THE WORKS OF SRI SANKARACHARYA VOLUME SRI VANI VILAS PRESS नानाजन्मसु संचितेन तपसा पूतन चित्तात्मना मित्रेण प्रतिबोधितेन कुतुकात्सर्वाः कृती: शांकरीः । संमु प्रथमं जगद्गुरुपदे भक्त्या मयाद्यार्पिताः स्वकृत्योपहृतिं करोतु गुरुराड़ धन्यं तथेमं जनम् ॥ श्रीमच्छंकरदेशिकेन्द्र रचितान्सर्वान्प्रबन्धान्मुदा ती परिशोध्य पुस्तकचयैः संमुझ साकं बुधैः । तच्छात्र प्रवरादिमध्यविलसच्छ्री देशिकेन्द्रेषु ना- न्कृत्वाद्योपहृति सभक्तिविनयं नूनं कृतार्थोऽस्म्यहम् ॥ सौम्याद माघार्जुनपक्षराजत्सूर्याङ्कतिथ्याश्रितसोमवारे । श्रीशंकरार्यप्रतिमाप्रतिष्ठाकाले मयैपोपहृतिर्व्यधायि ॥ . श्रीशंकर कृतिमाला गुरुवरतुष्ट्य समर्पिता मोदात् । बालादिपदभाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥ CONTENTS. BRIHADARANYAKOPANISHAD-BHASHYA CHAPTER I. CHAPTER II. PAGE. 1-350 1 213 विषयाः ॥ बृहदारण्यकोपनिषद्भाष्यम् प्रथमोऽध्यायः द्वितीयोऽध्यायः पृष्ठभू १- ३५० २ १३ THE UPANISHAD-BHASHYA VOL. 5. BRIHADARANYAKA CHAPTERS I & II. " ॥ श्रीः ॥ उपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । पञ्चमो भागः ॥ बृहदारण्यकम् ॥ अध्याय १-२. 1॥ 300 ॥ ॥ बृहदारण्यकोपनिषद्भाष्यम् ॥ श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । ☐☐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ 11 eft: 11 ॥ विषयानुक्रमणिका · प्रथमाध्यायः उपोद्घातभाष्यम् मङ्गलाचरणम् ------ 11 १–२१२ ३-८ चिकीर्षितग्रन्थस्य प्रेक्षावत्प्रवृत्त्यौपयिकानुबन्धचतुष्टयसू- चनपूर्वकं प्रधानभूतप्रयोजनस्य ग्रन्थनामव्युत्पादन- द्वारा व्युत्पादनम् ... ... कर्मज्ञानकाण्डयोः संबन्धं प्रतिज्ञाय तत्प्रतिपादनार्थ सिद्धे आत्मनि वेदान्तानां प्रामाण्यप्रसाधनम् आविद्यक संसारफलक कर्मप्रतिपत्त्यर्थत्वात् कर्मकाण्डस्य कर्मफलाद्विरक्तस्य अविद्यानिवर्तकात्मज्ञानोत्पत्त्यर्थ - मुनिपदारम्भः इति काण्डयोः संबन्धकथनम् क्रतु प्रधानस्य अश्वमेधस्य उपास्तिसहितस्यापि संसारफ- लकत्वे, किमुतान्येषामिति बन्धहेतुकर्मभ्यो विरक्ताः ज्ञानापेक्षिणः तदुपाय एव श्रवणादौ सर्वकर्मसंन्यास- पूर्वकं प्रवर्तेरन्निति आरम्भे अश्वमेधोपास्तिकथनमि- त्युपन्यास: S. B. U. O प्रथमं ब्राह्मणम् [ २ ] ८–१२ अश्वमेघाङ्गेषु प्रधानत्वादश्वस्य तस्य शिरआद्यवयवेषु उषःकालादिदृष्टिविधानम् आश्वमेधिकमहिमाख्यग्रहादिषु अहरादिदृष्टिविधानम् द्वितीयं ब्राह्मणम् १३- ३३ वक्ष्यमाणमाश्वमेधिकामिदर्शनम् अग्नेः विशुद्धजन्म- त्वादिना स्तोतुम् अग्नेरुत्पत्तिप्रतिपिपादयिषया अ- सत्कारणवादनिराकरणपूर्वकं सत्कारणवादं प्रसाध्य अप्पर्यन्तप्रपञ्चसृष्ट्यभिधानम् ततः विरारूपस्य अग्नेरुत्पत्तिकथनम् आश्वमेधिकस्य अग्नेः शिरआद्यवयवेषु प्राचीदिगादि- विधानम् पूर्व स्तुत्यर्थमुपपादितसृष्टिशेषोपन्यासः अश्वाश्वमेधशब्दनिर्वचनपूर्वकम् अश्वमेधोपासनं विशिष्टं विधाय तस्य हिरण्यगर्भात्मक मृत्य्वात्मभावप्राप्तिफल- प्रदर्शनम् तृतीयं ब्राह्मणम् ३४--७७ ज्ञानकर्मणोः फलनिरूपणानन्तरं तयोरुद्भावकस्य प्राणस्य स्वरूपं निरूपयितुमुत्तरब्राह्मणमिति संबन्धकथनपूर्वकं वृत्तिभेदेन देवासुरपदाभिधेयप्राजापत्यवागादिविषया- .ख्यायिकोपन्यासः [ ३ ] प्राणोपासनवाक्यस्य अन्यशेषत्वशङ्कानिरासपूर्वकं विशु- द्धत्वादिगुणविशिष्टप्राणोपासनविधिपरत्वप्रसाधनम्... औद्गात्रकरणार्थं देवैरर्थितानां वागाद्यभिमानिदेवतानां तत्करणानन्तरं स्वाभाविकपाप्मासङ्गरूपमृत्युना परि- भवोपन्यासः एवमेव देवैः प्रार्थितस्य मुख्यप्राणस्य विशुद्धत्वगुणमभि- धाय तद्विशिष्टस्य मुख्यप्राणस्य उपासनविधानं तत्फ- प्रदर्शनं च ... उक्तविशुद्धत्वगुणस्य उपपत्तिनिरूपणमुखेन प्राणस्य व्या- पकत्वगुणविधानम् प्राणस्य विशुद्धिरसिद्धेति शङ्कापरिहारेण दूर्गुणविधानम् प्राणात्मज्ञानकर्मफलस्य वागादीनामग्न्याद्यात्मत्वस्य निरू- पणम् प्राणस्य भर्तृत्वश्रेष्ठत्व पुरोगन्तृत्वगुणविधानम् प्राणस्य ऋगाद्यात्मत्वगुणविधानम् प्राणस्य उद्गीथत्वात्मकगुणविधानम् सामात्मभूतस्य प्राणस्य स्वरसुवर्णप्रतिष्ठागुणविधानम् .. एवं प्राणविज्ञानततः अभ्यारोहमन्त्रजप कर्मविधानम् .. कर्मवियुक्तस्य केवलम्य दर्शनस्यापि लोकजयादिफल- प्रदर्शनम् विशुद्धत्वादिसमस्तगुणविशिष्टप्राणोपासनस्य एतत्फलमि- ति प्रदर्शनम् .७६ i [ 8 ] ७८-१६३ चतुर्थ ब्राह्मणम् ज्ञानकर्मणोः स्तुत्यर्थे तत्फलभूतस्य प्रजापतेः जगत्सृष्ट्या - दौ स्वातन्त्र्यविभूतिवर्णनेन फलोत्कर्षो वर्णयितव्यः इत्येतदर्थम् उत्तरग्रन्थारम्भः, उत्कृष्टफलस्य प्राजा- पत्यपदस्यापि भयारत्यादिश्रवणेन संसारत्वात् तत्रापि विरक्तस्यैव वक्ष्यमाणब्रह्मविद्यायामधिकारः इत्येतदर्थं च - इति पूर्वोत्तरग्रन्थसंबन्धकथनम् प्राजापत्यपदस्यापि संसारत्वमेव इत्यत्र गमकत्वेन प्रजा - पतेः भयारत्यादिवर्णनम् ... प्रजापतेः मनुशतरूपादिमिथुनभवनद्वारा मनुष्यादिप्रपञ्च- सृष्टिकथनम् ब्राह्मणादिवर्णनियन्तृदेवतानामग्न्यादीनां ब्राह्मणादिवर्णा- नां सोमदेवत्यस्य आद्यवर्गस्य च सृष्टिकथनम् एवं ज्ञानकर्मलक्षणं प्रजापतित्वफलावसानं वैदिकं साधनं प्रदर्श्य, तस्य साध्यसाधनलक्षणस्य व्याकृतस्य जगतः व्याकरणात्प्राचीनबीजावस्था, समूलस्य संसारस्योद्धर- गाय प्रदर्श्यते इति पूर्वोत्तरसंबन्धकथनम् बीजावस्थस्य जगतः अव्याकृतस्य नामरूपाभ्यां व्याकर- णानन्तरं तस्मिन्व्याकृते परमात्मनः प्रवेशकथनम् व्यापकस्य परमात्मनः परिच्छिन्नवत् व्याकृते प्रपञ्चे प्रवेशो नोपपद्यते - इति आक्षेपपरम्पराप्रदर्शनम् ' जुले सूर्यादिप्रतिबिम्बवत् बुद्धावुपलभ्यमानत्वमेव परमा- [ ५ ] त्मनः प्रवेशः इत्युपपादनम् . आत्मनो देहे क्षुरधानस्थक्षुरवत् काष्ठादिस्थिताग्निवच्च सामान्यतो विशेषतश्च अवस्थितिकथनम् व्याकृताज्जगतः आत्मनः पृथक्करणाय प्राणनादिक्रिया- विशिष्टात्मदर्शिनः अनात्मज्ञत्वमभिधाय प्राणनादिक्रि- यासंबन्धस्य औपाधिकत्वात् निरुपाधिकः परमात्मैव उपासितव्यः इति प्रतिपादनम् 6 आत्मेत्येवोपासीत' इति अपूर्वविधिः, ज्योतिष्टोमादि- कर्मवत् आत्मोपासनस्य अत्यन्ताप्राप्तत्वात् — इति पक्षस्य प्रदर्शनम् आत्मसाक्षात्कारार्थमात्मोपासनविधिरयमिति पक्षान्तरोप- पादनम् ... ... आत्मज्ञानातिरिक्तविधेयविषयस्याभावात् ज्ञानस्य च वि- ध्यनर्द्दत्वात् नापूर्वविधिरिति प्रथमपक्षखण्डनम् १०८ साक्षात्कारार्थमात्मोपासनं विधेयमिति पक्षस्य अभ्युपगम- वादेन परिहारमुक्त्वा अस्य विधेः नियमविधित्वोप- पादनम् आत्मोपासनमेव यत्नेन कर्तव्यमित्यत्र उपपत्त्युपन्यासः ११५ आत्मतत्त्वस्य पुत्रादेः सर्वस्मात् प्रियतरत्वादपि ज्ञेय त्वोपपादनम् 'आत्मेत्येवोपासीत ' इति सूत्रित ब्रह्मविद्यायाः विवक्षि- तप्रयोजनाभिधानाय उपोद्घातप्रदर्शनम् [ ६ ] P कीदृशं ब्रह्म वेद्यम्, कथं वा वेदनम् इत्यादिप्रश्नोप- न्यास: ... 'ब्रह्म वा इदमग्र आसीत् ' इत्यत्र- ब्रह्मेति - अपरं - ब्रह्म, ब्रह्मभावी ब्राह्मणो वा इत्यादिमतान्तरं प्रदर्श्य सर्वभावापत्तिफलस्यानित्यत्वदोषापच्यादिना परं ब्रह्म- वेति स्वमतोपन्यास: ब्रह्मभावी संसार्येव ब्रह्मशब्दार्थ इति प्रकारान्तरेण पूर्व- पक्षमुपन्यस्य ब्रह्मोपदेशानर्थक्यप्रसङ्गादिना तत्प- रिहारः परं ब्रह्मैव अप्रतिबोधात् अब्रह्मत्वा सर्वत्वादिकमध्यारोप्य परमदयालुना आचार्येण प्रतिबोधितं सत् अहं ब्र- ह्मास्मि इति आत्मानमेव विदित्वा अध्यारोपिता- ब्रह्मत्वादिनिवृत्त्या सर्वमभवत् इत्युपन्यासः कर्मवत् विद्यान साधनान्तरमपेक्षते पलं जनयितुम् - इत्येवम् ' तद्यो यो देवानाम्' इत्यादिवाक्याथों- पन्यास: ... ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्यर्थस्य द्रढिम्ने वाम देवसात्म्योपपादनम् ..... अहं ब्रह्मास्मि - इति विज्ञातुः देवा अपि न ब्रह्मस- • भावाभवनाय पर्याप्ताः, किमुतान्ये इत्यत्र ह्येषां स भवति' इति हेतुप्रदर्शनम् ८ 'आत्मा आत्मव्यतिरिक्त देवतोपासकस्य तत्त्वज्ञानाभावप्रतिपादनम् १४० • [ ७ ] अविद्यावतां देवपशुत्वमुपपाद्य तान्प्रत्येव देवानां विघ्न- करणाद्यीशितृत्वोपन्यासः यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति, विपरीतम- श्रद्धादिभिः तस्मान्मुमुक्षुर्देवाराधनपरः श्रद्धाभक्ति- " परः अप्रमादी स्यात् विद्याप्राप्तिं प्रति - इति प्रति पादनम् अविदुषां पशुवत् देवपरतन्त्राणां देवादिकर्मकर्तव्यत्वे निमित्तभूतानां क्षत्रियादिवर्णानां धर्मस्य च सृष्टिक- थनम् आत्मलोकमदृष्ट्वा मृतस्य आत्मनः सकाशाद्रक्षणाभावं वे. दकृष्यादिदृष्टान्तकथनपूर्वकं प्रतिपाद्य आत्मलोकाशा- निकृतकर्मणः क्षयिष्णुत्वात् आत्मलोकस्यैव उपास- नविधानम्, तथा आत्मलोकोपासकस्य कर्माभावादेव कर्मक्षयाभावप्रतिपादनम्, आत्मलोकं स्तोतुं फल- वचनं च .... तेषां यैः कर्मभिः येषां देवादीनामुपकरोति अविद्वान्, कर्मणां तेषां देवादीनां च उपपादनम्, तदनुष्ठातुः तैः सर्वतः संरक्षणस्य च कथनम् ● ऐषणैव अविदुषः कर्मबन्धनाधिकारे प्रवर्तिका- - इति प्रदर्शनम् आत्मनः जायादिभिः कृत्स्नतां संपादयितुमशक्तस्य तत्सं पादनप्रकारप्रदर्शनम् पञ्चमं ब्राह्मणम् अविद्यायाः [ < ] १६४-२०७ : प्रस्तुतत्वात् तादृशाविद्यावतो गृहिणः जग- तश्च परस्परं स्वकर्मोपार्जितत्वं प्रसाध्य तादृशाविद्व- गृहिणा कर्मणा विज्ञानेन च सृष्टस्य जगतः सप्तधा प्रविक्तस्य सप्तान्नात्मकत्वं ध्यानार्थमित्युपपाद्य तेषां सप्तान्नानां सविनियोगानां प्रकाशकाः सूत्रभूताः 'एकमस्यासाधारणम्' इत्यादयो मन्त्रा इति प्रद- र्शनम् ... 'एकमस्य ' इति सूत्रितस्य अन्नस्य सविनियोगस्य व्या- ख्यानभूतमन्त्रार्थविवरणम् ' द्वे देवानभाजयत्' इति सूत्रितस्य अन्नद्वयस्य विवर- मन्त्रार्थप्रदर्शनम् ' पशुभ्य एकम् ' इति भागस्य विवरणमन्त्रार्थप्रदर्शनम् १७१ कस्मात्तानि न क्षीयन्ते' इति सूत्रित प्रश्नप्रतिवचनभूत- स्य ' पुरुषो वाव अक्षिति: १ - इति मन्त्रस्य विव- रणम् त्रीण्यात्मने कुरुत ' इति सूत्रितस्य अन्नत्रयस्य विव- रणमन्त्रार्थप्रदर्शनम् ... तेषामेव प्राजापत्यानामन्नानामाधिभौतिक विस्तारप्रदर्शनम् १८० तेषामेव आधिदैविकविभूतिप्रदर्शनम् पुत्रादीनां साधनानां साध्यविशेष संबन्धप्रतिपादनम् ... ... पुत्रस्य लोकजयहेतुत्वप्रकारप्रदर्शनार्थं पित्रा स्वस्य मरण- ' • [९] काले कर्तव्यस्य संप्रत्याख्यस्य कर्मण उपन्यासः पुत्रनामनिर्वचनम् कृतसंप्रत्तिके दैववागादिप्रवेशप्रकारकथनम् ... वाङ्मनः प्राणानामुपासने विशेषप्रतिपादनार्थ व्रतमीमांसा २०० षष्ठं ब्राह्मणम् प्रपञ्चितस्य अविद्याकार्यस्य संक्षेपेण उपसंहारप्रदर्शनम्... २०८ द्वितीयोऽध्यायः प्रथमं ब्राह्मणम् २०८ - २१२ २१३-३५० २१५-२७१ ... प्रथमाध्याये सूत्रितविद्याविद्ययोः अविद्यायाः प्रपञ्चित - त्वात् विद्यायाः प्रपञ्चनार्थं द्वितीयाध्यायारम्भः इति वृत्तानुवादपूर्वकं संबन्धकथनम् पूर्वपक्षसिद्धान्ताख्यायिकारूपेण शास्त्रार्थस्य समर्पणे श्रोतुः मुखेन बोधो भवतीत्यादिना आख्यायिकाप्रयोजनक- थनपूर्वकम् अविद्याविषयमेव आत्मत्वेन उपगतव- तं गार्ग्य पूर्वपक्षिणं तद्विपरीतात्मदर्शिनमजातशत्रुं सिद्धान्तिनं च उपस्थाप्य आख्यायिकाप्रदर्शनम् .. गार्ग्यण आदित्यादिब्रह्मणां क्रमेण उपपादनम्, अजात- शत्रुणा तेषां क्रमेण ब्रह्मत्वप्रत्याख्यानप्रदर्शनं च ... २१८ स्वाभिप्रेतव्रह्मसु प्रत्याख्यातेषु तूष्णीं स्थितस्य गार्ग्यस्य ब्रह्मविज्ञापनार्थम् अजातशत्रुणा सुप्तपुरुषं प्रति नय- नम् [१०] सुप्तपुरुषसंबोधनव्याजेन गार्ग्याभिमतस्य ब्रह्मणः विस्त- रेण अब्रह्मत्वोपपादनम् ... आत्मस्वभावविजिज्ञापयिषया 'वैष तदाभूत् कुत एत- दागात्' इति प्रश्नद्वयमुत्थाप्य तदर्थप्रतिभानाभाव- वन्तं गार्ग्य प्रति अजातशत्रुणा 'कैष तदाभूत् ' इति प्रश्नार्थत्वेन आत्मस्वरूपोपन्यासः कार्यकरणवियोगेऽपि स्वप्ने संसारधर्मित्वमात्मनः दृश्यते ... इति शङ्कायाः स्वप्नस्यैव मृषात्वोपन्यासेन परिहार : २३९ केन पुनः क्रमेण सुषुप्तो भवति इत्यर्थस्योपपादनम् कुत एतदागात् ' इति प्रश्नार्थतया ऊर्णनाभ्यादिदृष्टा- न्तेन कारकभेदाभावेऽपि आत्मनः सकाशात् ब्रह्मा- दिस्तम्बपर्यन्त प्राणिजातस्य उत्पत्यादिकथनम् ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्मविजिज्ञासूनां बुद्धिव्युत्पा- दनाय - ' तस्योपनिषत्' इत्यत्र किं प्रकृतस्य संसा- रिणः इयमुपनिषत्, उतासंसारिणः इति विचारोप- क्रमः पूर्वपक्षिणः निरीश्वरवादनिरूपणम् सिद्धान्तिना सेश्वरवादस्योपन्यासः व्याधकुलसंवर्धितराजसूनुदृष्टान्तेन असंसारिण एव अ- विद्यया संसारित्वं प्राप्तस्य आचार्येण प्रतिबोधितस्य ब्रह्मभावोपन्यासः द्वैतिनां मतमुपन्यस्य तत्खण्डनम् २५९. [ ११ ] तार्किकमतोपन्यासः तद्दूषणं च विचारोपसंहारः द्वितीयं ब्राह्मणम् २७२–२७९ ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारय- ति- इति वृत्तवर्तिष्यमाणयोः संगतिकथनम् आधानप्रत्याधानादिविशेषणविशिष्टप्राणदर्शनस्य फलप्र- दर्शनपूर्वकं विशिष्टप्राणस्वरूपनिरूपणम् तं प्राणं चक्षुषि विद्यमानरेखादिद्वारा रुद्रादयः अन्वा- यत्ताः - इति प्रतिपाद्य एवं वेदितुः फलप्रदर्शनम्... २७५ उक्तार्थविवरणमन्त्रार्थप्रदर्शनम् तृतीयं ब्राह्मणम् ... २८०-२९५ उपाधिविशेषापनयद्वारेण ब्रह्मणो निर्दिधारयिषया ब्रह्म- उपाधिभूतयोः मूर्तीमूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोः विभागप्रदर्शनम् तस्य मूर्तीमूर्तरसस्य करणात्मनः पुरुषस्य रूपोपन्यासार्थं मतान्तरप्रदर्शनपूर्वकं राशित्रयकल्पकानां केषांचिदौ- पनिषदं मन्यमानानां प्रक्रियां प्रदश्यं श्रुतिविरोधेन न्यायविरोधेन च तस्याः असमञ्जसत्व प्रदर्शनम् सत्यस्य सत्ये परमात्मस्वरूपे वक्तव्ये सत्यं निरवशेषं व क्तव्यमिति सत्यस्य करणात्मनः पुरुषस्य माहारज- नादिरूपोपन्यासः [ १२ ] सत्यस्य सत्यं यद्ब्रह्म, तस्य नेति नेतीत्यादिनिर्देशप्रकार- प्रदर्शनम् चतुर्थ ब्राह्मणम् ... २९६–३२२ प्रस्तुताया ब्रह्मविद्याया अङ्गत्वेन संन्यासविधानार्थं याज्ञ- वल्क्यमैत्रेयीसंवादरूपाख्यायिकारम्भः इति वृत्तानु- वादपूर्वकसंबन्धकथनम् पारिव्राज्यमधिजिगमिषु याज्ञवल्क्यं प्रति अमृतत्वसाधनं मे ब्रूहि इति मैत्रेय्या प्रार्थनम् अमृतत्वसाधनवैराग्योत्पादनार्थमात्मनः पतिपुत्रादिसर्वा- पेक्षयापि प्रियत्वमुपपाद्य अमृतत्वसाधनमात्मज्ञानमेव श्रवणमनननिदिध्यासनैः संपादनीयमिति याज्ञवल्क्येन उपदेश: आत्मनि विदिते सर्व विदितं भवति इत्यत्र उपपत्त्युप- न्यासः आत्मैव सर्वम् इति दुन्दुभिशब्दादिदृष्टान्तप्रदर्शनेन उपपादनम् स्थितिकाले सर्वस्यात्मरूपत्वप्रदर्शनम् उत्पत्तिकाले सर्व ब्रह्मैवेति कथनम् ... वेदस्याप्रामाण्यशङ्कानिरासार्थे पुरुषनिश्वासवत् परमात्मनः सकाशात् अप्रयत्नेनैत्र जातत्वकथनम् प्रलयेऽपि सर्वस्य ब्रह्मत्वनिरूपणार्थं परम्पराक्रमेण शब्दा- दीनां ग्राहककरणैः सह प्रज्ञानघने प्रलयप्रदर्शनम् [१३] सैन्धवखिल्यदृष्टान्तेन ब्रह्मविदः ब्रह्मविद्यानिमित्तकात्य- न्तिकप्रलयं निरूप्य अखण्ड ब्रह्मस्वरूपत्वकथनम् ' ... न प्रेत्य संज्ञास्ति' इति वाक्यार्थमजानन्त्या मैत्रेय्या:- अविद्याप्रत्युपस्थापितसर्वोपाधिविनाशे तन्निमित्ता वि शेषसंज्ञा नास्ति इत्यर्थकथनम् अविद्याकल्पितकार्यकरणसंघातोपाधिसंबन्धे सत्येव विशे- संज्ञा, यदा तु ब्रह्मविद्यया अविद्या नाशमुपग- मिता, सर्वमात्मैवाभूत्, तदा केन कं पश्येत् इत्याद्यु- पन्यास: पञ्चमं ब्राह्मणम् ... ३२३—३४६ अत्मैवेदं सर्वम् इत्यत्र यो हेतुरुक्तः आत्मैकसामान्यो- द्भवप्रलयाख्यः, सः असिद्धः इति शङ्कानिरासार्थमु- त्तरं ब्राह्मणमिति वृत्तानुवादपुरःसरं पूर्वोत्तरब्राह्म- णयोः संगतिकथनम् ... पृथिव्यादीनां ब्रह्मादिस्तम्बपर्यन्तप्राणिनां च परस्परो- पकार्योपकारकभावापन्नत्वेन एककारणकत्वं सुलभ- मिति पूर्वोक्तहेतुः संगत एवेति- यदेवैकं कारणं स- र्वेषाम्, तदेवैकं ब्रह्म परमार्थभूतम् तज्ज्ञानमेव अमृ- तत्वसाधनमिति मधुकाण्डार्थोपन्यासः सर्वकारणभूतः परमात्मैव परमार्थभूतः, तज्ज्ञानमेवावि- यानिवृत्तिद्वारा परमपुरुषार्थसाधनम् इति शास्त्रार्थनि- [ १४ ] गमनमुक्त्वा एतस्मिन्सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्व जगत्समर्पितम् - इत्यत्र रथनाभिनेम्यरदृष्टान्तोप- न्यासः याज्ञवल्क्यमैत्रेयीसंवादरूपाख्यायिकया प्रवृत्तां ब्रह्मविद्यां परिसमाप्य तस्याः स्तुत्यर्थमाख्यायिकारूपेण प्रवृत्तम- न्त्रार्थोपन्यासः षष्ठं ब्राह्मणम् ... ३४७–३५० ब्रह्मविद्यायाः स्तुत्यर्थं ब्रह्मविद्यार्थस्य मधुकाण्डस्य आ- चार्यपरम्पराक्रमरूपवंशकथनम् श्रीमच्छंकरभगवत्पादविरचितम् बृहदारण्यकोपनिषद्भाष्यम् प्रथमोऽध्यायः ॥ बृहदारण्यकोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः । उषा वा अश्वस्य' इत्येवमाद्या वाजसनेयि- ब्राह्मणोपनिषत् । तस्या इयमल्पग्रन्थ वृत्ति: आरभ्यते, संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्या- प्रतिपत्तये । सेयं ब्रह्मविद्या उपनिषच्छब्द- वाच्या, तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ; उपनि- पूर्वस्य सदेस्तदर्थत्वात् । तादर्थ्याग्रन्थोऽप्युपनिषदुच्यते 20 बृहदारण्यकोपनिषद्भाष्ये [उपो- सेयं षडध्यायी अरण्येऽनुच्यमानत्वादारण्यकम् बृहत्त्वा- त्परिमाणतो बृहदारण्यकम् ॥ तस्यास्य कर्मकाण्डेनसंबन्धोऽभिधीयते । सर्वोऽप्ययं वेद: प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनप- र, सर्वपुरुषाणां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात् । दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमा नाभ्यामेव सिद्धत्वात् नागमान्वेषणा । न चासति जन्मान्तर- संबन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात्; स्वभाववादिदर्शनात् । तस्माज्जन्मान्तरसंबन्ध्यात्मा- स्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रव- र्तते । 'येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके' इत्युपक्रम्य 'अस्तीत्येवोपलब्धव्यः' इत्येवमादिनिर्णय- दर्शनात् ; ' यथा च मरणं प्राप्य' इत्युपक्रम्य 'योनि- मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' इति च ; ' स्वयं ज्योति:' इत्युपक्रम्य ' तं विद्याकर्मणी समन्वारभेते' 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति च; ' ज्ञपयिष्यामि' इत्युपक्रम्य ' विज्ञानमय:' इति च— व्यतिरिक्तात्मास्तित्वम् । तत्प्रत्य- क्षविषयमेवेति चेत्, न वादिविप्रतिपत्तिदर्शनात् । न हि द्धातः ] प्रथमोऽध्यायः । देहान्तरसंबन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकाय- तिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः । न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते, नास्ति घट इति । स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत्, न; निरूपिते ऽभावात् । प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति । वैना- शिकास्त्वमिति प्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य ना- स्तित्वमेव प्रतिजानते । तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षा- न्नात्मास्तित्वसिद्धिः । तथानुमानादपि । श्रुत्या आत्मास्तित्वे लि- ङ्गस्य दर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वात् नेति चेत्, न ; जन्मान्तरसंबन्धस्याग्रहणात् । आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च तदनुसारिणो मीमांसका- स्तार्किकाश्चाहंप्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति ॥ " सर्वथाप्यस्त्यात्मा देहान्तरसंबन्धीत्येवं प्रतिपत्तुर्देहान्तरगते- ट्रानिष्ट्रप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मका- ण्डमारब्धम् । न त्वात्मनः इष्टानिष्ट्रप्राप्तिपरिहारेच्छाकारण- मात्मविषयमज्ञानं 'कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतत्र- ह्मात्मस्वरूपविज्ञानेनापनीतम् । यावद्धि तन्नापनीयते तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषि- बृहदारण्यकोपनिषद्भाष्ये ' [उपो- द्धातिक्रमेणापि प्रवर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनान्य- धर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन स्वाभाविक दोषव- लीयस्त्वात् । ततः स्थावरान्ताधोगतिः । कदाचिच्छास्त्रकृतसं- स्कारबलीयस्त्वम् । ततो मनआदिभिरिष्टसाधनं बाहुल्येनो- पचिनोति धर्माख्यम् । तद्विविधम् — ज्ञानपूर्वकं केवलं च । तन्त्र केवलं पितृलोकादिप्राप्तिफलम् । ज्ञानपूर्वकं देवलोकादि- ब्रह्मलोकान्तप्राप्तिफलम् । तथा च शास्त्रम् - 'आत्मयाजी श्रेयान्देवयाजिनः' इत्यादि । स्मृतिश्च द्विविधं कर्म वैदिकम् ' इत्याद्या। साम्ये च धर्माधर्मयोर्मनुष्यत्वप्राप्तिः । एवं ब्रह्माद्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया । तदेवेदं व्याकृतं साध्यसाधन- रूपं जगत् प्रागुत्पत्तेरव्याकृतमासीत् । स एष बीजाङ्कुरादि- बदविद्याकृतः संसारः आत्मनि क्रियाकारक फलाध्यारोपलक्ष- णोऽनादिरनन्तोऽनर्थ इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्वि- परीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ॥ - अस्य त्वश्वमेधकर्मसंबन्धिनो विज्ञानस्य प्रयोजनम् —— ये- षामश्वमेधे नाधिकारः, तेषामस्मादेव विज्ञानात्तत्फलप्राप्तिः, विद्यया वा कर्मणा वा, ' तद्वैतल्लोकजिदेव' इत्येवमादिश्रु- तिभ्यः । कर्मविषयत्वमेव विज्ञानस्येति चेत्, न; ' योऽश्वमे- द्धातः] 6 प्रथमोऽध्यायः । ' , धेन यजते य उ चैनमेवं वेद' इति विकल्पश्रुतेः । विद्याप्रक- रणे चाम्नानात्, कर्मान्तरे च संपादनदर्शनात्, विज्ञानात्तत्फ- लप्राप्तिरस्तीत्यवगम्यते । सर्वेषां च कर्मणां परं कर्माश्वमेधः, समष्टिव्यष्टिप्राप्तिफलत्वात् । तस्य चेह ब्रह्मविद्याप्रारम्भे आ- स्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम् । तथा च दर्शयि- ष्यति फलमशनायामृत्युभावम् । न नित्यानां संसारविषय- फलत्वमिति चेत्, न ; सर्वकर्मपलोपसंहारश्रुतेः । सर्वे हि पत्नीसंबद्धं कर्म ; 'जाया मे स्यादेतावान्वै काम:' इति नि- सर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा पुत्रकर्मापरविद्या- नां च ' अयं लोकः पितृलोको देवलोक : ' इति फलं दर्शय- त्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति ' त्रयं वा इदं नाम रूपं कर्म' इति – – सर्वकर्मणां फलं व्याकृतं संसार एवेति । इदमेव त्र्यं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् । तदेव पुनः सर्व- प्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः । सोऽयं व्याकृता- व्याकृतरूपः संसारोऽविद्याविषयः क्रियाकारकफलात्मकतया- त्मरूपत्वेनाध्यारोपितोऽविद्ययैव मूर्तीमूर्ततद्वासनात्मकः । अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावो- ऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते । अतोऽस्मा- त्क्रियाकारकफलभेदस्वरूपात् 'एतावदिदम्' इति साध्य- साधनरूपाद्विरक्तस्य बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते ॥ तत्र तावदश्वमेधविज्ञानाय 'उषा वा अश्वस्य' इत्यादि । तत्राश्वविषयमेव दर्शनमुच्यते, प्राधान्यादश्वस्य । प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ॥ ॐ । उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यचक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठ- मन्तरिक्षमुदरं पृथिवी पाजखं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मा- साश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रति- ष्ठा नक्षत्राण्यस्थीनि नभो मासानि । ऊध्य सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतय- च लोमान्युद्यन्पूर्वार्धी निम्लोचञ्जघनार्थो यद्विजृम्भते तद्विद्योतते यद्विधनुते त- त्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १ ॥ क. १.] प्रथमोऽध्यायः । उषा इति, ब्राह्मो मुहूर्त: उषाः; वैशब्द: स्मारणार्थः, प्रसिद्धं कालं स्मारयति ; शिरः, प्राधान्यात्; शिरश्च प्रधानं शरीरावयवानाम् ; अश्वस्य मेध्यस्य मेधार्हस्य यज्ञियस्य, उषाः शिर इति संबन्धः । कर्मास्य पशो: संस्कर्तव्यत्वा- त्कालादिदृष्टयः शिरआदिषु क्षिप्यन्ते ; प्राजापत्यत्वं च प्रजा- पतिदृष्ट्यध्यारोपणात्; काललोकदेवतात्वाध्यारोपणं च प्रजा- पतित्वकरणं पशोः; एवंरूपो हि प्रजापतिः ; विष्णुत्वादिकर- णमिव प्रतिमादौ । सूर्यश्चक्षुः, शिरसोऽनन्तरत्वात्सूर्याधिदै- वतत्वाश्च ; वातः प्राणः, वायुस्वाभाव्यात् ; व्यान्तं विवृतं मुखम् अग्निर्वैश्वानरः; वैश्वानर इत्यग्नेर्विशेषणम् ; वैश्वानरो नामाभिर्विवृतं मुखमित्यर्थः, मुखस्याग्निदैवतत्वात्; संवत्सर आत्मा; संवत्सरो द्वादशमासस्त्रयोदशमासो वा ; आत्मा शरीरम; कालावयवानां च संवत्सरः शरीरम् ; शरीरं चा- त्मा, 'मध्यं ह्येषामङ्गानामात्मा' इति श्रुतेः; अश्वस्य मेध्य- स्येति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । यौः पृष्ठम्, ऊर्ध्वत्व- सामान्यात् अन्तरिक्षमुदरम, सुषिरत्वसामान्यात्; पृथिवी पाजस्यं पादस्यम्,, पाजस्वमिति वर्णव्यत्ययेन, पादासनस्थान- मित्यर्थः दिशश्चतस्रोऽपि पार्श्वे, पार्श्वेन दिशां संबन्धात्; पार्श्व- योर्दिशां च संख्यावैषम्यादयुक्तमिति चेत्, न ; सर्वमुखत्वोप- बृहदारण्यकोपनिषद्भाष्ये " [बा. १. पत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां संबन्धाददोष: ; अवान्तर- दिश आग्नेय्याद्याः पशवः पार्श्वास्थिीनि ; ऋतवोऽङ्गानि, सं- वत्सरावयवत्वादङ्गसाधर्म्यात्; मासाश्वार्धमासाश्च पर्वाणि संधयः, संधिसामान्यात्; अहोरात्राणि प्रतिष्ठा: ; बहुवच- नात्प्राजापत्यदैवपित्र्यमानुषाणि ; प्रतिष्ठाः पादाः, प्रतितिष्ठत्ये- तैरिति ; अहोरात्रैर्हि कालात्मा प्रतितिष्ठति, अश्वश्च पादै: ; नक्षत्राण्यस्थीनि, शुक्लत्वसामान्यात् ; नभो नभःस्था मेघाः, अ- न्तरिक्षस्योदरत्वोक्तेः ; मांसानि उदकरुधिरसेचनसामान्यात् । अवध्यम् उदरस्थमर्धजीर्णमशनं सिकताः, विश्लिष्टावयवत्व- सामान्यात्; सिन्धवः स्यन्दनसामान्यात् नद्यः गुदा नाड्यः, बहुवचनाच्च; यकृत कोमानश्च हृदयस्याधस्ताद्दक्षिणोत्तरौ मांसखण्डौ ; क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ; पर्व - ताः, काठिन्यादुच्छ्रितत्वाच्च ; ओषधयश्च क्षुद्रा: स्थावराः, वनस्पतयो महान्तः, लोमानि केशाश्च यथासंभवम्; उद्य- नुगच्छन्भवति सविता आ मध्याह्नात् अश्वस्य पूर्वार्ध: नाभे- रूर्ध्वमित्यर्थः ; निम्लोचन्नस्तं यन् आ मध्याह्नात् जघनार्थो - ऽपरार्धः, पूर्वापरत्वसाधर्म्यात्; यद्विजृम्भते गात्राणि विनाम- यति विक्षिपति, तद्विद्योतते विद्योतनम्, मुखघनविदारण- सामान्यात्; यद्विधनुते गात्राणि कम्पयति, तत्स्तनयति, " क. २.] प्रथमोऽध्यायः । गर्जनशब्दसामान्यात्; यन्मेहति मूत्रं करोत्यश्वः, तद्वर्षति सेचनसामान्यात् ; वागेव शब्द एव अस्याश्वस्य वर्षणं तत्, वागिति नात्र कल्पनेत्यर्थः ॥ " " अहर्वा अश्वं पुरस्तान्महिमान्वजायत • तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्म- हिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः संबभूवतुः । हयो भूत्वा देवानवहद्वाजी गन्धर्वानव- सुरानश्वो मनुष्यान्समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २ ॥ इति प्रथमाध्यायस्य प्रथमं ब्राह्मणम् ॥ अहर्वा इति, सौवर्णराजतौ महिमाख्यौ महावश्वस्या- ग्रतः पृष्ठतश्च स्थाप्येते, तद्विषयमिदं दर्शनम् । अहः सौवर्णो ग्रहः, दीप्तिसामान्याद्वै । अहरवं पुरस्तान्महिमान्वजायतेति कथम् ? अश्वख प्रजापतित्वात्; प्रजापतिर्ह्रादित्यादिलक्ष- णोऽह्ना लक्ष्यते; अचं लक्षयित्वाजायत सौवर्णो महिमा ग्रहः, वृक्षमनु विद्योतते विद्युदिति यद्वत् । तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनि, विभक्तिव्यत्ययेन; योनिरित्या - बृहदारण्यकोपनिषद्भाष्ये सादनस्थानम् । तथा रात्री राजतो ग्रहः, " ' [ब्रा. १. वर्णसामान्याज्जघ- न्यत्वसामान्याद्वा । एनमश्वं पश्चात्पृष्ठतो महिमा अन्वजा- यत; तस्यापरे समुद्रे योनिः । महिमा महत्त्वात् । अश्वस्य हि विभूतिरेषा, यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते तावेतौ वै महिमानौ महिमाख्यौ ग्रहौ अश्वमभितः संबभू- वतुः उक्तलक्षणावेव संभूतौ । इत्थमसावश्वो महत्त्वयुक्त इति पुनर्वचनं स्तुत्यर्थम् । तथा च हयो भूत्वेत्यादि स्तुत्यर्थ- मेव । यो हिनोतेर्गतिकर्मणः, विशिष्टगतिरित्यर्थः ; जातिवि- शेषो वा ; देवानवहत् देवत्वमगमयत्, प्रजापतित्वात्; देवानां वा वोढाभवत् ; ननु निन्दैव वाहनत्वम् ; नैष दोषः ; वाह- नत्वं स्वाभाविकमश्वस्य, स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसं- बन्धोऽश्वस्य इति स्तुतिरेवैषा । तथा वाज्यादयो जाति- विशेषा:; वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः; तथार्वा भूत्वासुरान् ; अश्वो भूत्वा मनुष्यान् । समुद्र एवेति परमा- त्मा, बन्धुर्बन्धनम्, बध्यतेऽस्मिन्निति; समुद्रो योनिः कार- णमुत्पत्ति प्रति; एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ; 'अप्सुयोनिर्वा अश्व:' इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥ n इति प्रथमाध्यायस्य प्रथमं ब्राह्मणम् ॥ द्वितीयं ब्राह्मणम् ॥ * नैवेह किंचनाग्र आसीन्मृत्युनैवेदमा- वृतमासीदशनाययाशनाया हि मृत्यु- स्तन्मनोऽकुरुतात्मन्वी स्यामिति । सो- saraरतस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वं करें ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥ अथाग्रश्वमेधोपयोगिकस्योत्पत्तिरुच्यते । तद्विषयदर्श- नविवक्षयैवोत्पत्तिः स्तुत्यर्था । नैवेह किंचना आसीत् इह संसारमण्डले, किंचन किंचिदपि नामरूपप्रविभक्तवि- शेषम्, नैवासीत् न बभूव, अग्रे प्रागुत्पत्तेर्मनआदेः ॥ किं शून्यमेवं बभूव ? शून्यमेव स्यात्; 'नैवेह किंचन " इति श्रुतेः, न कार्य कारणं वासीत्; उत्पत्तेश्व; उत्पद्यते हि घटः; अतः प्र।गुत्पत्तेर्घटस्य नास्तित्वम् । ननु कारणस्य न नास्तित्वम्, मृत्पिण्डादिदर्शनात्; यन्नोपलभ्यते तस्यैव ना- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. स्तिता । अस्तु कार्यस्य, न तु कारणस्य, उपलभ्यमानत्वात् । न, प्रागुत्पत्तेः सर्वानुपलम्भात् । अनुपलब्धिश्चेदभावहेतु:, सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्य वोपलभ्यते; तस्मा- त्सर्वस्यैवाभावोऽस्तु ॥ 5 न, 'मृत्युनैवेदमावृतमासीत्' इति श्रुतेः; यदि हि किंचि- दपि नासीत्, येनाब्रियते यच्चात्रियते, तदा नावक्ष्यत् ' मृत्यु- नैवेदमावृतम्' इति ; न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ; ब्रवीति च 'मृत्युनैवेदमावृतमासीत्' इति । तस्मात् येनावृ- तं कारणेन, यञ्चावृतं कार्यम्, प्रागुत्पत्तेस्तदुभयमासीत् श्रुतेः प्रामाण्यात्, अनुमेयत्वाच्च । अनुमीयते च प्रागुत्पत्तेः कार्य- कारणयोरस्तित्वम् । कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात्, असति चादर्शनात्, जगतोऽपि प्रागु- त्पत्तेः कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत् । घटा- दिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्य- नुत्पत्तेरिति चेत्, न; मृदादेः कारणत्वात् । मृत्सुवर्णादि हि तल कारणं घटरुचकादेः, न पिण्डाकारविशेष:, तदभावे भावात् । असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्य- मात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते । तस्मान्न पिण्डा- कारविशेषो घटरुचकादिकारणम् । असति तु मृत्सुवर्णादि- " क. १.] प्रथमोऽध्यायः : 1 द्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कार- णम्, न तु पिण्डाकारविशेषः । सर्वे हि कारणं कार्यमुत्पाद- यत्, पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत्, कार्यान्तरमु- त्पादयति ; एकस्मिन्कारणे युगपदनेककार्यविरोधात् । न च पूर्वकार्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति । तस्मा- त्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणास- वे । पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत् — पिण्डादिपूर्वकार्योपमर्दे मृदादि कारणं नोपमृद्यते, घटादि- कार्यान्तरेऽप्यनुवर्तते, इत्येतदयुक्तम्, पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत्, न; मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् । सादृश्यादन्व- यदर्शनम्, न कारणानुवृत्तेरिति चेत्, न; पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमाना भासात्सादृश्या- दिकल्पनानुपपत्तेः । न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचा- रिता, प्रत्यक्षपूर्वकत्वादनुमानस्य ; सर्वत्रैवानाश्वासप्रसङ्गात् — यदि च क्षणिकं' सर्वं तदेवेदमिति गम्यमानम्, तद्बुद्धेरप्य- न्यतद्बुद्धश्रपेक्षत्वे - तस्या अप्यन्यतद्बुद्धयपेक्षत्वमित्यनवस्था- याम्, तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात्, सर्वत्रा- नाश्वासतैव । तदिदंबुद्धयोरपि कर्त्रभावे संबन्धानुपपत्तिः । बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. २. सादृश्यात्तत्संबन्ध इति चेत्, न तदिदंबुद्धयोरितरेतरविषय- त्वानुपपत्तेः । असति चेतरेतरविषयत्वे सादृश्य ग्रहणानुपपत्तिः । असत्येव सादृश्ये तद्बुद्धिरिति चेत्, न तदिदंबुद्धयोरपि साह- श्यबुद्धिवदसद्विषयत्वप्रसङ्गात् । असद्विषयत्वमेव सर्वबुद्धीना- मस्त्विति चेत्, न; बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् । तद्ध्य- स्त्विति चेत्, न; सर्वबुद्धीनां मृषात्वेऽसत्यबुद्धयनुपपत्तेः । तस्मादसदेतत्—सादृश्यात्तद्बुद्धिरिति । अतः सिद्धः प्राक्का- र्योत्पत्तेः कारणसद्भावः ॥ कार्यस्य च अभिव्यक्तिलिङ्गत्वात् । कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ; कथमभिव्यक्तिलिङ्गत्वात् — अभिव्यक्ति- र्लिङ्गमस्येति ? अभिव्यक्ति: साक्षाद्विज्ञानालम्बनत्वप्राप्तिः । यद्धि लोके प्रावृतं तमआदिना घटादि वस्तु, तदालोका- दिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत्, प्राक्स- द्भावं न व्यभिचरति ; तथेदमपि जगत् प्रागुत्पत्तेरित्यवग- च्छामः । न ह्यविद्यमानो घटः उदितेऽप्यादित्ये उपलभ्यते । न; ते अविद्यमानत्वाभावादुपलभ्येतैवेति चेत् — न हि तव घटादि कार्य कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्ये- तैव, मृत्पिण्डेसंनिहिते तमआद्यावरणे चासति विद्यमानत्वा- दिति चेत्, न ; द्विविधत्वादावरणस्य । घटादिकार्यस्य द्विविधं - ; प्रथमोऽध्यायः । क. १-] ह्यावरणम् - मृदादेरभिव्यक्तस्य तमः कुड्यादि, प्राङ्मुदोऽभि- व्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम् । तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्यावृत्तत्वादनुपल- ब्धिः । नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्यक्तितिरो- भावयोर्द्विविधत्वापेक्षः । पिण्डकपालादेरावरणवैलक्षण्याद- युक्तमिति चेत् — तमः कुड्यादि हि घटाद्यावरणं घटा- दिभिन्नदेशं दृष्टम् ; न तथा घटादिभिन्नदेशे दृष्टे पिण्डक- पाले ; तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृ- तत्वादनुपलब्धिरित्ययुक्तम्, आवरणधर्मवैलक्षण्यादिति चेत्, न; क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् । घटादि- कार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत्, न; विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः । आवरणा- भावे एव यत्नः कर्तव्य इति चेत् — पिण्डकपालावस्थ- योर्विद्यमानमेव घटादि कार्यमावृतत्वान्नोपलभ्यत इति चेत्, घटादिकार्यार्थिना तदावरणविनाशे एव यत्नः कर्तव्यः, न घटाद्युत्पत्तौ ; न चैतदस्ति; तस्मादयुक्तं विद्यमानस्यैवावृत- त्वादनुपलब्धि:, इति चेत्, न ; अनियमात् । न हि विनाश- मात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता; तमआद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात् । सोऽपि तमोनाशायैवेति चे- S. B. U. 2 १.८ बृहदारण्यकोपनिषद्भाष्ये " [ ब्रा. २. तू — दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय ; तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ; न हि घटे किंचिदाधीयत इति चेत्, न ; प्रकाशवतो घटस्योपलभ्यमानत्वात् । यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक्प्रदी- पकरणात् । तस्मान्न ं तमस्तिरस्करणायैव प्रदीपकरणम् ; किं तर्हि, प्रकाशवत्त्वाय ; प्रकाशवत्त्वेनैवोपलभ्यमानत्वात् । क्वचि- दावरणविनाशेऽपि यत्नः स्यात् ; यथा कुड्यादिविनाशे । तस्मान्न नियमोऽस्ति——अभिव्यक्त्यर्थिनावरणविनाशे एव यत्नः कार्य इति । नियमार्थवत्त्वाच । कारणे वर्तमानं कार्य कार्यान्तरा- णामावरणमित्यवोचाम । तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्य पिण्डस्य व्यवहितस्य वा कपालस्य विनाशे एव यत्नः क्रि- येत, तदा विदलचूर्णाद्यपि कार्ये जायेत । तेनाप्यावृतो घ- टो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव । तस्माद्घटाद्य- भिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान् । तस्मा- प्रागुत्पत्तेरपि सदेव कार्यम् । अतीतानागतप्रत्ययभेदाच्च । अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्र- त्ययवन्न निर्विषयत्वं युक्तम् । अनागतार्थप्रवृत्तेश्च । न ह्यस त्यर्थितया प्रवृत्तिर्लोके दृष्टा । योगिनां चातीतानागतज्ञानस्य सत्यत्वात् । असंश्चेद्भविष्यद्घटः, ऐश्वरं भविष्यद्धटविषयं प्र- क. १.] - प्रथमोऽध्यायः । १९. त्यक्षज्ञानं मिथ्या स्यात् ; न च प्रत्यक्षमुपचर्यते ; घटसद्भावे ह्यनुमानमवोचाम । विप्रतिषेधाच्च । यदि घटो भविष्यतीति, कुलालादिषु व्याप्रियमाणेषु घटार्थम्, प्रमाणेन निश्चितम् येन च कालेन घटस्य संबन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते ; भविष्यन्घटोऽसन्निति, न भविष्यतीत्यर्थः ; अयं घटो न वर्तत इति यद्वत् । अथ प्रागु- त्पत्तेर्घटोऽसन्नित्युच्येत घटार्थ प्रवृत्तेषु कुलालादिषु तंत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादय:, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेत्, न विरुध्यते; कस्मात् ? स्वेन हि भविष्यद्रूपेण घटो वर्तते ; न हि पिण्डस्य वर्तमानता, कपालस्य वा, घटस्य भवति ; न च तयोः, भविष्यत्ता घटस्य ; तस्मात्कु- लालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरु- ध्यते । यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत् प्रतिषि- ध्येत तत्प्रतिषेधे विरोधः स्यात् ; न तु तद्भवान्प्रतिषेधति; न च सर्वेषां क्रियावतामेकैव वर्तमानता भविष्यत्त्वं वा । अपि च, चतुर्विधानामभावानाम्, घटस्येतरेतराभावो घटा- दन्यो ष्टः -- यथा घटाभाव: पटादिरेव, न घटस्वरूपमेव 1 न च घटाभावः सन्पट: अभावात्मक: ; किं तर्हि ? भावरूप एव । एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटादन्यत्वं बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. स्यात्, घंटेन व्यपदिश्यमानत्वात्, घटस्येतरेतराभाववत् ; तथैव भावात्मकताभावानाम् । एवं च सति घटस्य प्राग- भांव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति । अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत, घटस्येति व्यप- देशानुपपत्तिः । अथ कल्पयित्वा व्यपदिश्येत, शिलापुत्र- कस्य शरीरमिति यद्वत्; तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशः, न घटस्वरूपस्यैव । अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् । किंचा- न्यत्; प्रागुत्पत्तेः शशविषाणवद्भावभूतस्य घटस्य स्वकार- णसत्तासंबन्धानुपपत्तिः, द्विनिष्ठत्वात्संबन्धस्य । अयुतसि- द्धानामदोष इति चेत्, न; भावाभावयोरयुतसिद्धत्वानुप- पत्तेः । भावभूतयोर्हि युतसिद्धता अयुतसिद्धता वा स्यात्, न तु भावाभावयोरभावयोर्वा । तस्मात्सदेव कार्य प्रागुत्पत्तेरिति सिद्धम् ॥ किंलक्षणेन मृत्युनावृतमित्यत आह- अशनायया, अशितुमिच्छा अशनाया, सैव मृत्योर्लक्षणम्, तया लक्षि- तेन मृत्युना अशनायया । कथमशनाया' मृत्युरिति, उच्य- ते — अशनाया हि मृत्युः । हि-शब्देन प्रसिद्धं हेतुमवद्यो - तयति । यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति क. १.] प्रथमोऽध्यायः । जन्तून् । तेनासावशनार्यया लक्ष्यते मृत्युरिति, अशनाया हीत्याह । बुद्धधात्मनोऽशनाया धर्म इति स एष बुद्धयवस्थो हिरण्यगर्भो मृत्युरित्युच्यते । तेन मृत्युनेदं कार्यमावृतमा- सीत्, यथा पिण्डावस्थया मृदा घटादय आवृताः स्युरिति तद्वत् । तन्मनोऽकुरुत, तदिति मनसो निर्देश: ; स प्रकृतो मृत्युः वक्ष्यमाणकार्यसिसृक्षया तत् कार्यालोचनक्षमम्, मनः शब्दवाच्यं संकल्पादिलक्षणमन्तःकरणम्, अकुरुत कृतवान् । केनाभिप्रायेण मनोऽकरोदिति, उच्यते — आत्म- न्वी आत्मवान् स्यां भवेयम्; अहमनेनात्मना मनसा मन- स्वी स्यामित्यभिप्राय: । सः प्रजापतिः, अभिव्यक्तेन मनसा समनस्कः सन्, अर्चन् अर्चयन्पूजयन् आत्मानमेव कृतार्थो - ऽस्मीति, अचरत् चरणमकरोत् । तस्य प्रजापते: अर्चतः पूज- यतः आपः रसात्मिका: पूजाङ्गभूताः अजायन्त उत्पन्नाः । अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम्, श्रुत्यन्तरसामर्थ्यात्, विकल्पासंभवाच्च सृष्टिक्रमस्य । अर्च पूजां कुर्वते वै मे मह्यं कम् उदकम् अभूत् इति एवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोः अर्कस्य अग्रश्वमेधकत्वौ- पयोगिकस्य अर्कत्वम् ; अर्कत्वे हेतुरित्यर्थः । अग्नेरर्कनामनिर्व- चनमेतत् - अर्चनात्सुखहेतुपूजाकरणादप्संबन्धाच्चामेरेतद्गौणं बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. नामार्क इति । यः एवं यथोक्तम् अर्कस्यार्कत्वं वेद जाना- ति, कम् उदकं सुखं वा, नामसामान्यात्, ह वै इत्यवधार- णार्थौ, भवत्येवेति, अस्मै एवंविदे एवंविदर्थं भवति ॥ आपो वा अर्कस्तद्यदपा शर आसी- तत्समहन्यत । सा पृथिव्यभवत्तस्याम-, श्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ २ ॥ " आपो वा अर्कः । कः पुनरसावर्क इति उच्यते-- आपो वै या अर्चनाङ्गभूतास्ता एव अर्क:, अग्नेरर्कस्य हेतुत्वात्, अप्सु चाभिः प्रतिष्ठित इति ; न पुनः साक्षादेवार्कस्ताः, ता- सामप्रकरणात् ; अग्नेश्च प्रकरणम् ; वक्ष्यति च - ' अयमग्निरर्कः' इति । तत् तत्र, यदपां शर इव शरो दघ्न इव मण्डभूतमा- सीत्, तत्समहन्यत संघातमापद्यत तेजसा बाह्यान्तः पच्य- मानम्; लिङ्गव्यत्ययेन वा योऽपां शरः स समहन्यतेति । सा पृथिव्यभवत्, स संघातो येयं पृथिवी साभवत् ; ता- भ्योऽद्भूयोऽण्डमभिनिर्वृत्तमित्यर्थः ; तस्यां पृथिव्यामुत्पादि- तायाम्, स मृत्युः प्रजापतिः अश्राम्यत् 'श्रमयुक्तो बभूव ; सर्वो हि लोकः कार्यं कृत्वा श्राम्यति ; प्रजापतेश्च तन्महत्का- र्यम्, यत्पृथवीसर्गः; किं तस्य श्रान्तस्येत्युच्यते ---तस्य श्रा- क. ३.] प्रथमोऽध्यायः । न्तस्य तप्तस्य स्विन्नस्य, तेजोरस: तेज एव रसस्तेजोरसः, रसः सारः, निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः ; कोऽसौ निष्क्रान्तः ? अग्निः सोऽण्डस्यान्तर्विराट् प्रजापतिः प्रथमजः कार्यकरणसंघातवाञ्जातः ; ' स वै शरीरी प्रथमः इति स्मरणात् ॥ स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीय स एष प्राणस्त्रेधा वि- हितः । तस्य प्राची दिक्शिरोऽसौ चासौ मौं । अथास्य प्रतीची दिक्पुच्छ्मसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु प्रतिष्ठितो यत्र कचैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥ " स च जातैः प्रजापति: त्रेधा विप्रकारम् आत्मानं स्वयमेव कार्यकरणसंघातं व्यकुरुत व्यभजदित्येतत् ; कथं वेधेत्याह- आदित्यं तृतीयम् अग्निवाय्वपेक्षया त्त्रयाणां पूरणम्, अकुरुतेत्यनुवर्तते ; तथाग्न्यादित्यापेक्षया बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. वायुं तृतीयम्; तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्ट- व्यम्; सामर्थ्यस्य तुल्यत्वात्रयाणां संख्यापूरणत्वे । स ए . प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वे- नैव मृत्य्वात्मना त्रेधा विहितः विभक्तः, न विराट्स्वरू- पोपमर्दनेन । तस्यास्य प्रथमजस्याग्रश्वमेधौपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्याश्वस्येव दर्शनमुच्यते; सर्वा हि पूर्वोक्तो- त्पत्तिरस्य स्तुत्यर्थेत्यवोचाम - इत्थमसौ शुद्धजन्मेति । तस्य प्राची दिक् शिरः, विशिष्टत्वसामान्यात्; असौ चासौ च ऐ- शान्याय्यौ ईम बाहू, ईरयतेर्गतिकर्मणः । अथ अस्य अग्नेः, प्रतीची दिक पुच्छं जघन्यो भागः, प्राङ्मुखस्य प्रत्यग्दिक्सं- बन्धात्; असौ चासौ च वायव्यनैर्ऋत्यो सक्थ्यौ सक्थिनी, पृष्ठकोणत्वसामान्यात्; दक्षिणा चोदीची च पार्श्वे, उभयदि- क्संबन्धसामान्यात्; द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ; इयमुरः, अधोभागसामान्यात् ; स एषोऽग्निः प्रजापतिरूपो लोकाद्यात्मकोऽग्निः अप्सु प्रतिष्ठितः, ' एवमिमे लोका अप्स्वन्तः' इति श्रुतेः; यत्र क्वच यस्मिन्कस्मिंश्चित् एति गच्छति, तदेव तत्रैव प्रतितिष्ठिति स्थितिं लभते ; कोऽसौ ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेः विद्वान् विजानन् ; गुणफ- लमेतत क्र. ४.] प्रथमोऽध्यायः । सोऽकामयत द्वितीयो म आत्मा जा- येतेति स मनसा वाचं मिथुन‍ स- मभवदशनायामृत्युस्तद्यद्रेत आसीत्स संवत्सरोऽभवत् । न ह पुरा ततः सं- 'वत्सर आस तमेतावन्तं कालमबिभः । यावान्संवत्सरस्तमेतावतः कालय पर - स्तादसृजत । तं जातमभिव्या ददात्र भाणकरोत्सैव वागभवत् ॥ ४ ॥ सोऽकामयत - योऽसौ मृत्युः सोऽवादिक्रमेणात्मना - त्मानमण्डस्यान्तः कार्यकरणसंघातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम् । स किंव्यापारः सन्नसृजतेति, उच्यते-- सः मृत्युः अकामयत कामितवान् किम्? द्वि- तीयः मे मम आत्मा शरीरम्, येनाहं शरीरी स्याम्, स जायेत उत्पद्येत इति एवमेतदकामयत सः एवं कामयित्वा, मनसा पूर्वोत्पन्नेनं, वाचं त्रयीलक्षणाम्, मिथुनं द्वन्द्वभावम्, समभवत् संभवनं' कृतवान्, मनसा त्रयीमालोचितवान् ; त्र- विहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः । कोऽसौ ? अ- शनायया लक्षितो मृत्युः ; अशनाया मृत्युरित्युक्तम् ; तमेव बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. परामृशति, अन्यत्र प्रसङ्गो मा भूदिति; तद्यद्रेत आसीत्, तत् तत्र मिथुने, यद्रेत आसीत्, प्रथमशरीरिण: प्रजापतेरु- त्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम्, त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम् ; तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्याण्डरूपेण गर्भीभूतः सः, संवत्स- रोऽभवत् संवत्सरकालनिर्माता संवत्सरः, प्रजापतिरभवत् । न ह, पुरा पूर्वम्, ततः तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम, न आस न बभूव ह ; तं संवत्सरकाल- निर्मातारमन्तर्गर्भ प्रजापतिम्, यावानिह प्रसिद्ध: काल: ए- तावन्तम् एतावत्संवत्सरपरिमाणं कालम् अबिभः भृतवान् मृत्युः । यावान्संवत्सरः इह प्रसिद्ध:, ततः परस्तात्किं कृत- वान् ? तम्, एतावतः कालस्य संवत्सरमात्रस्य परस्तात् ऊर्ध्वम् असृजत सृष्टवान्, अण्डमभिनदित्यर्थः । तम् एवं कु- मारं जातम् अग्निं प्रथमशरीरिणम्, अशनायावत्त्वान्मृत्युः अभिव्याददात् मुखविदारणं कृतवान् अत्तुम्; स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तः भाणित्येवं शब्दम् अकरोत् ; वागभवत्, वाक् शब्दः अभवत् ॥ सै स ऐक्षत यदि वा इममभिमस्ये कनीयोऽन्नं करिष्य इति स तया वाचा क. ५.] प्रथमोऽध्यायः । तेनात्मनेद सर्वमसृजत यदिदं किंचचों यजुषि सामानि च्छन्दासि यज्ञान्प्र- जाः पशून् । स यद्यदेवासृजत तत्तदत्तु- मधियत सर्वे वा अतीति तददितेर- दितित्वँ सर्वयैतस्यात्ता भवति सर्व- मस्यान्नं भवति य एवमेतददितेरदिति- त्वं वेद ॥ ५ ॥ स ऐक्षत — सः, एवं भीतं कृतरवं कुमारं दृष्ट्वा, मृत्युः ऐक्षत ईक्षितवान्, अशनायावानपि - यदि कदाचिद्वा इमं कुमारम् अभिमंस्ये, अभिपूर्वो मन्यतिहिंसार्थ:, हिंसिष्ये इत्यर्थः ; कनीयोऽन्नं करिष्ये, कनीयः अल्पमन्नं करिष्ये-- इति; एवमीक्षित्वा तद्भक्षणादुपरराम; बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय, न कनीयः; तद्भक्षणे हि कनीयोऽन्नं स्यात्, बीजभक्षणे इव सस्याभावः । सः एवं प्रयोजनमन्नबा- हुल्यमालोच्य तयैव त्रय्या वाचा पूर्वोक्तया, तेनैव च आ- त्मना मनसा, मिथुनीभावमालोचनमुपगम्योपगम्य, इदं सर्व स्थावरं जङ्गमं च असृजत, यदिदं किंच यत्किंचेदम् ; किं तत् ? ऋचः, यजूंषि सामानि छन्दांसि च सप्त गाय- " ' " ल वृहदारण्यकोपनिषद्भाष्ये " [त्रा. २. - त्र्यादीनि~~ स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गाय त्र्यादिच्छन्दोविशिष्टान् यज्ञांश्च तत्साध्यान् प्रजास्त- त्कर्त्रीः, पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान् । ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम् ; ऋगादीनीह कथमसृजतेति ? नैष दोषः ; मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या; बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्ती- भावः सर्ग इति । सः प्रजापतिः, एवमन्नवृद्धिं बुद्धा, यद्यदेव क्रियां क्रियासाधनं फलं वा किंचित् असृजत, तत्तदत्तुं भक्षयितुम् अध्रियत धृतवान्मनः; सर्वे कृत्स्नं वै यस्मात् अत्ति, तत् तस्मात् अदिते: अदितिनाम्नो मृत्योः अदितित्वं प्रसिद्धम् ; तथा च मन्त्रः- -" अदितिद्यौरदितिरन्त- रिक्षमदितिर्माता स पिता ' इत्यादि : ; सर्वस्यैतस्य जगतोऽन्न- भूतस्य अत्ता सर्वात्मनैव भवति, अन्यथा विरोधात् ; न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यते; तस्मात्सर्वात्मा भव- तीत्यर्थः; सर्वमस्यान्नं भवति ; अत एव सर्वात्मनो ह्यत्तुः सर्व- मन्नं भवतीत्युपपद्यते; य एवमेतत् यथोक्तम्, अदितेः मृत्योः प्रजापतेः सर्वस्यादनाददितित्वं वेद, तस्यैतत्फलम् ॥ - " सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् तपोऽतप्यत क. ६.] प्रथमोऽध्यायः । - तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदका- मत् । प्राणा वै यशो वीर्य तत्प्राणेषू- त्क्रान्तेषु शरीर श्वयितुमधियत तथ शरीर एव मन आसीत् ॥ ६ ॥ सोऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह । भूयसा महता यज्ञेन भूयः पुनरपि यजेयेति; जन्मान्तरकरणापे- क्षया भूयः शब्दः ; स प्रजापतिर्जन्मान्तरेऽश्वमेधेनायजत; स तद्भावभावित एव कल्पादौ व्यवर्तत; सोऽश्वमेधक्रियाका- रकफलात्मत्वेन निर्वृत्तः सन्नकामयत- भूयसा यज्ञेन भूयो यजेयेति । एवं महत्कार्य कामयित्वा लोकवदश्राम्यत् ; स तपोऽतप्यत ; तस्य श्रान्तस्य तप्तस्येति पूर्ववत् ; यशो वीर्य - मुदक्रामदिति स्वयमेव पदार्थमाह — प्राणा: चक्षुरादयो वै यशः, यशोहेतुत्वात् तेषु हि सत्सु ख्यातिर्भवति ; तथा वीर्य बलम् अस्मिञ्शरीरे; न ह्युत्क्रान्तप्राणो यशस्वी बलवा - न्वा भवति; तस्मात्प्राणा एव यशो वीर्य चास्मिशरीरे, तदेवं प्राणलक्षणं यशो वीर्यम् उदक्रामत् उत्क्रान्तवत् । तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु, शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुम् उच्छूनभावं गन्तुम् अधियत, अमे- ध्यं चाभवत् ; तस्य प्रजापतेः, शरीरान्निर्गतस्यापि तस्मिन्नेव ' बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. शरीरे मन आसीत्; 'यथा कस्यचित्प्रिये विषये दूरं गत- स्यापि मनो भवति, तद्वत् ॥ सोऽकामयत मेध्यं मं इद‍ खादा- त्मन्व्यनेन स्यामिति । ततोऽश्वः सम- भवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमे धस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तँ संवत्सरस्य परस्तादात्मन आल- भत । पशून्देवताभ्यः प्रत्यौहत् । तस्मा- त्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभ- न्ते । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुन- मृत्युं जयति नैनं मृत्युराप्नोति मृत्यु- रस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥ f इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम् । क. ७.] प्रथमोऽध्यायः । स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदिति, उच्य - ते — सोऽकामयत । कथम् ? मेध्यं मेधार्ह यज्ञियं मे मम ' इदं शरीरम् स्यात् ; किंच आत्मन्वी आत्मवांश्च अनेन शरीरेण शरीरवान् स्यामिति - प्रविवेश । यस्मात् तच्छ- रीरं तद्वियोगाद्वतयशोवीर्यं सत् अश्वत् अश्वयत्, ततः तस्मात् अश्वः समभवत्; ततोऽश्वनामा प्रजापतिरेव साक्षा- दिति स्तूयते ; यस्माच्च पुनस्तत्प्रवेशात् गतयशोर्वीर्यत्वादमेध्यं सत् मेध्यमभूत्, तदेव तस्मादेव अश्वमेधस्य अश्वमेधनाम्नः क्रतोः अश्वमेधत्वम् अश्वमेधनामलाभः ; क्रियाकारकफला- त्मको हि क्रतुः ; स च प्रजापतिरेवेति स्तूयते । क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् -' उषा वा अश्वस्य मेध्यस्य' इत्यादिना । तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूप- स्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं वि- धातव्यमित्यारभ्यते । पूर्वत्र क्रियापदस्य विधायकस्याश्रुत- त्वात्, क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते I एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद - य: कश्चित्, एनम् अश्वमग्निरूपमर्के च यथोक्तम्, एवं वक्ष्यमाणेन समा- सेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्य: ; तस्मादेवं वेदितव्य इत्यर्थः । कथम् ? तत्र पशुविषय- } बृहदारण्यकोपनिषद्भाष्ये । ' [बा. २. मेव तावद्दर्शनमाह । तत्र प्रजापतिः 'भूयसा यज्ञेन भूयो यजेय' इति कामयित्वा आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम्, अनवरुध्यैव उत्सृष्टं पशुमवरोधमकृत्वैव मुक्तप्रप्र- हम्, अमन्यत अचिन्तयत् । तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत - प्रजापतिदेवताकत्वे- नेत्येतत् - आलभत आलम्भं कृतवान् । पशून् अन्यान्या- म्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान् । यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा 'सर्वदेवत्योऽहं प्रोक्ष्य- माणः ; आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् ; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव' इति विद्यात् । अत एवेदानीं सर्वदे- वत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका एवम् । एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः ; को- ऽसौ ? य एषः सविता तपति जगदवर्भासयति तेजसा ; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेष:, आत्मा शरीरम्, तन्निर्वर्त्यत्वात्संवत्सरस्य; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः अर्क, साधनभूतः तस्य चार्कस्य क्रतौ , क. ७.] प्रथमोऽध्यायः । 5 । चित्यस्य, इमे लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः ; तथा च व्याख्यातम् - ' तस्य प्राची दिकू' इत्यादिना ; ताव- ग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ ऋतुफले; अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ; क्रतोरग्नि- साध्यत्वात्तद्रूपेणैव निर्देश: ; क्रतुसाध्यत्वाच्च फलस्य क्र- तुरूपेणैव निर्देश :- आदित्योऽश्वमेध इति । तौ साध्यसा - धनौ क्रतुफलभूतावग्न्यादित्यौ -- सा उ पुनः भूयः, एकैव देवता भवति ; का सा ? मत्युरेव ; पूर्वमध्येकैवासीत्क्रिया- साधनफलभेदाय विभक्ता; तथा चोक्तम् ' स त्रेधात्मानं व्यकुरुत' इति ; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव दे- वता भवति-— मृत्युरेव फलरूपः ; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद - अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति सोऽपजयति, पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वा पुनर्भरणाय न जायत इत्यर्थः ; अप- जितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्कयाह - नैनं मृत्यु- राप्नोति ; कस्मात् ? मृत्यु:, अस्यैवंविदः, आत्मा भवति ; किंच मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति; तस्यैतत्फलम् ॥ इति प्रथमाध्यायस्य द्वितीयं ब्राह्मणम् ॥ S. B. II. 3 * तृतीयं ब्राह्मणम् ॥ 'द्वया ह' इत्याद्यस्य कः संबन्ध: ? कर्मणां ज्ञानसहि- तानां परा गतिरुक्ता मृत्य्वात्मभाव:, अश्वमेधगत्युक्त्या । अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भ- वः, तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते ॥ ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम् । उ- द्गीथज्ञानकर्मणोस्तु मृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति । अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थ- म् इति चेत्, नायं दोषः ; अग्न्यादित्यात्मभावत्वादुद्गी- थफलस्य ; पूर्वत्राप्येतदेव फलमुक्तम् —' एतासां देवतानामे- को भवति' इति । ननु ' मृत्युमतिक्रान्तः' इत्यादि विरुद्धम् ; न स्वाभाविकपाप्मा सङ्गविषयत्वादतिक्रमणस्य । कोऽसौ स्वाभाविकः पाप्मासङ्गो मृत्युः ? कुतो वा त- स्योद्भवः ? केन वा तस्यातिक्रमणम् ? कथं वा ? ——— इत्येतस्या- र्थस्य प्रकाशनाय आख्यायिका आरभ्यते । कथम् ?- r द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कनीयसा एव देवा ज्यायसा । क. १.] प्रथमोऽध्यायः । असुरास्त एषु लोकेष्वस्पर्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ॥ द्वयाद्विप्रकारा: ; हेति पूर्ववृत्तावद्योतको निपातः ; वर्त- मानप्रजापतेः पूर्वजन्मनि यद्वृत्तम्, तद्वद्योतयति ह-शब्देन ; प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः ; के ते ? देवाश्चासुराश्च ; तस्यैव प्रजापतेः प्राणा वागादय: ; कथं पुनस्तेषां देवासुरत्वम् ? उच्यते - शास्त्रजनितज्ञानक- भाविता द्योतनाद्देवा भवन्ति ; त एव स्वाभाविकप्रत्यक्षा- नुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः, स्वेष्वेवा- सुषु रमणात, सुरेभ्यो वा देवेभ्योऽन्यत्वात् । यस्माच्च दृष्टप्रयोजनज्ञानकर्म भाविता असुराः, ततः तस्मात्, कानी- यसाः, कनीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः कनीयांसोऽल्पा एव देवा: ; ज्यायसा असुरा ज्यायांसो - ऽसुराः; स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेः, दृष्टप्रयोजनत्वात् ; अत एव कनीयस्त्वं देवानाम्, शास्त्रजनितप्रवृत्तेरल्पत्वात्; अत्य- न्तयन्नसाध्या हि सां; ते देवाश्चासुराश्च प्रजापतिशरीरस्थाः, एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु, अस्पर्धन्त स्पर्धां कृतवन्तः ; देवानां चासुराणां च वृत्त्युद्भवा- ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. freat स्पर्धा । कदाचिच्छास्त्रजनितकर्मज्ञानभावनारूपा वृत्तिः प्राणानामुद्भवति । यदा चोद्भवति, तदा दृष्टप्रयोजना प्रत्यक्षानुमानजनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्ति सुर्यभिभूयते । स देवानां जय:, असुराणां पराजयः । कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयते, आसुर्या उद्भवः । सोऽसुराणां जय:, देवानां पराजयः । एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः । असुरजयेऽधर्मभू- यस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः । उभयसाम्ये मनुष्यत्व - प्राप्तिः । त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहु- ल्यादसुराणां किं कृतवन्त इति उच्यते - ते देवा:, असु- रैरभिभूयमानाः, ह किल, ऊचुः उक्तवन्तः ; कथम् ? हन्त ! इदानीम्, अस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदा- र्थकर्तृस्वरूपाश्रयणेन, अत्ययाम अतिगच्छामः ; असुरानभि- भूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपद्यामहे इत्युक्त- वन्तोऽन्योन्यम् । उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञान- कर्मभ्याम् । कर्म वक्ष्यमाणं मन्त्रजपलक्षणम्, विधित्स्यमा- नम् -- ' तदेतानि जपेत्' इति । ज्ञानं त्विदमेव निरूप्य - माणम् ॥ " क. १.] प्रथमोऽध्यायः । " नन्विदमभ्यारोहजपविधिशेषोऽर्थवादः, न ज्ञाननिरूपण- परम् । न, ' य एवं वेद' इति वचनात् । उद्गीथप्रस्तावे पु- राकल्पश्रवणादुद्गीथविधिपरमिति चेत्, न, अप्रकरणात् ; उद्गीथस्य चान्यत्र विहितत्वात् ; विद्याप्रकरणत्वाच्चास्य ; अ- भ्यारोहजपस्य चानित्यत्वात् एवंवित्प्रयोज्यत्वात् विज्ञानस्य च नित्यवच्छ्रवणात्; 'तद्वैतल्लोकजिदेव' इति च श्रुतेः प्रा- णस्य वागादीनां च शुद्धयशुद्धिवचनात् ; न ह्यनुपास्यत्वे - प्राणस्य शुद्धिवचनम्, वागादीनां च सहोपन्यस्तानामशुद्धि- वचनम्, वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता, उप- पद्यते— 'मृत्युमतिक्रान्तो दीप्यते' इत्यादि फलवचनं च । प्राणस्वरूपापत्तेर्हि फलं तत्, यद्वागाद्यग्न्यादिभावः ॥ , भवतु नाम प्राणस्योपासनम्, न तु विशुद्धयादिगुणवत्ते- ति; ननु स्याच्छ्रुतत्वात् ; न स्यात्, उपास्यत्वे स्तुत्यर्थत्वोप- पत्तेः । न ; अविपरीतार्थप्रतिपत्तेः श्रेयः प्राप्युपपत्तेः, लोकव- तू । यो ह्यविपरीतमर्थ प्रतिपद्यते लोके स इष्टं प्राप्नोत्यनि- ष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या; तथेहापि श्रौतश- दजनितार्थप्रतिपत्तौ श्रेयः प्राप्तिरुपपन्ना न विपर्यये । न चोपासनार्थ श्रुतशब्दोत्थविज्ञानविषयस्यायथार्थत्वे प्रमाणम- स्ति । न च तद्विज्ञानस्यापवादः श्रूयते । ततः श्रेयः प्रादि- बृहदारण्यकोपनिषद्भाष्ये -- [ब्रा. ३. र्शनाद्यथार्थतां प्रतिपद्यामहे । विपर्यये चानर्थप्राप्तिदर्शनात्-- यो हि विपर्ययेणार्थं प्रतिपद्यते लोके – पुरुषं स्थाणुरिति, अमित्रं मित्रमिति वा, सोऽनर्थे प्राप्नुवन्दृश्यते । आत्मेश्वरदे- बतादीनामप्ययथार्थानामेव चेद्रहणं श्रुतितः, अनर्थप्राप्त्यर्थे शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव ; न चैतदिष्टम् । तस्माद्यथा- भूतानेवात्मेश्वरदेवतादीन्प्राहयत्युपासनार्थे शास्त्रम् । नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत्, स्फुटं नामादेरब्रह्मत्वम् ; तत्र ब्रह्मदृष्टिं स्थाण्वादाविव पुरुषदृष्टिं विपरीतां ग्राहय- च्छास्त्रं दृश्यते; तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेय इत्ययुक्तमिति चेत्, न प्रतिमावद्भेदप्रतिपत्तेः । नामादाव- ब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रम्, स्थाण्वादाविव पुरुषदृष्टिम् -- इति नैतत्साध्ववोचः । कस्मात् ? भेदेन हि ब्रह्मणो नामादिवस्तु प्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः, प्रतिमादाविव विष्णुदृष्टि: । आलम्बनत्वेन हि नामादिप्रति- पत्तिः, प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति । यथा स्था- णावनिर्ज्ञाते, न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम्, न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता ॥ -- ब्रह्मदृष्टिरेव केवला, नास्ति ब्रह्मेति चेत् एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता-- क. १.] प्रथमोऽध्यायः । न, ऋगादिषु पृथिव्यादिदृष्टिदर्शनात् विद्यमान पृथिव्यादि- वस्तुदृष्टीनामेव ऋगादिविषये प्रक्षेपदर्शनात् । तस्मात्तत्सामा- न्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसि- द्धि: । एतेन प्रतिमात्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धि: । मुख्यापेक्षत्वाच्च गौणत्वस्य ; पञ्चाग्न्यादिषु चाग्नित्वादेगौणत्वान्मुख्याग्न्यादिसद्भाववत्, नामादिषु ब्रह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः ॥ क्रियार्थैश्वाविशेषाद्विद्यार्थानाम् । यथा च दर्शपूर्णमासा- दिक्रिया इदंफला विशिष्टेतिकर्तव्यताका एवंक्रमप्रयुक्ताङ्गा च—इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेद- वाक्यैरेव ज्ञाप्यते; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूला- दिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते—इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति । न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानां बुद्धयुत्पादकत्वे विशेषो- ऽस्ति । न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते । अनुष्ठेयाभावादयुक्तमिति चेत्, क्रियार्थैर्वा - क्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि; न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किंचिदस्ति; अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत्, न; ज्ञानस्य तथाभूतार्थविषय- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. - त्वात् । न ह्यनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथा- त्वम् ; किं तर्हि ? प्रमाणसमधिगतत्वात् । न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम्; किं तर्हि ? वेदवाक्यजनित- त्वादेव । वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेय- त्वविशिष्टं चेत् अनुतिष्ठति ; नो चेदनुष्ठेयत्वविशिष्टम्, नानु- तिष्ठति । अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत्, ननुष्ठेयेऽसति पदानां संहतिरुपपद्यते ; अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति ——— इदमनेनैवं कर्तव्यमिति; न त्विदमनेनैव- मित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति - ' कुर्या त्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम' इत्येवमादीनाम- न्यतमेऽसति; अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम; पदार्थत्वे च प्रमाणान्तरविषयत्वम्; अतोऽसदेतदिति चेत्, न; 'अस्ति मेरुर्वर्णचतुष्टयोपेतः' इति एवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात् । न च, 'मेरुर्वर्णचतुष्टयोपेतः' इत्येवमादि- वाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते । तथा अस्ति- पदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेष- णविशेष्यभावेन संहतिः केन वार्यते । मेवदिज्ञानवत्परमा- त्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत न; 'ब्रह्मविदाप्नो- 'परम् ' '' भिद्यते हृदयग्रन्थिः ' इति फलश्रवणात्, ति " सं- क. १.] प्रथमोऽध्यायः 1: 1 सारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च । अनन्यशेषत्वाच्च त- ज्ज्ञानस्य, जुह्वामिव, फलश्रुतेरर्थवादत्वानुपपत्तिः ॥ , प्रतिषिद्धानिष्टफलसंबन्धश्च वेदादेव विज्ञायते । न चानु- ष्ठेयः सः । न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणाद- न्यदनुष्ठेयमस्ति । अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात् । क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य, अभक्ष्यभोज्ये वा प्रत्युपस्थिते कलाभिशस्तान्नादौ ' इदं भक्ष्यम् 'अदो भोज्यम' इति वा ज्ञानमुत्पन्नम्, तद्वि- षयया प्रतिषेधज्ञानस्मृत्या बाध्यते ; मृगतृष्णिकायामिव पेय- ज्ञानं तद्विषययाथात्म्यविज्ञानेन । तस्मिन्बाधिते स्वाभावि कविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न भवति । विपरीतज्ञाननिमित्ताया: प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्य- स्तदभावे । तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठता गन्धोऽप्यस्ति । तथेहापि परमात्मादि- याथात्म्यज्ञानविधीनां तावन्मात्रपर्यवसानतैव स्यात् । तथा तद्विज्ञानसंस्कृतस्य, तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनाम्, अनर्थार्थत्वेन ज्ञायमानत्वात परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधिते, अभावः स्यात् । ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभा बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. विके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृ- त्यभाववत्, अप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत्, न विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात् । कलञ्जभक्षणादिप्रवृत्ते मिथ्याज्ञाननिमित्तत्वमन- र्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि । तस्मात्पर- मात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि, मि- थ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात्, परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते, युक्त एवाभावः । ननु तत्र युक्तः ; नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्च अभावो न युक्त इति चेत्, न अविद्यारागद्वेषादिदोषवतो विहित- त्वात् । यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि तथा सर्वानर्थबीजावि- द्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहार रागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि क- र्माणि विधीयन्ते न केवलं शास्त्रनिमित्तान्येव । न चाग्नि- होत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वत: का- म्यनित्यत्वविवेकोऽस्ति । कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता ; तथा अविद्यादिदोषवतः स्वभविप्राप्तेष्टानिष्ट्रप्राप्ति- परिहारार्थिनस्तदर्थान्येव नित्यानि - इति युक्तम् ; तं प्रति विहितत्वात् । न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यति- , क. १.] प्रथमोऽध्यायः । रेकेण किंचित्कर्म विहितमुपलभ्यते । कर्मनिमित्तदेवतादि- सर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते । न चोपम- दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते, विशिष्ट- क्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः । न हि देशकाला- द्यनवच्छिन्नास्थूलाद्वयादिब्रह्मप्रत्ययधारिणः कर्मावसरोऽस्ति । भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत्, न अविद्यादिकेव- " लदोषनिमित्तत्वाद्भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तेः । न तु, तथा अनियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति, नित्यं कर्मोपपद्यते । केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनिय- तत्वं स्यात्, दोषोद्भवाभिभवयोरनियतत्वात् कामानामिव काम्येषु । शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वा- नुपपत्तिः ; दोषनिमित्तत्वे सत्यपि यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायंप्रातः कालाद्यपेक्षत्वम् एवम् । तद्भो- जनादिप्रवृत्तौ नियमवत्स्यादिति चेत्, न; नियमस्य अक्रि- यात्वात् क्रियायाश्चाप्रयोजकत्वात् नासौ ज्ञानस्यापवादकरः । तस्मात्, परमात्मयाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वै- तादिज्ञाननिवर्तकत्वात् सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं संपद्यते कर्मप्रवृत्त्यभावस्य तुल्यत्वात्, यथा प्रतिषे- धविषये । तस्मात् प्रतिषेधविधिवश्च वस्तुप्रतिपादनं तत्प- रत्वं च सिद्धं शास्त्रस्य ॥ ' " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. ते ह वाचमूचुस्त्वं न उगायेति तथेति तेभ्यो वागुद्गायत् । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदा- त्मने । ते विदुरनेन वै न उद्गात्रात्येष्य- न्तीति तमभिद्रुत्य पाप्मनाविध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥ ." ते देवाः, ह एवं विनिश्चित्य, वाचं वागभिमानिनीं देव- ताम्, ऊचुः उक्तवन्तः ; त्वम् नः अस्मभ्यम्, उद्गाय औद्वात्रं कर्म कुरुष्व ; वाग्देवतानिर्वर्त्यमौद्गात्रं कर्म दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधेयाम् —'असतो मा सद्गमय' इति । अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्य- न्ते । कस्मात् ? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः । वक्ष्यति हि 'ध्यायतीव लेलायतीव ' इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्ठे । इहापि च अध्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम—' त्रयं वा इदं नाम रूपं कर्म ' इति - अविद्याविषयम् । अव्याकृता- त्तु यत्पुरं परमात्माख्यं विद्याविषयम् अनामरूपकर्मात्मकम, क. २.] ' प्रथमोऽध्यायः । , 'नेति नेति' इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक् । यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा, तं च वागा- दिसमाहारपक्षपातिनमेव दर्शयिष्यति — ' एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इति । तस्माद्युक्ता वागा- दीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा । तथेति तथास्त्वि- ति, देवैरुक्ता वाक् तेभ्यः अर्थिभ्यः अर्थाय, उद्गायत् उद्गानं कृतवती । कः पुनरसौ देवेभ्योऽर्थायोगानकर्मणा वाचा नि- र्तितः कार्यविशेष इति उच्यते—यो वाचि - निमित्तभू- तायाम् - वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादि- व्यापारेण स एव । सर्वेषां ह्यसौ वाग्वद्नाभिनिर्वृत्तो भो- गः फलम् । तं भोगं सा त्रिषु पवमानेषु कृत्वा अवशिष्टेषु न- वसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलम् — यत्कल्याणं शोभ- नम्, वदति वर्णानभिनिर्वर्तयति, तत् — आत्मने मामेव । तद्धथसाधारणं वाग्देवतायाः कर्म, यत्सम्यग्वर्णानामुञ्चार- णम् ; अतस्तदेव विशेष्यते - ' यत्कल्याणं वदति' इति । यत्तु वदनकार्ये सर्वसंघातोपकारात्मकम तद्याजमानमेव । तत्र कल्याणवदनात्मसंबन्धासङ्गावसरं देवताया रन्धं प्रति- लभ्य ते विदुः असुराः ; कथम् ? अनेनोद्गात्रा, नः अस्मान्, स्वाभाविकं ज्ञानं कर्म च, अभिभूय अतीत्य, शास्त्रजनित- कर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्यन्ति अतिगमिष्य- " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. न्ति — इत्येवं विज्ञाय, तमुद्गातारम्, अभिद्रुत्य अभिगम्य, स्वेन आसङ्गलक्षणेन पाप्मना अविध्यन् ताडितवन्तः संयोजितवन्त इत्यर्थः । स यः स पाप्मा — प्रजापतेः पूर्वजन्मावस्थस्य वा- चि क्षिप्तः स एष प्रत्यक्षीक्रियते— कोऽसौ ? यदेवेदमप्रतिरू- पम् अननुरूपं शास्त्रप्रतिषिद्धं वदति, येन प्रयुक्तोऽसभ्यबीभ- त्सानृताद्यनिच्छन्नपि वदति; अनेन कार्येणाप्रतिरूपवदनेना- नुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ; स एवाप्रतिरूपवदनेनानुमितः, स प्रजापतेर्वाचि गतः पाप्मा; कारणानुविधायिहि कार्यमिति ॥ अथ ह प्राणमूचुस्त्वं न उगायेति त- थेति तेभ्यः प्राण उदगायद्यः प्राणे भो- गस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्र- ति तदात्मने । ते विदुरनेन वै न उद्गा- वात्येष्यन्तीति तमभिद्रुत्य पाप्मनावि- ध्यन्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा ॥ ३ ॥ अथ ह चक्षुरूचुस्त्वं न उगायेति तथे- ति. तेभ्यश्चक्षुरुद्गायत् । यश्वभुषि भोग- क. ६.] प्रथमोऽध्यायः । स्तं देवेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने । ते विदुरनेन वै न उद्गात्रा- त्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्य- न्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्य- 'ति स एव स पाप्मा ॥ ४ ॥ अथ ह श्रोत्रमूचुस्त्वं न उगायेति तथेति तेभ्यः श्रोत्रमुद्गायद्यः श्रोते भो- गस्तं देवेभ्य आगायद्यत्कल्याण‍ श्रु- णोति तदात्मने । ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्म- नाविध्यन्स यः स पाप्मा यदेवेदमप्र- तिरूप शृणोति स एव स पाप्मा ॥ अथ ह् मन ऊचुस्त्वं न उद्गायेति त- थेति तेभ्यो मन उदगायद्यो मनसि भो- गस्तं देवेभ्य आगायद्यत्कल्याण‍ संक- ल्पयति तदात्मने । ते विदुरनेन वै न बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मना- विध्यन्स यः स पाप्मा यदेवेदमप्रति - रूप५ संकल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमे- नाः पाप्मनाविध्यन् ॥ ६ ॥ तथैव घ्राणादिदेवता उद्गीथनिर्वर्तकत्वाज्जपमन्त्रप्रकाश्या उपास्याचेति क्रमेण परीक्षितवन्तः । देवानां चैतन्निश्रितमा- सीत् — वागादिदेवताः क्रमेण परीक्ष्यमाणाः कल्याणविषय- विशेषात्मसंबन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथ निर्वर्तनास- मर्थाः; अतोऽनभिधेयाः, 'असतो मा सद्गमय' इत्यनुपा- स्याश्च; अशुद्धत्वादितराव्यापकत्वाच्चेति । एवमु खलु, अनुक्ता अप्येतास्त्वगादिदेवताः, कल्याणाकल्याणकार्यदर्शनात, एवं वागादिवदेव, एनाः, पाप्मना अविध्यन् पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन् पाप्मभिः संसर्ग कृतवन्त इत्येतत् ॥ वागादिदेवता उपासीना अपि मृत्य्वतिगमनायाशरणाः सन्तो देवाः क्रमेण- , अथ हेममासन्यं प्राणसूचुस्त्वं न उ- क. ७.] प्रथमोऽध्यायः । द्वायेति तथेति तेभ्य एष प्राण उद्गा- यत्ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविव्यत्सन्स यथा- इमानमृत्वा लोष्टो विध्वसेतैव ५ हैव विध्वसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्परासुरा भवत्यात्मना परा- स्य द्विषन्भ्रातृव्यो भवति य एवं वेद । - अथ अनन्तरम्, ह इममित्यभिनयप्रदर्शनार्थम्, आस- न्यम् आस्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुः- ' त्वं न उद्गाय' इति । तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उद्गायत् इत्यादि पूर्ववत् । पाप्मना अविव्यत्सन वेधनं कर्तुमिष्टवन्तः, ते च दोषासंसर्गिणं सन्तं मुख्यं स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासा- नुवृत्त्या, संस्रक्ष्यमाणा विनेशुः विनष्टा विध्वस्ताः ; कथ- मिवेति दृष्टान्त उच्यते - स यथा स दृष्टान्तो यथा - लोके अश्मानं पाषाणम्, ऋत्वा गत्वा प्राप्य, लोष्ट: पांसु- पिण्डः, पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्रंसेत विचूर्णी भवेत्; एवं हैव यथायं दृष्टान्त एवमेव, प्राणम्, S. B. U. 4 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. विध्वंसमाना विशेषेण ध्वंसमानाः, विष्वञ्चः नानागतयः, विनेशुः विनष्टाः, यतः ; — ततः तस्मादासुरविनाशाद्देवत्वप्र- ;- तिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगात्, असंसर्गधर्मिमुख्यप्राणाश्रयबलात्, देवाः वागादयः प्रकृताः, अभवन्; किमभवन् ? स्वं देवतारूपमग्न्याद्यात्मकं व- क्ष्यमाणम् । पूर्वमप्यग्न्याद्यात्मका एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञाना: पिण्डमात्राभिमाना आसन । ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पि- तवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः । किंच ते प्रति- पक्षभूता असुराः परा — अभवन्नित्यनुवर्तते; पराभूता विनष्टा इत्यर्थ: । यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्त- कालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्यापोह्यासङ्गपाप्मास्पददोषवत्वे- नादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य, वागाद्याध्यात्मिक- पिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्न: ; तथैवायं यजमानस्तेनैव विधिना भवति प्रजा-, पतिस्वरूपेणात्मना ; परा च अस्य प्रजापतित्वप्रतिपक्ष- भूद्रः पाप्मा द्विषन्भ्रातृव्यः, भवति ; -- यतोऽद्वेष्टापि भ - क. ८. ] प्रथमोऽध्यायः । वति कश्चिद्धातृव्यो भरतादितुल्यः ; यस्त्विन्द्रियविषया- सङ्गजनितः पाप्मा, भ्रातृव्यो द्वेष्टा च पारमार्थिकात्मस्व- रूपतिरस्करणहेतुत्वात् -- स च पराभवति विशीर्यते, लो- ष्टवत्, प्राणपरिष्वङ्गात् । कस्यैतत्फलमित्याह -- य एवं वेद, यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदि- त्यर्थः ॥ फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह । कस्माच हेतोर्वागादीन्मुक्त्वा मुख्य एव प्राण आत्मत्वेनाश्रयितव्य इति तदुपपत्तिनिरूपणाय, यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा-- इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुति:- ते होचुः क नु सोऽभूद्यो न इत्थमस- क्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गि- रसोऽङ्गाना हि रसः ॥ ८ ॥ ते प्रजापतिप्राणाः, मुख्येन प्राणेन परिप्रापितदेवस्वरूपाः, ह ऊचुः उक्तवन्तः, फलावस्था: ; किमित्याह - कन्विति वितर्के; क नु कस्मिन्नु, सोऽभूत् कः ? यो नोऽस्मान्, इत्थम् एवम्, असक्त सञ्जितवान् देवभावमात्मत्वेनोपगमित- बृहदारण्यकोपनिषद्भाष्ये " [ब्रा. ३. वान् । स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ; लोकदेव स्मरन्तो विचारयमाणाः कार्यकरणसंघाते आत्म- न्येवोपलब्धवन्तः ; कथम् ? अयमास्येऽन्तरिति---- आस्ये मुखे य आकाशस्तस्मिन् अन्तः, अयं प्रत्यक्षो वर्तत इति । सर्वो हि लोको विचार्याध्यवस्यति ; तथा देवाः । यस्मा- दयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात् स प्राणोऽयास्य: ; विशेषाना- श्रयत्वाच्च असक्त सञ्जितवान्वागादीन् ; अत एवाङ्गिरसः आत्मा कार्यकरणानाम् ; कथमाङ्गिरसः ? प्रसिद्धं ह्येतत् अङ्गानां कार्यकरणलक्षणानाम्, रसः सार आत्मेत्यर्थ: : कथं पुनरङ्गरसत्वम्? तदपाये शोषप्राप्तेरिति वक्ष्यामः । यस्माच्चायमङ्गरसत्वाद्विशेषानाश्रयत्वाच्च कार्यकरणानां सा- धारण आत्मा विशुद्धश्च तस्माद्वागादीनपास्य प्राण एवा- त्मत्वेनाश्रयितव्य इति वाक्यार्थः । आत्मा ह्यात्मत्वेनोपग- न्तव्य: ; अविपरीतबोधाच्छ्रेय: प्राप्तेः, विपर्यये चानिष्टप्राप्ति- दर्शनात् ॥ " सा वा एषा देवता दूर्नाम दूर ह्यस्या मृत्युर्दूर ह वा अस्मान्मृत्यु- भवति य एवं वेद ॥ ९ ॥ क. ९.] प्रथमोऽध्यायः । ; स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति ; ननु परिहृतमेतद्वागा- दीनां कल्याणवदनाद्यासङ्गवत्प्राणस्यासङ्गास्पदाभावेन; बा- ढम् ; किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादि- द्वारेण शवस्पृष्टितत्स्पृष्टेरिवाशुद्धता शङ्कयत इति । आह-- शुद्ध एव प्राणः ; कुतः ? सा वा एषा देवता दूर्नाम- यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुराः ; तं परा- मृशति -- सेति; सैवैषा, येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता ' अयमास्येऽन्तः' इति देवता च सा स्यात्, उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ; यस्मात्सा दूर्नाम दूरित्येवं ख्याता- नामशब्द: ख्यापनपर्याय:- प्रसिद्धास्या विशुद्धि:, दूर्नामत्वात् कुतः पुनर्दुर्नामत्वमि- त्याह — दूरं दूरे, हि यस्मात् अस्याः प्राणदेवतायाः, मृत्यु- रासङ्गलक्षणः पाप्मा ; असंश्लेषधर्मित्वात्प्राणस्य समीपस्थ- स्यापि दूरता मृत्योः; तस्माद्दुरित्येवं ख्यातिः; एवं प्राणस्य वि- शुद्धिर्ज्ञापिता । विदुषः फलमुच्यते - दूरं ह वा अस्मान्मृत्यु- र्भवति -- अस्मादेवंविदः, य एवं वेद तस्मात् एवमिति - प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः । उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा म- नसोपगम्य, आसनं चिन्तनम्, लौकिकप्रत्ययाव्यवधानेन, -- तस्मा- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. यावत् तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिका- माभिमानवत् ; 'देवो भूत्वा देवानप्येति' 'किंदेवतोऽस्यां ;- प्राच्यां दिश्यसि' इत्येवमादिश्रुतिभ्यः ॥ 6 सा वा एषा देवता... दूरं ह वा अस्मान्मृत्युर्भवति ' इत्युक्तम् ; कथं पुनरेवंविदो दूरं मृत्युर्भवतीति ? उच्यते— एवंवित्त्वविरोधात्; इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभि- मानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च ; शास्त्रजनितो हि प्रा- णात्माभिमानः; तस्मात् एवंविदः पाप्मा दूरं भवतीति युक्तम, विरोधात्; तदेतत्प्रदर्शयति- - सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यवासां दिशाम- न्तस्तद्गमयचिकार तदासां पाप्मनो वि- न्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पा- प्मानं मृत्युमन्ववायानीति ॥ १० ॥ सा वा एषा देवतेत्युक्तार्थम् । एतासां वागादीनां देव- तानाम्, पाप्मानं मृत्युम् - स्वाभाविकाज्ञानप्रयुक्तेन्द्रियवि- षयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते स ह्यतो , क. १०.] प्रथमोऽध्यायः । मृत्युः --- तम्, प्राणात्माभिमानरूपाभ्यो देवताभ्यः, अपच्छिद्य अपहत्य, ---- प्राणात्माभिमानमात्रतयैव प्राणोऽप- हन्तेत्युच्यते ; विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ; किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्येत्युच्यते-- यत्र यस्मिन्, आसां प्राच्यादीनां दिशाम्, अन्तः अवसानम्, तत् तत्र, गमयांचकार गमनं कृतवानित्येतत् । ननु नास्ति दिशामन्तः, कथमन्तं गमितवानिति ; उच्यते — श्रौतवि- ज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाध्यु- - षित एव देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वत्; इत्यदोष: । तत्तत्र गमयित्वा, आसां देवतानाम्, पाप्मन इति द्वितीयाबहुवचनम्, विन्यदधात् विविधं न्यग्भावेनाद- धात्स्थापितवती, प्राणदेवता; प्राणात्माभिमानशून्येष्वन्त्य- जनेष्विति सामर्थ्यात्; इन्द्रियसंसर्गजो हि स इति प्राण्या- श्रयतावगम्यते । तस्मात्तमन्त्यं जनम्, नेयात् न गच्छेत् संभाषणदर्शनादिभिर्न संसृजेत्; तत्संसर्गे पाप्मना संसर्ग: कृतः स्यात्; पाप्माश्रयो हि सः; तज्जननिवासं चान्तं दिगन्तशब्दवाच्यम्, नेयात् — जनशून्यमपि, जनमपि तद्दे- शवियुक्तम्, इत्यभिप्रायः । नेदिति परिभयार्थे निपातः ; इत्थं जनसंसर्गे, पाप्मानं मृत्युम्, अन्ववायानीति- - अनु बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. अव अयानीति अनुगच्छेयमिति ; एवं भीतो न जनमन्तं चेयादिति पूर्वेण संबन्धः ॥ सा वा एषा देवतैतासां देवतानां पा- प्मानं मृत्युमपहत्याथैना शुत्युवर व- हत् ॥ ११ ॥ सा वा एषा देवता -- तदेतत्प्राणात्मज्ञानकर्मफलं वागा - दीनामग्न्याद्यात्मत्वमुच्यते । अथैना मृत्युमत्यवहत् —— यस्मा - दाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनाप- हतः, तस्मात्स प्राणोऽपहन्ता पाप्मनो मृत्योः ; तस्मात्स एव प्राणः, एना वागादिदेवताः, प्रकृतं पाप्मानं मृत्युम्, अतीत्य अवहत् प्रापयत् स्वं स्वमपरिच्छिन्नमग्न्यादिदेवतात्मरूपम् ॥ स वै वाचमेव प्रथमामत्यवहत्; सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ; सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्य- ते ॥ १२ ॥ स वै वाचमेव प्रथमामत्यवहत्- - स प्राणः, वाचमेव, प्रथमां प्रधानामित्येतत् – उद्गीथकर्मणीतरकरणापेक्षया साध- " क. १४.] प्रथमोऽध्यायः । कतमत्वं प्राधान्यं तस्या:- -तां प्रथमामत्यवहत् वहनं कृत- वान् । तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपमित्युच्यते- सा वाक्, यदा यस्मिन्काले, पाप्मानं मृत्युम्, अत्यमुच्यत अतीत्यामुच्यत मोचिता स्वयमेव, तदा सः अग्निः अभवत् - सा वाक् — पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत् । तवांस्तु विशेषो मृत्युवियोगे — सोऽयमतिक्रान्तोऽग्निः, प- रेण मृत्युं परस्तान्मृत्योः, दीप्यते ; प्राङ्मोक्षान्मृत्युप्रतिबद्धो- ऽध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत्; इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥ अथ प्राणमत्यवहत् ; स यदा मृत्युम- त्यमुच्यत स वायुरभवत्; सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥ तथा -- प्राण: घ्राणम् - वायुरभवत्; स तु पवते मृत्युं परेणातिक्रान्तः । सर्वमन्यदुक्तार्थम् ॥ अथ चक्षुरत्यवहत् ; तद्यदा मृत्युमत्य- मुच्यत स आदित्योऽभवत् ; सोऽसावा- दित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ तथा चक्षुरादित्योऽभवत् स तु तपति । बृहदारण्यकोपनिषद्भाष्ये [श्रा. ३. अथ श्रोत्रमत्यवहत् ; तद्यदा मृत्युम- त्यमुच्यत ता दिशोऽभवस्ता इमा दि- शः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ तथा श्रोत्रं दिशोऽभवन् दिशः प्राच्यादिविभागेनाव- स्थिताः ॥ अथ मनोऽत्यवहत् ; तद्यदा मृत्युमत्य- मुच्यत स चन्द्रमा अभवत् ; सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येव‍ ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥ मनः चन्द्रमा:- - भाति । यथा पूर्वयजमानं वागाद्यग्न्या- दिभावेन मृत्युमत्यवहत् एवम् एनं वर्तमानयजमानमपि, ह वै, एषा प्राणदेवता मृत्युमतिवति वागाद्यग्न्यादिभावेन, एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद; ' तं यथा यथोपासते तदेव भवति' इति श्रुतेः ॥ अथात्मनेऽन्नाद्यमागायद्यद्धि किंचान्न- मृद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति ॥ क. १८. ] प्रथमोऽध्यायः । अथात्मने । यथा वागादिभिरात्मार्थमागानं कृतम् ; तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्य फलमा- गानं कृत्वा त्रिषु पवमानेषु, अथ अनन्तरं शिष्टेषु नवसु स्तोत्रेषु, आत्मने आत्मार्थम्, अन्नाद्यम् अन्नं च तदाद्यं च अन्नाद्यम्, आगायत् । कर्तुः कामसंयोगो वाचनिक इत्युक्तम् । कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यत इत्यत्व हेतुमाह-- यत्किं चेति -- सामान्यान्नमात्रपरामर्शार्थः ; हीति हेतौ ; यस्माल्लोके प्राणिभिर्यत्किंचिदन्नमद्यते भक्ष्यते तदनेनैव प्राणेनैव ; अन इति प्राणस्याख्या प्रसिद्धा ; अन:- शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राण- पर्यायः; प्राणेनैव तदद्यत इत्यर्थः ; किंच, न केवलं प्राणे- नाद्यत एवान्नाद्यम्, तस्मिञ्शरीराकारपरिणतेऽन्नाद्ये इह, प्रतितिष्ठति प्राण: ; तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीत- मन्नाद्यम् । यदपि प्राणेनान्नादनं तदपि प्राणस्य प्रतिष्ठार्थ- मेवेति न वागादिष्विव कल्याणासङ्गजपाप्मसंभवः प्राणे- ऽस्ति ॥ ते देवा अब्रुवन्नेतावद्वा इदँ सर्वे यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्न आ- भजस्वेति ते वै माभिसंविशतेति त- स्वा बृहदारण्यकोपनिषद्धाष्ये [ब्रा. ३. थेति त समन्तं परिण्यविशन्त । तस्मा- द्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येव ह वा एन वा अभिसंविशन्ति भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उ हैवंविद स्वेषु प्रति प्रति-- बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्वुभू- र्षति स हैवालं भार्येभ्यो भवति ॥ १८ ॥ ते देवाः । नन्ववधारणमयुक्तम् ' प्राणेनैव तदद्यते ' इति, वागादीनामप्यन्ननिमित्तोपकारदर्शनात्; नैष दोष:, प्राणद्वार- त्वात्तदुपकारस्य । कथं प्राणद्वारकोऽन्नकृतो वागादीनामुप- कार इत्येतमर्थ प्रदर्शयन्नाह-- ते वागादयो देवाः, स्ववि- षयद्योतनाद्देवाः, अब्रुवन् उक्तवन्तो मुख्यं प्राणम् - 'इदम् एतावत् नातोऽधिकमस्ति वा इति स्मरणार्थ : ; इदं तत्सर्वमेतावदेव ; किम् ? यदन्नं प्राणस्थितिकरमद्यते लोके, तत्सर्वमात्मने आत्मार्थम्, आगासी: आगीतवानसि आगाने- नात्मसात्कृतमित्यर्थः ; वयं चान्नमन्तरेण स्थातुं नोत्सहामहे ; ' अतः अनु पश्चात् नः अस्मान् अस्मिन्नन्ने आत्मार्थे " " क. १८. ] प्रथमोऽध्यायः । तवान्ने, आभजस्व आभोजयस्व ; णिचोऽश्रवणं छान्दसम् ; अस्मांश्चान्नभागिनः कुरु' । इतर आह - ' ते यूयं यदि अन्नार्थिन: वै, मा माम्, अभिसंविशत समन्ततो मामा- भिमुख्येन निविशत ' - इति एवमुक्तवति प्राणे, तथेति एव- मिति, तं प्राणं परिसमन्तं परिसमन्तात्, न्यविशन्त निश्च- येनाविशन्त, तं प्राणं परिवेष्टय निविष्टवन्त इत्यर्थः । तथा निविष्टानां प्राणानुज्ञया तेषां प्राणेनैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति न स्वातन्त्र्येणान्नसंबन्धो वागादी- नाम् । तस्माद्युक्तमेवावधारणम्- 'अनेनैव तदद्यते ' इति । तदेव चाह -- तस्मात् यस्मात्प्राणाश्रयतयैव प्राणानुज्ञया- भिसंनिविष्टा वागादिदेवतास्तस्मात् यदन्नम्, अनेन प्राणेन, अत्ति लोक:, तेनान्नेन, एता वागाद्या:, तृप्यन्ति । वागाद्या- श्रयं प्राणं यो वेद-- ' वागादयश्च पञ्च प्राणाश्रयाः ' इति, तमप्येवम्, एवं ह वै, स्वा ज्ञातयः, अभिसंविशन्ति वागा - दय इव प्राणम; ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः । ; अभिसंनिविष्टानां च स्वानाम्, प्राणवदेव वागादीनाम्, स्वान्नेन भर्ता भवति ; तथा श्रेष्ठ: ; पुरोऽग्रतः, एता गन्ता, भवति, वागादीनामिव प्राणः ; तथा अन्नादोऽनामयावी - त्यर्थः ; अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राण- : 1 बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. वदेव वागादीनाम्; य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति । किंच य उ हैवंविदं प्राणविदं प्रति, स्वेषु ज्ञातीनां मध्ये प्रतिः प्रतिकूलः, बुभूषति प्रतिस्पर्धीभवितुमिच्छति, सोऽसुरा इव प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तः, भार्ये- भ्यः भरणीयेभ्यः, भवति, भर्तुमित्यर्थः । अथ पुनर्य एव ज्ञातीनां मध्ये एतमेवंविदं वागादय इव प्राणम्, अनु अनु- गतो भवति, यो वा एतमेवंविदम् अन्वेव अनुवर्तयन्नेव आत्मीयान्भार्यान्बुभूषति भर्तुमिच्छति, यथैव वागादय: प्राणानुवृत्त्यात्मबुभूषव आसन् ; स हैवालं पर्याप्तः, भार्ये - भ्यो भरणीयेभ्यः, भवति, भर्तुम्, नेतरः स्वतन्त्रः । सर्व- मेतत्प्राणगुणविज्ञानफलमुक्तम् ॥ - , कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुप- न्यस्तम् — 'सोऽयास्य आङ्गिरसः' इति ; ' अस्माद्धेतोर- यमाङ्गिरसः' इत्याङ्गिरसत्वे हेतुर्नोक्तः; तद्धेतुसिद्ध्यर्थमार- भ्यते । तद्धेतुसिद्धयायत्तं हि कार्यकरणात्मत्वं प्राणस्य ॥ अनन्तरं च वागादीनां प्राणाधीनतोक्ता; सा च कथमु- पपादनीयेत्याह- सोऽयास्य आङ्गिरसोऽङ्गाना हि रसः क. १९.] प्रथमोऽध्यायः । प्राणो वा अङ्गाना रसः प्राणो हि वा अङ्गाना‍ रसस्तस्माद्यस्मात्कस्माच्चाङ्गा- त्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानाँ रसः ॥ १९ ॥ '' सोऽयास्य आङ्गिरसः' इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम् । ' प्राणो वा अङ्गानां रसः' इत्येवमन्तं वाक्यं यथाव्याख्यातार्थमेव पुनः स्मारयति । कथम् ? - प्राणो वा अङ्गानां रस इति । प्राणो हि ; हि-शब्दः प्रसिद्धौ ; अङ्गानां 1 रसः ; प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम्; तस्मा- 'प्राणो वा' इति स्मारणम् । कथं पुनः प्रसिद्धत्व- द्युक्तम् मित्यत आह- - तस्माच्छब्द उपसंहारार्थ उपरित्वेन संब- ध्यते यस्माद्यतोऽवयवात् कस्मादनुक्तविशेषात् यस्मात्क- ; ' स्मात् यतः कुतश्चिच्च, अङ्गाच्छरीरावयवादविशेषितात् प्राण: उत्क्रामत्यपसर्पति, तदेव तत्रैव, तदङ्गं शुष्यति नीरसं भवति शोषमुपैति । तस्मादेष हि वा अङ्गानां रस इत्युपसंहारः । कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम् । आत्मापाये हि शोषो मरणं स्यात् । तस्मात्तेन जीवन्ति प्राणिनः सर्वे । तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥ अतः बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. एष उ । न केवलं कार्यकरणयोरेवात्मा प्राणो रूपक- र्मभूतयोः ; किं तर्हि ? ऋग्यजुः साम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय- एष उ एव बृहस्पतिर्वाग्वै बृहती त- स्या एष पतिस्तस्मादु बृहस्पतिः ॥ २० ॥ एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः । कथं बृहस्पति- रिति, उच्यते— वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशद- , i क्षरा । अनुष्टुप्च वाक् ; कथम् ? वाग्वा अनुष्टुप्' इति श्रुतेः; सा च वागनुष्टुवृहत्यां छन्दस्यन्तर्भवति ; अतो युक्तम् ' वाग्वै बृहती' इति प्रसिद्धवद्वक्तुम् । बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति, प्राणसंस्तुतत्वात्; 'प्राणो बृहती प्राण ऋच इत्येव विद्यात्' इति श्रुत्यन्तरात्; वागात्मत्वाच्च च प्राणेऽन्तर्भावः ; तत्कथमित्याह -- तस्या वाचो बृहत्या ऋचः, एषः प्राणः, पतिः, तस्या निर्वर्तकत्वात्; कौष्ठया- निप्रेरितमारुतनिर्वर्त्या हि ऋक् ; पालनाद्वा वाचः पतिः प्राणेन हि पाल्यते वाक्, अप्राणस्य शब्दोच्चारणसामर्थ्या- भावात् ; तस्मादु बृहस्पतिः ऋचां प्राण आत्मेत्यर्थः ॥ एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म ; क. २२.] प्रथमोऽध्यायः । ६५ तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ तथा यजुषाम् । कथम् ? एष उ एव ब्रह्मणस्पतिः । ब्रह्म यजुः ; तच्च वाग्विशेष एव । तस्या वाग्वै ब्रह्म- -- वाचो यजुषो ब्रह्मणः, एष पतिः; तस्मादु ब्रह्मणस्पति:- पूर्ववत् ॥ कथं पुनरेतदवगम्यते बृहतीब्रह्मणोग्यजुषं न पुनरन्या- र्थत्वमिति ? उच्यते- वाच: अन्ते सामसामानाधिकरण्य- निर्देशात् ' वाग्वै साम' इति । तथा च ' वाग्वै बृहती ' 'वाग्वै ब्रह्म' इति च वाक्समानाधिकरणयोर्ऋग्यजुष्टुं यु- क्तम् । परिशेषाच्च - साम्न्यभिहिते ऋग्यजुषी एव परि- शिष्टे । वाग्विशेषत्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मा- त्तयोर्वाचा समानाधिकरणता युक्ता । अविशेषप्रसङ्गाच्च- " साम 'उद्गीथ:' इति च स्पष्टुं विशेषाभिधानत्वम्, तथा बृहत ब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अ- निर्धारितविशेषयोरानर्थक्यापत्तेश्च विशेषाभिधानस्य वाड्या- त्रत्वे चोभयत्र पौनरुक्त्यात्; ऋग्यजुः सामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥ , , एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् । यद्वेव, S.BE 5 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. समः प्लुषिणा समो मशकेन समो ना- गेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायु- ज्यँ सलोकतां य एवमेतत्साम वेद ॥ एष उ एव साम । कथमित्याह — वाग्वै सा यत्किंचि - स्त्रीशब्दाभिधेयं सा वाक् ; सर्वस्त्रीशब्दाभिधेयवस्तुविषयो हि सर्वनाम - सा-शब्दः; तथा अम एष प्राण: ; सर्वपुंशब्दा- भिधेयवस्तुविषयोऽमः-शब्दः ; 'केन मे पौंस्नानि नामान्याप्नो- पीति, प्राणेनेति ब्रूयात्; केन मे बीनामानीति, वाचा' इति श्रुत्यन्तरात् वाक्प्राणाभिधानभूतोऽयं सामशब्दः । तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गीतिः सामशब्देना- भिधीयते ; अतो न प्राणवाग्व्यतिरेकेण सामनामास्ति किंचित्, स्वरवर्णादेव प्राणनिर्वर्त्यत्वात्प्राणतत्रत्वाच्च । एष उ एव प्राणः साम । यस्मात् साम सामेति वाक्प्राणात्मकम- सा चामश्चेति, तत् तस्मात् सानो गीतिरूपस्य स्वरा- दिसमुदायस्य सामत्वं तत् प्रगीतं भुवि ॥ यत् उ एव समः तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, त- स्माद्वा सामेत्यनेन संबन्ध: । वा-शब्दः सामशब्दलाभनिमि- क. २३.] प्रथमोऽध्यायः । तप्रकारान्तरनिर्देश सामर्थ्यलभ्यः । केन पुनः प्रकारेण प्रा- णस्य तुल्यत्वमित्युच्यते— समः पुषिणा पुत्तिकाशरीरेण, समो मशकेन मशकशरीरेण समो नागेन हस्तिशरीरेण, • सम एभिस्त्रिभिर्लोकैः त्रैलोक्यशरीरेण प्राजापत्येन, समो- ऽनेन जगद्रूपेण हैरण्यगर्भेण । पुत्तिकादिशरीरेषु गोत्वादिव - कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य, न पुनः शरीर- मात्रपरिमाणेनैव अमूर्तत्वात्सर्वगतत्वाच्च । न च घटप्रासा- दादिप्रदीपवत्संकोच विकासितया शरीरेषु तावन्मात्रं सम- त्वम् । ' त एते सर्व एव समाः सर्वेऽनन्ताः' इति श्रुतेः । सर्वगतस्य तु शरीरेषु शरीरपरिमाणवृत्तिलाभो न विरुध्यते । एवं समत्वात्सामाख्यं प्राणं वेद य: श्रुतिप्रकाशितमहत्त्वं तस्यैतत्फलम् — अश्नुते व्याप्नोति, साम्नः प्राणस्य, सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम्, सालोक्यं समान- लोकतां वा, भावनाविशेषतः, य एवमेतत् यथोक्तं साम प्राणं वेद — आ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥ - एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीद ँ सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३ ॥ एष उ वा उद्गीथः । उद्गीथो नाम सामावयवो भक्ति- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. विशेष : नोगानम्; सामाधिकारात् । कथमुद्गीथः प्राणः ? प्रा- णो वा उत्— प्राणेन हि यस्मादिदं सर्वं जगत् उत्तब्धम् ऊर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः ; उत्तब्धार्थावद्योतको ऽयमुच्छ- व्द: प्राणगुणाभिधायक: ; तस्मादुत् प्राणः ; वागेव गीथा, शब्दविशेषत्वादुद्गीथभक्तेः ; गायतेः शब्दार्थत्वात्सा वागेव ; न ह्युद्गीथभक्तेः शब्दव्यतिरेकेण किंचिद्रूपमुत्प्रेक्ष्यते, तस्मा- युक्तमवधारणं वागेव गीथेति । उच्च प्राणः, गीथा च प्राण- तत्रा वाक्, इत्युभयमेकेन शब्देनाभिधीयते स उद्गीथः ॥ उक्तार्थदाययाख्यायिकारभ्यते— " तद्वापि ब्रह्मदत्तश्चेकितानेयो राजानं भक्षयन्नुवाचार्यं त्यस्य राजा मूर्धानं वि- पातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनो- दगायदिति वाचा च ह्येव स प्राणेन चो- दगायदिति ॥ २४ ॥ तद्धापि । तत् तत्रैतस्मिन्नुक्तेऽर्थे, हापि आख्यायिकापि श्रूयते ह स्म । ब्रह्मदत्तः नामत: ; चिकितानस्यापत्यं चेकिता- नः तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमम्, भक्षयन्नु- वाच ; किम् ? ' अयं चमसस्थो मया भक्ष्यमाणो राजा, क्र. २५.] ; प्रथमोऽध्यायः । "" त्यस्य तस्य ममानृतवादिनः मूर्धानं शिरः, विपातयतात् विस्पष्टं पातयतु' ; तोरयं तातङादेशः, आशिषि लोट्-वि- पातयतादिति यद्यहमनृतवादी स्यामित्यर्थः ; कथं पुनरनृ- तवादित्वप्राप्तिरिति उच्यते—' यत् यदि इतोऽस्मात्प्रकृता- प्राणाद्वाक्संयुक्तात्, अयास्यः - मुख्यप्राणाभिधायकेनाया- स्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उदा- ता- सोऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेन, उदगा- यत् उद्गानं कृतवान् ; ततोऽहमनृतवादी स्याम्; तस्य मम देवता विपरीतप्रतिपत्तर्मूर्धानं विपातयतु' इत्येवं शपथं चका- रेति विज्ञाने प्रत्ययकर्तव्यतादायं दर्शयति । तमिममाख्या- यिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुति:- वाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन सः अयास्य आङ्गिरस उद्गाता, उद्गायत् इत्येषोऽर्थो निर्धारितः शप- थेन ॥ तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादा- स्विज्यं करिष्यत्वाचि स्वरमिच्छेत तया वाचा स्वरसंपन्नयात्र्त्विज्यं कुर्यात्तस्मा- यज्ञे स्वरवन्तं दिदृक्षन्त एव । अथो यस्य, बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. स्वं भवति भवति हास्य स्वं य एवमेत- त्साम्नः स्वं वेद ॥ २५ ॥ तस्य हैतस्य । तस्येति प्रकृतं प्राणमभिसंबध्नाति । ह एतस्येति मुख्यं व्यपदिशत्यभिनयेन । साम्नः सामशब्दवा- च्यस्य प्राणस्य, यः स्वं धनम्, वेद; तस्य ह किं स्यात् ? भवति हास्य स्वम् । फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आह— तस्य वै साम्नः स्वर एव स्वम् । स्वर इति कण्ठ- गतं माधुर्यम्, तदेवास्य स्वं विभूषणम् तेन हि भूषित- मृद्धिमल्लक्ष्यत उद्गानम्; यस्मादेवं तस्मात् आर्त्विज्यम् ऋत्विक्कर्मोद्गानम् करिष्यन्, वाचि विषये, वाचि वागाश्रि- तम्, स्वरम्, इच्छेत इच्छेत्, सानो धनवत्तां स्वरेण चि- कीर्षुरुद्गाता । इदं तु प्रासङ्गिकं विधीयते ; साम्नः सौस्वर्येण स्वरवत्त्वप्रत्यये कर्तव्ये, इच्छामात्रेण सौस्वर्यं न भवतीति, दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः । तयैवं सं- स्कृतया वाचा स्वरसंपन्नया आर्त्विज्यं कुर्यात् । तस्मात्- यस्मात्साम्नः स्वभूतः स्वरः तेन स्वेन भूषितं साम, अतो यज्ञे स्वरवन्तम् उद्गातारम्, दिदृक्षन्त एव द्रष्टुमिच्छन्त्येव, धनिनमिव लौकिकाः । प्रसिद्धं हि लोके - अथो अपि, यस्य स्वं धनं भवति, तं धनिनं दिदृक्षन्ते इति । क. २७.] प्रथमोऽध्यायः । सिद्धस्य गुणविज्ञानफलसंबन्धस्योपसंहारः क्रियते — भवति हास्य स्वम्, य एवमेतत्साम्नः स्वं वेदेति ॥ तस्य हैतस्य साम्नो यः सुवर्ण वेद भवति हास्य सुवर्ण तस्य वै स्वर एव 'सुवर्ण भवति हास्य सुवर्ण य एवमेत- त्साम्नः सुवर्ण वेद ॥ २६ ॥ अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते । असावपि सौस्वर्यमेव । एतावान्विशेषः - पूर्व कण्ठगतमाधुर्यम्; इदं तु लाक्षणिकं सुवर्णशब्दवाच्यम् । तस्य हैतस्य सानो यः सुवर्ण वेद, भवति हास्य सुवर्णम् ; सुवर्णशब्दसामान्यात्स्वरसुव- र्णयोः । लौकिकमेव सुवर्ण गुणविज्ञानफलं भवतीत्यर्थः । वै स्वर एव सुवर्णम् । भवति हास्य सुवर्ण य एवमेत- त्सान्नः सुवर्ण वेदेति पूर्ववत्सर्वम् ॥ तस्य तस्य तस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः ॥ २७ ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. तथा प्रतिष्ठागुणं विधित्सन्नाह— तस्य हैतस्य सानो यः प्रतिष्ठां वेद प्रतितिष्ठत्यस्यामिति प्रतिष्ठा वाक् ; तां प्रतिष्ठां सानो गुणम्, यो वेद स प्रतितिष्ठति ह । ' तं यथा यथोपासते' इति श्रुतेस्तद्गुणत्वं युक्तम् । पूर्ववत्फलेन प्रति- लोभिताय का प्रतिष्ठेति शुश्रूषव आह- तस्य वै सानो वागेव । वागिति जिह्वामूलादीनां स्थानानामाख्या; सैव प्रतिष्ठा । तदाह -- वाचि हि जिह्वामूलादिषु हि यस्मा- प्रतिष्ठितः सन्नेष प्राण: एतद्वानं गीयते गीतिभावमापद्यते, तस्मात्साम्नः प्रतिष्ठा वाक् । अन्ने प्रतिष्ठितो गीयत इत्यु ह एके अन्ये आहुः ; इह प्रतितिष्ठतीति युक्तम् । अनिन्दित- त्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्यात्- वाग्वा प्रतिष्ठा, अन्नं वेति ॥ वै खलु अथातः पवमानानामेवाभ्यारोहः स प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेत् । असतो मा सद्ग- मय तमसो मा ज्योतिर्गमय मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति मृत्युर्वा असत्सदसृतं मृत्योर्मामृतं गम- क. २८.] प्रथमोऽध्यायः । यामृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवे- तदाह मृत्योर्मामृतं गमयेति नात्र ति- रोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्तस्मा- दु तेषु वरं वृणीत यं कामं कामयेत त स एष एवंविदुद्गातात्मने वा यजमाना - य वा यं कामं कामयते तमागायति त- तल्लोकजिदेव न हैवालोक्यताय आ- शास्ति य एवमेतत्साम वेद ॥ २८ ॥ इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम् ॥ एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते । यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम् । अथानन्तरम्, यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अत: तस्मात् तद्विधीयते इह । तस्य चोद्गीथसंबन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात् पवमानेषु त्रिष्वपि कर्तव्यतायां बृहदारण्यकोपनिषद्भाष्ये [त्रा. ३. प्राप्तायाम्, पुन: कालसंकोचं करोति- canada.com स वै खलु प्रस्तोता साम प्रस्तौति । स प्रस्तोता, यत्र यस्मिन्काले, साम प्रस्तु- यात्प्रारभेत, तस्मिन्काल एतानि जपेत् । अस्य च जपक- र्मण आख्या अभ्यारोह इति । आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावमात्मानमित्यभ्यारोहः । एतानीति बहु- वचनात्रीणि यजूंषि । द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथा- पठित एव स्वर : प्रयोक्तव्यो न मान्त्रः । याजमानं कर्म ॥ - " अ- एतानि तानि यजूंषि -- 'असतो मा सद्गमय' ' तमसो मा ज्योतिर्गमय' 'मृत्योर्मामृतं गमय' इति । मन्त्राणामर्थ - स्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थम- सः मन्त्रः, यदाह यदुक्तवान् ; कोऽसावर्थ इत्युच्यते- सतो मा सद्गमय' इति । मृत्युर्वा असत् - स्वाभाविक कर्मवि- ज्ञाने मृत्युरित्युच्येते; असत् अत्यन्ताघोभावहेतुत्वात्; सन् अमृतम्—सत् शास्त्रीयकर्मविज्ञाने, अमरणहेतुत्वादमृतम् । तस्मादसतः असत्कर्मणोऽज्ञानाच्च, मा मार्ग, सत् शास्त्रीय- कर्मविज्ञाने, गमय, देवभावसाधनात्मभावमापादयेत्यर्थः । तब वाक्यार्थमाह—अमृतं मा कुर्वित्येवैतदाहेति । तथा तमसो मा ज्योतिर्गमयेति। मृत्युर्वै तमः, सर्वे ह्यज्ञानमावरणात्मकत्वात्त- क. २८.] प्रथमोऽध्यायः । मः, तदेव च मरणहेतुत्वान्मृत्युः । ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् । प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः, तदेवामृतम् । अविनाशात्मकत्वात् ; तस्मात्तमसो मा ज्योतिर्गमयेति । पूर्व- वन्मृत्योर्मामृतं गमयेत्यादि; अमृतं मा कुर्वित्येवैतदाह- दैवं प्राजापत्यं फलभावमापादयेत्यर्थः । पूर्वो मन्त्रोऽसाधन- स्वभावात्साधनभावमापादयेति ; द्वितीयस्तु साधनभावादप्य- ज्ञानरूपात्साध्यभावमापादयेति । मृत्योर्मामृतं गमयेति पूर्व - योरेव मन्त्रयोः समुच्चितोऽर्थस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव । नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थ- रूपं पूर्वयोरिव मन्त्रयोरस्ति ; यथाश्रुत एवार्थः ॥ याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि तेष्वात्मनेऽन्नाद्य मागायेत्- प्राणविदुद्गाता प्राणभूतः प्राणवदेव । यस्मात्स एष उद्गाता एवं प्राणं यथोक्तं वेत्ति, अत: प्राणवदेव तं कामं साध- यितुं समर्थः ; तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत ; यं कामं कामयेत तं कामं वरं वृणीत प्रार्थ- येत । यस्मात्स एष एवंविदुद्गातेति तस्माच्छब्दात्प्रागेव संबध्यते । आत्मने वा यजमानाय वा यं कामं कामयत इच्छत्युद्गाता, तमागायत्यागानेन साधयति ॥ बृहदारण्यकोपनिषद्धाप्ये [ब्रा. ३. एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम; तब ना- स्त्याशङ्कासंभवः । अतः कर्मापाये प्राणापत्तिर्भवति वा न वे- त्याशङ्कयते ; तदाशङ्कानिवृत्त्यर्थमाह-- तद्वैतल्लोकजिदे- वेति । तद्ध तदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजि- देवेति लोकसाधनमेव । न ह एव अलोक्यतायै अलोकाई- त्वाय, आशा आशंसनं प्रार्थनम्, नैवास्ति ह । न हि प्राणा- त्मन्युत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं संभवति । ग्रामस्थः कदा ग्रामं प्राप्नुयामित्यरण्यस्थ इवाशास्ते । असं- निकृष्टविषये ह्यनात्मन्याशंसनम्, न तत्स्वात्मनि संभवति । तस्मान्नाशास्ति -- कदाचित्प्राणात्मभावं न प्रतिपद्येयेति । कस्यैतत् । य एवमेतत्साम प्राणं यथोक्तं निर्धारितम- हिमानं वेद- ' अहमस्मि प्राण इन्द्रियविषयासङ्गेरासुरैः पाप्मभिरधर्षणीयो विशुद्धः ; वागादिपञ्चकं च मदाश्रयत्वा- दग्न्यायात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनि- तासुरपाप्मदोषवियुक्तम् ; सर्वभूतेषु च मदाश्रयान्नायोपयोग- बन्धनम; आत्मा चाहं सर्वभूतानाम, आङ्गिरसत्वान ; ऋग्यजुः सामोद्गीथभूतायाश्च वाच आत्मा, तत्र्याप्तेस्तन्निर्वर्तक- त्वाच्च ; मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यम; ततोऽप्यन्तरतरं सौवर्ण्य लाक्षणिकं सौस्वर्यम; क. २८.] प्रथमोऽध्यायः । गीतिभावमापद्यमानस्य मम कण्ठादिस्थानानि प्रतिष्ठा ; एवं- गुणोऽहं पुत्तिकादिशरीरेषु काल्स्र्त्स्न्येन परिसमाप्तः, अमूर्त- त्वात्सर्वगतत्वाच्च' - इति आ एवमभिमानाभिव्यक्तेर्वेद उपास्ते इत्यर्थः ॥ इति प्रथमाध्यायस्य तृतीयं ब्राह्मणम् ॥ चतुर्थं ब्राह्मणम् ॥ आत्मैवेदमग्र आसीत्पुरुषविधः सोऽ- नुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मी- त्यग्रे व्याहरत्ततोऽहंनामाभवत्तस्मादप्ये- तर्ह्यमन्त्रितोऽहमयमित्येवाग्र उक्तवा- थान्यन्नाम प्रब्रूते यदस्य भवति स यत्पू- र्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्त- स्मात्पुरुष ओषति ह वै स तं योऽस्मा- त्पूर्वी बुभूषति य एवं वेद ॥ १ ॥ आत्मैवेदमग्र आसीत् । ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजा- पतित्वप्राप्तिर्व्याख्याता ; केवलप्राणदर्शनेन च तद्वै- तल्लोकजिदेव' इत्यादिना । प्रजापतेः फलभूतस्य सृष्टिस्थि- तिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्म- णोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते । तेन च कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृता भवेत्साम- क. १.] प्रथमोऽध्यायः । 7 र्थ्यात् । विवक्षितं त्वेतत् सर्वमप्येतज्ज्ञानकर्मफलं संसार एव, भयारत्यादियुक्तत्व श्रवणात्कार्य करणलक्षणत्वाच्च स्थूलव्य- क्तानित्यविषयत्वाच्चेति । ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति । न हि संसारविषयात्साध्यसा- धनादिभेदलक्षणादविरक्तस्यात्मैकत्वज्ञानविषयेऽधिकारः, अ- तृषितस्येव पाने । तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम् । तथा च वक्ष्यति —— ' तदेतत्पदनीयमस्य ' ' तदेतत्प्रेयः पुत्रात् ' इत्यादि ॥ - आत्मैव आत्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधी- यते । वैदिकज्ञानकर्मफलभूतः स एव — किम् ? इदं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् आत्मैवासीत् अग्रे प्राक्शरीरान्तरोत्पत्तेः । स च पुरुषविधः पुरुषप्रकार: शिरः पाण्यादिलक्षणो विराट् स एव प्रथमः संभूतोऽनुवी- क्ष्यान्वालोचनं कृत्वा — ' कोऽहं किंलक्षणो वास्मि' इति, नान्यद्वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकात्कार्यकरणरू- पात्, नापश्यत् न ददर्श । केवलं त्वात्मानमेव सर्वात्मान- मपश्यत् । तथा पूर्वजन्मश्रौतविज्ञानसंस्कृत : ' सोऽहं प्रजा- पतिः, सर्वात्माहमस्मि' इत्यग्रे व्याहरत् व्याहृतवान् । ततः तस्मात्, यतः पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे बृहदारण्यकोपनिषद्भाष्ये , - [ब्रा. ४. " तस्मात्, अहंनामाभवत्; तस्योंपनिषदहति श्रुतिप्रद- शितमेव नाम वक्ष्यति ; तस्मात् यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात्, तत्कार्यभूतेषु प्राणिष्वेतर्हि एतस्मिन्नपि काले, आमन्त्रितः कस्त्वमित्युक्तः सन्, 'अहमयम्' इत्येवाप्रे उक्त्वा कारणात्माभिधानेनात्मानमभिधायाग्रे, पुनर्विशेषना- मजिज्ञासवे अथ अनन्तरं विशेषपिण्डाभिधानम् ' देवदत्तः 'यंज्ञदत्त : ' वेति प्रब्रूते कथयति — यन्नामास्य विशेषपि- ण्डस्य मातापितृकृतं भवति, तत्कथयति । स च प्रजापतिः, अतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकाव- स्थायाम्, यद्यस्मात्, कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्र- तिपित्सूनां पूर्वः प्रथमः सन् अस्मात्प्रजापतित्वप्रतिपित्सुसमु- सन्, दायात्सर्वस्मात्, आदौ औषत् अदहत्; किम ? आ- सङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्वप्रतिबन्धकारणभू- तान्; यस्मादेवं तस्मात्पुरुषः- पूर्वमौषदिति पुरुषः । यथायं प्रजापतिरोषित्वा प्रतिबन्धकान्पाप्मनः सर्वान पुरुष: प्रजापतिरभवत्; एवमन्योऽपि ज्ञानकर्मभावनानुष्ठा- नवहिना केवलं ज्ञानबलाद्वा ओषति भस्मीकरोति ह वै सः तम् — कम् ? योऽस्माद्विदुषः पूर्वः प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः । तं दर्शयति — य एवं वेदेति ; - क. २. ] प्रथमोऽध्यायः । 7 सामर्थ्याज्ज्ञानभावनाप्रकर्षवान् । नन्वनर्थाय प्राजापत्यप्रति- पित्सा, एवंविदा चेद्दह्यते; नैष दोष:, ज्ञानभावनोत्कर्षा- भावात प्रथमं प्रजापतित्वप्रतिपत्त्यभावमात्रत्वाद्दाहस्य । उत्कृ- श्रृसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन न्यूनसाधनो न प्राप्नो- तीति, स तं दहतीत्युच्यते ; न पुनः प्रत्यक्षमुत्कृष्टसाधनेने- तरों दह्यते यथा लोके आजिसृतां यः प्रथममाजिमुप- सर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति, तद्वत् ॥ यदिदं तुष्टृषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्य- लक्षणम, नैव तत्संसारविषयमत्यक्रामदितीममर्थं प्रदर्शयि - ष्यन्नाह- Hrse त्तस्मादेकाकी बिभेति स हा- यमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय क- स्माद्वभेष्यद्वितीयाद्वै भयं भवति ॥ २ ॥ सोऽबिभेत् । सः प्रजापतिः, योऽयं प्रथमः शरीरी पुरुष- विधो व्याख्यातः सः, अबिभेत भीतवान अस्मदादिवदेवेत्याह यम्मादयं पुरुषविधः शरीरकरणवान् आत्मनाशविषयविपरी- तदर्शनवत्वादबिभेत्, तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बि- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. भेति । किंचास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम् । सोऽयं प्रजापतिः ईक्षाम् ईक्षणं चक्रे कृ- तवान्ह । कथमित्याह -- यत् यस्मात् मत्तोऽन्यत् आत्मव्य- तिरेकेण वस्त्वन्तरं प्रतिद्वन्द्वीभूतं नास्ति, तस्मिन्नात्मविनाश- हेत्वभावे, कस्मान्नु बिभेमि इति । तत एव यथाभूतात्मदर्श- नादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् । तस्य प्रजा- पतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमि- त्याह्— कस्माद्धयभेष्यत् किमित्यसौ भीतवान् ? परमार्थ- निरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः । यस्माद्दितीयाद्वस्त्व- न्तराद्वै भयं भवति ; द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्था- पितमेव । न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतु:, ' तत्र को मोह: क: शोक एकत्वमनुपश्यतः' इति मन्त्रवर्णान् । यच्चै - कत्वदर्शनेन भयमपनुनोद, तद्युक्तम् कस्मात् ? द्वितीयाद्व- स्त्वन्तराद्वै भयं भवति ; तदेकत्वदर्शनेन द्वितीयदर्शनमपनी- तमिति नास्ति यतः ॥ अत्र चोदयन्ति -- कुतः प्रजापतेरेकत्वदर्शनं जातम् ! को वामा उपदिदेश ? अथानुपदिष्टमेव प्रादुरभूत्; अस्मदा- देरपि तथा प्रसङ्गः । अथ जन्मान्तरकृतसंस्कारहेतुकम् ; एकत्वदर्शनानर्थक्यप्रसङ्गः । यथा प्रजापतेरतिक्रान्तजन्माव- कः २.] प्रथमोऽध्यायः । स्थस्यैकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये, यतोऽविद्यासंयुक्त एवायं जातोऽविभेत्, एवं सर्वेषामेकत्व - दर्शनानर्थक्यं प्राप्नोति । अन्त्यमेव निवर्तकमिति चेत्, न; पूर्ववत्पुन: प्रसङ्गेनानैकान्त्यात् । तस्मादनर्थकमेवैकत्वदर्शन- मिति ॥ नैष दोष: ; उत्कृष्टहेतूद्भवत्वाल्लोकवत् । यथा पुण्यक - र्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधा- स्मृतिवैशारद्यं दृष्टम्, तथा प्रजापतेर्धर्मज्ञानवैराग्यैश्वर्यविपरी- तहेतु सर्वपाप्मदाहाद्विशुद्धैः कार्यकरणैः संयुक्तमुत्कृष्टं जन्म; तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः । तथा च स्मृतिः-- ' ज्ञानमप्रतिघं यस्य वैराग्यं च प्रजापतेः ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्' इति ॥ सहसिद्ध- त्वे भयानुपपत्तिरिति चेत्-- न ह्यादित्येन सह तम उदेति-—- न, अन्यानुपदिष्टार्थत्वात्सहसिद्धवाक्यस्य । श्र- द्धातात्पर्य प्रणिपातादीनामहेतुत्वमिति चेत् — स्यान्मतम् - 'श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ' ' तद्विद्धि प्रणि- पातेन' इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहे- तुत्वम्, प्रजापतेरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्, न; निमित्तविकल्पसमुच्चयगुणवदगुणव स्वभेदोपपत्तेः । लोके बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. - सं- हि नैमित्तिकानां कार्याणां निमित्तर्भेदोऽनेकधा विकल्प्यते 1 तथा निमित्तसमुच्चयः । तेषां च विकल्पितानां समुच्चि - तानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति । तद्यथा- रूपज्ञान एव तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षूरूपसंनिकर्षो नक्तंचराणां रूपज्ञाने निमित्तं भवति ; मन एव केवलं रूपज्ञाननिमित्तं योगिनाम् ; अस्माकं तु निकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुचिता निमित्तभेदा भवन्ति ; तथालोकविशेषगुणवदगुणवत्त्वेन भे- दाः स्युः । एवमेवात्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कर्म निमित्तं भवति ; यथा प्रजापतेः । क्वचित्तपो निमित्तम ; तपसा ब्रह्म विजिज्ञासस्व' इति श्रुतेः । क्वचित ' आचार्य- वान्पुरुषो वेद' ' श्रद्धावाँल्लभते ज्ञानम् ' ' तद्विद्धि प्रणिपातेन 6 आचार्याद्वैव' ' ज्ञातव्यो द्रष्टव्यः श्रोतव्यः' इति श्रुतिस्मृ- तिभ्य एकान्तज्ञानलाभनिमित्तत्वं श्रद्धाप्रभृतीनाम् अध- र्मादिनिमित्तवियोगहेतुत्वात् वेदान्तश्रवणमनननिदिध्यास- नानां च साक्षाज्ज्ञेयविषयत्वात्; पापादिप्रतिबन्धक्षये चा- त्ममनसोः, भूतार्थज्ञाननिमित्तस्वाभाव्यात् । तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धाप्रणिपातादीनामिति ॥ स वै नैव रेमे तस्मादेकाकी न रमते क. ३. ] प्रथमोऽध्यायः । स द्वितीयमैच्छत् । स हैतावानास यथा स्त्रीपुमा सौ संपरिष्वक्तौ स इममेवा- त्मानं द्वेधापातयत्ततः पतिश्व पत्नी चा- भवतां तस्मादिदमर्घवृगलमिव स्व इति हे स्माह याज्ञवल्क्यस्तस्माद्यमाकाशः स्त्रिया पूर्यत एव ताँ समभवत्ततो मनु- ' या अजायन्त ॥ ३ ॥ इतश्च संसारविषय एव प्रजापतित्वम्, यतः सः प्रजापतिः - -- a नैव रेमे रतिं नान्वभवत्, अरत्याविष्टोऽभूदित्यर्थः अस्मदादिवदेव यतः ; इदानीमपि तस्मादेकाकित्वादिधर्मव- त्त्वात् एकाकी न रमते रतिं नानुभवति । रतिर्नामेष्टार्थ - संयोगजा क्रीडा । तत्प्रसङ्गिन इष्टवियोगान्मनस्याकुलीभा- वोऽरतिरित्युच्यते । सः तस्या अरतेरपनोदाय द्वितीयमर- पघातसमर्थ स्त्रीवस्तु ऐच्छत् गृद्धिमकरोत् । तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव । सः तेन सत्ये सुत्वात् एतावान् एतत्परिमाण आस बभूव ह । किं परिमाण इत्याह- - यथा लोके स्त्रीपुमांसावरत्यपनोदाय संपरिष्वक्तौ यत्परिमाणौ स्याताम तथा तत्परिमाण:, बभू- :; बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. वेत्यर्थः । स तथा तत्परिमाणमेवेममात्मानं द्वेधा द्विप्रकारम् अपातयत् पातितवान् । इममेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम् । न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्वि- राट् सर्वोपमर्देनैतावानास; किं तर्हि ? आत्मना व्यव- स्थितस्यैव विराज: सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसप- रिष्वक्तपरिमाणं शरीरान्तरं बभूव । स एव च विराट् तथाभूत:- :--' स हैतावानास' इति सामानाधिकरण्यात् । ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दंपत्योर्न- र्वचनं लौकिकयोः ; अत एव तस्मात् - यस्मादात्मन एवार्थः पृथग्भूतः - - येयं स्त्री - तस्मात् — इदं शरीरमात्मनोऽर्धबृ- गलम् — अर्धं च तत् बृगलं विदलं च तदर्धबृगलम्, अर्ध- विदलमिवेत्यर्थः । प्राक्स्युद्वह्नात्कस्यार्धबृगलमित्युच्यते -. स्व आत्मन इति । एवमाह स्म उक्तवान्किल, याज्ञवल्क्य:- यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैव- रातिरित्यर्थः ; ब्रह्मणो वा अपत्यम् । यस्मादयं पुरुषार्ध आकाशः . स्त्र्यर्धशून्यः, पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुन: संपुटीक- रणेनेव विदलार्धः । तां स प्रजापतिर्मन्वाख्यः शतरूपाख्या- मात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगत- वान् । ततः तस्मात्तदुपगमनात् मनुष्या अजायन्त उत्पन्नाः ॥ क. ४.] प्रथमोऽध्यायः । 3 सो हेयमीक्षांचक्रे कथं नु मात्मन एव जनयित्वा संभवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्ता समेवाभव- ततो गावोऽजायन्त बडबेतराभवदश्व- वृष इतरो गर्दभीतरा गर्दभ इतरस्ता समेवाभवत्तत एकशफमजायनाजेतरा-' भवस्त इतरोऽविरितरा मेष इतरस्ता ममेवाभवत्ततोऽजावयोऽजायन्तैवमेव य- दिदं किंच मिथुनमा पिपीलिकाभ्यस्त - त्सर्वमसृजत ॥ ४ ॥ सा शतरूपा उ ह इयम —— सेयं दुहितृगमने स्मार्त प्रतिषेधमनुस्मरन्ती ईक्षांचक्रे । ' कथं न्विदमकृत्यम, यन्मा मम आत्मन एव जनयित्वा उत्पाद्य संभवति उपगच्छति ; यद्यप्ययं निर्घृणः, अहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि' इत्येवमीक्षित्वा असौ गौरभवत् । उत्पा- द्य प्राणिकर्मभिश्चोद्यमानायाः ः पुनः पुनः सैव मतिः शतरू- पाया मनोश्चाभवत् । ततश्च ऋषभ इतरः । तां समेवा- भवदित्यादि पूर्ववत । ततो गावोऽजायन्त । तथा बडबे - , बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. तराभवत् अश्ववृष इतरः । तथा गर्दभीतरा गर्दभ इतर: । तत्र बडबाश्ववृषादीनां संगमात्तत एकशफम् एकखुरम् अश्वाश्वतरगर्दभाख्यं त्रयमजायत तथा अजा इतराभवत्, बस्तश्छाग इतरः । तथाविरितरा, मेष इतरः । तां समे- वाभवत् । तां तामिति वीप्सा । तामजां तामवि चेति समभवदेवेत्यर्थः । ततोऽजाश्वावयश्चाजावयोऽजायन्त । एव- मेव यदिदं किंच यत्किचेदं मिथुनं स्त्रीपुंसलक्षणं द्वन्द्वम आ पिपीलिकाभ्यः पिपीलिकाभि: सह अनेनैव न्यायेन तत्सर्वमसृजत जगत्सृष्टवान ॥ 1 सोsवेदहं वाव सृष्टिरस्म्यहँ हीद‍ सर्वमसृक्षीति ततः सृष्टिरभवत्सृष्ट्या हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥ " सः प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत् । कथम ! अहं वाव अहमेव सृष्टि:-- सृज्यत इति सृष्टं जगदुच्यते सृष्टिरिति - यन्मया सृष्टं जगत् मदभेदत्वादहमेवास्मि, न मत्तो व्यतिरिच्यते ; कुत एतत् ? अहं हि यम्मान इदं सर्व जगत असृक्ष सृष्टवानस्मि तस्मादित्यर्थः । ' यस्मा- त्सृष्टिशब्देनात्मानमेवाभ्यधात्प्रजापतिः ततः तस्मान सृष्टि- क. ६.] प्रथमोऽध्यायः । रभवत् सृष्टिनामाभवत् सृष्टयां जगति ह अस्य प्रजापतेः एत- स्याम् एतस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति, स्वात्मनो- ऽनन्यभूतस्य जगत: ; क: ? य एवं प्रजापतिवद्यथोक्तं स्वा- त्मनोऽनन्यभूतं जगत् 'साध्यात्माधिभूताधिदैवं जगदहम- स्मि' इति वेद ॥ अथेत्यभ्यमन्थत्स मुखाच्च योनेर्हस्ता- भ्यां चाग्निमसृजत तस्मादेतदुभयमलो- मकमन्तरतोऽलोमका हि योनिरन्तरतः । तयदिदमाहुरमुं यजामुं यजेत्येकैकं देव- मेतखैव सा विसृष्टिरेष उ ह्येव सर्वे दे- वाः । अथ यत्किंचेदमाई नद्रेतसोऽसृज- न तदु सोम एतावद्रा इद सर्वमन्नं चै- वान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽनिसृष्टिः । यच्छ्रेयसो देवानस्सृ जनाथ यन्मर्त्यः सन्नमृतानसृजत तस्मा- : दतिसृष्टिरतिसृष्टया हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥ बृहदारण्यकोपनिषद्भाप्ये [ब्रा. ४. एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्ट्वा ब्राह्मणादि- वर्णनियन्त्रीदेवताः सिसृक्षुरादौ - - अथ - इति शब्दद्वयमभिन- यप्रदर्शनार्थम् - अनेन प्रकारेण मुखे हस्तौ प्रक्षिप्य अभ्यम- न्थत् आभिमुख्येन मन्थनमकरोत् । सः मुखं हस्ताभ्यां माथ- त्वा, मुखाच्च योने: हस्ताभ्यां च योनिभ्याम्, अग्निं ब्राह्म- णजातेरनुग्रहकर्तारम्, असृजत सृष्टवान् । यस्माद्दाहकस्या- ग्नेर्योनिरेतदुभयम् — हस्तौ मुखं च तस्मान् उभयमप्येतत् अलोमकं लोमविवर्जितम् ; किं सर्वमेव ? न, अन्तरत: अभ्य- न्तरतः । अस्ति हि योन्या सामान्यमुभयस्यास्य । किम् ? अ- लोमका हि योनिरन्तरतः स्त्रीणाम् । तथा ब्राह्मणोऽपि मुखादेव जज्ञे प्रजापतेः । तस्मादेक योनित्वाज्ज्येष्ठेनेवानुजोऽनुगृह्यते, अग्निना ब्राह्मणः । तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिसिद्धम् । तथा बलाश्रयाभ्यां बाहुभ्यां वलभिदा- दिकं क्षत्रियजातिनियन्तारं क्षत्रियं च । तस्मादैन्द्रं क्षत्रं बाहुवीर्य चेति श्रुतौ मृतौ चावगतम् । तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च । तस्मा- त्कृष्यादिपरो स्वादिदेवत्यश्च वैश्यः । तथा पूषणं पृथ्वी- दैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति — श्रुति- स्मृतिप्रसिद्धेः । तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमा - क्र. ६.] प्रथमोऽध्यायः । 7 णमप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै । यथेयं श्रुति- र्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितो- ऽर्थः ; स्रष्टुरनन्यत्वात्सृष्टानाम्, प्रजापतिनैव तु सृष्टत्वा- वनम् । अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रा- येणाविद्वन्मतान्तरनिन्दोपन्यासः । अन्यनिन्दा अन्यस्तुत- ये । तत् तत्र कर्मप्रकरणे, केवलयाज्ञिका यागकाले, यदिदं :- अमुमग्निं यजामुमिन्द्रं यज' इत्यादि - ना- मशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेकैकं मन्य- माना आहुरित्यभिप्रायः -- तन्न तथा विद्यात; यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्वः एष उ ह्येव प्रजापति- देव प्राणः सर्वे देवाः ॥ वच आहुः- , अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके; संसा- रीत्यपरे । पर एव तु मन्त्रवर्णात- इन्द्रं मित्रं वरुणमग्नि- माहु:' इति श्रुतेः; ' एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा:' इति च श्रुते: ; स्मृतेश्च - ' एतमेके वदन्त्यग्निं मनु- मन्ये प्रजापतिम्' इति योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मो- " 6 --- ऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमु- भौ' इति च । संसार्येव वा स्यात् - - ' सर्वान्पाप्मन औ- षत्' इति श्रुतेः न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; ; बृहदारण्यकोपनिषद्भाष्ये ( [ब्रा. ४. भयारतिंसंयोगश्रवणाच्च ; 'अथ यन्मर्त्यः सन्नमृतानसृजत' इति च, 'हिरण्यगर्भं पश्यत जायमानम्' इति च मन्त्रव- र्णात् स्मृतेश्च कर्मविपाकप्रक्रियायाम् - 'ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्म- नीषिणः' इति । अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघ्रात इति चेत् — न, कल्पनान्तरोपपत्तेरविरोधात् । उपाधिविशेषसंबन्धाद्वि- शेषकल्पनान्तरमुपपद्यते । ' आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ' इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम्, न परमार्थतः । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम्, 'तत्त्वमसि' इति श्रुतेः । हिरण्यगर्भ - स्तूपाधिशुद्धयतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवा- दा: प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते । व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रु- तिस्मृतिवादैः ॥ तार्किकैस्तु परित्यक्तागमबलैः अस्ति नास्ति कर्ता अकर्ता इत्यादि विरुद्धं बहु तर्कयद्भिराकुलीकृत: शास्त्रार्थः । तेना- क. ६.] प्रथमोऽध्यायः । र्थनिश्चयो दुर्लभः । ये तु केवलशास्त्रानुसारिणः शान्तदर्पा- स्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थो देवतादिविषयः ॥ • , तत्र प्रजापतेरेकस्य देवस्यात्राद्यलक्षणो भेदो विवक्षित इति -- तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते । अथ यत्किंचेदं लोक आर्द्र द्रवात्मकम्, तद्रेतस आत्मनो बीजात् असृजत; 'रेतस आप:' इति श्रुते: । द्रवात्मकश्च सोमः । तस्माद्यदार्द्र प्रजापतिना रेतसः सृष्टम्, तदु सोम एव । एतावद्वै एतावदेव नातोऽधिकम् इदं सर्वम । किं तत् ? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम्, अन्नादश्चाभिः औष्ण्याद्रक्षत्वाच्च । तत्रैवमवधियते— सोम एवान्नम, यदद्यते तदेव सोम इत्यर्थः ; य एवात्ता स एवाग्नि: ; अर्थबलाद्धयवधारणम् । अग्निरपि कचिद्धूयमानः सोमपक्षम्यैव सोमोऽपीज्यमानोऽग्निरेव, अत्तृत्वात् । एव- मनीषोमात्मकं जगदात्मत्वेन पश्यन्न केनचिद्दोषेण लिप्यते ; प्रजापतिश्च भवति । सैषा ब्रह्मणः प्रजापतेर तिसृष्टिरात्म- नोऽप्यतिशया । "का सेत्याह -- यच्छ्रेयसः प्रशस्यतराना - त्मनः सकाशात् यस्मादसृजत देवान् तस्माद्देवसृष्टिर- तिसृष्टिः । कथं पुनरात्मनोऽतिशया सृष्टिरित्यत आह-- अथ यत् यस्मात् मर्त्यः सन मरणधर्मा सन्, अमृतान अम- बृहदारण्यकोपनिषद्भाष्ये [त्रा. ४. रणधर्मिणो देवान्, कर्मज्ञानवहिना सर्वानात्मनः पाप्मन ओषित्वा असृजत; तस्मादियमतिसृष्टि: उत्कृष्टज्ञानस्य फल- मित्यर्थः । तस्मादेता मतिसृष्टिं प्रजापतेरात्मभूतां यो वेद, स एतस्यामतिसृष्टयां प्रजापतिरिव भवति प्रजापतिवदेव' स्रष्टा भवति ॥ तद्धेतं तर्ह्यव्याकृतमासीत् । सर्व वैदिकं साधनं ज्ञान- कर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं सा- ध्यमेतावदेव, यदेतद्व्याकृतं जगत्संसारः । अथैतस्यैव साध्य- साधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या, तां निर्दिदिक्षति अङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजोऽविद्याक्षेत्रो ह्यसौ संसारवृक्षः समूल उद्धर्तव्य इति तदुद्धरणे हि पुरुषार्थपरिसमाप्तिः; तथा चोक्तम्- ऊर्ध्वमूलोऽवाक्शाखः' इति काठके ; गीतासु च ' ऊर्ध्व- मूलमध: शाखम्' इति ; पुराणे च- इति ॥ 6 " ब्रह्मवृक्षः सनातनः तद्वेदं तर्ह्यत्र्याकृतमासीत्तन्नामरूपा- भ्यामेव व्याक्रियतासौनामायमिद रूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिद रूप इति स " क. ७.] प्रथमोऽध्यायः । एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलाये तं न पश्यन्ति । अकृत्स्नां हि स प्राणन्नेव प्राणो नाम भवति । वद- वाक्पश्यचक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो हो- षोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीय- म सर्वस्य ययमात्मानेन ह्येतत्सर्व वेद । यथा ह वै पदेनानुविन्देदेव कीर्ति‍ लोकं विन्दते य एवं वेद ॥ ७ ॥ " ९५. . तद्वेदम् । तदिति बीजावस्थं जगत्प्रागुत्पत्तेः तर्हि तस्मि काले ; परोक्षत्वात्सर्वनाम्ना अप्रत्यक्षाभिधानेनाभिधीयते- भूतकालसंबन्धित्वादव्याकृतभाविनो जगतः ; सुखग्रहणार्थ - मैतिह्यप्रयोगो ह-शब्द: एवं ह तदा आसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते -- युधि - " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. ष्ठिरो ह किल राजासीदित्युक्ते यद्वेत्; इदमिति व्याकृतना- मरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते ; तदि- दंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकर- प्यादेकत्वमेव परोक्षप्रत्यक्षावस्थस्य जगतोऽवगम्यते ; तढ़े- वेदम् इदमेव च तदव्याकृतमासीदिति । अथैवं सति नासत उत्पत्तिर्न सतो विनाशः कार्यस्येत्यवधृतं भवति । तदेवंभूतं जगत् अव्याकृतं सत् नामरूपाभ्यामेव नाम्ना रूपेणैव च, व्याक्रियत । व्याक्रियतेति कर्मकर्तृप्रयोगात्त- त्स्वयमेवात्मैव व्याक्रियत -- वि आ अक्रियत -- विस्पष्टुं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत -- साम- दाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम् । असौ नामेति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति । देव- दत्तो यज्ञदत्त इति वा नामास्येत्यसौनामा अयम् । तथा इदमिति शुकुकृष्णादीनामविशेषः । इदं शुकुमिदं कृष्णं वा रूपमस्येतीदंरूपः । तदिदम् अव्याकृतं वस्तु, एतर्हि एत- स्मिन्नपि काले, नामरूपाभ्यामेव व्याक्रियदे - असौनामा- यमिदंरूप इति । यदर्थः सर्वशास्त्रारम्भः यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता, यः कारणं सर्वस्य जगतः, यदात्मके नामरूपं सलिलादिव स्वच्छाम- क. ७.] प्रथमोऽध्यायः । लमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुद्धबुद्धमुक्तस्वभावः स एष: अ- व्याकृते आत्मभूते नामरूपे व्याकुर्वन् ब्रह्मादिस्तम्बपर्य- न्तेषु देहेष्विह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः ॥ - नवव्याकृतं स्वयमेव व्याक्रियतेत्युक्तम् ; कथमिदमिदानी- मुच्यते-— पर एव त्वात्मा अव्याकृतं व्याकुर्वन्निह प्रविष्ट इति । नैष दोषः परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् । आक्षिप्तनियन्तृकर्तृक्रियानिमित्तं हि जगद- व्याकृतं व्याक्रियतेत्यवोचाम । इदंशब्दसामानाधिकरण्याच अव्याकृतशब्दस्य । यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादि- विशेषवत्र्याकृतम्, तथा अपरित्यक्तान्यतमविशेषवदेव तदव्या- कृतम् । व्याकृताव्याकृतमात्रं तु विशेषः । दृष्टश्च लोके वि- वक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति - दाचिद्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति श- ब्दप्रयोगो भवति; कदाचिन्निवासिजनविवक्षायां ग्राम आ- गत इति; कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भ- वति ग्रामं च न प्रविशेदिति यथा तद्वदिहापि जगदिदं व्याकृतमव्याकृतं चेत्य भेदविवक्षायामात्मानात्मनोर्भवति व्य- पदेशः । तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगन्यप- S. B. U. 7 - -क- बृहदारण्यकोपनिषद्भाष्ये 6 [ब्रा. ४. देश: । तथा ' महानज आत्मा' ' अस्थूलोऽनणुः ' स एष नेति नेति' इत्यादि केवलात्मव्यपदेश: ॥ ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा ज- गत, स कथमिह प्रविष्टः परिकल्प्यते ; अप्रविष्टो हि देश: परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ; नाका- शेर्न किंचित्, नित्यप्रविष्टत्वात् । पाषाणसर्पादिवद्धर्मान्तरेणे- ति चेत् — अथापि स्यात् —न पर आत्मा स्वेनैव रूपेण प्र- विवेश ; किं तर्हि ? तत्स्थ एव धर्मान्तरेणोपजायते; तेन प्रविष्ट इत्युपचर्यते ; यथा पाषाणे सहजोऽन्तस्थः सर्प:, नारिकेले वा तोयमन, 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति श्रुतेः । यः स्रष्टा स भावान्तरमनापन्न एव कार्य सृष्ट्वा प श्रात्प्राविशदिति हि श्रूयते । यथा 'भुक्त्वा गच्छति' इति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदः, अविशि- श्व कर्ता तद्वदिहापि स्यात् ; न तु तत्स्थस्यैव भावान्त- रोपजनन एतत्संभवति । न च स्थानान्तरेण वियुज्य स्थाना- न्तरसंयोगलक्षणः प्रवेशां निरवयवस्यापरिच्छिन्नस्य दृष्टः । सावयव एव प्रवेशश्रवणादिति चेत्, न ; ' दिव्यो मूर्त: पुरु- ष 'निष्कलं निष्क्रियम्' इत्यादिश्रुतिभ्यः, सर्वव्यपदेश्य- धर्मविशेषप्रतिषेधश्रुतिभ्यश्च । प्रतिबिम्बप्रवेशवदिति चेत्, न ; षः क. ७.] प्रथमोऽध्यायः । 7 वस्त्वन्तरेण विप्रकर्षानुपपत्तेः । द्रव्ये गुणप्रवेशवदिति चेत्, न; अनाश्रितत्वात् । नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्र- व्ये प्रवेश उपचर्यते ; न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवे- श उपपद्यते । फले बीजवदिति चेत्, न; सावयवत्ववृद्धिक्षयो- त्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात् । न चैवं धर्मवत्त्वं ब्रह्मणः, ' अजोऽजर:' इत्यादिश्रुतिन्यायविरोधात् । अन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत्, न; 'सेयं देवतैक्षत' इत्यारभ्य 'नामरूपे व्याकरवाणि' इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः । तथा ' तत्सृष्ट्वा तदेवानुप्रावि- शत् स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' ' सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' 'त्वं कुमार उत वा कुमारीत्वं जीर्णो दण्डेन वश्वास' 'पुरश्चक्रे द्विपद: ' ' रूपं रूपम्' इति च मन्त्रवर्णान्न परादन्यस्य प्रवे- शः । प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत्, न । 'एको देवो बहुधा संनिविष्ट: ' ' एक: सन्बहुधा विचार ' ' त्वमेको- ऽसि बहूननुप्रविष्ट: ' ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादिश्रुतिभ्यः ॥ "6 प्रवेश उपपद्यते नोपपद्यत इति - तिष्ठतु तावत् ; प्रवि- ष्टानां संसारित्वात्तदनन्यत्वाच्च परस्य संसारित्वमिति चेत्, बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. न; अशनायाद्यत्ययश्रुतेः । सुखित्वदुः खित्वादिदर्शनान्नेति चेत्, न; 'न लिप्यते लोकदुःखेन बाह्य : ' इति श्रुतेः । प्रत्यक्षादिविरोधादयुक्तमिति चेत्, न उपाध्याश्रयजनित- विशेषविषयत्वात्प्रत्यक्षादे: । न दृष्टेर्द्रष्टारं पश्ये: ' ' वि- ज्ञातारमरे केन विजानीयात्' 'अविज्ञातं विज्ञातृ' इत्या- दिश्रुतिभ्यो न आत्मविषयं विज्ञानम्; किं तर्हि ? बुद्धयायु- पाध्यात्मप्रतिच्छायाविषयमेव ' सुखितोऽहं ' ' दुःखितोऽहम' इत्येवमादि प्रत्यक्षविज्ञानम् 'अयम् अहम्' इति विष- येण विषयिणः सामानाधिकरण्योपचारात्; 'नान्यदतो- ऽस्ति द्रष्टृ' इत्यन्यात्मप्रतिषेधाच्च । देहावयवविशेष्यत्वाच्च सु- खदुःखयोर्विषयधर्मत्वम् । 'आत्मनस्तु कामाय' इत्यात्मार्थ- त्वश्रुतेरयुक्तमिति चेत्, न; ' यत्र वा अन्यदिव स्यात् ' इत्यविद्या विषयात्मार्थत्वाभ्युपगमात् 'तत्केन कं पश्येत ' 'नेह नानास्ति किंचन' ' तत्र को मोहः कः शोक एकत्वम- नुपश्यतः' इत्यादिना विद्याविषये तत्प्रतिषेधाच्च न आत्मधर्मत्व- म् । तार्किकसमयविरोधादयुक्तमिति चेत्, न ; युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः । न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशे- ष्यत्वम्, प्रत्यक्षाविषयत्वात् । आकाशस्य शब्दगुणवत्त्ववदात्म- नो दुःखित्वमिति चेत्, न; एकप्रत्ययविषयत्वानुपपत्तेः । न हि ' " क. ७.] प्रथमोऽध्यायः । सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो वि- षयीकरणमुपपद्यते । तस्य च विषयीकरण आत्मन एकत्वा- द्विषय्यभावप्रसङ्गः । एकस्यैव विषयविषयित्वम्, दीपवदिति चेत्, न; युगपदसंभवात्, आत्मन्यंशानुपपत्तेश्च । एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम् । प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे न अनुमानम् दुःखस्य नित्यमेव प्र- त्यक्षविषयत्वात्; रूपादिसामानाधिकरण्याच्च मन:संयोग- जत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रस- ङ्गात् । न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन् अपय- न्वा दृष्टः क्वचित् । न च निरवयवं विक्रियमाणं दृष्टं क्वचित्, अनित्यगुणाश्रयं वा नित्यम् । न चाकाश आगमवादिभिनि- त्यतयाभ्युपगम्यते । न चान्यो दृष्टान्तोऽस्ति । विक्रियमाण- मपि तत्प्रत्ययानिवृत्तेः नित्यमेवेति चेत्, न ; द्रव्यस्यावयवा- न्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः । सावयवत्वेऽपि नित्यत्व- मिति चेत्, न; सावयवस्यावयवसंयोगपूर्वकत्वे सति विभा- गोपपत्तेः । वज्रादिष्वदर्शनान्नेति चेत्, न; अनुमेयत्वात्संयो- गपूर्वत्वस्य । तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः । परस्यादुःखित्वेऽन्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्, न; अविद्याध्यारोपितदुःखित्व- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. भ्रमापोहार्थत्वात् -- आत्मनि प्रकृतसंख्यापूरणभ्रमापोहवत् ; कल्पितदुःख्यात्माभ्युपगमाच्च ॥ जलसूर्यादिप्रतिबिम्बवत् आत्मप्रवेशश्च प्रतिबिम्बवत् व्या- कृते कार्ये उपलभ्यत्वम् । प्रागुत्पत्तेरनुपलब्ध आमा पश्चा- त्कार्ये च सृष्टे व्याकृते बुद्धेरन्तरुपलभ्यमानः, सूर्यादिप्रति- बिम्बवज्जलादौ, कार्य सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दि- श्यते-- ' स एष इह प्रविष्टः ' तत्सृष्ट्वा तदेवानुप्रावि- शत् ' ' स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेना- त्मनानुप्रविश्य' इत्येवमादिभिः । न तु सर्वगतस्य निरव- यवस्य दिग्देशकालान्तरापक्रमण प्राप्तिलक्षणः प्रवेशः कदा- चिदप्युपपद्यते । न च परादात्मनोऽन्योऽस्ति द्रष्टा, 'नान्य- दतोऽस्ति द्रष्टृ' 'नान्यदतोऽस्ति श्रोतृ' इत्यादिश्रुतेः -- इत्य- वोचाम । उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम् ; उपलब्धेः पुरुषार्थत्वश्रवणात् - 'आत्मानमेवावेत्' 'तस्मा- तत्सर्वमभवत् ' ' ब्रह्मविदाप्नोति परम्' ' स यो ह वै तत्प- रमं ब्रह्म वेद ब्रह्मैव भवति' 'आचार्यवान्पुरुषो वेद ' ' तस्य तावदेव चिरम्' इत्यादिश्रुतिभ्यः ; ' ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् तद्धग्र्यं सर्वविद्यानां प्राप्यते " " क. ७.] प्रथमोऽध्यायः । ह्यमृतं ततः' इत्यादिस्मृतिभ्यश्च । भेददर्शनापवादाश्च, स- ष्टयादिवाक्यानामात्मैकत्वदर्शनार्थ परत्वोपपत्तिः । तस्मात्का- र्यस्थस्योपलभ्यत्वमेव प्रवेश इत्युपचर्यते ॥ आ नखाप्रेभ्यः --- नखाग्रमर्यादमात्मनश्चैतन्यमुपलभ्य- ते । तत्र कथमिव प्रविष्ट इत्याह-- यथा लोके, क्षुरधाने क्षुरो धीयते अस्मिन्निति क्षुरधानं तस्मिन् नापितोपस्करा - धाने, क्षुर: अन्तस्थ उपलभ्यते -- अवहितः प्रवेशितः, स्यात्; यथा वा विश्वंभरः अग्निः- विश्वस्य भरणात् विश्वभर : कुलाये नीडे अग्निः काष्ठादौ, अवहितः स्यादि- त्यनुवर्तते ; तत्र हि स मध्यमान उपलभ्यते । यथा च क्षुरः क्षुरधान एकदेशेऽवस्थितः, यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, एवं सामान्यतो विशेषतश्च देहं संव्याप्या- वस्थित आत्मा; तत्र हि स प्राणनादिक्रियावान् दर्शना- दिक्रियावांश्चोपलभ्यते । तस्मात् तत्र एवं प्रविष्टं तम् आ- त्मानं प्राणनादिक्रियाविशिष्टम्, न पश्यन्ति नोपलभन्ते । नन्वप्राप्तप्रतिषेधो ऽयम्- ' तं न पश्यन्ति' इति, दर्शन- स्याप्रकृतत्वात् नैष दोषः; सृष्ट्यादिवाक्यानामात्मैकत्व- प्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम् ' रूपं रूपं प्रति- रूपो बभूव तदस्य रूपं प्रतिचक्षणाय' इति मन्त्रवर्णात् । - 6 " बृहदारण्यकोपनिषद्भाष्ये [बा. ४. तत्र प्राणनादिक्रियाविशिष्टस्य दर्शने हेतुमाह- अकृत्स्न: असमस्तः, हि यस्मात्, सः प्राणनादिक्रियाविशिष्टः । कुतः पुनरकृत्स्नत्वमिति, उच्यते- प्राणन्नेव प्राणनक्रियामेव कुर्वन् प्राणो नाम प्राणसमाख्य: प्राणाभिधानो भवति प्राणनक्रियाकर्तृत्वाद्धि प्राणः प्राणितीत्युच्यते, नान्यां क्रियां कुर्वन् - यथा लावक: पाचक इति; तस्मात्क्रियान्तरवि- शिष्टस्यानुपसंहारादकृत्स्नो हि सः । तथा वदन् वदनक्रि- यां कुर्वन्, वक्तीति वाक्, पश्यन् चक्षुः, चष्ट इति चक्षुः द्रष्टा, शृण्वन् शृणोतीति श्रोत्रम् । ' प्राणन्नेव प्राणो वदन्वा- क्' इत्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति । 'पश्यं- चक्षुः शृण्वन् श्रोत्रम्' इत्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्य- ते, नामरूपविषयत्वाद्विज्ञानशक्तेः । श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु नामरूपसाधनम् ; न हि नामरूपव्यति- रिक्तं विज्ञेयमस्ति ; तयोश्रोपलम्भे करणं चक्षुः श्रोत्रे । क्रिया च नामरूपसाध्या प्राणसमवायिनी ; तस्याः प्राणाश्रयाया अभिव्यक्तौ वाक् करणम् ; तथा पाणिपादपायूपस्थाख्यानि ; सर्वेषामुपलक्षणार्था वाक् । एतदेव हि सर्व व्याकृतम्- " त्रयं वा इदं नाम रूपं कर्म इति हि वक्ष्यति । मन्वानो मनुते इति ; ज्ञानशक्तिविकासानां साधारणं करणं मनः-- - क. ७.] प्रथमोऽध्यायः । , मनः-- मनुतेऽनेनेति; 'पुरुषस्तु कर्ता सन्मन्वानो मन इत्यु च्यते । तान्येतानि प्राणादीनि, अस्यात्मन: कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव न तु वस्तुमात्रवि- षयाणि; अतो न कृत्स्नात्मवस्त्ववद्योतकानि एवं ह्यसा- वात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपा- भ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि । स योऽतः अस्मा- त्प्राणनादिक्रियासमुदायात्, एकैकं प्राणं चक्षुरिति वा विशि- ष्टमनुपसंहृतेतर विशिष्टक्रियात्मकम्, मनसा अयमालेत्युपास्ते चिन्तयति, न स वेद न स जानाति ब्रह्म । कस्मात् ? अकृत्स्नोऽसमस्तः हि यस्मात् एष आत्मा, अस्मात्प्राणना दिसमुदायात्, अतः प्रविभक्तः, एकैकेन विशेषणेन विशि- ष्टः, इतर धर्मान्तरानुपसंहारात् -- भवति । यावदयमेवं वेद --' पश्यामि' ' शृणोमि ' ' स्पृशामि ' इति वा स्वभावप्रवृ- त्तिविशिष्टं वेद, तावदञ्जसा कृत्स्नमात्मानं न वेद ॥ --- कथं पुनः पश्यन्वेदेत्याह — आत्मेत्येव आत्मेति -- प्राणा- दीनि विशेषणानि यान्युक्तानि तानि यस्य सः - आनुवं स्तान्यात्मेत्युच्यते । स तथा कृत्स्नविशेषोपसंहारी सन्कृत्स्नो भवति । वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति । तथा च वक्ष्यति — 'ध्यायतीव - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. लेलायतीव' इति । तस्मादात्मेत्येवोपासीत । एवं कृत्स्नो - सौ स्वेन वस्तुरूपेण गृह्यमाणो भवति । कस्मात्कृत्स्न इत्याश- कुयाह -- अत्रास्मिन्नात्मनि, हि यस्मात्, निरुपाधिके, जल- सूर्यप्रतिबिम्बभेदा इवादित्ये, प्राणाद्युपाधिकृता विशेषाः प्रा- णादिकर्मजनामाभिधेया यथोक्ता होते, एकमभिन्नताम् भव- न्ति प्रतिपद्यन्ते ॥ " 'आत्मेत्येवोपासीत' इति नापूर्वविधिः, पक्षे प्राप्तत्वान् । ' यत्साक्षादपरोक्षाद्ब्रह्म' ' कतम आत्मेति-- योऽयं विज्ञा- नमय:' इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् ; तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्मा- भिमानबुद्धिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्या निवर्तिता; तस्यां निवर्तितायां कामादिदोषानुपपत्तेरनात्म- चिन्तानुपपत्तिः; पारिशेष्यादात्मचिन्तैव । तस्मात्तदुपासन- मस्मिन्पक्षे न विधातव्यम् प्राप्तत्वात् । तिष्ठतु तावत् -- पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति । अपूर्वविधिः स्यात्, ज्ञानोपासनयोरेकत्वे - सत्यप्राप्तत्वात्; न स वेद' इति विज्ञानं प्रस्तुत्य ' आत्मेत्येवोपासीत ' इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते । 'अनेन ह्येतत्सर्व वेद' 'आत्मानमेवावेत्' इत्यादिश्रुतिभ्यश्च विज्ञा- क. ७.] प्रथमोऽध्यायः । आत्मा नमुपासनम् । तस्य चाप्राप्तत्वाद्विध्यर्हत्वम् । न च स्वरूपा - न्वाख्याने पुरुषप्रवृत्तिरुपपद्यते । तस्मादपूर्वविधिरेवायम् । कर्मविधिसामान्याच्च- - यथा 'यजेत' ' जुहुयात्' इत्या- दयः कर्मविधयः, न तैरस्य ' आत्मेत्येवोपासीत ' ' वा अरे द्रष्टव्यः' इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते । मानसक्रियात्वाच्च विज्ञानस्य — यथा ' यस्यै देवतायै हवि - गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन' इत्याद्या मानसी क्रिया विधीयते, तथा 'आत्मेत्येवोपासीत ' ' मन्तव्यो नि- दिध्यासितव्यः' इत्याद्या क्रियैव विधीयते ज्ञानात्मिका । तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति । भावनांशत्र- योपपत्तेश्च- - यथा हि ' यजेत' इत्यस्यां भावनायाम्, किम् ? केन ? कथम् ? इति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमव- गम्यते, तथा ' उपासीत' इत्यखामपि भावनायां विधीय- मानायाम्, किमुपासीत ? केनोपासीत ? कथमुपासीत ? इत्यस्यामाकाङ्क्षायाम्, 'आत्मानमुपासीत मनसा त्याग- ब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्त:' इत्यादि- शास्त्रेणैव समर्थ्यते अंशत्रयम् । यथा च कृत्स्नस्य दर्श- पूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः ; - एवमौपनिषदात्मोपासनप्रकरणस्यात्मोपासनविध्युद्देशत्वेनैवो- बृहदारण्यकोपनिषद्भाष्ये [त्रा. ४. पयोगः । 'नेति नेति' 'अस्थूलम्' 'एकमेवाद्वितीयम् ' ' अशनायाद्यतीतः' इत्येवमादिवाक्यानामुपास्यात्मस्वरूपवि- शेषसमर्पणेनोपयोगः । फलं च मोक्षोऽविद्यानिवृत्तिर्वा ॥ अपरे वर्णयन्ति — उपासनेनात्मविषयं विशिष्टं विज्ञाना- न्तरं भावयेत्; तेनात्मा ज्ञायते ; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वच- नान्यपि -- ' विज्ञाय प्रज्ञां कुर्वीत ' ' 'द्रष्टव्यः श्रोतव्यो मन्त- 6 व्यो निदिध्यासितव्यः ' ' सोऽन्वेष्टव्यः स विजिज्ञासितव्य:' इत्यादीनि ॥ न, अर्थान्तराभावात् । न च ' आत्मेत्येवोपासीत ' इत्य- पूर्वविधिः कस्मात् ? आत्मस्वरूपकथनानात्मप्रतिषेधवा- क्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् । तत्र हि विधेः साफल्यम्, यत्र विधिवा- क्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते— यथा ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्येवमादौ । न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानु- ष्ठानम् । तच्चाधिकाराद्यपेक्षानुभावि । न तु 'नेति नेति' इत्या- द्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासा- दिवत्पुरुषव्यापारः संभवति सर्वव्यापारोपशम हेतुत्वात्तद्वा- ; . क. ७.] ' प्रथमोऽध्यायः । " क्यजनितविज्ञानस्य । न ह्युदासीनविज्ञानं प्रवृत्तिजनकम् ; अत्र- झानात्मविज्ञाननिवर्तकत्वाच्च 'एकमेवाद्वितीयम् ' ' तत्त्वमसि' इत्येवमादिवाक्यानाम् । न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते, विरो- धात् । वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्ति- रिति चेत्, न; 'तत्त्वमसि' 'नेति नेति' 'आत्मैवेदम्' 'एकमेवाद्वितीयम् ' 'ब्रह्मैवेदममृतम् ' ' नान्यदतोऽस्ति द्रष्ट्र तदेव ब्रह्मत्वं विद्धि' इत्यादिवाक्यानां तद्वादित्वात् । द्रष्ट- व्यविधेर्विषयसमर्पकाण्येतानीति चेत्, न; अर्थान्तराभावा- दित्युक्तोत्तरत्वात् - आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः 'त- स्त्वमसि' इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतं - त्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत् । आ- त्मस्वरूपान्वाख्यानमात्रेणात्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत्, न ; आत्मवादिवाक्यश्रवणेनात्मविज्ञानस्य जनित - त्वात् — किं भोः कृतस्य करणम् । तच्छ्रवणेऽपि न प्रव- र्तत इति चेत्, न; अनवस्थाप्रसङ्गात् -- यथात्मवादि- वाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते, तथा विधिवा- क्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्य- न्तरापेक्षा; तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत । वा- क्यजनितात्मज्ञानस्मृतिसंततेः श्रवणविज्ञानमात्रादर्थान्तरत्व- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. मिति चेत्, न अर्थप्राप्तत्वात् - यदैवात्मप्रतिपादकवा- क्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुत्पद्यमानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते; आत्मविषयमि- ध्याज्ञाननिवृत्तौ च तत्प्रभवा: स्मृतयो न भवन्ति स्वाभा विक्योऽनात्मवस्तुभेदविषया; अनर्थत्वावगतेश्व - आत्मा- वगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते, अनित्यदु:- खाशुद्धयादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात् ; तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः; पारिशे- ष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत एव भावान्न विधेयत्वम् । शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः -- विप- रीतज्ञानप्रभवो हि शोकमोहादिदोषः तथा च ' तत्र को ' विद्वान्न विभेति कुतश्चन' 'अभयं वै जनक प्राप्तोऽसि ' ' भिद्यते हृदयग्रन्थिः ' इत्यादिश्रुतयः । नि- रोधस्तर्ह्यर्थान्तरमिति चेन्— अथापि स्याञ्चित्तवृत्तिनिरो- वस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वान् तन्त्रान्तरेषु च कर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत्-- न, मोक्ष- साधनत्वेनानवगमान् । न हि वेदान्तेषु ब्रह्मात्मविज्ञाना- दन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते-- आत्मानमेवावेत्त- स्मात्तत्सर्वमभवत्' ' ब्रह्मविदाप्नोति परम्' ' स यो ह मोह: ' ; क. ७. ] प्रथमोऽध्यायः । वैतत्परमं ब्रह्म वेद ब्रह्मैव भवति ' ' आचार्यवान्पुरुषो वेद' 6 तस्य तावदेव चिरम् ' ' अभयं हि वै ब्रह्म भवति । य एवं वेद' इत्येवमादिश्रुतिशतेभ्यः । अनन्यसाधनत्वाच्च निरो- वस्य- न ह्यात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेण चित्तवृ- त्तिनिरोधस्य साधनमस्ति । अभ्युपगम्येदमुक्तम् ; नं तु ब्रह्म- विज्ञानव्यतिरेकेण अन्यत् मोक्षसाधनमवगम्यते । आकाङ्क्षा- भावाच्च भावनाभावः । यदुक्तम् ' यजेत' इत्यादौ किम् ? केन ? कथम् ? इति भावनाकाङ्क्षायां फलसाधनेतिकर्त- व्यताभिः आकाङ्क्षापनयनं यथा तद्वदिहाप्यात्मविज्ञानवि- धावप्युपपद्यत इति -- तदसत् ; 'एकमेवाद्वितीयम् ' ' तत्त्व- मसि' ' नेति नेति' ' अनन्तरमबाह्यम्' ' अयमात्मा ब्रह्म इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः । न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते । विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम । न च 'एकमेवाद्वितीयं ब्रह्म' इत्यादिवाक्येषु विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवा- वसितत्वात् । वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् — अथापि स्यात्, यथा 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामा- ण्यम, एवमात्मार्थवाक्यानामपीति चेत्--न, विशेषात् । , " बृहदारण्यकोपनिषद्भाष्ये " [ब्रा. ४. न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्या- प्रामाण्य कारणम् ; किं तर्हि निश्चित फलवद्विज्ञानोत्पादकत्वम् ; तद्यत्रास्ति तत्प्रमाणं वाक्यम्; यत्र नास्ति तद्प्रमाणम् । किं च, भोः ! पृच्छामस्त्वाम् -- आत्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा ? उत्प- द्यते चेत्, कथमप्रामाण्यमिति । किं वा न पश्यस्यविद्याशो- कमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् ? न शृ- णोषि वा किम् —' तत्र को मोहः कः शोक एकत्वमनुपश्यतः ', ' मन्त्रविदेवास्मि नात्मवित्सोऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतु' इत्येवमाद्युपनिषद्वाक्यशतानि ! एवं विद्यते किम् ' सोऽरोदीत्' इत्यादिषु निश्चितं फलवच्च विज्ञानम् ? न चेद्विद्यते, अस्त्वप्रामाण्यम्; तदप्रामाण्ये, फल- वन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात् ? तदप्रा- माण्ये च दर्शपूर्णमासादिवाक्येषु को विश्रम्भः ? ननु दर्शपू- र्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात्प्रामाण्यम्, आत्मविज्ञानवाक्येषु तन्नास्तीति; सत्यमेवम् ; नैष दोष:, प्रामाण्यकारणोपपत्तेः । प्रामाण्यकारणं च यथोक्तमेव, ना- न्यत् । अलंकारश्चायम्, यत् सर्वप्रवृत्तिबीजनिरोधफलवद्वि- ज्ञानोत्पादकत्वम् आत्मप्रतिपादकवाक्यानाम्, न अप्रामाण्य- क. ७.] प्रथमोऽध्यायः : । , " कारणम् । यत्तूक्तम्- विज्ञाय प्रज्ञां कुर्वीत' इत्यादिवच- नानां वाक्यार्थविज्ञानव्यतिरेकेणोपासनार्थत्वमिति, सत्यमे- तत् ; किंतु न अपूर्वविध्यर्थता ; पक्षे प्राप्तस्य नियमार्थतैव । कथं पुनरुपासनस्य पक्षप्राप्तिः यावता पारिशेष्यादात्म- विज्ञानस्मृतिसंततिर्नित्यैवेत्यभिहितम् ? बाढम् - यद्यप्येवम् शरीरारम्भकस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्ता- वपि अवश्यंभाविनी प्रवृत्तिर्वायनः कायानाम्, लब्धवृत्तेः कर्मणो बलीयस्त्वान् - मुक्तेष्वादिप्रवृत्तिवत् तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् । तस्मात् त्यागवैराग्यादिसाधन- बलावलम्बेन आत्मविज्ञानस्मृतिसंततिर्नियन्तव्या भवति ; न त्वपूर्वा कर्तव्या ; प्राप्तत्वात् — इत्यवोचाम । तस्मात्प्राप्त- विज्ञानस्मृतिसंताननियमविध्यर्थानि ' विज्ञाय प्रज्ञां कुर्वीत ' इत्यादिवाक्यानि अन्यार्थासंभवात् । ननु अनात्मोपासनमि- दम् इति-शब्दप्रयोगात् यथा 'प्रियमित्येतदुपासीत ' इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि, प्रियादिगु णवत्प्राणाद्येवोपास्यम्; तथा इहापि इति परात्मशब्दप्रयोगा- त आत्मगुणवदनात्मवस्तु उपास्यमिति गम्यते ; आत्मोपास्य- त्ववाक्यवैलक्षण्याञ्च—— परेण च वक्ष्यति - 'आत्मानमेव लोकमुपासीत' इति ; तत्र च वाक्ये आत्मैवोपास्यत्वेना- " S. B. U. 8 - h मात्मा', बृहदारण्यकोपनिषद्भाष्ये - - [ ब्रा. ४. भिप्रेतः, द्वितीयाश्रवणात् 'आत्मानमेव' इति ; इह तु न द्वितीया श्रूयते इति परश्च आत्मशब्द:- :--' आत्मेत्येवोपासी- त' इति ; अतो न आत्मोपास्यः, आत्मगुणश्चान्य:- इति त्ववगम्यते । न, वाक्यशेषे आत्मन उपास्यत्वेनावग- मात्; अस्यैत्र वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते- तदेतत्पदनीयमस्य सर्वस्थ, यदयमात्मा', ' अन्तरतरं यदय- 'आत्मानमेवावेत्' इति । प्रविष्टस्य दर्शनप्रति- बेधादनुपास्यत्वमिति चेत्-- यस्यात्मनः प्रवेश उक्तः, तस्यैव दर्शनं वार्यते ' तं न पश्यन्ति' इति प्रकृतोपादा- नात् ; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत् —न, अकृत्स्नत्वदो- षात् । दर्शनप्रतिषेधो ऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्य- त्वप्रतिषेधाय ; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ; आ- त्मनश्चेदुपास्यत्वमनभिप्रेतम्, प्राणनाद्येकैकक्रियाविशिष्टस्या- त्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात्- ' अकृत्स्नो ह्येषोऽत एकै- केन भवति' इति । अतः अनेकैकविशिष्टस्त्वात्मा कृ- त्नत्वादुपास्य एवेति सिद्धम् । यस्त्वात्मशब्दस्य इति परः प्रयोगः, आत्मशब्दप्रत्यययोः आत्मतत्त्वस्य परमार्थतोऽविष- यत्वज्ञापनार्थम् ; अन्यथा 'आत्मानमुपासीत' इत्येवमवक्ष्य- त; तथा च अर्थात् आत्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम् ; क. ७.] प्रथमोऽध्यायः 1: 1 तच्चानिष्टम् - 'नेति नेति' ' विज्ञातारमरे केन विजानीयात् ' ' अविज्ञातं विज्ञातृ ' ' यतो वाचो निवर्तन्ते अप्राप्य म- नसा सह' इत्यादिश्रुतिभ्यः । यत्तु 'आत्मानमेव लोकमुपा- सीत' इति, तत् अनात्मोपासनप्रसङ्गनिवृत्तिपरत्वात न वा- - क्यान्तरम् ॥ अनिर्ज्ञातत्वसामान्यात् आत्मा ज्ञातव्यः, अनात्मा चे । तत्र कस्मादात्मोपासन एव यन आस्थीयते—'आत्मेत्येवो- पासीत ' इति, नेतरविज्ञाने इति ; अत्रोच्यते तदेतदेव प्रकृ- तम, पदनीयं गमनीयम्, नान्यत; अस्य सर्वस्येति निर्धार- णार्था षष्ठी अस्मिन्सर्वस्मिन्नित्यर्थः ; यदयमात्मा यदेतदा- r; ' " त्मतत्वम् ; किं न विज्ञातव्यमेवान्यत् ? न ; किं तर्हि, ज्ञात- व्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षते आत्मज्ञानात् ; कस्मात् ? अनेनात्मना ज्ञातेन, हि यस्मात् एतत्सर्वमनात्मजातम् अन्य- द्यत् तत्सर्वे समस्तम् वेद जानाति । नन्वन्यज्ञानेनान्यन्न ज्ञायत इति ; अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः । कथं पुनरेतत्पदनीयमिति, उच्यते यथा ह वै लोके, पदे- न - गवादिखुराङ्कितो देश: पदमित्युच्यते, तेन पदेन- नष्टं विवित्सितं पशुं पदेनान्वेषमाणः अनुविन्देत लभेत; एवमात्मनि लब्धे सर्वमनुलभते इत्यर्थः ॥ वृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. - नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते, कथं लाभोऽप्रकृत उच्यत इति न ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात् । आत्मनो ह्यलाभोऽज्ञानमेव ; तस्माज्ज्ञान- मेवात्मनो लाभ:; न अनात्मलाभवत अप्राप्तप्राप्तिलक्षण आत्मलाभ:, लब्धृलब्धव्ययोर्भेदाभावात । यत्र ह्यात्मनो- ऽनात्मा लब्धव्यो भवति, तत्रात्मा लब्धा, लब्धव्यो- ऽनात्मा । स चाप्राप्तः उत्पाद्यादिक्रियाव्यवहितः, कारकवि- शेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः । स त्वप्राप्तप्रा- तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रिया प्रभवत्वान- स्वप्ने पुत्रादिलाभवन् । अयं तु तद्विपरीत आत्मा । आत्म- त्वादेव नोत्पाद्यादिक्रियाव्यवहितः । नित्य लब्धस्वरूपत्वेऽपि अविद्यामात्रं व्यवधानम् । यथा गृह्यमाणाया अपि शुक्ति- काया विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यव- धानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधा- नापहार्थत्वाज्ज्ञानस्य एवमिहाप्यात्मनोऽलाभ: अविद्यामा- व्यवधानम; तस्माद्विद्यया तदपोहनमात्रमेव लाभ:, नान्य: कदाचिदप्युपपद्यते । तस्मादात्मलाभे ज्ञानादर्थान्तर साधनस्य आनर्थक्यं वक्ष्यामः । तस्मान्निराशङ्कमेव ज्ञानलाभयोरेका- र्थत्यं विवक्षन्नाह - ज्ञानं प्रकृत्य- ' अनुविन्देत्' इति ; ; -- क. ८.] विन्दतेर्लाभार्थत्वात् ॥ स.. प्रथमोऽध्यायः । गुणविज्ञानफलमिदमुच्यते- - यथा----- अयमात्मा नाम- रूपानुप्रवेशेन ख्यातिं गतः आत्मेत्यादिनामरूपाभ्याम्, प्रा- णादिसंहतिं च श्लोकं प्राप्तवान् - इति - एवम्, यो वेद; कीर्ति ख्यातिम, श्लोकं च संघातमित्रैः सह, विन्दते लभते । यद्वा यथोक्तं वस्तु यो वेद; मुमुक्षूणामपेक्षितं कीर्तिशब्दित मैक्यज्ञानम्, तत्फलं श्लोकशब्दितां मुक्तिमाप्नो- ति — इति मुख्यमेव फलम् ॥ तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्य- स्मात्सर्वस्मादन्तरतरं यदयमात्मा । स योऽन्यमात्मानः प्रियं ब्रुवाणं ब्रूयात्प्रिय‍ नीतीश्वरो ह तथैव स्यादात्मान- मेव प्रियमुपासीत स य आत्मानमेव प्रि- यमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ कुतश्वात्मतत्वमेव ज्ञेयम् अनादृत्यान्यदित्याह - तदेत- दात्मतत्त्रम, प्रेयः प्रियतरम्, पुत्रान् पुत्रो हि लोके प्रियः प्रसिद्धः, तम्मादपि प्रियतरम् -- इति निरतिशयप्रियत्वं दर्शयति ; तथा वित्तान् हिरण्यरत्नादेः ; तथा अन्यस्मात् वृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. लोके प्रयत्वेन प्रसिद्धं तस्मात्सर्वस्मादित्यर्थः । तत्कस्मा- दात्मतत्त्वमेव प्रियतरं न प्राणादीति, उच्यते- -अन्तरतरम् - बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो हि अन्तर: अभ्यन्तरः संनिकृष्ट आत्मन: ; तस्मादप्यन्तरात् अन्तरतरम्, यदय- मात्मा यदेतदात्मतत्त्वम् । यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ; तथा अयमात्मा सर्वलौकिक- प्रियेभ्यः प्रियतमः ; तस्मात्तल्लाभे महान्यन आस्थेय इत्यर्थः -- कर्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा । कस्मात्पुन: आत्मानात्मप्रिययो: अन्यतरप्रियहानेन इतरप्रि- योपादानप्राप्ती, आत्मप्रियोपादानेनैवेतरद्दानं क्रियते, न वि- पर्ययः - इति, उच्यते स यः कश्चित् अन्यमनात्मविशेषं पुत्रादिकम्, प्रियतरमात्मनः सकाशात्, ब्रुवाणम्, ब्रूयादा- त्मप्रियवादी किम :- प्रियं तवाभिमतं पुत्रादिलक्षणम्, रोत्स्यति आवरणं प्राणसंरोधं प्राप्स्यति विनङ्क्षयतीति; स कस्मादेवं ब्रवीति ? – यस्मादीश्वरः समर्थः पर्याप्तोऽसावेवं वक्तुं ह; यस्मात् तस्मात तथैव स्यात् ; यत्तेनोक्तम्- ' प्राण- संरोधं प्राप्स्यति ; यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम । ईश्वरशब्द: क्षिप्रवाचीति केचित् भवेद्यदि प्रसि द्धि: स्यात् । तस्मादुज्झित्वान्यत्प्रियम, आत्मानमेव प्रिय- - 5 क. ९.] प्रथमोऽध्यायः । मुपासीत । स य आत्मानमेव प्रियसुपास्ते-आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यते, अन्यलौकिकं प्रियमप्यप्रियमेवेति निश्चित्य, उपास्ते चिन्तयति, न हास्य एवंविदः प्रियं प्रमा- युकं प्रमरणशीलं भवति । नित्यानुवादमात्रमेतत्, आत्म- विदोऽन्यस्य प्रियस्याप्रियस्य च अभावात्; आत्मप्रियग्रहण- स्तुत्यर्थे वा; प्रियगुणफलविधानार्थं वा मन्दात्मदर्शिनः, ताच्छील्यप्रत्ययोपादानात् ॥ तदाहुर्यद्रह्मविद्यया सर्वे भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेद्यस्मा- तत्सर्वमभवदिति ॥ ९ ॥ ; सूत्रिता ब्रह्मविद्या- 'आत्मेत्येवोपासीत' इति, यदर्थोपनिषत्कृत्स्नापि तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयोजनाभिधित्सयोपांजिघांसति - तदिति वक्ष्यमाणमन- न्तरवाक्येऽवद्योत्यं वस्तु - आहु: - ब्राह्मणाः ब्रह्म विवि- दिषवः जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदका- पार महोदधिवभूतं गुरुमामाद्य तत्तीरमुत्तितीर्षवः धर्माधर्म- माधनतत्फललक्षणात्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षण- नित्यनिरतिशय श्रेयः प्रतिपित्सवः किमाहुरित्याह- यद्भ- , बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. - ह्मविद्यया ; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वे निरवशेषम्, भविष्यन्तः भविष्याम इत्येवम्, मनुष्या यत मन्यन्ते ; मनुष्यग्रहणं विशेषतोऽधि- कारज्ञापनार्थम् ; मनुष्या एव हि विशेषतोऽभ्युदयनिःश्रेय- ससाधनेऽधिकृता इत्यभिप्रायः यथा कर्मविषये फलप्राप्ति ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वात्मभा- वर्फलप्राप्तिं ध्रुवामेव मन्यन्ते, वेदप्रामाण्यस्योभयत्राविशे- षात्; तत्र विप्रतिषिद्धं वस्तु लक्ष्यते ; अत: पृच्छाम: किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वे भविष्यन्तो मनुष्या मन्य- न्ते ? तत्किमवेत् यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत् ? ब्रह्म च सर्वमिति श्रूयते तन् यदि अविज्ञाय किंचित्सर्वमभवत, तथान्येषामप्यस्तु किं ब्रह्मविद्यया ? अथ विज्ञाय सर्वम- भवत् विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य ब्रह्मविद्याफलम्य; अनवस्थादोषश्च - तदप्यन्य- द्विज्ञाय सर्वमभवत् ततः पूर्वमप्यन्यद्विज्ञायेति । न ताव- दविज्ञाय सर्वमभवत् शास्त्रार्थवैरूप्यदोषात् । फलानित्य- त्वदोषस्तर्हि ?— नैकोsपि दोष:, अर्थविशेषोपपत्तेः ॥ ' ' , . , यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत पृच्छाम:- " किमु तद्ब्रह्मावेद्यम्मात्तत्सर्वमभवदिति । एवं चोदिते सर्वदो- क. १०.] प्रथमोऽध्यायः । षानागन्धितं प्रतिवचनमाह- ब्रह्म वा इदमग्र आसीत्तदात्मानमेवा- वेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्व- मभवत्तद्यो यो देवानां प्रत्यबुध्यत स 'एव तद्भवत्तथर्षीणां तथा मनुष्याणां तद्वैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं म- तुरभवः सूर्यश्चेति । तदिदमप्येत य एवं वेदाहं ब्रह्मास्मीति स इद सर्व भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषाँ स भवति अथ योऽन्यां दे- वतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न म वेद यथा पशुरेव स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमे- कैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव प- शावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥ बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. ब्रह्म अपरम्, सर्वभावस्य साध्यत्वोपपत्तेः ; न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या ; विज्ञानसाध्यां च सर्व- भावापत्तिमाह— ' तस्मात्तत्सर्वमभवत्' इति ; तस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति ॥ मनुष्याधिकाराद्वा तद्भावी ब्राह्मणः स्यात् ; ' सर्व भवि - ष्यन्तो मनुष्या मन्यन्ते' इति हि मनुष्याः प्रकृता: ; तेषां च अभ्युदयनिःश्रेयससाधने विशेषतोऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः; अतो द्वैतैकत्वा परब्र- अविद्यया कर्मसहितया अपरब्रह्मभावमुपसंपन्नो भोज्याद- पावृत्त: सर्वप्राप्त्योच्छिन्न कामकर्मबन्धनः : परब्रह्मभावी ब्रह्म- विद्याहेतोर्ब्रह्मेत्यभिधीयते ; दृष्टश्च लोके भाविनीं वृत्तिमा- श्रित्य शब्दप्रयोगः- - यथा 'ओदनं पचति' इति, शास्त्रे च-- 'परिब्राजकः सर्वभूताभयदक्षिणाम्' इत्यादि, तथा इह - इति केचित — ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मण: इति व्याचक्षते ॥ तन्न, सर्वभावापत्तेरनित्यत्वदोषात । न हि सोऽस्ति लो- के परमार्थतः, यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति । तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चे- ति विरुद्धम् । अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः । . प्रथमोऽध्यायः 1 - क. १०. ] अविद्याकृता सर्वत्वनिवृत्ति' चेत्सर्वभावापत्ति ब्रह्मविद्याफलं मन्यसे, ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात् । प्राग्ब्रह्मवि ज्ञानादपि सर्वो जन्तुर्ब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमा- र्थत: ; अविद्यया तु अब्रह्मत्वमसर्वत्वं चाध्यारोपितम् - यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि ; तथेह ब्रह्म- व्यध्यारोपितमविद्यया अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया नि- वर्त्यते - इति मन्यसे यदि, तदा युक्तम् — यत्परमार्थत आ- सीत्परं ब्रह्म, ब्रह्मशब्दस्य मुख्यार्थभूतम् ' ब्रह्म वा इदमप्र आसीत्' इत्यस्मिन्वाक्ये उच्यत इति वक्तुम्; यथाभूतार्थ- वादित्वाद्वेदस्य । न त्वियं कल्पना युक्ता — ब्रह्मशब्दार्थवि- परीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति श्रुतहान्यश्रुतक- ल्पनाया अन्याय्यत्वात् — महत्तरे प्रयोजनान्तरेऽसति अवि- द्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत एवेति चेत्, न तस्य ब्रह्मविद्ययापोहानुपपत्तेः । न हि कचित्साक्षाद्वस्तु- धर्मम्यापोढ़ी दृष्टा कर्त्री वा ब्रह्मविद्या अविद्यायास्तु सर्व- त्रैव निवर्तिका दृश्यते ; तथा इहाप्यब्रह्मत्वमसर्वत्वं चावि- याकृतमेव निवर्त्यतां ब्रह्मविद्यया न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वा अर्हति ब्रह्मविद्या । तस्माद्व्यर्थैव श्रुतहा - न्यश्रुतकल्पना ॥ - . वृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. ब्रह्मण्यविद्यानुपपत्तिरिति चेत्, न, ब्रह्मणि विद्यावि- धानात् । न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्ति- कात्वं ज्ञाप्यते चक्षुर्गोचरापन्नायाम् — 'इयं शुक्तिका न रजतम्' इति । तथा 'सदेवेदं सर्वम्, ब्रह्मैवेदं सर्वम्, आ- त्मैवेदं सर्वम् नेदं द्वैतमस्त्यब्रह्म' इति ब्रह्मण्येकत्व विज्ञानं न विधातव्यम्, ब्रह्मण्यविद्याध्यारोपणायामसत्याम् । न ब्रूम :- शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति; किं तर्हि न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति- भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किंतु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते- न्योऽतोऽस्ति विज्ञाता ' ' नान्यदतोऽस्ति विज्ञातृ ' ' तत्त्व- मसि' आत्मानमेवावेत्' 'अहं ब्रह्मास्मि' ' अन्योऽसा- वन्योऽहमस्मीति, न स वेद' इत्यादिश्रुतिभ्यः; स्मृतिभ्य- च - समं सर्वेषु भूतेषु' ' अहमात्मा गुडाकेश' ' शुनि चैव श्वपाके च ' ; ' यस्तु सर्वाणि भूतानि ' ' यस्मिन्सर्वाणि भूतानि' इति च मन्त्रवर्णात् । नन्वेवं शास्त्रोपदेशानर्थक्य- मिति; बाढमेवम, अवगते अस्त्वेवानर्थक्यम् । अवगमान- र्थक्यमपीति चेन, न, अनवगमनिवृत्तेर्दृष्टत्वात् । तन्निवृ- तेरप्यनुपपत्तिरेकत्व इति चेत्, न दृष्टविरोधात् ; दृश्यते ' b - ' ना- क. १०. ] प्रथमोऽध्यायः । ह्येकत्वविज्ञानादेवानवगमनिवृत्ति; दृश्यमानमप्यनुपपन्नमि- ति ब्रुवतो दृष्टविरोधः स्यात् ; न च दृष्ट्रविरोधः केनचिदप्य- भ्युपगम्यते ; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव । दर्शना- नुपपत्तिरिति चेत्, तत्राप्येषैव युक्तिः ॥ पुण्यो वै पुण्येन कर्मणा भवति' 'तं विद्याकर्मणी समन्वारभेत 6 6 ' मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष: ' इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसा- र्यवगम्यते ; तद्विलक्षणश्च परः स एषति , i अ- शनायाद्यत्येति'' य आत्मापहतपाप्मा विजरो विमृत्युः ' एतस्य वा अक्षरस्य प्रशासने' इत्यादिश्रुतिभ्यः; कणादा- क्षपादादितर्कशास्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तित: साध्यते ; संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात् स्फुटमन्य- त्वम् ईश्वरात संसारिणोऽवगम्यते ; ' अवाक्यनादर: ' 'न मे पार्थास्ति' इति श्रुतिस्मृतिभ्यः ; 'सोऽन्वेष्टव्यः स विजिज्ञासितव्य:' ' तं विदित्वा न लिप्यते ' 'ब्रह्मविदाप्नोति परम् ' ' एकधैवानुद्रष्टव्यमेतत्' 'यो वा एतदक्षरं गार्ग्य- विदित्वा ' ' तमेव धीरो विज्ञाय' ' प्रणवो धनुः, शरो ह्यात्मा, ब्रह्म तल्लक्ष्यमुच्यते' इत्यादिकर्मकर्तृनिर्देशाच्च ; मुमुक्षोश्व गतिमार्गविशेषदेशोपदेशात्; असति भेदे कस्य बृहदारण्यकोपतिषद्भाष्ये [ ब्रा. ४. कुतां गतिः स्यात् ? तदभावे च दक्षिणोत्तर मार्गविशेषानुप- पत्तिः गन्तव्यदेशानुपपत्तिश्चेति भिन्नस्य तु परस्मात् आ- त्मनः सर्वमेतदुपपन्नम् कर्मज्ञानसाधनोपदेशाच-- भिन्न- वेद्ब्रह्मणः संसारी स्थान, युक्तस्तं प्रत्यभ्युदयनिः श्रेयससा- धनयो: कर्मज्ञानयोरुपदेश:, नेश्वरस्य आप्तकामत्वात् ; त- स्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् — न ब्रह्मोपदेशानर्थक्यप्रसङ्गात् -- संसारी चेद्ब्रह्मभावी अब्रह्म सन विदित्वात्मानमेव अहं ब्रह्मास्मीति सर्वमभवत् ; तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्ध- त्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम । तद्विज्ञानस्य क- चित्पुरुषार्थ साधनेऽविनियोगात्संसारिण एव अहं ब्रह्मा- स्मीति - ब्रह्मत्वसंपादनार्थ उपदेश इति चेत् — अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं संपादयेत्- अहं ब्रह्मास्मीति ? निर्ज्ञा- " - तलक्षणे हि ब्रह्मणि शक्या संपत्कर्तुम- - - न ' अयमा- ' तत्स- त्मा ब्रह्म' ' यत्साक्षादपरोक्षाद्ब्रह्म' 'य आत्मा' त्यं स आत्मा 'ब्रह्मविदाप्नोति परम' इति प्रकृत्य 'तम्माद्वा एतस्मादात्मन:' इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यात् एकार्थत्वमेवेत्यवगम्यते ; अन्यस्य वै अन्यत्र संपत् क्रियते, नैकत्वे ' इदं सर्वे यदयमात्मा' क्र. १०.] प्रथमोऽध्यायः । इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन एकत्वं दर्शयति ; तस्मा- न्नात्मनो ब्रह्मत्वसंपदुपपत्तिः । न चाप्यन्यत्प्रयोजनं ब्रह्मो- पदेशस्य गम्यते ; 'ब्रह्म वेद ब्रह्मैव भवति' ' अभयं हि 'जनक प्राप्तोऽसि ' ' अभयं हि वै ब्रह्म भवति' इति च तदापत्तिश्रवणात् । संपत्तिश्चेत्, तदापत्तिर्न स्यात् । न हा न्यस्यान्यभाव उपपद्यते । वचनात, संपत्तेरपि तद्भावापतिः स्यादिति चेत्, न, संपत्तेः प्रत्ययमात्रत्वात् । विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम । न च वचनं वस्तुनः सामर्थ्यजनकम् । ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः । स एष इह प्रविष्ट:' इत्यादिवा- क्येषु च परस्यैव प्रवेश इति स्थितम् । तस्माद्ब्रह्मेति न ब्रह्म- भाविपुरुपकल्पना साध्वी । इष्टार्थदाघनाथ - सैन्धवध- नवदनन्तरमबाह्यमेकरसं ब्रह्म- इति विज्ञानं सर्वस्यामुपनि- प्रतिपिपादयिषितार्थः काण्डद्वये ऽप्यन्तेऽवधार- पदि " ' इत्यनुशासनम ' णात् - अवगम्यते- ' ' एतावदरे खल्व- मृतत्वम्' इति ; तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञा- नं निश्चितोऽर्थः ; तत्र यदि संसारी ब्रह्मणोऽन्य आत्मा- नमेवावेत् — इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्थात, तथा च शास्त्रमुपक्रमेोपसंहारयोर्विरोधादसमञ्जसं कल्पितं बृहदारण्यकोपनिषद्भाष्ये स्यात् । व्यपदेशानुपपत्तेश्च - यदि च [ ब्रा. ४. 'आत्मानमेवावेत् ' ' इति संसारी कल्प्येत, ' ब्रह्मविद्या' इति व्यपदेशो न स्यात् आत्मानमेवावेदिति, संसारिण एव वेद्यत्वोपपत्तेः । आ- त्मा' इति वेत्तुरन्यदुच्यत इति चेत्, न, ' अहं ब्रह्मास्मि' इति विशेषणात्; अन्यश्वे द्वेद्यः स्यात्, • अयमसौ इति वा विशेष्येत, न तु ' अहमस्मि' इति । ' अहमस्मि ' इति विशेषणात् 'आत्मानमेवावेत्' इति च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते ; तथा च सति उप- पन्नो ब्रह्मविद्याव्यपदेशः, नान्यथा; संसारिविद्या न्यथा स्यात् ; न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थत: तम:- प्रकाशाविव भानोः विरुद्धत्वात् ; न चोभयनिमित्तत्वे ब्रह्म- विद्येति निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारि- विद्या च म्यात् ; न च वस्तुनोऽर्धजरतीयत्वं कल्पयितुं युक्तं तत्त्वज्ञानविवक्षायाम् श्रोतुः संशयो हि तथा स्यात् ; निश्चितं च ज्ञानं पुरुषार्थ साधनमिष्यते— 'यस्य म्यादद्धा न विचिकित्सा स्ति 'संशयात्मा विनश्यति ' इति श्रुतिस्मृतिभ्याम् । अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना ॥ " " ब्रह्मणिं साधकत्वकल्पनास्मदादिष्विव, अपेशला 'त- क. १०.] प्रथमोऽध्यायः । -- दात्मानमेवावेत्तस्मात्तत्सर्वमभवत्' इति - इति चेत्, न, शा- स्रोपालम्भात्; न ह्यस्मत्कल्पनेयम् ; शास्त्रकृता तु ; तस्माच्छा- स्त्रस्यायमुपालम्भ: ; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रार्थवि - परीतकल्पनया स्वार्थपरित्यागः कार्यः । न चैतावत्येवाक्षमा युक्ता भवतः ; सर्वे हि नानात्वं ब्रह्मणि कल्पितमेव ' एक- धैवानुद्रष्टव्यम् ' 'नेह नानास्ति किंचन' 'यत्र हि द्वैत- मिव भवति' 'एकमेवाद्वितीयम्' इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थ : सन् - इत्यत्यल्पमिदमुच्यते-- इयमेव कल्पनापेशले ति - स्रष्टृ ब्रह्म, तद्ब्रह्म, 1 तस्मात् - यत्प्रविष्टं वै-शब्दोऽवधा- रणार्थ:, इदं शरीरस्थं यगृह्यते, अग्रे प्राक्प्रतिबोधादपि, ब्रह्मैवासीत्, सर्वे च इदम; किंत्वप्रतिबोधात् ' अब्रह्मास्मि असर्वे च' इत्यात्मन्यध्यारोपात् ' कर्ताहं क्रियावान्फलानां च भोक्ता सुखी दुःखी संसारी' इति च अध्यारोपयति ; परमार्थस्तु ब्रह्मैव तद्विलक्षणं सर्वे च । तत् कथंचिदाचार्येण दयालुना प्रतिबोधितम् ' नासि संसारी' इति आत्मानमे - वावेत्स्वाभाविकम् ; अविद्याध्यारोपितविशेषवर्जितमिति एव- शब्दस्यार्थः ॥ ब्रूहि कोऽसावात्मा स्वाभाविक:, यमात्मानं विदितव- बृहदारण्यकोपनिषद्भाष्ये 2 [ ब्रा. ४. द्ब्रह्म । ननु न स्मरस्यात्मानम् ; दर्शितो ह्यसौ, य इह प्रवि -. श्य प्राणित्यपानिति व्यानित्युदानिति समानितीति । ननु असौ गौ: असावश्व इत्येवमसौ व्यपदिश्यते भवता, न आत्मानं प्रत्यक्षं दर्शयसि ; एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता स आत्मेति । ननु अत्रापि दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि ; न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः ; एवं तर्हि दृष्टेष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता स आत्मेति । ननु अत्र को विशेषो द्रष्टरि ; यदि दृष्टेर्द्रष्टा, यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव; द्रष्ट- व्य एव तु भवान्विशेषमाह दृष्टेर्द्रष्टेति ; द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव । न, विशेषोपपत्तेः- अस्त्यत्र विशेष :; यो दृष्टेर्द्रष्टा सः दृष्टिश्चेद्भवति नित्यमेव पश्यति दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्टा तत्र द्रष्टुई- --- या नित्यया भवितव्यम् ; अनित्या चेद्रष्टुर्दृष्टिः, तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि - यथा अनित्यया दृष्ट्या घटादि वस्तु ; न च तद्वत् दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम् । किं द्वे दृष्टी द्रष्टुः -- नित्या अदृश्या अन्या अनित्या दृश्येति ? बाढम् ; प्रसिद्धा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात्; नित्यैव चेत्, सर्वोऽनन्ध क. १०.] प्रथमोऽध्यायः । ว एव स्यात् ; द्रष्टुस्तु नित्या दृष्टि: - 'न हि द्रष्टुईटेर्विपरि- लोपो विद्यते ' इति श्रुते: ; अनुमानाच्च -- अन्धस्यापि घटा- • द्याभासविषया स्वप्ने दृष्टिरुपलभ्यते सा तर्हि इतरदृष्टिनाशे न नश्यति ; सा द्रष्टुर्हष्टि: ; तया अविपरिलुप्तया नित्यया दृष्ट्या स्वरूपभूतया स्वयंज्योतिः समाख्यया इतरामनित्यां दृष्टिं स्वप्नान्तबुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टे- र्द्रष्टा भवति । एवं च सति दृष्टिरेव स्वरूपमय अग्न्यौष्ण्य- वत्, न काणादानामिव दृष्टिव्यतिरिक्तः अन्यः चेतनः द्रष्टा ॥ तद्ब्रह्म आत्मानमेव नित्यदृप्रपमध्यारोपितानित्यदृष्टयादि- वर्जितमेव अवेत् विदितवत् । ननु विप्रतिषिद्धम् - 'न विज्ञातेर्विज्ञातारं विजानीया: ' इति श्रुते:- विज्ञातुर्विज्ञा- नम् । न, एवं विज्ञानान्न विप्रतिषेधः ; एवं दृष्टेर्द्रष्टेति विज्ञायत एव; अन्यज्ञानानपेक्षत्वाच्च न च द्रष्टुर्नित्यैव दृ- ष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टिमन्यामाकाङ्क्षते; निवर्तत हि द्रष्टृविषयदृष्टयाकाङ्क्षा तदसंभवादेव ; न ह्यविद्यमाने विषये आकाङ्क्षा कस्यचिदुपजायते ; न च दृश्या दृष्टिर्द्रष्टारं विष- यीकर्तुमुत्सहते, यतस्तामाकाङ्क्षत; न च स्वरूपविषयाकाङ्क्षा स्वस्यैव; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवा- वेदित्युक्तम्, नात्मनो विषयीकरणम् ॥ बृहदारण्यकोपनिषद्भाष्ये - C [जा. ४. तत्कथमवेदित्याह — अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भ वामीति । ब्रह्मेति यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादिलक्षणम्, . तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति । तस्मात् एवं विज्ञानात् तद्ब्रह्म सर्वमभवत् - अब्रह्माध्यारोपणापग- मात् तत्कार्यस्यासर्वत्वस्य निवृत्त्या सर्वमभवत् । तस्माद्यु- तमेव मनुष्या मन्यन्ते - यद्ब्रह्मविद्यया सर्वे भविष्याम इति । यत्पृष्टम् - किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, तन्निर्णीतम् -- ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति ॥ तत् त, यो यो देवानां प्रत्यबुध्यत प्रतिबुद्धवानात्मानं यथोक्तेन विधिना, स एव प्रतिबुद्ध आत्मा तत् ब्रह्म अभ वत् ; तथा ऋषीणाम्, तथा मनुष्याणां च मध्ये । देवा- नामित्यादि लोकदृष्ट्यपेक्षया न ब्रह्मत्वबुद्ध्योच्यते ; पुर: पुरुष आविशदिति सर्वत्र ब्रह्मैवानुप्रविष्टमित्यवोचाम ; अतः शरीराद्युपाधिजनितलोकदृष्टयपेक्षया देवानामित्याद्युच्यते ; परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्रतिबोधात् देवादिशरीरेषु अन्यथैव विभाव्यमानम्, तदात्मानमेवावेत्, तथैव च सर्वमभवत् ॥ क. १०.] प्रथमोऽध्यायः । -- अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्या- र्थस्य द्रढिने मन्त्रानुदाहरति श्रुतिः । कथम् ?- तत् ब्रह्म एतत् आत्मानमेव अहमस्मीति पश्यन् एतस्मादेव ब्रह्मणो दर्शनात् ऋषिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल ; स एतस्मिन्ब्रह्मात्मदर्शनेऽवस्थितः एतान्मन्त्रान्ददर्श - अहं मनुरभवं सूर्यश्चेत्यादीन् । तदेतद्ब्रह्म पश्यन्निति ब्रह्मविद्या परामृश्यते; अहं मनुरभवं सूर्यश्वेत्यादिना सर्वभावापत्ति ब्रह्मविद्याफलं परामृशति ; पश्यन्सर्वात्मभावं फलं प्रतिपेदे इत्यस्मात्प्रयोगात् ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्श- यति - भुञ्जानस्तृप्यतीति यद्वत् । सेयं ब्रह्मविद्यया सर्वभा- वापत्तिरासीन्महतां देवादीनां वीर्यातिशयात् नेदानीमैयु- गीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वात् - इति स्यात्कस्यचिद्बुद्धिः, तद्वयुत्थापनायाह - तदिदं प्रकृतं ब्रह्म यत्सर्वभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, एतर्हि एतस्मिन्नपि वर्तमानकाले यः कश्चित् व्यावृत्तबाह्यौत्सुक्य आत्मानमेव एवं वेद अहं ब्रह्मास्मीति – अपोह्य उपाधिजनितभ्रान्तिवि- ज्ञानाध्यारोपितान्विशेषान् संसारधमनागन्धितमनन्तरम- बाह्यं ब्रह्मैवाहमस्मि केवलमिति - सः अविद्या कृता सर्वत्वनि- वृत्तेर्ब्रह्मविज्ञानादिदं सर्वे भवति । न हि महावीर्येषु वाम- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. देवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषु ब्रह्मणो विशेषः तद्विज्ञानस्य वास्ति । वार्तमानित्रेषु पुरुषेषु तु ब्रह्म- विद्याफलेऽनैकान्तिकता शङ्कयत इत्यत आह- तस्य ह ब्रह्मविज्ञातुर्यथोक्तेन विधिना देवा महावीर्याः, चन अपि, अभूत्यै अभवनाय ब्रह्मसर्वभावस्य नेशते न पर्याप्ताः, किमुतान्ये ॥ ब्रह्मविद्याफलप्राप्तौ वित्रकरणे देवादय ईशत इति का शङ्केति उच्यते-- देवादीन्प्रति ऋणवस्वान्मर्त्यानाम् ; 'ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति हि जायमानमेव ऋणवन्तं पुरुषं दर्शयति श्रुतिः; पशुनिदर्श- नाच्च 'अथो अयं वा....' इत्यादिलोकश्रुतेश्च आत्मनो वृत्ति - परिपिपालयिषया अधमर्णानिव देवाः परतन्त्रान्मनुष्यान्प्र- ति अमृतत्वप्राप्तिं प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का । स्वपशून स्वशरीराणीव च रक्षन्ति देवाः ; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां बहुपशुसमतयैकैकम्य पुरुषस्य ; ' तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्यु: ' इति हि वक्ष्यति, 'यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवं- विदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति' इति च ब्रह्मविश्वे पारार्थ्यनिवृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रिया- क. १०.] प्रथमोऽध्यायः । रिष्टिवचनाभ्यामवगम्यते ; तस्माद्ब्रह्मविदो ब्रह्मविद्याफलप्रा- प्तिं प्रति कुर्युरेव विघ्नं देवाः । प्रभाववन्तश्च हि ते ॥ , ननु एवं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विनक- रणं पेयपानसमम् ; हन्त तर्ह्यविस्रम्भोऽभ्युदयनिःश्रेयस- साधनानुष्ठानेषु ; तथा ईश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्र- भुत्वम् ; तथा कालकर्ममन्त्रौषधितपसाम् ; एषां हि फलसं- पत्ति विपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्धम् ; अतोऽप्यनाश्वास: शास्त्रार्थानुष्ठाने । न; सर्वपदार्थानां नियतनिमित्तोपादानात् जगद्वैचित्र्यदर्शनाश्च स्वभावपक्षे च तदुभयानुपपत्तेः, सुख- दुःखादिफलनिमित्तं कर्मेत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलो- कपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यास कर्तारः, कर्मणां काङ्क्षितकारकत्वात् - कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धा- त्मकमपि फलदानेऽसमर्थम्, क्रियाया हि कारकाद्यनेकनि- मित्तोपादानस्वाभाव्यात्; तस्मात् क्रियानुगुणा हि देवेश्वरा- दय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः । कर्मणामपि एषाम् वशानुगत्वं क्वचित्, स्वसामर्थ्यस्याप्रणोद्यत्वात् । कर्म- कालदेवद्रव्यादिस्वभावानां गुणप्रधानभावस्स्वनियतो दुर्विज्ञे- यश्चेति तत्कृतो मोहो लोकस्य - कर्मैव कारकं नान्यत्फल- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. प्राप्ताविति केचित् दैवमेवेत्यपरे; काल इत्येके; द्रव्यादिस्व- ; भाव इति केचित्; सर्व एते संहता एवेत्यपरे । तत्र कर्मण: प्राधान्यमङ्गीकृत्य वेदस्मृतिवादा: - 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापन' इत्यादयः । यद्यपि एषां स्वविषये कस्यचित्प्राधान्योद्भवः इतरेषां तत्कालीन प्राधान्यशक्तिस्तम्भ:, तथापि न कर्मण: फलप्राप्तिं प्रति अनैकान्तिकत्वम्, शास्त्र- न्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ॥ न, अविद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य - यदुक्तं त्र- प्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्न- करणे सामर्थ्यम् ; कस्मात् ? विद्याकालानन्तरितत्वाद्ब्रह्मप्रा- प्तिफलस्य ; कथम् ; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयो- गो यत्कालः, तत्काल एव रूपाभिव्यक्तिः, एवमात्मवि- षयं विज्ञानं यत्कालम्, तत्काल एव तद्विषयाज्ञानतिरो- भाव: स्यात् ; अतो ब्रह्मविद्यायां सत्याम अविद्याकार्यानु- पपत्तेः, प्रदीप इव तम: कार्यस्य, केन कस्य विघ्नं कुर्युर्देवा:- यत्र आत्मत्वमेव देवानां ब्रह्मविदः । तदेतदाह - आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, एषां देवानाम्, स ब्रह्मवित्, भवति ब्रह्मविद्यासमकालमेव - अवि- द्यामात्रव्यवधानापगमात् शुक्तिकाया इव रजताभासाया : क. १०.] प्रथमोऽध्यायः । शुक्तिकत्वमित्यवोचाम । अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः संभवति । यस्य हि अनात्मभूतं फलं देशकालनि- मित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचर- णाय देवानाम् ; न त्विह विद्यासमकाल आत्मभूते देश- कालनिमित्तानन्तरिते, अवसरानुपपत्तेः ॥ - एवं तर्हि विद्याप्रत्ययसंतत्यभावात् विपरीतप्रत्ययतत्का- र्ययोश्च दर्शनात् अन्त्य एव आत्मप्रत्ययो विद्यानिव- र्तक:, न तु पूर्व इति । न, प्रथमेनानैकान्तिकत्वात्- यदि हि प्रथम आत्मविषय: प्रत्ययोऽविद्यां न निवर्तयति, तथा अन्त्योऽपि, तुल्यविषयत्वात् । एवं तर्हि संततोऽवि - द्यानिवर्तकः न विच्छिन्न इति । न, जीवनादौ सति संत- त्यनुपपत्तेः न हि जीवनादिहेतुके प्रत्यये सति विद्याप्र- त्ययसंततिरुपपद्यते, विरोधात् । अथ जीवनादिप्रत्ययति- रस्करणेनैव आ मरणान्तात् विद्यासंततिरिति चेत्, न, प्र- त्ययेयत्तासंतानानवधारणात् शास्त्रार्थानवधारणदोषात्-इ- यतां प्रत्ययानां संततिरविद्याया निवर्तिकेत्यनवधारणात् शा- स्वार्थो नावधियेत; तच्चानिष्टम् । संततिमालत्वेऽवधारित एवेति चेत्, न, आद्यन्तयोरविशेषात् - प्रथमा विद्याप्रत्य- यसंतति: मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः वृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. प्रत्यययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम् । एवं तर्हि अनिव- र्तक एवेति चेत्, न ' तस्मात्तत्सर्वमभवत्' इति श्रुतेः, 'भि ते हृदयग्रन्थिः ' ' तत्र को मोह:' इत्यादिश्रुतिभ्यश्च ॥ अर्थवाद इति चेत्, न, सर्वशाखोपनिषदामर्थवादत्वप्र- सङ्गात् ; एतावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषदः । प्रत्यक्षप्रमितात्मविषयत्वात् अस्त्येवेति चेत्, न उक्तपरिहा रत्वात्— अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वा- दिति चोक्तः परिहारः । तस्मात् आद्यः अन्त्य : संतत: असं- ततश्चेत्यचोद्यमेतत्, अविद्यादिदोषनिवृत्तिफलावसानत्वाद्वि- द्याया:- य एव अविद्यादिदोषनिवृत्तिफलकृत्प्रत्ययः आद्यः अन्त्यः संतत: असंततो वा, स एव विद्येत्यभ्युपगमात् न चोद्यस्यावतारगन्धोऽप्यस्ति । यत्तक्तं विपरीतप्रत्यय तत्कार्य- योश्व दर्शनादिति, न तच्छेषस्थितिहेतुत्वात् - येन कर्मणा शरीरमारब्धं तत्, विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथा- भूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव - मुक्तेषुवत् प्रवृत्त- फलत्वात् तद्धेतुकस्य कर्मणः । तेन न तस्य निवर्तिका विद्या, अविरोधात् ; किं तर्हि स्वाश्रयादेव स्वात्मविरोधि अविद्या- " क. १०.] प्रथमोऽध्यायः । कार्ये यदुत्पत्सु तन्निरुणद्धि, अनागतत्वात् ; अतीतं हि इत- रत् । किंच न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्वि- षयत्वात् -- अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमा - श्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति ; स च विषयविशेषावधारणवतो अशेषविपरी- तप्रत्ययाशयस्योपमर्दितत्वात् न पूर्ववत्संभवति, शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात् । क्वचित्तु विद्याया: पूर्वो- त्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीत प्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्यय भ्रान्तिम् अकस्मात् कुर्व - न्ति - यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः । सम्यग्ज्ञानवतोऽपि चेत् पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्य- ग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्या- न्, सर्वे च प्रमाणमप्रमाणं संपद्येत, प्रमाणाप्रमाणयोविशे- धानुपपत्तेः । एतेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मादित्येतत्परिहृतम् । ज्ञानोत्पत्तेः : प्राक् ऊर्ध्व तत्कालज- न्मान्तरसंचितानां च कर्मणामप्रवृत्तफलानां विनाशः सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव ; ' श्रीयन्ते चास्य कर्माणि ' तस्य तावदेव चिरम् ' ' सर्वे पाप्मान: प्रदूयन्ते " तं विदित्वा न लिप्यते कर्मणा पापकेन ' ' एतमु हैवैते न " बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. तरत: ' ' नैनं कृताकृते तपत: ' ' त ह वाव न तपति ' ' न बिभेति कुतश्चन' इत्यादिश्रुतिभ्यश्च ; ' ज्ञानाग्निः सर्व- कर्माणि भस्मसात्कुरुते ' इत्यादिस्मृतिभ्यश्च ॥ यत्तु ऋणैः प्रतिबध्यत इति, तन्न, अविद्यावद्विषयत्वात्- अविद्यावान्हि ऋणी, तस्य कर्तृत्वाद्युपपत्तेः, 'यत्र वा अन्य- दिव स्यात्तत्रान्योऽन्यत्पश्येत्' इति हि वक्ष्यति - अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात् ति - मिरकृत द्वितीयचन्द्रवन् तत्राविद्याकृतानेककारकापेक्षं दर्श- नादिकर्म तत्कृतं फलं च दर्शयति तत्रान्योऽन्यत्पश्येदित्यादि- ना; यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्, ' तत्केन कं पश्येत्' इति कर्मासंभवं दर्शयति, तस्मादवि- द्यावद्विषय एव ऋणित्वम्, कर्मसंभवात्, नेतरत्र । एत- श्चोत्तरत्र व्याचिख्यासिष्यमाणैरेव वाक्यैर्विस्तरेण प्रदर्श- यिष्यामः ॥ ' तद्यथेहैव तावत् — अथ य: कश्चिदब्रह्मवित्, अन्यामा- त्मनो व्यतिरिक्तां यां कांचिद्देवताम्, उपास्ते स्तुतिनम- स्कारयागबल्युपहारप्रणिधानध्यानादिना उप आस्ते तस्या गुणभावमुपगम्य आस्ते - अन्योऽसावनात्मा मत्तः पृथक्, अन्योऽहमस्म्यधिकृतः, मया अस्मै ऋणिवत्प्रतिकर्तव्यम् - इ- क. १०.] प्रथमोऽध्यायः । ' त्येवंप्रत्ययः सन्नुपास्ते, न स इत्थंप्रत्ययः वेद विजानाति तत्त्वम् । न स केवलमेवंभूतः अविद्वान् अविद्यादोषवानेव, किं तर्हि, यथा पशुः गवादि: वाहनदोहनाद्युपकारैरुपभु- ज्यते, एवं सः इज्याद्यने कोपकारैरुपभोक्तव्यत्वात् एकैकेन देवादीनाम् ; अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः । एतस्य हि अविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य क- र्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्य मनु- यत्वादिको ब्रह्मान्त उत्कर्ष: ; शास्त्रोक्तविपरीतस्य च स्वा- भाविकस्य कार्ये मनुष्यत्वादिक एव स्थावरान्तोऽपकर्ष: ; यथा चैतत् तथा अथ त्रयो वाव लोका:' इत्यादिना व- क्ष्यामः कृत्स्नेनैवाध्यायशेषेण । विद्यायाच कार्य सर्वात्म- भावापत्तिरित्येतत् संक्षेपतो दर्शितम् । सर्वा हि इयमुप- निषत् विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा । यथा च एषोऽर्थः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः ॥ ग्रस्मादेवम्, तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुम् अनुग्रहं च इत्येतद्दर्शयति- यथा ह लोके, बहवो गोऽश्वादयः पशवः मनुष्यं स्वामिनमात्मन: अ- धिष्ठातारं भुञ्ज्युः पालयेयुः, एवं बहुपशुस्थानीयः एकैक: अविद्वान्पुरुषः देवान् - देवानिति पित्राद्युपलक्षणार्थम् - भु- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. नक्ति पालयतीति- इमे इन्द्रादयः अन्ये मत्तो ममेशि - तार: भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिना आराधनं कृत्वा अभ्युदयं निःश्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवम- भिसंधि: तत्र लोके बहुपशुमतो यथा एकस्मिन्नेव पशा- वादीयमाने व्याघ्रादिना अपहियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावात् व्युत्ति- ष्ठति, अप्रियं भवतीति किं चित्रम् - देवानाम्, बहुपश्वप- हरण इव कुटुम्बिनः । तस्मादेषां तन्न प्रियम्; किं तत् ? यदेतद्ब्रह्मात्मतत्वं कथंचन मनुष्या विद्युः विजानीयुः । तथा च स्मरणमनुगीतासु भगवतो व्यासस्य- - ' क्रियावद्भिर्हि कौ- न्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मत्यैरुपरि वर्तनम्' इति । अतो देवाः पशूनिव व्याघ्रादिभ्यः, विज्ञानाद्विघ्नमाचिकीर्षन्ति I ब्रह्म- अस्मदुपभोग्यत्वान्मा व्युत्ति- ' ष्ठेयुरिति । यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति, विपरीतमश्रद्धादिभिः । तस्मान्मुमुक्षुर्देवाराधनपर श्रद्धाभ क्तिपरः प्रणेयोऽप्रमादी स्यात् विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्चैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥ सूत्रित: शास्त्रार्थ:- ' आत्मेत्येवोपासीत' इति ; तस्य च 'व्याचिख्यासितस्य सार्थवादेन ' तदाहुर्यद्ब्रह्मविद्यया ' क. ११.] प्रथमोऽध्यायः इत्यादिना संबन्धप्रयोजने अभिहिते; अविद्यायाश्च संसा- राधिकारकारणत्वमुक्तम्- 'अथ योऽन्यां देवतामुपास्ते' इत्यादिना ; तत्र अविद्वान ऋणी पशुवद्देवादिकर्मकर्तव्यतया परतन्त्र इत्युक्तम् । किं पुनर्देवादिकर्मकर्तव्यत्वे निमित्तम् ? वर्णा आश्रमाश्च तत्र के वर्णा इत्यत इदमारभ्यते- - यन्नि- मित्त संबद्धेषु कर्मसु अयं परतन्त्र एवाधिकृतः संसरति । एतस्यैवार्थस्य प्रदर्शनाय अग्निसर्गानन्तरमिन्द्रादिसर्गो नोक्तः ; अग्नेस्तु सर्गः प्रजापतेः सृष्टिपरिपूरणाय प्रदर्शितः; अयं च इन्द्रादिसर्गः तत्रैव द्रष्टव्यः, तच्छेषत्वात्; इह तु स एवाभिधीयते अविदुषः कर्माधिकारहेतुप्रदर्शनाथ ॥ ब्रह्म वा इदमग्र आसीदेकमेव तदे- कँ सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृ- जत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरी- शान इति । तस्मात्क्षत्रात्परं नास्ति त स्माद्राह्मणः क्षत्रियमधस्तादुपास्ते राज- सूर्य क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. परमतां गच्छति ब्रह्मैवान्तत उपनिन- यति स्वां योनिं य उ एनए हिनस्ति खाँ स योनिमृच्छति स पापीयान्भवति यथा श्रेयाँ सँ हिँ सित्वा ॥ ११ ॥ ब्रह्म वा इदमग्र आसीत् — यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म-ब्राह्मणजात्यभिमानात् ब्रह्मेत्यभिधीयते - वै, इदं क्षत्रा- दिजातम्, ब्रह्मैव, अभिन्नमासीत्, एकमेव-न आसीत्क्ष- त्रादिभेदः । तत् ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सत्, न व्यभवत् न विभूतवत् कर्मणे नालमासीदित्यर्थः । तत- स्तद्ब्रह्म- ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्मणजातिनि- मित्तं कर्म चिकीर्षुः आत्मनः कर्मकर्तृत्वविभूत्यै, श्रेयोरूपं अति असृजत अतिशयेन असृजत सृष्टवत् । किं पुनस्तत्, यत्सृष्टम् ? क्षत्रं क्षत्रियजातिः ; तद्व्यक्ति- भेदेन प्रदर्शयति — यान्येतानि प्रसिद्धानि लोके, देवत्रा देवेषु, क्षत्राणीति- जात्याख्यायां पक्षे बहुवचनस्मरणात् व्यक्तिबहुत्वाद्वा भेदोपचारेण - बहुवचनम् । कानि पुनस्ता- नीत्याह -- तत्वाभिषिक्ता एव विशेषतो निर्दिश्यन्ते - इन्द्रो देवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रः पशूनाम, पर्जन्यो विद्युदादीनाम् यमः पितॄणाम्, मृत्यु: प्रशस्त रूपम्, ༡ क. ११.] प्रथमोऽध्यायःः । :' रोगादीनाम्, ईशानो भासाम्-इत्येवमादीनि देवेषु क्षत्राणि । तदनु इन्द्रादिक्षत्रदेवताधिष्ठितानि मनुष्यक्षत्राणि सोमसूर्य- वंश्यानि पुरूरवः प्रभृतीनि सृष्टान्येव द्रष्टव्यानि ; तदर्थ एव हि देवत्रसर्गः प्रस्तुतः । यस्मात् ब्रह्मणा अतिशयेन सृष्ट क्षत्रम्, तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्तृ ; तस्माद्ब्राह्मणः कारणभूतोऽपि क्षत्रियस्य क्षत्रियम् अधस्तात् व्यवस्थितः सन् उपरि स्थितम् उपास्ते - क ? राजसूये । क्षत्र एव तत् आत्मीयं यशः ख्यातिरूपम् - ब्रह्मेति - दधाति स्थापयति ; राजसूयाभिषिक्तेन आसन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक् पुनस्तं प्रत्याह-त्वं राज- ब्रह्मासीति ; तदेतदभिधीयते -क्षत्र एव तद्यशो दधातीति । सैषा प्रकृता क्षवस्य योनिरेव यद्ब्रह्म । तस्मात् यद्यपि राजा परमतां राजसूयाभिषेकगुणं गच्छति आप्नोति - ब्रह्मैव ब्राह्मणजातिमेव, अन्ततः अन्ते कर्मपरिसमाप्तौ, उपनिश्र- यति आश्रयति स्वां योनिम् - पुरोहितं पुरो निधत्त इत्यर्थः । यस्तु पुनर्बलाभिमानात् स्वां योनिं ब्राह्मणजातिं ब्राह्मणम्- यउ एनम् - हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामा- त्मीयामेव स योनिमृच्छति - स्वं प्रसवं विच्छिनत्ति विना- शयति । स एतत्कृत्वा पापीयान् पापतरो भवति पूर्व- S. B. U. 10 बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. मपि क्षत्रियः पाप एव क्रूरत्वात्, 'आत्मप्रसवहिंसया सुत- राम्; यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति, तद्वत् ॥ स नैव व्यभवत्स विशमसृजत यान्ये- तानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ १२ ॥ क्षत्र सृष्टऽपि स नैव व्यभवत्, कर्मणे ब्रह्म तथा न व्यभवत, वित्तोपार्जयितुरभावात् स विशमसृजत कर्म- साधनवित्तोपार्जनाय ; कः पुनरसौ विट् ? यान्येतानि देव- जातानि - स्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थ:- गणशः गणं गणम्, आख्यायन्ते कथ्यन्ते- गणप्रायाहि विशः ; प्रायेण संहता हि वित्तोपार्जने समर्था:, न एकै- कशः- वसवः अष्टसंख्यो गणः, तथैकादश रुद्रा:; द्वा- दश आदित्याः, विश्वे देवा: त्रयोदश विश्वाया अपत्यानि - सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥ < स नैव व्यभवत्स शौद्रं वर्णमसृजत . पूषणमियं वै पूषेय ही सर्व पुष्यति क. १४.] प्रथमोऽध्यायः 7:1 यदिदं किंच ॥ १३ ॥ " सः परिचारकाभावात्पुनरपि नैव व्यभवत्; स शौद्रं वर्णमसृजत - शूद्र एव शौद्रः स्वार्थेऽणि वृद्धिः । कः पुनर- सौ शौद्रो वर्णः, य: सृष्टः ? पूषणम् - पुष्यतीति पूषा । कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति — इयं पृथिवी पूषा ; स्वयमेव निर्वचनमाह --- इयं हि इदं सर्व पुष्यति थे- दिदं किंच ॥ - स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्म तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्ध- fferरं नास्त्यो अबलीयान्बलीयाँस- माशते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहु- धर्मं वदतीति धर्म वा वदन्तः सत्यं व- दतीत्येतद्धयेवैतदुभयं भवति ॥ १४ ॥ सः चतुर: सृष्ट्वापि वर्णान नैव व्यभवन् उग्रत्वात्क्षत्र- स्थानियताशङ्कया; तत् श्रेयोरूपम अत्यसृजत - किं तत् ? धर्मम् ; तदेतत् श्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. उप्रादयुप्रम् - यद्धर्मः यो धर्मः; तस्मात् क्षत्रस्यापि निय- तृत्वात् धर्मात्परं नास्ति, तेन हि नियम्यन्ते सर्वे । तत्कथ- मिति उच्यते— अथो अपि अबलीयान् दुर्बलतर: बली- यांसमात्मनो बलवत्तरमपि आशंसते कामयते जेतुं धर्मेण बलेन - यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुम्बिकः, एवम् ; तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्वनियन्तृत्वम् । यो वै स धर्मो व्यवहारलक्षणां लौकिकैर्व्यवह्रियमाणः सत्यं बैं तन्; सत्यमिति यथाशास्त्रार्थता ; स एवानुष्ठीयमानो धर्मना- मा भवति ; शास्त्रार्थत्वेन ज्ञायमानस्तु सत्यं भवति । यस्मादेवं तस्मान्, सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समी- पस्था उभयविवेकज्ञा:- धर्मं वदतीति, प्रसिद्धं लौकिकं न्या- यं वदतीति ; तथा विपर्ययेण धर्मे वा लौकिकं व्यवहारं वदन्तमाहुः - सत्यं वदति, शास्त्रादनपेतं वदतीति । एतत् यदुक्तम् उभयं ज्ञायमानमनुष्ठीयमानं च एतत् धर्म एव भवति । तस्मात्स धर्मो ज्ञानानुष्ठानलक्षण: शास्त्रज्ञानितरां - व सर्वानेव नियमयति तस्मात् स क्षत्रस्यापि क्षत्रम् ; अतस्तदभिमानोऽविद्वान् तद्विशेषानुष्ठानाय ब्रह्मक्षत्रविट्शूद्र- निमित्तविशेषमभिमन्यते ; तानि च निसर्गत एव कर्माधि- कारनिमित्तानि ॥ क. १५.] प्रथमोऽध्यायः । तदेतद्ब्रह्म क्षत्रं विट्शूद्रस्तदग्निनैव दे- वेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मा- दग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे म- 'नुष्येष्वेताभ्या हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकम- दृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म क- रोति तद्धास्यान्ततः क्षीयत एवात्मान- मेव लोकमुपासीत स य आत्मानमेव लो- कमुपास्ते न हास्य कर्म क्षीयते । अस्मा- aratत्मनो यद्यत्कामयते तत्तत्सृजते ॥ ' ' तदेतच्चातुर्वर्ण्य मृष्टम् - ब्रह्म क्षत्रं विट् शूद्र इति ; उत्त- गर्थ उपसंहारः । यत्तन स्रष्टृ ब्रह्म तदग्निनैव नान्येन रूपेण, देवेषु ब्रह्म ब्राह्मणजातिः, अभवन; ब्राह्मण: ब्राह्म- णस्वरूपेण, मनुष्येषु ब्रह्माभवत्; इतरेषु वर्णेषु विकारा- बृहदारण्यकोपनिषद्भाष्ये " [ ब्रा. ४. न्तरं प्राप्य, क्षत्रियेण - क्षत्रियोऽभवत् इन्द्रादिदेवताधिष्ठि तः, वैश्येन वैश्यः, शूद्रेण शूद्रः । यस्मात्क्षत्रादिषु विकारा- पन्नम्, अग्नौ ब्राह्मण एव चाविकृतं स्रष्टृ ब्रह्म तस्मादग्ना- वेव देवेषु देवानां मध्ये लोकं कर्मफलम् इच्छन्ति, अग्निसंबद्धं कर्म कृत्वेत्यर्थः ; तदर्थमेव हि तद्ब्रह्म कर्मा- धिकरणत्वेनाभिरूपेण व्यवस्थितम्; तस्मात्तस्मिन्ननौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतत् उपपन्नम् । ब्राह्मणे मनुष्येषु - मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां ना- ग्न्यादिनिमित्तक्रियापेक्षा, किं तर्हि जातिमात्रस्वरूपप्रति- लम्भेनैव पुरुषार्थसिद्धिः ; यत्र तु देवाधीना पुरुषार्थसिद्धि:, तत्रैवाग्न्यादिसंबद्धक्रियापेक्षा ; स्मृतेश्च - ' जप्येनैव तु सं- सिध्येद्ब्राह्मणां नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ' इति । पारिव्राज्यदर्शनाच्च । तस्माद्ब्राह्मणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति । यस्मादेताभ्यां हि ब्राह्मणाग्निरूपाभ्यां कर्मकर्तधिकरणरूपाभ्यां यत्स्रष्टृ ब्रह्म साक्षादभवत् ॥ अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित् । तदसत्, अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्र- स्तुतत्वात् परेण च विशेषणात् ; यदि ह्यत्र लोकशब्देन " क. १५.] प्रथमोऽध्यायः । पर एवात्मोच्येत परेण विशेषणमनर्थकं स्यात् - ' स्वं लो- कमदृष्ट्वा ' इति ; स्वलोकव्यतिरिक्तश्वेदग्न्यधीनतया प्रार्थ्य- मानः प्रकृतो लोकः, ततः स्वमिति युक्तं विशेषणम्, प्रकृत- परलोकनिवृत्त्यर्थत्वात् ; स्वत्वेन च अव्यभिचारात्परमात्म- लोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् - ब्रवीति च कर्मकृतानां व्यभिचारम् -'श्रीयत एव' इति ॥ - ब्रह्मणा सृष्टा वर्णाः कर्मार्थम् ; तञ्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च; तस्मात्ते नैव चेत्कर्मणा स्वो लोकः परमात्माख्यः अविदितोऽपि प्रा- व्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह- अथे- ति पूर्वपक्षविनिवृत्त्यर्थः यः कश्चित् ह वै अस्मात् ; सांमारिकात्पिण्डग्रहणलक्षणात् अविद्याकामकर्महेतुकात् अ- ग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमान- तया वा आगन्तुकादम्वभूताल्लोकात् स्वं लोकमात्मा- ख्यम् आत्मत्वेनाव्यभिचारित्वात अदृष्ट्वा - अहं ब्रह्मा- स्मीति प्रैति म्रियते स यद्यपि स्वो लोकः, अविदित: अविद्यया व्यवहितः अम्व इवाज्ञातः, एनम् - संख्यापूरण इव लौकिकः आत्मानम् - न भुनक्ति न पालयति शोकमो- दभयादिदोषापनयेन यथा लोके च वेदः अननूक्त: अन- " " , बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. धीतः कर्माद्यवबोधकत्वेन न भुनक्ति, अन्यद्वा लौकिकं कृ- व्यादि कर्म अकृतं स्वात्मना अनभिव्यञ्जितम् आत्मीयफ- लप्रदानेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्या - त्मस्वरूपेणानभिव्यञ्जितः अविद्यादिप्रहाणेन न भुनक्त्येव । ननु किं स्वलोकदर्शननिमित्तपरिपालनेन ? कर्मण: फलप्रा- प्रिधौव्यात् इष्टफलनिमित्तस्य च कर्मणो बाहुल्यात् तन्निमि- तं पालनमक्षयं भविष्यति - तन्न, कृतस्य क्षयवत्त्वादित्येतदा- ह— यत् इह वै संसारे अद्भुतवत् कश्चिन्महात्मापि अनेवं- वित स्वं लोकं यथोक्तेन विधिना अविद्वान् महत् बहु अश्व- धादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति-अनेनैवा- नन्त्यं मम भविष्यतीति, तत्कर्म ह अस्य अविद्यावत: अविद्याजनितकामहेतुत्वान स्वप्नदर्शनविभ्रमोद्भूतविभूतवत् अन्ततः अन्ते फलोपभोगस्य श्रीयत एव ; तत्कारणयोरवि- द्याकामयोश्चलत्वात कृतक्षयघ्रौव्योपपत्तिः । तस्मान्न पुण्य- कर्मफलपालनानन्त्याशा अस्त्येव । अत आत्मानमेव स्वं लो- कम् - आत्मानमिति म्वं लोकमित्यम्मिन्नर्थे, स्वं लोकमिति प्रकृतत्वात् इह च स्वशब्दस्याप्रयोगात - उपासीत । म य आत्मानमेव लोकमुपास्ते - तस्य किमित्युच्यते - न हास्य कर्म क्षीयते कर्माभावादेव - इति नित्यानुवादः ; यथा अविदुषः क. १५.] प्रथमोऽध्यायः । कर्मक्षयलक्षणं संसारदुःखं संततमेव, न तथा तदस्य विद्य त इत्यर्थ: - ' मिथिलायां प्रदीप्तायां न मे दह्यति किंचन' इति यद्वत ॥ स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात् कर्मैव न श्रीयत इत्यपरे वर्णयन्ति; लोकशब्दार्थे च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल -- एको व्याकृतावस्थः कर्मा- श्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते ; तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कार - णरूपमापाद्य यस्तूपास्ते, तम्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति । भवतीयं शोभना कल्पना, न तु श्रौती, स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहाय आत्मशब्दप्रक्षेपेण पुन- स्तम्यैव प्रतिनिर्देशात् - आत्मानमेव लोकमुपामीतेति; तत्र कर्मममवायिलोककल्पनाया अनवसर एव । परेण च केव- लविद्याविषयेण विशेषणात्— 'किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक:' इति पुत्रकर्मा पर विद्या- तेभ्यो हि लोकभ्यो विशिनष्टि- अयमात्मा नो लोक इति. 'न हास्य केनचन कर्मणा लोको मीयत एषोऽस्य बृहदारण्यकोपनिषद्भाष्ये ' [ब्रा. ४. परमो लोकः' इति च । तैः सविशेषणैः अस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात् । अस्मा- त्कामयत इत्ययुक्तमिति चेत् — इह स्वो लोकः परमात्मा; तदुपासनात्स एव भवतीति स्थिते यद्यत्कामयते तत्तदस्मा- दात्मनः सृजत इति तदात्मप्राप्तिव्यतिरेकेण फलवचनमयु- क्तमिति चेत्, न । स्वलोकोपासनस्तुतिपरत्वात् ; स्वस्मादेव लोकात्सर्वमिष्टं संपद्यत इत्यर्थः, नान्यदतः प्रार्थनीयम्, आत्मतः प्राण आत्मत आशा' इत्या- आप्तकामत्वात् 6 दि श्रुत्यन्तरे यथा; सर्वात्मभावप्रदर्शनार्थी वा पूर्ववत् । यदि हि पर एव आत्मा संपद्यते, तदा युक्त: अस्माद्धये- वात्मनः' इत्यात्मशब्दप्रयोगः - स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थः ; अन्यथा अव्याकृतावस्थात्कर्मणो लोका- दिति सविशेषणमवक्ष्यत् प्रकृतपरमात्मलोकव्यावृत्तये व्या- कृतावस्थाव्यावृत्तये च ; न ह्यस्मिन्प्रकृते विशेषिते अश्रुतान्त- रालावस्था प्रतिपत्तुं शक्यते ॥ अथो अयं वा आत्मा । अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्माणि यत्कर्तव्यतया पशुव- त्परतन्त्रो भवति ; के वा ते देवादयः येषां कर्मभि: पशु- , " क. १६.] प्रथमोऽध्यायः । वदुपकरोति - इति तदुभयं प्रपञ्चयति- अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवा- नां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ येत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते य- देभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशू- नां यदस्य गृहेषु श्वापदा वयास्यापि - पीलिकाभ्य उपजीवन्ति तेन तेषां लो- को यथा ह वै स्वाय लोकायारिष्टिमि च्छेदेव हैवंविदे सर्वाणि भूतान्यरिष्टि- मिच्छन्ति तद्वा एतद्विदितं मीमा मि- तम् ॥ १६ ॥ अथो इत्ययं वाक्योपन्यासार्थः । अयं यः प्रकृतो गृही कर्माधिकृत: अविद्वान् शरीरेन्द्रियसंघातादिविशिष्ट: पिण्ड आत्मेत्युच्यते, सर्वेषां देवादीनां पिपीलिकान्तानां भूतानां बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. लोको भोग्य आत्मेत्यर्थः, सर्वेषां वर्णाश्रमादिविहितैः कर्म- भिरुपकारित्वात् । कैः पुनः कर्मविशेषैरुपकुर्वन् केषां भूत- विशेषाणां लोकः इत्युच्यते स गृही यज्जुहोति यद्यजते- - " यागो देवतामुद्दिश्य स्वत्व परित्यागः, स एव आसेचना- धिको होम:- तेन होमयागलक्षणेन कर्मणा अवश्यकर्त- व्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोक: ; अथ यदनुब्रूते स्वाध्यायमधीते अहरहः तेन ऋषीणां लोकः ; अथ यत्पितृभ्यो निपुणाति प्रयच्छति पिण्डोदकादि, यथ प्रजामिच्छते प्रजार्थमुद्यमं करोति - इच्छा च उत्पत्त्युपलक्ष- णार्थी- प्रजां चोत्पादयतीत्यर्थः तेन कर्मणा अवश्यकर्त- व्यत्वेन पितृणां लोकः पितॄणां भोग्यत्वेन परतन्त्रो लोकः ; अथ यन्मनुष्यान्वामयते भूम्युदकादिदानेन गृहे, यच ते- भ्यो वसोवयो वा अर्थिभ्यः अशनं ददाति तेन मनुष्याणाम् ; अथ यत्पशुभ्यस्तृणोदकं विन्ददि लम्भयति, तन पशूनाम; यदस्य गृहेषु श्वापदा वयांसि च पिपीलिका- भि: सह कणबलिभाण्डालनाद्युपजीवन्ति तेन तेषां लो- कः । यस्मादयमेतानि कर्माणि कुर्वन्नपकरोति देवादिभ्यः, तस्मान, यथा ह वै लोके म्वाय लोकाय स्वस्मै देहाय अरिष्टिम् अविनाशं स्वत्वभावाप्रच्युतिम् इच्छेत स्वत्वभाव- " क. १६.] प्रथमोऽध्यायः प्रच्युतिभयात्पोषणरक्षणादिभिः सर्वतः परिपालयेत् ; एवं ह, एवंविदे - सर्वभूतभोग्योऽहम् अनेन प्रकारेण मया अब- श्यमृणिवत्प्रतिकर्तव्यम् - इत्येवमात्मानं परिकल्पितवते, सर्वा- णि भूतानि देवादीनि यथोक्तानि, अरिष्टिमविनाशम् इच्छ- न्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इत्र पशून्- ' तस्मादेषां तन्न प्रियम्' इत्युक्तम् । तद्वा एतत् तदेतत् यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं च अवदान- प्रकरणे ॥ ' आत्मैवेदमग्र आसीत् । ब्रह्म विद्वांश्चेत् तस्मात्पशुभावा- त्कर्तव्य ताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मब- न्धनाधिकारे अवश इव प्रवर्तत न पुनस्तद्विमोक्षणोपाये विद्याधिकार इति । ननूक्तं देवा रक्षन्तीति ; बाढम् — क- मधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति, अन्यथा अक- ताभ्यागमकृतनाशप्रसङ्गात् न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम् ; तस्माद्भवितव्यं तेन येन प्रेरितो- Sar एव बहिर्मुखो भवति स्वस्माल्लोकात् । नन्वविद्यया सा; अविद्वान्हि बहिर्मुखीभूतः प्रवर्तते - सापि नैव प्रवर्तिका ; वस्तुस्वरूपावरणात्मिका हि सा ; प्रवर्तकबीजत्वं तु प्रतिप- , बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. द्यते अन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः । एतं तर्ह्यच्यतां किं तत् यत्प्रवृत्तिहेतुरिति तदिहाभिधीयते—- एषणा काम: सः, ' स्वाभाविक्यामविद्यायां वर्तमाना बाला: पराचः कामा- ननुयन्तीति काठकश्रुतौ स्मृतौ च - 'काम एष क्रोध एष: ' " इत्यादि, मानवे च सर्वा प्रवृत्ति: कामहेतुक्येवेति । स एषोऽर्थः सविस्तरः प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः ॥ आत्मैवेदमग्र आसीदेक एव सोऽका- मयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीत्येतावान्वै कामो नेच्छश्वनातो भूयो विन्देत्तस्मादप्येत- काकी कामयते जाया मे स्यादथ प्र जायेगाथ वित्तं मे स्यादथ कर्म कुर्वी- येति स यावदप्येतेषामेकैकं न प्रा- प्रोत्यकृत्स्न एव तावन्मन्यते तस्यो कृ- त्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्वि- न्दते श्रोत्वं देव श्रोत्रेण हि तच्छृणोत्या- क. १७.] प्रथमोऽध्यायः । त्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्को यज्ञः पाङ्कः पशुः पाङ्कः पुरुषः पाङ्क्ङ्कमिद ँ सर्वं यदिदं किंच तदि- द৺ सर्वमाशांति य एवं वेद ॥ १७ ॥ इति प्रथमाध्यायस्य चतुर्थ ब्राह्मणम् ॥ आत्मैवेदमग्र आसीत । आत्मैव- - स्वाभाविक: अविद्वान् कार्यकरणसंघातलक्षणो वर्णी अत्रे प्राग्दारसंबन्धात् आत्मे- त्यभिधीयते; तस्मादात्मन: पृथग्भूतं काम्यमानं जायादि- भेदरूपं नासीत स एवैक आसीत्-जायाद्येषणाबीजभू- ताविद्यवानेक एवासीत् । स्वाभाविक्या स्वात्मनि कत्रादि- कारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वा- सितः सः अकामयत कामितवान । कथम् ? जाया कर्मा- धिकारहेतुभूता मे मम कर्तुः स्थान; तया विना अहमन- धिकृत एव कर्मणि; अतः कर्माधिकारसंपत्तये भवेज्जाया; अथाहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय ; अथ वित्तं मे स्यात् कर्मसाधनं गवादिलक्षणम् अथाहमभ्युदयनिःश्रेयससा- धनं कर्म कुर्वीय - येनाहमनृणी भूत्वा देवादीनां लोकान्प्रा- मुयाम्, तत्कर्म कुर्वीय, काम्यानि च पुत्रवित्तस्वर्गादिसाध- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. नानि एतावान्वै कामः एतावद्विषयपरिच्छिन्न इत्यर्थः ; एतावानेव हि कामयितव्यो विषयः - यदुत जायापुत्रवित्त- कर्माणि साधनलक्षणैषणा, लोकाश्च त्रयः - मनुष्यलोकः पि- तृलोको देवलोक इति — फलभूता: साधनैषणायाश्चास्या: ; तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा; तस्मात् सा एकैव एषणा, या लोकैषणा ; सा एकैव सती एषणा सांधनापेक्षेति द्विधा ; अतोऽवधारयिष्यति ' उभे होते एषणे एव' इति । फलार्थत्वात्सर्वारम्भस्य लोकैषणा अर्थप्राप्ता उक्तै, वेति एतावान्वै एतावानेव काम इति अवधियते ; भोजने- ऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य । ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तः अविद्वान अवश एव कोशकारवत् आत्मानं वेष्टयति- कर्ममार्ग एवात्मानं प्रणिदधत् बहिर्मुखीभूतः न स्वं लोकं प्रतिजानाति ; तथा च तैत्तिरीयके – 'अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति' इति । कथं पुनरेतावत्त्वमवधार्यते कामा- नाम, अनन्तत्वात्; अनन्ता हि कामा:- - इत्येतदाशङ्कय हेतुमाह — यम्मात् - न - इच्छन - चन - इच्छन्नपि, अतः अस्मा- त्फलसाधनलक्षणात्, भूय: अधिकतरम्, न विन्देत् न -लभेत ; न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा ल- - क. १७.] प्रथमोऽध्यायः ः । ब्धव्यमस्ति ; लब्धव्यविषेयो हि कामः; तस्य चैतद्व्यतिरेके- णाभावाद्युक्तं वक्तुम्-एतावान्वै काम इति । एतदुक्तं भव- ति - दृष्टार्थमदृष्टार्थं वा साध्यसाधनलक्षणम् अविद्यावत्पुरुषा- धिकारविषयम् एषणाद्वयं काम: ; अतोऽस्माद्विदुषा व्युत्थात- व्यमिति । यस्मात् एवमविद्वाननात्मकामी पूर्वः कामयामास, तथा पूर्वतरोऽपि; एषा लोकस्थिति: ; प्रजापतेश्चैवमेष सर्ग आसीत् सोऽबिभेद विद्यया, ततः कामप्रयुक्त: एकाक्यरममा- णोऽरत्युपघाताय स्त्रियमैच्छत्, तां समभवत्, ततः सर्गो - ऽयमासीदिति हि उक्तम् — तस्मात् तत्सृष्टौ एतर्हि एतस्मि न्नपि काले एकाकी सन् प्राग्दारक्रियातः कामयते - जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीयेत्युक्तार्थं वाक्यम् । सः - एवं कामयमानः संपाद- यं जायादीन् यावत् सः एतेषां यथोक्तानां जायादीनाम् एकैकमपि न प्राप्नोति, अकृत्स्न: असंपूर्णोऽहम् इत्येव तावत् आत्मानं मन्यते ; पारिशेष्यात्समस्तानेवैतान्संपादयति यदा, तदा तस्य कृत्स्नता । यदा तु न शक्नोति कृत्स्नतां संपाद- यितुं तदा अस्य कृत्स्नत्वसंपादनाय आह तस्यो तस्य अकृत्स्नत्वाभिमानिनः कृत्स्नतेयम् एवं भवति ; कथम् ? अयं कार्यकरणसंघातः प्रविभज्यते ; तत्र मनोऽनुवृत्ति S.BLU.11 - • बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. प्रधानत्वात् हि इतर सर्व कार्यकरणजातमिति मनः आत्मेव आत्मा - यथा जायादीनां कुटुम्ब पतिरात्मेव तदनुकारित्वाज्जायादिचतुष्टयस्य, एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै । तथा वाग्जाया मनोऽनुवृत्तित्वसामा- न्याद्वाचः । वागिति शब्दश्वोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति मनसो जायेव वाक् । ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राण: कर्मार्थमिति प्राण: प्रजेव । तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्दृष्टवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम् ; तत् द्विविधं वित्तम् - मानुषम् इतरश्च अतो विशिनष्टि इतरवित्त- निवृत्त्यर्थं मानुषमिति ; गवादि हि मनुष्य संबन्धिवित्तं चक्षुर्ब्राह्यं कर्मसाधनम; तस्मात्तत्स्थानीयम् तेन संबन्धा- त चक्षुर्मानुषं वित्तम् चक्षुषा हि यस्मात् तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः । किं पुनरितर- द्वित्तम् ? श्रोत्रं दैवम् - देवविषयत्वाद्विज्ञानस्य विज्ञानं दैवं वित्तम् ; तदिह श्रोत्रमेव संपत्तिविषयम्; कस्मात् ! श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति ; अत: श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति । किं पुनरे- तैरात्मादिवित्तान्तैरिह निर्वर्त्य कर्मेत्युच्यते – आत्मैव - आ. - , क. १७.] प्रथमोऽध्यायः । त्मेति शरीरमुच्यते ; कथं पुनरात्मा कर्मस्थानीयः ? अभ्य कर्महेतुत्वात् । कथं कर्महेतुत्वम् ? आत्मना हि शरीरेण यतः कर्म करोति । तस्य अकृत्स्नत्वाभिमानिन एवं कृ- त्नता संपन्ना — यथा बाह्या जायादिलक्षणा एवम् । त- ---- स्मात्स एष पाङ्कः पञ्चभिर्निर्वृत्त: पाङ्कः यज्ञः दर्शनमा- त्रनिर्वृत्तः अकर्मिणोऽपि । कथं पुनरस्य पञ्चत्वसंपत्तिमा- त्रेण यज्ञत्वम् ? उच्यते यस्मात् बाह्योऽपि यज्ञः पशुपुरु- षसाध्यः, स च पशुः पुरुषश्च पाङ्कः एव, यथोक्तमनभा- दिपभ्वत्वयोगात् ; तदाह- पाङ्कः पशुः गवादि:, पाङ्क: पुरुषः- पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथ- क्पुरुषग्रहणम् । किं बहुना पाङ्कमिदं सर्वं कर्मसाधनं फलं च, यदिदं चि यत्किचिदिदं सर्वम् । एवं पाङ्कं यज्ञमा- त्मानं यः संपादयति सः तदिदं सर्वं जगत् आत्मत्वेन आप्नोति य एवं वेद ॥ इति प्रथमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ . पञ्चमं ब्राह्मणम् ॥ यत्सप्तान्नानि मेधया तपसाजनयत्पि ता । एकमस्य साधारणं द्वे देवानभाज • यत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन्स प्रतिष्ठितं यच प्राणिति यच्च न । कस्मात्तानि न क्षीयन्ते saमानानि सर्वदा । यो वैतामक्षितिं वेद सोऽन्नमन्ति प्रतीकेन । स देवानपि - गच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ यत्सप्तान्नानि मेधया । अविद्या प्रस्तुता; तत्र अविद्वान अन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति ; सः वर्णा- श्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभि: कामप्रयुक्तो देवादीनामुपकुर्वन सर्वेषां भूतानां लोक इत्यु- क्तम् । यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भो- ज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्ककर्मभिः सर्वाणि भूतानि सर्वे च जगत् आत्मभोज्यत्वेनासृजत; एवम् एकै - क. २.] प्रथमोऽध्यायः । कः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्य चेत्यर्थः ; एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः - सर्वे सर्वस्य कार्य मध्विति आत्मक- त्वविज्ञानार्थम् । यदसौ जुहोत्यादिना पाङ्केन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जग- त्सर्वे सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्य- न्ते, भोज्यत्वात् ; तेनासौ पिता तेषामन्नानाम् । एतेषाम- न्नानां सविनियोगानां सूत्रभूता: संक्षेपतः प्रकाशकत्वात् इमे मन्त्राः ॥ यत्सप्तान्नानि मेधया तपसाजनयत्पि- तेति मेधया हि तपसाजनयत्पिता । एक- मस्य साधारणमिनीदमेवास्य तत्साधार- णमन्नं यदिदमद्यते । स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्र ह्येतत् । द्वे देवानभाजयदिति हुतं च प्रहुतं च त- स्माद्देवेभ्यो जुह्वति च प्र च जुह्वत्यथो आहुर्दर्शपूर्णमामाविति तस्मान्नेष्टियाजु- कः स्यात् । पशुभ्य एकं प्रायच्छदिति बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. तत्पयः । पयो ह्येवाग्रे मनुष्याश्च पश- वश्वोपजीवन्ति तस्मात्कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति स्तनं वानुधापय- न्त्यथ वत्सं जातमाहुरतृणाद इति । त- स्मिन्सर्व प्रतिष्ठितं यच्च प्राणिति यच्च ने- ति पयसि ही सर्व प्रतिष्ठितं यच्च प्राणि- ति यच्चन । तद्यदिदमाहुः संवत्सरं पयसा जुहृदप पुनर्मृत्युं जयतीति न तथा विद्या- द्यदहरेव जुहोति तदहः पुनर्मृत्युमपजय- त्येवं विद्वान्सर्व हि देवेभ्योऽन्नायं प्रय- च्छति । कस्मात्तानि न क्षीयन्तेऽद्यमाना- नि सर्वदेति पुरुषो वा अक्षितिः स हीद- मन्नं पुनः पुनर्जनयते । यो वैतामक्षितिं वे- देति पुरुषो वा अक्षितिः स हीदमन्नं ध या धिया जनयते कर्मभिर्यद्वैतन्न कुर्या क्षीयेत ह सोऽन्नमन्ति प्रतीकेनेति मुखं क. २.] प्रथमोऽध्यायः । प्रतीकं मुखेनेत्येतत् । स देवानपिगच्छ- ति स ऊर्जमुपजीवतीति प्रशसा ॥ २ ॥ यत्सप्तान्नानि — यत् अजनयदिति क्रियाविशेषणम् ; मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा ; ज्ञानकर्मणी एव हि मेधातपः शब्दवाच्ये, तयोः प्रकृतत्वात् ; नेतरे मे - धातपसी, अप्रकरणात्; पाङ्कं हि कर्म जायादिसाधनम् ; ' य एवं वेद' इति च अनन्तरमेव ज्ञानं प्रकृतम् ; तस्मान्न प्रसिद्धयोर्मेधातपसोराशङ्का कार्या; अतः यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता, तानि प्रकाशयि- याम इति वाक्यशेषः । तत्र मन्त्राणामर्थः तिरोहितत्वा- त्प्रायेण दुर्विज्ञेयो भवतीति तदर्थव्याख्यानाय ब्राह्मणं प्रव- र्तते । तत्र यत्सप्तान्नानि मेधया तपसाजनयत्पितेत्यस्य कोऽर्थः ? उच्यते इति -- हि शब्देनैव व्याचष्टे प्रसिद्धार्था- वद्योतकेन; प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः ; यदजनय- दिति च अनुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता ; अतः ब्राह्मणम् अविशङ्कयैवाह — मेधया हि तपसाजनय- पितेति ॥ ननु कथं प्रसिद्धता अस्यार्थस्येति, उच्यते जायादि- कर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव ; बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. अभिहितं च- 'जाया मे स्यात् इत्यादिना । तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रति इत्यभिहितम् वक्ष्यमाणं च प्रसिद्धमेव । तम्माद्युक्तं वक्तुं मेधयेत्यादि । एषणा हि फलविषया प्रसि- द्वैव च लोके; एषणा च जायादीत्युक्तम् ' एतावान्वै काम:' इत्यनेन ; ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपप- न्तेः । एतेन अशास्त्रीय प्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्र- ष्टृत्वमुक्तमेव भवति ; स्थावरान्तस्य च अनिष्टफलस्य कर्म- विज्ञाननिमित्तत्वात् । विवक्षितस्तु शास्त्रीय एव साध्य- साधनभावः, ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षित- त्वात्- सर्वो ह्ययं व्यक्ताव्यक्तलक्षणः संसारोऽशुद्धोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय इत्येतस्माद्विरक्तम्य ब्र- ह्मविद्या आरब्धव्येति ॥ -- तत्र अन्नानां विभागेन विनियोग उच्यते- एकमस्य साधारणमिति मन्त्रपदम् ; तस्य व्याख्यानम- इदमेवास्य तत्साधारणमन्नमित्युक्तम् ; भोक्तृसमुदायस्य; किं तत ? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि तत् साधा- रणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वा अन्नम् । स य एत- त्साधारणं सर्वप्राणभृस्थितिकरं भुज्यमानमन्नमुपास्ते-त- ' क. २.] प्रथमोऽध्यायः । , त्परो भवतीत्यर्थ:- उपासनं हि नाम तात्पर्य दृष्टं लोके 'गुरुमुपास्ते ' ' राजानमुपास्ते' इत्यादौ - तस्मात् शरीरस्थि- त्यर्थान्नोपभोगप्रधान : नादृष्टार्थकर्मप्रधान इत्यर्थः ; स एवं - भूतो न पाप्मनोऽधर्मात् व्यावर्तते न विमुच्यत इत्येतत् । तथा च मन्त्रवर्ण:- ' मोघमन्नं विन्दते' इत्यादि: ; स्मृति- रपि — 'नात्मार्थं पाचयेदन्नम् ' ' अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः अन्नादे भ्रूणहा मार्ष्टि' इत्यादिः । कस्मा- त्पुन: पाप्मनो न व्यावर्तते ! मिश्रं ह्येतत् सर्वेषां हि स्वं तत् अप्रविभक्तं यत्प्राणिभिर्भुज्यते, सर्वभोग्यत्वादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते - ममेदं स्यादिति हि सर्वेषां तत्राशा प्रतिबद्धा; तस्मात् न परम- पीडयित्वा ग्रसितुमपि शक्यते । ' दुष्कृतं हि मनुष्याणाम् ' इत्यादिस्मरणाश्च । गृहिणा वैश्वदेवाख्यमनं यदहन्यहनि निरूप्यत इति के- चित् । तन्न । सर्वभोक्तृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम् । नापि यदिदमद्यत इति तद्विषयं वचनमनुकूलम । सर्वप्राणभृद्भुज्यमानान्नान्त:पाति- त्वाच्च वैश्वदेवाख्यस्य युक्तं श्रचाण्डालाद्याद्यस्य अन्नस्य ग्रह- णम, वैश्वदेवव्यतिरेकेणापि वचाण्डालाद्याद्यान्नदर्शनात्, बृहदारण्यकोपनिषद्भाष्ये [ब्रा. तत्र युक्तं यदिदमद्यत इति वचनम् । यदि हि तन्न गृह्येत साधारणशब्देन पित्रा असृष्टत्वाविनियुक्तत्वे तस्य प्रसज्ये- याताम् । इष्यते हि तत्सृष्टत्वं तद्विनियुक्तत्वं च सर्वस्यान्न- जातस्य । न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनो - Sविनिवृत्तिर्युक्ता । न च तस्य प्रतिषेधोऽस्ति । न च मत्स्य- बन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत् शिष्टनिर्वत्र्यत्वात्, अकरणे च प्रत्यवायश्रवणात् । इतरत्र च प्रत्यवायोपपत्तेः, अहमन्नमन्नमदन्तमद्मि' इति मन्त्रवर्णात् ॥ 6 ' द्वे देवानभाजयदिति मन्त्रपदम् ; ये द्वे अन्ने सृष्ट्वा देवा- नभाजयत्. के ते द्वे इत्युच्यते - हुतं च प्रहुतं च । हुत- मित्यग्नौ हवनम्, प्रहुतं हुत्वा बलिहरणम् । यस्मात् द्वे एते अन्ने हुतप्रहुते देवानभाजयत्पिता, तस्मात् एतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः । अथो अध्यन्य आहु:- द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि दर्शपूर्णमासाविति । द्वित्वश्रव- णाविशेषात् अत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथमः पक्षः । यद्यपि द्वित्वं हुतप्रहुतयोः संभवति, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम्, मन्त्रप्रकाशितत्वात् ; क. २. ] प्रथमोऽध्यायः 1: 1 गुणप्रधानप्राप्तौ च प्रधामे प्रथमतरा अवगतिः ; दर्शपूर्ण - मासयोश्च प्राधान्यं हुतप्रहुतापेक्षया; तस्मात्तयोरेव ग्रहणं युक्तम्- द्वे देवानभाजयदिति । यस्माद्देवार्थमेते पित्रा प्र- क्लप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात् तयोर्देवार्थत्वाविघाताय नेष्ट्रियाजुकः इष्ट्रियजनशील: ; इष्टिशब्देन किल काम्या इष्टयः; शतपथी इयं प्रसिद्धिः ; ताच्छील्यप्रत्ययप्रयोगा- काम्येष्ट्रिय जनप्रधानो न स्यादित्यर्थः ॥ पशुभ्य एकं प्रायच्छदिति यत्पशुभ्य एकं प्रायच्छ- त्पिता, किं पुनस्तदन्नम् ? तत्पयः । कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिन इत्यत आह- यो हि अप्रे प्रथमं यस्मात् मनुष्याश्च पशवश्च पय एवोपजीवन्तीति उचितं हि तेषां तदन्नम्, अन्यथा कथं तदेवाग्रे नियमेनो- पजीवेयुः । कथमग्रे तदेवोपजीवन्तीति उच्यते - मनुष्याश्च पशवश्व यस्मात् तेनैवान्नेन वर्तन्ते अद्यत्वेऽपि यथा पित्रा आदौ विनियोगः कृतः तथा; तस्मात् कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेह- यन्ति प्राशयन्ति; स्तनं वा अनुधापयन्ति पश्चात् पाय- यन्ति यथासंभवम् अन्येषाम् ; स्तनमेवाग्रे धापयन्ति मनु- ष्येभ्योऽन्येषां पशूनाम् । अथ वत्सं जातमाहुः कियत्प्र- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. माणो वत्स इत्येवं पृष्टाः सन्तः - अतृणाद इति - ना- द्यापि तृणमत्ति, अतीव बालः पयसैवाद्यापि वर्तत इत्यर्थः । यञ्च अग्रे जातकर्मादौ घृतमुपजीवन्ति, यश्च इतरे पय एव, तत् सर्वथापि पय एवोपजीवन्ति; घृतस्यापि पयोविका- रत्वात्पयस्त्वमेव । कस्मात्पुनः सप्तमं सत् पश्वन्नं चतुर्थत्वेन व्याख्यायते? कर्मसाधनत्वात्; कर्म हि पयःसाधनाश्रयम् अग्निहोत्रादि; तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्या- न्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने; अत: कर्मपक्षत्वान् कर्मणा सह पिण्डीकृत्योपदेश: ; साधनत्वा- विशेषात् अर्थसंबन्धात् आनन्तर्यमकारणमिति च; व्या- ख्याने प्रतिपत्तिसौकर्याश्च -- सुखं हि नैरन्तर्येण व्या- ख्यातुं शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते 1 तस्मिन्सर्व प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोऽर्थ इत्युच्यते-- तस्मिन पश्वन्ने पयसि सर्वम् अध्यात्माधि- भूताधिदैवलक्षणं कृत्स्नं जगत् प्रतिष्ठितम् - यश्च प्राणिति प्राणचेष्टावत्, यच्च न स्थावरं शैलादि । तत्र हि शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् । कथं पयोद्रव्यस्य सर्वप्र- तिष्ठात्वम् ? कारणत्वोपपत्तेः; कारणत्वं च अग्निहोत्रादि- कर्म समवायित्वम् अग्निहोत्राद्याहुतिविपरिणामात्मकं च ; ' क. २.] प्रथमोऽध्यायः : । जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः ; अतो युक्तमेव हि शब्देन व्याख्यानम् । यत्तद्ब्राह्मणान्तरेष्वि- दमाहु:-- संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ; संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च श- तानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसंपद्यमानाः संव- त्सरस्य च अहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति; एवं कृत्वा संवत्सरं जुह्वत अपजयति पुनर्मृत्युम् - इतः प्रेत्य देवेषु संभूतः पुनर्न म्रियत इत्यर्थः - इत्येवं ब्राह्मणवादा आहुः । न तथा विद्यान् न तथा द्रष्टव्यम् ; यदहरेव जुहो- ति तदह: पुनर्मृत्युमपजयति न संवत्सराभ्याममपेक्षते ; एवं विद्वान्सन-यदुक्तम्, पयसि हीदं सर्वं प्रतिष्ठितं पय- आहुतिविपरिणामात्मकत्वात्सर्वस्येति, तत् एकेनैवाहा जग- दात्मत्वं प्रतिपद्यते तदुच्यते - अपजयति पुनर्मृत्युं पुनर्मर- णम, सकृन्मृत्वा विद्वान शरीरेण वियुज्य सर्वात्मा भवति न पुनर्भरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः । कः पुनर्हे- तु:, सर्वात्माप्त्या मृत्युमपजयतीति ? उच्यते-- सर्व समस्तं हि यस्मात् देवेभ्यः सर्वेभ्य: अन्नाद्यम् अन्नमेव तदाद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति । तद्युक्तम्- सर्वमाहुतिम- यमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैः देवैः एकात्मभावं गत्वा बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. सर्वदेवमयो भूत्वा पुनर्न म्रियत इति । अथैतदप्युक्तं ब्राह्म- णेन —— ब्रह्म वै स्वयंभु तपोऽतप्यत तदैक्षत न वै तपस्या- नन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्म- नीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वे- षां भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येत्' इति ॥ कस्मात्तानि न श्रीयन्तेऽद्यमानानि सर्वदेति । यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभ्यः प्रत्तानि, तदा प्रभृत्येव तैर्भोक्तृभिरद्यमानानि - तन्निमित्तत्वात्तेषां स्थिते:- सर्वदा नैरन्तर्येण; कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षय: ; न च तानि श्रीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात्; भवितव्यं च अक्षयकारणेन; तस्मात् कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः । तस्येदं प्रतिवचनम् - पुरुषो वा अक्षितिः । यथा असौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसंबद्धेन च पाङ्ककर्मणा भोक्ता च तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव- मेधया तपसा च यतो जनयन्ति तान्यन्नानि । तदे - तदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सः अक्षितिः अक्षयहेतुः । कथमस्याक्षितित्वमित्युच्यते - स हि यस्मात् इदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं क. २.] प्रथमोऽध्यायः । , पुन: पुन: भूयो भूयः अनयते उत्पादयति, धिया धिया तत्तत्कालभाविन्या तथा तथा प्रज्ञया, कर्मभिश्च वाङ्मन:- कायचेष्टितैः; यत् यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षण- मात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन श्रीयेत ह । तस्मात् यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण यथाप्रज्ञं यथाकर्म च करो- त्यपि ; तस्मात् पुरुषोऽनितिः, सातत्येन कर्तृत्वान् ; तस्मात् भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः । अत: प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाध- नलक्षण: क्रियाफलात्मकः संहतानेकप्राणिकर्मवासना संता- नावष्टब्धत्वात् क्षणिक : अशुद्धः असारः नदीस्रोत : प्रदीपसं- तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्ना- दिसम: तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ; तदेतद्वैर ग्यार्थमुच्यते - धिया धिया जनयते कर्म- भिर्यद्वैतन्न कुर्यात्क्षीयेत हेति -- विरक्तानां ह्यस्मात् ब्रह्म- विद्या आरब्धव्या चतुर्थप्रमुखेनेति । यो वैतामक्षितिं वेदे - ति । वक्ष्यमाणान्यपि त्रीण्यन्नानि अस्मिन्नवसरे व्याख्याता- न्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंज्ञियते--यो वा एतामक्षितिम् अक्षयहेतुं यथोक्तं वेद-पुरुषो वा a वृहदारण्यकोपनिषद्भाष्ये " , [ब्रा. २. अक्षिति: स हीदमन्नं धिया धिया' जनयते कर्मभिर्यद्वैतन्न कुर्यात्क्षीयेत हेति सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते- मुखं मुख्यत्वं प्राधान्यमित्येतत् प्राधान्येनैव, अन्नानां पितुः पुरुषस्याक्षितित्वं यो वेद, सोऽन्नमत्ति नान्नं प्रति गुणभूतः सन् यथा अज्ञ: न तथा विद्वान् अन्नाना- मात्मभूतः - भोक्तैव भवति न भोज्यतामापद्यते । स देवा- नपिगच्छति स ऊर्जमुपजीवति — देवानपिगच्छति देवा- त्मभावं प्रतिपद्यते, ऊर्जममृतं च उपजीवतीति यदुक्तम्, सा प्रशंसा; नापूर्वार्थोऽन्योऽस्ति ॥ ' - त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना अभूवं ना- दर्शमन्यत्वमना अभूवं नाश्रौषमिति म- नसा ह्येव पश्यति मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्धी भरित्येतत्सर्वं मन एव तस्मादपि पृष्ठन उपस्पृष्टां मनसा वि- जानाति यः कश्च शब्दो वागेव सा । - एषा ह्यन्तमायन्तेषा हि न प्राणोऽपानो अ. ३.] प्रथमोऽध्यायः । व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्म- यो मनोमयः प्राणमयः ॥ ३ ॥ - ; पाङ्कस्य कर्मण: फलभूतानि यानि त्रीण्यन्नान्युपक्षिप्तानि तानि कार्यत्वात् विस्तीर्णविषयत्वाच्च पूर्वेभ्योऽन्नेभ्यः पृथगु- त्कृष्टानि ; तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणप- रिसमाप्तेः । त्रीण्यात्मनेऽकुरुतेति कोऽस्यार्थ इत्युच्यते- मनः वाक् प्राणः, एतानि त्रीण्यन्नानि तानि मनः वाचं प्राणं च आत्मने आत्मार्थम् अकुरुत कृतवान् सृष्ट्वा आदौ पिता । तेषां मनसोऽस्तित्वं स्वरूपं च प्रति संशय इत्यत आह- अस्ति तावन्मन: श्रोत्रादिबाह्यकरणव्यतिरिक्तम् ; यत एवं प्रसिद्धम् - बाह्यकरणविषयात्मसंबन्धे सत्यपि अभिमुखीभूतं विषयं न गृह्णाति, किं दृष्टवानसीदं रूपमि - त्युक्तो वदति - अन्यत्र मे गतं मन आसीत् सोऽहमन्यत्रमना आसं नादर्शम्, तथेदं श्रुतवानसि मदीयं वच इत्युक्तः अन्य- त्रमना अभूवम् नाश्रौषं न श्रुतवानस्मीति । तस्मात् यस्यासं- निधौ रूपादिग्रहणसमर्थस्यापि सतः चक्षुरादेः स्वस्वविषय- संबन्धे रूपशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तत् अन्यत् अस्ति मनो नामान्तःकरणं सर्वकरणविषययो- S. B. U. 12 बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. गीत्यवगम्यते । तस्मात्सर्वो हि लोको मनसा ह्येव पश्यति मनसा शृणोति तद्व्यग्रत्वे दर्शनाद्यभावात् ॥ " ' अस्तित्वे सिद्धे मनसः स्वरूपार्थमिदमुच्यते-- काम: स्त्रीव्यतिकराभिलाषादिः, संकल्पः प्रत्युपस्थितविषयविक- रूपनं शुक्लनीलादिभेदेन विचिकित्सा संशयज्ञानम्, श्रद्धा अदृष्टार्थेषु कर्मसु आस्तिक्यबुद्धिः देवतादिषु च, अश्रद्धा तद्विपरीता बुद्धि:, धृतिः धारणं देहाद्यवसादे उत्तम्भनम्, अधृतिः तद्विपर्यय:, ही लज्जा, धी: प्रज्ञा, भी: भयम् इत्येतदेवमादिकं सर्वे मन एव; मनसोऽन्तःकरणस्य रूपा- ण्येतानि । मनोऽस्तित्वं प्रत्यन्यश्च कारणमुच्यते तस्मान्म- नो नामास्त्यन्तःकरणम्, यस्माच्चक्षुषो ह्यगोचरे पृष्ठतो- ऽप्युपस्पृष्टः केनचित् हस्तस्यायं स्पर्शः जानोरयमिति विवे- केन प्रतिपद्यते ; यदि विवेककृत् मनो नाम नास्ति तर्हि त्वमात्रेण कुतो विवेकप्रतिपत्तिः स्यात्; यत्तत् विवेकप्रति- पत्तिकारणं तन्मनः ॥ अस्ति तावन्मनः, स्वरूपं च तस्याधिगतम् । त्रीण्यन्ना- नीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्यात्मम- धिभूतमधिदैवं च व्याचिख्यासितानि । तत्र आध्यात्मि- कानां वाङ्मन: प्राणानां मनो व्याख्यातम् । अथेदानीं वा- क. ४.] प्रथमोऽध्याययः । ग्वक्तव्येत्यारम्भः—यः कश्चित् लोके शब्दो ध्वनिः ताल्वा- दिव्यङ्गयः प्राणिभिः वर्णादिलक्षण: इतरो वा वादित्र मेघा- दिनिमित्तः सर्वो ध्वनिः वागेव सा । इदं तावद्वाचः स्वरू- पमुक्तम् । अथ तस्याः कार्यमुच्यते - एषा वाक् हि यस्मात् अन्तम् अभिधेयावसानम् अभिधेयनिर्णयम् आयत्ता अनु- गता । एषा पुनः स्वयं नाभिधेयवत् प्रकाश्या अभिधेयप्र- काशिकैव प्रकाशात्मकत्वात् प्रदीपादिवत् ; न हि प्रदीपादि - प्रकाशः प्रकाशान्तरेण प्रकाश्यते; तद्वत् वाक् प्रकाशिकैव स्वयं न प्रकाश्या - इति अनवस्थां श्रुतिः परिहरति- एषा हि न प्रकाश्या, प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ॥ - अथ प्राण उच्यते- प्राणः मुखनासिकाचार्या हृद- यवृत्ति: प्रणयनात्प्राणः, अपनयनान्मूत्रपुरीषादेरपान: अ- धोवृत्ति: आ नाभिस्थान:, व्यानः व्यायमनकर्मा व्यान: प्राणापानयोः संधिः वीर्यवत्कर्महेतुश्च, उदानः उत्कर्षोर्ध्वग - मनादिहेतुः आपादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समान समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेह चेष्टाभिसंबन्धिनी वृत्ति:- एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वे प्राण एव । -- प्राण इति वृत्तिमानाध्यात्मिक: अन उक्तः ; कर्म च अस्य 3 . १८० बृहदारण्यकोपनिषद्भाष्ये [त्रा. ५. वृत्तिभेदप्रदर्शनेनैव व्याख्यातम् ; व्याख्यातान्याध्यात्मिका- नि मनोवाक्प्राणाख्यानि अन्नानि ; एतन्मय एतद्विकार: प्राजापत्यैरेतैर्वाङ्मनः प्राणैरारब्ध: । कोऽसावयं कार्यकरण- संघात: ? आत्मा पिण्डः आत्मस्वरूपत्वेनाभिमतोऽविवेकि- भिः- अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनो- मय: पाणमय इति स्फुटीकरणम् ॥ . - तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारोऽभि- धीयते- यो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥४॥ त्रयो लोकाः भूर्भुवः स्वरित्याख्याः एत एव वाङ्मन:- प्राणाः ; तत्र विशेष:- वागेवायं लोकः, मनोऽन्तरिक्ष लोकः, प्राणोऽसौ लोकः ॥ त्रयो वेदा एत एव वागेवर्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५ ॥ देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ॥ ६ ॥ क. ९.] प्रथमोऽध्यायः । पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७ ॥ तथा त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥ विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किंच विज्ञातं वाचस्तद्रपं वाग्घि बि- ज्ञाता वागेनं तद्भूत्वावति ॥ ८ ॥ 6 विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव ; तत्र विशेष: यत्किंच विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ; तत्र स्वयमेव हेतुमाह - वाक् हि विज्ञाता, प्रकाशात्मकत्वात् ; कथमवि - ज्ञाता भवेत् या अन्यानपि विज्ञापयति ; वाचैव सम्रा- डुबन्धुः प्रज्ञायते ' इति हि वक्ष्यति । वाग्विशेषविद इदं फलमुच्यते - वागेव एनं यथोक्तवाग्विभूतिविदं तत् विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणैवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥ यत्किंच विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं तद्भूत्वावति ॥ तथा यत्किंच विजिज्ञास्यम, विस्पष्टं ज्ञातुमिष्टं विजि . बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ज्ञास्यम्, तत्सर्वं मनसो रूपम् ; मनः हि यस्मात् संदिः ह्यमानाकारत्वाद्विजिज्ञास्यम् । पूर्ववम्मनोविभूतिविद : फ. लम् - [-मन एनं तत् विजिज्ञास्यं भूत्वा अवति विजिज्ञा- स्यस्वरूपेणैवान्नत्वमापद्यते ॥ यत्किचाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं तद्भूत्वावति ॥ १० ॥ तथा यत्किंच अविज्ञातं विज्ञानागोचरं न च संदिह्यमा- नम्, प्राणस्य तद्रूपम् ; प्राणो ह्यविज्ञात: अविज्ञातरूप: हि यस्मात् प्राण:- :- अनिरुक्तश्रुतेः । विज्ञातविजिज्ञास्याविज्ञातभे- देन वाङ्मन: प्राणविभागे स्थिते त्रयो लोका इत्यादयो वाच - निका एव । सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियम: स्मर्तव्यः । प्राण एनं तद्भूत्वावति - अविज्ञातरूपेणैवास्य प्रा- णोऽन्नं भवतीत्यर्थः । शिष्यपुत्रादिभिः संदिह्यमानाविज्ञातो- पकारा अप्याचार्यपित्रादयो दृश्यन्ते ; तथा मनः प्राणयोरपि संदिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः ॥ व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः ; अथायमाधिदैविकार्थ आरम्भ:- - तस्यै वाचः पृथिवी शरीरं ज्योतीरू- क. १२.] पतेः प्रथमोऽध्यायः । पमयमग्निस्तद्यावत्येव वाक्तावती पृथि- वी तावानयमग्निः ॥ ११ ॥ तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुताया: पृथिवी शरीरं बाह्य आधार:, ज्योतीरूपं प्रकाशात्मकं करणं पृथि- व्या आधेयभूतम् अयं पार्थिवोऽग्निः । द्विरूपा हि प्रजा- वाकू कार्य आधारः अप्रकाशः, करणं च आधेयं प काश: तदुभयं पृथिव्यन्नी वागेव प्रजापतेः । तत् तब यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता ताव- त्येव भवति कार्यभूता; तावानयममिः आधेयः - करणरूपो ज्योतीरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति । समान- मुत्तरम् ॥ अथैतस्य मनसो द्यौः शरीरं ज्योती- रूपमसावादित्यस्तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुनः समै- तां ततः प्राणोऽजायत स इन्द्रः स एषो- saपत्नो द्वितीयो वै सपत्नो नास्य सपत्नो भवति य एवं वेद ॥ १२ ॥ मनः, बृहदारण्यकोपनिषद्भाष्ये [त्रा. ५. अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसः द्यौः द्युलोक: शरीरं कार्यम् आधारः, ज्योतीरूपं करणम् आधेयः असा- वादित्यः । तत् तत्र यावत्परिमाणमेवाध्यात्ममधिभूतं वा तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्यो- तीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौ: ; तावा- नसावादित्यो ज्योतीरूपं करणमाधेयम; तावग्न्यादित्यौ वाङ्मनसे आधिदैविके मातापितरौ मिथुनं मैथुन्यम् इतरेतरसंसर्गं समैतां समगच्छेताम् - मनसा आदित्येन प्रसूतं पित्रा, वाचा अग्निना मात्रा प्रकाशितं कर्म करि- घ्यामीति– अन्तरा रोदस्योः । ततः तयोरेव संगमनात् प्राणो वायुरजायत परिस्पन्दाय कर्मणे । यो जातः स इन्द्रः परमेश्वरः ; न केवलमिन्द्र एव, असपत्नः अविद्यमानः सपत्नो यस्य ; कः पुनः सपत्नो नाम ? द्वितीयो वै प्रतिपक्षत्वेनोप- गतः स द्वितीयः सपत्न इत्युच्यते । तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते; प्राणं प्रति गुणभावो- पगते एव हि ते अध्यात्ममिव । तत्र प्रासङ्गिकासपत्नवि- ज्ञानफलमिदम् — नास्य विदुषः सपत्न: प्रतिपक्षो भवति, य एवं यथोक्तं प्राणम् असपत्नं वेद ॥ : अथैतस्य प्राणस्यापः शरीरं ज्योती- क. १३. ] प्रथमोऽध्यायः । रूपमसौ चन्द्रस्तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रस्त एते सर्व एव समाः सर्वेऽनन्ताः स यो हैतानन्तवत उपास्तेऽन्तवन्तः स लोकं जयत्यथ यो हैताननन्तानुपास्तेऽनन्तः स लोकं ज- यति ॥ १३ ॥ तान्ये- अथैतस्य प्रकृतस्य प्राजापत्यान्नस्य प्राणस्य, न प्रजो- क्तस्य अनन्तरनिर्दिष्टस्य, आपः शरीरं कार्य करणाधारः ; पूर्ववत् ज्योतीरूपमसौ चन्द्रः ; तत्र यावानेव प्राणः याव- त्परिमाण: अध्यात्मादिभेदेषु, तावव्याप्तिमत्य आपः ताव- त्परिमाणा:; तावानसौ चन्द्र अबाधेय : तास्वप्स्वनुप्रविष्ट: करणभूतः अध्यात्ममधिभूतं च तावद्व्याप्तिमानेव तानि पित्रा पाङ्केन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मन: प्राणाख्यानि ; अध्यात्ममधिभूतं च जगत्समस्तम् एतै- र्व्याप्तम् ; नैतेभ्योऽन्यदतिरिक्तं किंचिदस्ति कार्यात्मकं कर- णात्मकं वा । समस्तानि त्वेतानि प्रजापति: त एते वाङ्य- नः प्राणाः सर्व एव समा: तुल्याः व्याप्तिमन्तः यावत्प्राणि- गोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः ; अत एवानन्ता बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. यावत्संसारभाविनो हि ते । न हि कार्य करण प्रत्याख्यानेन संसारोऽवगम्यते ; कार्यकरणात्मका हित इत्युक्तम् । स य: कश्चित् ह एतान् प्रजापतेरात्मभूतान् अन्तवतः परिच्छिन्नान् अध्यात्मरूपेण वा अधिभूतरूपेण वा उपास्ते, स च तदु- पासनानुरूपमेव फलम् अन्तवन्तं लोकं जयति, परिच्छि न एव जायते, नैतेषामात्मभूतो भवतीत्यर्थः । अथ पुनः यः ह एताननन्तान सर्वात्मकान् सर्वप्राण्यात्मभूतान् अप- रिच्छिन्नान् उपास्ते, सोऽनन्तमेव लोकं जयति ॥ पिता पाङ्केन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मा- र्थमकरोदित्युक्तम् ; तान्येतानि पाङ्ककर्मफलभूतानि व्या- ख्यातानि ; तत्र कथं पुन: पाङ्कस्य कर्मणः फलमेतानीति उच्यते — यस्मात्तेष्वपि त्रिष्वन्नेषु पाङ्कता अवगम्यते, वित्तकर्मणोरपि तत्र संभवात् ; तत्र पृथिव्यग्नी माता, दि. वादित्यौ पिता, योऽयमनयोरन्तरा प्राणः स प्रजेति व्या- ख्यातम् । तत्र वित्तकर्मणी संभावयितव्ये इत्यारम्भ:- स एष संवत्सरः प्रजापतिः षोडश- कलस्तस्य रात्रय एव पञ्चदश कला धुवै - . वास्य षोडशी कला स रात्रिभिरेवा च क. १४.] प्रथमोऽध्यायः । पूर्यतेऽपच क्षीयते सोऽमावास्या रात्रि- मेतया षोडश्या कलया सर्वमिदं प्राण- भृदनुप्रविश्य ततः प्रातर्जायते तस्मादे- तां रात्रिं प्राणभृतः प्राणं न विच्छि न्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ १४ ॥ स एष संवत्सरः - योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते । षोड- शकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्मा कालरूपः । तस्य च कालात्मन: प्रजापतेः रात्रय एव अहोरात्राणि- तिथय इत्यर्थ:- पश्च- दश कलाः । ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला । रात्रिभिरेव तिथिभि: कलोक्ताभिः आपूर्यते च अपक्षीयते च प्रतिपदाद्याभि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमाना- भिर्वर्धते यावत्संपूर्णमण्डल: पौर्णमास्याम् ; ताभिरेवापची- यमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्धुवैका कला व्यवस्थिता अमावास्यायाम् । स प्रजापतिः कालात्मा अमा- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. बास्याम् अमावास्यायाम् रात्रिं रात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत् प्राणि- जातम् अनुप्रविश्य - यदपः पिबति यच्चौषधीरश्नाति तत्स- मेव ओषध्यात्मना सर्व व्याप्य- अमावास्यां रात्रिमव- स्थाय ततोऽपरेद्युः प्रातर्जायते द्वितीयया कलया संयुक्तः । एवं पाकात्मकोऽसौ प्रजापतिः- दिवादित्यौ मनः पिता, पृथिव्यग्नी वाक् जाया माता, तयोश्च प्राणः प्रजा, चान्द्र- मस्यस्तिथयः कला वित्तम् - उपचयापचयधर्मित्वात् वित्त- वत्, तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म; एवमेष कृत्स्नः प्रजापति:- जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय - इत्ये- षणानुरूप एव पाङ्कस्य कर्मणः फलभूतः संवृत्तः ; कार- णानुविधायिहि कार्यमिति लोकेऽपि स्थितिः । यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोः एताममावास्यां रात्रिं प्राणभृतः प्राणिन: प्राणं न विच्छिन्द्यात् - प्राणिनं न प्रमापयेदित्येतत् - अपि कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिः दृष्टोऽप्यमङ्गल इति कृत्वा । ननु प्रतिषिद्धैव प्राणिहिंसा 'अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति ; कृकलासस्य- -- क. १५.] प्रथमोऽध्यायः । बाढं प्रतिषिद्धा, तथापि न अमावास्याया अन्यत्र प्रतिप्र- सवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥ यो वै स संवत्सरः प्रजापतिः षोडश. • कलोऽयमेव स योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य षो- डशी कला स वित्तेनैवा च पूर्यतेऽप च क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वि- तं तस्माद्यद्यपि सर्वज्यानिं जीयत आ- त्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः, स नैव अत्यन्तं परोक्षो मन्तव्यः यस्मादयमेव स प्रत्यक्ष उपलभ्यते ; कोऽसावयम् ? यो यथोक्तं त्र्यन्नात्मकं प्रजापति- मात्मभूतं वेत्तिस एवंवित्पुरुषः ; केन सामान्येन प्रजापति - रिति तदुच्यते — तस्य एवंविदः पुरुषस्य गवादिवित्तमेव पञ्चदश कलाः, उपचयापचयधर्मित्वात्- वित्तसाध्यं च कर्म ; तस्य कृत्स्नतायै- आत्मैव पिण्ड एव अस्य विदुषः षोडशी कला ध्रुवस्थानीया; स चन्द्रवत् वित्तेनैव आपूर्यते बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. च अपक्षीयते च ; तदेतत् लोके प्रसिद्धम् ; तदेतत् नभ्यम् नाभ्यै हितं नभ्यम् नाभि वा अर्हतीति- किं तत् ? यदयं योऽयम् आत्मा पिण्डः ; प्रधिः वित्तं परिवारस्थानीयं बाह्यम् - चक्रस्येवारनेम्यादि । तस्मात् यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्र- नाभिस्थानीयेन चेत् यदि जीवति, प्रधिना बाह्येन परिवा रेण अयम् अगात् क्षीणोऽयम् - यथा चक्रमरनेमिविमुक्तम्- एवमाहुः ; जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्राय: ॥ एवं पाङ्केन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मक : प्रजापतिर्भवतीति व्याख्यातम् ; अनन्तरं च जायादिवित्तं परिवार स्थानीयमित्युक्तम् । तत्र पुत्रकर्मापरविद्यानां लोक- प्राप्तिसाधनत्वमात्रं सामान्येनावगतम् न पुत्रादीनां लोक- प्राप्तिफलं प्रति विशेषसंबन्धनियमः । सोऽयं पुत्रादीनां साधनानां साध्यविशेषसंबन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते— अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्य- लोकः पुत्रेणैव जय्यो नान्येन कर्मणा क. १७.] प्रथमोऽध्यायः । कर्मणा पितृलोको विद्यया देवलोको दे- वलोको वै लोकाना श्रेष्ठस्तस्माद्विद्यां प्रशसन्ति ॥ १६ ॥ अथेति वाक्योपन्यासार्थः । वय:- वावेत्यवधारणार्थ:- त्रय,एव शास्त्रोक्तसाधना लोका:, न न्यूना - नाधिका वा के त इत्युच्यते - मनुष्यलोकः पितृलोको देवलोक इति । तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यः जेतव्यः साध्य:-यथा च पुत्त्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः - नान्येन कर्मणा, विद्यया बेति वाक्यशेषः । कर्मणा अग्निहोत्रादि- लक्षणेन केवलेन पितृलोको जेतव्यः, न पुत्रेण नापि विद्य- या । विद्यया देवलोक:, न पुत्रेण नापि कर्मणा । देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ; तस्मात् तत्साधन- त्वात् विद्यां प्रशंसन्ति ॥ अथातः संप्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किंचानूक्तं तस्य सर्वस्य ब्रह्म- त्येकता। ये वै के च यज्ञास्तेषाः सर्वे- 1 • बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. षां यज्ञ इत्येकता ये वै के च लोकास्तेषा सर्वेषां लोक इत्येकतैतावद्वा इदं सर्वमे- तन्मा सर्व५ सन्नयमितोऽभुनजदिति तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादे- नमनुशासति स यदैवंविदस्माल्लोकात्मैः त्यथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किंचिदक्ष्णयाकृतं भवति तस्मा- देन सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्लो नाम स पुत्रेणैवास्मिँल्लोके प्रतितिष्ठत्यथै- नमेते देवाः प्राणा अमृता आविशन्ति ॥ एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मवि- द्याख्यानि त्रीणि साधनानि जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथक् नाभिहिता; वित्तं च कर्मसाधन- त्वान्न पृथक्साधनम् ; विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्म- प्रतिलाभेनैव भवतीति प्रसिद्धम् पुत्रस्य तु अक्रियात्म- कत्वात् केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते; अत- स्तद्वक्तव्यमिति अथ अनन्तरमारभ्यते- संप्रत्तिः संप्रदा- नम् ; ----- संप्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम्; पुत्रे हि क. १७.] प्रथमोऽध्यायः । स्वात्मव्यापारसंप्रदानं करोति अनेन प्रकारेण पिता, तेन संप्रत्तिसंज्ञकमिदं कर्म । तत् कस्मिन्काले कर्तव्यमित्याह , - स पिता यदा यस्मिन्काले ग्रैष्यन् मरिष्यन् मरिष्यामी- त्यरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रमाहूयाह- त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति । स एवमुक्तः पुत्रः प्रत्याह; स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्त - व्यमिति; तेनाह--- अहं ब्रह्म अहं यज्ञ: अहं लोक इति एतद्वाक्यत्त्रयम्। एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्या- ख्यानाय प्रवर्तते — यद्वै किंच यत्किंच अवशिष्टम् अनू- क्तम् अधीतमनधीतं च तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे एक- ता एकत्वम् ; योऽध्ययनव्यापारो मम कर्तव्य आसीदेता- वन्तं कालं वेदविषयः, सः इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृको - sस्त्वित्यर्थः : । तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च तेषां सर्वेषां यज्ञ इत्येतस्मि- पद एकता एकत्वम्; मत्कर्तृका यज्ञा य आसन्, ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः । ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च तेषां सर्वेषां लोक इत्येतस्मिन्पद् एकता; इत ऊर्ध्वं त्वं लोक: त्वया जेतव्यास्ते । इत ऊर्ध्वं मया अध्ययनयज्ञलोकजयकर्त उपक्र- S. B. U. 13 ' , बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. तुस्त्वयि समर्पित, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनवि- षयात्क्रतोः । स च सर्वे तथैव प्रतिपन्नवान्पुत्रः अनुशिष्टत्वात् । तत्र इमं पितुरभिप्रायं मन्वाना आचष्टे श्रुतिः - एतावत् एतत्परिमाणं वै इदं सर्वम् - यहिणा कर्तव्यम्, यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्या: ; एतन्मा सर्वे सन्नयम् -- सर्वं हि इमं भारं मदधीनं मत्तोऽपच्छिद्य आत्मनि निधाय इतः अस्माल्लोकात् मा माम् अभुनजत् पालयिष्यतीति —— ऌडर्थे लङ्, छन्दसि कालनियमाभा- वात् । यस्मादेवं संपन्नः पुत्रः पितरम् अस्माल्लोकात्कर्तव्य- ताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोक- हितं पितु: आहुर्ब्राह्मणा: । अत एव ह्येनं पुत्रमनुशासति - लोक्योऽयं नः स्यादिति - पितरः । स पिता यदा यस्मि - न्काले एवंवित् पुत्रसमर्पितकर्तव्यताक्रतुः अस्माल्लोकात् प्रैति म्रियते, अथ तदा एभिरेव प्रकृतैर्वायनः प्राणैः पुत्रमाविश- ति पुत्रं व्याप्नोति । अध्यात्मपरिच्छेदहेत्वपगमात् पितुर्वा- ङ्मनः प्राणाः स्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्या- त्मना भिन्नघटप्रदीपप्रकाशवत् सर्वम् आविशन्ति ; तै: प्रा- णैः सह पितापि आविशति वाङ्मन: प्राणात्मभावित्वा- त्पितुः ; अहमस्म्यनन्ता वाङ्मनः प्राणा अध्यात्मादिभेदवि क्र. १७.] - प्रथमोऽध्यायः । - स्तारा:- इत्येवंभावितो हि पिता; तस्मात् प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् - एभिरेव प्राणैः सह पुत्रमावि - शतीति ; सर्वेषां ह्यसावात्मा भवति पुत्रस्य च । एतदुक्तं भ- वति- -यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तले पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थः ; तथा च श्रुत्य- न्तरे -- ' सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रति- धीयते' इति । अथेदानीं पुत्रनिर्वचनमाह- म पुत्र: यदि कदाचित् अनेन पित्रा अक्ष्णया कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम्, तस्मात् कर्तव्यतारूपात्पित्रा अकृतान् स- स्माल्लोकप्रातिप्रतिबन्धरूपात पुत्रो मुञ्चति मोचयति तत्सर्व स्वयमनुतिष्ठन्पूरयित्वा ; तस्मात् पूरणेन त्रायते स पितरं यस्मात्, तस्मात्, पुत्रो नाम ; इदं तत्पुत्रस्य पुत्रत्वम- यत्पितुश्छिद्रं पूरयित्वा त्रायते । स पिता एवंविधेन पुत्रेण मृतोऽपि सन अमृत: अस्मिन्नेव लोके प्रतितिष्ठति एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति; न तथा विद्या- कर्मभ्यां देवलोक पितृलोकौ स्वरूपलाभसत्तामात्रेण ; न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवत् व्यापारान्तरा- पेक्षया लोकजयहेतुत्वं प्रतिपद्येते । अथ कृतसंप्रत्तिकं पित- रम् एनम् एते वागादयः प्राणाः देवा: हैरण्यगर्भाः बृहदारण्यकोपनिषद्भाष्ये मृता: अमरणधर्माण आविशन्ति ॥ [बा. ५. पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्त- वति ॥ १८ ॥ कथमिति वक्ष्यति - पृथिव्यै चैनमित्यादि । एवं पुत्र- कर्मापरविद्यानां मनुष्यलोक पितृलोकदेवलोक साध्यार्थता प्र- दर्शिता श्रुत्या स्वयमेव ; अत्र केचिद्वावदूका: श्रुत्युक्तविशे- षार्थानभिज्ञाः सन्तः पुत्रादिसाधनानां मोक्षार्थतां वदन्ति ; तेषां मुखापिधानं श्रुत्येदं कृतम् - जाया मे स्यादित्यादि पाङ्कं काम्यं कर्मेत्युपक्रमेण, पुत्रादीनां च साध्यविशेषवि - नियोगोपसंहारेण च तस्मात् ऋणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम् ; वक्ष्यति च - " किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक:' इति ॥ केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोका- भ्यां व्यावृत्तिरेव ; तस्मात् पुत्रकर्मापरविद्याभिः समुच्चित्या- नुष्ठिताभि: त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्म- विज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रा - दिसाधनानि इच्छन्ति ; तेषामपि मुखापिधानाय इयमेव श्रुतिरुत्तरा कृतसंप्रत्तिकस्य पुत्रिणः कर्मिण: त्र्यन्नात्मविद्या- क. १९.] प्रथमोऽध्यायः । विदः फलप्रदर्शनाय प्रवृत्ता । न च इदमेव फलं मोक्षफलमि- ति शक्यं वक्तुम्, त्र्यन्नसंबन्धात् मेधातपः कार्यत्वाच्चान्नानाम् पुनः पुनर्जनयत इति दर्शनात् ' यद्वैतन्न कुर्यात्क्षीयेत ह' इति च क्षयश्रवणात्, शरीरम् ज्योतीरूपमिति च कार्य- करप्रात्वोपपत्तेः, 'त्रयं वा इदम्' इति च नामरूपकर्मा- त्मकत्वेनोपसंहारात् । न च इदमेव साधनत्रयं संहतं सत् कस्यचिन्मोक्षार्थं कस्यचित् त्र्यन्नात्मफलमित्यस्मादेव वाक्या- दवगन्तुं शक्यम्, पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैव उपक्षीणत्वाद्वाक्यस्य ॥ पृथिव्यै पृथिव्याः च एनम् अग्नेश्च दैवी अधिदैवात्मि- का वाक् एनं कृतसंप्रत्तिकम् आविशति ; सर्वेषां हि वाच उपादानभूता देवी वाक् पृथिव्यग्निलक्षणा ; सा ह्याध्यात्मि- कासङ्गादिदोषैर्निरुद्धा । विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकं प्रदीपप्रकाशवच व्याप्नोति तदेतदुच्यते - पृथि व्या अग्नेश्चैनं दैवी वागाविशतीति । मा च दैवी वाक् अ- नृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्म- ने परस्मै वा वदति तत्तत् भवति -अमोघा अप्रतिबद्धा अ- स्य वाग्भवतीत्यर्थः ॥ — दिवश्चैनमादित्याच्च दैवं मन आवि बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. शति तद्वै दैवं मनो येनानन्द्येव भव- त्यथो न शोचति ॥ १९ ॥ तथा दिवश्चैनमादित्याच्च देवं मन आविशति — तश्व दैवं मनः, स्वभावनिर्मलत्वात् ; येन मनसा असौ आन- न्द्येव भवति सुख्येव भवति ; अथो अपि न शोचति, शो- कादिनिमित्तासंयोगात् ॥ • अद्भयचैनं चन्द्रमसश्च दैवः प्राण आ- विशति स वै देवः प्राणो यः संचर- श्वसंचरश्च न व्यथतेऽथो न रिष्यति स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैव स यथैतां देवता स- र्वाणि भूतान्यवन्त्यैव हैवंविद‍ सर्वा- णि भूतान्यवन्ति । यदु किंचेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेवामुं ग- च्छति न ह वै देवान्पापं गच्छति ॥ २०॥ तथा अद्भयश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । सबै देवः प्राणः किंलक्षण इत्युच्यते - य: संचरन् प्राणि- : क. २०.] प्रथमोऽध्यायः । - भेदेषु असंचरन् समष्टिव्यष्टिरूपेण अथवा संचरन् जङ्ग- मेषु असंचरन्स्थावरेषु न व्यथते न दुःखनिमित्तेन भयेन युज्यते ; अथो अपि न रिष्यति न विनश्यति न हिंसा- मापद्यते । सः- यो यथोक्तमेवं वेत्ति त्र्यन्नात्मदर्शनं स:- सर्वेषां भूतानामात्मा भवति, सर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां भूतानां वाग्भवति - इत्येवं सर्वभूतात्मतया सर्वज्ञो भवतीत्यर्थः सर्वकृञ्च । यथैषा पूर्वसिद्धा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्वे वा क्वचित्प्रतिघात: ; स इति दान्तिक निर्देशः । किंच य- थैतां हिरण्यगर्भदेवताम् इज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूजयन्ति एवं ह एवंविदं सर्वाणि भूतान्यव- न्ति - इज्यादिलक्षणां पूजां सततं प्रयुञ्जत इत्यर्थः ॥ - अथेदमाशङ्कयते- सर्वप्राणिनामात्मा भवतीत्युक्तम् ; तम्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सं- बध्येतेति - तन्न । अपरिच्छन्न बुद्धित्वात् परिच्छिन्नात्मबु- द्धीनां ह्याक्रोशादौ दुःखसंबन्धो दृष्टः अनेनाहमात्रुष्ट इति ; अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति तयो - रात्मत्वबुद्धिविशेषाभावात् न तन्निमित्तं दुःखमुपपद्यते । मरणदुःखवच्च निमित्ताभावात् — यथा हि कस्मिंश्चिन्मृते बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. - कस्यचिद्दुःखमुत्पद्यते - ममासौ पुत्री भ्राता चेति पुत्रा- दिनिमित्तम्, तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःख- मुपजायते, तथा ईश्वरस्यापि अपरिच्छिन्नात्मनो ममतवता- दिदु:खनिमित्तमिथ्याज्ञानादिदोषाभावात् नैव दुःखमुपजा- यते । तदेतदुच्यते--यदु किंच यत्किंच इमाः प्रजाः शोच- न्ति अमैव सहैव प्रजाभिः तच्छोकादिनिमित्तं दुःखं संयुक्तं भवति आसां प्रजानाम् परिच्छिन्न बुद्धिजनितत्वात्; सर्वा- त्मनस्तु केन सह किं संयुक्तं भवेत् वियुक्तं वा । अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेव फलमभिप्रेतं पुण्यमिति - निरतिशयं हि तेन पुण्यं कृतम् तेन तत्फल- मेव गच्छति ; न ह वै देवान्पापं गच्छति, पापफलस्यावस- राभावात्- पापफलं दुःखं न गच्छतीत्यर्थः ॥ त एते सर्व एव समा: सर्वेऽनन्ताः इत्यविशेषेण वाङ्मन:प्राणानामुपासनमुक्तम्, न अन्यतमगतो विशेष किमेवमेव प्रतिपत्तव्यम, किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतिपत्तुं शक्यत इत्यु- उक्तः ; च्यते- - अथातो व्रतमीमासा प्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्ये- क. २१.] प्रथमोऽध्यायः । नास्पर्धन्त वदिष्याम्येवाहमिति वाग्दधे द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमि- ति श्रोतमेवमन्यानि कर्माणि यथाकर्म तानि मृत्युः श्रमो भूत्वोपयेमे तान्या- मोत्तान्यात्वा मृत्युरवारुन्ध तस्माच्छ्रा- म्यत्येव वाक्श्राम्यति चक्षुः श्राम्यति श्रोतमथेममेव नाशोद्योऽयं मध्यमः प्रा- स्तानि ज्ञातुं दधिरे । अयं वै नः श्रेष्ठो यः संचरँश्चासंचरश्च न व्यथतेऽथो न रिष्यति हन्तास्यैव सर्वे रूपमसामे- तित एतस्यैव सर्वे रूपमभवस्तस्मा- देत एतेनाख्यायन्ते प्राणा इति तेन ह वाव तत्कुलमाचक्षते यस्मिन्कुले भव- ति य एवं वेद य उ हैवंविदा स्पर्धते- ऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इ- त्यध्यात्मम् ॥ २१ ॥ अथातः अनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः ; - बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते । तत्र प्रजापतिः ह - ह-शब्दः किलार्थे - प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि - कर्मा - र्थानि हि तानीति कर्माणीत्युच्यन्ते- ससृजे सृष्टवान् वा गादीनि करणानीत्यर्थः । तानि पुनः सृष्टानि अन्योन्येन इतरेतरम् अस्पर्धन्त स्पर्धा संघर्ष चक्रुः; कथम्? वदि- व्याम्येव स्वव्यापाराद्वदनादनुपरतैव अहं खामिति वातं दध्रे धृतवती — यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनु- परन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति; तथा द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम् ; एवम- न्यानि कर्माणि करणानि यथाकर्म- यत् यत् यस्य कर्म यथाकर्म- तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे संजग्राह । कथम् ? तानि करणानि स्वव्यापारे प्रवृ- तानि आप्नोत् श्रमरूपेण आत्मानं दर्शितवान्; आप्त्वा च तानि अवारुन्ध अवरोधं कृतवान्मृत्युः -- स्वकर्मभ्यः प्रच्या- वितवानित्यर्थः । तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक् श्राम्यत्येव श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्य- वते; तथा श्राम्यति चक्षुः ; श्राम्यति श्रोत्रम् । अथेममेव मुख्यं प्राणं न आप्नोत् न प्राप्तवान्मृत्युः श्रमरूपी - योऽयं क. २१.] मध्यमः प्रथमोऽध्यायः । प्राणः तम् । तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते । तानीतराणि करणानि तं ज्ञातुं दधिरे धृतवन्ति मनः ; अयं वै नः अस्माकं मध्ये श्रेष्ठः प्रशस्यतमः अभ्यधिकः, यस्मात् यः संचरंश्चासंचरंश्च न व्यथते, अथो न रिष्यति - हन्त इदानीमस्यैव प्राणस्य सर्वे वयं रूपम- साम प्राणमात्मत्वेन प्रतिपद्येमहि - एवं विनिश्चित्य ते एत्- स्यैव सर्वे रूपमभवन् प्राणरूपमेव आत्मत्वेन प्रतिपन्ना: प्रा- व्रतमेव दधिरे - अस्मद्रतानि न मृत्योर्वारणाय पर्याप्तानीति । यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मना ; न हि प्राणादन्यत्र चलनात्मकत्वो- पपत्ति:; चलन व्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते- तस्मान् एते वागादयः एतेन प्राणाभिधानेन आख्यायन्ते अभिधीयन्ते- - प्राणा इत्येवम् । य एवं प्राणा- त्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः, यस्मिन्कुले स विद्वान् जातो भवति - तत्कुलं विद्वन्नान्नैव प्रथितं भव- ति- अमुष्येदं कुलमिति - यथा तापत्य इति । य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च तस्यैतत्फलम् । किंच यः कश्चित् उ ह एवंविदा प्राणात्मदर्शिना स्पर्धेत त- - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. त्प्रतिपक्षी सन् सः अस्मिन्नेव शरीरे अनुशुष्यति शोषमु- पगच्छति ; अनुशुष्य व शोषं गत्वैव अन्ततः अन्ते त्रि- यते, न सहसा अनुपद्रुतो म्रियते । इत्येवमुक्तमध्यात्मं प्राणात्मदर्शनमिति उक्तोपसंहारः अधिदैवतप्रदर्शनार्थः ॥ अधाधिदैवतं ज्वलिष्याम्ये वाहमित्य- निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्या- म्यहमिति चन्द्रमा एवमन्या देवता य- थादैवत स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुम्लोच- न्ति धन्या देवता न वायुः सैषानस्त- मिता देवता यद्वायुः ॥ २२ ॥ अथ अनन्तरम् अधिदैवतं देवताविषयं दर्शनमुच्यते । कस्य देवताविशेषस्य व्रतधारणं श्रेय इति मीमांस्यते अध्यात्मवत्सर्वम् । ज्वलिष्याम्येवाहमित्यभिर्दध्रे ; तप्स्याम्यह- मित्यादित्यः ; भास्याम्यहमिति चन्द्रमाः ; एवमन्या देवता यथादैवतम् । सः अध्यात्मं वागादीनामेषां प्राणानां मध्ये मध्यमः प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावित: स्वेन प्राणव्रतेनाभग्नव्रतो यथा, एवम् एतासामग्न्यादीनां क. २३.] प्रथमोऽध्यायः । देवतानां वायुरपि । म्लोचन्ति अस्तं यन्ति स्वकर्मभ्य उपरमन्ते - यथा अध्यात्मं वागादयोऽन्या देवता अ- ग्न्याद्या: ; न वायुरस्तं याति - यथा मध्यमः प्राण: ; अत: सैषा अनस्तमिता देवता यद्वायुः योऽयं वायुः । एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् - प्राणवा य्वात्मनोर्व्रतमभग्नमिति ॥ अथैष श्लोको भवति यतश्वोदेति सू- योsस्तं यत्र च गच्छतीति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्म- स एवाद्य स उश्व इति यद्वा एतेऽमुर्ह्य- प्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मादेक- मेव व्रतं चरेत्प्राण्याचैवापान्याच्च नेन्मा पामा मृत्युराप्नुवदिति यद्यु चरेत्समा- पिपयिषेत्तेनो एतस्यै देवतायै सायुज्य‍ सलोकतां जयति ॥ २३ ॥ इति पञ्चमं ब्राह्मणम् ॥ । अथैतस्यैवार्थस्य प्रकाशकः एष श्लोको मत्रो भवति । यतश्च यस्माद्वायोः उदेति उद्गच्छति सूर्य:, अध्यात्मं च ---- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. चक्षुरात्मना प्राणात्- अस्तं च यत्र वायौ प्राणे च गच्छति अपरसंध्यासमये स्वापसमये च पुरुषस्य - तं देवाः तं धर्मं देवाः चक्रिरे धृतवन्तः वागादयोऽग्न्याद- यश्व प्राणव्रतं वायुव्रतं च पुरा विचार्य । स एव अद्य इदानीं श्वोऽपि भविष्यत्यपि काले अनुवर्त्यते अनुवर्ति ते च देवैरित्यभिप्रायः । तत्रेमं मन्त्रं संक्षेपतो व्या- चष्टे ब्राह्मणम् - प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोऽर्थ इत्यु- च्यते यत् वै एते. व्रतम् अमुर्हि अमुष्मिन्काले वागाद- योऽग्न्यादयश्च प्राणव्रतं वायुव्रतं च अभियन्त, तदेवाद्यापि कुर्वन्ति अनुवर्तन्ते अनुवर्तिष्यन्ते च ; व्रतं तयोरभग्नमेव । यत्तु वागादिव्रतम् अग्न्यादिव्रतं च तद्भनमेव, तेषाम् अस्तमयकाले स्वापकाले च वायौ प्राणे च निम्लुक्तिदर्श- नात् । अथैतदन्यत्रोक्तम्- 'यदा वै पुरुष: स्वपिति प्रा- णं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुः प्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधि- दैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति तस्मा- देनमुदवासीदित्याहुर्वायुं ह्यनूद्वाति यदादित्योऽस्तमेति वा - युं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठि- क. २३.] प्रथमोऽध्यायः । ' ता वायोरेवाधि पुनर्जायन्ते ' इति । यस्मात् एतदेव व्रतं वागादिषु अग्न्यादिषु च अनुगतं यदेतत् वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वैः देवैरनुवर्त्यमानं व्रतम् - तस्मात् अन्योऽप्येकमेव व्रतं चरेत् किं तत् ? प्राण्यात् प्राणनव्यापारं कुर्यात् अपान्यात् अपाननव्यापारं च; न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्यो परमोऽस्ति ; तस्मात्तदेव एकं व्रतं चरेत् हित्वेन्द्रियान्तरव्यापारम् - नेत मा मां पादमा मृत्युः श्रमरूपी आप्नुवत आप्नुयात्- नेच्छ- ब्दः परिभये - यद्यहमस्माद्रतात्प्रच्युतः स्याम् ग्रस्त एवाहं मृत्युनेत्येवं त्रस्तां धारयेत्प्राणव्रतमित्यभिप्राय: । यदि कदा- चित उ चरेत् प्रारभेत प्राणव्रतम्, समापिपयिषेत् समाप- यितुमिच्छेत् यदि हि अस्माद्रतादुपरमेत प्राणः परिभूतः स्यात् देवाश्च; तस्मात्समापयेदेव । तेन उ तेन अनेन व्रतन प्राणात्मप्रतिपत्त्या सर्वभूतेषु - वागादय: अग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावम् एकात्मत्वं सलोकतां समानलोकतां वा एकस्था- नत्वम् - विज्ञानमान्द्यापेक्षमेतत् - जयति प्राप्नोतीति ॥ ; इति प्रथमाध्यायस्य पञ्चमं ब्राह्मणम् ॥ * षष्ठं ब्राह्मणम् ॥ त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि ना- मान्युतिष्ठन्ति । एतदेषाँ सामैतद्धि स वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वा णि नामानि बिभर्ति ॥ १ ॥ - ' यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्या- कृतं जगत् प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम् या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या - वृक्षबीजवत् स- र्वमेतत् त्रयम्; किं तन्त्रयमित्युच्यते - नाम रूपं कर्म चेति अनात्मैव न आत्मा यत्साक्षादपरोक्षाद्ब्रह्म; तस्मादस्मा- द्विरज्येतेत्येवमर्थः त्रयं वा इत्याद्यारम्भः । न ह्यस्मात् अ- नात्मन: अव्यावृत्तचित्तस्य आत्मानमेव लोकम् अहं ब्रह्मा- स्मीत्युपासितुं बुद्धिः प्रवर्तते, बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधा- त् । तथा च काठके - 'पराश्चि खानि व्यतृणत्स्वयं भूत- स्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमै- क्षदावृत्तचक्षुरमृतत्वमिच्छन ' इत्यादि ॥ क. १.] प्रथमोऽध्यायः । कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारक फला- त्मन: संसारस्य नोमरूपकर्मात्मकतैव, न पुनरात्मत्वम्- इत्येतत्संभावयितुं शक्यत इति । अत्रोच्यते - तेषां नाम्नां यथोपन्यस्तानाम् — वागिति शब्दसामान्य मुच्यते, 'यः कश्च शब्दो वागेव सा' इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थ: शब्दसामान्यमात्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम्, सैन्धवलवणकणानामिव सैन्धवाचलः ; तदाह - अतो हि अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञ- दत्तो देवदत्त इत्येवमादिप्रविभागानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणा: ; कार्ये च कारणे- नाव्यतिरिक्तम् । तथा विशेषाणां च सामान्येऽन्तर्भावात्- कथं सामान्यविशेषभाव इति - एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामान्यमि- त्यर्थः ; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः स- मम् । किंच आत्मलाभाविशेषाञ्च नामविशेषाणाम् - यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा; कथं नामविशेषाणामात्मलाभो वाच इत्यु- च्यते यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम्, शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ; - S. B. U. 14 " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. तत्प्रतिपादयति- एतत् शब्दसामान्यं हि यस्मात् शब्दविशे- पान सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन । एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदा- नोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तर- योरपि सर्व योज्यं यथोक्तम् ॥ अथ रूपाणां चक्षुरित्येतदेषामुक्थ- मतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदे- षाँ सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्मेतद्धि सर्वाणि रूपाणि बिभर्ति ॥ २ ॥ अथेदानीं रूपाणां सितासितप्रभृतीनाम् - चक्षुरिति चक्षु- विषयसामान्यं चक्षुः शब्दाभिधेयं रूपसामान्यं प्रकाश्यमा - त्रमभिधीयते । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति एतदेषां साम, एतद्धि सर्वै रूपैः समम, एतदेषां ब्रह्म, एतद्धि स र्वाणि रूपाणि बिभर्ति ॥ अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युतिष्ठन्त्येतदेषा सा मैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मै- तद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्र- क. २.] प्रथमोऽध्यायः । य‍ सदेकमयमांत्मात्मो एकः सन्नतयं तदेतदमृतं सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राण- इछन्नः ॥ इति षष्ठं ब्राह्मणम् ॥ अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चल- नात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते ; कथम् ; सर्वेषां कर्मविशेषाणाम्, आत्मा शरीरम् सामान्यम् आत्मा - आत्मन: कर्म आत्मेत्युच्यते ; आत्मना हि शरीरेण कर्म करोति - इत्युक्तम् ; शरीरे च सर्व कर्माभिव्यज्यते ; अतः तात्स्ध्यात् तच्छब्दं कर्म — कर्मसामान्यमात्रं सर्वेषामु- क्थमित्यादि पूर्ववत् । तदेतद्यथोक्तं नाम रूपं कर्म त्रयम् इतरेतराश्रयम् इतरेतराभिव्यक्तिकारणम् इतरेतरप्रलयम् सं- हतम् - त्रिदण्डविष्टम्भवत् - सत् एकम् । केनात्मनैकत्वमि - त्युच्यते--- अयमात्मा अयं पिण्डः कार्यकरणात्म संघातः तथा अन्ये व्याख्यातः - ' एतन्मयो वा अयमात्मा' इत्या- दिना; एतावद्धीदं सर्वे व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति ; आत्मा उ एकोऽयं कार्यकरणसंघातः सन् बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. अध्यात्माधिभूताधिदैव भावेन व्यवस्थितम् एतदेव त्रयं नाम रूपं कर्मेति । तदेतत् वक्ष्यमाणम्; अमृतं सत्त्येन च्छन्न- मित्येतस्य वाक्स्यार्थमाह- प्राणो वा अमृतम् करणात्मक: अन्तरुपष्टम्भकः आत्मभूत: अमृत: अविनाशी ; नामरूपे सत्यं कार्यात्मके शरीरावस्थे; क्रियात्मकस्तु प्राण: तयो- रूपष्टम्भकः बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नः अप्रकाशीकृतः । एतदेव संसार सतत्त्वमवि- याविषयं प्रदर्शितम् ; अत ऊर्ध्वं विद्याविषय आत्मा अधि- गन्तव्य इति चतुर्थ आरभ्यते ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये प्रथमोऽध्यायः ॥ श्रीमच्छंकरभगवत्पादविरचितम् बृहदारण्यकोपनिषद्भाष्यम् द्वितीयोऽध्यायः ॥ द्वितीयोऽध्यायः ॥ आ त्मेत्येवोपासीत : तदन्वेषणे च सर्वमन्विष्टं स्यात्; तदेव च आत्म- तत्त्वं सर्वस्मात् प्रेयस्त्वादन्वेष्टव्यम्- आत्मानमेवा वेदहं ब्रह्मास्मीति - आ त्मतत्त्वमेकं विद्याविषयः । यस्तु भेद- दृष्टिविषयः सः - अन्योऽसावन्यो ऽह- मस्मीति न स वेदेति- अविद्याविषय: । ' एकधैवानुद्रष्टव्यम् ' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्येवमा- दिभिः प्रविभक्तौ विद्याविद्याविषयौ सर्वोपनिषत्सु । तत्र च अविद्याविषयः सर्व एव साध्यसाधनादिभेद विशेषविनियो- गेन व्याख्यातः आ तृतीयाध्यायपरिसमाप्तेः । स च व्या- ख्यातोऽविद्याविषयः सर्व एव द्विप्रकार : - अन्तःप्राण उपप्रुम्भको गृहस्येव स्तम्भादिलक्षण: प्रकाशकोऽमृतः, बा- ह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकः तृण- कुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः; तेन रणः - बृहदारण्यकोपनिषद्भाष्ये . [ब्रा. १. स अमृतशब्दवाच्यः प्राणः छन्न इति च उपसंहृतम् । एव च प्राणो बाह्याधारभेदेष्वनेकधा विस्तृतः । प्राण एको देव इत्युच्यते । तस्यैव बाह्यः पिण्ड एकः साधा- - विराट् वैश्वानरः आत्मा पुरुषविधः प्रजापतिः कः हिरण्यगर्भः – इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सू- र्यादिप्रविभक्तकरण: । एकं च अनेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत् कर्तृ भोक्तृ च-इति अविद्याविषयमेव आत्मत्वेनोपगतो गा- र्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते । तद्विपरीतात्मदृक् अजातशत्रुः श्रोता । एवं हि यतः पूर्वपक्ष सिद्धान्ताख्यायिकारूपेण समय- माणोऽर्थः श्रोतुश्चित्तस्य वशमेति विपर्यये हि तर्कशा- स्त्रवत्केवलार्थानुगमवाक्यै: समर्प्यमाणो दुर्विज्ञेयः स्यात् अत्यन्तसूक्ष्मत्वाद्वस्तुनः; तथा च काठके - ' श्रवणायापि बहुभिर्यो न लभ्यः' इत्यादिवाक्यैः सुसंस्कृत देवबुद्धिग- म्यत्वं सामान्यमात्रबुद्धयगम्यत्वं च सप्रपञ्चं दर्शितम् ; ' आचार्यवान्पुरुषो वेद' ' आचार्याद्वैव विद्या' इति च च्छान्दोग्ये ; ' उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: ' इति च गीतासु ; इहापि च शाकल्ययाज्ञवल्क्यसंवादेना- तिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यति — तस्मात् क. १.] द्वितीयोऽध्यायः । लिष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्तुसमर्पणार्थ आरम्भः । आचारविध्युपदेशार्थश्च - एव- माचारवतोर्वक्तृश्रोत्रोराख्यायि कानुगतोऽर्थोऽवगम्यते । केव- तर्कबुद्धिनिषेधार्था च आख्यायिका – ' नैषा तर्केण मति- रापनेया' 'न तर्कशास्त्रदग्धाय' इति श्रुतिस्मृतिभ्याम् । श्रद्धा च ब्रह्मविज्ञाने परमं साधनमित्याख्यायिकार्थ: ; तथा हि गार्ग्याजातशत्रवोरतीव श्रद्धालुता दृश्यत आख्यायिका- ' श्रद्धावाल्लभते ज्ञानम' इति च स्मृतिः ॥ याम ; ॐ । दृप्तबालाकिर्हानूचानो गार्ग्य आस स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति स होवाचाजातशत्रुः सह- स्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥ तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मवित् दृप्तबालाकि :- दृप्तः गर्वित: असम्यग्ब्रह्मवित्त्वादेव - बलाकाया अपत्यं बालाकि, हमश्चासौ बालाकिश्चेति हप्तबालाकि, ह-शब्द ऐतिह्यार्थ आख्यायिकायाम्, अनूचानः अनुवचनसमर्थः वक्ता वाग्मी, गाग्र्यो गोत्रतः, आस बभूव क्वचित्काल- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. विशेषे । स होवाच अजातशत्रुम् अजातशत्रुनामानम् काश्यं काशिराजम् अभिगम्य - ब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं वाणि कथयानि । स एवमुक्तोऽजातशत्रुरुवाच - सहस्रं गवां दद्म: एतस्यां वाचि - यां मां प्रत्यवोचः ब्रह्म ते ब्र- वाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभि- प्रायः । साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सह- दाने, ब्रह्म ते ब्रवाणीति इयमेव तु वाक् निमित्तमपेक्ष्यत इत्युच्यते - यत: श्रुतिरेव राज्ञोऽभिप्रायमाह - जनको दाता जनकः श्रोतेति च एतस्मिन्वाक्यद्वये पदद्वयमभ्य- स्यते जनको जनक इति वै शब्द: प्रसिद्धावद्योतनार्थः ; i ; जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षव: प्रतिजिघृश्वश्च जनाः धावन्ति अभिगच्छन्ति ; तस्मात् त- सर्व मय्यपि संभावितवानसीति ॥ स होवाच गार्यो य एवासावादि- त्ये पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति स य एतमेवमु- क. २. ] द्वितीयोऽध्यायः । पास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २ ॥ एवं राजानं शुश्रूषुम् अभिमुखीभूतं स होवाच गार्ग्य: य एव असौ आदित्ये चक्षुषि च एक: अभिमानी चक्षुर्द्धारेण इह हृदि प्रविष्टः अहं भोक्ता कर्ता चेत्यव - स्थितः - एतमेव अहं ब्रह्म पश्यामि अस्मिन्कार्यकरणसं- घाते उपासे; तस्मात् तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीमि उपास्स्वेति । स एवमुक्तः प्रत्युवाच अजातशत्रुः मा मेति हस्तेन विनिवारयन् — एतस्मिन् ब्रह्मणि विज्ञेये मा संव- दिष्ठा: ; मा मेत्याबाधनार्थं द्विर्वचनम् - एवं समाने विज्ञा- नविषय आवयोः अस्मानविज्ञानवत इव दर्शयता बाधिताः स्यामः, अतो मा संवदिष्ठाः मा संवादं कार्षीः अस्मिन्त्र- ह्मणि ; अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव अथ चेन्मन्यसे - जानीषे त्वं ब्रह्ममात्रम्, न तु तद्विशेषेणोपासनफलानीति- तन्न मन्तव्यम् ; यतः सर्वमेतत् अहं जाने, यद्ब्रवीषि ; कथम् ? अतिष्ठा : अतीत्य भूतानि तिष्ठतीत्यतिष्ठाः सर्वेषां च भूतानां मूर्धा शिरः राजेति वै - राजा दीप्तिगुणोपेतत्वात् एतैर्विशेषणैर्विशिष्ट- मेतद्ब्रह्म अस्मिन्कार्य करणसंघाते कर्तृ भोक्त चेति अहमे- ' - वृहदारण्यकोपनिषद्भाष्ये [ बा. १. तमुपास इति ; फलमप्येवं विशिष्टोपासकस्य - स य एतमे- वमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्ध्ना राजा भवति ; यथागुणोपासनमेव हि फलम् ; ' तं यथा यथोपासते तदेव भवति' इति श्रुतेः ॥ स होवाच गायों य एवासौ चन्द्रे . पुरुष एतमेवाहं ब्रह्मोपास इति स हो - वाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा बृ- हन्पाण्डरवासाः सोमो राजेति वा अह- मेतमुपास इति स य एतमेवमुपास्तेऽ- हरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३ ॥ संवादेन आदित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रम- सि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः । य एवासौ चन्द्रे मनसि च एकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम् । बृहन् महान पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अ- प्शरीरत्वात् चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्य एतमेवाई ब्रह्मोपासे ; यथोक्तगुणं य उपास्ते तस्य अहरहः सुतः सो- क. ५.] द्वितीयोऽध्यायः । मोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे - उभयविधयज्ञानुष्ठानसामर्थ्य भवतीत्यर्थः ; अन्नं च अस्य न क्षीयते अन्नात्मकोपासकस्य ॥ स होवाच गाग्र्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति स होवा- जातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेज, स्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वी ह भवति तेज- स्विनी हास्य प्रजा भवति ॥ ४ ॥ तथा विद्युति त्वचि हृदये च एका देवता; तेजस्वीति विशेषणम् ; तस्यास्तत्फलम- तेजस्वी ह भवति तेजखि- नी हास्य प्रजा भवति - विद्युतां बहुत्वस्याङ्गीकरणात् आ- त्मनि प्रजायां च फलबाहुल्यम् ॥ स होवाच गाग्र्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति स हो - वाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः पू- र्णमप्रवर्तीति वा अहमेतमुपास इति स बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. य एतमेवमुपास्ते पूर्यते प्रजया पशुभि- नस्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५ ॥ तथा आकाशे हृद्याकाशे हृदये च एका देवता ; पूर्णम् अप्रवर्ति चेति विशेषणद्वयम् पूर्णत्वविशेषणफलमिदम्- पूर्यते प्रजया पशुभि:; अप्रवर्तिविशेषणफलम् - नाझ्या- स्माल्लोकात्प्रजेोद्वर्तत इति, प्रजा संतानाविच्छित्तिः ॥ स होवाच गाग्र्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचा - जातशत्रुर्मा मैतस्मिन्संवदिष्ठा इन्द्रो वै- कुण्ठोऽपराजिता सेनेति वा अहमेतमु पास इति भ य एतमेवमुपास्ते जिष्णु- ही पराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥ तथा वायौ प्राणे हृदि च एका देवता ; तस्या विशेषणम्- इन्द्र: परमेश्वरः, वैकुण्ठः अप्रसह्यः, न परैर्जितपूर्वा अपरा- जिता सेना - मरुतां गणत्वप्रसिद्धेः ; उपासनफलमपि- जिष्णुई जयनशील: अपराजिष्णुः न च परैर्जितस्वभावः भवति, अन्यतस्त्यजायी अन्यतम्त्यानां सपत्नानां जयनशीलो भवति ॥ क. ८ . ] प्रथमोऽध्यायः । स होवाच गायों य एवायमग्नौ पु- रुष एतमेवाहं ब्रह्मोपास इति स होवा- चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा विषा- सहिरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते विषासहि भवति विषासहिहस्य प्रजा भवति ॥ ७ ॥ अग्नौ वाचि हृदि च एका देवता; तस्या विशेषणम्- विषासहि: मर्षयिता परेषाम् अग्निबाहुल्यात् फलबाहुल्यं पूर्ववत् ॥ म होवाच गार्ग्यो य एवायमप्सु पुरु- ष एतमेवाहं ब्रह्मोपास इति स होवाचा- जातशत्रुर्मा मैतस्मिन्संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति स य एत- मेवमुपास्ते प्रतिरूप हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ अप्सु रेतसि हृदि च एका देवता; तस्या विशेषणम् - प्रतिरूपः अनुरूप: श्रुतिस्मृत्य प्रतिकूल इत्यर्थः फलम् - बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव - एनमुपगच्छति प्राप्नोति न विपरीतम्, अन्यच्च - अस्मात् तथाविध एवोपजायते ॥ स होवाच गार्ग्यो य एवायमादर्शे पु- रुष एतमेवाहं ब्रह्मोपास इति स होवा- चाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा रोचि :- ष्णुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचि - ष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छ- ति सर्वास्तांनतिरोचते ॥ ९ ॥ आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ, हार्दे च सत्त्व- शुद्धिस्वाभाव्ये च एका देवता; तस्या विशेषणम् - रोचि - ष्णुः दीप्तिस्वभावः ; फलं च तदेव, रोचनाधारबाहुल्या- त्फलबाहुल्यम् ॥ स होवाच गाग्यों य एवायं यन्तं प- श्वाच्छन्दोऽनू देत्येतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवाद - ष्ठा असुरिति वा अहमेतमुपास इति क. ११.] द्वितीयोऽध्यायः । स य एतमेवमुप्रास्ते सर्व५ हैवास्मिँल्लोक आयुरेति नैनं पुरा कालात्प्राणो ज- हाति ॥ १० ॥ यन्तं गच्छन्तं य एवायं शब्द: पश्चात् पृष्ठत: अनूदेति, अध्यात्मं च जीवनहेतुः प्राणः- तमेकीकृत्याह ; असुः प्राणो जीवनहेतुरिति गुणस्तस्य फलम् -- सर्वमायुरस्मिलोक ; एतीति- यथोपात्तं कर्मणा आयुः कर्मफलपरिच्छिन्नकालात् पुरा पूर्व रोगादिभिः पीड्यमानमध्येनं प्राणो न जहाति ॥ स होवाच गार्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति स हो- वाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा द्वि- तीयोऽनपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गुणश्छद्यते ॥ ११ ॥ दिक्षु कर्णयोः हृदि चैका देवता अश्विनौ देवाववियुक्त- स्वभावौ ; गुणस्तस्य द्वितीयवत्त्वम् अनपगत्वम् अवियुक्तता चान्योन्यं दिशामश्विनोश्च एवं धर्मित्वात्; तदेव च फल- मुपासकस्य - गणाविच्छेदः द्वितीयवत्त्वं च ॥ S. B. U. 15 f वृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. स होवाच गार्ग्यो य एवायं छाया- मयः पुरुष एतमेवाहं ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्व५ हैवास्मिँल्लोक आ युरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ छायायां बाह्ये तममि अध्यात्मं च आवरणात्मकेऽज्ञाने हृदि च एका देवता, तस्या विशेषणम् - मृत्युः ; फलं सर्व पूर्ववत् मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥ स होवाच गायों य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति स हो - वाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आ- त्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्म- न्विनी हास्य प्रजा भवति स ह तूष्णी- मास गार्ग्यः ॥ १३ ॥ आत्मनि प्रजापतौ बुद्धौ च हृदि च एका देवता ; क. १४. ] द्वितीयोऽध्यायः । तस्याः आत्मन्वी आत्मवानिति विशेषणम् ; फलम् - आत्म- न्वी ह भवति अत्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति, बुद्धिबहुलत्वात् प्रजायां संपादनमिति विशेषः । स्वयं परिज्ञातत्वेन एवं क्रमेण प्रत्याख्यातेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञान: अप्रतिभासमानोत्तरः तूष्णीमवाक्शिरा आस ॥ स होवाचाजातशत्रुरेतावन्नू ३ इत्ये- तावद्धीति नैतावता विदितं भवतीति स होवाच गार्ग्य उपत्वा यातीति ॥ १४ ॥ तं तथाभूतम् आलक्ष्य गार्ग्य स होवाच अजातशत्रुः- एतावन्नू ३ इति किमेतावद्ब्रह्म निर्ज्ञातम् आहोस्विदधि- कमप्यस्तीति; इतर आह - एतावद्धीति । नैतावता विदितेन ब्रह्म विदितं भवतीत्याह अजातशत्रुः - किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति । किमेतावद्विदितं विदितमेव न भवती- त्युच्यते ? न, फलवद्विज्ञान श्रवणात्; न चार्थवादत्वमेव बा - क्यानामवगन्तुं शक्यम्; अपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते 'अतिष्ठाः सर्वेषां भूतानाम' इत्यादीनि ; तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभ- तानि ; अर्थवादत्वे तदसमञ्जसम् । कथं तर्हि नैतावता बृहदारण्यकोपनिषद्भाष्ये [जा. १. विदितं भवतीति ? नैष दोष:, अधिकृत ापेक्षत्वात् — ब्रह्मोपदे- शार्थ हि शुश्रूषवे अजातशत्रवे अमुख्यब्रह्मवित् गार्ग्यः प्रवृ- त्तः ; स युक्त एव मुख्यब्रह्मविदा अजातशत्रुणा अमुख्यब्रह्म- विद्वायों वक्तुम् - यन्मुख्यं ब्रह्म वक्तुं प्रवृत्त: त्वं तत् न जा- नीष इति ; यद्यमुख्य ब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदा एताव- 'न ब्रूयात्, न किंचिज्ज्ञातं त्वयेत्येवं ब्रूयात् ; तस्माद्भवन्ति एतावन्ति अविद्याविषये ब्रह्माणि; एतावद्विज्ञानद्वारत्वाश्च पर- ब्रह्मविज्ञानस्य युक्तमेव वक्तुम् - नैतावता विदितं भवतीति ; अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं च एषां तृती- येऽध्याये प्रदर्शितम् ; तस्मात् ' नैतावता विदितं भवति' इति ब्रुवता अधिकं ब्रह्म ज्ञातव्यमस्तीति दर्शितं भवति । तश्च अनुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो गार्ग्यः स्वयमेव आह- उप त्वा यानीति - उपगच्छानीति - त्वाम, यथान्यः शिष्यो गुरुम ॥ स होवाचाजातशत्रुः प्रतिलोमं चैत- यद्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्य- तीति व्येव त्वा ज्ञपयिष्यामीति तं पा णावादायोत्तस्थौ तौ ह पुरुष‍ सुप्तमा- जग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृह- क. १५.] द्वितीयोऽध्यायः । न्पाण्डरवासः सोम राजन्निति स नोत- स्थौ तं पाणिनापेषं बोधयांचकार स हो- तस्थौ ॥ १५ ॥ स होवाच अजातशत्रु : --- प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रिय- मनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या - ब्रह्म मे वक्ष्यतीति एतदाचारविधिशास्त्रेषु निषिद्धम् तस्मात् तिष्ठ त्वम् आचार्य एव सन्; विज्ञपयिष्याम्येव त्वामहम् -य- स्मिन्विदिते ब्रह्म विदितं भवति, यत्तम्मुख्यं ब्रह्म वेद्यम् । तं गार्ग्य सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आ- दाय गृहीत्वा उत्तस्थौ उत्थितवान् । तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ । तं च पुरुषं सुतं प्राप्य एतैर्नामभि: - बृहन् पाण्डरवास: सोम राजन्नित्येतैः- आमन्त्रयांचक्रे । एवमामन्त्रयमाणोऽपि स सुप्तः नोत्तस्थौ । तम् अप्रतिबुद्ध्यमानं पाणिना आपे- म् आपिष्य आपिष्य बोधयांचकार प्रतिबोधितवान् । तेन स होत्तस्थौ । तस्माद्यो गार्ग्यणाभिप्रेतः, नासावम्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ॥ । कथं पुनरिदमवगम्यते - सुप्रपुरुषगमनतत्संबोधनानु- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. त्थानै: गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति ? जाग- रितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सं- निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वा - मी भृत्येष्विव राजा संनिहित एव; किं तु भृत्यस्वा- मिनोः गार्ग्याजातशञ्वभिप्रेतयोः यद्विवेकावधारणकारणम्, तत् संकीर्णत्वादनवधारितविशेषम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम्, यश्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम्, तच्च उभयम् इह संकीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुभ- पुरुषगमनम् । ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता - इति नैव निर्णयः स्या- दिति । न, निर्धारित विशेषत्वाद्गार्ग्याभिप्रेतस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृत: वागादिषु अनस्तमित: निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्व अस- पत्नत्वात् बृहन्, यश्च सोमो राजा षोडशकलः, स स्वव्या- पारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्यणाभिप्रेयते तद्विरोधिन: ; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभो- क्तृत्वं ब्रह्मणः । भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; क. १५.] द्वितीयोऽध्यायः । न हि दग्धृस्वभाव: प्रकाशयितृस्वभावः सन् वह्निः तृणोल- पादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रका शयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम्, नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्त शब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत - यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभि- चारेण तद्वत् । तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृम्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्रा- णस्याभोक्तृत्वम् । संबोधनार्थनामविशेषेण संबन्धाग्रहणात् अप्रतिबोध इति चेत् — स्यादेतत्-यथा बहुष्वासीनेषु स्व- नामविशेषेण संबन्धाग्रहणात् मामयं संबोधयतीति शृण्व- नपि संबोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसंबन्धत्वात् प्रा- णो न गृह्णाति संबोधनार्थ शब्दम्, न त्वविज्ञातृत्वादेव- इति चेत् — न, देवताभ्युपगमे अग्रहणानुपपत्ते: ; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युप- गम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना संबन्धोऽवश्यं २:२ वृहदारण्यकोपनिषद्भाष्ये [त्रा. १. ग्रहीतव्य: ; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्न: स्यात् । व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभि: संबोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता ; न च कदाचिदपि बृहत्वादिशब्दैः संबोधितः प्रतिपद्यमानो दृश्यते; तस्मात् अकारणम् अभोक्तृत्वे संबोधनाप्रतिपत्ति- रिति चेत् -- न, तद्वत: तावन्मात्राभिमानानुपपत्तेः ; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते ; तस्मात् प्राणनाम- संबोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राण- स्य 'असाधारणनामसंयोगे ; देवतात्मत्वानभिमानाच्च आत्म- नः । स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत्-- सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि संबोध्यमानः कदाचित्र प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत्-- न, आत्मप्राणयो: सुप्रासुप्तत्ववि- शेषोपपत्तेः; सुषुप्रत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असु. प्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं संबोधनाग्रहणं वा युक्तम् । अप्रसिद्धनामभिः संबोधनमयुक्तमिति चेत्-- क. १५.] द्वितीयोऽध्यायः । सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः संबोधनमयुक्तम्, लौ- किकन्यायापोहात्; तस्मात् भोक्तुरेव सतः प्राणस्याप्रति - पत्तिरिति चेत् — न देवताप्रत्याख्यानार्थत्वात्; केवलसं- बोधनमात्राप्रतिपन्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्या- भोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः संबोधनम्, तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् न हि तत् लौकिकनाम्ना ; संबोधने शक्यं कर्तुम् । प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्क- रणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः । देव- तान्तराभावाश्च ; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत्, न तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, 'सत्येन च्छन्नः प्राणो वा अमृतम्' इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः । एष उ ह्येव सर्वे देवा:, कतम एको देव इति, प्राण:' इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च । तथा करणभेदेष्वनाशङ्का, देहभेदेवि स्मृतिज्ञानेच्छादिप्रतिसंधानानुपपत्तेः न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसंदधाति ' 6 वृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. वा; तस्मात् न करणभेदविषया 'भोक्तृत्वाशङ्का विज्ञान- मात्रविषया वा कदाचिदप्युपपद्यते । ननु संघात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति -- न, आपेषणे विशेषद- र्शनात्; यदि हि प्राणशरीरसंघातमात्रो भोक्ता स्यात् संघात - मावाविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात्; संघातव्यतिरिक्ते तु पुनर्भोक्तरि संघात - संबन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःख- मोहमध्यमाधमोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्त:; न तु संघातमात्रे संबन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः; तथा शब्दादिपटुमान्यादिकृतश्च । अस्ति चायं विशेष: - यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आ- पिष्य आपिष्य बोधयांचकार अजातशत्रुः । तस्मात् यः आ- पेषणेन प्रतिबुबुधे -- ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोध चेष्टाकारविशेषादिमत्त्वेन आपाद- यन् सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् । संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राण: शरीरा- दिभिः संहत इत्यवोचाम - अरनेमिवच्च, नाभिस्थानीय एत- स्मिन्सर्वमिति च; तस्मात् गृहादिवत् स्वावयवसमुदाय- " क. १५.] द्वितीयोऽध्यायः । जातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम । स्तम्भकुड्य तृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापच- यविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्ध सत्तादि तद्विषयद्रष्टृ- श्रोतृमन्तृविज्ञाश्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्संघातस्य च - तथा प्राणाद्यवयवानां तत्संघातस्य च स्वात्मजन्मोपचयाप- चयविनाशनामाकृतिकार्य धर्मनिरपेक्ष लब्धसत्तादि तद्विषयद्- ष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति । देवताचेतनावस्वे समत्वाद्गुणभावानुपगम इति चेत्- प्राणस्य विशिष्टैर्नाम- भिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम् ; चेतनावत्त्वे च पारार्थ्योपगमः : समत्वादनुपपन्न इति चेत् — न निरु- पाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारक फला- मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारो- तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षण: संसारः; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भ:-' ब्रह्म वाणि' ' नैतावता विदितं भवति' इति च उपक्रम्य ' एताव - दरे खल्वमृतत्वम्' इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति; तस्मादनवसरः सम- त्वाद्गुणभावानुपगम इति चोद्यस्य । विशेषवतो हि सोपाधि- पिता ; I व्र- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. कस्य संव्यवहारार्थो गुणगुणिभाव:, न विपरीतस्य ; निरु- पाख्यो हि विजिज्ञापयिषित: सर्वस्यामुपनिषदि, ' स एष नेति नेति' इत्युपसंहारात् । तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥ स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तो- ऽभूद्य एष विज्ञानमयः पुरुषः कैष तदा- भूत्कुत एतदागादिति तदु ह न मेने गार्ग्यः ॥ १६ ॥ स एवम् अजातशत्रुः व्यतिरिक्तात्मास्तित्वं प्रतिपाद्य गार्ग्यमुवाच — यत्र यस्मिन्काले एषः विज्ञानमय: पुरुष: एतत् स्वपनं सुप्तः अभूत् प्राक् पाणिपेषप्रतिबोधात्; वि. ज्ञानम् विज्ञायतेऽनेनेत्यन्तःकरणं बुद्धिः उच्यते, तन्मयः तत्प्रायः विज्ञानमय: ; किं पुनस्तत्प्रायत्वम् ? तस्मिन्नुपल- भ्यत्वम्, तेन चोपलभ्यत्वम्, उपलब्धत्वं च कथं पुन- योऽनेकार्थत्वे प्रायार्थतैव अवगम्यते ? 'स वा अयमा- त्मा ब्रह्म विज्ञानमयो मनोमय:' इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनान परविज्ञानविकारत्वस्याप्रसिद्धत्वात् य एष विज्ञानमय:' इति च प्रसिद्धवदनुवादात् अवयवोपमार्थ- ' क. १७.] द्वितीयोऽध्यायः । , योश्च अत्रासंभवात् पारिशेष्यात् प्रायार्थतैव; तस्मात् संक- ल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत् ; पुरुष:, पुरि शयनात् । तदा अभूदिति प्रश्न: स्वभावविजिज्ञापयिषया - प्राक् प्रतिबोधात् क्रियाकारक फलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम् ; न हि प्राक्प्रतिबोधात्कर्मादिकार्य सुखादि किंचन गृह्यते; तस्मात् अकर्मप्रयुक्तत्वात् तथास्वा -' भाव्यमेव आत्मनोऽवगम्यते - यस्मिन्स्वाभाव्येऽभूत् यत स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति - एतद्वि- वक्षया पृच्छति गार्ग्य प्रतिभानरहितं बुद्धिव्युत्पादनाय । चैष तदाभूत्, कुत एतदागात् - इत्येतदुभयं गायेणैव प्रष्टव्यमा- सीत् तथापि गार्येण न पृष्टमिति नोदास्तेऽजातशत्रुः ; बोधयितव्य एवेति प्रवर्तते, ज्ञापयिष्याम्येवेति प्रतिज्ञात- त्वात् । एवमसौ व्युत्पाद्यमानोऽपि गार्ग्य: - यत्रैष आत्माभूत् प्राक्प्रतिबोधात्, यतश्चैतदागमनमागात् तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा — गार्ग्यो ह न मेने न ज्ञातवान् ॥ स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तो- ऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्रा- णानां विज्ञानेन विज्ञानमादाय य एषोऽ- न्तर्हृदय आकाशस्तस्मिन्छेते तानि यदा बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्- गृहीत एव प्राणो भवति गृहीता वाग्गृ- हीतं चक्षुर्गृहीत श्रोत्रं गृहीतं मनः ॥ स होवाच अजातशत्रुः विवक्षितार्थसमर्पणाय । यत्रैष एतत्सुतोऽभूय एष विज्ञानमयः पुरुषः- कैष तदाभूत्कुत एतदागादिति यदपृच्छाम, तत् शृणु उच्यमानम् — यत्रैष एतत्सुप्रोऽभूत्, तत् तदा तस्मिन्काले एषां वागादीनां प्राणा- नाम, विज्ञानेन अन्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उ- पाधिस्वभावजनितेन, आदाय विज्ञानम् वागादीनां स्वस्ववि- षयगतसामर्थ्य गृहीत्वा य एषः अन्तः मध्ये हृदये हृद- यस्य आकाश:- य आकाशशब्देन पर एव स्व आत्मो- च्यते तस्मिन् स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसां- सारिके; न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात्- ' सता सोम्य तदा संपन्नो भवति' इति ; लिङ्गोपाधि- संबन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः । यदा शरीरे- न्द्रियाध्यक्षतामुत्सृजति तदा अमौ स्वात्मनि वर्तत इति कथमवगम्यते ? नामप्रसिद्धधा; कामौ नामप्रसिद्धि- रित्याह-- तानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृहा- क. १८.] द्वितीयोऽध्यायः ति आदते, अथ तदा. ह एतत्पुरुषः स्वपितिनाम एत- नाम अस्य पुरुषस्य तदा प्रसिद्धं भवति ; गौणमेवास्य नाम भवति ; स्वमेव आत्मानम् अपीति अपिगच्छतीति स्वपिती- त्युच्यते । सत्यं स्वपितीतिनामप्रसिद्धया आत्मन: संसारध- विलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्कयाह- तत् तत्र स्वापकाले गृहीत एव प्राणो भवति ; प्राण इति घ्राणेन्द्रियम्, वागादिप्रकरणात् ; वागादिसंबन्धे हि सति तदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते; वागादयश्च उपसं हृता एव तदा तेन ; कथम् ? गृहीता वाक्, गृहीतं चक्षुः, गृहीतं श्रोत्रम, गृहीतं मनः; तस्मात् उपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात् स्वात्मस्थ एव आत्मा भवती- त्यवगम्यते ॥ स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवत्युतेव म- हाब्राह्मण उतवोच्चावचं निगच्छति स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्ततैवमेवैष एत- प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते - यथा चे जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते च; तस्मात् शोकमोहधर्मवा- नेवायम्; नास्य शोकमोहादयः सुखदुःखादयश्च कार्यक रणसंयोगजनितभ्रान्त्या अध्यारोपिता इति । न, मृषा- त्वात्-- सः प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्ष- या स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते, तदा ह अय लोका: कर्मफलानि - के ते ? तत् तत्र उत अपि महाराज इव भवति ; सोऽयं महाराजत्वमिव अस्य लोक:, न महाराजत्वमेव जागरित इव; तथा महाब्राह्मण इव, उत अपि, उच्चावचम् - उच्चं च देवत्वादि, अवचं च तिर्यक्त्वादि, उच्चमिव अवचमिव च - मृषैव महाराज- त्वादयोऽस्य लोकाः, इव - शब्दप्रयोगात्, व्यभिचारदर्शनाच्च ; तस्मात् न बन्धुवियोगादिजनितशोकमोहादिभिः स्वने संब- ध्यत एव ॥ निगच्छति ननु च यथा जागरिते जाग्रत् कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वनकालभा- विन: स्वप्नकालाव्यभिचारिण आत्मभूता एव, न तु अवि- द्याध्यारोपिता इति - ननु च जाग्रत्कार्यकरणात्मत्वं देवता- क. १८. ] द्वितीयोऽध्यायः । त्मत्वं च अविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्त- विज्ञानमयात्मप्रदर्शनेन प्रदर्शितम्; तत् कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इव उज्जीविष्यन् प्रादुर्भविष्यति - सत्यम्, विज्ञानमये व्यतिरिक्त कार्यकरणदेवतात्मत्व प्रदर्शनम् अवि- द्याध्यारोपितम् - शुक्तिकायामिव रजतत्वदर्शनम् - इत्येत- त्सिध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्वि- शुद्धिपरतयैव न्याय उक्तः इति - असन्नपि दृष्टान्त: जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ; सर्वो हि न्याय: किंचिद्विशेषमपेक्षमाणः अपुनरुक्ती भवति । न तावत्स्वप्नेऽनुभूत महाराजत्वादयो लोका आत्मभूताः, आत्मनोऽन्यस्य जाग्रत्प्रतिबिम्बभूतस्य लोकस्य दर्शनांत् ; महाराज एव तावत् व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन् उपसंहृतकरण: पुनरुपगतप्रकृतिं महाराज - मित्र आत्मानं जागरित इव पश्यति यात्रागतं भुञ्जा- नमिव च भोगान्; न च तस्य महाराजस्य पर्यङ्के शयानात् द्वितीयः अन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ; न च उपसंह- तकरणस्य रूपादिमतो दर्शनमुपपद्यते ; न च देहे देहान्त- रस्य तत्तुल्यस्य संभवोऽस्ति ; देहस्थस्यैव हि स्वप्नदर्शनम् । S. B. U. 16 बृहदारण्यकोपनिषद्भाष्ये " [ब्रा. १. ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यति - न बहि: स्वप्नान्पश्यतीत्येतदाह - सः महाराजः, 'जानपदान् जनपदे भवान राजोपकरणभूतान् भृत्यानन्यांश्च गृहीत्वा उपादाय, स्वे आत्मीय एव जयादिनोपार्जिते जनपदे, यथाकामं यो यः कामोऽस्य यथाकामम् इच्छातो यथा परिवर्तेतेत्यर्थः ; एवमेव एष विज्ञानमयः, एतदिति क्रियाविशेषणम्, प्राणा- गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य, स्वे शरीरे स्व एव देहे न बहि:, यथाकामं परिवर्तते - कामकर्मभ्यामुद्भासिता: पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः । तस्मात् स्व मृषाध्यारोपिता एव आत्मभूतत्वेन लोका अविद्यमाना एव सन्तः जागरितेऽपि - इति प्रत्येतव्यम् । तस्मात् वि ; तथा शुद्धः अक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम् । यस्मात् दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मका: कार्यकरणलक्षणा लोका:, तथा स्वप्नेऽपि, तस्मात् अन्यो- ऽसौ दृश्येभ्य: स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥ दर्शनवृत्तौ स्वप्ने वासनाराशे दृश्यत्वादतद्धर्मतेति विशुद्धता अवगता आत्मन: ; तत्र यथाकामं परिवर्तत इति कामवशात्प- रिवर्तनमुक्तम् ; द्रष्टुर्द्दश्यसंबन्धश्च अस्य स्वाभाविक इत्यशु- क. १९.] द्वितीयोऽध्यायः । द्धता शङ्कयते ; अतस्तद्विशुद्ध्यर्थमाह- अथ यदा सुषुप्तो भवति यदा न क स्वचन वेद हिता नाम नाड्यो द्वासप्स- तिः सहस्राणि हृदयात्पुरीततमभिप्रति- ठते ताभिः प्रत्यवसृष्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महा- ब्राह्मणो वातिनीमानन्दस्य गत्वा श- पीतैवमेवैष एतच्छेते ॥ १९ ॥ - अथ यदा सुषुप्तो भवति- यदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ; अथ पुनः यदा हित्वा दर्शनवृत्ति स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः संप्रसादं स्वाभाव्यं गतः भवति - सलिलमिवान्यसंबन्धकालुष्यं हित्वा स्वाभा- व्येन प्रसीदति । कदा सुषुप्रो भवति ? यदा यस्मिन्काले, न कस्यचन न किंचनेत्यर्थः, वेद विजानाति ; कस्यचन वा शब्दादे: संबन्धिवस्त्वन्तरं किंचन न वेद- इत्यध्याहार्यम् ; पूर्व तु न्याय्यम्, सुप्ते तु विशेषविज्ञानाभावस्य विवक्षित- स्वात् । एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम् ; केन पुनः क्रमेण सुषुप्तो भवतीत्युच्यते — हिता नाम - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. " हिता इत्येवंनाम्न्यो नाड्यः सिराः देहस्यान्नरसविपरिणाम- भूता:, ताश्व, द्वासप्तप्तिः सहस्राणि - द्वे सहस्रे अधिके सप्त- तिश्च सहस्राणि - ता द्वासप्ततिः सहस्राणि हृदयात् - हृदयं नाम मांसपिण्ड :- तस्मान्मांसपिण्डात्पुण्डरीकाकारात् पु- रीततं हृदयपरिवेष्टनमाचक्षते - तदुपलक्षितं शरीरमिह पुरी - तच्छब्देनाभिप्रेतम् - पुरीततमभिप्रतिष्ठन्त इति - शरीरं कृ- त्स्नं व्याप्नुवत्यः अश्वत्थपर्णराजय इव बहिर्मुख्य: प्रवृत्ता इत्यर्थः । तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम् ; तत्रस्थबुद्धि- तन्त्राणि च इतराणि बाह्यानि करणानि ; तेन बुद्धिः कर्मव- शात् श्रोत्रादीनि ताभिर्नाडीभिः मत्स्यजालवत् कर्णशष्कुल्या- दिस्थानेभ्यः प्रसारयति ; प्रसार्य च अधितिष्ठति जागरित- तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया काले ; व्याप्नोति ; संकोचनकाले च तम्या: अनुसंकुचति ; सोऽस्य विज्ञानमयस्य स्वाप: ; जाग्रद्विकासानुभवो भोग: ; बुद्धयुपा- स्विभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्य- नुविधायी । तस्मात् तस्या बुद्धे: जाग्रद्विषयायाः ताभि: नाडीभि: प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति - तममिव लोहपिण्डम् अविशेषेण संव्याप्य अग्नि- वत् शरीरं संव्याप्य वर्तत इत्यर्थ: । स्वाभाविक एव स्वा- क. १९.] ' द्वितीयोऽध्यायः , त्मनि वर्तमानोऽपि कर्ष्णानुगतबुद्धधनुवृत्तित्वात् पुरीतति शेत इत्युच्यते । न हि सुषुप्तिकाले शरीरसंबन्धोऽस्ति । ' तीर्णो हि तदा सर्वाच्छो कान्हृदयस्य' इति हि वक्ष्यति । सर्व- संसारदुःखवियुक्तेयमवस्थेत्यत्र दृष्टान्तः -- स यथा कुमारो वा अत्यन्तबालो वा, महाराजो वा अत्यन्तवश्य प्रकृतिः यथो- तकृत्, महाब्राह्मणो वा अत्यन्तपरिपक्कविद्याविनयसंपन्नः, अतिघ्नीम् - अतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्य अवस्था सुखावस्था ताम् प्राप्य गत्वा, शयीत अवतिष्ठेत । एषां च कुमारादीनां स्वभावस्थानां सुखं निरतिशयं प्रसिद्धं लोके ; विक्रियमाणानां हि तेषां दुःखं न स्वभावत: ; तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते, प्रसिद्धत्वात् ; न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दाष्टन्तिकत्वेन विव- क्षितत्वात् विशेषाभावाच्च; विशेषे हि सति दृष्टान्तदान्ति- कभेदः स्यात्; तस्मान्न तेषां स्वापो दृष्टान्तः— एवमेव, यथा अयं दृष्टान्तः, एष विज्ञानमय एतत् शयनं शेते इति - एतच्छन्दः क्रियाविशेषणार्थ:- एवमयं स्वाभाविके स्व आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति ॥ वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धि: असंसारि- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. - त्वं च उक्तम् ; कुत एतदागादित्यस्य प्रश्नस्यापाकरणार्थ: आरम्भः । ननु यस्मिन्ग्रामे नगरे वा यो भवति, सोऽन्यत्र गच्छन् तत एव ग्रामान्नगराद्वा गच्छति, नान्यतः ; तथा सति चैष तदाभूदित्येतावानेवास्तु प्रश्न: यत्राभून तत एव आगमनं प्रसिद्धं स्यात् नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव — किं श्रुतिरुपालभ्यते भवता ? न ; किं तर्हि द्वितीयस्य प्रश्नस्य अर्थान्तरं श्रोतुमिच्छामि, अत आनर्थक्यं चोदयामि । एवं तर्हि कुत इत्यपादानार्थता न गृह्यते ; अपादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे; अस्तु तर्हि निमित्तार्थः प्रश्नः - कुत एतदागात् किंनिमित्तमिहा- गमन्नमिति । न निमित्तार्थतापि, प्रतिवचनवैरूप्यात्; आ- त्मनश्च सर्वस्य जगतः अग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिव- चने श्रूयते ; न हि विस्फुलिङ्गानां विद्रवणे अग्निर्निमित्तम्, अपादानमेव तु सः ; तथा परमात्मा विज्ञानमयम्य आत्म- नोऽपादानत्वेन श्रूयते - 'अस्मादात्मन: ' इत्येतस्मिन्वाक्ये; तस्मात् प्रतिवचनवैलोम्यात् कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम् । नन्वपादानपक्षेऽपि पुनरुक्ततादोष: स्थित एव ॥ नैष दोष:, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापो- क. १९.] द्वितीयोऽध्यायः । हस्य विवक्षितत्वात् । इह हि विद्याविद्याविषयावुपन्यस्तौ " ' 6 'आत्मेत्येवमासीत ' 'आत्मानमेवावेत्' 'आत्मान- मेव लोकमुपासीत' इति विद्याविषय:, तथा अविद्याविष- यश्च पाङ्कं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति । तत्र अविद्याविषये वक्तव्यं सर्वमुक्तम् । विद्याविषयस्तु आत्मा केवल उपन्यस्तः न निर्णीतः तन्निर्णयाय च 'ब्रह्म ते ब्रवाणि' इति प्रक्रान्तम्, ज्ञपयिष्यामि' इति च । अत: तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः । तस्य च याथात्म्यं क्रियाकार कफलभेदशून्यम् अत्यन्तवि- शुद्धमद्वैतम् - इत्येतद्विवक्षितम् । अतस्तदनुरूपौ प्रश्ना- वुत्थाप्येते श्रुत्या- कैष तदाभूत्कुत एतदागादिति । तत्र - यत्र भवति तत् अधिकरणम्, यद्भवति तदधिकर्त- व्यम्- तयोश्च अधिकरणाधिकर्तव्ययोर्भेदः दृष्टां लोके । तथा— यत आगच्छति तत् अपादानम् - य आगच्छति स कर्ता, तस्मादन्यो दृष्टः । तथा आत्मा क्वाप्यभूदन्य- स्मिन्नन्यः, कुतश्चिदागादन्यस्मादन्य:- केनचिद्भिनेन साध- नान्तरेण- इत्येवं लोकवत्प्राप्ता बुद्धि: ; सा प्रतिवचनेन निवर्तयितव्येति । नायमात्मा अन्यः अन्यत्र अभूत्, अ- न्यो वा अन्यस्मादागतः, साधनान्तरं वा आत्मन्यस्ति ; किं - बृहदारण्यकोपनिषद्भाष्ये [ बा. १. तर्हि स्वात्मन्येवाभूत्— ' स्वमात्मानमपीतो भवति' ' सता सोम्य तदा संपन्नो भवति' 'प्राज्ञेनात्मना संपरिष्वक्त: ' ' पर आत्मनि संप्रतिष्ठते' इत्यादिश्रुतिभ्यः ; अत एव नान्यः अन्यस्मादागच्छति ; तत् श्रुत्यैव प्रदर्श्यते ' अस्मादा- त्मन: ' इति, आत्मव्यतिरेकेण वस्त्वन्तराभावात् । नन्व- स्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् - न, प्राणादेस्तत एव निष्पत्तेः ॥ तत्कथमिति उच्यते— स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षु- द्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादा- त्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनि- षत्सत्यस्य सत्यमिति प्राणा वै सत्यं ते षामेष सत्यम् ॥ २० ॥ इति द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ तत्र दृष्टान्तः- -- स यथा लोके ऊर्णनाभि: लूताकीट एक एव प्रसिद्धः सन् स्वात्माप्रविभक्तेन तन्तुना उच्चरेत् क. २०.] द्वितीयोऽध्यायः । उद्गच्छेत् न चास्ति तस्योद्गमने स्वतोऽतिरिक्तं कार- - -एव- कान्तरम् - यथा च एकरूपादेकस्मादमेः क्षुद्रा अल्पा: विस्फुलिङ्गा: त्रुटय: अग्न्यवयवाः व्युञ्चरन्ति विविधं नाना वा उच्चरन्ति - यथा इमौ दृष्टान्तौ कारक भेदाभावेऽपि प्रवृत्तिं दर्शयत:, प्राक्प्रवृत्तेश्च स्वभावत एकत्वम्- मे अस्मात् आत्मनो विज्ञानमयस्य प्राक्प्रतिबोधात् यत्स्वरूपं तस्मादित्यर्थः, सर्वे प्राणा वागादय:, सर्वे लोका भूरादयः सर्वाणि कर्मफलानि सर्वे देवा: प्राणलोकाधिष्ठातारः अग्न्यादयः सर्वाणि भूतानि ब्रह्मादि- स्तम्बपर्यन्तानि प्राणिजातानि, सर्व एत आत्मान इत्य- स्मिन्पाठे उपाधिसंपर्कजनित प्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति । यस्मादात्मन: स्थावरजङ्गमं जगदिदम् अग्नि- विस्फुलिङ्गवत् व्युच्चरत्यनिशम्, यस्मिन्नेव च प्रलीयते जल- बुद्बुदवत्, यदात्मकं च वर्तते स्थितिकाले, तस्य अस्य आ- त्मनो ब्रह्मण:, उपनिषत् - उप समीपं निगमयतीति अभिधा- यकः शब्द उपनिषदित्युच्यते - शास्त्रप्रामाण्यादेतच्छब्दगतो विशेषोऽवसीयते उपनिगमयितृत्वं नाम; कासावुपनिषदि - त्याह- - सत्यम्य सत्यमिति ; सा हि सर्वत्र चोपनिषत् अलौ- किकार्थत्वाद्दुर्विज्ञेयार्थेति तदर्थमाचष्टे - प्राणा वै सत्यं ते- वृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. षामेष सत्यमिति । एतस्यैव वाक्यस्य व्याख्यानाय उत्तरं ब्राह्मणद्वयं भविष्यति ॥ भवतु तावत् उपनिषव्याख्यानाय उत्तरं ब्राह्मणद्वयम् ; तस्योपनिषदित्युक्तम् ; तत्र न जानीमः - किं प्रकृतस्य आ- त्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दा- दिभुज इयमुपनिषत्, आहोस्वित् संसारिणः कस्यचित् ; किंचात: ? यदि संसारिणः तदा संसार्येव विज्ञेयः, तद्विज्ञा- नादेव सर्वप्राप्तिः, स एव ब्रह्मशब्दवाच्यः तद्विद्यैव ब्रह्मवि द्येति ; अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या, तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः; सर्वमेतच्छास्त्रप्रामाण्या- द्भविष्यति ; किंतु अस्मिन्पक्षे 'आत्मेत्येवोपासीत ' 'आत्मा- नमेवावेदहं ब्रह्मास्मि -' इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन्, संसारिणश्च अन्यस्याभावे उपदेशानर्थक्यात् । यत एवं पण्डितानामप्येतन्महामोहस्थानम् अनुक्तप्रतिवचनप्रश्न- विषयम्, अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः ॥ -- न तावत् असंसारी पर :- पाणिपेषणप्रतिबोधितात् शब्दादिभुजः अवस्थान्तरविशिष्टात् उत्पत्तिश्रुतेः; न प्रशा- सिता अशनायादिवर्जितः परो विद्यते ; कस्मात् ? यस्मात् क. २०.] द्वितीयोऽध्यायः । ' 'ब्रह्म ज्ञपयिष्यामि' इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेषं बोधयित्वा तं शब्दादिभोक्तृत्वविशिष्टं दर्शयित्वा तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मन: सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम् उत्पत्ति दर्शयति श्रुतिः - ' एवमेवास्मात् ' इत्यादिना ; न चा- न्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति ; विज्ञानमयस्यैव हि प्रकरणम् । समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम् आदित्यादिपुरुषान्प्रस्तुत्य स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्त- रस्य । तथा च 'आत्मनस्तु कामाय सर्व प्रियं भवति' इत्युक्त्वा, य एव आत्मा प्रिय: प्रसिद्ध: तस्यैव द्र- ष्टव्य श्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति । तथा च विद्योपन्यास काले ' आत्मेत्येवोपासीत ' ' तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्' ' तदात्मानमेवा वेदहं ब्रह्मास्मि -' इत्ये- वमादिवाक्यानामानुलोम्यं स्यात् पराभावे । वक्ष्यति च- 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः' इति । सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते - अहमिति, न बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति । तथा कौ- -२५२ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. starकनामेव 'न वाचं विजिज्ञासीत वक्तारं विद्यात् ' इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्श- यति । अवस्थान्तरविशिष्टोऽसंसारीति चेत् — अथापि स्यात्, यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव सुषुप्ताख्य मवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः स्यादिति चेत् न, अदृष्टत्वात् । न ह्येवंधर्मकः पदार्थों दृष्टंः अन्यत्र वैनाशिक सिद्धान्तात् । न हि लोके गौ: तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वादिजात्यन्तर- मिति । न्यायाच्च — यद्धर्मको यः पदार्थः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ; स चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत । तथा च न्यायविदः सांख्यमीमांसकादयः असंसारिण: अभाव युक्तिशतैः प्रतिपादयन्ति । संसारिणोऽपि जगदुत्पत्ति- स्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत्-- यन महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव अवस्थान्तरविशिष्टो जगत इह कर्तेति तदसत् ; यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः स- र्वलोकप्रत्यक्षः संसारिण: ; स कथम् अस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत् क. २०.] द्वितीयोऽध्यायः । निर्मिनुयात् अतोऽयुक्तमिति चेत् — न, शास्त्रात्; शास्त्रं संसारिण: 'एवमेवास्मादात्मनः' इति जगदुत्पत्त्यादि दर्शयति ; तस्मात् सर्वे श्रद्धेयमिति स्यादयम् एकः पक्षः ॥ ' यः सर्वज्ञः सर्ववित्' ' योऽशनायापिपासे अत्येति ' असङ्गो न हि सज्जते ' ' एतस्य वा अक्षरस्य प्रशासने ' ' यः सर्वेषु भूतेषु तिष्ठन् - अन्तर्याम्यमृतः ' ' स यस्तान्पुरु- षान्निरुह्यात्यक्रामत्' ' स वा एष महानज आत्मा' ' एष सेतुर्विधरण: ' 'सर्वस्य वशी सर्वस्येशान : ' पाप्मा विजरो विमृत्युः " - ----- , " तत्तेजोऽसृजत 'य आत्मापहत- " 6 आत्मा वा . ,. इदमेक एवाग्र आसीत् ' ' न लिप्यते लोकदुःखेन बाह्य : ' इत्यादिश्रुतिशतेभ्यः — स्मृतेश्व ' अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते' इति - परोऽस्ति असंसारी श्रुतिस्मृतिन्याये- भ्यश्च ; स च कारणं जगतः । ननु ' एवमेवास्मादा- त्मन: इति संसारिण एवोत्पत्तिं दर्शयतीत्युक्तम् — न, ' य एषोऽन्तर्हृदय आकाश:' इति परस्य प्रकृतत्वात्, परस्यैव परामर्श: । ' कैष तदा- भूत्' इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः ' य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ' , अस्मादात्मनः ' इति युक्तः इति ; ' सता सोम्य तदा संपन्नो भवति' ' अहरहर्गच्छन्त्य बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. r ब्रह्म- एतं ब्रह्मलोकं न विन्दन्ति ' प्राज्ञेनात्मना संपरिष्वक्त: ' 'प- र आत्मनि संप्रतिष्ठते' इत्यादिश्रुतिभ्य आकाशशब्द: पर- आत्मेति निश्चीयते ; 'दहरोऽस्मिन्नन्तराकाश: ' इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाश्च; प्रकृत एव पर आत्मा । तस्मात् युक्तम् ' एवमेवास्मादात्मन:' इति परमात्मन एव सृष्टिरिति संसारिण: सृष्टिस्थितिसंहारज्ञानसामर्थ्यां भावं च अवोचाम । अत्र च 'आत्मेत्येवोपासीत ' ' आत्मानमे वावेदहं ब्रह्मास्मि -' इति ब्रह्मविद्या प्रस्तुता ; विषयं च ब्रह्मविज्ञानमिति ; ' ब्रह्म ते ब्रवाणि' इति 'ब्रह्म ज्ञपयिष्यामि' इति प्रारब्धम् । तत्र इदानीम् असंसारि ब्रह्म•जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्व- भावम् ; तद्विपरीतश्च संसारी; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न दोषभाक्स्यात्; तस्मात् न अहं ब्रह्मास्मीति युक्तम् । तस्मात्पुष्पोदकाञ्जलिस्तु तिनमस्कारबल्युपहारस्वाध्यायध्यान- योगादिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् - अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन । ब्रह्मात्मत्व- प्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति । सर्वतर्कशास्त्र - क. २०.] द्वितीयोऽध्यायः । २५५ लोकन्यायैश्च एवमविरोधः स्यात् ॥ - न मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात् । ' पुरश्चक्रे ' इति प्रकृत्य ' पुर: पुरुष आविशत्' इति, ' रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ' ' सर्वाणि रूपाणि वित्रित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इति सर्व- शाखासु सहस्रशो मन्त्रवादा: सृष्टिकर्तुरेवासंसारिणः शरी- प्रवेशं दर्शयन्ति । तथा ब्राह्मणवादा:- तत्सृष्ट्वा तदेवा- नुप्राविशत् ' ' स एतमेव सीमानं विदार्यैतया द्वारा प्राप- द्यत सेयं देवता - इमास्तिस्रो देवता अनेन जीवेन आ- त्मनानुप्रविश्य ' ' एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ' इत्याद्याः । सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्म- शब्दस्य च प्रत्यगात्माभिधायकत्वात् 'एष सर्वभूतान्त- रात्मा' इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभा- वात्- 'एकमेवाद्वितीयम्' 'ब्रह्मैवेदम्' 'आत्मैवेदम् ' इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम् ॥ 6 यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारि- त्वम् ; तथा च मति शास्त्रानर्थक्यम्, असंसारित्वे च उप- देशानर्थक्यं स्पष्टो दोष: प्राप्त:; यदि तावत् परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसंपर्कजनितदुःखानि अनुभवती- बृहदारण्यकोपनिषद्भाष्ये [बा. १. ति, स्पष्टं परस्य संसारित्वं प्राप्तम् ; तथा च परस्य असं- सारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्, स्मृतयश्च सर्वे च न्याया:; अथ कथंचित् प्राणशरीरसंबन्धजैर्दुःखैर्न संबध्यत इति शक्यं प्रतिपादयितुम्, परमात्मनः साध्यपरिहार्याभा- वात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम् । अत्र केचित्परिहारमाचक्षते - परमात्मा न सानाद्भूतेष्वनुप्रविष्टः स्वेन रूपेण ; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्र- तिपेदे ; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च ; ये- नान्यः, तेन संसारित्व संबन्धी, येन अनन्यः तेन अहं ब्रह्मेत्यवधारणाई: ; एवं सर्वमविरुद्धं भविष्यतीति ॥ - पृथिवी- "तंत्र विज्ञानात्मनो विकारपक्ष एता गतयः - द्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः, एकदेशविपरिणामो विज्ञानात्मा घटादिवत् पूर्वसंस्थाना वस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत्, सर्व एव वा परः परिणमेत् क्षीरादिवत् । तत्र समानजा तीयानेकद्रव्यवसमूहस्य कश्चिद्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा तदा समानजातीयत्वात् एकत्वमुपचरितमेव न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः । अथ नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तद्- क. २०.] द्वितीयोऽध्यायः । वस्थस्य एकदेशो विज्ञानात्मा संसारी - तदापि सर्वावयवा - नुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति, विज्ञानात्मन: संसारित्वदोषेण पर एव आत्मा संबध्यत इति, इयमप्यनिष्टा कल्पना । क्षीरवत् सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोप:, स च अनिष्ट: । ' निष्कलं निष्क्रियं शान्तम् ' ' दिव्यो ह्यमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यजः ' 'आकाशवत्सर्वगतश्च नित्य: ' ' स वा एष महानज आ- त्माजरोऽमरोऽमृत: ' ' न जायते म्रियते वा कदाचित् ' 'अ- व्यक्तोऽयम्' इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः । अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मन: कर्मफल- देशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् — इत्युक्तम् । परस्यैकदेश: अग्निविस्फुलिङ्गवत् स्फुटित: विज्ञानात्मा संस- रतीति चेत् तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रता- प्राप्तिः, अव्रणत्ववाक्यविरोधश्च ; आत्मावयवभूतस्य विज्ञा- नात्मन: संसरणे परमात्मशून्य प्रदेशाभावात् अवयवान्तर- नोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः । अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्, न; श्रुते- झपकत्वात् - न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम्, किं S. B. U. 17 बृहदारण्यकोपनिषद्भाष्ये • [ ब्रा. १. तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने; किंचात: ? शृणु, अतो यद्भवति ; यथाभूता मूर्तमूर्तदिपदार्थधर्मां लोके प्र- सिद्धा: ; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञाप - यितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिक- मेव दृष्टान्तमुपादत्ते ; उपादीयमानोऽपि दृष्टान्त: अनर्थक: स्यात्, दाष्टन्तिका संगते; न हि अग्निः शीतः आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम्, प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः ; न च प्रमाणं प्रमाणान्तरेण विरुध्यते ; प्रमाणान्तराविषयमेव हि प्र- माणान्तरं ज्ञापयति ; न च लौकिकपदपदार्थाश्रयणव्यति- रेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ; तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् । 'क्षुद्रा विस्फुलिङ्गाः' 'ममैवांश:' इति च श्रूयते स्मर्यते चेत चेत्, न, एकत्वप्रत्ययार्थपरत्वात्; अग्नेर्हि विस्फुलिङ्गः अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके; तथा च अंश: अं- शिना एकत्वप्रत्ययार्हः ; तत्रैवं सति विज्ञानात्मनः परमात्म- विकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः । उपक्रमोपसंहाराभ्यां च सर्वासु हि उपनिषत्सु पूर्वमे- क. २०.] द्वितीयोऽध्यायः । तावत् कत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादि- त्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति ; तद्यथा इहैव ' इदं सर्वे यदयमात्मा' इति प्रतिज्ञाय, उत्पत्तिस्थिति- यहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्यय हेतून् प्रतिपा द्य' अनन्तरमबाह्यम्' ' अयमात्मा ब्रह्म' इत्युपसंहरिष्यति ; तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते - परमात्म- कत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलय प्रतिपादकानि वाक्यानीति; अन्यथा वाक्यभेदप्रसङ्गाश्च -- सर्वोपनिषत्सु हि विज्ञा- नात्मन: परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रति- पत्तिः सर्वेषामुपनिषद्वादिनाम्; तद्विध्येकवाक्य योगे , संभवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात; तस्मादु- त्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ॥ अत्र च संप्रदायविद आख्यायिकां संप्रचक्षते कश्चि- त्किल राजपुत्र: जातमात्र एव मातापितृभ्यामपविद्धः व्या- गृहे संवर्धित: ; सः अमुष्य वंश्यतामजानन् व्याधजाति- प्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राज - जातिकर्माण्यनुवर्तते ; यदा पुनः कश्चित्परमकारुणिकः रा- जपुत्रस्य राजश्री प्राप्तियोग्यतां जानन् अमुष्य पुत्रतां बो- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. कथंचिद्व्याध- परमेव धयति - ' न त्वं व्याधः, अमुष्य राज्ञः पुत्रः ; गृहमनुप्रविष्ट:' इति स एवं बोधितः त्यक्त्वा व्या- धजातिप्रत्ययकर्माणि पितृपैतामहीम् आत्मनः पदवी- मनुवर्तते— राजाहमस्मीति । तथा किल अयं परस्मात् अ- ग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादि- गहुने प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुव- र्तते - देहेन्द्रियसंघातोऽस्मि कृशः स्थूलः सुखी दुःखीति- परमात्मतामजानन्नात्मन: ; न त्वम् एतदात्मकः ब्रह्मासि असंसारी— इति प्रतिबोधित आचार्येण, हित्वा एषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते । अब राजपु- त्रस्यं राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति - विस्फुलिङ्ग- वदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्राग- शात् अग्न्येकत्वदर्शनात् । तस्मात् एकत्वप्रत्ययदाय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ता:, न उत्पत्त्यादिभेदप्र- तिपादनपराः । सैन्धवघनवत् प्रज्ञध्येकरसनैरन्तर्यावधार- णात् ' एकधैवानुद्रष्टव्यम्' इति च-- -- यदि च ब्रह्मण: चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पस्याद्यनेकधर्मविचित्रता विजिग्राह यिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यम् - इति नोपसमहरिष्यत्, ' एकधैवानुद्रष्टव्यम्' इति च न प्रायो- क. २०.] द्वितीयोऽध्यायः । क्ष्यत - ' य इह नानेव पश्यति' इति निन्दावचनं च । तस्मात् एकरूपैकत्वप्रत्ययदाययैव सर्ववेदान्तेषु उत्पत्ति- स्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय । न च निरवयवस्य परमात्मन: असंसारिणः संसार्येकदे- शकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मन: । अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति क- ल्पितं भवेत् । अथ परोपाधिकृत एकदेशः परस्य, घटकर- काद्याकाशवत् । न तदा तत्र विवेकिनां परमात्मैकदेश: पृथक्संव्यवहार भागिति बुद्धिरुत्पद्यते । अविवेकिनां विवे- किनां च उपचरिता बुद्धिर्दृष्टेति चेत्, न, अविवेकिनां मिथ्याबुद्धित्वात्, विवेकिनां च संव्यवहारमात्रालम्बनार्थ- त्वात्- - यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रा- लम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति । अतो न पण्डितैर्ब्रह्मस्वरूपप्रति- पत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वक- ल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनि षदाम् अतो हित्वा सर्वकल्पनाम् आकाशस्येव नि- विशेषता प्रतिपत्तव्या- ' आकाशवत्सर्वगतश्च नित्य: ' बृहदारण्यकोपनिषद्भाष्ये [ बा. १. ' न लिप्यते लोकदुःखेन बाह्यः' इत्यादिश्रुतिशतेभ्यः । न आत्मानं ब्रह्मविलक्षणं कल्पयेत् - उष्णात्मक इवाम शीतैकदेशम्, प्रकाशात्मके वा सवितरि तमएकदेशम्- सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनिषदाम् । तस्मात् नामरूपोपाधिनिमित्ता एव आत्मनि असंसारधर्मिणि सर्वे व्यवहाराः 'रूपं रूपं प्रतिरूपो बभूव' 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इत्येव- न स्वत आत्मनः संसारित्वम्, अल- - मादिमन्त्रवर्णेभ्य:- -- क्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवत् भ्रान्तमेव न परमार्थत: : । ' ध्यायतीव लेलायतीव' 'न कर्मणा वर्धते नो कनीयान' 'न कर्मणा लिप्यते पापकेन ' ' समं सर्वेषु भूतेषु तिष्ठन्तम् ' ' शुनि चैव श्वपाके च' इत्यादिश्रुतिस्मृ- तिन्यायेभ्यः परमात्मनोऽसंसारितैव । अत एकदेशो वि. कार : शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरव- यवत्वाभ्युपगमे विशेषतो न शक्यते । अंशादिश्रुतिस्मृति- वादाच एकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैक- वाक्ययोगात् - इत्यवोचाम ॥ सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं त- प्रतिकूलोऽर्थः विज्ञानात्मभेद: परिकल्प्यत इति । कर्मकाण्ड- द्वितीयोऽध्यायः । क. २०.] प्रामाण्यविरोधपरिहार,येत्येके ; कर्मप्रतिपादकानि हि वा- क्यानि अनेकक्रियाकारक फलभोक्तृकर्त्राश्रयाणि, विज्ञाना- त्मभेदाभावे हि असंसारिण एव परमात्मन एकत्वे, कथम् इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः ? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत ! अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः ? कथं वा तदुपदेशग्रहणफलम् ? बद्धस्य हि बन्धनाशाय उपदेश: ; तदभावे उपनिषच्छास्त्रं निर्विषयमेव । एवं तर्हि उपनिषद्वादि- पक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्था:- येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामा- ण्यं प्रति, तथा उपनिषदपि । एवं तर्हि यस्य प्रामाण्ये स्वार्थ- विघातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम्; उप- निषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम् । न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भ- वितुमर्हति ; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाश- यति च इति । प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च न केवलमुप- निषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रा- माण्यविघातं च कुर्वन्ति; प्रत्यक्षादिनिश्चित भेदप्रतिपत्त्यर्थ- प्रमाणैश्च विरुध्यन्ते । तस्मादप्रामाण्यमेव उपनिषदाम् अ- - बृहदारण्यकोपनिषद्भाष्ये न्यार्थता वास्तु; न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ॥ - [ ब्रा. १. न उक्तोत्तरत्वात् । प्रमाणस्य हि प्रमाणत्वम् अप्रमा- णत्वं वा प्रमोत्पादनानुत्पादन निमित्तम्, अन्यथा चेत् स्त- म्भादीनां प्रामाण्यप्रसङ्गात् शब्दादौ प्रमेये । किंचात: ? यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः । न कुर्वन्त्येवेति चेत्- यथा अग्निः शीतम् - इति, स भवानेवं वदन् वक्तव्य:- उपनिष- त्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रति- बेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम् ; अथ करोति- यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम, अग्निश्व रूपप्रकाशको भवेत् ; प्रतिषेधवाक्यप्रामाण्ये भवत्ये- वोपनिषदां प्रामाण्यम् । अत्रभवन्तो ब्रुवन्तु कः परिहार इति । ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा; कस्तर्हि भवत: प्रद्वेष: ब्रह्मैकत्वप्रत्यये मां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमा- नासु ? प्रतिषेधानुपपत्तेः । शोकमोहादिनिवृत्तिश्व प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम । तस्मा- दुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति ॥ यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, क. २०.] द्वितीयोऽध्यायः तदर्थप्रतिपत्तेर्बाधकाभावात् । न हि उपनिषद्भ्यः- ब्रह्मैक- मेवाद्वितीयम्, नैव च - इति प्रतिपत्तिरस्ति — यथा अग्निरुष्णः शीतश्चेत्यम्माद्वाक्यात् विरुद्धार्थद्वयप्रतिपत्तिः । अभ्युपगम्य चैतदवोचाम ; न ' तु वाक्यप्रामाण्यसमये एष न्यायः- यदुत एकस्य वाक्यस्य अनेकार्थत्वम् ; सति च अनेकार्थत्वे, स्वार्थश्च स्यात्, स्यात् तद्विघातकृच विरुद्ध: अन्योऽर्थः । न त्वेतत् — वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एकं वाक्यम्, अनेकमर्थं प्रतिपादय- तीत्येष समय: ; अर्थैकत्वाद्धि एकवाक्यता । न च का- निचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति । यत्तु लौकिकं वाक्यम्- अग्निरुष्णः शीतश्चेति, न तत्र एक- वाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात्; अभिः शीत इत्येतत् एकं वाक्यम्; अग्निरुष्ण इति तु प्रमाणा- न्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम् ; अतो न अग्निः शीत इत्यनेन एकवाक्यता, प्रमाणान्तरानुभवस्मा- रणेनैवोपक्षीणत्वात् । यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्य- मिति मन्यते, तत् शीतोष्णपदाभ्याम् अग्निपदसामानाधि- करण्यप्रयोगनिमित्ता भ्रान्तिः ; न त्वेव एकस्य वाक्यस्य अ- नेकार्थत्वं लौकिकस्य वैदिकस्य वा ॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. यच्चोक्तम्-कर्मकाण्डप्रामाण्यविघातकृत् उपनिषद्वाक्य मि- ति, तन्न, अन्वार्थत्वात् । ब्रह्मैकत्वप्रतिपादनपरा हि उप- निषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेरेव । न च कर्मकाण्डवाक्या- नां स्वार्थे प्रमा नोत्पद्यते । असाधारणे चेत्खार्थे प्रमाम् उत्पादयति वाक्यम्, कुतोऽन्येन विरोधः स्यात् । ब्रह्मत्वे निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत्, न, प्रत्यक्षत्वात्प्र- माया: । ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' ' ब्राह्मणो न हन्तव्यः' इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना ; सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्य- नुमानम् ; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते ; त- स्मादसदेवैतद्गीयते - प्रमैव नोत्पद्यत इति । अपि च यथा- प्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आ- श्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्वि- शेषमजानत: तदाचक्षाणा श्रुति: क्रियाकारकफलभेदस्य लो- कप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वार- यति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात् । यथा काम्ग्रेषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, क. २०.] " - द्वितीयोऽध्यायः । 