन्यावभास्यत्व मविशिष्टम् । यत्तच्यते, प्रदीप आत्मानं घटं चावभासयतीति तदसत् ; कस्मात् ? यदा आत्मानं नावभासयति, तदा कीदृश: स्यात् ; न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेष : कञ्चिदुपलभ्यते ; स हि अवभास्यो भवति, यस्यावभासक- संनिधौ असंनिधौ च विशेष उपलभ्यते ; न हि प्रदीपस्य स्वात्मसंनिधिः असंनिधिर्वा शक्यः कल्पयितुम् ; असति च कादाचित्के विशेषे, आत्मानं प्रदीपः प्रकाशयतीति मृषैवो- च्यते । चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य । त- स्मात् विज्ञानस्य आत्मग्राह्यग्राहकत्व न प्रदीपो दृष्टान्तः । चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैः अविशिष्टम् ; चैत- न्यग्राह्यत्वे च विज्ञानस्य किं ग्राह्यविज्ञानग्राह्यतैव किं वा ग्राहकविज्ञानप्राह्यतेति तत्र संदिद्यमाने वस्तुनि, योऽन्यत्र दृष्टो न्यायः, स कल्पयितुं युक्तः, न तु दृष्टविपरीत: ; तथा च सति यथा व्यतिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टम्, तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात् प्रकाशकत्वे सत्यपि प्रदीपवत् व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुम्, न तु अनन्यग्राह्यत्वम्; यश्चान्यः विज्ञानस्य ग्रहीता, स क. ७.] चतुर्थोऽध्यायः । - ' न; आत्मा ज्योतिरन्तरं विज्ञानात् । तदा अनवस्थेति चेत्, ग्राह्यत्वमात्रं हि तड्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः ; न तु एकान्ततो ग्राहकत्वे तद्वाहकान्तरास्तित्वे वा कदा- चिदपि लिङ्गं संभवति ; तस्मात् न तदनवस्थाप्रसङ्गः । विज्ञानस्य व्यतिरिक्तग्राह्यत्वे करणान्तरापेक्षायाम् अनवस्थे- ति चेत्, न, नियमाभावात्- न हि सर्वत्र अयं नियमो भवति; यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरम्, तत्र ग्राह्यप्रा- हकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते, वैचित्र्यदर्शनात्; कथम् ? घटस्तावत् स्वात्मव्यति- रिक्तेन आत्मना गृह्यते; तंत्र प्रदीपादिरालोकः ग्राह्यग्राहक- व्यतिरिक्तं करणम् ; न हि प्रदीपाद्यालोकः घटांश: चक्षु- रंशो वा ; घटवत् चक्षुर्ब्राह्यत्वेऽपि प्रदीपस्य, चक्षुः प्रदीप- व्यतिरेकेण न बाह्यमालोकस्थानीयं किंचित्करणान्तरमपेक्षते ; तस्मात् नैव नियन्तुं शक्यते - यत्र यत्र व्यतिरिक्तग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति । तस्मात् विज्ञानस्य व्यति- रिक्तप्राहकग्राह्यत्वे न करणद्वारा अनवस्था, नापि ग्राहकत्व- द्वारा कदाचिदपि उपपादयितुं शक्यते । तस्मात् सिद्धं वि- ज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति । ननु नास्त्येव बाह्यो - ऽर्थः घटादिः प्रदीपो वा विज्ञानव्यतिरिक्त: ; यद्धि यद्व्य- तिरेकेण नोपलभ्यते, तत् तावन्मात्रं वस्तु दृष्टम् - यथा बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. स्वप्नविज्ञानग्राह्यं घटपटादिवस्तु; स्वप्नविज्ञानव्यतिरेकेणा- नुपलम्भात् स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रता अवग- म्यते, तथा जागरितेऽपि घटप्रदीपादेः जाग्रद्विज्ञानव्यति- रेकेण अनुपलम्भात् जाप्रद्विज्ञानमात्रतैव युक्ता भवितुम् ; तस्मात् नास्ति बाह्योऽर्थः घटप्रदीपादिः, विज्ञानमात्रमेव तु सर्वम् ; तत्र यदुक्तम्, विज्ञानस्य व्यतिरिक्तावभास्यत्वात् विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं घटादेरिवेति, तन्मि- ध्या, सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात् । न, यावत् तावदभ्युपगमात्- न तु बाह्योऽर्थः भवता एकान्तेनैव ना- विज्ञानं घ- - ; भ्युपगम्यते ; ननु मया नाभ्युपगम्यत एव - न, ट: प्रदीप इति च शब्दार्थ पृथक्त्वात् यावत्, तावदपि बा - ह्यमर्थान्तरम् अवश्यमभ्युपगन्तव्यम् ; विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते, विज्ञानं घटः पट इत्येवमादीनां शब्दानाम् एकार्थत्वे पर्यायशब्दत्वं प्राप्नोति तथा साधनानां फलस्य च एकत्वे, साध्यसाधन भेदोपदेशशास्त्रानर्थक्यप्रसङ्गः ; त- त्कर्तुः अज्ञानप्रसङ्गो वा । किंचान्यत् — विज्ञानव्यतिरे- केण वादिप्रतिवादिवाददोषाभ्युपगमात्; न हि आत्मवि- ज्ञानमात्रमेव वादिप्रतिवादिवादः तद्दोषो वा अभ्युपगम्यते, निराकर्तव्यत्वात्, प्रतिवाद्यादीनाम् ; न हि आत्मीयं विज्ञानं निराकर्तव्यमभ्युपगम्यते, स्वयं वा आत्मा कस्यचित् ; तथा क. ७.] चतुर्थोऽध्यायः । ' -: च सति सर्वसंव्यवहारलोपप्रसङ्गः न च प्रतिवाद्यादय: स्वात्मनैव गृह्यन्त इत्यभ्युपगमः ; व्यतिरिक्तग्राह्या हि अभ्युपगम्यन्ते; तस्मात् तद्वत् सर्वमेव व्यतिरिक्तग्राह्यं वस्तु, जाग्रद्विषयत्वात्, जाग्रद्वस्तु प्रतिवाद्यादिवत् - इति सुलभो दृष्टान्तः- संतत्यन्तरवत् विज्ञानान्तरवश्चेति । तस्मात् वि- ज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं नि- राकर्तुम् ।स्वप्ने विज्ञानव्यतिरेकाभावात् अयुक्तमिति चेत्, न, अभावादपि भावस्य वस्त्वन्तरत्वोपपत्ते:- भवतैव तावत् स्वप्ने घटादिविज्ञानस्य भावभूतत्वमभ्युपगतम् ; तत् अभ्युपगम्य तद्यतिरेकेण घटाद्यभाव उच्यते ; स विज्ञान - विषयो घटादिः यद्यभावः यदि वा भावः स्यात्, उभय- थापि घटादिविज्ञानस्य भाव भूतत्वमभ्युपगतमेव ; न तु तत् निवर्तयितुं शक्यते, तन्निवर्तकन्यायाभावात् । एतेन सर्वस्य शून्यता प्रत्युक्ता । प्रत्यगात्मग्राह्यता च आत्मन: अहमिति मीमांसकपक्षः प्रत्युक्तः ॥ यत्तूक्तम्, सालोकः अन्यश्च अन्यश्च घटो जायत इति, तदसत् क्षणान्तरेऽपि स एवायं घट इति प्रत्यभिज्ञानात् । सादृश्यात् प्रत्यभिज्ञानं कृत्तोत्थितकेशनखादिष्विवेति चेत्, न तत्रापि क्षणिकत्वस्य असिद्धत्वात् जात्येकत्वाच्च । कृत्तेषु पुनरुत्थितेषु च केशनखादिषु केशनखत्वजातेरेक- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. त्वात् केशनखत्वप्रत्ययः तन्निमित्त: अभ्रान्त एव ; न हि दृश्यमानलूनोत्थित केशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति ; कस्यचित् दीर्घकालव्यवहितदृष्टेषु च तुल्य- परिमाणेषु, तत्कालीनवालादितुल्या इमे केशनखाद्या इति प्रत्ययो भवति, न तु त एवेति ; घटादिषु पुनर्भवति स ए- वेति प्रत्यय: ; तस्मात् न समो दृष्टान्तः । प्रत्यक्षेण हि प्रत्य- भिज्ञायमाने वस्तुनि तदेवेति, न च अन्यत्वम् अनुमातुं यु. क्तम्, प्रत्यश्नविरोधे लिङ्गस्य आभासत्वोपपत्तेः । सादृश्यप्र- त्ययानुपपत्तेश्व, ज्ञानस्य क्षणिकत्वात्; एकस्य हि वस्तुदर्शि- नः वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् ; न तु वस्तुदर्शी एक: वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते, विज्ञानस्य क्षणिकत्वात् सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः । तेन इंदं सदृशमिति हि सा- दृश्यप्रत्ययो भवति ; तेनेति दृष्टस्मरणम्, इदमिति वर्तमान- प्रत्यय: ; तेनेति दृष्टं स्मृत्वा, यावत् इदमिति वर्तमान क्षणका- लम अवतिष्ठेत, ततः क्षणिकवादहानिः ; अथ तेनेत्येव उपक्षी- णः स्मार्तः प्रत्ययः, इदमिति च अन्य एव वार्तमानिकः प्रत्ययः श्रीयते, ततः सादृश्यप्रत्ययानुपपत्ते:- तेनेदं सदृशमिति, अनेकदर्शिनः एकस्य अभावात्; व्यपदेशानुपपत्तिश्च -- द्रष्टव्यदर्शनेनैव उपक्षयाद्विज्ञानस्य, इदं पश्यामि अदोऽद्राक्ष- मिति व्यपदेशानुपपत्तिः, दृष्टवतो व्यपदेशक्षणानवस्थानात् ; क. ७.] देश: ' चतुर्थोऽध्यायः । ५३९. अथ अवतिष्ठेत, क्षणिकवादहानि: ; अथ अदृष्टवतो व्यप- देश: सादृश्यप्रत्ययश्च तदानीं जात्यन्धस्येव रूपविशेषव्यप- : तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्व - ज्ञशास्त्रप्रणयनादि ; न चैतदिष्यते । अकृताभ्यागमकृतविप्र- णाशदोषौ तु प्रसिद्धतरौ क्षणवादे । दृष्टव्यपदेशहेतुः पूर्वो- तरसहित एक एव हि शृङ्खलावत् प्रत्ययो जायत इति चेत्, तेनेदं सदृशमिति च - न, वर्तमानातीतयोः भिन्नकालत्वा- तू -- तत्र वर्तमानप्रत्यय एकः शृङ्खलावयवस्थानीय:, अतीत- श्चापरः, तौ प्रत्ययौ भिन्नकालौ ; तदुभयप्रत्ययविषयस्पृक् चेत् शृङ्खलाप्रत्यय:, ततः क्षणद्वयव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानि: । ममतवतादिविशेषानुपपत्तेश्च सर्वसं- व्यवहारलोपप्रसङ्गः ॥ सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे, विज्ञानस्य च स्वच्छा- वबोधावभासमात्रस्वाभाव्याभ्युपगमात् तद्दर्शिनश्चान्यस्था- भावे, अनित्यदुःखशून्यानात्मत्वाद्यनेक कल्पनानुपपत्ति: । न च दाडिमादेरिव विरुद्धानेकांशवत्त्वं विज्ञानस्य, स्वच्छा- वभासस्वाभाव्याद्विज्ञानस्य । अनित्यदुःखादीनां विज्ञानांशत्वे अनुभूयमानत्वात् व्यतिरिक्तविषयत्वप्रसङ्गः । अथ अनित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य, तदा तद्वियोगात् वि- शुद्धि कल्पनानुपपत्तिः; संयोगिमलवियोगाद्धि विशुद्धिर्भवति, च सति बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. यथा आदर्शप्रभृतीनाम् ; न तु स्वाभाविकेन धर्मेण कस्यचि- द्वियोगो दृष्टः न हि अग्नेः स्वाभाविकेन प्रकाशेन औष्ण्येन वा वियोगो दृष्टः ; यदपि पुष्पगुणानां रक्तत्वादीनां द्रव्या- न्तरयोगेन वियोजनं दृश्यते, तत्रापि संयोगपूर्वत्वमनुमी- यते - बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात् ; अत: विज्ञानस्य विशुद्धि कल्पनानुपत्तिः । विषयविषय्याभा- सत्वं च यत् मलं परिकल्प्यते विज्ञानस्य, तदपि अन्यसं- सर्गाभावात् अनुपपन्नम् ; न हि अविद्यमानेन विद्यमानस्य संसर्ग: स्यात्; असति च अन्यसंसर्गे, यो धर्मो यस्य दृष्टः, स तत्स्वभावत्वात् न तेन वियोगमर्हति - यथा अग्नेरौष्ण्यम्, सवितुर्वा प्रभा; तस्मात् अनित्यसंसर्गेण मलिनत्वं तद्विशु- द्धिश्व विज्ञानस्येति इयं कल्पना अन्धपरम्परैव प्रमाणशून्ये- त्यवगम्यते । यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थ कल्प- यन्ति, तत्रापि फलाश्रयानुपपत्तिः; कण्टकविद्धस्य हि कण्ट- कवेधजनितदुःखनिवृत्तिः फलम् ; न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तिफलस्य आश्रय उपपद्यते; तद्वत् सर्वनिर्वाण, असति च फलाश्रये, पुरुषार्थकल्पना व्यर्थैव ; यस्य हि पुरुषशब्दवाच्यस्य सत्त्वस्य आत्मनो विज्ञानस्य च अर्थ: परिकल्प्यते, तस्य पुनः पुरुषस्य निर्वाणे, कस्यार्थः पुरुषार्थ इति स्यात् । यस्य पुनः अस्ति अनेकार्थदर्शी विज्ञानव्यति- क. ८.] चतुर्थोऽध्यायः । रिक्त आत्मा, तस्य दृष्टस्मरणदुःखसंयोगवियोगादि सर्वमेव उपपन्नम्, अन्यसंयोगनिमित्तं कालुष्यम्, तद्वियोगनिमित्ता च विशुद्धिरिति । शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय न आदरः क्रियते ॥ स स वा अयं पुरुषो जायमानः शरीर- मभिसंपद्यमानः पाप्मभिः ससृज्यते स उत्क्रामन्त्रियमाणः पाप्मनो विजहाति ॥ यथैव इह एकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि का- करणानि अतिक्रम्य स्वप्ने स्वे आत्मज्योतिषि आस्ते, एवं वै प्रकृतः पुरुषः अयं जायमानः - कथं जायमान इत्यु- च्यते - शरीरं देहेन्द्रियसंघातमभिसंपद्यमानः शरीरे आ- त्मभावमापद्यमान इत्यर्थः, पाप्मभिः पाप्मसमवायिभि- धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते ; स एव उत्क्रामन् शरीरान्तरम् ऊर्ध्वे क्रामन् गच्छन् म्रिय- माण इत्येतस्य व्याख्यानमुत्क्रामन्निति, तानेव संश्लिष्टान् पाप्मरूपान् कार्यकरणलक्षणान्, विजहाति तैर्वियुज्यते, ता- न्परित्यजति । यथा अयं स्वप्नजाग्रदृस्योः वर्तमाने एव एक- स्मिन्देहे पाप्मरूपकार्य करणोपादानपरित्यागाभ्याम् अनवरतं संचरति धिया समानः सन्, तथा सोऽयं पुरुष: उभावि- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. हलोक परलोकौ, जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागौ अनवरतं प्रतिपद्यमानः, आ संसारमोक्षात् संचरति । तस्मात् सिद्धम् अस्य आत्मज्योतिषः अन्यत्वं कार्यकरण- रूपेभ्यः पाप्मभ्यः, संयोगवियोगाभ्याम् ; न हि तद्धर्मत्वे सति, तैरेव संयोगः वियोगो वा युक्तः ॥ ननु न स्तः अस्य उभौ लोकौ, यो जन्ममरणाभ्या- मनुक्रमेण संचरति स्वप्नजागरिते इव स्वप्नजागरिते तु प्रत्यक्षमवगम्येते, न त्विहलोकपरलोकौ केनचित्प्रमाणेन ; तस्मात् एते एव स्वप्नजागरिते इहलोक परलोकाविति । उच्यते-- तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च संध्यं तृ- तीय स्वप्नस्थानं तस्मिन्संध्ये स्थाने ति नेते उभे स्थाने पश्यतीदं च परलोक- स्थानं च । अथ यथाक्रमोऽयं परलोक- स्थाने भवति तमाक्रममाक्रम्योभयान्पा- दमन आनन्दाश्च पश्यति स यत्र प्रस्व- पित्यस्य लोकस्य सर्वावतो मात्रामपा दाय स्वयं विहत्य स्वयं निर्माय स्वेन क. ९.] चतुर्थोऽध्यायः । भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पु- रुषः स्वयं ज्योतिर्भवति ॥ ९ ॥ : तस्य एतस्य पुरुषस्य वै द्वे एव स्थाने भवतः, न तृतीयं चतुर्थ वा; के ते ? इदं च यत् प्रतिपन्नं वर्तमानं जन्म शरीरेन्द्रिय- विषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम्, परलोक एव स्थानम् परलोकस्थानम् - तच्च शरीरादिवियोगोत्तरका- लानुभाव्यम् । ननु स्वप्नोऽपि परलोक: ; तथा च सति द्वे एवेत्यवधारणमयुक्तम्- न; कथं तर्हि ? संध्यं तत् - इह- लोकपरलोकयोर्यः संधिः तस्मिन्भवं संध्यम्, यत् तृतीयं तत् स्वप्नस्थानम् ; तेन स्थानद्वित्वावधारणम् ; न हि प्रामयो: संधिः तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति । कथं पुनः तस्य परलोकस्थानस्य अस्तित्वमवगम्यते, यदपेक्ष्य स्वप्नस्थानं संध्यं भवेत् —— यतः तस्मिन्संध्ये स्वप्नस्थाने तिष्ठन् भवन् वर्तमानः एते उभे स्थाने पश्यति ; के ते उभे ? इदं च परलोकस्थानं च । तस्मात् स्तः स्व- प्रजागरितव्यतिरेकेण उभौ लोकौ, यो धिया समान:- सन् अनुसंचरति जन्ममरण संतानप्रबन्धेन । कथं पुनः स्वप्ने स्थितः सन् उभौ लोकौ पश्यति, किमाश्रयः केन विधिना - इत्युच्यते - अथ कथं पश्यतीति - णु - यथाक्रमः आक्रामति अनेन इत्याक्रमः आश्रयः अव- S. B. U. II. 13 9 बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. टम्भ इत्यर्थः ; यादृशः आक्रमोऽस्य, सोऽयं यथाक्रमः ; अयं पुरुषः, परलोकस्थाने प्रतिपत्तव्ये निमित्ते, यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्म पूर्वप्रज्ञा- लक्षणेन युक्तो भवतीत्यर्थः ; तम् आक्रमम् परलोकस्थानायो- न्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रमम् आक्रम्य अवष्टभ्य आश्रित्य उभयान्पश्यति बहुवचनं धर्माधर्म- लानेकत्वात्- उभयान् उभयप्रकारानित्यर्थः ; कांस्तान् ? पा प्मन: पापफलानि - न तु पुनः साक्षादेव पाप्मनां दर्शनं संभवति, तस्मात् पापफलानि दुःखानीत्यर्थः- आनन्दांश्च धर्मफलानि सुखानीत्येतत् — तानुभयान् पाप्मनः आन- न्दांश्च पश्यति जन्मान्तरदृष्टवासनामयान्; यानि च प्रति- पत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि, धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वा पश्यति । तत्कथमवगम्यते परलोकस्थान- भावितत्पाप्मानन्ददर्शनं स्वप्ने - इत्युच्यते - यस्मात् इह ज- न्मनि अननुभाव्यमपि पश्यति बहु; न च स्वप्नो नाम अपूर्व दर्शनम् ; पूर्वदृष्टस्मृतिर्हि स्वप्न: प्रायेण तेन स्वप्न- जागरितस्थानव्यतिरेकेण स्तः उभौ लोकौ । यत् आदित्या- दिबाह्यज्योतिषामभावे अयं कार्यकरणसंघातः पुरुषः येन व्यतिरिक्तेन आत्मना ज्योतिषा व्यवहरतीत्युक्तम्- तदेव नास्ति यत् आदित्यादिज्योतिषामभावगमनम् यत्र इदं ; ' क. ९.] माह- चतुर्थोऽध्यायः । विविक्तं स्वयंज्योति: उपलभ्येत ; येन सर्वदैव अयं कार्यक- रणसंघातः संसृष्ट एवोपलभ्यते ; तस्मात् असत्समः असन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेण आत्मेति । अथ क- चित् विविक्तः म्वेन ज्योतीरूपेण उपलभ्येत बाह्याध्यात्मिक- भूतभौतिक संसर्गशून्यः, ततः यथोक्तं सर्वं भविष्यतीत्येतदर्थ- सः यः प्रकृत आत्मा, यत्र यस्मिन्काले, प्रस्वपिति प्रकर्षेण स्वापमनुभवति तदा किमुपादान: केन विधिना स्वपिति संध्यं स्थानं प्रतिपद्यत इत्युच्यते- अस्य दृष्टस्य लोकस्य जागरितलक्षणस्य, सर्वावतः सर्वमवतीति सर्वावा- न् अयं लोक: कार्यकरणसंघात: विषयवेदनासंयुक्त:; सर्वा- वत्त्वम् अस्य व्याख्यातम् अन्नत्रयप्रकरणे 'अथो भयं वा आत्मा' इत्यादिना - सर्वा वा भूतभौतिकमात्राः अस्य सं- सर्गकारणभूता विद्यन्त इति सर्ववान्, सर्ववानेव सर्वावान्, तस्य सर्वावतः मात्राम् एकदेशम् अवयवम्, अपादाय अप- च्छिद्य आदाय गृहीत्वा - दृष्टजन्मवासनावासितः सन्नित्य- र्थः, स्वयम् आत्मनैव विहत्य देहं पातयित्वा निः संबोधमा - पाद्य - जागरिते हि आदित्यादीनां चक्षुरादिष्वनुप्रहो देह- व्यवहारार्थः, देहव्यवहारश्च आत्मनो धर्माधर्मफलोपभोगप्र- युक्तः, तद्धर्माधर्मफलोपभोगोपरमणम् अस्मिन्देहे आत्मक- मपरमकृतमिति आत्मा अस्य विहन्तेत्युच्यते - स्वयं नि- वृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. मय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव, नि- र्माणमपि तत्कर्मापेक्षत्वात् स्वयंकर्तृकमुच्यते - स्वेन आत्मी- येन, भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन, सर्ववासनात्मकेन अन्तःकरणवृत्तिप्रकाशेनेत्यर्थः - साहि तत्र विषयभूता सर्ववासनामयी प्रकाशते, सा तत्र स्वयं भा उच्यते - तेन स्वेन भासा विषयभूतेन खेन च ज्योतिषा तद्विषयिणा विविक्तरूपेण अलुप्तदृक्स्वभावेन तद्भारूपं वास- नात्मकं विषयीकुर्वन् प्रस्वपिति । यत् एवं वर्तनम्, तत् प्रस्वपितीत्युच्यते । अत्र एतस्यामवस्थायाम् एतस्मिन्काले, अयं पुरुष: आत्मा, स्वयमेव विविक्तज्योतिर्भवति बाह्या- ध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिः भवति । ननु अस्य लोकस्य मात्रोपादानं कृतम्, कथं तस्मिन् सति अत्रायं पुरुषः स्वयं ज्योतिर्भवतीत्युच्यते ? नैष दोष: ; विषयभूतमेव हि तत्; तेनैव च अत्र अयं पुरुषः स्वयं ज्योति: दर्शयितुं शक्य: ; न तु अन्यथा असति विषये कस्मिंश्चित् सुषुप्तकाल इव; यदा पुनः सा भा वासना - त्मिका विषयभूता उपलभ्यमाना भवति, तदा असि: को- शादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्त- स्वरूपम् अलुप्तदृक् आत्मज्योतिः स्वेन रूपेण अवभासयत् गृह्यते । तेन अत्रायं पुरुषः स्वयं ज्योतिर्भवतीति सिद्धम् ॥ क. १०.] चतुर्थोऽध्यायः । - ननु अत्र कथं पुरुषः स्वयं ज्योति: ? येन जागरित इव ग्राह्यग्राहकादिलक्षणः सर्वो व्यवहारो दृश्यते, चक्षुराद्यनु- ग्राहकाच आदित्याद्यालोकाः तथैव दृश्यन्ते यथा जाग- रिते--- तत्र कथं विशेषावधारणं क्रियते - अत्र अयं पुरुष: स्वयं ज्योतिर्भवतीति । उच्यते वैलक्षण्यात् स्वप्नदर्शनस्य ; जागरिते हि इन्द्रियबुद्धिमन आलोकादिव्यापार संकीर्णमा- त्मज्योति:; इह तु स्वप्ने इन्द्रियाभावात् तदनुग्राहकादित्याद्या- लोकाभावाश्च विविक्तं केवलं भवति तस्माद्विलक्षणम् । ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि यथा जागरिते; तत्र कथम् इन्द्रियाभावात् वैलक्षण्यमुच्यत इति । शृणु- न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथानस्थयोगान्पथः सृजते न तत्रानन्दा मुदः प्रमुदो भवन्त्यथानन्दा- न्मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्ता- पुष्करिणीः स्रवन्तीः सृजते स हि कर्ता । न तत्र विषया: स्वप्ने रथादिलक्षणा: ; तथा न रथ- योगाः, रथेषु युज्यन्त इति रथयोगाः अश्वादयः तत्र न विद्यन्ते ; न च पन्थानः रथमार्गाः भवन्ति । अथ रथान् ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. रथयोगान् पथश्व सृजते स्वयम् । कथं पुनः सृजते रथादि- साधनानां वृक्षादीनामभावे । उच्यते - ननु उक्तम् ' अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय इति ; अन्तःकरणवृत्तिः अस्य लोकस्य वासना मात्रा, ताम- पादाय रथादिवासनारूपान्तः करणवृत्तिः तदुपलब्धिनिमि तेन कर्मणा चोद्यमाना दृश्यत्वेन व्यवतिष्ठते; तदुच्यते- स्वयं निर्मायेति तदेव आह- रथादीन्सृजत इति न तु तत्र करणं वा, करणानुग्राहकाणि वा आदित्यादिज्योतींषि, तदवभास्या वा रथादयो विषया: विद्यन्ते ; तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्याश्रय दृश्यते । तत् यस्य ज्योतिषो दृश्यते अलुप्तदृशः, तत् आत्म- ज्योतिः अत्र केवलम् असिरिव कोशात् विविक्तम् । तथा न तत्र आनन्दाः सुखविशेषाः, मुदः हर्षाः पुत्रादिलाभनिमि- ता:, प्रमुदः ते एव प्रकर्षोपेताः ; अथ च आनन्दादीन् सृज - ते । तथा न तत्र वेशान्ताः पल्वलाः, पुष्करिण्यः तडागाः, स्रवन्त्यः नद्यः भवन्ति ; अथ वेशान्तादीन्सृजते वासना - मात्ररूपान् । यस्मात् सः हि कर्ता; तद्वासनाश्रयचित्तवृ- त्युद्भवनिमित्तकर्महेतुत्वेनेति अवोचाम तस्य कर्तृत्वम् ; न तु साक्षादेव तत्र क्रिया संभवति, साधनाभावात्; न हि कारकमन्तरेण क्रिया संभवति ; न च तत्र हस्तपादादीनि 1 चतुर्थोऽध्यायः । , क. ११.] क्रियाकारकाणि संभवन्ति ; यत्र तु तानि विद्यन्ते जाग- रिते, तत्र आत्मज्योतिरवभासितैः कार्यकरणैः रथादिवास- नाश्रयान्तःकरणवृत्त्युद्भवनिमित्तं कर्म निर्वर्त्यते; तेनोच्यते - स हि कर्तेति ; तदुक्तम् ' आत्मनैवायं ज्योतिषास्ते पल्य- यते कर्म कुरुते' इति ; तत्रापि न परमार्थत: स्वत: कर्तृत्वं चैतन्यज्योतिषः अवभासकत्वव्यतिरेकेण - यत् चैतन्यात्म- ज्योतिषा अन्तःकरणद्वारेण अवभासयति कार्यकरणानि, तदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि, तत्र कर्तृ- त्वमुपचर्यते आत्मनः । यदुक्तम् ' ध्यायतीव लेलायतीव ' इति, तदेव अनूद्यते - स हि कर्तेति इह हेत्वर्थम् ॥ तदेते श्लोका भवन्ति । स्वप्नेन शारी- रमभिप्रहत्या सुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थान हिरण्मयः पुरुष एकहप्सः ॥ ११ ॥ तदेते — एतस्मिन् उक्तेऽर्थे एते श्लोकाः मन्त्राः भव - न्ति । स्वप्नेन स्वप्नभावेन, शारीरम् शरीरम्, अभिप्रहत्य निश्चेष्टापाद्य असुप्तः स्वयम् अलुप्तदृगादिशक्तिस्वाभाव्यात्, सुप्तान् वासनाकारोद्भूतान् अन्तःकरणवृत्त्याश्रयान् बाह्या- ध्यात्मिकान् सर्वानेव भावान् स्वेन रूपेण प्रत्यस्तमिताम् बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. सुप्तान्, अभिचाकशीति अलुप्तया आत्मदृष्टया पश्यति अवभासयतीत्यर्थः । शुक्रम् शुद्धं ज्योतिष्मदिन्द्रियमात्रा- रूपम्, आदाय गृहीत्वा पुनः कर्मणे जागरितस्थानम् ऐति आगच्छति, हिरण्मयः हिरण्मय इव चैतन्यज्योति: स्वभाव:, पुरुष:, एकहंस: एक एव हन्तीत्येकहंस: - एक: जाग्रत्स्व- प्रेहलोक परलोकादीन् गच्छतीत्येकहंसः ॥ प्राणेन रक्षन्नवरं कुलायं बहिष्कुला- यादमृतश्चरित्वा । स ईयतेऽमृतो यत्र काम हिरण्मयः पुरुष एकहसः ॥ १२॥ तथा प्राणेन पञ्चवृत्तिना, रक्षन् परिपालयन् - अन्यथा मृतभ्रान्तिः स्यात्, अवरम् निकृष्टम् अनेकाशुचिसंघात- त्वादत्यन्तबीभत्सम्, कुलायं नीडं शरीरम्, स्वयं तु बहि- स्तस्मात्कुलायात्, चरित्वा - यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्संबन्धाभावात् तत्स्थ इव आकाशः बहि- श्वरित्वेत्युच्यते, अमृतः स्वयममरणधर्मा, ईयते गच्छति, यन्त्र कामम्— यत्र यत्र कामः विषयेषु उद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेण उद्भूतं गच्छति ॥ स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः सह क. १४.] चतुर्थोऽध्यायः । ५५१ मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ " किंच स्वप्नान्ते स्वप्नस्थाने, उच्चावचम् - उच्चं देवादि - भावम् अवचं तिर्यगादिभावं निकृष्टम् तदुच्चावचम् ईय मान: गम्यमानः प्राप्नुवन्, रूपाणि, देव: द्योतनावान्, कुरुते निर्वर्तयति वासनारूपाणि बहुनि असंख्येयानि । उत अपि, स्त्रीभिः सह मोदमान इव, जक्षदिव इसन्निव वयस्यैः, उत इव अपि भयानि - बिभेति एभ्य इति भयानि सिंह- व्याघ्रादीनि पश्यन्निव ॥ आराममस्य पश्यन्ति न तं पश्यति कश्वति । तं नायतं बोधयेदित्याहुः । दुर्भिषज्य हास्मै भवति यमेष न प्रति- पद्यते । अथो खल्वाहुर्जागरितदेश एवा- स्यैष इति यानि ह्येव जाग्रत्पश्यति ता- नि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भ- aति सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्व विमोक्षाय ब्रूहीति ॥ १४ ॥ आरामम् आरमणम् आक्रीडाम् अनेन निर्मितां वासना- रूपाम् अस्य आत्मनः पश्यन्ति सर्वे जना:- ग्रामं नगरं स्त्रियम् अन्नाद्यमित्यादिवासनानिर्मितम् आक्रीडनरूपम्; - बृहदारण्यकोपनिषद्भाष्ये [बा. ३. न तं पश्यति तं न पश्यति कश्चन । कष्टं भोः ! वर्तते अ- तं त्यन्तविविक्तं दृष्टिगोचरापन्नमपि - अहो भाग्यहीनता लो- कस्य ! यत् शक्यदर्शनमपि आत्मानं न पश्यति — इति लोकं प्रति अनुक्रोशं दर्शयति श्रुतिः । अत्यन्तविवि- तः स्वयं ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः । तं ना- यतं बोधयेदित्याहु: - प्रसिद्धिरपि लोके विद्यते, स्वप्ने आत्मज्योतिषो व्यतिरिक्तत्वे; का असौ ? तम् आत्मानं सुप्तम्, आयतम् सहसा भृशम्, न बोधयेत् — इत्याहु: एवं कथयन्ति चिकित्सकादयो जना लोके; नूनं ते पश्य- न्ति - जाग्रद्देहात् इन्द्रियद्वारतः अपसृत्य केवलो बहिर्वर्तत इति, यत आहु:-तं नायतं बोधयेदिति । तत्र च दोषं पश्यन्ति – भृशं हि असौ बोध्यमानः तानि इन्द्रियद्वाराणि सहसा प्रतिबोध्यमानः न प्रतिपद्यत इति ; तदेतदाह- दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ; यम् इन्द्रिय- द्वारदेशम् - यस्माद्देशात् शुक्रमादाय अपसृतः तम् इन्द्रि - यदेशम् - एषः आत्मा पुनर्न प्रतिपद्यते, कदाचित् व्यत्यासेन इन्द्रियमात्रा: प्रवेशयति, ततः आन्ध्यबाधिर्यादिदोष प्राप्तौ दुर्भिषज्यम् दुःखभिषकर्मता ह अस्मै देहाय भवति, दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः । तस्मात् प्रसिद्धयापि स्वप्ने स्वयंज्योतिष्ट्वम् अस्य गम्यते । स्वप्नो भूत्वा अतिक्रान्तो - क. १४.] चतुर्थोऽध्यायः । मृत्यो रूपाणीति तस्मात् स्वप्ने स्वयं ज्योतिरात्मा । अथो अपि खलु अन्ये आहु:- जागरितदेश एवास्य एष:, यः स्वप्नः- न संध्यं स्थानान्तरम् इहलोकपरलोकाभ्यां व्यतिरिक्तम्, किं तर्हि इहलोक एव जागरितदेशः । यद्येवम्, किंच अत: ? शृणु अतो यद्भवति यदा जागरितदेश एवायं स्वप्नः, तदा अयमात्मा कार्यकरणेभ्यो न व्यावृत्तः तैर्मिश्रीभूतः, अतो न स्वयं ज्योतिरात्मा - इत्यतः स्वयंज्योतिष्ट्वबाधनाय अन्ये आहु: - जागरितदेश एवास्यैष इति । तत्र च हेतुमाच- क्षते - जागरितदेशत्वे यानि हि यस्मात् हस्त्यादीनि पदा- जातानि, जाग्रत् जागरितदेशे, पश्यति लौकिकः, तान्येव सुप्तोऽपि पश्यतीति । तदसत् इन्द्रियोपरमात्; उपरतेषु हि इन्द्रियेषु स्वप्नान्पश्यति तस्मात् नान्यस्य ज्योतिषः तत्र संभवोऽस्ति ; तदुक्तम् ' न तत्र रथा न रथयोगाः ' इत्यादि ; तस्मात् अत्रायं पुरुषः स्वयं ज्योतिर्भवत्येव । स्वयं ज्योति: आत्मा अस्तीति स्वप्ननिदर्शनेन प्रदर्शितम्, अतिक्रामति मृत्यो रूपाणीति च; क्रमेण संचरन् इहलोक परलोकादीन इहलोक परलोकादिव्यतिरिक्तः, तथा जाग्रत्स्वप्न कुलायाभ्यां व्यतिरिक्तः, तत्र च क्रमसंचारान्नित्यश्व- इत्येतत् प्रतिपादितं याज्ञवल्क्येन । अतः विद्यानिष्क्रयार्थं सहस्रं ददामीत्याह ज- नक: ; सोऽहम् एवं बोधितः त्वया भगवते तुभ्यम् सहस्रं बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. ददामि ; विमोक्षश्च कामप्रश्नो मया अभिप्रेतः; तदुपयोगी अयं तादर्थ्यात् तदेकदेश एव; अतः त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन - विमोक्षाय अत ऊर्ध्वं ब्रूहीति, येन संसारात् विप्रमुच्येयं त्वत्प्रसादात् । विमोक्षपदार्थैक- देशनिर्णयहेतोः सहस्रदानम् ॥ - यत् प्रस्तुतम् - आत्मनैवायं ज्योतिषास्ते इति, तत् प्रत्यक्ष- तः प्रतिपादितम् - ' अत्रायं पुरुषः स्वयं ज्योतिर्भवति' इति स्वप्ने । यत्तु उक्तम्- ' स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि' इति, तत्र एतत् आशङ्कयते — मृत्यो रूपाण्येव अतिक्रामति, न मृत्युम् ; प्रत्यक्षं ह्येतत् स्वप्ने कार्यकरणव्या- वृत्तस्यापि मोदत्रासादिदर्शनम् ; तस्मात् नूनं नैवायं मृत्यु- मतिक्रामति; कर्मणो हि मृत्योः कार्य मोदत्रासादि दृश्यते ; यदि च मृत्युना बद्ध एव अयं स्वभावतः, ततः विमोक्षो नोपपद्यते ; न हि स्वभावात्कश्चित् विमुच्यते ; अथ स्वभावो न भवति मृत्यु:, ततः तस्मात् मोक्ष उपपत्स्यते ; यथा असौ मृत्युः आत्मीयो धर्मो न भवति, तथा प्रदर्शनाय - अत ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तः याज्ञवल्क्यः तद्दिदर्शयिषया प्रववृते -- स वा एष एतस्मिन्संप्रसादे रत्वा च- रित्वा दृष्ट्वैव पुण्यं च पापं च । पुनः प्रति- क. १५.] चतुर्थोऽध्यायः । न्यायं प्रतियोन्याद्रवति स्वप्नायैव स य- तंत्र किंचित्पश्यत्यनन्वागतस्तेन भव- त्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्व विमोक्षायैव ब्रूहीति ॥ १५ ॥ - - स वै प्रकृतः स्वयं ज्योति: पुरुषः, एष: य: स्वप्ने प्रदर्शितः, एतस्मिन्संप्रसादे – सम्यक् प्रसीदति अस्मिन्निति संप्रसादः ; जागरिते देहेन्द्रिय व्यापारशतसंनिपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्तः ईषत् प्रसीदति स्वप्ने, इह तु सुषुप्ते सम्यक् प्रसीदति - इत्यतः सुषुप्तं संप्रसाद उच्यते ; ' तीर्णो हि तदा सर्वाशोकान्' इति 'सलिल एको द्रष्टा' इति हि वक्ष्यति सुषुप्तस्थम् आत्मानम् — स वै एषः एतस्मिन् संप्रसादे क्रमेण संप्रसन्नः सन् सुषुप्ते स्थित्वा ; कथं संप्रसन्नः ? स्वप्नात् सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्श- नादिना, चरित्वा विहृत्य अनेकधा चरणफलं श्रममुपलभ्ये- त्यर्थः, दृष्ट्चैव न कृत्वेत्यर्थः, पुण्यं च पुण्यफलम्, पापं च पापफलम् ; न तु पुण्यपापयोः साक्षाद्दर्शनमस्तीत्यवोचाम ; तस्मात् न पुण्यपापाभ्यामनुबद्धः ; यो हि करोति पुण्यपापे, स ताभ्यामनुबध्यते ; न हि दर्शनमात्रेण तदनुबद्ध: स्यात् । बृहदारण्यकोपनिषद्भाष्ये [ब्रा. तस्मात् स्वप्नो भूत्वा मृत्युमतिक्रामत्येव न मृत्युरूपाण्येव केव- लम्। अतः न मृत्योः आत्मस्वभावत्वाशङ्का ; मृत्युश्चेत् स्वभा- वोsस्य, स्वप्नेऽपि कुर्यात् न तु करोति ; स्वभावश्चेत् क्रिया स्यात् ; अनिर्मोक्षतैव स्यात् ; न तु स्वभाव:, स्वप्ने अभा- वात्, अत: विमोक्षः अस्य उपपद्यते मृत्योः पुण्यपापाभ्याम् । ननु जागरिते अस्य स्वभाव एव - न; बुद्ध्याद्युपाधिकृतं हि तत्; तच्च प्रतिपादितं सादृश्यात् 'ध्यायतीव लेलायतीव इति । तस्मात् एकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणात् न स्वा- भाविकत्वाशङ्का अनिर्मोक्षता वा । तत्र ' चरित्वा' इति - चरणफलं श्रममुपलभ्येत्यर्थः, ततः संप्रसादानुभवोत्तरकालं पुनः प्रतिन्यायम् यथान्यायं यथागतम् - निश्चित आय: न्यायः, अयनम् आयः निर्गमनम् पुनः पूर्वगमनवैपरी- त्येन यत् आगमनं स प्रतिन्याय: - यथागतं पुनरागच्छ- तीत्यर्थः । प्रतियोनि यथास्थानम् ; स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन् यथास्थानमेव पुनरागच्छति - प्रतियोनि आ- द्रवति, स्वप्नायैव स्वप्नस्थानायैव । ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव पश्यतीति कथमवगम्यते ! यथा जागरिते तथा करोत्येव स्वप्नेऽपि, तुल्यत्वाद्दर्शनस्य- इत्यत आह— सः आत्मा, यत् किंचित् तत्र स्वप्ने पश्यति पुण्य- पापफलम्, अनन्वागत: अननुबद्ध: तेन दृष्टेन भवति, " क. १५.] चतुर्थोऽध्यायः । नैव अनुबद्धो भवति ; यदि हि स्वप्ने कृतमेव तेन स्यात्, तेन अनुबध्येत ; स्वप्नादुत्थितोऽपि समन्वागत: स्यात्; न च तत् लोके - स्वप्नकृतकर्मणा अन्वागतत्वप्रसिद्धिः ; न हि स्वप्नकृतेन आगसा आगस्कारिणमात्मानं मन्यते कश्चित्; न च स्वप्नदृश आग: श्रुत्वा लोकः तं गर्हति परि- इरति वा; अतः अनन्वागत एव तेन भवति ; तस्मात् स्वप्ने कुर्वन्निव उपलभ्यते, न तु क्रिया अस्ति परमार्थतः ; ' उतेव स्त्रीभिः सह मोदमान:' इति श्लोक उक्तः ; आख्यातारश्च स्वप्नस्य सह इव- शब्देन आंचक्षते - हस्तिनोऽद्य घटीकृताः धावन्तीव मया दृष्टा इति । अतो न तस्य कर्तृत्वमिति । कथं पुनरस्याकर्तृत्वमिति कार्यकरणैर्मूर्तेः संश्लेषः मूर्तस्य, स तु क्रियाहेतु: नामूर्तः कश्चित् क्रियावान् दृश्यते ; अमूर्तश्च आत्मा, अतोऽसङ्गः ; यस्माच्च असङ्गोऽयं पुरुष:, तस्मात् अनन्वागत: तेन स्वप्नदृष्टेन; अत एव न क्रियाक- र्तृत्वमस्य कथंचिदुपपद्यते कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात् ; स च संश्लेषः सङ्गः अस्य नास्ति, यतः असङ्गो ह्ययं पुरुषः ; तस्मात् अमृतः । एवमेव एतत् याज्ञवल्क्य ; सोऽहं भगवते सहस्रं ददामि ; अत ऊर्ध्वं विमोक्षायैव ब्रूहि ; मोक्षपदार्थैकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शित- त्वात् ; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. स वा एष एतस्मिन्खमे रत्वा चरित्वा द्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमो- क्षायैव ब्रूहीति ॥ १६ ॥ तत्र 'असङ्गो ह्ययं पुरुष:' इति असङ्गता अकर्तृत्वे हे- तुरुक्त:; उक्तं च पूर्वम् - कर्मवशात् स ईयते यत्र काम- मिति ; कामश्च सङ्गः ; अतः असिद्धो हेतुरुक्त:- -' असङ्गो ह्ययं पुरुष:' इति । न तु एतत् अस्ति ; कथं तर्हि ? असङ्ग एव इत्येतदुच्यते - स वा एष एतस्मिन्स्वप्ने, स वै एष पुरुषः संप्रसादात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामम्, दृट्रैव पुण्यं च पापं च इति सर्व पूर्ववत् बुद्धान्तायैव जागरितस्थानाय । तस्मात् असङ्ग एवायं पुरुषः ; यदि स्वप्ने सङ्गवान् स्यात् कामी, ततः तत्सङ्गजैर्दोषैः बुद्धान्ताय प्रत्यागतो लिप्येत ॥ यथा असौ स्वप्ने असङ्गत्वात् स्वप्नप्रसङ्गजैर्दोषैः जाग- रिते प्रत्यागतो न लिप्यते, एवं जागरितसङ्गजैरपि दोषैः न क. १७.] चतुर्थोऽध्यायः । लिप्यत एव बुद्धान्ते; तदेतदुच्यते- स वा एष एतस्मिन्बुद्धान्ते रत्वा च रित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रति न्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ '; स वै एषः एतस्मिन् बुद्धान्ते जागरिते रत्वा चरित्वे - त्यादि पूर्ववत् । स यत् तत्र बुद्धान्ते किंचित्पश्यति, अन- न्वागत: तेन भवति — असङ्गो ह्ययं पुरुष इति । ननु - वेति कथमवधार्यते ? करोति च तत्र पुण्यपापे; तत्फलं च पश्यति—न, कारकावभासकत्वेन कर्तृत्वोपपत्तेः ; 'आत्म- नैवायं ज्योतिषास्ते' इत्यादिना आत्मज्योतिषा अवभासितः कार्यकरणसंघातः व्यवहरति तेन अस्य कर्तृत्वमुपचर्यते, न स्वत: कर्तृत्वम् ; तथा चोक्तम् ' ध्यायतीव लेलायतीव ' इति - बुद्धधाद्युपाधिकृतमेव न स्वत:; इह तु परमार्थापे- क्षया उपाधिनिरपेक्ष उच्यते- दृष्ट्वैव पुण्यं च पापं च न कृत्वेति ; तेन न पूर्वापरव्याघाताशङ्का, यस्मात् निरुपाधिक: परमार्थतो न करोति, न लिप्यते क्रियाफलेन ; तथा च भगवतोक्तम् -- ' अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते' इति । तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् । तथा S. B. U. II. 14 " स बृहदारण्यकोपनिषद्भाष्ये " [ब्रा. ३. वा एष एतस्मिन्स्वप्ने' 'स वा एष एतस्मिन्बुद्धान्ते' इत्ये- ताभ्यां कण्डिकाभ्याम् असङ्गतैव प्रतिपादिता; यस्मात् बुद्धान्ते कृतेन स्वप्नान्तं गतः संप्रसन्न असंबद्धो भवति स्तैन्यादिकार्यादर्शनात् तस्मात् त्रिष्वपि स्थानेषु स्वत: असङ्ग एव अयम्; अत: अमृत: स्थानत्रयधर्मविलक्षणः । प्रतियोन्याद्रवति स्वप्नान्तायैव, संप्रसादायेत्यर्थः- दर्शनवृत्तेः स्वप्नस्य स्वप्रशब्देन अभिधानदर्शनात्, अन्तशब्देन च विशे- षणोपपत्तेः ; ' एतस्मा अन्ताय धावति' इति च सुषुप्तं दर्शयिष्यति । यदि पुनः एवमुच्यते - 'स्वप्नान्ते रत्वा चरित्वा' ' एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च' इति दर्शनात्, 'स्वप्नान्तायैव' इत्यत्वापि दर्शनवृत्तिरेव स्वप्न उच्यत इति — तथापि न किंचिद्दुष्यति ; असङ्गता हि सिषाधयिषिता सिध्यत्येव ; यस्मात् जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतः, न जागरित- दोषेणानुगतो भवति ॥ एवम् अयं पुरुष आत्मा स्वयं ज्योति: कार्यकरणविल- क्षणः तत्प्रयोजकाभ्यां कामकर्मभ्यां विलक्षण:- यस्मात्, असङ्गो ह्ययं पुरुष:, असङ्गत्वात् — इत्ययमर्थः ' स वा एष एतस्मिन्संप्रसादे' इत्याद्याभिस्तिसृभिः कण्डिकाभिः प्रति- पादित:; तत्र असङ्गतैव आत्मनः कुतः - - यस्मात्, जाग- क. १८. ] चतुर्थोऽध्यायः । रितात् स्वनम्, स्वप्नाच्च संप्रसादम्, संप्रसादाच्च पुनः स्व- प्रम्, क्रमेण बुद्धान्तं जागरितम्, बुद्धान्ताश्च पुनः स्वप्ना- न्तम् - इत्येवम् अनुक्रम संचारेण स्थानत्रयस्य व्यतिरेक: साधितः । पूर्वमप्युपन्यस्तोऽयमर्थः 'स्वप्नो भूत्वेमं लोकम- तिक्रामति मृत्यो रूपाणि' इति - तं विस्तरेण प्रतिपाद्य, केवलं दृष्टान्तमात्रमवशिष्टम्, तद्वक्ष्यामीत्यारभ्यते- तद्यथा महामत्स्य उभे कूले अनुसं- चरति पूर्व चापरं चैवमेवायं पुरुष एता- वुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धा- न्तं च ॥ १८ ॥ " तत् तत्र एतस्मिन् यथा- प्रदर्शितेऽर्थे दृष्टान्तोऽयमुपा- दीयते- यथा लोके महामत्स्यः, महांश्चासौ मत्स्यश्च, ना- देयेन स्रोतसा अहार्य इत्यर्थः, स्रोतश्च विष्टम्भयति, स्व- च्छन्दचारी, उभे कूले नद्या: पूर्व च अपरं च अनुक्रमेण संचरति ; संचरन्नपि कूलद्वयं तन्मध्यवर्तिना उदकस्रोतोवे- गेन न परवशी क्रियते— एवमेव अयं पुरुषः एतौ उभौ अन्तौ अनुसंचरति ; कौ तौ ? स्वप्नान्तं च बुद्धान्तं च । दृष्टान्तप्रदर्शनफलं तु- मृत्युरूपः कार्यकरणसंघातः सह तत्प्रयोजकाभ्यां कामकर्मभ्याम् अनात्मधर्मः ; अयं च आत्मा एतस्माद्विलक्षण:- इति विस्तरतो व्याख्यातम् ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. अत्र च स्थानत्रयानुसंचारेण स्वयंज्योतिष आत्मन: कार्यकरणसंघातव्यतिरिक्तस्य कामकर्मभ्यां विविक्तता उक्ता ; स्वत: नायं संसारधर्मवान्, उपाधिनिमित्तमेव तु . अस्य संसारित्वम् अविद्याध्यारोपितम् - इत्येष समुदायार्थ उक्तः । तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूपः उक्तः, न पुञ्जीकृत्य एकत्र दर्शित: - यस्मात् जागरिते ससङ्गः स- मृत्युः सकार्यकरणसंघातः उपलक्ष्यते अविद्यया; स्वप्ने तु का. मसंयुक्त: मृत्युरूपविनिर्मुक्त उपलभ्यते ; सुषुप्ते पुनः संप्रसन्नः असङ्गो भवतीति असङ्गतापि दृश्यते; एकवाक्यतया तु उप- संहियमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावता अस्य न एकत्र पुञ्जीकृत्य प्रदर्शितेति, तत्प्रदर्शनाय कण्डिका आरभ्यते । सुषुप्ते हि एवंरूपता अस्य वक्ष्यमाणा 'तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपम्' इति ; यस्मात् एवंरूपं विलक्षणम्, सुषुप्तं प्रविविक्षति; तत् कथमिति आह - दृष्टान्तेन अख अर्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते- 1 - तयथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः सहत्य पक्षौ सं- लयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वमं पश्यति ॥ क. १९.] चतुर्थोऽध्यायः । तत् यथा - अस्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा, सुपर्णशब्देन क्षिप्रः श्येन उच्यते, यथा आकाशेऽस्मिन् वि- हृत्य विपरिपत्य श्रान्तः नानापरिपतनलक्षणेन कर्मणा परि- खिन्नः, संहत्य पक्षौ संगमय्य संप्रसार्य पक्षौ, सम्यक् लीय- ते अस्मिन्निति संलय:, नीड : नीडायैव, ध्रियते स्वात्मनैव धार्यते स्वयमेव ; यथा अयं दृष्टान्तः, एवमेव अयं पुरुषः, एतस्मा एतस्मै, अन्ताय धावति । अन्तशब्दवाच्यस्य विशे- षणम् - यत्र यस्मिन् अन्ते सुप्तः, न कंचन न कं- चिदपि, कामं कामयते; तथा न कंचन स्वप्नं पश्यति । 'न कंचन कामम्' इति स्वप्नबुद्धान्तयोः अविशेषेण सर्व: कामः प्रतिषिध्यते, 'कंचन' इत्यविशेषिताभिधानात् ; तथा 'न कंचन स्वप्नम्' इति - जागरितेऽपि यत् दर्शनम्, तदपि स्वप्नं मन्यते श्रुति:, अत आह- न कंचन स्वप्नं पश्यतीति ; तथा च श्रुत्यन्तरम् ' तस्य त्रय आवसथास्त्रयः स्वप्ना:' इति । यथा दृष्टान्ते पक्षिणः परिपतनजश्रमाप- नुत्तये स्वीडोपसर्पणम् एवं जाग्रत्स्वप्नयोः कार्यकरणसं- योगजक्रियाफलैः संयुज्यमानस्य, पक्षिणः परिपतनज इव, श्रमो भवति तच्छ्रमापनुत्तये स्वात्मनो नीडम् आयतनं सर्वसंसारधर्मविलक्षणं सर्वक्रिया कारकफलायासशून्यं स्वमा- त्मानं प्रविशति ॥ ' बृहदारण्यकोपनिषद्भाष्ये " [ ब्रा. ३. यदि अस्य अयं स्वभाव :- सर्वसंसारधर्मशून्यता, परो- पाधिनिमित्तं च अस्य संसारधर्मित्वम् ; यन्निमित्तं च अख परोपाधिकृतं संसारधर्मित्वम्, सा च अविद्या— तथा अविद्यायाः किं स्वाभाविकत्वम् आहोस्वित् कामकर्मादि- वत् आगन्तुकत्वम् ; यदि च आगन्तुकत्वम्, ततो विमोक्ष उपपद्यते; तस्याश्च आगन्तुकत्वे का उपपत्तिः, कथं वा न आत्मधर्मः अविद्येति — सर्वानर्थबीजभूताया अविद्याया: सतत्वावधारणार्थं परा कण्डिका आरभ्यते- - ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य, पिङ्गलस्य हरि- तस्य लोहितस्य पूर्णा अथ यत्रैनं नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्रा- विद्यया मन्यतेऽथ यत्र देव इव राजेवाह- मेवेद सर्वोऽस्मीति मन्यते सोऽस्य पर- मो लोकः ॥ २० ॥ एताः ता: वै, अस्य शिरः पाण्यादिलक्षणस्य पुरुषस्य, हिता नाम नाड्य:, यथा केश: : सहस्रधा भिन्नः, तावता क. २०.] चतुर्थोऽध्यायः । तावत्परिमाणेन अणिम्ना अणुत्वेन तिष्ठन्ति ; ताश्च शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः, एतैः शुक्लत्वादिभिः रसविशेषै: पूर्णा इत्यर्थः ; एते च रसानां वर्णविशेषाः वातपित्तश्लेष्मणामितरेतर संयोग वैषम्यविशेषात् विचित्रा बहवश्व भवन्ति । तासु एवंविधासु नाडीषु सू- क्ष्मासु वालाप्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सक- लदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते; तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिता:; तत् लिङ्गं वास- नाश्रयं सूक्ष्मत्वात् स्वच्छं स्फटिकमणिकल्पं नाडीगतरसो- पाधिसंसर्गवशात् धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथह- स्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते अथ एवं सति, यत्र यस्मिन्काले केचन शत्रवः अन्ये वा तस्कराः मामागत्य घ्नन्ति - इति मृषैव वासनानिमित्तः प्रत्यय: अ- विद्याख्यः जायते, तदेतदुच्यते- एनं स्वप्नदृशं नन्तीवेति ; तथा जिनन्तीव वशीकुर्वन्तीव ; न केचन घ्नन्ति, नापि वशी- कुर्वन्ति, केवलं तु अविद्यावासनोद्भवनिमित्तं भ्रान्तिमात्रम् ; तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धाव - यतीवेत्यर्थः; गर्तमिव पतति गर्ने जीर्णकूपादिकमिव पत- न्तम् आत्मानमुपलक्षयति ; तादृशी हि अस्य मृषा वासना उद्भवति अत्यन्तनिकृष्टा अधर्मोद्भासितान्तःकरणवृत्त्याश्रया, , बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. दुःखरूपत्वात् । किं बहुना, यदेव जाग्रत् भयं पश्यति हस्त्या - दिलक्षणम्, तदेव भयरूपम् अत्र अस्मिन्स्वप्ने विनैव हस्त्यादि - रूपं भयम् अविद्यावासनया मृषैव उद्भूतया मन्यते । अथ पुनः यत्र अविद्या अपकृष्यमाणा विद्या चोत्कृष्यमाणा - किंवि- पया किंलक्षणा चेत्युच्यते - अथ पुनः यत्र यस्मिन्काले, देव इव स्वयं भवति, देवताविषया विद्या यदा उद्भूता जागरि- तकाले, तदा उद्भूतया वासनया देवमिव आत्मानं मन्यते ; स्वप्नेऽपि तदुच्यते - देव इव, राजेव राज्यस्थ: अभिषिक्तः, स्वप्नेऽपि राजा अहमिति मन्यते राजवासनावासितः । एवम् अत्यन्तप्रक्षीयमाणा अविद्या उद्भूता च विद्या सर्वा- त्मविषया यदा तदा स्वप्नेऽपि तद्भावभावितः - अहमेवेदं सर्वोऽस्मीति मन्यते ; स यः सर्वात्मभावः, सोऽस्य आत्मनः परमो लोकः परम आत्मभावः स्वाभाविकः । यत्तु सर्वा- त्मभावादवक् वालाप्रमात्वमपि अन्यत्वेन दृश्यते - नाहम- स्मीति तदवस्था अविद्या; तथा अविद्यया ये प्रत्युपस्था- पिता: अनात्मभावा लोकाः, ते अपरमा: स्थावरान्ता: ; तान् संव्यवहारविषयान् लोकानपेक्ष्य अयं सर्वात्मभावः समस्तो- ऽनन्तरोऽबाह्यः, सोऽस्य परमो लोकः । तस्मात् अपकृष्य- माणायाम् अविद्ययाम्, विद्यायां च काष्ठं गतायाम्, सर्वात्म- भावो मोक्षः, यथा स्वयंज्योतिष्वं स्वप्ने प्रत्यक्षत उपलभ्यते " क. २०.] . चतुर्थोऽध्यायः । " तद्वत्, विद्याफलम् उपलभ्यत इत्यर्थः । तथा अविद्याया - मप्युत्कृष्यमाणायाम्, तिरोधीयमानायां च विद्यायाम्, अ- विद्यायाः फलं प्रत्यक्षत एवोपलभ्यते - ' अथ यचैनं घ्नन्तीव जिनन्तीव' इति । ते एते विद्याविद्याकार्ये, सर्वात्मभावः परिच्छिन्नात्मभावश्च ; विद्यया शुद्धया सर्वात्मा भवति; अ- विद्यया च असर्वो भवति ; अन्यतः कुतश्चित्प्रविभक्तो भ वति ; यतः प्रविभक्तो भवति, तेन विरुध्यते ; विरुद्धत्वात् हन्यते जीयते विच्छाद्यते च ; असर्वविषयत्वे च भिन्नत्वात् एतद्भवति समस्तस्तु सन् कुतो भिद्यते येन विरुध्येत; विरोधाभावे, केन हन्यते जीयते विच्छाद्यते च । अत इदम् अविद्यायाः सतत्त्वमुक्तं भवति - सर्वात्मानं सन्तम् अस- र्वात्मत्वेन ग्राहयति, आत्मनः अन्यत् वस्त्वन्तरम् अविद्य- मानं प्रत्युपस्थापयति, आत्मानम् असर्वमापादयति ; ततस्त- द्विषय: कामो भवति ; यतो भिद्यते कामतः, क्रियामुपादत्ते, ततः फलम् — तदेतदुक्तम् । वक्ष्यमाणं च ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्यादि । इदम् अविद्याया: सतत्त्वं सह कार्येण प्रदर्शितम् ; विद्यायाश्च कार्ये सर्वात्मभावः प्रदर्शितः अविद्याया विपर्ययेण । सा चाविद्या न आत्मन: स्वाभाविको धर्मः - यस्मात् विद्यायामुत्कृष्यमाणायां स्वयमप- चीयमाना सती, काष्ठां गतायां विद्यायां परिनिष्ठिते सर्वात्म- - बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. भावे सर्वात्मना निवर्तते, रज्ज्वामिव सर्पज्ञानं रज्जुनिश्वये ; तञ्चोक्तम्- 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादि ; तस्मात् न आत्मधर्मः अविद्या ; न हि स्वाभावि कस्योच्छित्तिः कदाचिदप्युपपद्यते, सवितुरिव औष्ण्यप्रका- शयोः । तस्मात् तस्या मोक्ष उपपद्यते ॥ तद्वा अस्यैतदतिच्छन्दा अपहतपा- माभय रूपम् । तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्त- रमेवमेवायं पुरुषः प्राज्ञेनात्मना संपरि saक्तो न बाह्यं किंचन वेद नान्तरं तद्वा अस्यैतदाप्तकाममात्मकाममकामः रूप ँ शोकान्तरम् ॥ २१ ॥ इदानीं योऽसौ सर्वात्मभावो मोक्षः विद्याफलं क्रियाका - रकफलशून्यम्, स प्रत्यक्षतो निर्दिश्यते, यत्र अविद्याकामक- र्माणि न सन्ति । तत् एतत् प्रस्तुतम् -' यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति' इति, तदेतत् वै अस्य रूपम् - यः सर्वात्मभाव: ' सोऽख परमो लोक:' इत्युक्त:- तत् ; अतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् ; छन्दः कामः, अतिगत: छन्दः यस्माद्रूपात् तत् अतिच्छन्दं रूपम् ; क. २१.] चतुर्थोऽध्यायः । अन्योऽसौ सान्तः छन्दः शब्दः गायत्र्यादिच्छन्दोवाची ; अयं तु कामवचनः, अत: स्वरान्त एव ; तथापि ' अतिच्छन्दा ' इति पाठ: स्वाध्यायधर्मो द्रष्टव्य: ; अस्ति च लोके कामव- ,, 6 " ' चनप्रयुक्तः छन्दशब्द: ' स्वच्छन्दः 'परच्छन्द:' इत्यादौ ; अत: 'अतिच्छन्दम्' इत्येवम् उपनेयम्, कामवर्जितमेतद्रूप- मित्यस्मिन् अर्थे तथा अपहतपाप्म - पाप्मशब्देन धर्माधर्मा- वुच्येते, 'पाप्मभिः संसृज्यते' 'पाप्मनो विजहाति' इत्यु- क्तत्वात् ; अपहतपाप्म धर्माधर्मवर्जितमित्येतत् । किंच, अ- भयम् - भयं हि नाम अविद्याकार्यम् ' अविद्यया भयं मन्यते ' इति युक्तम् ; तत् कार्यद्वारेण कारणप्रतिषेधोऽयम् ; अभयं रूपमिति अविद्यावर्जितमित्येतत् । यदेतत् विद्याफलं सर्वात्मभावः, तदेतत् अतिच्छन्दापहतपाप्माभयं रूपम् - स- र्वसंसारधर्मवर्जितम्, अतः अभयं रूपम् एतत् । इदं च पूर्वमेवोपन्यस्तम् अतीतानन्तरब्राह्मणसमाप्तौ ' अभयं वै जन- क प्राप्तोऽसि ' इत्यागमत: ; इह तु तर्कतः प्रपञ्चितं दर्शिता - गमार्थप्रत्ययदायय । अयमात्मा स्वयं चैतन्यज्योतिः स्वभावः सर्वं स्वेन चैतन्यज्योतिषा अवभासयति- - - स यत्तत्र किंचि- त्पश्यति, रमते, चरति, जानाति चेत्युक्तम् ; स्थितं चैतत् न्यायतः नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः । सः यद्यात्मा अत्र अविनष्टः स्वेनैव रूपेण वर्तते, कस्मात् अयम्- अहमस्मी- - बृहदारण्यकोपनिषद्भाष्ये -- ' [ ब्रा. ३. त्यात्मानं वा, बहिर्वा - इमानि भूतानीति, जाग्रत्स्वप्नयोरिव, न जानाति - इत्यत्र उच्यते ; शृणु अत्र अज्ञानहेतुम् ; एक- त्वमेव अज्ञानहेतुः ; तत्कथमिति उच्यते ; दृष्टान्तेन हि प्रत्य- क्षी भवति विवक्षितोऽर्थ इत्याह- तत् तत्र यथा लोके प्रियया इष्टया स्त्रिया संपरिष्वक्तः सम्यक्परिष्वक्तः का. मयन्त्या कामुकः सन्, न बाह्यमात्मनः किंचन किंचि- दपि वेद- मत्तोऽन्यद्वस्त्विति न च आन्तरम् - अय- महमस्मि सुखी दुःखी वेति; अपरिष्वक्तस्तु तथा प्रविभक्तो जानाति सर्वमेव बाह्यम् आभ्यन्तरं च ; परिष्वङ्गोत्तरकालं तु एकत्वापत्तेः न जानाति — एवमेव, यथा दृष्टान्तः अयं पुरुष: क्षेत्रज्ञः भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तः, जलादौ चन्द्रादिप्रतिबिम्बवत् कार्यकरण इह प्रविष्टः सोऽयं पुरुष:, प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेन आत्मना परेण ज्योतिषा, संपरिष्वक्तः सम्यक्परिष्वक्तः एकीभूतः निर- न्तरः सर्वात्मा, न बाह्यं किंचन वस्त्वन्तरम्, नापि आन्त- रम् आत्मनि - अयमहमस्मि सुखी दुःखी वेति वेद । तत्र चैतन्यज्योतिः स्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्र अयं हेतुः मयोक्त: एकत्वम्, यथा स्त्रीपुंसयोः संपरि- ध्वक्त्योः । तत्र अर्थात् नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति ; नानात्वे च कारणम् - आत्मनो वस्त्वन्तरस्य प्रत्यु - क. २२. ] चतुर्थोऽध्यायः । 1 अत: तत् पस्थापिका अविद्येत्युक्तम् । तत्र च अविद्याया यदा प्रविविक्तो भवति, तदा सर्वेण एकत्वमेव अस्य भवति ; ततश्च ज्ञान- ज्ञेयादिकारकविभागे असति, कुतो विशेषविज्ञानप्रादुर्भावः कामो वा संभवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि यस्मात् एवं सर्वैकत्वमेव अस्य रूपम्, वै अस्य आत्मनः स्वयंज्योतिः स्वभावस्य एतत् रूपम् आप्तकामम्- यस्मात् समस्तमेतत् तस्मात् आप्ताः कामा अस्मिन् रूपे तदिदम् आप्तकामम् ; यस्य हि अन्यत्वेन प्रविभक्तः कामः, तत् अनाप्तकामं भवति, मथा जागरितावस्थायां देवदत्ता - दिरूपम् ; न त्विदं तथा कुतश्चित्प्रविभज्यते ; अतः तत् आप्तकामं भवति । किम् अन्यस्मात् वस्त्वन्तरात् न प्रविभज्यते, आहोस्वित् आत्मैव तत्' वस्त्वन्तरम्, अत आह— नान्यदस्ति आत्मनः ; कथम् ? यत आत्मकामम्- - आत्मैव कामा: यस्मिन् रूपे, अन्यत्र प्रविभक्ता इव अन्यत्वेन काम्यमानाः यथा जाग्रत्स्वप्रयोः, तस्य आत्मैव अन्यत्वप्रत्युपस्थापकहेतोरवि- द्याया अभावात्– आत्मकामम् ; अत एव अकाममेतद्रूपम् काम्यविषयाभावात् ; शोकान्तरम् शोकच्छिद्रं शोकशून्यमि. त्येतत् शोकमध्यमिति वा, सर्वथापि अशोकमेतद्रूपम् शो- कवर्जितमित्यर्थः ॥ " अत्र पितापिता भवति मातामाता बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. लोका अलोका देवा अदेवा वेदा अवेदाः । अव स्नेनोऽस्तेनो भवति भ्रूणहा भ्रूणहा चाण्डालोऽचाण्डालः पौल्क सोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वाग- तं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥२२॥ " प्रकृतः स्वयंज्योतिरात्मा अविद्याकामकर्मविनिर्मुक्त इत्यु- क्तम्, असङ्गत्वादात्मनः आगन्तुकत्वाश्च तेषाम् । तत्र एवमाशङ्का जायते ; चैतन्यस्वभावत्वे सत्यपि एकीभावात् न जानाति स्त्रीपुंसयोरिव संपरिष्वक्तयोरित्युक्तम् ; तत्र प्रासङ्गिकम् एतत् उक्तम् - कामकर्मादिवत् स्वयंज्योतिष्व- मपि अस्य आत्मना न स्वभावः यस्मात् संप्रसादे नोप- लभ्यते इत्याशङ्कायां प्राप्तायाम, तन्निराकरणाय, स्त्रीपुंसयो- दृष्टान्तोपादानेन, विद्यमानस्यैव स्वयंज्योतिष्ट्रस्य सुषुने अग्र- हणम् एकीभावाद्धेतोः, न तु कामकर्मादिवत् आगन्तुकम् - इत्येतत् प्रासङ्गिकमभिधाय, यत्प्रकृतं तदेवानुप्रवर्तयति । अत्र च एतत् प्रकृतम् — अविद्याकामकर्म विनिर्मुक्तमेव तद्रूपम्, यत् सुषुप्ते आत्मनो गृह्यते प्रत्यक्षत इति तदेतत् यथाभूत- मेवाभिहितम् - सर्व संबन्धातीतम् एतद्रूपमिति; यस्मात् अत्र क. २२.] चतुर्थोऽध्यायः । एतस्मिन् सुषुप्तस्थाने अतिच्छन्दापहतपाप्माभयम् एतद्रूपम्, तस्मात् अत्र पिता जनक:- तस्य च जनयितृत्वात् यत् - पितृत्वं पुत्रं प्रति तत् कर्मनिमित्तम् तेन च कर्मणा अ- यमसंबद्धः अस्मिन्काले; तस्मात् पिता पुत्रसंबन्ध निमित्ता- त्कर्मणो विनिर्मुक्तत्वात् पितापि अपिता भवति ; तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते; उभयोर्हि संबन्धनि- मित्तं कर्म, तत् अयम् अतिक्रान्तो वर्तते ; ' अपहतपाप्म' इति हि उक्तम् । तथा माता अमाता; लोकाः कर्मणा जेतव्या: जिताश्च - तत्कर्मसंबन्धाभावात् लोका: अलोका: ; तथा देवा: कर्माङ्गभूता:- तत्कर्म संबन्धात्ययात् देवा अदेवा: ; तथा वेदाः- साध्यसाधनसंबन्धाभिधायकाः, मन्वलक्षणाश्च अ- भिधायकत्वेन कर्माङ्गभूताः, अधीता: अध्येतव्याश्च - कर्म- निमित्तमेव संबध्यन्ते पुरुषेण तत्कर्मातिक्रमणात् एतस्मि न्काले वेदा अपि अवेदा: संपद्यन्ते । न केवलं शुभकर्मसंब- धातीतः, किं तर्हि, अशुभैरपि अत्यन्तघोरैः कर्मभि: असंबद्ध एवायं वर्तते इत्येतमर्थमाह-- अत्र स्तेनः ब्राह्मणसुवर्णहर्ता, भ्रूणना सह पाठादवगम्यते सः तेन घोरेण कर्मणा एत- स्मिन्काले विनिर्मुक्तो भवति, येन अयं कर्मणा महापातकी स्तेन उच्यते । तथा भ्रूणहा अभ्रूणहा । तथा चाण्डाल: न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः, किं तर्हि सहजेनापि - ; F बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. अत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एव अयम्; चा- ण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नः, चण्डाल एव चाण्डाल: ; सः जातिनिमित्तेन कर्मणा असंबद्धत्वात् अच्चा- डालो भवति । पौल्कसः, पुल्कस एव पौल्कसः, शूद्रेणैव क्षत्रियायामुत्पन्नः; सोऽपि अपुल्कसो भवति । तथा आश्रम- लक्षणैश्च कर्मभिः असंबद्धो भवतीत्युच्यते ; श्रमणः परिव्राट् — यत्कर्मनिमित्तो भवति, सः तेन विनिर्मुक्तत्वात् अश्रमणः ; तथा तापस: वानप्रस्थः अतापसः ; सर्वेषां वर्णाश्रमादीनामुप- लक्षणार्थम् उभयोर्ग्रहणम् । किं बहुना ? अनन्वागतम् - न अ- न्वागतम् अनन्वागतम् असंबद्धमित्येतत्, पुण्येन शास्त्रविहि- तेन कर्मणा, तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन रूपपरत्वात् नपुंसकलिङ्गम् ; ' अभयं रूपम् ' इति हि अनुवर्त - ते । किं पुनः असंबद्धत्वे कारणमिति तद्धेतुरुच्यते--तीर्णः अतिक्रान्तः हि यस्मात् एवंरूपः, तदा तस्मिन्काले स- र्वान् शोकान् - शोका: कामा:; इष्टविषयप्रार्थना हि तद्विष- यवियोगे शोकत्वमापद्यते ; इष्टं हि विषयम् अप्राप्तं वियुक्तं च उद्दिश्य चिन्तयानस्तद्गुणान् संतप्यते पुरुषः ; अतः शोको रतिः काम इति पर्यायाः । यस्मात् सर्वकामातीतो हि अत्र अयं भवति - ' न कंचन कामं कामयते ' ' अति- . च्छन्दा' इति ह्युक्तम्, तत्प्रक्रियापतितोऽयं शोकशब्द: " क. २२.] 6 चतुर्थोऽध्यायः । - कामवचन एव भवितुमर्हति ; कामश्च कर्महेतुः ; वक्ष्यति हि स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते' इति — अतः सर्वकामातितीर्णत्वात् युक्तमुक्तम् 'अनन्वागतं पुण्येन' इत्यादि । हृदयस्य — हृदयमिति पुण्डरीकाकारो मांसपिण्डः, तत्स्थम् अन्तःकरणं बुद्धि: हृदयमित्युच्यते, तात्स्ध्यात्, मञ्चक्रोशनवत्; हृदयस्य बुद्धेः ये शोकाः ; बुद्धिसंश्रया हि ते, 'काम: संकल्पो विचिकित्सेत्यादि - सर्वे मन एव' इत्युक्तत्वात् ; वक्ष्यति च कामा येऽस्य हृदि श्रिता:' इति ; आत्मसंश्रयभ्रान्त्य- पनोदाय हि इदं वचनम् 'हृदि श्रिता: ' ' हृदयस्य शोका : ' इति च । हृदयकरणसंबन्धाततिश्च अयम् अस्मिन्काले 'अतिक्रामति मृत्यो रूपाणि ' इति हि उक्तम् ; हृदयकरण- संबन्धातीतत्वात्, तत्संश्रयकामसंबन्धातीतो भवतीति युक्त- तरं वचनम् ॥ ये तु वादिन:- हृदि श्रिताः कामा वासनाश्च हृदयसं- बन्धिनमात्मानमुपसृष्य उपश्लिष्यन्ति, हृदयवियोगेऽपि च आत्मनि अवतिष्ठन्ते पुटतैलस्थ इव पुष्पादिगन्धः - इत्याच- क्षते; तेषाम् ' काम: संकल्प : ' ' हृदये ह्येव रूपाणि ' 'हृ- दयस्य शोका:' इत्यादीनां वचनानामानर्थक्यमेव । हृदयक- रणोत्पाद्यत्वादिति चेत्, न, 'हृदि श्रिता:' इति विशेष- S. B. U. II. 15 णात् ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. न हि हृदयस्य करणमात्रत्वे ' हृदि श्रिता: ' इति व- चनं समञ्जसम्, 'हृदये ह्येव रूपाणि प्रतिष्ठितानि ' इति च । आत्मविशुद्धेश्च विवक्षितत्वात् हृच्छ्रयणवचनं यथार्थमेव युक्तम् ; ' ध्यायतीव लेलायतीव' इति च श्रुतेः अन्यार्थासं- भवात् । ' कामा येऽस्य हृदि श्रिता:' इति विशेषणात् आ- त्माश्रया अपि सन्तीति चेत्, न, अनाश्रितापेक्षत्वात् । न अत्र आश्रयान्तरमपेक्ष्य ' ये हृदि' इति विशेषणम्, किं तर्हि ये हृदि अनाश्रिता: कामाः तानपेक्ष्य विशेषणम् ; ये तु अप्ररूढा भविष्यन्तः, भूताश्च प्रतिपक्षतो निवृत्ताः, ते नैव हृदि श्रिताः; संभाव्यन्ते च ते ; अतो युक्तं तानपेक्ष्य विशे- बणम् - ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्ते इति । तथापि विशेषणानर्थक्यमिति चेत्, न तेषु यत्नाधिक्यात्, हेयार्थत्वात्; इतरथा अश्रुतमनिष्टं च कल्पितं स्यात् आत्मा- श्रयत्वं कामानाम् । 'न कंचन कामं कामयते' इति प्राप्त- प्रतिषेधात् आत्माश्रयत्वं कामानां श्रुतमेवेति चेत्, न, 'सधी : स्वप्नो भूत्वा' इति परनिमित्तत्वात् कामाश्रयत्व- प्राप्तेः ; असङ्गवचनाश्ञ्च ; न हि कामाश्रयत्वे असङ्गवचनमुप- पद्यते ; सङ्गश्व काम इत्यवोचाम । 'आत्मकाम:' इति श्रुतेः आत्मविषयोऽस्य कामो भवतीति चेत् न, व्यतिरिक्तका- माभावार्थत्वात् तस्याः । वैशेषिकादितन्त्रन्यायोपपन्नम् आ- " क. २२. ] चतुर्थोऽध्यायः । I त्मनः कामाद्याश्रयत्वमिति चेत्, न, 'हृदि श्रिता:' इत्या- दिविशेषश्रुतिविरोधात् अनपेक्ष्याः ताः वैशेषिकादितन्त्रोप- पत्तय: ; श्रुतिविरोधे न्यायाभासत्वोपगमात् । स्वयंज्योतिष्य- बाधनाच्च ; कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्यं सिद्धं स्थितं च बाध्येत - आत्मसमवायित्वे दृश्यत्वानुपपत्तेः, चक्षुर्गतविशेषवत् ; द्रष्टुर्हि दृश्यम् अर्था- न्तरभूतमिति, द्रष्टुः स्वयंज्योतिष्वं सिद्धम् ; तत् बाधितं स्यात्, यदि कामाद्याश्रयत्वं परिकल्प्येत । सर्वशास्त्रार्थवि - प्रतिषेधाच्च — परस्य एकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत; एतच्च विस्तरेण चतुर्थेऽवोचाम ; महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पना: प्रतिषेद्धव्याः, आत्मनः परेणैकत्वशास्त्रार्थसिद्धये ; तत्कल्पनायां पुन: क्रिय- माणायां शास्त्रार्थ एव बाधितः स्यात् । यथा इच्छादीनामा- त्मधर्मत्वं कल्पयन्तः वैशेषिका नैयायिकाश्च उपनिषच्छा- स्त्रार्थेन न संगच्छन्ते, तथा इयमपि कल्पना उपनिषच्छा- स्वार्थबाधनात् न आदरणीया ॥ स्त्रीपुंसयोरिव एकत्वात् न पश्यतीत्युक्तम्, स्वयंज्योति- रिति च ; स्वयंज्योतिष्टुं नाम चैतन्यात्मस्वभावता ; यदि हि अग्न्युष्णत्वादिवत् चैतन्यात्मस्वभाव आत्मा, सः कथम् एक- त्वेऽपि हि स्वभावं जह्यात्, न जानीयात् ? अथ न जहाति, • बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. कथमिह सुषुप्ते न पश्यति विप्रतिषिद्धमेतत्- चैतन्यमा- त्मस्वभावः, न जानाति चेति । न विप्रतिषिद्धम्, उभय- मप्येतत् उपपद्यत एव ; कथम् — यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्द्वष्टेर्विपरिलोपो विद्यतेऽविना- शित्वात् । न तु तद्वितीयमस्ति ततोऽन्य- द्विभक्तं यत्पश्येत् ॥ २३ ॥ ' यद्वै सुषुप्रे तत् न पश्यति पश्यन्वै तत् तत्र पश्यन्नेक न पश्यति । यत् तत्र सुषुप्ते न पश्यतीति जानीषे, तत् न तथा गृह्णीयाः ; कस्मात् ? पश्यन्वै भवति तत्र । ननु एवं न पश्यतीति सुषुमे जानीमः, यतः न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति ; व्यापृतेषु हि दर्शनश्रवणादिषु, पश्यतीति व्यवहारो भवति, शृणोतीति वा; न व्यापृतानि करणानि पश्याम: ; तस्मात् न पश्यत्येव अयम् । न हि ; किं तर्हि पश्यन्नेव भवति ; कथम् ? न- हि यस्मात् द्रष्टुः दृष्टिकर्तुः या दृष्टिः, तस्या दृष्टेः विपरि- लोपः विनाशः, सः न विद्यते । यथा अग्नेरौष्ण्यं यावदग्निभावि, तथा अयं च आत्मा द्रष्टा अविनाशी, अतः अविनाशित्वात् आत्मनो दृष्टिरपि अविनाशिनी, यावद्द्रष्टृ- क. २३.] चतुर्थोऽध्यायः । , भाविनी हि सा । ननु विप्रतिषिद्धमिदमभिधीयते - द्रष्टुः सा दृष्टि: न विपरिलुप्यते इति च ; दृष्टिश्च द्रष्ट्रा क्रियते ; दृष्टिकर्तृत्वात् हि द्रष्टेत्युच्यते ; क्रियमाणा च द्रष्ट्रा दृष्टि: न विपरिलुप्यत इति च अशक्यं वक्तुम्; ननु न विपरिलु- प्यते इति वचनात् अविनाशिनी स्यात् न, वचनस्य ज्ञाप- कत्वात् ; न हि न्यायप्राप्तो विनाशः कृतकस्य वचनशते- नापि वारयितुं शक्यते, वचनस्य यथाप्राप्तार्थज्ञापकत्वात् । नैष दोष:, आदित्यादि प्रकाशकत्ववत् दर्शनोपपत्तेः ; यथा आदित्यादयः नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति न हि अप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते, किं तर्हि स्व- भावेनैव नित्येन प्रकाशेश- तथा अयमपि आत्मा अविप- रिलुप्तस्वभावया दृष्टया नित्यया द्रष्टेत्युच्यते । गौणं तर्हि द्रष्टृत्वम्, न, एवमेव मुख्यत्वोपपत्तेः ; यदि हि अन्यथापि आत्मनो द्रष्टृत्वं दृष्टम्, तदा अस्य द्रष्टृत्वस्य गौणत्वम् ; न तु आत्मनः अन्यो दर्शन प्रकारोऽस्ति ; तत् एवमेव मुख्यं द्रष्टृत्वमुपपद्यते, नान्यथा— यथा आदित्यादीनां प्रकाशयि- तृत्वं नित्येनैव स्वाभाविकेन अक्रियमाणेन प्रकाशेन, तदेव च प्रकाशयितृत्वं मुख्यम्, प्रकाशयितृत्वान्तरानुपपत्तेः । तस्मात् न द्रष्टुः दृष्टि: विपरिलुप्यते इति न विप्रतिषेधगन्धोऽप्यस्ति - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. ननु अनित्यक्रियाकर्तृविषय एवं तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टः- यथा छेत्ता भेत्ता गन्तेति, तथा द्रष्टेत्यत्रापीति चेत् न, प्रकाशयितेति दृष्टत्वात् । भवतु प्रकाशकेषु, अन्यथा असंभवात्, न त्वात्मनीति चेत् — न, दृष्ट्यवि परिलोपश्रुतेः । पश्यामि - न पश्यामि - इत्यनुभवदर्शनात् नेति चेत्, न, करणव्यापारविशेषापेक्षत्वात्; उद्धृतचक्षुषां च स्वप्ने आत्मदृष्टेरविपरिलोपदर्शनात् । तस्मात् अविपरि- लुप्तस्वभावैव आत्मनो दृष्टिः ; अतः तया अविपरिलुप्तया दृष्टया स्वयंज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते ॥ कथं तर्हि न पश्यतीति उच्यते- न तु तदस्ति ; किं तत् ? द्वितीयं विषयभूतम् ; किंविशिष्टम् ? ततः द्रष्टुः अन्यत् अन्यत्वेन विभक्तम् यत्पश्येत् यदुपलमेत । यद्धि तद्विशेष- दर्शनकारणमन्तःकरणम् चक्षू रूपं च तत् अविद्यया अन्य- त्वेन प्रत्युपस्थापितमासीत् तत् एतस्मिन्काले एकीभूतम्, आत्मनः परेण परिष्वङ्गात् ; द्रष्टुर्हि परिच्छिन्नस्य विशेषदर्श- नाय करणम् अन्यत्वेन व्यवतिष्ठते; अयं तु स्वेन सर्वा- त्मना संपरिष्वक्तः - स्वेन परेण प्राज्ञेन आत्मना, प्रिययेव पुरुष: तेन न पृथक्त्वेन व्यवस्थितानि करणानि, विष- याश्च ; तदभावात् विशेषदर्शनं नास्ति ; करणादिकृतं हि तत्, न आत्मकृतम् ; आत्मकृतमिव प्रत्यवभासते । तस्मात् क. २८ चतुर्थोऽध्यायः । ५८१ तत्कृता इयं भ्रान्तिः - आत्मनो दृष्टिः परिलुप्यते इति ॥ यद्वै तन्न जिघ्रति जिघन्वै तन्न जिघति न हि धातुर्घातर्विपरिलोपो विद्यतेऽविना- शित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्वि- भक्तं यजिघेत् ॥ २४ ॥ यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू रसयतेर्विपरिलोपों विद्य तेऽविनाशित्वान्न तु तद्वितीयमस्ति ततो- ऽन्यद्विभक्तं यद्रसयेत् ॥ २५ ॥ यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविना- शित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्विभ क्तं यद्वदेत् ॥ २६ ॥ यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणो- ति न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते- विनाशित्वान्न तु तद्वितीयमस्ति ततो- ऽन्यद्विभक्तं यच्छृणुयात् ॥ २७ ॥ यद्वै तन्न मनुते मन्वानो वै तन्न मनुते बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविना- शित्वान्न तु तद्वितीयमस्ति ततोऽन्यद्वि- भक्तं यन्मन्वीत ॥ २८ ॥ यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृश- ति न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते- विनाशित्वान्न तु तद्वितीयमस्ति ततो- ऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥ द्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरि- लोपो विद्यतेऽविनाशित्वान्न तु तद्वितीय- मस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ यद्वै समानमन्यत्– यद्वै तन्न जिघ्रति, यद्वै तन्न रसयते, यद्वै तन्न वदति, यद्वै तन्न शृणोति यद्वै तन्न मनुते, तन्न स्पृशति, यद्वै तन्न विजानातीति । मननविज्ञानयो: ह- ष्टधादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षो भूतभविष्य- द्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ॥ किं पुनः दृष्टवादीनाम् अग्नेरौष्ण्यप्रकाशनज्वलनादिवत् धर्मभेद:, आहोस्वित् अभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति । अत्र केचिद्व्याचक्षते - आत्मवस्तुनः स्वत क. ३०.] चतुर्थोऽध्यायः । एव एकत्वं नानात्वं च - यथा गोः गोद्रव्यतया एकत्वम्, सास्नादीनां धर्माणां परस्परतो भेदः ; यथा स्थूलेषु एकत्वं नानात्वं च, तथा निरवयवेषु अमूर्तवस्तुषु एकत्वं नानात्वं च अनुमेयम्; सर्वत्र अव्यभिचारदर्शनात् आत्मनोऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वम्, आत्मना चैकत्वमिति । न, अन्यपरत्वात् -- न हि दृष्ट्यादिधर्मभेदप्रदर्शनपरम् इदं वा- क्यम् ' यद्वै तत्' इत्यादि ; किं तर्हि, यदि चैतन्यात्मज्योतिः, कथं न जानाति सुषुप्ते ! नूनम् अतो न चैतन्यात्मज्योतिः - इत्येवमाशङ्काप्राप्तौ तन्निराकरणाय एतदारब्धम् 'यद्वै तत्' इ- त्यादि । यत् अस्य जाग्रत्स्वप्नयोः चक्षुराद्यने कोपाधिद्वारं चैत- न्यात्मज्योति: स्वाभाव्यम् उपलक्षितं दृष्ट्याद्यभिधेयव्यवहा रापन्नम्, सुषुप्रे उपाधिभेदव्यापारनिवृत्तौ अनुद्भास्यमान- त्वात् अनुपलक्ष्यमाणस्वभावमपि उपाधिभेदेन भिन्नमिव-- यथाप्रतानुवादेनैव विद्यमानत्वमुच्यते; तत्र दृष्टवादिधर्म- भेदकल्पना विवक्षितार्थानभिज्ञतया; सैन्धवघनवत् प्रज्ञा- नैकर सघनश्रुतिविरोधाश्च; 'विज्ञानमानन्दम् ' ' सत्यं ज्ञानम् 'प्रज्ञानं ब्रह्म' इत्यादिश्रुतिभ्यश्च । शब्दप्रवृत्तेश्व - लौकिकी च शब्दप्रवृत्ति: - ' चक्षुषा रूपं विजानाति ' ' श्रोत्रेण शब्द विजानाति ' 'रसनेनान्नस्य रसं विजानाति' इति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यता- " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. मेव दर्शयति ; शब्दप्रवृत्तिश्च प्रमाणम् । दृष्टान्तोपपत्तेश्व- यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फटिक : तन्नि- मित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसंयोगात् तदा- कारत्वं भजते, न च स्वच्छस्वाभाव्यव्यतिरेकेण हरि- तनीललोहितादिलक्षणा धर्मभेदाः स्फटिकस्य कल्पयितुं शक्यन्ते - तथा चक्षुराद्युपाधिभेदसंयोगात् प्रज्ञानघनस्वभा- वस्यैव आत्मज्योतिषः दृष्ट्यादिशक्तिभेद उपलक्ष्यते, प्रज्ञान- घनस्य स्वच्छस्वाभाव्यात् स्फटिकस्वच्छस्वाभाव्यवत् । स्व- यंज्योतिष्ट्राश्च यथा च आदित्यज्योति: अवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाज्यं तदाका- राभासं भवति, तथा च कृत्स्नं जगत् अवभासयत् चक्षुरा- दीनि च तदाकारं भवति तथा चौक्तम्- 'आत्मनैवायं ज्योतिषास्ते' इत्यादि । न च निरवयवेषु अनेकात्मता शक्यते कल्पयितुम्, दृष्टान्ताभावात् । यदपि आकाशस्य सर्वगत- स्वादिधर्मभेद: परिकल्प्यते, परमाण्वादीनां च गन्धरसाद्यने- कगुणत्वम्, तदपि निरूप्यमाणं परोपाधिनिमित्तमेव भवति आकाशस्य तावत् सर्वगतत्वं नाम न स्वतो धर्मोऽस्ति ; स- र्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगतत्व- व्यवहारः ; न तु आकाशः क्वचिद्रतो वा, अगतो वा स्वतः ; गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ; सा ; त ; क. ३१.] चतुर्थोऽध्यायः । च क्रिया नैव अविशेषे संभवति ; एवं धर्मभेदा नैव सन्त्या - काशे । तथा परमाण्वादावपि । परमाणुर्नाम पृथिव्या गन्ध- घनायाः परमसूक्ष्मः अवयवः गन्धात्मक एव ; न तस्य पुनः गन्धवत्त्वं नाम शक्यते कल्पयितुम् अथ तस्यैव रसादिम- त्त्वं स्यादिति चेत्, न तत्रापि अबादिसंसर्गनिमित्तत्वात् । तस्मात् न निरवयवस्य अनेकधर्मवत्त्वे दृष्टान्तोऽस्ति । एतेन दृगादिशक्तिभेदानां पृथक् चक्षूरूपादिभेदेन परिणामभेदक- ल्पना परमात्मनि प्रत्युक्ता ॥ यत्र वा अन्यदिव स्यात्तत्रान्योऽन्य- त्पश्येदन्योऽन्यज्जिघेदन्योऽन्यद्रसयेदन्यो- ऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वी- तान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ' जाग्रत्स्वप्रयोरिव यद्विजानीयात् तत् द्वितीयं प्रविभक्त- मन्यत्वेन नास्तीत्युक्तम् ; अत: सुषुप्ते न विजानाति विशे- बम् । ननु यदि अस्य अयमेव स्वभाव:, किंनिमित्तम् अस्य विशेषविज्ञानं स्वभावपरित्यागेन ; अथ विशेषविज्ञानमेव अस्य स्वभाव:, कस्मादेष विशेषं न विजानातीति । उच्यते, शृणु - यत्र यस्मिन् जागरिते स्वप्ने वा अन्यदिव आत्मनो वस्त्वन्तरमिव अविद्यया प्रत्युपस्थापितं भवति, तत्र तस्मा - बृहदारण्यकोपनिषद्भाष्ये [त्रा. ३. विद्याप्रत्युपस्थापितात् अन्यः अन्यमिव आत्मानं मन्यमानः - असति आत्मनः प्रविभक्ते वस्त्वन्तरे, असति च आत्मनि ततः प्रविभक्तेः, अन्य: अन्यत् पश्येत् उपलभेत ; तच्च दर्शितं स्वप्ने प्रत्यक्षतः- 'घ्नन्तीव जिनन्तीव ' इति । तथा अन्यः अन्यत् जिघ्रेत् रसयेत् वदेत् शृणुयात् मन्वीत स्पृशेत् वि- जानीयादिति ॥ सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्म- लोकः सम्राडिति हैनमनुशशास याज्ञ- वल्क्य एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवानन्दयान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥ यत्र पुनः सा अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता, तेन अन्यत्वेन अविद्याप्रविभक्तस्य वस्तुनः अभा- वात् तत् केन कं पश्येत् जिघेत् विजानीयाद्वा । अतः स्वेनैव हि प्राज्ञेन आत्मना स्वयंज्योतिः स्वभावेन संपरिष्व- " क्तः समस्त: संप्रसन्न: आप्तकामः आत्मकामः, सलिलवत् स्वच्छीभूतः - सलिल इव सलिल:, एकः द्वितीयस्याभा- अविद्यया हि द्वितीयः प्रविभज्यते ; सा च शान्ता चात् ; क. ३२. ] j चतुर्थोऽध्यायः । ५८७. अत्र, अतः एकः द्रष्टा दृष्टेरविपरिलुप्तत्वात् आत्मज्योति:- स्वभावाया: ; अद्वैतः : द्रष्टव्यस्य द्वितीयस्याभावात् । एतत् अमृतम् अभयम् ; एष ब्रह्मलोकः, ब्रह्मैव लोक: ब्रह्मलोक: ; पर एव अयम् अस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वे वे आत्मज्योतिषि शान्तसर्वसंबन्धो वर्तते, हे सम्राट् - इति ह एवं ह, एनं जनकम् अनुशशास अनुशिष्टवान् याज्ञव- ल्क्यः इति श्रुतिवचनमेतत् । कथं वा अनुशशास ? एषा अस्य विज्ञानमयस्य परमा गतिः ; यास्तु अन्याः देहग्रहणलक्षणाः ब्रह्मादिस्तम्बपर्यन्ता: अविद्याकल्पिताः, ता गतयः अतः अप- रमाः, अविद्याविषयत्वात्; इयं तु देवत्वादिगतीनां कर्मविद्या- साध्यानां परमा उत्तमा यः समस्तात्मभाव:, यत्र नान्यत्प- श्यति नान्यच्छृणोति 'नान्यद्विजानातीति । एषैव च परमा संपत्— सर्वासां संपदां विभूतीनाम् इयं परमा, स्वाभावि कत्वात् अस्याः ; कृतका हि अन्याः संपदः । तथा एषो- sta परमो लोकः ; ये अन्ये कर्मफलाश्रया लोकाः, ते अ- स्मात् अपरमा:; अयं तु न केनचन कर्मणा मीयते, स्वा- भाविकत्वात् ; एषोऽस्य परमो लोकः । तथा एषोऽस्य परम आनन्दः ; यानि अन्यानि विषयेन्द्रियसंबन्धजनितानि आन- न्दजातानि तान्यपेक्ष्य एषोऽस्य परम आनन्दः, नित्यत्वात् ; 'यो वै भूमा तत्सुखम्' इति श्रुत्यन्तरात्; यत्र अन्यत्प-- , :; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३ "श्यति अन्यद्विजानाति, तत् अल्पं मर्त्यम् अमुख्यं सुखम् ; इदं तु तद्विपरीतम् ; अत एव एषोऽस्य परम आनन्दः । एत- स्यैव आनन्दस्य मात्रां कलाम् अविद्याप्रत्युपस्थापितां विष- येन्द्रियसंबन्धकालविभाव्याम् अन्यानि भूतानि उपजीव- न्ति; कानि तानि ? तत एव आनन्दात् अविद्यया प्रवि- भज्यमानस्वरूपाणि, अन्यत्वेन तानि ब्रह्मणः परिकल्प्यमा- नि अन्यानि सन्ति उपजीवन्ति भूतानि विषयेन्द्रियसं- -पर्कद्वारेण विभाव्यमानाम् ॥ " स यो मनुष्याणा राद्धः समृद्धो भव- त्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सं- पन्नतमः स मनुष्याणां परम आनन्दो - ऽथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्व- लोक आनन्दाः स एकः कर्मदेवानामान - न्दो ये कर्मणा देवत्वमभिसंपद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स एक आजा- नदेवानामानन्दो यश्च श्रोत्रियोsवृजिनो क. ३३.] चतुर्थोऽध्यायः । sकामहतोऽथ ये शतमाजानदेवानामान- न्दाः स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोsवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजि- नोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच याज्ञव- ल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्व विमोक्षायैव ब्रूहीत्यत्र ह याज्ञव- क्यो बिभयांचकार मेधावी राजा स- वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ ३३ ॥ यस्य परमानन्दस्य मात्रा अवयवा: ब्रह्मादिभिर्मनुष्यप- र्यन्तैः भूतैः उपजीव्यन्ते, तदानन्दमात्राद्वारेण मात्रिणं पर- मानन्दम् अधिजिगमयिषन् आह, सैन्धवलवणशकलैरिव ल- वणशैलम् । सः यः कश्चित् मनुष्याणां मध्ये, राद्धः सं- सिद्ध: अविकलः समप्रावयव इत्यर्थः, समृद्ध: उपभोगो- पकरणसंपन्नः भवति ; किं च अन्येषां समानजातीयानाम् अधिपतिः स्वतन्त्रः पतिः, न माण्डलिकः सर्वैः समस्तैः, मानुष्यकैरिति दिव्य भोगोपकरणनिवृत्त्यर्थम्, मनुष्याणामेव j तत् ; - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. यानि भोगोपकरणानि तै:- संपन्नानामपि अतिशयेन सं- पन्न: संपन्नतम:- स मनुष्याणां परम आनन्दः । तत्र आनन्दानन्दिनो: अभेदनिर्देशात् न अर्थान्तरभूतत्वमित्ये- परमानन्दस्यैव इयं विषयविषय्याकारेण मात्रा प्रसृ- तेति हि उक्तम् 'यत्र वा अन्यदिव स्यात्' इत्यादिवाक्येन ; तस्मात् युक्तोऽयम् -' परम आनन्द:' इत्यभेद निर्देश: । युधि - ष्ठिरादितुल्यो राजा अत्र उदाहरणम् । दृष्टं मनुष्यानन्दम् आदिं कृत्वा शतगुणोत्तरोत्तरक्रमेण उन्नीय परमानन्दम्, यत्र भेदो निवर्तते तमधिगमयति ; अत्र अयमानन्दः शत- गुणोत्तरोत्तरक्रमेण वर्धमानः यत्र वृद्धिकाष्ठामनुभवति, यत्र गणितभेदो निवर्तते, अन्यदर्शनश्रवणमननाभावात्, तं पर- मानन्दं विवक्षन् आह- अथ ये मनुष्याणाम् एवंप्रकारा: शतमानन्दभेदाः, स एकः पितृणाम् ; तेषां विशेषणम् - जि. तलोकानामिति श्राद्धादिकर्मभिः पितृन् तोषयित्वा तेन कर्मणा जितो लोको येषाम्, ते जितलोका: पितरः ; तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति । सोऽपि शतगुणीकृतः गन्धर्वलोके एक आनन्दो भवति । स च शतगुणीकृत: कर्मदेवानाम् एक आनन्दः ; अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति, ते कर्मदेवाः । तथैव आजानदेवानाम् एक आनन्द: ; आजानत :; क. ३३.] चतुर्थोऽध्यायः । एव उत्पत्तित एव ये देवाः, ते आजानदेवाः ; यश्च श्रोत्रियः अधीतवेदः, अवृजिनः वृजिनं पापम् तद्रहितः यथोक्तका - रीत्यर्थः, अकामत: वीततृष्णः आजानदेवेभ्योऽर्वाक् याव न्तो विषया: तेषु — तस्य च एवंभूतस्य आजानदेवैः स- मान आनन्द इत्येतदन्वाकृष्यते च शब्दात् । तच्छतगुणीकृत- परिमाण: प्रजापतिलोके एक आनन्दो विराट्शरीरे; तथा तद्विज्ञानवान् श्रोत्रियः अधीतवेदश्च अवृजिन इत्यादि पूर्व- वत् । तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हि- रण्यगर्भात्मनि ; यश्चेत्यादि पूर्ववदेव । अतः परं गणितनि- वृत्ति: ; एष परम आनन्द इत्युक्तः, यस्य च परमानन्दस्य ब्रह्मलोकाद्यानन्दा मात्रा:, उदधेरिव विप्रुषः । एवं शतगु- , णोत्तरोत्तरवृद्धयुपेता अनन्दाः यत्र एकतां यान्ति, यश्च श्रो- त्रियप्रत्यक्षः, अथ एष एव संप्रसादलक्षणः परम आनन्दः ; तन्त्र हि नान्यत्पश्यति नान्यच्छृणोति ; अतो भूमा, भूम- त्वादमृतः ; इतरे तद्विपरीताः । अत्र च श्रोत्रियत्वावृजिनत्वे तुल्ये; अकामहतत्वकृतो विशेष: आनन्दशतगुणवृद्धिहेतुः ; अत्र एतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्य आनन्दस्य प्राप्तौ अर्थादभिहितानि यथा कर्मा- णि अग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ; तत्र च श्रोत्रिय - त्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति न S. B. U. II. 16 r बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. उत्तरानन्दप्राप्तिसाधने अभ्युपेयेते; अकामहतत्वं तु वैरा. ग्यतारतम्योपपत्तेः उत्तरोत्तर भूम्यानन्दप्राप्तिसाधनमित्यवग- म्यते । स एष परम: आनन्दः वितृष्णश्रोत्रियप्रत्यक्षः अधि- गत: । तथा च वेदव्यासः --- ' यश्च कामसुखं लोके यच दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नाईतः षोडशीं क- लाम्' इति । एष ब्रह्मलोक:, हे सम्राट् — इति ह उवाच याज्ञवल्क्यः । सोऽहम् एवम् अनुशिष्टः भगवते तुभ्यम् सहस्रं ददामि गवाम्; अत ऊर्ध्वं विमोक्षायैव ब्रूहि - इति व्याख्यातमेतत् । अत्र ह विमोक्षायेत्यस्मिन्वाक्ये, याज्ञ- वल्क्यः बिभयांचकार भीतवान् ; याज्ञवल्क्यस्य भयकार- णमाह श्रुतिः— न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भी- तवान्, अज्ञानाद्वा ; किं तर्हि मेधावी राजा सर्वेभ्यः, मा माम्, अन्तेभ्यः प्रश्ननिर्णयावसानेभ्यः, उदरौत्सीत् आवृ- णोत् अवरोधं कृतवानित्यर्थः ; यद्यत् मया निर्णीतं प्रश्नरूपं विमोक्षार्थम्, तत्तत् एकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनः मां पर्यनुयुक्त एव, मेधावित्वात् — इत्येतद्भयका- रणम् — सर्वे मदीयं विज्ञानं कामप्रश्नव्याजेन उपादि - त्सतीति ॥ स वा एष एतस्मिन्स्वप्नान्ते रत्वा च- रित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रति- क. ३४.] चतुर्थोऽध्यायः । न्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ अत्र विज्ञानमय: स्वयंज्योति: आत्मा स्वप्ने प्रदर्शितः, स्वप्नान्तबुद्धान्तसंचारेण कार्यकरणव्यतिरिक्तता, कामकर्म- प्रविवेकश्च असङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शित: ; पुनश्च अविद्याकार्य स्वप्न एव 'नन्तीव' इत्यादिना प्रदर्शितम् ; अर्थात् अविद्यायाः सतत्त्वं निर्धारितम् अतद्धर्माध्यारोपण- रूपत्वम् अनात्मधर्मत्वं च; तथा विद्यायाश्च कार्य प्रदर्शि- तमू, सर्वात्मभावः, स्वप्ने एवं प्रत्यक्षत: - 'सर्वोऽस्मीति मन्यते सोऽस्य परमो लोक:' इति ; तत्र च सर्वात्मभाव: स्वभावोऽस्य एवम् अविद्याकामकर्मादिसर्व संसारधर्मसंब- न्धातीतं रूपमस्य, साक्षात् सुषुप्ते गृह्यते-- इत्येतद्विज्ञापितम् ; स्वयं ज्योतिरात्मा एषः परम आनन्दः, एष विद्याया विषय:, स एष परमः संप्रसादः, सुखस्य च पराकाष्ठा - इत्येतत् एवमन्तेन ग्रन्थेन व्याख्यातम् । तच्च एतत् सर्वं विमोक्षप- दार्थस्य दृष्टान्तभूतम्, बन्धनस्य च; ते च एते मोक्षबन्धने सहेतुके प्रपचे निर्दिष्टे विद्याविद्याकार्ये, तत्सर्वं दृष्टान्त- भूतमेव - इति, तद्दान्तिकस्थानीये मोक्षबन्धने सहेतुके कामप्रश्नार्थभूते त्वया वक्तव्ये इति पुन: पर्यनुयुङ्क्ते जन- क:- अत उर्ध्व विमोक्षायैव ब्रूहीति । तत्र महामत्स्यवत् स्वप्रबुद्धान्तौ असङ्गः संचरति एक आत्मा स्वयंज्योति - बृहदारण्यकोपनिषद्भाष्ये [ना. ३. रित्युक्तम् ; यथा च असौ कार्यकरणानि मृत्युरूपाणि परि- त्यजन् उपादानश्च महामत्स्यवत् स्वप्नबुद्धान्तावनु संचरति, तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च - 'उभौ लोकावनुसंचरति ' इति संचरणं स्व- प्रबुद्धान्तानुसंचारस्य दान्तिकत्वेन सूचितम् । तदिह वि- स्तरेण सनिमित्तं संचरणं वर्णयितव्यमिति तदर्थोऽयमार- म्भः । तत्र च बुद्धान्तात् स्वप्नान्तम् अयमात्मा अनुप्रवेशि- तः ; तस्मात् संप्रसादस्थानं मोक्षदृष्टान्त भूतम् ; ततः प्राच्यव्य बुद्धान्ते संसारव्यवहार प्रदर्शयितव्य इति तेन अस्य संब- वै बुद्धान्तात् स्वप्नान्तक्रमेण संप्रसन्नः एषः एत- स्मिन् संप्रसादे स्थित्वा ततः पुनः ईषत्प्रच्युतः - स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववत् - बुद्धान्तायैव आद्रवति ॥ न्धः । स तद्यथानः सुसमाहितमुत्सर्जद्यायादे- मेवाय शारीर आत्मा प्राज्ञेनात्मना - न्वारूढ उत्सर्जन्याति यत्रैतदूवच्छा- सी भवति ॥ ३५ ॥ इत आरभ्य अस्य संसारो वर्ण्यते । यथा अयमात्मा स्वप्नान्तात् बुद्धान्तमागतः ; एवम् अयम् अस्माद्देहात् देहा- न्वरं प्रतिपत्स्यत इति आह अत्र दृष्टान्तम् — तत् तत्र - क. ३५.] चतुर्थोऽध्यायः । . यथा लोके अनः शकटम्, सुसमाहितं सुष्ठु भृशं वा समा- हितम् भाण्डोपस्करणेन उलूखलमुसलशूर्पपिठरादिना अन्ना- द्येन च संपन्नम् संभारेण आक्रान्तमित्यर्थः ; तथा भाराक्रा- न्तं सत्, उत्सर्जत् शब्दं कुर्वत्, . यथा यायात् गच्छेत् शा- कटिकेनाधिष्ठितं सत्; एवमेव यथा उक्तो दृष्टान्तः, अयं शारीरः शरीरे भवः - कोऽसौ ? आत्मा लिङ्गोपा- धिः, य: स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसंस- र्गवियोगलक्षणाभ्याम् इहलोक परलोकावनुसंचरति, यस्यो- त्क्रमणमनु प्राणाद्युत्क्रमणम् -- सः प्राज्ञेन परेण आ- त्मना स्वयंज्योतिः स्वभावेन अन्वारूढः अधिष्ठितः अवभा- स्यमानः- तथा चोक्तम् ' आत्मनैवायं ज्योतिषास्ते पल्य- यते ' इति — उत्सर्जन्याति । तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति, तदुपाधिरण्यात्मा गच्छतीव ; तथा श्रुत्यन्तरम् — 'कस्मिन्न्वहम्' इत्यादि, ' ध्यायतीव ' इति च ; अत एवोक्तम् - प्राज्ञेनात्मनान्वारूढ इति ; अ- न्यथा प्राज्ञेन एकीभूतः शकटवत् कथम् उत्सर्जयन् याति । तेन लिङ्गोपाधिरात्मा उत्सर्जन् मर्मसु निकृत्यमानेषु दुःख- वेदनया आर्तः शब्दं कुर्वन् याति गच्छति । तत् कस्मि- न्काले इत्युच्यते - यत्र एतद्भवति एतदिति क्रियाविशे- षणम्, ऊर्ध्वोच्छ्वासी, यत्र ऊर्ध्वोच्छ्रासित्वमस्य भवतीत्यर्थः । बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. दृश्यमानस्याप्यनुवदनं वैराग्यहेतो: ; ईदृशः कष्टः खलु अयं संसार : - येन उत्क्रान्तिकाले मर्मसु उत्कृत्यमानेषु स्मृति- लोपः दुःखवेदनार्तस्य पुरुषार्थ साधनप्रतिपत्तौ च असामर्थ्य परवशीकृतचित्तस्य; तस्मात् यावत् इयमवस्था न आगमि - व्यति, तावदेव पुरुषार्थसाधन कर्तव्यतायाम् अप्रमत्तो भ वेत् — इत्याह कारुण्यात् श्रुतिः ॥ स यत्रायमणिमानं न्येति जरया वो- पतपता वाणिमानं निगच्छति तद्यथाम्र वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्य- त एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणा- यैव ॥ ३६ ॥ तदस्य ऊर्ध्वोच्छ्रासत्वं कस्मिन्काले किंनिमित्तं कथं कि- मर्थे वा स्यादित्येतदुच्यते - सोऽयं प्राकृतः शिरः पाण्यादि- मान् पिण्डः, यत्र यस्मिन्काले अयम् अणिमानम् अणोर्भावम् अणुत्वम् कार्यमित्यर्थः, न्येति निगच्छति ; किंनिमित्तम् ? जरया वा स्वयमेव कालपक्कफलवत् जीर्णः काश्यं गच्छति उपतपतीति उपतपन् ज्वरादिरोगः तेन उपतपता वा ; उप- तप्यमानो हि रोगेण विषमाग्नितया अन्नं भुक्तं न जरयति, क. ३६.] चतुर्थोऽध्यायः । ततः अन्नरसेन अनुपचीयमानः पिण्डः कार्यमापद्यते, तदु- च्यते - उपतपता वेति ; अणिमानं निगच्छति । यदा अ- त्यन्तकायै प्रतिपन्नः जरादिनिमित्तैः, तदा ऊर्ध्वोच्छ्रासी भवति यदा ऊर्ध्वोच्छ्रासी, तदा भृशाहितसंभारशकटवत् उत्सर्जन्याति । जराभिभवः रोगादिपीडनं कार्यापत्तिश्च शरीरवतः अवश्यंभाविन एतेऽनर्था इति वैराग्याय इदमुच्यते । यदा असौ उत्सर्जन्याति, तदा कथं शरीरं विमुभ्वतीति दृष्टान्त उच्यते - तत् तत्र यथा आम्रं वा फलम्, उदु- म्बरं वा फलम्, पिप्पलं वा फलम् ; विषमानेकदृष्टान्तोपा- दानं मरणस्यानियत निमित्तत्वख्यापनार्थम् ; अनियतानि हि मरणस्य निमित्तानि असंख्यातानि च; एतदपि वैराग्यार्थ - मेव - यस्मात् अयम् अनेकमरणनिमित्तवान् तस्मात् स- वदा मृत्योरास्ये वर्तते इति । बन्धनात् — बध्यते येन वृ- न्तेन सह, स बन्धनकारणो रमः, यस्मिन्वा बध्यत इति वृन्तमेव उच्यते बन्धनम् — तस्मात् रसात् वृन्ताद्वा बन्ध- नात् प्रमुच्यते वाताद्यनेकनिमित्तम्; एवमेव अयं पुरुष: लिङ्गात्मा लिङ्गोपाधिः एभ्योऽङ्गेभ्यः चक्षुरादिदेहावयवे- - भ्यः, संप्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य - न सुषुप्त- गमनकाल इव प्राणेन रक्षन्, किं तर्हि सह वायुना उपसंहृत्य, पुनः प्रतिन्यायम् — पुनः शब्दात् पूर्वमपि अयं बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. देहात् देहान्तरम् असकृत् गतवान् यथा स्वप्नबुद्धान्तौ पुनः पुनर्गच्छति तथा, पुनः प्रतिन्यायम् प्रतिगमनं यथागत- मित्यर्थः, प्रतियोनिं योनिं योनिं प्रति कर्म श्रुतादिवशात् आद्रवति ; किमर्थम् ? प्राणायैव प्राणव्यूहायैवेत्यर्थः ; सप्राण एव हि गच्छति, तत: ' प्राणायैव' इति विशेषणमनर्थ- कम्; प्राणव्यूहाय हि गमनं देहात् देहान्तरं प्रति ; तेन हि अस्य कर्मफलोपभोगार्थसिद्धिः, न प्राणसत्तामात्रेण । तस्मा- त् तादर्थ्यार्थी युक्तं विशेषणम्- प्राणव्यूहायेति ॥ , , तत्र अस्य इदं शरीरं परित्यज्य गच्छतः न अन्यस्य देहा- न्तरस्योपादाने सामर्थ्यमस्ति देहेन्द्रियवियोगात्; न च अन्ये अस्य भृत्यस्थानीयाः, गृहमिव राज्ञे, शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते; अथैवं सति कथम् अस्य शरीरान्त- रोपादानमिति । उच्यते - सर्व ह्यस्य जगत् स्वकर्मफलो - पभोगसाधनत्वाय उपात्तम्; स्वकर्मफलोपभोगाय च अयं प्रवृत्तः देहाद्देहान्तरं प्रतिपित्सुः; तस्मात् सर्वमेव जगत् स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं कृत्वा प्रती- क्षत एव, ' कृतं लोकं पुरुषोऽभिजायते' इति श्रुतेः- यथा स्वप्नात् जागरितं प्रतिपित्सोः । तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यते—– तद्यथा राजानमायान्तमुग्राः प्रत्येनसः क. ३७.] चतुर्थोऽध्यायः । सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्प- न्तेऽयमायात्ययमागच्छतीत्येव हैवंवि- द सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ ३७ ॥ , तत् तत्व यथा राजानं राज्याभिषिक्तम् आयान्तं स्वराष्ट्रे, उग्रा: जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः - प्रति प्रति एनसि पापकर्मणि नियुक्ताः प्रत्येनसः, तस्करादिदण्डनादौ नियुक्ताः, सूताश्च ग्रामण्यश्च सूतग्रामण्य:- सूता: वर्णसं- करजातिविशेषाः, ग्रामण्यः ग्रामनेतारः, ते पूर्वमेव राज्ञ आगमनं बुड्ढा, अन्नैः भोज्यभक्ष्यादिप्रकारैः, पानै: मदिरा- दिभिः, आवसथैश्व प्रसादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्ते - अयं राजा आयाति अयमागच्छतीत्येवं वद- यथा अयं दृष्टान्तः, एवं ह एवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः ; कर्मफलं हि प्रस्तुतम् तत् एवं- शब्देन परामृश्यते ; सर्वाणि भूतानि शरीरकर्तृणि, करणानु ग्रहीतृणि च आदित्यादीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्म- फलोपभोगसाधनैः प्रतीक्षन्ते — इदं ब्रह्म भोक्तृ कर्तृ च अस्माकम् आयाति, तथा इदमागच्छतीति एवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥ न्तः " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्ये- नसः सूतग्रामण्यो ऽभिसमायन्त्येवमेवेम मात्मानमन्तकाले सर्वे प्राणा अभिस- मायन्ति यत्रैतदृयच्छासी भवति ॥३८॥ इति तृतीयं ब्राह्मणम् । ; तमेवं जिगमिषुं के सह गच्छन्ति ये वा गच्छन्ति, ते किं तत्क्रियाप्रणुन्नाः, आहोस्वित् तत्कर्मवशात् स्वयमेव ग च्छन्ति - परलोकशरीरकर्तृणि च भूतानीति । अत्रोच्यते दृष्टान्तः-- तद्यथा राजानं प्रयियासन्तम् प्रकर्षेण यातुमि- च्छन्तम्, उग्रा: प्रत्येनसः सूतग्रामण्यः तं यथा अभिस- मायन्ति आभिमुख्येन समायन्ति एकीभावेन तमभिमुखा आयन्ति अनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञा:, एवमेव इममात्मानं भोक्तारम् अन्तकाले मरणकाले सर्वे प्राणाः वागादयः अभिसमायन्ति । यत्रैतदूर्ध्वोच्छ्रासी भव- तीति व्याख्यातम् ॥ इति चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ * चतुर्थं ब्राह्मणः ॥ स यत्रायमात्मा । संसारोपवर्णनं प्रस्तुतम् ; 'तत्रायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य' इत्युक्तम् । तत्संप्रमोक्षणं कस्मिन्काले कथं वेति सविस्तरं संसरणं वर्णयितव्यमि- त्यारभ्यते— स यत्रायमात्माबल्यं न्येत्य संमोह- मिव न्येत्यथैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृद यमेवान्ववक्रामति स यत्रैष चाक्षुषः पु- रुषः परापर्यावर्ततेऽथारूपज्ञो भवति ॥ सोऽयम् आत्मा प्रस्तुत:, यत्र यस्मिन्काले, अबल्यम् अबलभावम् नि एत्य गत्वा - यत् देहस्य दौर्बल्यम्, तत् आत्मन एव दौर्बल्यमित्युपचर्यते ' अबल्यं न्येत्य' इति ; नासौ स्वतः अमूर्तस्वात् अबलभावं गच्छति — तथा सं- मोहमिव संमूढता संमोह : विवेकाभावः संमूढतामिव न्येति निगच्छति ; न चास्य स्वतः संमोह: असंमोहो वा अस्ति, नित्य चैतन्यज्योति:स्वभावत्वात्; तेन इवशब्द:- संमोहमिव न्येतीति; उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकु , - बृहदारण्यकोपनिषद्भाष्ये ' [ब्रा. ४. लीभाव: आत्मन इव लक्ष्यते लौकिकैः; तथा च वक्तारो भवन्ति - संमूढः संमूढोऽयमिति । अथ वा उभयत्र इवश- ब्दप्रयोगो योज्यः -- अबल्यमिव न्येत्य संमोहमिव न्येतीति, उभयस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्दे- शाञ्च । अथ अस्मिन्काले एते प्राणाः वागादयः एनमात्मा- नमभिसमायन्ति ; तदा अस्य शारीरस्यात्मनः अङ्गेभ्य: सं- प्रमोक्षणम् । कथं पुनः संप्रमोक्षणम्, केन वा प्रकारेण आ- स्मानमभिसमायन्तीत्युच्यते सः आत्मा, एतास्तेजो मात्रा: तेजसो " मात्रा: तेजोमात्रा: तेजोवयवाः रूपादिप्रकाशकत्वात्, चक्षुरादीनि करणानीत्यर्थः, ता एताः समभ्याददानः सम्यक् निर्लेपेन अभ्याददान: आभिमुख्येन आददानः संहरमाण: ; तत् स्वप्नापेक्षया विशेषणं ' सम्' इर्ति; न तु स्वप्ने निर्लेपेन सम्यगादानम्; अस्ति तु आदानमात्रम्; 'गृहीता वाकू' 'गृहीतं चक्षुः अस्य लोकस्य सर्वावतो मात्रामपादाय ' 'शुक्रमादाय' इत्यादिवाक्येभ्यः । हृदयमेव पुण्डरी- काकाशम् अन्ववक्रामति अन्वागच्छति, हृदयेऽभिव्यक्तवि- ज्ञानो भवतीत्यर्थः - बुद्ध्यादिविक्षेपोपसंहारे सति न हि तस्य स्वतश्चलनं विश्लेपोपसंहारादिविक्रिया वा, " ध्यायतीव लेलायतीव' इत्युक्तत्वात् ; बुद्धयाद्युपाधिद्वारैव हि सर्ववि- क्रिया अध्यारोप्यते तस्मिन् । कदा पुनः तस्य तेजोमात्रा - चतुर्थोऽध्यायः । क. २.] भ्यादानमित्युच्यते सः यन्त्र एष:, चक्षुषि भवः चाक्षुषः पुरुष: आदित्यांश: भोक्तः कर्मणा प्रयुक्तः यावद्देहधारणं ताव- त् चक्षुषोऽनुग्रहं कुर्वन् वर्तते; मरणकाले तु अस्य चक्षुरनु- ग्रहं परित्यजति, स्वम् आदित्यात्मानं प्रतिपद्यते ; तदेतदु- क्तम्- यत्रास्य पुरुषस्य मृतस्यानिं वागप्येति वातं प्राण- चक्षुरादित्यम्' इत्यादि ; पुनः देहग्रहणकाले संश्रयिष्यन्ति ; तथा स्वप्स्यत: प्रबुध्यतश्च ; तदेतदाह - चाक्षुषः पुरुषः यत्र यस्मिन्काले, पराङ् पर्यावर्तते परि समन्तात् पराङ् व्यावर्तते इति; अथ अत्र अस्मिन्काले अरूपज्ञो भवति, मुमूर्षुः रूपं न जानाति ; तदा अयमात्मा चक्षुरादितेजो- मात्राः समभ्याददानो भवति, स्वप्नकाल इव ॥ - एकी भवति न पश्यतीत्याहुरेकी भ बति न जिघतीत्याहुरेकी भवति न रस- यत इत्याहुरेकी भवति न वदतीत्याहुरे- की भवति न शृणोतीत्याहुरेकी भवति न मनुत इत्याहुरेकी भवति न स्पृशती - त्याहुरेकी भवति न विजानातीत्याहुस्त- स्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्र- द्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. मूनों वान्येभ्यो वा शरीरदेशेभ्यस्तमु त्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्का- मन्तँ सर्वे प्राणा अनूत्क्रामन्ति सवि- ज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ एकी भवति करणजातं स्वेन लिङ्गात्मना, तदा एनं पार्श्वस्था आहु:- पश्यतीति ; तथा प्राणदेवतानिवृत्तौ प्राण- मेकी भवति लिङ्गात्मना, तदा न जिघ्रतीत्याहु: । समान- मन्यत् । जिह्वायां सोमो वरुणो वा देवता, तन्निवृत्त्यपेक्षया न रसयते इत्याहु: । तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः । तदा उपलक्ष्यते देवतानिवृत्तिः, करणानां च हृदय एकीभावः । तत्र हृदये उपसंहृतेषु करणेषु योऽन्तर्व्यापारः स कथ्यते-- तस्य ह एतस्य प्रकृतस्य हृ- -दयस्य हृदयच्छिद्रस्येत्येतत्, अग्रम् नाडीमुखं निर्गमनद्वा- रम्, प्रद्योतते, स्वप्नकाल इव, स्वेन भासा तेजोमात्रादान- -कृतेन, स्वेनैव ज्योतिषा आत्मनैव च तेन आत्मज्योतिषा प्रद्योतेन हृदयाप्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिः निर्गच्छति निष्क्रामति । तथा आथर्वणे ' कस्मिन्नवहमुत्का- -न्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्या- क. २.] , चतुर्थोऽध्यायः । मीति स प्राणमसृजत' इति । तत्र च आत्मचैतन्यज्योतिः सर्वदा अभिव्यक्ततरम् ; तदुपाधिद्वारा हि आत्मनि जन्म- मरणगमनागमनादिसर्वविक्रियालक्षण: संव्यवहारः; तदा- त्मकं हि द्वादशविधं करणं बुद्धयादि, तत् सूत्रम्, तत् जीवनम् सोऽन्तरात्मा जगत: तस्थुषश्च । तेन प्रद्योतेन हृदयाप्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीत्यु- च्यते -चक्षुष्टो वा, आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् ; मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत्; अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यः यथाकर्म यथाश्रुतम् । तं विज्ञानात्मानम्, उत्क्रामन्तम् परलोकाय प्रस्थितम्, परलो- काय उद्भूताकूतमित्यर्थः, प्राण: सर्वाधिकारिस्थानीयः राज्ञ इव अनूत्क्रामति; तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणा अनूत्क्रामन्ति । यथाप्रधानान्वाचिख्यासा इयम्, न तु क्रमेण सार्थवत् गमनम् इह विवक्षितम् । तदा एष आत्मा स- विज्ञानो भवति स्वप्न इव विशेषविज्ञानवान् भवति कर्मवशात्, न स्वतन्त्रः; स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ; नैव तु तत् लभ्यते ; अत एवाह व्यास:- -' सदा तद्भावभा- वित:' इति कर्मणा तु उद्भाव्यमानेन अन्तःकरणवृत्तिविशेषा- श्रितवासनात्मक विशेषविज्ञानेन सर्वो लोकः एतस्मिन्काले स- विज्ञानो भवति ; सविज्ञानमेव च गन्तव्यम् अन्ववक्रामति -- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. अनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः । तस्मात् तत्काले स्वातन्त्र्यार्थे योगधर्मानुसेवनम् परिसंख्यानाभ्यासश्च विशि पुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिः अप्रमत्तैः कर्तव्य इति । सर्वशास्त्राणां यत्नतो विधेयोऽर्थ:- दुश्चरिताच उप- रमणम् । न हि तत्काले शक्यते किंचित्संपादयितुम्, कर्म- णा नीयमानस्य स्वातन्त्र्याभावात् । ' पुण्यो वै पुण्येन कर्म- णा भवति पापः पापेन ' इत्युक्तम् । एतस्य ह्यनर्थस्य उप- शमोपायविधानाय सर्वशाखोपनिषदः प्रवृत्ताः । न हि तद्वि- हितोपायानुसेवनं मुक्त्वा आत्यन्तिकः अस्य अनर्थस्य उप- शमोपायः अस्ति । तस्मात् अत्रैव उपनिषद्विहितोपाये यत्न- परैर्भवितव्यम् -- इत्येष प्रकरणार्थः ॥ शकटवत्संभृतसंभार उत्सर्जन्यातीत्युक्तम्, किं पुनः तस्य परलोकाय प्रवृत्तस्य पथ्यदनं शाकटिकसंभारस्थानी- यम्, गत्वा वा परलोकं यत् भुङ्क्ते, शरीराद्यारम्भकं च यत् तत्किम् इत्युच्यते--- तं परलोकाय गच्छन्तमात्मानम्, विद्याकर्मणी - विद्या च कर्म च विद्याकर्मणी, विद्या सर्वप्र- कारा विहिता प्रतिषिद्धा च अविहिता अप्रतिषिद्धा च, तथा कर्म विहितं प्रतिषिद्धं च अविहितमप्रतिषिद्धं च, समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः ; पूर्वप्रज्ञा च - पूर्वानुभूतविषया प्रज्ञा पूर्वप्रज्ञा अतीतकर्मफला- चतुर्थोऽध्यायः । क. २.] नुभववासनेत्यर्थः सा च वासना अपूर्वकर्मारम्भे कर्मवि- पाके च अङ्गं भवति ; तेन असावपि अन्वारभते ; न हि तया वासनया विना कर्म कर्तुं फलं च उपभोक्तुं शक्यते ; न हि अनभ्यस्ते विषये कौशलम् इन्द्रियाणां भवति ; पूर्वा- नुभववासनाप्रवृत्तानां तु इन्द्रियाणाम् इह अभ्यासमन्तरेण कौशलमुपपद्यते ; दृश्यते च केषांचित् कासुचित्क्रियासु चि कर्मादिलक्षणा विनैव इह अभ्यासेन जन्मत एव कौश- लम्, कासुचित् अत्यन्त सौकर्ययुक्तास्वपि अकौशलं केषां- चित् ; तथा विषयोपभोगेषु स्वभावत एव केषांचित् कौश- लाकौशले दृश्येते ; तच्च एतत्सर्वं पूर्वप्रज्ञोद्भवानुद्भवनिमित्तम् ; तेन पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्य - चित् प्रवृत्तिरुपपद्यते । तस्मात् एतत् त्रयं शाकटिकसंभार- स्थानीयं परलोकपथ्यदनं विद्याकर्मपूर्व प्रज्ञाख्यम् । यस्मात् विद्याकर्मणी पूर्वप्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम्, तस्मात् विद्याकर्मादि शुभमेव समाचरेत् यथा इष्टदेहसंयो- गोपभोगौ स्याताम् — इति प्रकरणार्थ: ॥ " एवं विद्यादिसंभारसंभृतो देहान्तरं प्रतिपद्यमान:, मु- क्त्वा पूर्व देहम्, पक्षीव वृक्षान्तरम्, देहान्तरं प्रतिपद्यते ; अथवा आतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नी- यते । किंचान्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो. S. B. U. II. 17 r ; बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. भवति, आहोस्वित् शरीरस्थस्य संकुचितानि करणानि मृत- स्य भिन्नघटप्रदीप प्रकाशवत् सर्वतो व्याप्य पुनः देहान्तरा- रम्भे संकोचमुपगच्छन्ति - किंच मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति, किं वा कल्पनान्तरमेव वेदान्तसमये - इत्युच्यते-- ' त एते सर्व एव समाः सर्वे- ऽनन्ता:' इति श्रुतः सर्वात्मकानि तावत्करणानि, सर्वात्म- कप्राणसंश्रयाश्च तेषाम् आध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनांनिमित्त:; अतः तद्वशात् स्वभावत: सर्व- गतानामनन्तानामपि प्राणानां कर्मज्ञानवासनानुरूपेणैव दे- हान्तरारम्भवशात् प्राणानां वृत्तिः संकुचति विकसति च ; तथा चोक्तम् ' सम: प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण' इति ; तथा च इदं वचनमनुकूलम् -- स यो हैताननन्तानुपास्ते' इत्यादि, 'तं यथा यथोपासते' इति च । तत्र वासना पूर्वप्रज्ञाख्या वि- द्याकर्मतन्त्रा जलूकावत् संतव स्वप्नकाल इव कर्मकृतं देहा- देहान्तरम् आरभते हृदयस्थैव पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चति - इत्येतस्मिन्नर्थे दृष्टान्त उपादीयते-- तद्यथा तृणजलायुका तृणस्यान्तं ग स्वान्यमाक्रममाक्रम्यात्मानमुपस ँ हरत्ये- वमेवायमात्मेदः शरीरं निहत्याविद्यां ' क. ३.] चतुर्थोऽध्यायः । गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसँ हरति ॥ ३ ॥ , तत् तत्र देहान्तरसंचारे इदं निदर्शनम् - यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्य अन्तम् अवसा- नम्, गत्वा प्राप्य, अन्यं तृणान्तरम्, आक्रमम् - आक्रम्यत इत्याक्रम:- तमाक्रमम्, आक्रम्य आश्रित्य आत्मानम् आत्मनः पूर्वावयवम् उपसंहरति अन्त्यावयवस्थाने; एवमेव अयमात्मा यः प्रकृत: संसारी इदं शरीरं पूर्वोपात्तम्, नि- हत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा अविद्यां गमयित्वा अचे- तनं कृत्वा स्वात्मोपसंहारेण, अन्यम् आक्रमम् तृणान्तरमिव तृणजलूका शरीरान्तरम् गृहीत्वा प्रसारितया वासनया, आत्मानमुपसंहरति, तत्र आत्मभावमारभते — यथा स्वप्ने देहान्तरस्थ एव शरीरारम्भदेशे - आरभ्यमाणे देहे जङ्गमे स्थावरे वा । तत्र च कर्मवशात् करणानि लब्धवृत्तीनि संह- न्यन्ते ; बाह्यं च कुश मृत्तिकास्थानीयं शरीरमारभ्यते ; तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहाय अग्न्यादिदेवताः संश्र- यन्ते । एष देहान्तरारम्भविधिः ॥ ' तत्र देहान्तरारम्भे नित्योपात्तमेव उपादानम् उपमृद्य उ- पद्य देहान्तरमारभते, आहोस्वित् अपूर्वमेव पुन: पुनरा दत्ते - . इत्यत्र उच्यते दृष्टान्तः- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. तद्यथा पेशस्कारी पेशसो मात्रामपा- दायान्यन्नवतरं कल्याणतर ५ रूपं तनुत एवमेवायमात्मेदः शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरः रूपं कुरुते पित्र्यं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूता- नाम् ॥ ४ ॥ . ' '; तत् तत्र एतस्मिन्नर्थे यथा पेशस्कारी - पेश : सुवर्णम् तत् करोतीति पेशकारी सुवर्णकारः, पेशसः सुवर्णस्य मा- त्राम्, अप आदाय अपच्छिद्य गृहीत्वा अन्यत् पूर्वस्मात् रचनाविशेषात् नवतरम् अभिनवतरम्, कल्याणात् कल्या- णतरम्, रूपं तनुते निर्मिनोति एवमेवायमात्मेत्यादि पूर्ववत् । नित्योपात्तान्येव पृथिव्यादीनि आकाशान्तानि पञ्च भूतानि यानि ' द्वे वा ब्रह्मणो रूपे' इति चतुर्थे व्याख्यातानि, पेशः स्थानीयानि तान्येव उपमृद्य, उपमृद्य, अन्यदन्यच्च दे- हान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषम्, देहान्तर- मित्यर्थः कुरुते - पित्र्यं वा पितृभ्यो हितम्, पितृलोकोप- भोगयोग्यमित्यर्थः, गान्धर्वे गन्धर्वाणामुपभोगयोग्यम्, तथा देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मण इदं ब्राह्मं वा, " क. ५.] चतुर्थोऽध्यायः । यथाकर्म यथाश्रुतम्, अन्येषां वा भूतानां संबन्धि - शरी- रान्तरं कुरुते इत्यभिसंबध्यते ॥ ये अस्य बन्धनसंज्ञकाः उपाधिभूताः, यैः संयुक्तः त- न्मयोऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्य इह एकत्र प्रतिनिर्दिश्यन्ते-- स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृ- थिवीमय आपोमयो वायुमय आकाश- मयस्तेजोमयोऽतेजोमयः काममयोऽकाम- मयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्म- मयः सर्वमयस्तद्यदेतदिदमयोऽदोमय इ- ति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतु- भवति यत्क्रतुर्भवति तत्कर्म कुरुते य- त्कर्म कुरुते तदभिसंपद्यते ॥ ५ ॥ सः अयम् यः एवं संसरति आत्मा- ब्रह्मैव पर एव, बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. य: अशनायाद्यतीतः ; विज्ञानमय :- विज्ञानं बुद्धि:, तेन उपलक्ष्यमाण:, तन्मय: ; ' कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु' इति हि उक्तम् ; विज्ञानमय: विज्ञानप्रायः यस्मात् तद्धर्मत्वमस्य विभाव्यते - 'ध्यायतीव लेलायतीव' इति ; तथा मनोमयः मनः संनिकर्षान्मनोमय: ; तथा प्राणमय:, प्राणः पञ्चवृत्तिः तन्मयः, येन चेतनः चलतीव लक्ष्यते ; तथा चक्षुर्मयः रूपदर्शनकाले; एवं श्रोत्रमयः शब्दश्रवण- काले । एवं तस्य तस्य इन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति । एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरी- रारम्भक पृथिव्यादिभूतमयो भवति ; तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति तथा वरुणादिलोकेषु आप्यशरीरारम्भे आपोमयो भवति ; तथा वायव्यशरीरारम्भे वायुमयो भव- ति; तथा आकाशशरीरारम्भे आकाशमयो भवति; एवम् एतानि तैजसानि देवशरीराणि तेष्वारभ्यमाणेषु तन्मयः तेजोमयो भवति । अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि च अतेजोमयानि ; तान्यपेक्ष्य आह- अतेजोमय इति । एवं कार्यकरणसंघातमयः सन् आत्मा प्राप्तव्यं वस्त्वन्तरं पश्यन् - इदं मया प्राप्तम्, अदो मया प्राप्तव्यम् - इत्येवं विपरीतप्रत्ययः तदभिलाषः काममयो भ वति । तस्मिन्कामे दोषं पश्यतः तद्विषयाभिलाषप्रशमे ; क. ५.] चतुर्थोऽध्यायः । चित्तं प्रसन्नम् अकलुषं शान्तं भवति, तन्मयः अ- काममयः । एवं तस्मिन्विहते कामे केनचित्, सकाम: क्रोधत्वेन परिणमते, तेन तन्मयो भवन् क्रोधमयः । स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति, तदा प्रस न्नम् अनाकुलं चित्तं सत् अक्रोध उच्यते, तेन तन्मयः । एवं कामक्रोधाभ्याम् अकामक्रोधाभ्यां च तन्मयो भूत्वा, धर्ममयः अधर्ममयश्च भवति ; न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते, 'यद्यद्धि कुरुते कर्म तत्तत्कामस्य चेष्टितम्' इति स्मरणात् । धर्ममयः अधर्ममयश्च भूत्वा सर्वमयो भवति -- समस्तं धर्माधर्मयोः कार्यम्, यावर्तिक- चिद्व्याकृतम्, तत्सर्वं धर्माधर्मयोः फलम् तत् प्रतिपद्यमान: तन्मयो भवति । किं बहुना, तदेतत् सिद्धमस्य -- यत् अयम् इदंमयः गृह्यमाणविषयादिमयः, तस्मात् अयम् अदो- मय: ; अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते; अ- नन्ता हि अन्तःकरणे भावनाविशेषाः; नैव ते विशेषतो निर्देष्टुं शक्यन्ते; तस्मिंस्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते- इदमस्य हृदि वर्तते, अदः अस्येति तेन गृह्यमाणकार्येण इदमयतया निर्दिश्यते परोक्षः अन्तःस्थो व्यवहार:- अय- मिदानीमदोमय इति । संक्षेपतस्तु यथा कर्तुं यथा वा च- रितुं शीलमस्य सोऽयं यथाकारी यथाचारी, सः तथा भव- " बृहदारण्यकोपनिषद्भाष्ये - इत्याशङ्कयाह- [श्री. ४. पुण्य: पु- ति; करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या, च- रणं नाम अनियतमिति विशेषः । साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणम् ; पापकारी पापो भवतीति च यथा- चारीत्यस्य । ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्यतैव त- न्मयत्वम्, न तत्कर्ममात्रेण- तु येन कर्मणा भवति पापः पापेनेति ; पुण्यपापकर्ममात्रेणैव त- न तु ताच्छील्यमपेक्षते ; ताच्छील्ये तु तन्मय- त्वातिशय इत्ययं विशेषः । तत्र कामक्रोधादिपूर्वक पुण्यापुण्य- कारिता सर्वमयत्वे हेतु:, संसारस्य कारणम्, देहात् देहा- न्तरसंचारस्य च एतत्प्रयुक्तो हि अन्यदन्यदेहान्तरमुपा- दत्ते; तस्मात् पुण्यापुण्ये संसारस्य कारणम्; एतद्विषयौ हि विधिप्रतिषेधो ; अत्र शास्त्रस्य साफल्यमिति ॥ न्मयता स्यात्, अथो अपि अन्ये बन्धमोक्ष कुशलाः खलु आहु:-- सत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणम् ; तथापि कामप्रयुक्तो हि पुरुषः पुण्यापुण्ये कर्मणी उपचिनोति ; काम- प्रहाणे तु कर्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति; उपचिते अपि पुण्यापुण्ये कर्मणी कामशून्ये फलारम्भके न भवत: ; तस्मात् काम एव संसारस्य मूलम् । तथा चोक्तमा- थर्वणे - कामान्यः कामयते मन्यमानः स कामभिर्जा- यते तत्र तत्र' इति । तस्मात् काममय एवायं पुरुषः, यत् क. ६ . ] चतुर्थोऽध्यायः । अन्यमयत्वं तत् अकारणं विद्यमानमपि — इत्यतः अवधार- यति ' काममय एव' इति । यस्मात् स च काममयः सन् यादृशेन कामेन यथाकामो भवति, तत्क्रतुर्भवति — स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति, सः अविहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते ; क्रतुर्नाम अध्य- वसाय: निश्चयः, यदनन्तरा क्रिया प्रवर्तते । यत्क्रतुर्भवति- यादृक्कामकार्येण क्रतुना यथारूपः क्रतुः अस्य सोऽयं यत्क्र- तुः भवति — तत्कर्म कुरुते यद्विषयः ऋतुः, तत्फलनिर्वृ- - तये यत् योग्यं कर्म, तत् कुरुते निर्वर्तयति । यत् कर्म कुरुते, तत् अभिसंपद्यते तदीयं फलमभिसंपद्यते । तस्मात् सर्वमग्रत्वे अस्य संसारित्वे च काम एव हेतुरिति ॥ . - तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तम- स्य । प्राप्यान्तं कर्मणस्तस्य यत्किचेह क रोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोका- य कर्मण इति नु कामयमानोऽथाकामय- मानो यो कामी निष्काम आप्तकाम आ- त्मकामो न तस्य प्राणा उत्क्रामन्ति ब्र- ह्मैव सन्ब्रह्माप्येति ॥ ६ ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. ' तत् तस्मिन्नर्थे एष श्लोकः मन्वोऽपि भवति । तदेव एति तदेव गच्छति, सक्त आसक्तः तत्र उद्भूताभिलाष: सन्नित्यर्थः ; कथमेति ? सह कर्मणा- कर्म फलासक्तः " - यत् सन् अकरोत् तेन कर्मणा सहैव तत् एति तत्फलमेति ; किं तत् ? लिङ्गं मनः - मनः प्रधानत्वाल्लिङ्गस्य मनो लिङ्ग- मित्युच्यते ; अथवा लिङ्ग्यते अवगम्यते - अवगच्छति - येन, तत् लिङ्गम्, तत् मन: --- यत्र यस्मिन् निषक्तं निश्चयेन सक्तम् उद्भूताभिलाषम् अस्य संसारिणः ; तदभिलाषो हि तत्कर्म कृतवान् ; तस्मात्तन्मनोऽभिषङ्गवशादेव अस्य तेन कर्मणा तत्फलप्राप्तिः । तेन एतत्सिद्धं भवति, कामो मूलं संसारस्येति । अत: उच्छिन्नकामस्य विद्यमानान्यपि कर्मा- णि ब्रह्मविदः वन्ध्याप्रसवानि भवन्ति, ' पर्याप्तकामस्य कृता- त्मनश्च इहैव सर्वे प्रविलीयन्ति कामा: ' इति श्रुते: । किंच प्राप्यान्तं कर्मण:- । -- प्राप्य भुक्त्वा अन्तम् अवसानं यावत्, कर्मणः फलेपरिसमाप्तिं कृत्वेत्यर्थः ; कस्य कर्मणो- ऽन्तं प्राप्येत्युच्यते — तस्य यत्किंच कर्म इह अस्मिन् - ' लोके करोति निर्वर्तयति अयम्, तस्य कर्मण: फलं भुक्त्वा अन्तं प्राप्य, तस्मात् लोकात् पुनः ऐति आगच्छति, अस्मै लोकाय कर्मणे - अयं हि लोकः कर्मप्रधान:, तेनाह 'कर्मणे' इति - पुनः कर्मकरणाय ; पुनः कर्म कृत्वा फला- क. ६.] चतुर्थोऽध्यायः । 1:1 सङ्गवशात् पुनरमुं लोकं याति - - इत्येवम् । इति नु एवं नु, कामयमानः संसरति । यस्मात् कामयमान एव एवं संस- रति, अथ तस्मात्, अकामयमानो न क्वचित्संसरति । फलासक्तस्य हि गतिरुक्ता ; अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यत एव । कथं पुनः अकामयमानो भवति ? य: अकामो भवति, असौ अकामयमानः । कथमकामतेत्यु- च्यते- यो निष्कामः यस्मान्निर्गता: कामाः सोऽयं नि- कामः । कथं कामा निर्गच्छन्ति ? य आप्तकामः भवति आप्ता: कामा येन स आप्तकामः । कथमाप्यन्ते कामा: ? आत्मकामत्वेन, यस्य आत्मैव नान्यः कामयितव्यो वस्त्व- न्तरभूतः पदार्थो भवति ; आत्मैव अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसः नोर्ध्वं न तिर्यक् नाथः आत्मनोऽन्यत् कामयितव्यं वस्त्वन्तरम् - यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्, शृणुयात्, मन्वीत विजानीयाद्वा- एवं विजा. नन्कं कामयेत । ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ; न चासावन्यः ब्रह्मविद आप्तकामस्यास्ति । य एवा- त्मकामतया आप्तकामः, स निष्कामः अकाम: अकामयमा मानश्चेति मुच्यते । न हि यस्य आत्मैव सर्वे भवति, तस्य अनात्मा कामयितव्योऽस्ति । अनात्मा चान्यः कामयि- सर्वे च आत्मैवाभूदिति विप्रतिषिद्धम् । सर्वात्मद तव्यः, - , ६१८ बृहदारण्यकोपनिषद्भाष्ये " [ ब्रा. ४. शिनः कामयितव्याभावात्कर्मानुपपत्तिः । ये तु प्रत्यवाय- परिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां न आत्मैव सर्व भवति, प्रत्यवायस्य जिहासितव्यस्य आत्मनोऽन्यस्य अभिप्रेतत्वात् । येन च अशनायाद्यतीतः नित्यं प्रत्य- वायासंबद्ध: विदित आत्मा, तं वयं ब्रह्मविदं ब्रूमः ; नित्य- मेव अशनायाद्यतीतमात्मानं पश्यति ; यस्माच्च जिहासित- व्यमन्यम् उपादेयं वा यो न पश्यति, तस्य कर्म न श- क्यत एव संबन्धुम् । यस्तु अब्रह्मवित्, तस्य भवत्येव प्रत्य- वायपरिहारार्थं कर्मेति न विरोधः अत: कामाभावात् अकामयमानो न जायते, मुच्यत एव ॥ ; तस्य एवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयः, नोत्क्रामन्ति नोर्ध्व कामन्ति देहात् । स च विद्वान् आप्तकामः आत्मकामतया इहैव ब्रह्मभूत: । सर्वात्मनो हि ब्रह्मणः दृष्टान्तत्वेन प्रदर्शितम् एतद्रूपम् - ' तद्वा अस्यैतदाप्रकाममकामं रूपम्' इति तस्य हि दाट - न्तिकभूतोऽयमर्थ उपसंहियते - अथाकामयमान इत्यादि- ना । स कथमेवंभूतो मुच्यत इत्युच्यते - यो हि सुषुप्ताव - स्थमिव निर्विशेषमद्वैतम् अलुप्तचिद्रूपज्योतिः स्वभावम् आ- त्मानं पश्यति, तस्यैव अकामयमानस्य कर्माभावे गमन- कारणाभावात् प्राणा वागादयो नोत्क्रामन्ति । किंतु विद्वान् क. ६.] चतुर्थोऽध्यायः । • सः इहैव ब्रह्म, यद्यपि देहवानिव लक्ष्यते ; स ब्रह्मैव सन् ब्रह्म अप्येति । यस्मात् न हि तस्य अब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति, तस्मात् इहैव ब्रह्मैव सन् ब्रह्म अप्येति न शरीरपा- तोत्तरकालम् । न हि विदुषो मृतस्य भावान्तरापत्तिः जीव- तोऽन्यः भाव:, देहान्तर प्रतिसंघानाभावमात्रेणैव तु ब्रह्माप्ये- तीत्युच्यते । भावान्तरापत्तौ हि मोनस्य सर्वोपनिषद्विवक्षि तोऽर्थः आत्मैकत्वाख्यः स बाधितो भवेत् कर्महेतुकश्च मोक्षः प्राप्नोति, न ज्ञाननिमित्त इति ; स चानिष्ट: ; अनि- त्यत्वं च मोक्षस्य प्राप्नोति न हि क्रियानिर्वृत्तः अर्थः नित्यो दृष्टः ; नित्यश्च मोक्षोऽभ्युपगम्यते, ' एष नित्यो महिमा' इति मन्त्रवर्णात् । न च स्वाभाविकात् स्वभावात् अन्यत् नित्यं कल्पयितुं शक्यम् । स्वाभाविकश्चेत् अग्न्यु- ष्णवत् आत्मन: स्वभाव:, स न शक्यते पुरुषव्यापारानुभा- वीति वक्तुम् ; न हि अग्नेरौष्ण्यं प्रकाशो वा अग्निव्यापा- रानन्तरानुभावी ; अग्निव्यापारानुभावी स्वाभाविकश्चेति वि- प्रतिषिद्धम् । ज्वलनव्यापारानुभावित्वम् उष्ण प्रकाशयोरिति चेत्, न, अन्योपलब्धिव्यवधानापगमाभिव्यक्त्यपेक्षत्वात् ; ज्वलनादिपूर्वकम् अग्भिः उष्णप्रकाशगुणाभ्यामभिव्यज्यते, तत् न अग्न्यपेक्षया; किं तर्हि अन्यदृष्टेः अरौष्ण्यप्रकाशौ धर्मों, व्यवहितौ, कस्यचिद्दृष्टया तु असंबध्यमानौ, ज्वलनापे- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. क्षया व्यवधानापगमे दृष्टेरभिव्यज्येते; तदपेक्षया भ्रान्तिरु- पजायते-- ज्वलनपूर्वकौ एतौ उष्णप्रकाशौ धर्मों जाता- विति । यदि उष्ण प्रकाशयोरपि स्वाभाविकत्वं न स्यात् - यः स्वाभाविकमेर्धर्मः तमुदाहरिष्यामः न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ॥ " न च निगडभङ्ग इव अभावभूतो मोक्षः बन्धननिवृत्ति- रुपपद्यते, परमात्मैकत्वाभ्युपगमात् 'एकमेवाद्वितीयम्' इति श्रुतेः न चान्यो बद्धोऽस्ति यस्य निगडनिवृत्तिवत् ; " ' बन्धननिवृत्तिः मोक्षः स्यात्; परमात्मव्यतिरेकेण अन्यस्या- भावं विस्तरेण अवादिष्म । तस्मात् अविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति च अबोचाम यथा रज्ज्वादौ सर्पाद्यज्ञा- ननिवृत्तौ सर्पादिनिवृत्तिः ॥ " F येऽप्याचक्षते - मोक्षे विज्ञानान्तरम् आनन्दान्तरं च अभिव्यज्यत इति, तैर्वक्तव्यः अभिव्यक्तिशब्दार्थः । यदि तावत् लौकिक्येव उपलब्धिविषयव्याप्तिः अभिव्यक्तिश- ब्दार्थ:, ततो वक्तव्यम् - किं विद्यमानमभिव्यज्यते, अविद्य- मानमिति वा । विद्यमानं चेत्, यस्य मुक्तस्य तदभिव्य- ज्यते तस्य आत्मभूतमेव तत् इति, उपलब्धिव्यवधानानुप- पत्तेः नित्याभिव्यक्तत्वात्, मुक्तस्य अभिव्यज्यत इति विशे- वचनमनर्थकम् । अथ कदाचिदेव अभिव्यज्यते, उपल- ' चतुर्थोऽध्यायः । = , क. ६.] ब्धिव्यवधानात् अनात्मभूतं तदिति, अन्यतोऽभिव्यक्तिप्रस- ङ्गः ; तथा च अभिव्यक्तिसाधनापेक्षता । उपलब्धिसमानाश्र- यत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदा अभिव्यक्ति:, अन- भिव्यक्तिर्वा ; न तु अन्तरालकल्पनायां प्रमाणमस्ति । न च समानाश्रयाणाम् एकस्य आत्मभूतानां धर्माणाम् इतरेतरवि- षयविषयित्वं संभवति विज्ञानसुखयोश्च प्रागभिव्यक्तेः सं- सारित्वम् अभिव्यक्त्युत्तरकालं च मुक्तत्वं यस्य सोऽन्यः परस्मात् नित्याभिव्यक्तज्ञानस्वरूपात् 'अत्यन्तवैलक्षण्यात्, शैत्यमिव औष्ण्यात्; परमात्मभेदकल्पनायां च वैदिकः कृतान्त: परित्यक्तः : स्यात् । मोक्षस्य इदानीमिव निर्विशे- शेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेत् न, अविद्या भ्रमापोहार्थत्वात् न हि वस्तुतो मु- क्तामुक्तत्व विशेषोऽस्ति, आत्मनो नित्यैकरूपत्वात् ; किंतु तद्वि- षया अविद्या अपोह्यते शास्त्रोपदेशजनितविज्ञानेन ; प्राक्तदु- पदेशप्राप्तेः तदर्थश्च प्रयत्न उपपद्यत एव । अविद्यावत : अविद्या- निवृत्त्यनिवृत्तिकृतः विशेष: आत्मनः स्यादिति चेत्, न, अविद्या कल्पनाविषयत्वाभ्युपगमात् रज्जूषरशुक्तिका गग- नानां सर्पोदकरजतमलिनत्वादिवत्, अदोष इत्यवोचाम । तिमिरातिमिरदृष्टिवत् अविद्याकर्तृत्वाकर्तृत्वकृत आत्मनो वि- शेषः स्यादिति चेत्, न, ' ध्यायतीव लेलायतीव' इति बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात्; अनेकव्यापारसंनि- पातजनितत्वाश्च अविद्याभ्रमस्य ; विषयत्वोपपत्तेश्च ; यस्य च अविद्याभ्रमो घटादिवत् विविक्तो गृह्यते, सः न अ- विद्याभ्रमवान् । अहं न जाने मुग्धोऽस्मीति प्रत्ययदर्शनात् अविद्याभ्रमवत्त्वमेवेति चेत्, न तस्यापि विवेकग्रहणात्; न हि यो यस्य विवेकेन ग्रहीता, स तस्मिन्भ्रान्त इत्युच्य - ते; तस्य च विवेकग्रहणम्, तस्मिन्नेव च भ्रमः - इति विप्रति- षिद्धम् ; न जाने मुग्धोऽस्मीति दृश्यते इति ब्रवीषि - तद्दर्शिनश्च अज्ञानं मुग्धरूपता दृश्यत इति च- तद्दर्शनस्य विषयो भवति, कर्मतामापद्यत इति तत् कथं कर्मभूतं सत् कर्तृस्वरूपदृशिविशेषणम् अज्ञानमुग्धते स्याताम् ? अथ दृशिविशेषणत्वं तयोः, कथं कर्म स्याताम् - दृशिना व्याप्ये- ते ? कर्म हि कर्तृक्रियया व्याप्यमानं भवति ; अन्यश्च व्या- प्यम्, अन्यत् व्यापकम् ; न तेनैव तत् व्याप्यते ; वद, कथम् एवं सति, अज्ञानमुग्धते दृशिविशेषणे स्याताम् ? न च अज्ञानविवेकदर्शी अज्ञानम् आत्मनः कर्मभूतमुपलभ- मानः उपलब्धधर्मत्वेन गृह्णाति, शरीरे कार्श्यरूपादिवत् तथा । सुखदुःखेच्छाप्रयत्नादीन् सर्वो लोकः गृह्णातीति चेत्, तथापि ग्रहीतुर्लोकस्य विविक्ततैव अभ्युपगता स्यात् । न जानेऽहं त्वदुक्तं मुग्ध एव इति चेत्-- भवतु अज्ञो मुग्ध:, क. ६.] चतुर्थोऽध्यायः । , , यस्तु एवंदर्शी, तं ज्ञम् अमुग्धं प्रतिजानीमहे वयम् । तथ व्यासेनोक्तम् - इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति: 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्य- न्तम्--' इत्यादि शतश उक्तम् । तस्मात् न आत्मन: स्व- तः बद्धमुक्तज्ञानाज्ञानकृतो विशेषः अस्ति, सर्वदा समैकर- सस्वाभाव्याभ्युपगमात् । ये तु अतोऽन्यथा आत्मवस्तु प- रिकल्प्य बन्धमोक्षादिशास्त्रं च अर्थवादमापादयन्ति ते उ- त्सहन्ते - खेऽपि शाकुनं पदं द्रष्टुम् खं वा मुष्टिना आ- क्रष्टुम्, चर्मवद्वेष्टितुम्; वयं तु तत् कर्तुमशक्ता: ; सर्वदा समैकरसम् अद्वैतम् अविक्रियम् अजम् अजरम् अमरम् अ- मृतम् अभयम् आत्मतत्त्वं ब्रह्मैव स्मः-- इत्येष सर्ववेदान्त- निश्चितोऽर्थ इत्येवं प्रर्तिपद्यामहे । तम्मात् ब्रह्माध्येतीति उप- चारमात्रमेतत्, विपरीतग्रहव देहसंततेः विच्छेदमात्रं विज्ञा- नफलमपेक्ष्य ॥ " स्वप्नबुद्धान्तगमनदृष्टान्तस्य दाष्टन्तिकः संसारो वर्णि- तः । संसारहेतुश्च विद्याकर्म पूर्वप्रज्ञा वर्णिता । यैश्व उपाधि- भूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति, तानि चोक्तानि । तेषां साक्षात्प्रयोजको धर्माधर्माविति पूर्व- पक्षं कृत्वा, काम एवेत्यवधारितम् । यथा च ब्राह्मणेन अ- यम् अर्थः अवधारितः, एवं मन्त्रेणापीति बन्धं बन्धकारणं S. B. U.II. 18 -बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. च उक्त्वा उपसंहृतं प्रकरणम्- ' इति नु कामयमान: इति । 'अथाकामयमान: ' इत्यारभ्य सुषुप्रदृष्टान्तस्य दाष्ट- न्तिकभूतः सर्वात्मभावो मोक्ष उक्तः । मोक्षकारणं च आ- त्मकामतया यत् आप्तकामत्वमुक्तम्, तच्च सामर्थ्यात् न आत्मज्ञानमन्तरेण आत्मकामतया आप्तकामत्वमिति - सा- मर्थ्यात् ब्रह्मविद्यैव मोक्षकारणमित्युक्तम । अतः यद्यपि कामो मूलमित्युक्तम, तथापि मोक्षकारणविपर्ययेण बन्ध- कारणम् अविद्या इत्येतदपि उक्तमेव भवति । अत्रापि मोक्षः मोक्षसाधनं च ब्राह्मणेनोक्तम् तस्यैव दृढीकरणाय मन्त्र उदायिते श्लोकशब्दवाच्यः- तदेष श्लोको भवति । यदा सर्वे प्रमु च्यन्ते कामा येsस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाहिनियनी वल्मीके मृता प्रत्य- स्ता शयीतैवमेवेद५ शरीर शेतेऽथाय- मशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥ तत् तस्मिन्नेवार्थे एवं श्लोक: मन्त्रो भवति । यदा क. ७.] " चतुर्थोऽध्यायः । यस्मिन्काले सर्वे समस्ताः कामा: तृष्णाप्रभेदाः प्रमुच्यन्ते, आत्मकामस्य ब्रह्मविदः समूलतो विशीर्यन्ते, ये प्रसिद्धा लोके इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणाः अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिता: आश्रिता:- अथ तदा, मर्त्यः मरणधर्मा सन् कामवियोगात्समूलतः, अमृतो भवति ; अर्थात् अनात्मविषया: कामा अविद्यालक्षणा: मृत्यवः इत्ये- तदुक्तं भवति; अत: मृत्युवियोगे विद्वान् जीवन्नेव अमृतो भवति । अत्र अस्मिन्नेव शरीरे वर्तमान: ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः । अतः मोक्षः न देशान्त- रगमनादि अपेक्षते । तस्मात् विदुषो नोत्क्रामन्ति प्राणा:, यथावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ; नाममात्रं हि अवशिष्यते - इत्युक्तम् । कथं पुनः समवनीतेषु प्राणेषु, देहे च स्वकारणे प्रलीने, विद्वान् मुक्त: अत्रैव सर्वात्मा सन् वर्तमानः पुनः पूर्ववत् देहित्वं संसारित्वलक्षणं न प्रतिप- द्यते— इत्यत्रोच्यते-- तत् तत्र अयं दृष्टान्त: ; यथा लोके अहिः सर्पः, तस्य निर्व्वयनी, निर्मोकः, सा अहिनियनी, वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः, मृता प्रत्यस्ता प्रक्षिप्ता अनात्मभावेन सर्पेण परित्यक्ता, शयीत वर्तेत - एवमेव, यथा अयं दृष्टान्तः, इदं शरीरं सर्पस्थानीयेन मुक्तेन अना- त्मभावेन परित्यक्तं मृतमिव शेते । अथ इतर : सर्पस्थानीयो बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. मुक्तः सर्वात्मभूतः सर्पवत् तत्रैव वर्तमानोऽपि अशरीर एव, न पूर्ववत् पुनः सशरीरो भवति । कामकर्मप्रयुक्तशरीरात्म- भावेन हि पूर्व सशरीर मर्त्यश्च तद्वियोगात् अथ इदानीम् ; प्राणितीति प्राण:- ' प्राण- अशरीरः, अत एव च अमृत: ; प्राण:, ' प्राणस्य प्राणम्' इति हि वक्ष्यमाणे श्लोके, बन्धनं हि सोम्य मन:' इति च श्रुत्यन्तरे ; प्रकरणवाक्य- सामर्थ्याच्च पर एव आत्मा अत्र प्राणशब्दवाच्यः ; ब्रह्मैव परमात्मैव । किं पुर्नस्तत् ? तेज एव विज्ञानम् ज्योति:, येन आत्मज्योतिषा जगत् अवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योति - ष्मत् सत् अविभ्रंशत् वर्तते । यः कामप्रश्नो विमोक्षार्थ: याज्ञवल्क्येन वरो दत्तो जनकाय सहेतुकः बन्धमोक्षार्थल- क्षणः दृष्टान्तदाष्टन्तिकभूतः स एष निर्णीतः सविस्तर : जन- कयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या; संसारविमोक्षो - पाय उक्तः प्राणिभ्यः । इदानीं श्रुतिः स्वयमेवाह - विद्यानि - क्रयार्थ जनकेनैवमुक्तमिति; कथम् ? सोऽहम् एवं विमोक्षि- तस्त्वया भगवते तुभ्यं विद्यानिष्क्रयार्थे सहस्रं ददामि - इति ह एवं किल उवाच उक्तवान् जनको वैदेहः । अत्र कस्मा -- द्विमोक्षपदार्थे निर्णीते, विदेहराज्यम् आत्मानमेव च न निवे- दयति, एकदेशोक्ताविव सहस्रमेव ददाति ? तत्र कोऽभिप्राय इति । अत्र केचिद्वर्णयन्ति -- अध्यात्मविद्यारसिको जनक:- क. ८.] चतुर्थोऽध्यायः । श्रुतमप्यर्थं पुनर्मन्त्रैः शुश्रूषति ; अतो न सर्वमेव निवेदयति ; श्रुत्वाभिप्रेतं याज्ञवल्क्यात् पुनरन्ते निवेदयिष्यामीति हि मन्यते ; यदि चात्रैव सर्व निवेदयामि, निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा श्लोकान् न वक्ष्यति इति च भयात् " - सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति । सर्वमप्येतत् असत् पुरुषस्येव प्रमाणभूतायाः श्रुतेः व्याजानुपपत्तेः ; अर्थशेषो- पपत्तेश्व - विमोक्षपदार्थे उक्तेऽपि आत्मज्ञानसाधने, आत्म- ज्ञानशेषभूतः सर्वैषणापरित्यागः संन्यासाख्यः वक्तव्योऽर्थ- शेषः विद्यते ; तस्मात् श्लोकमात्रशुश्रूषा कल्पना अनुज्वी ; अ गतिका हि गतिः पुनरुक्तार्थकल्पना; सा च अयुक्ता सत्यां गतौ । न च तत् स्तुतिमात्रमित्यवोचाम । ननु एवं सति ' अत ऊर्ध्वं विमोक्षायैव' इति वक्तव्यम् - नैष दोष:; आत्मज्ञा- नवत् अप्रयोजकः संन्यासः पक्षे, प्रतिपत्तिकर्मवत् - इति हि मन्यते ; ' संन्यासेन तनुं त्यजेत्' इति स्मृतेः । साधन- त्वपक्षेऽपि न 'अत ऊर्ध्वं विमोक्षायैव' इति प्रश्नमर्हति मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥ तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो माँ स्पृष्टोऽनुवित्तो मयै- व । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥ " , बृहदारण्यकोपनिषद्भाष्ये , " [ ब्रा. ४. , आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मत्रब्राह्मणो- के, विस्तरप्रतिपादका एते श्लोका भवन्ति । अणुः सूक्ष्मः पन्थाः दुर्विज्ञेयत्वात्, विततः विस्तीर्णः, विस्पष्टतरणहेतु- त्वाद्वा ' वितर:' इति पाठान्तरात्, मोक्षसाधनो ज्ञानमार्ग: पुराण: चिरंतन: नित्यश्रुतिप्रकाशितत्वात् न तार्किकबु- द्धिप्रभवकुदृष्टिमार्गवत् अर्वाक्कालिक:, मां स्पृष्टः मया लब्ध इत्यर्थः ; यो हि येन लभ्यते स तं स्पृशतीव संबध्यते ; तेन अयं ब्रह्मविद्यालक्षणो मोक्षमार्गः मया लब्धत्वात् 'मां स्पृष्ट: इत्युच्यते । न केवलं मया लब्धः, किं तु अनुवित्तो मयैव ; अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलाव खानतानिष्ठा प्राप्तिः, भुजेरिव तृप्त्यवसानता; पूर्व तु ज्ञानप्राप्तिसंबन्धमा- त्रमेवेति विशेषः । किम् असावेव मम्बदृक् एकः ब्रह्मविद्या- फलं प्राप्तः, नान्यः प्राप्तवान् येन ' अनुवित्तो मयैव' इ- त्यवधारयति नैष दोष:, अस्याः फलम् आत्मसाक्षिकमनुत्त ममिति ब्रह्मविद्याया: स्तुतिपरत्वात्; एवं हि कृतार्थात्माभि- मानकरम् आत्मप्रत्ययसाक्षिकम् आत्मज्ञानम्, किमतः परम् अन्यत्स्थात्—— इति ब्रह्मविद्यां स्तौति ; न तु पुनः अन्यो ब्रह्मवित् तत्फलं न प्राप्नोतीति, 'तद्यो यो देवानाम्' इति सर्वार्थश्रुतेः; तदेवाह - तेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञा- वन्तः अन्येऽपि ब्रह्मविद इत्यर्थः, अपियन्ति अपिगच्छन्ति, ' , चतुर्थोऽध्यायः ः । ब्रह्मविद्याफलं मोक्षं स्वर्ग लोकम्; स्वर्गलोकशब्दः त्रिविष्टे- पवाच्यपि सन् इह प्रकरणात् मोक्षाभिधायकः ; इतः अ- स्माच्छरीरपातात् ऊर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥ तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गल‍ ह रितं लोहितं च । एष पन्था ब्रह्मणा हा- नुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ तस्मिन् मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ; क- थम् ? तस्मिन् शुकं शुद्धं विमलम् आहुः केचित् मुमुक्षवः ; नीलम् अन्ये, पिङ्गलम् अन्ये, हरितं लोहितं च- यथादर्श- नम् । नाड्यस्तु एताः सुषुम्नाद्याः श्लेष्मादिरस संपूर्णा :- शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् । आदित्यं वा मोक्ष- मार्गम् एवंविधं मन्यन्ते - ' एष शुकु एष नील: ' दिश्रुत्यन्तरात् । दर्शनमार्गस्य च शुक्लादिवर्णासंभवात् । स- थापि तु प्रकृतात् ब्रह्मविद्यामार्गात् अन्ये एते शुक्लादय: । ननु शुल: शुद्धः अद्वैत मार्ग:- : सह अनुद्रवणात्; यान् शुक्लादीन् योगिनो मोक्षप- वाचकैः ' - इत्या- न, नीलपीतादिशब्दैः वर्ण- थान् आहुः, न ते मोक्षमार्गाः; संसारविषया एव हि ते- चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः' इति श- रीरदेशान्निःसरणसंबन्धात् ब्रह्मादिलोकप्रापका हि ते । ' बृहदारण्यकोपनिषद्भाष्ये - [ब्रा. ४. तस्मात् अयमेव मोक्षमार्गः– यः आत्मकामत्वेन आप्तका- मतया सर्वकामक्षये गमनानुपपत्तौ प्रदीपनिर्वाणवत् चक्षु- रादीनां कार्यकरणानाम् अत्रैव समवनय:-- इति एषः ज्ञानमार्गः पन्थाः, ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वेषणेन, अनुवित्तः । तेन ब्रह्मविद्यामार्गेण ब्रह्म- वित् अन्यः अपि एति । कीदृशो ब्रह्मवित् तेन एतीत्यु- च्यते— पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्रावेषणः, परमा- त्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तः तैजसश्व- आत्मभूतः इहैव इत्यर्थः ; ईदृशो ब्रह्मवित् तेन मार्गेण एति । न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणम्, विरोधादित्यवो- चाम; ' अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ता: सं- न्यासिनो यान्ति तस्मै मोक्षात्मने नम:' इति च स्मृते: ; ' त्यज धर्ममधर्मे च' इत्यादि पुण्यापुण्यत्यागोपदेशात्; 'नि- राशिषमनारम्भं निर्नमस्कारमस्तुतिम् । अक्षीणं क्षीणकर्माण तं देवा ब्राह्मणं विदुः ' ' नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्य: ' इत्यादिस्मृतिभ्यश्च । उपदेक्ष्यति च इहापि तु-- ' एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान्' इति कर्मप्रयोजनाभावे हेतुमुक्त्वा, ' तस्मादेवंविच्छान्तो दान्त:' इत्यादिना सर्वक्रियोपरमम् । क. ११.] चतुर्थोऽध्यायः । तस्मात् यथाव्याख्यातमेव पुण्यकृत्त्वम् । अथवा यो ब्रह्म- वित् तेन एति, स पुण्यकृत् तैजसश्च - इति ब्रह्मवित्स्तु- तिरेषा पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं ; लोके, ताभ्याम् अतः ब्रह्मवित् स्तूयते प्रख्यातमहाभाग्य- वाल्लोके ॥ अन्धं तमः प्रविशन्ति येऽविद्यामुपा सते । ततो भूय इव ते तमो य उ वि- द्यायाँ रताः ॥ १० ॥ अन्धम् अदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते ; के ? ये अविद्यां विद्यातोऽन्यां साध्यसाधनल- क्षणाम् उपासते, कर्म अनुवर्तन्त इत्यर्थः ; ततः तस्मादपि ,, ; भूय इव बहुतरमिव तमः प्रविशन्ति के ? ये उ विद्यायाम् अविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायाम्, रता अभिरता: ; विधिप्रतिषेधपर एव वेदः, नान्योऽस्ति- इति, उपनिषदर्थानपेक्षिण इत्यर्थः ॥ अनन्दा नाम ते लोका अन्धेन तम- सावृताः । तास्ते प्रेत्याभिगच्छन्त्य - द्वा सोऽबुधो जनाः ॥ ११ ॥ यदि ते अदर्शनलक्षणं तमः प्रविशन्ति को दोष इत्यु- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. च्यते— अनन्दाः अनानन्दाः असुखा नाम ते लोका:, तेन अन्धेनादर्शनलक्षणेन तमसा आवृता: व्याप्ताः, - ते तस्य अज्ञानतमसो गोचराः ; तान् ते प्रेत्य मृत्वा अभिग- च्छन्ति अभियान्ति; के ? ये अविद्वांस; किं सामान्येन अविद्वत्तामात्रेण ! नेत्युच्यते-- अबुधः, बुधेः अवगमना- र्थस्य धातोः किप्प्रत्ययान्तस्य रूपम् आत्मावगमवर्जिता इत्यर्थः ; जना: प्राकृता एव जननधर्माणो वा इत्येतत् ॥ आत्मानं चेद्विजानीयादयमस्मीति पू. रुषः । किमिच्छन्कस्य कामाय शरीरम- नुसंज्वरेत् ॥ १२ ॥ " आत्मानं स्वं परं सर्वप्राणिमनीषितज्ञं हृत्स्थम् अशनाया- दिधर्मातीतम् चेत् यदि, विजानीयात सहस्त्रेषु कश्चित् ; चेदिति आत्मविद्याया दुर्लभत्वं दर्शयति ; कथम् ? अयम् पर आत्मा सर्वप्राणिप्रत्ययसाक्षी, यः नेति नेतीत्याद्युक्तः, यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता, ममः सर्व- भूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावः अस्मि भवामि - इति पूरुषः पुरुषः सः किमिच्छन्- तत्स्वरूपव्यतिरिक्तम् अन्यद्वस्तु फलभूतं किमिच्छन् कस्य वा अन्यस्य आत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय न हि तस्य आत्मन - क. १३.] चतुर्थोऽध्यायः । एष्टव्यं फलम्, न चाप्यात्मनोऽन्यः अस्ति, यस्य कामाय इच्छति, सर्वस्य आत्मभूतत्वात् ; अतः कि- मिच्छन् कस्य कामाय शरीरमनुसंज्वरेत्, भ्रंशेत्, शरीरो- पाधिकृत दुःखमनु दुःखी स्थात्, शरीरतापमनुतप्येत । अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्त्वन्तरेप्सोः ; ' ममेदं स्यात्, पुत्रस्य इदम् भार्याया इदम्' इत्येवमीहमान: पुन: पुनर्ज- ननमरणप्रबन्धरूढः शरीररोगमनु रुज्यते ; सर्वात्मदर्शिनस्तु तदसंभव इत्येतदाह ॥ ' यखानुवित्तः प्रतिबुद्ध आत्मास्मिन्सं- देह्ये गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ किं च यस्य ब्राह्मणस्य, अनुवित्त: अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम् ? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वे- नावगतः, आत्मा अस्मिन्संदेहो संदेहे अनेकानर्थसंकटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे, प्रविष्टः स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थ: ; स विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् तस्य किं वि. - ' श्वकृदिति नाम इत्याशङ्क्याह- स हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं विश्वकृत् परप्रयुक्तः सन्, r बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः अन्योऽसावि- त्युच्यते - स उ लोक एव; लोकशब्देन आत्मा उच्यते ; तस्य सर्व आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया अनुवित्त: आत्मा अनर्थसंकटे गहने प्रविष्टः, स न संसारी, किं तु पर एव; यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । एक एवाद्वि- तीय: पर एवास्मीत्यनुसंधातव्य इति श्लोकार्थः ॥ इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवे- दिर्महती विनष्टिः । ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥ ॥ ॥ ' किं च इहैव अनेकानर्थसंकुले, सन्तः भवन्तः अज्ञानदी - निद्रामोहिताः सन्तः कथंचिदिव ब्रह्मतत्त्वम् आत्मत्वेन अथ विद्मः विजानीमः, तत् एतद्ब्रह्म प्रकृतम् ; अहो वयं कृतार्था इत्यभिप्रायः । यदेतद्ब्रह्म विजानीमः, तत् न चेत् विदितवन्तो वयम् - वेदनं वेद:, वेदोऽस्यास्तीति वेदी, वे- aa वेदिः, न वेदिः अवेदि:, तत: अहम् अवेदिः स्याम् । यदि अवेदिः स्याम् को दोषः स्यात् ? महती अनन्तपरि- माणा जन्ममरणादिलक्षणा विनष्टि: विनशनम् । अहो व यम् अस्मान्महतो विनाशात् निर्मुक्ताः, यत् अद्वयं ब्रह्म " क. १५. ] चतुर्थोऽध्यायः । विदितवन्त इत्यर्थः । यथा च वयं ब्रह्म विदित्वा अस्माद्वि- नशनाद्विप्रमुक्ताः, एवं ये तद्विदुः अमृतास्ते भवन्ति; ये पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्धयोऽन्ये ब्रह्म इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रति- पद्यन्ते, न कदाचिदपि अविदुषां ततो विनिवृत्तिरित्यर्थः ; दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति ॥ यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ " " ' यदा पुनः एतम् आत्मानम्, कथंचित् परमकारुणिकं कंचिदाचार्य प्राप्य ततो लब्धप्रसादः सन् अनु पश्चात् पश्यति साक्षात्करोति स्वमात्मानम् देवं द्योतनवन्तम् दा- तारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम्, अवसा साक्षात् ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्ये- तत् — न ततः तस्मादीशानाद्देवात् आत्मानं विशेषेण जु- गुप्सते गोपायितुमिच्छति । सर्वो हि लोक ईश्वराद्गुप्तिमि- च्छति भेददर्शी; अयं तु एकत्वदर्शी न बिभेति कुतश्चन ; अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आ- त्मत्वेन पश्यति । न तदा निन्दति वा कंचित् सर्वम् आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात् ॥ ' बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्त- ते । तद्देवा ज्योतिषां ज्योतिरायुर्होपास- तेऽमृतम् ॥ १६ ॥ किं च यस्मात् ईशानात् अर्वाक्, यस्मादन्यविषय एवे - त्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता, यम् . अपरिच्छिन्दन् अर्वागेव वर्तते, अहोभिः स्वावयवैः अं- होरात्रैरित्यर्थः ; तत्, ज्योतिषां ज्योति: आदित्यादिज्योतिषा- मप्यवभामकत्वात्, आयुरित्युपासते देवा:, अमृतं ज्योति:- अतोऽन्यम्रियते न हि ज्योति:; सर्वस्य हि एतज्ज्योति: आयु: । आयुर्गुणेन यस्मात् देवा: तत् ज्योतिरुपासते, तस्मात् आयुष्मन्तस्ते । तस्मात् आयुष्कामेन आयुर्गुणेन उपास्यं ब्रह्मेत्यर्थः ॥ ' यस्मिन्पञ्च पञ्चजना आकाशश्च प्रति- ष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्र- ह्यामृतोऽमृतम् ॥ १७ ॥ किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजना:- - गन्धर्वा- दयः पञ्चैव संख्याताः गन्धर्वाः पितरो देवा असुरा रक्षां- सि - निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्य:- यस्मिन् सूत्रम् ओतं च प्रोतं च- यस्मिन्प्रतिष्ठितः ; " एत- क. १९.] चतुर्थोऽध्यायः । स्मिन्नु खल्वक्षरे गार्ग्याकाश: ' इत्युक्तम् ; तमेव आत्मानम् अमृतं ब्रह्म मन्ये अहम्, न चाहमात्मानं ततोऽन्यत्वेन जाने । किं तर्हि ? अमृतोऽहम् ब्रह्म विद्वान्सन्; अज्ञानमात्रेण तु मर्त्योऽहम् आसम् ; तदपगमात् विद्वानहम् अमृत एव ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रो त्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमज्ज्यम् ॥ १८ ॥ किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राण: सः, तं प्राणस्य प्राणम् ; तथा चक्षुषोऽपि चक्षुः ; उत श्रोत्रस्यापि श्रोत्रम् ; ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् ; स्वतः काष्ठलेोष्टसमानि हि तानि चैतन्यात्मज्योतिः शून्यानि मनसोऽपि मनः - इति ये विदुः - चक्षुरादिव्यापारानुमि- तास्तित्वं प्रत्यगात्मानम्, न विषयभूतम् ये विदुः - ते निचि- क्यु: निश्चयेन ज्ञातवन्त: ब्रह्म पुराणं चिरंतनम्, अग्र्यम् अग्रे भवम् । ' तद्यदात्मविदो विदुः' इति ह्याथर्वणे ॥ ' मनसैवानुद्रष्टव्यं नेह नानास्ति किंच- न । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥ बृहदारण्यकोपनिषद्भाष्ये [बा. ४. तद्ब्रह्मदर्शने साधनमुच्यते — मनसैव परमार्थज्ञानसं- स्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम् । तत्र च दर्श- नविषये ब्रह्मणि न इह नाना अस्ति किंचन किंचिदपि I; असति नानात्वे, नानात्वमध्यारोपयति अविद्यया । सः मृत्योः मरणात्, मृत्युं मरणम् आप्नोति ; कोऽसौ ? य इह नानेव पश्यति । अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥ एकधैवानुद्रष्टव्यमेतद्प्रमयं ध्रुवम् । विरजः पर आकाशादज आत्मा महा- ध्रुवः ॥ २० ॥ यस्मादेवम् तस्मात्, एकधैव एकेनैव प्रकारेण विज्ञानघ- नैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम् यस्मात् एतद्ब्रह्म अप्रमयम् अप्रमेयम्, सर्वैकत्वात्; अन्येन हि अन्यत् प्रमीयते ; इदं तु एकमेव, अत: अप्रमेयम् ; ध्रुवं नित्यं कूटस्थम् अविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते - अप्रमेयं ज्ञायत इति च; ' ज्ञायते ' इति प्रमाणैर्मीयत इत्यर्थः, ' अप्रमेयम्' इति च तत्प्रतिषेध:- नैष दोष:, अन्यवस्तुवत् अनागम- प्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ; यथा अन्यानि वस्तूनि आ- गमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आ- त्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते; सर्वस्यात्मत्वे -- क. २०.] चतुर्थोऽध्यायः । केन कं पश्येत् विजानीयात् इति प्रमातृप्रमाणादिव्या- पारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधा- नाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन ; तस्मात् न आगमेनापि स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते ; प्रतिपादयित्रात्मभूतं हि तत्; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात्, भेदे हि सति तत् भवति । ज्ञानं च तस्मिन् परात्मभाव - निवृत्तिरेव ; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्य- मानत्वादात्मभावस्य ; नित्यो हि आत्मभावः सर्वस्य अत- द्विषय इव प्रत्यवभासते ; तस्मात् अतद्विषयाभासनिवृत्ति- व्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ; अन्यात्मभावनि- वृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो भवतीति - आत्मा ज्ञायत इत्युच्यते ; स्वतश्चाप्रमेयः प्रमा णान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव । वि- रजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित इत्येतत् । परः- परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आका- शादपि अव्याकृताख्यात् । अज: न जायते; जन्मप्रतिषे- धातू उत्तरेऽपि भावविकाराः प्रतिषिद्धाः सर्वेषां जन्मादि- त्वात् । आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात् । ध्रुवः अविनाशी ॥ S. B. U.II. 19 ., बृहदारण्यकोपनिषद्भाष्ये F [ ब्रा. ४. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्रा- ह्मणः । नानुध्यायाद्बहुञ्छन्दान्वाचो वि. ग्लापन हि तदिति ॥ २१ ॥ तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशत: शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्ति- करीम्, कुर्वीत ब्राह्मणः -- एवं प्रज्ञाकरणसाधनानि संन्यास- शमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः । न अनुध्या- यात् नानुचिन्तयेत्, बहून् प्रभूतान् शब्दान्; तत्र बहुत्वप्र- तिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञाय- न्ते ; ' ओमित्येवं ध्यायथ आत्मानम् ' ' अन्या वाचो विमु- थ' इति च आथर्वणे। वाचो विग्लापनं विशेषेण ग्लानि- करं श्रमकरम, हि यस्मात् तत् बहुशब्दाभिध्यानमिति ॥ स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आ काशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्ये- शानः सर्वस्याधिपतिः स न साधुना क- र्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्बिधरण एषां. लोकानामसंभेदाय ॥ क. २२.] चतुर्थोऽध्यायः । तमेतं वेदानुवचनेन ब्राह्मणा विविदिष- न्ति यज्ञेन दानेन तपसानाशकेनैतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत्पूर्वे विद्वासः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तै- षणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एक भवतः । स एष नेति ने- त्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्य- थते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्यु- हैवैष एते तरति नैनं कृताकृते तपतः ॥ सहेतुकौ बन्धमोक्ष अभिहितौ मन्त्रब्राह्मणाभ्याम् ; लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् एवम् एतस्मिन् आत्मविषये सर्वो वेद: यथा उपयुक्तो भवति, बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. १. तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते । तच यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव उपयोग: कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य -- इत्येव - मर्थ उक्तार्थानुवादः 'स वा एष:' इत्यादिः । स इति उक्त- परामर्शार्थः ; कोऽसौ उक्तः परामृश्यते ? तं प्रतिनिर्दिशति- य एष विज्ञानमय इति - अतीतानन्तरवाक्योक्तसंप्रत्ययो मा भूदिति य एषः कतमः एषः इत्युच्यते- विज्ञानमय: प्राणेष्विति; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम् ; उक्तं हि पूर्व जनकप्रश्नारम्भे 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु ' इत्यादि । एतदुक्तं भवति -- योऽयम् 'विज्ञानमयः प्राणेषु ' इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एष: कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षित: पर- मात्मभावमापादित:- पर एवायं नान्य इति ; एष स: सा- क्षान्महानज आत्मेत्युक्तः । योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव । य एषः अन्तर्हृदये हृदयपुण्डरीक- मध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन्नाकाशे बुद्धिविज्ञानसहिते शेते तिष्ठति ; अथवा संप्रसादकाले अन्त- हृदये य एष आकाश पर एव आत्मा निरुपाधिक: वि- ज्ञानमयस्य स्वस्वभाव:, तस्मिन् स्वस्वभावे परमात्मनि आ- काशाख्ये शेते; चतुर्थे एतव्याख्यातम् 'कैष तदाभूत्' इत्यस्य क. २२.] चतुर्थोऽध्यायः । " , प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेः वशी; सर्वो हि अस्य वशे वर्तते; उक्तं च ' एतस्य वा अक्षरस्य प्रशासने ' इति । न केवलं वशी, सर्वस्य ईशान: ईशिता च ब्रह्मेन्द्र - प्रभृतीनाम् । ईशितृत्वं च कदाचित् जातिकृतम्, यथा राज- कुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह - सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः ; न राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतत् वशित्वादि हेतुहेतुमद्रूपम् -- यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्ये- शान: ; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति प्रसिद्धम्, यस्माच्च सर्वस्येशानः तस्मात् सर्वस्य व- शीति । किंचान्यत् स एवंभूतो हृद्यन्तर्ज्योति: पुरुषो विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति, न वर्धते पूर्वावस्थात: केनचिद्धर्मेण ; नो एव शास्त्रप्रतिषि- द्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वाव- स्थातो न हीयत इत्यर्थः । किं च सर्वो हि अधिष्ठानपाल- नादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते ; अस्यैव तु कथं तदभाव इत्युच्यते -- यस्मात् एष सर्वेश्वरः सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा संबध्यते । किं च एष भूताधिपति: ब्रह्मादिस्तम्बपर्यन्तानां भूतानामधिपतिरित्युक्तार्थे पदम् । एष भूतानां तेषामेव पा- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. लयिता रक्षिता । एष सेतुः ; किंविशिष्ट इत्याह - विधरण : वर्णाश्रमादिव्यवस्थाया विधारयिता; तदाह- एषां भूरा- दीनां ब्रह्मलोकान्तानां लोकानाम् असंभेदाय असं भिन्नमर्या दायै; परमेश्वरेण सेतुवद विधार्यमाणा लोकाः संभिन्नमर्यादा: स्युः ; अतो लोकानामसंभेदाय सेतुभूतोऽयं परमेश्वरः, यः स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी- इत्यादि ब्रह्मविद्या- याः फलमेतन्निर्दिष्टम् । 'किंज्योतिरयं पुरुष: ' इत्येवमादि- षष्ठप्रपाठक विहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम् काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते ; तत् कथमित्युच्यते— तमेतम् एवंभूतमौपनिषदं पुरुषम्, वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्याय लक्षणेन, विविदिषन्ति वेदितुमिच्छन्ति; के ? ब्राह्मणाः; ब्राह्मणग्रह- णमुपलक्षणार्थम् अविशिष्टो हि अधिकार : त्रयाणां वर्णा- नाम्; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन वि विदिषन्ति ; कथं विविदिषन्तीत्युच्यते - यज्ञेनेत्यादि ॥ ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदिषन्ति - इति व्याचक्षते, तेषाम् आरण्यकमात्रमेव वेदा- नुवचनं स्यात् ; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते ; ' तं त्वौपनिषदम्' इति विशेषश्रुतेः । वेदानुवचनेनेति च अवि- क. २२.] चतुर्थोऽध्यायः । शेषितत्वात् समस्तग्राहि इदं वचनम् ; न च तदेकदेशोत्सर्गः युक्तः । ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात्- न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति ; यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा उपनिषदपि गृहीतैवेति वेदानुवचनशब्दार्थैकदेशो न परि- त्यक्तो भवति । यज्ञादिसहपाठाश्च -- यज्ञादीनि कर्माण्येव अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते; तस्मात् कर्मैव वेदा- नुवचनशब्देनोच्यत इति गम्यते ; कर्म हि नित्यस्वाध्यायः ॥ कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं वि- विदिषन्ति नैव हि तानि आत्मानं प्रकाशयन्ति, यथा उपनिषद: - नैष दोष:, कर्मणां विशुद्धिहेतुत्वात्; कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्र- काशितम् अप्रतिबन्धेन वेदितुम्; तथा ह्याथर्वणे - 'विशु- द्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमान: ' इति ; स्मृति- श्व 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण:' इत्यादिः । कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ' स आत्मयाजी यो वेदेदं मेऽनेनाङ्कं संस्क्रियत इवं मे- ऽनेनाङ्गमुपधीयते' इत्यादिश्रुतेः सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येव आचक्षते ' अष्टाचत्वारिंशत्संस्का- बृहदारण्यकोपनिषद्भाष्ये 1 - [ब्रा. रा:' इत्यादिषु । गीतासु च -- 'यज्ञो दानं तपश्चैव पाव- नानि मनीषिणाम् । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्म- षा: इति । यज्ञेनेति — द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्का- रार्था: ; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यति ; अतो यज्ञेन विविदिषन्ति । दानेन दानमपि पापक्षय हेतुत्वात् धर्मवृद्धिहेतुत्वाच्च । तपसा, तप इति अवि- शेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम्-- अनाशकेनेति ; कामानशनम् अनाशकम्, न तु भोजननिवृत्तिः ; भोजन- निवृत्तौ म्रियत एव न आत्मवेदनम् । वेदानुवचनय- ज्ञदानतपः शब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते; एवं काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्ति- द्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य एकवाक्यतावगतिः । एवं यथोक्तेन न्यायेन एतमेव आत्मानं विदित्वा यथाप्रकाशितम्, मुनिर्भवति, मननान्मु- निः, योगी भवतीत्यर्थः ; एतमेव विदित्वा मुनिर्भवति, ना- न्यम् । ननु अन्यवेदनेऽपि मुनित्वं स्यात् ; कथमवधार्यते- एतमेवेति-- बाढम्, अन्य वेदनेऽपि मुनिर्भवेत् किं तु अ- ; न्यवेदने न मुनिरेव स्यात्, किं तर्हि कर्म्यपि भवेत् सः ; ए- तं तु औपनिषदं पुरुषं विदित्वा मुनिरेव स्यात्, न तु कर्मी; अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति- ' क. २२.] चतुर्थोऽध्यायः । , एतमेवेति ; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रिया- संभवात् मननमेव स्यात् । किं च एतमेव आत्मानं स्वं लो- कम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः । ' एतमेव लोकमिच्छन्तः' इत्यवधारणात् न बाह्यलोक- त्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुख: प्रैति । तस्मात् बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम्, 'पुत्रे- णायं लोको जय्यो नान्येन कर्मणा' इत्यादिश्रुतेः ; अतः तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं युक्तम्, अतत्साधनत्वात्पारिव्राज्यस्य । तस्मात् ' एतमेव लो- कमिच्छन्तः प्रव्रजन्ति " इति युक्तमवधारणम् । आत्मलोक- प्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मात् आ- त्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव आत्मलोकसाधनं मुख्यम् अन्तरङ्गम्, यथा पुत्रादिरेव बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असा- धनत्वात् । असंभवेन च विरुद्धत्वमवोचाम । तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो नि. वर्तेरन्नवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिन: प्रतिनिय- तानि पुत्रादीनि साधनानि विहितानि एवमात्मलोकार्थिनः , बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. सर्वैषणानिवृत्ति: पारिव्राज्यं ब्रह्मविदो विधीयत एव । कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते ; तत्र अ र्थवादवाक्यरूपेण हेतुं दर्शयति- एतद्ध स्म वै तत् । तदे- तत् पारिव्राज्ये कारणमुच्यते-- ह स्म वै किल पूर्वे अति- क्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्म- विद्यां च ; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं निर्दिश्यते ' प्रजाम्' इति । प्रजां किम् ? न कामयन्ते, पुत्रा- दिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः । ननु अपरब्रह्मद- र्शनमनुतिष्ठन्त्येव तद्बलाद्धि व्युत्थानम् - न अपवादात्; 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' ' सर्व तं परादा- त्—' इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि सर्वमध्यान्तर्भावात् 'यत्र नान्यत्पश्यति' इति च पूर्वा- परबाह्यान्तरदर्शनप्रतिषेधाश्च अपूर्वमनपरमनन्तरमबाह्यमिति; ' तत्केन कं पश्येद्विजानीयात् ' इति च; तस्मात् न आत्मदर्श नव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते । कः पुनः तेषा- मभिप्राय इत्युच्यते - किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता; स च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्त: ; सर्व हि अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूता: ; आत्मा च नः आत्मत्वादेव न कनचित् सोधनेन उत्पाद्यः " "; क. २२.] आप्यः चतुर्थोऽध्यायः । विकार्यः संस्कार्यो वा । यदपि आत्मयाजिनः सं- स्कारार्थे कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे अनेन अङ्गं संस्क्रियते इति अङ्गाङ्गित्वादिश्रवणात्; न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं संभवति । तस्मात् न किंचित् प्रजादिसाधनैः करिष्यामः ; अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृग- तृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊ- परमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता एवम् अ- स्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृ- ष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः । तदेतदुच्यते-- येषाम् अस्माकं परमार्थदर्शिनां नः, अय- मात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं लोकः फलमभिप्रेतम् ; न चास्य आत्मनः साध्य साधनादि- सर्वसंसारधर्मविनिर्मुक्तस्य साधनं किंचित् एषितव्यम्; सा- ध्यस्य हि साधनान्वेषणा क्रियते ; असाध्यस्य साधनान्वे - षणायां हि, जलबुद्धया स्थल इव तरणं कृतं स्यात्, खे. वा शाकुन पदान्वेषणम् । तस्मात् एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः यस्मात् पूर्वे ब्राह्मणा एवं विद्वांस: प्रजामकामयमाना: । ते एवं साध्यसाधना संव्यवहारं निन्दन्तः अविद्वद्विषयोऽय " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. मिति कृत्वा किं कृतवन्त इत्युच्यते-- ते ह स्म किल पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भि- श्राचर्यं चरन्तीत्यादि व्याख्यातम् ॥ तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयु:- इत्येष विधिः अर्थवादेन संगच्छते ; न हि सार्थवादस्य अस्य लोक स्तुत्याभिमुख्यम् उपपद्यते ; प्रब्रजन्तीत्यस्यार्थवा- दरूपो हि 'एतद्ध स्म' इत्यादिरुत्तरो ग्रन्थ : ; अर्थवादश्चेत्, नार्थवादान्तरमपेक्षेत; अपेक्षते तु 'एतद्ध स्म' इत्याद्यर्थवाद ' प्रव्रजन्ति' इत्येतत्। यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रत्र- जन्ति प्रव्रजेयुः -- इत्येवं संबध्यमानं न लोकस्तुत्यभिमुखं भवितुमर्हति ; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवो- चाम । वेदानुवचनादिसहपाठाश्च; यथा आत्मवेदनसाधनत्वे- न विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम्, तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधन- त्वे अर्थवादत्वमयुक्तम् । फलविभागोपदेशाश्च ; ' एतमेवा- त्मानं लोकं विदित्वा' इति अन्यस्मात् बाह्यात् लोकात् आ- त्मानं फलान्तरत्वेन ं प्रविभजति, यथा- पुत्रेणैवायं लोको जय्यः नान्येन कर्मणा, कर्मणा पितृलोक:- इति । न च प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम्, प्रधानवच्च अर्थ - तथा क. २२.] चतुर्थोऽध्यायः । वादापेक्षम् — सकृच्छ्रतं स्यात् । तस्मात् भ्रान्तिरेव एषा- लोक स्तुतिपरमिति । न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरु- पपद्यते यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थ स्यात्, दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात् । न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारि- ब्राज्यस्य, स इहैव मुख्यः नान्यत्र संभवति । यदपि अन- धिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणा- द्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वावि- शेषात् । तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम् ॥ यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव न आरभेरन्, किं पारिव्राज्येन- इत्यत्रोच्यते- अस्य आत्मलोकस्य कर्मभिरसंबन्धात्; यमात्मानमिच्छन्तः प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादि- प्रकाराणामन्यतमत्वेनापि कर्मभिः न संबध्यते; तस्मात्- स एष नेति नेत्यात्मागृह्यो, न हि गृह्यते- इत्यादिलक्षण: ; यस्मात् एवंलक्षण आत्मा कर्मफलसाधनासंबन्धी सर्वसं- सारधर्मविलक्षण: अशनायाद्यतीत: अस्थूलादिधर्मवान् अ- जोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभाव: बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. स्वयं ज्योतिः एक एवाद्वयः अपूर्वोऽनपरोऽनन्तरोऽबाह्यः -- इत्येतत् आगमतस्तर्कतश्च स्थापितम्, विशेषतश्चेह जनकया- ज्ञवल्क्यसंवादे अस्मिन् तस्मात् एवंलक्षणे आत्मनि विदिते आत्मत्वेन नैव कर्मारम्भ उपपद्यते । तस्मादात्मा निर्विशेषः न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति ; - कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात् ; न च अय- प्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति ; ' अत्के चेन्मधु वि. देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वा- न्यन्नमाचरेत् ' ' सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते -' इति गीतासु । इहापि च एतस्यैव परमानन्दस्य ब्रह्मवि. स्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् । अतो ब्रह्मविदां न कर्मारम्भः ॥ C यस्मात् सर्वेषणाविनिवृत्तः स एष नेति नेत्यात्मानमा- - त्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् एतम् एवंविदं नेति नेत्यात्मभूतम्, उ ह एव एते वक्ष्यमाणे न तरतः न प्राप्नु तः - इति युक्तमेवेति वाक्यशेषः । के ते इत्युच्यते-अतः अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म अकरवं कृतवानस्मि - कष्टं खलु मम वृत्तम्, अनेन पापेन कर्मणा अहं नरकं प्रतिपत्स्ये- इति योऽयं पश्चात् पापं कर्म कृतवत: -- परितापः स एनं नेति नेत्यात्मभूतं न क. २३.] चतुर्थोऽध्यायः । तरति ; तथा अतः कल्याणं फलविषयकामा मान्निमित्तात् यज्ञ- दानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम् अस्य फलं सुखमुपभोक्ष्ये देहान्तरे - इत्येषोऽपि हर्ष : तं न तरति । उभे उ ह एव एष: ब्रह्मवित् एते कर्मणी तरति पुण्यपापलक्षणे । एवं ब्रह्मविदः संन्यासिन उभे अपि क- र्मणी श्रीयेते - पूर्वजन्मनि कृते ये ते, इह जन्मनि कृते ये ते च; अपूर्वे च न आरभ्येते । किं च नैनं कृताकृते, कृतं नित्यानुष्ठानम्, अकृतं तस्यैव अक्रिया, ते अपि कृता- कृते एनं न तपत: ; अनात्मज्ञं हि, कृतं फलदानेन, अकृतं प्रत्यवायोत्पादनेन, तपत:; अयं तु ब्रह्मवित् आत्मविद्याद्मिना सर्वाणि कर्माणि भस्मीकरोति, 'यथैधांसि समिद्धोऽग्निः ' इत्यादिस्मृतेः; शरीरारम्भकयोस्तु उपभोगेनैव क्षयः । अतो ब्रह्मवित् अकर्मसंबन्धी ॥ तदेतदृचाभ्युक्तम् । एष नित्यो महि- मा ब्राह्मणस्य न वर्धते कर्मणा नोक- नीयान् । तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा, पापकेनेति । तस्मादे- वंविच्छान्तो दान्त उपरतस्तितिक्षुः स- माहितो भूत्वात्मन्येवात्मानं पश्यति स- र्वमात्मानं पश्यति नैनं पाप्मा तरति बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. सर्व पाप्मानं तरति नैनं पाप्मा तपति सर्व पाप्मानं तपति विपापो विरजो- विचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलो- कः सम्राडेनं प्रापितोऽसीति होवाच या- ज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि मां चापि सह दास्यायेति ॥ २३ ॥ तदेतद्वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तम् प्रका- शितम् । एषः नेति नेत्यादिलक्षणः नित्यो महिमा ; अन्ये तु महिमानः कर्मकृता इत्यनित्या: ; अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वेषणस्य । कुतोऽस्य नित्यत्वमिति हेतुमाह- कर्मणा न वर्धते शुभलक्ष- णेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति; अशुभेन कर्मणा नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ; उपचयाप- चहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्य- न्ते ; अत: अविक्रियात्वात् नित्य एष महिमा । तस्मात् तस्यैव महिम्नः, स्यात् भवेत्, पदवित् - पदस्य वेत्ता, पद्यते गम्यते ज्ञायत इति महिम्न: स्वरूपमेव पदम् तस्य पदस्य वेदिता । किं तत्पदवेदनेन स्यादित्युच्यते-- तं विदित्वा महिमानम्, न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन, उभयमपि पापकमेव विदुषः । यस्मादेवम् अकर्म संबन्धी " क. २३.] चतुर्थोऽध्यायः । ' एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवं- वित् शान्त: ब्राह्येन्द्रियव्यापारत उपशान्तः, तथा दान्त: अन्तःकरणतृष्णातो निवृत्त:, उपरतः सर्वैषणा विनिर्मुक्तः संन्यासी, तितिक्षुः द्वंद्वसहिष्णुः समाहितः इन्द्रियान्त: क- रणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा ; तदुक्तं पुरस्तात् 'बाल्यं च पाण्डित्यं च निर्विद्य' इति ; आ- मन्येव स्वे कार्यकरणसंघाते आत्मानं प्रत्यक्चेतयितारं पश्य- ति । तत्र किं तावन्मात्रं परिच्छिन्नम् ? नेत्युच्यते – सर्वे सम- स्तम् - .1 दे- आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्र- मात्रमध्यस्तीत्येवं पश्यति ; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषु- प्नाख्यं स्थानत्रयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पु- ण्यपापलक्षणः तरति, र्न प्राप्नोति; अयं तु ब्रह्मवित् सर्वे पा- मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति । नैनं पा- प्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम् ; सर्व पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मी- करोति । स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः विगतरज:, रजः कामः, विसतकामः, अविचिकित्स: छिन्न- संशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमति: ब्राह्मणो भवति - अयं तु एवंभूतः एतस्यामवस्थायां मुख्यो ब्राह्म- प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम् । OT:, S. B. U. II. 20 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. एष ब्रह्मलोक : --- ब्रह्मैव लोको ब्रह्मलोक: मुख्यो निरुपच- रितः सर्वात्मभावलक्षण, हे सम्राट् । एनं ब्रह्मलोकं परि- प्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् -- इति होवाच याज्ञवल्क्यः । एवं ब्रह्मभूतो जनक: याज्ञवल्क्येन ब्रह्मभा- वमापादितः प्रत्याह-- सोऽहं त्वया ब्रह्मभावमापादितः सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं ददामि, मां च सह विदेहैः दास्याय दासकर्मणे - ददामीति च शब्दात्संबध्यते । परिसमापिता ब्रह्मविद्या सह संन्यासेन साङ्गा सेतिकर्तव्यताका ; परिसमाप्तः परमपुरुषार्थ : ; एता- वत् पुरुषेण कर्तव्यम् एषा निष्ठा, एषा परा गतिः, एत- निःश्रेयसम् एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति एतत् सर्ववेदानुशासनमिति ॥ स ' 6 ' स वा एष महानज आत्मान्नादो वसु- दानो विन्दते वसु य एवं वेद ॥ २४ ॥ योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा वै एषः महान् अज: आत्मा अन्नादः सर्वभूतस्थः सर्वा - नानामत्ता, वसुदान:- वसु धनं सर्वप्राणिकर्मफलम् - तस्य दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ; तमेतम् अ- जमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम् यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमन्ति, विन्दते च वसु क. २५.] चतुर्थोऽध्यायः । सर्वे कर्मफलजातं लभते सर्वात्मत्वादेव, य एवं यथोक्तं वेद । अथवा दृष्टफलार्थिभिरपि एवंगुण उपास्य: ; तेन अन्नादः वसोच लब्धा, दृष्टेनैव फलेन अन्नात्तृत्वेन गोश्वादिना च अस्य योगो भवतीत्यर्थः ॥ स वा एष महानज आत्माजरोऽमरो- ऽमृतोऽभ्यो ब्रह्माभयं वै ब्रह्माभय हि वै ब्रह्म भवति य एवं वेद ॥ २५ ॥ इति चतुर्थ ब्राह्मणम् ॥ " इदानीं समस्तस्यैव आरण्यकस्य योऽर्थ उक्तः, स समु- चित्य अस्यां कण्डिकायां निर्दिश्यते एतावान्समस्तारण्य- कार्थ इति । स वा एष' महानज आत्मा अजर: न जीर्यत इति, न विपरिणमत इत्यर्थ: ; अमर:- यस्माच्च अजर:, तस्मात् अमर:, न म्रियत इत्यमर: ; यो हि जायते जीर्यते च, सविनश्यति म्रियते वा ; अयं तु अजत्वात् अजरत्वाच्च अविनाशी यतः, अंत एव अमृत: । यस्मात् जनिप्रभृतिभिः त्रिभिर्भावविकारै: वर्जितः, तस्मात् इतरैरपि भावविकारै- स्त्रिभिः तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वर्जित इत्येतत् । अभय: अत एव ; यस्माच्च एवं पूर्वोक्तविशेषणः, तस्माद्भय- वर्जित: ; भयं च हि नाम अविद्याकार्यम् ; तत्कार्यप्रतिषेधेन बृहदारण्यकोपनिद्भाष्ये [ब्रा. ४. भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदित- व्यः । अभय आत्मा एवंगुणविशिष्ट: किमसौ ? ब्रह्म परिवृढं निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म ; प्रसिद्धमेतत् लोके -- अभयं ब्रह्मेति । तस्माद्युक्तम् एवंगुणविशिष्ट आत्मा ब्र ह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि वै ब्रह्म भवति । एष सर्वस्या उपनिषदः संक्षिप्तोऽर्थ उक्त: । एतस्यैवार्थख सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदि - तम् । यथा एकप्रभृत्यापरार्ध संख्यास्वरूपपरिज्ञानाय रेखा- ध्यारोपणं कृत्वा - एकेयं रेखा, दशेयम्, शतेयम्, सहस्रे - यम् - इति प्राहयति, अवगमयति संख्यास्वरूपं केवलम् न तु संख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि वि- जिग्राहयिषुः पत्रमषी रेखादिसंयोगोपायमास्थाय वर्णानां सत- स्वमावेदयति, न पत्रमध्याद्यात्मतामक्षराणां प्राहयति तथा चेह उत्पस्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम्, पुनः वत्कल्पितोपायजनितविशेष परिशोधनार्थे नेति नेतीति तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति ॥ इति चतुर्थाध्यायस्य चतुर्थे ब्राह्मणम् ॥ - पञ्चमं ब्राह्मणम् ॥ ง आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुन: तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्ष- परिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्य संबन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् । अथेदानों निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते; अयं च न्यायः वाक्य कोविदैः परिगृहीत: - 'हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ' इति । अथवा आगमप्रधानेन मधुका- ण्डेन यत् अमृतत्वसाधनं ससंन्यासमात्मज्ञानमभिहितम्, तदेव तर्केणापि अमृतत्वसाधनं ससंन्यासमात्मज्ञानमधि- गम्यते; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शा- तर्काभ्यां निश्चितमेतत् - यदेतत् आत्मज्ञानं ससंन्यासम् अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रति- पित्सुभिः एतत् प्रतिपत्तव्यमिति; आगमोपपत्तिभ्यां हि नि- श्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति । अक्षराणां तु चतुर्थे यथा व्याख्यातोऽर्थः तथा प्रतिपत्तव्योऽत्रापि; या- न्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥ " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूव- तुमैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि का- त्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपा- करिष्यन् ॥ १ ॥ " अथेति हेतूपदेशानन्तर्य प्रदर्शनार्थः । हेतुप्रधानानि हि वाक्यानि अतीतानि । तदनन्तरम् आगमप्रधानेन प्रतिज्ञा- तोऽर्थः निगम्यते मैत्रेयीब्राह्मणेन । ह-शब्दः वृत्तावद्योतकः । याज्ञवल्क्यस्य ऋषेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् - मैत्रेयी च नामत एका, अपरा कात्यायनी नामतः । तयो- भयो: मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव आसीत् ; स्त्रीप्रज्ञा- स्त्रियां या उचिता सा स्त्रीप्रज्ञा - सैव यस्या: प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काले आसीत् कात्यायनी । अथ एवं सति ह किल याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारित्रा- ज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन् ॥ मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्र- जिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ २ ॥ क. ५.] चतुर्थोऽध्यायः । हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास आमन्त्र्य चो- वाच ह - प्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि अस्मात् स्थानात् गार्हस्थ्यात् अहम् अस्मि भवामि । मैत्रेयि अनुजानीहि माम्; हन्त इच्छसि यदि ते अनया कात्या- यन्या अन्तम् करवाणि - इत्यादि व्याख्यातम् ॥ सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्यां न्वहं तेनामृताहो३ नेति नेति होवाच याज्ञव- ल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवित‍ स्यादमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ ३ ॥ सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्या यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ४॥ सा एवमुक्ता उवाच मैत्रेयी — सर्वेयं पृथिवी वित्तेन पूर्णा स्यात् नु किम् स्याम्, किमहं वित्तसाध्येन कर्मणा अमृता, आहो न स्यामिति । नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥ स होवाच याज्ञवल्क्यः प्रिया वै खलु बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. नो भवती सती प्रियमवृधद्धन्त तर्हि भ वत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥ स ह उवाच - प्रियैव पूर्व खलु नः अस्मभ्यम् भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धा रितवती असि ; अत: तुष्टोऽहम् ; हन्त इच्छसि चेत् अमृ- तत्वसाधनं ज्ञातुम्, हे भवति, ते तुभ्यं तत् अमृतत्वसाधनं व्याख्यास्यामि ॥ " स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामा- य जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु का- माय पुत्राः प्रिया भवन्ति । न वा अरे वि- तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रिया भवन्त्यात्म- नस्तु कामाय पशवः प्रिया भवन्ति । न क्र. ६.] चतुर्थोऽध्यायः । वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भव- त्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियंभ- वत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रि- या भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वे- दाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मन- स्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भ- वत्यात्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे दृष्टव्यः श्रोतव्यो मन्त- व्यो निदिध्यासितव्यो मैत्रेय्यात्मनि ख- ल्वरे दृष्टे श्रुते मते विज्ञात इद सर्व वि- दितम् ॥ ६ ॥ . बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५० आत्मनि खलु अरे मैत्रेयि दृष्टे ; कथं दृष्ट आत्मनीति, उच्यते - पूर्वम् आचार्यागमाभ्यां श्रुते, पुनः तर्केणोपपत्त्या मते विचारिते, श्रवणं तु आगममात्रेण, मते उपपत्त्या, पश्चात् विज्ञाते - एवमेतत् नान्यथेति निर्धारिते; किं भव- तीत्युच्यते - इदं विदितं भवति ; इदं सर्वमिति यत् आत्म- नोऽन्यत्, आत्मव्यतिरेकेणाभावात् ॥ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लो- कान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो दे वान्वेद वेदास्तं परादुर्योऽन्यत्वात्मनो वे- दावेद भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्व तं परादाद्योऽन्यत्रात्म- नः सर्व वेदेदं ब्रह्मेदं क्षत्रमिमे लोका हमे देवा इमे वेदा इमानि भूतानीद सर्व यद्यमात्मा ॥ ७ ॥ स यथा दुन्दुभेर्हन्यमानस्य न बाह्या- ञ्छब्दाञ्छक्नुयाद्ब्रहणाय दुन्दुभेस्तु ग्रह- णेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ क. १२.] चतुर्थोऽध्यायः । स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ब्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ स यथा वीणायै वाद्यमानायै न बा- ह्याञ्छब्दाञ्छ्क्नुयाग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ तम् अयथार्थदर्शिनं परादात् पराकुर्यात्, कैवल्यासंब- न्धिनं कुर्यात् - अयमनात्मस्वरूपेण मां पश्यतीत्यपराधा- दिति भावः ॥ स यथार्द्रैघाग्नेरभ्या हितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भू- तस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्या- ख्यानानि व्याख्यानानीष्ट हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वा- णि च भूतान्यस्यैवैतानि सर्वाणि निश्व- सितानि ॥ ११ ॥ स यथा सर्वासामपाँ समुद्र एकाय- षाँ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. नमेव सर्वेषा स्पर्शानां त्वगेकायनमे- व‍ सर्वेषां गन्धानां नासिके एकायन- मेव‍ सर्वेषां‍ रसानां जिह्वैकायनमेव सर्वेषां रूपाणां चक्षुरेकायनमेव सर्वे- षाँ शब्दाना श्रोत्रमेकायनमेव सर्वे- संकल्पानां मन एकायनमेवर स- सां विद्याना हृदयमेकायनमेव स- ari कर्मणा हस्तावेकायनमेव सर्वे- षामानन्दानामुपस्थ एकायनमेवर सर्वे- षां विसर्गाणां पायुरेकायनमेव सर्वेषा- मध्वनां पादावेकायनमेव‍ सर्वेषां वेदा- नां वागेकायनम् ॥ १२ ॥ चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात् उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥ स यथा सैन्धवधनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मान- न्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति क. १४.] चतुर्थोऽध्यायः । ६६७. न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥ सर्वकार्य प्रलये विद्यानिमित्ते, सैन्धवधनवत् अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघन एक आत्मा अवतिष्ठते; पूर्व तु भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञान: सन्; तस्मिन् प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञा अस्ति — इत्येवं याज्ञवल्क्येनोक्ता ॥ - सा होवाच मैत्रेय्यत्रैव मां भगवान्मो- हान्तमापीपिपन्न वा अहमिमं विजाना- मीति स होवाच न वा अरेऽहं मोहं ब्र- वीम्यविनाशी, वा अरेऽयमात्मानुच्छि- तिधर्मा ॥ १४ ॥ साहोवाच - अत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि प्रज्ञानघन एव, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम्, आपीपिपत् आपीपदत् अवगमितवानसि संमोहितवान- सीत्यर्थः ; अतः न वा अहम् इममात्मानम् उक्तलक्षणं वि- जानामि विवेकत इति । स होवाच - नाहं मोहं ब्रवीमि, :; अविनाशी वा अरेऽयमात्मा यतः ; विननं शीलमस्येति वि- नाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अ- 5 बृहदारण्यकोपनिषद्भाष्ये [ब्रां. ५. विनाशीति अविक्रिय आत्मेत्यर्थः ; अरे मैत्रेयि, अयमात्मा प्रकृतः अनुच्छित्तिधर्मा; उच्छित्तिरुच्छेदः, उच्छेदः अन्तः विनाशः, उच्छित्तिः धर्मः अस्य इति उच्छित्तिधर्मा, न उ- च्छित्तिधर्मा अनुच्छित्तिधर्मा, नापि विक्रियालक्षणः, नाप्यु- च्छेदलक्षण: विनाशः अस्य विद्यत इत्यर्थः ॥ यत्र हि द्वैतमिव भवति तदितर इत- रं पश्यति तदितर इतरं जिघ्रति तदित- र इतर रसयते तदितर इतरमभिवद्- ति तदितर इतर शृणोति तदितर इत- रं मनुते तदितर इतर स्पृशति तदि- तर इतरं विजानाति यत्र त्वस्य स वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघेत्तत्केन कर रसयेत्तत्केन कमभिव- देतत्केन कर शृणुयात्तत्केन कं मन्वीत तत्केन क स्पृशेत्तत्केन कं विजानीया- धेने सर्व विजानाति तं केन विजानी- यात्स एष नेति नेत्यात्मागृह्यो न गृह्यते- शीयों न हि शीर्यतेऽसङ्गो न हि सज्य- तेऽसितो न व्यथते न रिष्यति विज्ञाता- " क. १५.] चतुर्थोऽध्यायः । रमरे केन विजानीयादित्युक्तानुशासना-' सि मैत्रेय्येतावदरे खल्वमृतत्वमिति हो- क्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥ इति पञ्चमं ब्राह्मणम् ॥ चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं ब्रह्म ; उपाय विशेषस्तु तस्याधिगमे अन्यश्चान्यश्च ; उपेयस्तु स एव आत्मा, य: चतुर्थे- ' अथात आदेशो नेति नेति' इति नि- र्दिष्ट: ; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्य - संवादे निर्धारितः, पुन: पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्य- संवादे, पुनः इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम् एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थ:- इत्येतत्प्रदर्शनाय अन्ते उपसंहारः - स एष नेति नेत्यादिः । य- स्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव नि- ष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा; तस्मात् एतदेवामृतत्वसाधनम्, यदेतत् नेति नेत्यात्मपरिज्ञानं सर्व- संन्यासञ्च इत्येतमर्थमुपसंजिहीर्षन्नाह — एतावत् एतावन्मा- त्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम् ; इदं च अन्य सहका- रिकरणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृ- ष्टवत्यसि — यदेव भगवान्वेद तदेव मे ब्रह्ममृतत्वसाधन- " - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. मिति, तत् एतावदेवेति विज्ञेयं त्वया - इति ह एवं किल अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञव- ल्क्यः किं कृतवान् ? यत्पूर्वे प्रतिज्ञातम् ' प्रब्रजिष्यन्न- स्मि' इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः । परि- समाप्ता ब्रह्मविद्या संन्यासपर्यवसाना । एतावान् उपदेश: एतत् वेदानुशासनम्, एषा परमनिष्ठा, एष पुरुषार्थकर्त- व्यतान्त इति ॥ इदानीं विचार्यते. शास्त्रार्थविवेकप्रतिपत्तये । यत आकु- लानि हि वाक्यानि दृश्यन्ते - 'यावज्जीवमग्निहोत्रं जुहु- यात् ' ' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' ' कुर्वमेवेह क- र्माणि जिजीविषेच्छतं समाः एतद्वै जराम सत्रं यद- , ' ' प्रिहोत्रम्' इत्यादीनि ऐकाश्रम्यज्ञापकानि; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ' विदित्वा व्युत्थाय प्र- व्रजन्ति' ' ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रत्र- जेत्' 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्दृहाद्वा वनाद्वा' इति, 'द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्यासश्च, तयोः संन्यास एवातिरेचयति' इति, 'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ' इत्यादीनि । 'ब्रह्मचर्यवान्प्रव्रजति ' ' अविशीर्णब्रह्मचर्यो तथा स्मृतयश्च- यमिच्छेत्तमावसेत्' 'तस्याश्रमविकल्पमेके ब्रुवते'; तथा क. १५.] चतुर्थोऽध्यायः । 'वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम् । अग्नीनाधाय विधिवचेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्' । 'प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नी- न्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इत्याद्या: । एवं व्युत्था- नविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृति- वाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि । आचारश्च तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् । परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषय- विभागः शक्यते अवधारयितुम् । तस्मात् एषां विषयविभा- गज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः ॥ - यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात् क्रियावसान एवं वेदार्थ: ; ' तं यज्ञपात्रैर्दहन्ति' इत्यन्त्यकर्म श्रवणात् ; जरामर्यश्रवणाच्च ; लिङ्गाश्च 'भस्मान्तं शरीरम्' इति ; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृतिश्च- ' निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शा- स्त्रेऽधिकारोऽस्मि ज्ञेयो नान्यस्य कस्यचित्' इति ; मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः ; अधिकाराभावप्रदर्शनाच्च - अत्यन्तमेव S. B. U. II. 21 स- " बृहदारण्यकोपनिषद्भाष्ये - [ब्रा. ५. श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवा- दाच, 'वीरहा वा एष देवानां योऽग्निमुद्वासयते ' इति । ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदा- र्थस्य -- न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम्; 'याव- ज्जीवमग्निहोत्रं जुहोति ' ' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत ' इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न श- क्यते अन्यार्थता कल्पयितुम्, तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वं संभवात् ; ' कुर्वन्नेवेह कर्माणि जिजी- विषेच्छतं समाः इति च मन्त्रवर्णात्, जरया वा ह्येवा- स्मान्मुच्यते मृत्युना वा - इति च जरामृत्युभ्यामन्यत्र कर्म- वियोगच्छिद्रासंभवात् कर्मिणां श्मशानान्तत्वं न वैकल्पि- कम्; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिब्रा- जाक्रमविधानस्य अनवकाशत्वमिति चेत्, न, विश्वजित्स - र्वमेधयोः यावज्जीवविश्यपवादत्वात्; यावज्जीवाग्निहोत्रादिवि- धेः विश्वजित्सर्वमेधयोरेव अपवाद:, तत्र च क्रमप्रतिपत्ति- संभव :- 'ब्रह्मचर्य समाप्य गृही भवेद्दृहाद्वनी भूत्वा प्रत्र- जेत्' इति । विरोधानुपपत्तेः; न हि एवंविषयत्वे पारि- ब्राज्यक्रमविधानत्राक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः ; अ- क. १५.] चतुर्थोऽध्यायः । न्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुति: स्वविषया- त्संकोचिता स्यात् क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषय- त्वात् न कश्विद्वाधः ॥ न, आत्मज्ञानस्य अमृतत्व हेतुत्वाभ्युपगमात् । यत्तावत् " आत्मेत्येवोपासीत' इत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतम् आत्मज्ञानम्, तत् अमृतत्वसाधन- मित्यभ्युपगतं भवता; तत्र एतावदेवांमृतत्वसाधनम् अ- न्यनिरपेक्षमित्येतत् न मृष्यते । तत्र भवन्तं पृच्छामि, किमर्थमात्मज्ञानं मर्षयति भवानिति । शृणु तत्र कारणम्- यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्व- र्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः अमृ- तत्व प्राप्त्युपायमजानत: ' यदेव भगवान्वेद तदेव मे ब्रूहि' इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् 'एतावदरे' इत्येवमादौ वेदेन ज्ञाप्यत इति । एवं तर्हि, यथा ज्ञापितमग्निहोला- दि. स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम्- यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्यु- पगन्तुं युक्तम् ; तुल्यप्रामाण्यादुभयत्र । यद्येवं किं स्यात् ? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्म- निवृत्तिः स्यात्; दाराग्निसंबद्धानां तावत् अग्निहोत्रादिक- बृहदारण्यकोपनिषद्भाष्ये ', [ ब्रा. ५. र्मणां भेदबुद्धिविषय संप्रदान कारकसाध्यत्वम्; अन्यबुद्धि- परिच्छेद्यां हि अन्यादिदेवतां संप्रदानकारकभूतामन्तरेण, न हि तत्कर्म निर्वर्त्यते; यया हि संप्रदानकारकबुद्धधा संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते सा इह विद्यया निवर्त्यते-- 'अन्योऽसावन्योऽहमस्मीति न स वेद * 'देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद' 'मृत्योः स मृत्यु - माप्नोति य इह नानेव पश्यति' 'एकधैवानुद्रष्टव्यं सर्वमा- त्मानं पश्यति' इत्यादिश्रुतिभ्यः । न च देशकालनिमित्ता- द्यपेक्षत्वम्, व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य । क्रियायास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्ष- त्वम् ; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपे- क्षते ; यथा अग्नि: उष्ण:, आकाश: अमूर्त:- इति, तथा आत्मविज्ञानमपि । ननु एवं सति प्रमाणभूतस्य कर्मविधेः निरोधः स्यात् न च तुल्यप्रमाणयोः इतरेतरनिरोधो युक्त:- न, स्वाभाविकभेदबुद्धिमात्र निरोधकत्वात् ; न०हि विध्यन्तरनिरोधकम् आत्मज्ञानम्, स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि । तथापि हेत्वपहारात् कर्मानुपपत्तेः विधिनिरोध एव स्यादिति चेत् —— न कामप्रतिषेधात् काम्यप्रवृत्तिनि- रोधवत् अदोषात् ; यथा 'स्वर्गकामो यजेत' इति स्वर्ग- क. १५.] चतुर्थोऽध्यायः । साधने यागे प्रवृत्तस्य कामप्रतिषेधविधेः कामे विहते का- म्ययागानुष्ठानप्रवृत्ति: निरुध्यते ; न च एतावता काम्यवि- धिर्निरुद्धो भवति । कामप्रतिषेधविधिना काम्यविधेः अन- र्थकत्वज्ञानात् प्रवृत्त्यनुपपत्तेः निरुद्ध एव स्यादिति चेत् — भवतु एवं कर्मविधिनिरोधोऽपि । यथा कामप्रतिषेधे काम्य- विधेः, एवं प्रामाण्यानुपपत्तिरिति चेत् — अननुष्ठेयत्वे अनु- ष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्म- विधीनामिति चेत् — न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः ; स्वा- भाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात् कर्म- हेतुत्वमुपपद्यत एव यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वा- भाविक्या:, तद्वत् । तथा सति अनर्थार्थो वेद इति चेत् — न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात्; मोक्षमेकं वर्जयित्वा अन्यस्याविद्याविषयत्वात् पुरुषाभिप्रायतन्त्र हि अर्थानर्थी, मरणादिकाम्येष्टिदर्शनात् । तस्मात् यावदात्मज्ञा- नविधेराभिमुख्यम्, तावदेव कर्मविधय: ; तस्मात् न आत्म- ज्ञानसहभावित्वं कर्मणामित्यतः सिद्धम् आत्मज्ञानमेव अमृ- तत्वसाधनम् ' एत्सवदरे खल्वमृतत्वम्' इति कर्मनिरपेक्ष- त्वात् ज्ञानस्य । अतो विदुषस्तावत् पारिव्राज्यं सिद्धम्, सं- . बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. प्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्ति- मात्रेण वचनमन्तरेणापि उक्तन्यायतः । तथा च व्याख्यात- मेतत्- 'येषां नोऽयमात्माऽयं लोक:' इति हेतुवचनेन, पूर्वे विद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति — पारिव्राज्यम् विदुषाम् आत्मलोकावबोधादेव । तथा च विविदिषोरपि सिद्धं पारिव्राज्यम्, 'एतमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति ' इति वचनात्; कर्मणां च अविद्वद्विषयत्वमवोचाम ; अवि- द्याविषये च उत्पत्त्यादिविकार संस्कारार्थानि कर्माणीत्यतः - आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणामवो. चाम - यज्ञादिभिर्विविदिषन्तीति । अथ एवं सति अवि- द्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम्, आत्मज्ञा नोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां च ध्यानज्ञानवैराग्यादीनाम् संनिपत्योपकारकत्वम्; हिंसारा- गद्वेषादिबाहुल्यात् बहुक्लिष्टकर्मविमिश्रिता इतरे - इति ; अत: पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति - " त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य परमोऽवधिः ' ' किं ते धनेन किमु बन्धुभिस्ते किं ते दारे- ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पि- ताम्रहास्ते क गता: पिता च' । एवं सांख्ययोगशास्त्रेषु च 9 क. १५.] चतुर्थोऽध्यायः । संन्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते ; कामप्रवृत्त्यभावाश्च ; कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा । तस्मात् बि- रक्तस्य मुमुक्षोः विनापि ज्ञानेन 'ब्रह्मचर्यादेव प्रव्रजेत् इत्यादि उपपन्नम्। ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम्, यावज्जीवश्रुत्युपरोधात् - नैष दोषः, नितरां सावकाशत्वात् यावज्जीवश्रुतीनाम् ; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्व- कर्मणाम् ; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ; प्रायेण हि पुरुषाः कामबहुलाः ; कामश्च अनेकविषयः अने- ककर्मसाधनसाध्यश्च ; अनेक फलसाधनानि च वैदिकानि कर्माणि दाराभिसंबन्धपुरुषकर्तव्यानि पुनः पुनश्च अनुष्ठी- यमानानि बहुफलानि कृष्यादिवत् वर्षशतसमाप्तीनि च गार्हस्थ्ये वा अरपये वा; अत: तदपेक्षया यावज्जीव- श्रुतय: ; 'कुर्वन्नेवेह कर्माणि ' इति च मन्त्रवर्णः । तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः, यस्मिंश्च - पक्षे यावज्जीवानुष्ठानम्, तदा श्मशानान्तत्वम् भस्मान्तता च शरीरस्य । इतरवर्णापेक्षया वा यावज्जीवश्रुतिः; नह क्षत्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति ; तथा ' मन्त्रैर्य- स्योदितो विधि: ' ' ऐकाश्रम्यं त्वाचार्याः' इत्येवमादीनां क्षत्त्रियवैश्यापेक्षत्वम् । तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यका- " बृहदारण्यकोपनिषद्भाष्ये [त्रा. ५. माद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रतिपत्तिप्रकाराः न विरुध्यन्ते ; अनधिकृतानां च पृथग्विधानात् पारिव्राज्यस्य 'स्नातको वास्नातको वोत्सन्नाभिरनग्निको वा' इत्यादिना ; तस्मात् सिद्धानि आश्रमान्तराणि अधिकृतानामेव ॥ इति चतुर्थाध्यायस्य पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्रा नणम् ॥ अथ वशः पौतिमाष्यो गौपवना- गौपवन: पौतिमाष्यात्पौतिमाष्यो गौप- वनागौपवनः कौशिकात्कौशिकः कौण्डि- न्यात्कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच गौतमाच्च गौतमः ॥ १ ॥ अग्निवेश्यदाग्निवेश्यो गार्ग्यगायों गार्ग्यगाय गौतमागौतमः सेतवात्से- तवः पाराशर्यायणात्पाराशर्यायणो गा- यणाद्गायण उद्दालकायनादुद्दाल- कायनो जाबालायनाज्जाबालायनो मा- ध्यंदिनायनान्माध्यंदिनायनः सौकराय- णात्सौकरीयणः काषायणात्काषायणः सायकायनात्सायकायनः कौशिकायने:- बृहदारण्यकोपनिषद्भाष्ये [त्रा. ६. कौशिकायनिः ॥ २ ॥ घृतकौशिकाद्धृतकौशिकः पाराशर्या- यणात्पाराशर्यायणः पाराशर्यात्पाराश- यो जातूकर्ण्याज्जातूकर्ण्य आसुरायणाच्च यास्काच्चासुरायणस्त्रैवणेस्त्रैवणिरौपजन्ध- नेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्वार- द्वाज आत्रेयादात्रेयो माण्टेर्माण्टिगत- मागौतम गौतमाङ्गौतमो वात्स्याद्वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्या- स्कैशोर्यः काप्यः कुमारहारितात्कुमारहा- रितो गालवाद्गालवो विदर्भीकौण्डिन्या- द्विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवा- द्वत्सनपाद्वाभ्रवः पथः सौभरात्पन्थाः सौ-" भरोऽयास्यादाङ्गिरसादयास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपा त्त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ क. ३.] चतुर्थोऽध्यायः । दधीच आथर्वणाद्दध्यङ्ङाथर्वणोऽथर्वणो दैवादथव देवो मृत्योः प्राध्वसनान्मृ- त्युः प्राध्व ँसनः प्रध्वसनात्प्रध्वस- न एकर्षेरेकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टे- र्व्यष्टिः सनारोः सनारुः सनातनात्सना- तनः सनगात्सनगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ ३ ॥ इति षष्ठं ब्राह्मणम् ॥ अथ अनन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते, यथा मधुकाण्डस्य वंशः । व्याख्यानं तु पूर्ववत् । ब्रह्म स्वयंभु ब्रह्मणे नम ओमिति ॥ इति चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये चतुर्थोऽध्यायः ॥