1 न तु कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति - न विदधाति ; तथा नित्या मिहोत्रादिशास्त्रमपि मिथ्याज्ञानप्र- भवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम् अनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यत् अग्निहो- त्रादीनि कर्माणि विधत्ते, न- अविद्यागोचरासद्वस्तुविषय- मिति - न प्रवर्तते — यथा काम्येषु । न च पुरुषा न प्रव- र्तेरन् अविद्यावन्तः, दृष्टत्वात् - यथा कामिनः । विद्यावती - मेव कर्माधिकार इति चेत्, न, ब्रह्मैकत्वविद्यायां कर्मा- धिकारविरोधस्योक्तत्वात् । एतेन ब्रह्मैकत्वे निर्विषयत्वात् उपदेशेन तग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः । पुरुषेच्छा रागादिवैचित्र्याच्च — अनेका हि पुरुषाणामिच्छा ; रागादयश्च दोषा विचित्रा: ; ततश्च बाह्यविषयरागाद्यपहृत- चेतसो न शास्त्रं निवर्तयितुं शक्तम् ; नापि स्वभावतो बाह्य- विषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम् ; किंतु शास्त्रात् एतावदेव भवति इदमिष्टसाधनम् इदमनिष्टसाधनमिति साध्यसाधनसंबन्धविशेषाभिव्यक्ति:- प्रदीपादिवत् तमसि रूपादिज्ञानम् ; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति नियोजयति वा; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्र- मप्यतिक्रामन्तः । तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्य- - बृहदारण्यकोपनिषद्भाष्ये [ब्रा. १. साधनसंबन्धविशेषान् अनेकधा उपदिशति । तत्र पुरुषा: स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते; शास्त्रं तु सवि- तृप्रदीपादिवत् उदास्त एव तथा कस्यचित्परोऽपि पुरुषार्थ : अपुरुषार्थवदवभासते ; यस्य यथावभासः, स तथारूपं पुरु- पार्थ पश्यति ; तदनुरूपाणि साधनान्युपादित्सते । तथा च अर्थवादोऽपि —' त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्म- चमूषु:' इत्यादिः । तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एता- वता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशा- खम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्ववि- शूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥ - ; तत्त्र पण्डितंमन्याः केचित् स्वचित्तवशात् सर्वे प्रमाण- मितरेतरविरुद्धं मन्यन्ते, तथा प्रत्यक्षादिविरोधमपि चोद- यन्ति ब्रह्मैकत्वे - शब्दादयः किल श्रोत्रादिविषया भिन्ना: प्रत्यक्षत उपलभ्यन्ते ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोध: स्यात् ; तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्मा- धर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिण:; तत्र ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च ; तथा च आगमविरोधं वदन्ति - ' ग्रामकामो यजेत' ' पशुकामो यजेत' 'स्वर्ग- क. २०.] द्वितीयोऽध्यायः । २६९. कामो यजेत' इत्येवमादिवाक्येभ्यः ग्रामपशुस्वर्गादिकामा: तत्साधनाद्यनुष्ठातारेश्च भिन्ना अवगम्यन्ते । अत्रोच्यते- ते तु कुतर्कदूषितान्तः करणा: ब्राह्मणादिवर्णा पशदा: अ- नुकम्पनीया: आगमार्थविच्छिन्न संप्रदायबुद्धय इति । क- थम् ? श्रोत्रादिद्वारैः शब्दादिभि: प्रत्यक्षत उपलभ्यमानै: ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्या:- किं श- दादीनां भेदेन आकाशैकत्वं विरुध्यत इति ; अथ न विरुध्यते, न तर्हि प्रत्यक्षविरोधः । यच्चोक्तम् - प्रतिशरीरं शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति ; भिन्ना: कैरनुमीयन्त इति प्रष्टव्या:; अथ यदि ब्रूयुः - सर्वैरस्माभिरनुमान कुशलै- रिति के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ; शरीरेन्द्रियमन आत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अने- ककारकसाध्यत्वात्क्रियाणामिति चेत् एवं तर्हि अनुमानको शले भवतामनेकत्वप्रसङ्गः ; अनेककारकसाध्या हि क्रियेति ; भवद्भिरेवाभ्युपगतम् ; तत्र अनुमानं च क्रिया; सा शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्मकर्तृका निर्वर्त्यत इत्येतत्प्रतिज्ञातम् तत्र वयमनुमानकुशला इत्येवं वदद्भिः- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. १. शरीरेन्द्रियमनः साधना आत्मानः प्रत्येकं वयमनेके - इत्य- भ्युपगतं स्यात्; अहो अनुमानकौशलं दर्शितम् अपुच्छ- शृङ्गैः तार्किकबलीवर्दैः । यो हि आत्मानमेव न जाना- ति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात् ; तत्र किमनुमिनोति ? केन वा लिङ्गेन ? न हि आत्मन: स्वतो भेदप्रतिपादकं किंचिल्लिङ्गमस्ति, येन लिङ्गेन आत्म- भेनें साधयेत् यानि लिङ्गानि आत्मभेदसाधनाय नामरू- पवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव आत्मन:- घटकरकापवरक भूछिद्राणीव आकाशस्य ; यदा आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेद- लिङ्गं लभेत सः ; न ह्यात्मनः परतो विशेषमभ्युपग- च्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते ; स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः । यद्यत् पर आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नाम- रूपात्मकत्वाभ्युपगमात् नामरूपाभ्यां च आत्मनोऽन्य- त्वाभ्युपगमात्, ' आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति श्रुतेः, 'नामरूपे व्याकरवाणि ' इति उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म- अतः अनुमानस्यैवाविषयत्वात कुतोऽनुमानविरोधः । एतन च -, , - क. २०.] द्वितीयोऽध्यायः । आगमविरोधः प्रत्युक्तः । यदुक्तम् - ब्रह्मैकत्वे यस्मै उप- देश:, यस्य च उपदेशग्रहणफलम्, तदभावात् एकत्वोपदे- शानर्थक्यमिति तदपि न, अनेककारकसाध्यत्वात्क्रि- याणां कश्चोद्यो भवति ; एकस्मिन्ब्रह्मणि निरुपाधिके नो- पदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम् ; तस्मादुपनिषदां च आनर्थक्यमित्येतत् अभ्युपगतमेव ; अथ अनेक कारकवि- षयानर्थक्यं चोद्यते - न, स्वतोऽभ्युपगमविरोधादात्मवादि- नाम् । तस्मात् तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्ग- मिदम अल्पबुद्धधगम्यं शास्त्रगुरुप्रसादरहितैश्च - 'कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ' 'देवैरत्रापि विचिकित्सितं ' ' नैषा तर्केण मतिरापनेया'- पुरा' ,, तिस्मृतिवादेभ्यश्च; ' तदेजति तमैजति तद्दूरे तद्वन्तिके ' इत्यादिविरुद्धधर्मसमवायित्व प्रकाशमन्त्रवर्णेभ्यश्च ; गीतासु च 'मत्स्थानि सर्वभूतानि ' इत्यादि । तस्मात् परब्रह्मव्य- तिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति । तस्मात्सुष्ट्र- च्यते 'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं ब्रह्मास्मीति 'नान्यदतोऽस्ति - द्रष्टृ वरप्रसादलभ्यत्वश्रु- नान्यदतोऽस्ति श्रोतृ इत्यादिश्रुतिशतेभ्यः : । तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं नाम उपनिषत् परा ॥ इति द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ " द्वितीयं ब्राह्मणम् ॥ 'ब्रह्म ज्ञपयिष्यामि' इति प्रस्तुतम् ; तत्र यतो जगज्जा- तम्, यन्मयम्, यस्मिंश्च लीयते, तदेकं ब्रह्म- इति ज्ञापि - तम् । किमात्मकं पुनः तज्जगत् जायते, लीयते च ? पञ्च- भूतात्मकम् ; भूतानि च नामरूपात्मकानि ; नामरूपे सत्य- मिति ह्युक्तम्; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म । कथं पुनः भूतानि सत्यमिति मूर्त मूर्त ब्राह्मणम् । मूर्तमूर्तभूता- स्मकत्वात् कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् । तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैव उपनिषव्याख्या । कार्यकरणस- त्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्म अत्रधार्यते अत्रोक्तम् ' प्राणा वै सत्यं तेषामेष सत्यम्' इति ; तत्र के प्राणाः कियत्यो वा प्राणविषया उपनिषद: का इति च- ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति- पथिगतकूपारामाद्यवधारणवत् ॥ ' यो ह वै शिशु‍ साधान‍ सप्रत्या- धान‍ संस्थूण‍ सदामं वेद सप्त ह द्वि- I क. १.] द्वितीयोऽध्यायः । षतो भ्रातृव्यान वरुणद्धि । अयं वाव शि- शुर्योऽयं मध्यमः प्राणस्तस्येदमेवाधान- मिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १ ॥ यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम् ; किं तत् ? सप्त सप्तसंख्याकान् ह द्विषत: द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विष- न्तः अद्विषन्तश्च - तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो भ्रातृव्यान् अवरुणद्धि; सप्त ये शीर्षण्या: प्राणा विषयो- पलब्धिद्वाराणि तत्प्रभवा विषयरागाः, सहजत्वात् भ्रातृव्याः । ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति ; तेन ते द्वेष्टारो भ्रातृव्याः प्रत्यगात्मेक्षण प्रतिषेधकरत्वात्; कीठके चोक्तम् —— 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराप- श्यति नान्तरात्मन्' इत्यादि ; तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यान् अवरुणद्धि अपा- वृणोति विनाशयति । तस्मै फलश्रवणेनाभिमुखीभूतायाह- अयं वाव शिशुः । कोऽसौ ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमा - विष्ट:- बृहन्पाण्डरवास: सोम राजन्नित्युक्तः, यस्मिन् वाङ्मनःप्रभृतीनि करणानि विषक्तानि -पढीशशङ्कुनिदर्शनात् S. B. U. 18 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. स एष शिशुरिव, विषयेष्वितर करणवद्पटुत्वात्; शिशुं सा- धानमित्युक्तम् ; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणा- त्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् - आधीयतेऽस्मिन्नित्याधानम्; तस्य हि शिशोः प्राणस्य इदं शरीरमधिष्ठानम् ; अस्मिन्हि करणान्यधिष्ठितानि लब्धा- त्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विष- क्तांनि ; तथा हि दर्शितमजातशत्रुणा - उपसंहृतेषु करणेषु वि- ज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यते - तच्च दर्शितं पाणिपेषप्रतिबोधनेन । इदं प्रत्याधानं शिरः ; प्रदेशविशेषेषु - प्रति - प्रत्याधीयत इति प्रत्याधानम् । प्राण: स्थूणा अन्नपानजनिता शक्ति:- प्राणो बलमिति पर्याय: ; बलावष्टम्भो हि प्राणः अस्मिन् शरीरे- ' स यत्रायमात्माबल्यं न्येत्य संमोहमिव' इति दर्शनात् - यथा वत्सः स्थूणावष्टम्भः एवम् । शरीरपक्ष- पाती वायुः प्राणः स्थूणेति केचित् । अन्नं दाम - अन्नं हि भुक्तं त्रेधा परिणमते ; यः स्थूलः परिणामः, स एत- हृयं भूत्वा, इमामप्येति- मूत्रं च पुरीषं च; यो मध्यमो रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुक- मुपचिनोति ; स्वयोन्यन्नागमे हि शरीरमुपचीयते, अन्नमय- क. २.] ; द्वितीयोऽध्यायः 1: 1 त्वात् विपर्ययेऽपक्षीयते पतति यस्तु अणिष्ठो रस:- अमृतम् ऊर्क् प्रभाव: - इति च कथ्यते स नाभेरूध्वं हृद- यदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्र- विश्य, यत्तत् करणसंघातरूपं लिङ्गं शिशुसंज्ञकम्, तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत् स्थूणाख्यम्; तेन अन्नम् उभयतः पाशवत्सदाभवत् प्राणशरीरयोर्निबन्धनं भवति ॥ इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काच- नोपनिषद उच्यन्ते- तमेताः सप्ताक्षितय उपतिष्ठन्ते तथा इमा अक्षन्लोहिन्यो राजयस्ताभिरेन‍ रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनका तयादित्यो यत्कृ- ष्णं तेनाग्निर्यच्छुकं तेनेन्द्रोऽधरयैनं वर्त- न्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्या- नं क्षीयते य एवं वेद ॥ २ ॥ तमेताः सप्ताक्षितय उपतिष्ठन्ते - तं करणात्मकं प्राणं शरीरेऽन्नबन्धनं चक्षुष्यूढम् एताः वक्ष्यमाणाः सप्त सप्तसं- - बृहदारण्यकोपनिषद्भाष्ये , [ब्रा. २. ख्याकाः अक्षितयः, अक्षितिहेतुत्वात् उपतिष्ठन्ते । यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्व: आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्र स्थानीयानि करणानि ; तिष्ठते: अत: अत्रापि आत्मनेपदं न विरुद्धम् । कारता अक्षितय इत्युच्यन्ते - तत् तत्र या इमा: प्रसिद्धाः, अक्षन् अक्षणि लोहिन्य: लोहिताः राजय: रेखा:, ताभिः द्वारभूताभि: एनं मध्यमं प्राणं रुद्र: अन्वायत्तः अनुगतः ; अथ या: अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः, ताभि: अद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्त: अनुगत उपतिष्ठत इत्यर्थः । स च अन्नभूतोऽक्षितिः प्राणस्य, 'पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति' इति श्रुत्यन्तरात् । या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो मध्यमं प्राणमुपतिष्ठते । यत्कृष्णं चक्षुषि, तेन एनमग्नि- रुपतिष्ठते । यच्छुकं चक्षुषि, तेन इन्द्रः । अधरया वर्तन्या पक्ष्मणा एनं पृथिवी अन्वायत्ता, अधरत्वसामान्यात् । द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात् । एताः सप्त अन्नभूता: प्राणस्य संततमुपतिष्ठन्ते-- इत्येवं यो वेद, तस्यैतत्फलम् - नास्यान्नं क्षीयते, य एवं वेद ॥ तदेष श्लोको भवति । अर्वाग्बिलश्च- क. द्वितीयोऽध्यायः मस ऊर्ध्वबुध्नस्तस्मिन्यशो निहितं वि- श्वरूपम् । तस्यासत ऋषयः सप्त तीरे वा- गष्टमी ब्रह्मणा संविदानेति । अर्वाग्विल श्चमस ऊर्ध्वबुन इतीदं तच्छिर एष यव- • ग्बिलश्चमस ऊर्ध्वबुनस्तस्मिन्यशो निहि- तं विश्वरूपमिति प्राणा वै यशो विश्व - रूपं प्राणानेतदाह तस्यासत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणानेत- दाह वागष्टमी ब्रह्मणा संविदानेति वा- ग्ध्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥ तत् तत्र एतस्मिन्नर्थे एष श्लोकः मन्त्रो भवति - अर्वा - ग्बिलश्चमस इत्यादि: । तत्र मन्त्रार्थमाचष्टे श्रुतिः - अर्वा - ग्बिलश्चमस ऊर्ध्वबुध्न इति । कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध: ? इदं तत्; शिरः चमसाकारं हि तत् कथम् ? एष हि अर्वाग्बिल: मुखस्य बिलरूपत्वात्, शिरसो बुना- कारत्वात् ऊर्ध्वबुघ्नः । तस्मिन् यशो निहितं विश्वरूपमि - ति - यथा सोमः चमसे, एवं तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति । किं पुनस्तन ? यश:- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. २. प्राणा वै यशो विश्वरूपम् - प्राणा:, श्रोत्रादयः वायवश्व मरुतः सप्तधा तेषु प्रसृताः यश:- -इत्येतदाह मत्रः, शब्दा- दिज्ञानहेतुत्वात् । तस्यासत ऋषयः सप्त तीर इति - प्राणा: परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणानेतदाह मन्त्रः । वागष्टमी ब्रह्मणा संविदानेति ब्रह्मणा संवादं कुर्वन्ती अ टमी भवति ; तद्धेतुमाह - वाग्ध्यष्टमी ब्रह्मणां संवित्त इति ॥ - इमावेव गोतमभरद्वाजावयमेव गोत- मोऽयं भरद्वाज इमावेव विश्वामित्रजम- दग्नी अयमेव विश्वामित्रोऽयं जमदग्निरि- मावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽप्ति- नामैतदत्रिरिति सर्वस्यात्ता भव- ति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ । इति द्वितीयाध्यायस्य द्वितीयं ब्राह्मणम् ॥ के पुनस्तस्य चमसस्य तीर आसत ऋषय इति — इमावेव गोतमभरद्वाजौ कर्णौ- अयमेव गोतमः अयं भरद्वाजः दक्षिणश्च उत्तरश्च विपर्ययेण वा । तथा चक्षुषी , क. ४.] द्वितीयोऽध्यायः । उपदिशन्नुवाच -- इमावेव विश्वामित्रजमदग्नी दक्षिणं वि- श्वामित्र: उत्तरं 'जमदग्निः, विपर्ययेण वा । इमावेव वास- ष्ठकश्यपौ - नासिके उपदिशन्नुवाच दक्षिण: पुटो भवति वसिष्ठः ; उत्तरः कश्यपः- पूर्ववत् । वागेव अत्रि : अदनक्रि- यायोगात् सप्तमः ; वाचा ह्यन्नमद्यते; तस्मादत्तिर्ह वै प्रसिद्धं नामैतत् - अत्तत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण । सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रिनिर्वचन- विज्ञानादत्ता भवति । अत्तैव भवति नामुष्मिन्नन्येन पुन: प्र- त्यद्यते इत्येतदुक्तं भवति - सर्वमस्यान्नं भवतीति । य एवम् एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम् ; भोज्या- व्यावर्तत इत्यर्थः ॥ इति द्वितीयाध्यायस्य द्वितीयम् ब्राह्मणम् ॥ तृतीयं ब्राह्मणम् ॥ द्वे वा ब्रह्मणो रूपे मूर्त चैवामूर्त च मर्त्य चामृतं च स्थितं च यच्च सच्च - त्यच्च ॥ १ ॥ तत्र प्राणा वै सत्यमित्युक्तम् । याः प्राणानामुपनिषदः, ता: ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याता:- एते ते प्राणा इति च । ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्य- मिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपाव- धारणार्थम् इदं ब्राह्मणमारभ्यते— यदुपाधिविशेषापनय- द्वारेण 'नेति नेति' इति ब्रह्मणः सतत्त्वं निर्दिधारयि- षितम् । तत्र द्विरूपं ब्रह्म पश्चभूतजनितकार्यकरणसंबद्ध मूर्तीमूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं सर्वशक्ति सोपाख्यं भवति । क्रियाकारकफलात्मकं च स- व्यवहारास्पदम् । तदेव ब्रह्म विगत सर्वोपाधिविशेषं सम्य- ग्दर्शनविषयम् अजरम् अमृतम् अभयम्, वाङ्मनसयोरप्य- विषयम् अद्वैतत्वात् 'नेति नेति' इति निर्दिश्यते । तत्र यदपोहद्वारेण 'नेति नेति' इति निर्दिश्यते ब्रह्म, ते एते क. २.] द्वितीयोऽध्यायः । द्वे वाव - वावशब्दोऽवधारणार्थ:- द्वे एवेत्यर्थः - ब्रह्मण: परमात्मन: रूपे - रूप्यते याभ्याम् अरूपं परं ब्रह्म अवि- द्याध्यारोप्यमाणाभ्याम् । के ते द्वे ? मूर्त चैव मूर्तमेव च ; तथा अमूर्त च अमूर्तमेव चेत्यर्थः । अन्तर्णीतस्वात्म विशे- षणे मूर्तीमूर्ते द्वे एवेत्यवधार्येते; कानि पुनस्तानि विशेषणा- नि मूर्त मूर्तयोरित्युच्यन्ते -- म च मत्यै मरणधर्म, अ- मृतं च तद्विपरीतम्, स्थितं च- परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्च- यातीति यत् - व्यापि अपरिच्छिन्नं स्थितविपरी- तम्, सच्च - सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशे- षवत्, त्यश्च्च- तद्विपरीतम् ' त्यत्' इत्येव सर्वदा परोक्षा- भिधानार्हम् ॥ तदेतन्मूर्त यदन्यद्वायोश्चान्तरिक्षाचै- तन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्त- स्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥ २ ॥ तत्र चतुष्टयविशेषणविशिष्टं मूर्तम्, तथा अमूर्त च; तत्र कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते । तदे- बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ३. एतन्मर्त्यम्- तन्मूर्त मूर्च्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्य- र्थः । किं तत् ? यदन्यत्; कस्मादन्यत् ? बायोश्चान्तरिक्षाच भूतद्वयात् - परिशेषात्पृथिव्यादि भूतत्रयम् यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्य मरणधर्मि; कस्मात् ? यस्मात्स्थितमेतत्; परिच्छिन्नं ह्यर्थान्तरेण संप्रयुज्यमानं विरुध्यते—यथा घटः स्तम्भकुड्यादिना ; तथा मूर्ते स्थितं परिच्छिन्नम् अर्थान्तरसंबन्धि ततोऽर्थान्तरविरोधान्मर्त्यम्; एतत्सत् विशेष्यमाणासाधारणधर्मवत्, तस्माद्धि परिच्छि नम्, परिच्छिन्नत्वान्मर्त्यम्, अतो मूर्तम् मूर्तत्वाद्वा मर्त्य- म्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत् । अतः अन्योन्याव्य- भिचारात् चतुर्णा धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः । सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्त रूपं ब्रह्मण: । तत्र चतु- र्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमि- त्याह- तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थि- एतस्य सत: - चतुष्टय विशेषणस्य भूतत्रयस्येत्य- :- एष रस: सार इत्यर्थ: ; त्रयाणां हि भूतानां सारि- - तस्य, र्थ:- ष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एतत्कृत वि- भज्यमानरूपविशेषणानि भवन्ति ; आधिदैविकस्य कार्यस्यै- क. ३.] द्वितीयोऽध्यायः । तद्रूपम् - यत्सविता यदेतन्मण्डलं तपति ; सतो भूतत्रयस्य हि यस्मात् एष 'रस इति एतद्गृह्यते ; मूर्खो ह्येष सविता तपति, सारिष्ठश्च । यत्तु आधिदैविकं करणं मण्डलस्या- भ्यन्तरम्, तद्वक्ष्यामः ॥ अथामूर्त वायुश्चान्तरिक्षं चैतदमृतमे- तद्यदेतत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यै-. तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥ , अत: अथामूर्तम् — अथाधुना अमूर्तमुच्यते । वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयम् - एतत् अमृतम्, अमूर्तत्वात्, अस्थितम्, अतोऽविरुध्यमानं केनचित् अमृतम्, अमर- णधर्म ; एतत् यत् स्थितविपरीतम्, व्यापि, अपरिच्छिन्नम् ; यस्मात् यत् एतत् अन्येभ्योऽप्रविभज्यमानविशेषम्, त्यत् 'त्यत्' इति परोक्षाभिधानाईमेव पूर्ववत् । तस्यैत- । स्यामूर्तस्य एतस्यामृतस्य एतस्य यतः एतस्य त्यस्य चतुष्टय- विशेषणस्यामूर्तस्य एष रसः; कोऽसौ ? य एष एतस्मिन्नण्डले पुरुषः- करणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स - बृहदारण्यकोपनिषद्भाष्ये [प्रा. ३. एष: अमूर्तस्य भूतद्वयस्य रस : पूर्ववत् सारिष्ठ: । एतत्पुरुष- सारं चामूर्त भूतद्वयम् - हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वया- भिव्यक्तिरव्याकृतात्; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम् । त्यस्य ह्येष रस: - यस्मात् य: मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम् । तस्मात् युक्तं प्रसिद्धवद्धेतूपादा- नम् - त्यस्य ह्येष रस इति ॥ रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ; तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां भूतानां प्रयोक्त भवति तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयोः रमः कारणमुच्यत इति । तन्न मूर्तरसेन अतुल्यत्वा- त्; मूर्तम्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूत- त्रयसमानजातीयम्; न चेतन: ; तथा अमूर्तयोरपि भूतयोः तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम्, वाक्यप्रवृ तेस्तुल्यत्वात्; यथा हि मूर्तमूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तीमूर्तयोः तुल्येनैव न्यायेन युक्तो विभाग: ; न त्वर्धवैशसम् । मूर्तरसेऽपि मण्डलोपाधिवे तनो विवक्ष्यत इति चेत् — अत्यल्पमिदमुच्यते, सर्व- क. ४.] द्वितीयोऽध्यायः । " २८५. त्रैव तु मूर्तमूर्तयो: ब्रह्मरूपेण विवक्षितत्वात् । पुरुषशब्द: अचेतनेऽनुपपन्नइति चेत् न, पक्षपुच्छादिविशिष्ट स्यैव लिङ्गस्य पुरुषशब्ददर्शनात्, 'न वा इत्थं सन्त: श- क्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं कर- वामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्' इत्यादौ अ- नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात् । इत्यधिदै- वतमिति उक्तोपसंहार: अध्यात्मविभागोक्त्यर्थः ॥ अथाध्यात्ममिदमेव मूर्त यदन्यत्प्रा- णाच्च यश्चायमन्तरात्मन्नाकाश एतन्मर्त्य - मेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसौ यचक्षुः सतो ह्येष रसः ॥ ४ ॥ अथाधुना अध्यात्मं मूर्तीमूर्तयोर्विभाग उच्यते । किं तत् मूर्तम् ? इदमेव ; किंचेदम् ? यदन्यत् प्राणाञ्च वायो:, यश्चा- यम् अन्तः अभ्यन्तरे आत्मन् आत्मनि आकाशः खम्, शरीरस्थश्च यः प्राण:- एतद्दूयं वर्जयित्वा यदन्यत् शरी- रारम्भकं भूतत्रयम् ; एतन्मर्त्यमित्यादि समानमन्यत्पूर्वेण । एतस्य सतो ह्येष रस: - यच्चक्षुरिति; आध्यात्मिकस्य शरी- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. रारम्भकस्य कार्यस्य एष रस: सारः; तेन हि सारेण सार- वदिदं शरीरं समस्तम् - यथा अधिदैवतमादित्य मण्डलेन ; प्राथम्याञ्च - चक्षुषी एव प्रथमे संभवत: संभवत इति, 'तेजो रस्रो निरवर्तताग्निः' इति लिङ्गात् ; तैजसं हि चक्षुः ; एतत्सारम् आध्यात्मिकं भूतत्रयम्; सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थ: ॥ अथामूर्त प्राणश्च यश्चायमन्तरात्म- नाकाश एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्या- मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्य- स्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ अथाधुना अमूर्तमुच्यते । यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम् । अन्यत्पूर्ववत् । एतस्य त्यस्य एष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुष:- दक्षिणेऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्; लिङ्गस्य हि दक्षिणेऽक्षिण विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम्, सर्वश्रुतिषु तथा प्रयोगदर्शनात् । त्यस्य ह्येष रस इति पूर्व- वत् विशेषतः अग्रह्णात् अमूर्तत्वसारत्व एव हेत्वर्थः ॥ क. ६.] द्वितीयोऽध्यायः । तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्राविकं यथे- न्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्त सकृद्विद्युत्तव ह वा अस्य • श्री भवति य एवं वेदाधात आदेशो ने - ति नेति न ह्येतस्मादिति नेत्यन्यत्परम स्त्यथ नामधेय सत्यस्य सत्यमिति प्रा. णा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥ इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥ ब्रह्मण उपाधिभूतयोर्मूर्तमूर्तयोः कार्यकरणविभागेनं अ- ध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्य- योः । अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामः वासनामयं मूर्त मूर्तवासनाविज्ञानमयसंयोग- जनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णि को- पमं सर्वव्यामोहास्पदम् — एतावन्मात्रमेव आत्मेति विज्ञान- वादिनो वैनाशिका यव भ्रान्ताः, एतदेव वासनारूपं पट- रूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च संप्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं बृहदारण्यकोपनिषद्भाष्ये पुरुषार्थेन हेतुना प्रवर्तत इति सांख्या: ॥ [ब्रा. ३. औपनिषदंमन्या अपि केचित्प्रक्रियां रचयन्ति - मूर्ता - मूर्त राशिरेक:, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबो- धितेन सह विद्याकर्म पूर्व प्रज्ञासमुदाय: ; प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्त मूर्तभूतराशि: साधनं चेति । तत्र च तार्किकैः सह संधिं कुर्वन्ति । लिङ्गाश्रयश्च एष कर्मराशि- रित्युक्त्वा, पुनस्ततस्त्रस्यन्तः सांख्यत्वभयात् — सर्वः कर्म राशि:- पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत्- लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, स परमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा स- गुणो भवति निर्गुणोऽपि सन् स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा — इति वैशेषिकचित्तमप्यनुसरन्ति ; स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव पर- मात्मैकदेशत्वात् स्वत उत्थिता अविद्या अनागन्तुकापि ऊषरवत् अनात्मधर्म:- इत्यनया कल्पनया सांख्यचित्तमनु- वर्तन्ते ॥ ' - " सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्य- क. ६.] ' द्वितीयोऽध्यायः । कामा , न्ति ; कथम् ? उक्ता एव तावत् सावयवत्वे परमात्मनः संसारित्वसव्रणत्वकर्मफलदेश संसरणानुपपत्त्यादयो दोषाः ; नित्यभेदे च विज्ञानात्मनः परेण एकत्वानुपपत्तिः । लिङ्ग- मेवेति चेत् परमात्मन उपचरितदेशत्वेन कल्पितं घटकरक- भूछिद्राकाशादिवत् तथा लिङ्गवियोगेऽपि परमात्मदेशाश्र- यणं वासनायाः । अविद्यायाश्च स्वत उत्थानम् ऊषरवत् -- इत्यादिकल्पनानुपपन्नैव । न च वास्यदेशव्यतिरेकेण वास- नाया वस्त्वन्तरसंचरणं मनसापि कल्पयितुं शक्यम् । न च श्रुतयो अवगच्छन्ति - ' काम: संकल्पो विचिकित्सा 'हृदये ह्येव रूपाणि' ' ध्यायतीव लेलायतीव' ' येऽस्य हृदि श्रिता: ' तीर्णो हि तदा सर्वाशोकान्हृद- यस्य' इत्याद्या: । न च आसां श्रुतीनां श्रुतादर्थान्तरक- ल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासा- म्, एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम् । तस्मात् श्रुत्यर्थकल्पनाकुशलाः सर्व एव उपनिषदर्थमन्यथा कुर्वन्ति । तथापि वेदार्थश्चेत्स्यात्, कामं भवतु, न मे द्वेषः । न च ' द्वे वाव ब्रह्मणो रूपे' इति राशित्रयपक्षे समज- सम्; यदा तु मूर्तीमूर्ते तज्जनितवासनाश्च मूर्तीमूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम्, न चान्यत् चतुर्थमन्तराले - तदा " S. B. U. 19 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. एतत् अनुकूलमवधारणम्, द्वे एव ब्रह्मणो रूपे इति ; अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्, परमात्मनो वा विज्ञानात्मद्वारेणेति ; तदा च रूपे एवेति द्विवचनमसमञ्जसम्; रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात् - द्वे च मूर्तीमूर्ते वासनाश्च तृतीयमिति 1 अथ मूर्तीमूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत् — तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्म- नः - इतीयं वाचो युक्तिरनर्थिका स्यात्, वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्; न च वस्तु वस्त्वन्तर- द्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम्; न च 'विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां सिद्धान्तहानात् । तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एव- मादिकल्पना अक्षरबाह्या: ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थो - पकारी वा निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति । तस्मात् राशित्रयकल्पना असमञ्जसा ॥ " ' योऽयं दक्षिणेऽक्षन्पुरुष:' इति लिङ्गात्मा प्रस्तुत: अध्यात्मे, अधिदैवे च य एष एतस्मिन्मण्डले पुरुष : ' इति, ' तस्य' इति प्रकृतोपादनात् स एवोपादीयते - यो- ऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः । ननु विज्ञान- - क. ६.] 6 द्वितीयोऽध्यायः । 1 न मयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि प्रकृतत्वात्, ' तस्य ' इति च प्रकृतोपादानात् - नैवम्, विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात् ; यदि हि तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः, तस्यैव 'नेति नेति' इत्यनाख्येयरूपतया आदेशो न स्यात् । ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति- षष्ठान्ते उपसंहरात्- ' विज्ञातारमरे केन विजानीयात् ' इति विज्ञानमयं प्रस्तुत्य स एष नेति नेति' - इति ; ' विज्ञप- यिष्यामि' इति च प्रतिज्ञाया अर्थवत्त्वात् - यदि च विज्ञान- मयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात् प्रध्व- स्त सर्वोपाधिविशेषम्, तत इयं प्रतिज्ञा अर्थवती स्यात् येन असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति शास्त्रनिष्ठां प्राप्नोति, न बिभेति कुतञ्चन; अथ पुन: अन्यो विज्ञानमय:, अन्यः 'नेति नेति' इति व्यपदिश्यते - तदा अन्यददो ब्रह्म अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात्, न 'आत्मानमे- वावेदहं ब्रह्मास्मि' इति । तस्मात् ' तस्य हैतस्य' इति लिङ्गपुरुषस्यैव एतानि रूपाणि । सत्यस्य च सत्ये परमात्म- स्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम्; सत्यस्य च विशे- षरूपाणि वासनाः ; तासामिमानि रूपाण्युच्यन्ते ॥ " बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ३. एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ; कानि तानीत्युच्यन्ते यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसं- योगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येना- सौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् - यथा च लोके पाण्डाविकम् अवेरिदम् आविकम् ऊर्णादि, यथा च तत् पाण्डुरं भवति, तथा अन्यद्वासनारूपम् - यथा च लोके इन्द्रगोपः अत्यन्तरक्तो भवति, एवमस्य वासनारूपम्- कचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, कचित्पुरुषचि - तवृत्यपेक्षया- यथा च लोके अग्न्यर्चिः भास्वरं भवति, तथा क्वचित् कस्यचित् वासनारूपं भवति - यथा पुण्डरीकं शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति-यथा सकृ- द्विद्युत्तम्, यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भव- ति, तथा ज्ञानप्रकाशविवृद्धयपेक्षया कस्यचित् वासनारू- पम् — उपजायते । न एषां वासनारूपाणाम् आदिः अन्तः मध्यं संख्या वा, देश: कालो निमित्तं वा अवधार्यते- असंख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात् । तथा च वक्ष्यति षष्ठे ' इदंमयोऽदोमय: ' इत्यादि । तस्मात् न स्वरूपसंख्यावधारणार्था दृष्टान्ता:- यथा ❝ क. ६.] द्वितीयोऽध्यायः । -- माहारजनं वास:' इत्यादय: ; किं तर्हि प्रकार प्रदर्शनार्था :- एवंप्रकाराणि हि वासनारूपाणीति । यत्तु वासनारूपम- भिहितमन्ते - सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ; तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृ- द्विद्युत्व, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्याति : भवतीत्यर्थः, यथा हिरण्यगर्भस्य - एवम् एतत् यथोक्तं वासनारूपमन्त्यम् यो वेद ॥ एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थे ब्रह्मण इदमारभ्य- ते— अथ अनन्तरं सत्यस्वरूप निर्देशानन्तरम्, यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मात् - अतः तस्मात्, सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ; आदेश: निर्देश: ब्रह्मण: ; कः पुनरसौ निर्देश इत्युच्यते— नेति नेतीत्येवं निर्देश: ॥ - ननु कथम् आभ्यां ' नेति नेति' इति शब्दाभ्यां सत्य- स्य सत्यं निर्दिदिक्षितमिति, उच्यते सर्वोपाधिविशेषापो- हेन । यस्मिन्न कश्चिद्विशेषोऽस्ति - नाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा ; तारेण हि शब्दप्रवृत्तिर्भव- ति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति; अतो न निर्देष्टुं बृहदारण्यकोपनिषद्भाष्ये [त्रा. ३. शक्यते-इदं तदिति-गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यते ' विज्ञानमानन्दं ब्रह्म' ' विज्ञानघन एव ब्रह्मा- त्मा' इत्येवमादिशब्दैः । यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति निरस्त सर्वोपाधिविशेषम्, तदा न शक्यते केनचिद- पि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः - यदुत प्राप्त- निर्देशप्रतिषेधद्वारेण 'नेति नेति' इति निर्देश: ॥ " इदं च नकारद्वयं वीप्साव्याप्त्यर्थम् ; यद्यत्प्राप्तं तत्तत् निषिध्यते ; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत् प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम् कीदृशं तु खलु - इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स निर्देश:, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; 'ब्रह्म ज्ञप- यिष्यामि' इति च वाक्यम् अपरिसमाप्तार्थे स्यात् । यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनि- राकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम् अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति । तस्मात् वीप्सा नेति नेतीति नकारद्वयम् । ननु महता क. ६.] यत्नेन द्वितीयोऽध्यायः परिकरबन्धं कृत्वा किं युक्तम् एवं निर्देष्टुं ब्रह्म ? बाढम् । कस्मात् ? न हि- - यस्मात् ' इति न, इति न' इत्येतस्मात् - इतीति व्याप्तव्यप्रकारा नकार- द्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति- अन्यत्परं निर्देशनं नास्ति; तस्मादयमेव निर्देशो ब्रह्मणः । येदुक्तम्- 'तस्योपनिषत्सत्यस्य सत्यम्' इति, एवंप्रकारेण सत्यस्य सत्यं तत् परं ब्रह्म ; अतो युक्तमुक्तं नामधेयं ब्रह्वाणः, नामैव नामधेयम् ; किं तत् सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥ इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥ " चतुर्थं ब्राह्मणम् ॥ 2 आत्मेत्येवोपासीत; तदेव एतस्मिन् सर्वस्मिन् पदनीयम् आत्मतत्त्वम्, यस्मात् प्रेयः पुत्रादे : - इत्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये संबन्धप्रयोजने अभिहिते- 'तदात्मान- मेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्' इति ; एवं प्रत्य- गात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम् । अविद्या- याश्च विषय: - 'अन्योऽसावन्योऽहमस्मीति न स वेद' इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्ककर्मसाध्यसाधन- लक्षण: 'बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मा - त्मकः संसारः 'त्रयं वा इदं नाम रूपं कर्म' इत्युपसंहृतः शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अघोभावश्च स्थावरा- न्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः - ' द्वया ह' इत्यादिना । एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषय ब्रह्मविद्यायाम् अधिकारः कथं नाम स्यादिति- तृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः । चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगा- त्मानम् 'ब्रह्म ते ब्रवाणि' इति 'ब्रह्म ज्ञपयिष्यामि ' इति च प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकार- क. १.] द्वितीयोऽध्यायः । कफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण 'नेति नेति' इति ज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन संन्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्कं कर्म अविद्या- विषयं यस्मात् न आत्मप्राप्तिसाधनम्; अन्यसाधनं हि अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि बुभुक्षापिपासानिवृत्त्यर्थं घावनं गमनं वा साधनम् ; मनुष्य- लोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रता- नि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाश्च ; न च ब्रह्म- विदो विहितानि काम्यत्वश्रवणात् -' एतावान्वै काम:' इति, ब्रह्मविदश्च आप्तकामत्वात् आप्तकांमस्य कामानुपपत्तेः, 'येषां नोऽयमात्मायं लोक:' इति च श्रुतेः । केचित्तु ब्रह्मविदोऽप्येषणासंबन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ; पुत्राद्येषणानामविद्वद्विषयत्वम्, विद्याविषये च - 'येषां नो- Sयमात्मायं लोक:' इत्यत: ' किं प्रजया करिष्याम:' इति - एष विभागः तैर्न श्रुतः श्रुत्या कृत: ; सर्वक्रियाकारक फलोप- मर्दस्वरूपायां च विद्यायां सत्याम्, सह कार्येण अविद्याया अनुपपत्तिलक्षणच विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च तैर्न श्रुतम् । कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकू - लवर्तनं विरोध: । ' यदिदं वेदवचनं कुरु कर्म त्यजेति च । वृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा । एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे । एतावन्योन्यवैरूप्ये वर्तेते प्रतिकूलत: ' इत्येवं पृष्टस्य प्रतिवचनेन— " कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः' इत्येवमादि - विरोधः प्रदर्शितः । तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थ साधनम्', सर्वविरोधात्, साधननिरपेक्षैव पुरुषार्थसाधनम् — इति पारिव्राज्यं सर्वसाधन संन्यासलक्षणम् अङ्गत्वेन विधित्स्यते ; एतावदेवामृतत्वसाधनमित्यवधारणात्, षष्ठसमाप्तौ लिङ्गा- कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति । कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात्, वित्तनिन्दावचनाच्च यदि हि अमृतत्वसाधनं कर्म स्यात्, वित्तसाध्यं पाङ्कं कर्मेति तन्निन्दावचनमनिष्टं स्यात्; यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधन- कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च- 'ब्रह्म तं परादात् ' ' क्षत्रं तं परादात्' इत्यादे: ; न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावात् आत्मानं लभते विधि : ; यस्यैव पुरुषस्य उपमर्दितः प्रत्यय: ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्र- निन्दा । - च क. २.] द्वितीयोऽध्यायः । त्ययसंन्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थ- प्राप्तश्च संन्यासः । तस्मात् आत्मज्ञानाङ्गत्वेन संन्यासविधि - त्यैव आख्यायिकेयमारभ्यते ॥ - मैत्रेयीति होवाच याज्ञवल्क्य उद्या - स्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त 'तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥ मैत्रेयीति होवाच याज्ञवल्क्य:- मैत्रेय स्वभार्यामा- मन्त्रितवान् याज्ञवल्क्यो नाम ऋषिः ; उद्यास्थन् ऊर्ध्व यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै; 'अरे' इति संबो - धनम् ; अहम्, अस्मात् गार्हस्थ्यात् स्थानात् आश्रमात्, ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि ; अतः हन्त अनुमति प्रार्थयामि ते तव; किंचान्यत्- ते तव अनया द्विती- यया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि ; पति- द्वारेण युवयोर्मया संबध्यमानयोर्यः संबन्ध आसीत्, तस्य संबन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा ; वित्तेन संविभज्य युवां गमिष्यामि ॥ - ' साहोवाच मैत्रेयी । यन्नु म इयं भ गोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. तेनामृता स्यामिति नेति होवाच याज्ञव- ल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवित‍ स्यादमृतत्वस्य तु नाशास्ति वितेनेति ॥ २ ॥ सा एवमुक्ता ह उवाच - यत् यदि, 'नु' इति वितर्के, मे मम इयं पृथिवी, भगोः भगवन्, सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात् कथम् ? न कथंचने त्याक्षेपार्थः, प्रश्नार्थी वा तेन पृथिवी पूर्णवित्तसाध्येन कर्मणा अग्निहोत्रा- दिना - अमृता किं स्यामिति व्यवहितेन संबन्ध: । प्रत्युवाच याज्ञवल्क्यःकथमिति यद्याक्षेपार्थम्, अनुमोदनम्-नेति होवाच याज्ञवल्क्य इति प्रश्नश्चेत् प्रतिवचनार्थम् ; नैव स्या: अमृता, किं तर्हि यथैव लोके उपकरणवतां साधन- वतां जीवितं सुखोपायभोगसंपन्नम्, तथैव तद्वदेव तव जीवितं स्यात्; अमृतत्वस्य तु न आशा मनसापि अस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥ • साहोवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्सी यदेव भगवान्वेद तदेव मे ब्रूहीति ॥ ३ ॥ क. ५.] द्वितीयोऽध्यायः । सा होवाच मैत्रेयी । एवमुक्ता प्रत्युवाच यद्येवं येनाहं 'नामृता स्याम्, किमहं तेन वित्तेन मैत्रेयी- -- कुर्याम् ? यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्व- साधनं मे मह्यं ब्रूहि ॥ स होवाच याज्ञवल्क्यः प्रिया बतारे 'नः सती प्रियं भाषस एह्यास्स्व व्यह- ख्यास्यामि ते व्याचक्षाणस्य तु मे निदि- ध्यासस्वेति ॥ ४ ॥ -------- स होवाच याज्ञवल्क्यः । एवं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसंपत्तौ तुष्ट आह- स होवाच- प्रिया इष्टा, बतेत्यनुकम्प्याह, अरे मैत्रेयि, न अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे । अतः एहि आस्स्व उपविश व्याख्या - स्यामि यत् ते तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथ- यिष्यामि । व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः, निदिध्यासस्य वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति ॥ - स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. प्रियो भवति । न वा अरे जायायै का- माय जाया प्रिया भवत्यात्मनस्तु का- माय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्या- त्मनस्तु कामाय पुत्राः प्रिया भवन्ति न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भ- वति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोका: प्रिया भवन्त्यात्मनस्तु कामाय लोका: प्रिया भवन्ति । न वा अरे देवा- नां कामाय देवाः प्रिया भवन्त्यात्मन- स्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि क. ५.] द्वितीयोऽध्यायः । भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोत- व्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्या- त्मनो वा अरे दर्शनेन श्रवणेन मत्या वि ज्ञानेने सर्व विदितम् ॥ ५ ॥ स होवाच— अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जाया- पतिपुत्रादिभ्यो विरागमुत्पादयति तत्संन्यासाय । न वै- वै-शब्दः प्रसिद्धस्मरणार्थ : ; प्रसिद्धमेव एतत् लोके; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति । तथा न वा अरे जायाया इत्यादि समान- मन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम्, न वा अरे देवानाम्, न वा अरे भूतानाम्, न वा अरे सर्वस्य । पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्, तत्र तत्र इष्टतरत्वाद्वैराग्यस्य; सर्वग्रहणम् उक्तानुक्तार्थम् । तस्मात् बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. लोकप्रसिद्धमेतत् - आत्मैव प्रियः, नान्यत् । ' तदेतत्प्रेयः पुत्रात्' इत्युपन्यस्तम् तस्यैतत् वृत्तिस्थानीयं प्रपश्चितम् । तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्म- न्येव मुख्या । तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः ; श्रोतव्यः पूर्वम् आचार्यत आग- मतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्य: ; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदि- ध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमा- त्रेण । यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपित प्रत्ययविषयं क्रियाकारकफलात्मकम् अविद्याप्रत्ययविषयम् - रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थ- माह- - आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वविदितं विज्ञातं भवति ॥ ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लो- कान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो दे- वान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो क. ७.] द्वितीयोऽध्यायः । भूतानि वेद सर्व तं परादाद्योऽन्यत्रात्म- नः सर्व वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदः सर्वे यदय- मात्मा ॥ ६ । ननु कथम् अन्यस्मिन्विदिते अन्यद्विदितं भवति ? नैष दोष; न हि आत्मव्यतिरेकेण अन्यत्किंचिदस्ति ; यद्यस्ति, न तद्विदितं स्यात् ; न त्वन्यदस्ति; आत्मैव तु सर्वम् ; तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात् । कथं पुन- रात्मैव सर्वमित्येतत् श्रावयति — ब्रह्म ब्राह्मणजाति: तं पुरुषं परादात् परादध्यात् पराकुर्यात् ; कम् ? यः अन्यन्त्रात्मनः आत्मस्वरूपव्यतिरेकेण - आत्मैव न भवतीयं ब्राह्मणजाति- रिति- तां यो वेद, तं परादध्यात् सा ब्राह्मणजाति: अनात्म- स्वरूपेण मां पश्यतीति; परमात्मा हि सर्वेषामात्मा । तथा क्षत्रं क्षत्रियजातिः, तथा लोका:, देवा:, भूतानि, सर्वम् । इदं ब्रह्मेति - यान्यनुक्रान्तानि तानि सर्वाणि आत्मैव, यदयमात्मा - योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृत: --- यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात् आत्मैव सर्वम् ॥ ' " " स यथा दुन्दुभेर्हन्यमानस्य न बाह्या- S. B. U. 20 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. शब्दाव्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्र हणेन दुन्दुभ्याघातस्य वा शब्दो गृ हीतः ॥ ७ ॥ कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते ? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ; तत्र दृ- ष्टान्त उच्यते-— यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य तस्य तदात्मत्वमेव लोके दृष्टम् ; स यथा -- स इति दृष्टान्त: ; लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानम्य ताड्यमानस्य दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान दुन्दुभिशब्द विशेषान्, न शक्नुयात् ग्रहणाय ग्रहीतुम्; दुन्दुभेस्तु ग्रहणेन, दु- न्दुभिशब्दसामान्य विशेषत्वेन, दुन्दुभिशब्दा एते इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्य- तिरेकेणाभावात् तेषाम् ; दुन्दुभ्याघातस्य वा दुन्दुभेरा- हननम् आघात:- दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव नि- भिंद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात् तेषाम् — तथा प्रज्ञातव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृ- ह्यते ; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥ क. ९.] द्वितीयोऽध्यायः । स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्रहणाय शङ्ख- स्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥ • तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्य- मानस्य आपूर्यमाणस्य न बाह्यान् शब्दान् शक्नुयात्- इत्येवमादि पूर्ववत् ॥ स यथा वीणायै वाद्यमानायै न बा- ह्याञ्शब्दाञ्शक्नुयाग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ तेषां तथा वीणायै वाद्यमानायै- वीणाया वाद्यमानायाः । अ- दृष्टान्तोपादानम् इह सामान्य बहुत्वख्यापनार्थम् अनेके हि विलक्षणा: चेतनाचेतनरूपाः सामान्यविशेषाः पारम्पर्यगत्या यथा एकस्मिन् महासामान्ये अन्तर्भावः प्रज्ञा- नघने, कथं नाम प्रदर्शयितव्य इति दुन्दुभिशङ्खवीणाश- ब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थिति- काले तावत् सामान्यविशेषाव्यतिरेकात् ब्रह्मैकत्वं शक्य- मवगन्तुम् ॥ स बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. यथाद्वैधाग्नेरभ्याहतात्पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भू- तस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सा- मवेदोऽथर्वाङ्गिरस इतिहास : पुराणं वि या उपनिषदः श्लोकाः सूत्राण्यनुव्या. ' 'ख्यानानि व्याख्यानान्यस्यैवैतानि निश्व- सितानि ॥ १० । एवम् उत्पत्तिकाले प्रागुत्पत्तेः ब्रह्मैवेति शक्यमवगन्तुम् ; यथा अग्नेः विस्फुलिङ्गधूमाङ्गाराचिषां प्राग्विभागात् अग्नि- रेवेति भवत्यग्न्येकत्वम् एवं जगत् नामरूपविकृतं प्रागु- त्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुम् इत्येतदुच्यते- आर्द्रैरेधोभिरिद्धोऽग्निः आधाग्निः, स यथा - आधा " अरे तस्मात्, अभ्याहितात् पृथग्धूमाः, पृथक् नानाप्रकारम, धूमग्रहणं विस्फुलिङ्गादिप्रदर्शनार्थम धूमविस्फुलिङ्गादयः, विनिश्वरन्ति विनिर्गच्छन्ति; एवम् - यथायं दृष्टान्त: ; मैत्रेयि अम्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसित- मेतत् निश्वसितमिव निश्वसितम् ; यथा अप्रयत्नेनैव पुरुष - निश्वासो भवति, एवं वै अरे । किं तन्निश्वसितमिव ततो जा- क. १०.] इत्याद्याः, द्वितीयोऽध्यायः । तमित्युच्यते - यहवेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस:- चतुर्विधं मन्त्रजातम्, इतिहास इति, उर्वशीपुरूरवसो : सं- वादादि:- ' उर्वशी हाप्सरा:' इत्यादि ब्राह्मणमेव, पुराणम्- 'असद्वा इदमग्र आसीत्' इत्यादि, विद्या देवजनविद्या- वेदः सोऽयम् - इत्याद्या, उपनिषदः ' प्रियमित्येतदुपासीत ' श्लोकाः ब्राह्मणप्रभवा मन्त्राः 'तदेते श्लोकाः' इत्या- दय:, सूत्राणि वस्तुसंग्रहवाक्यानि वेदे यथा- ' आत्मेत्येवो- पासीत' इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसंग्रहवाक्यविवरणान्य- नुव्याख्यानानि यथा चतुर्थाध्याये 'आत्मेत्येवोपासीत ' इत्यस्य यथा वा 'अन्योऽसावन्योऽहमस्मीति न से वेद यथा पशुरेवम्' इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवर- णानि व्याख्यानानि - एवमष्टविधं ब्राह्मणम् । एवं मन्त्र- ब्राह्मणयोरेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेद- स्याभिव्यक्तिः पुरुषनिश्वासवत् न च पुरुषबुद्धिप्रयत्नपू- र्वक: ; अतः प्रमाणं निरपेक्ष एव स्वार्थे; तस्मात् यत् तेनोक्तं तत्तथैव प्रतिपत्तव्यम्, आत्मन: श्रेय इच्छद्भिः, ज्ञानं वा कर्म वेति । नामप्रकाशवशाद्धि रूपस्य विक्रिया- वस्था ; नामरूपयोरेव हि परमात्मोपाधिभूतयोन्यक्रियमा - , बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. णयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वाव- स्थयोः संसारत्वम्-- इत्यतः नाम्न एव निश्वसितत्वमुक्तम्, तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः ः । अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम् — 'ब्रह्म तं परादात् इदं सर्वे यदयमात्मा' इति तेन वेदस्याप्रामाण्यमाशङ्कथेत; तदाशङ्कानिवृत्त्यर्थमिदमुक्तम्- पुरुषनिश्वासवत् अप्रयत्नो- त्थितत्वात् प्रमाणं वेद:, न यथा अन्यो ग्रन्थ इति ॥ ; स यथा सर्वासामपाँ समुद्र एकाय- नमेव सर्वेषाँ स्पर्शानां त्वगेकायनमे- व सर्वेषां गन्धानां नासिके एकायनमे वँ सर्वेषाँ रसानां जिह्वैकायनमेव‍ सर्वेषा रूपाणां चक्षुरेकायनमेव‍ सर्वे - षाँ शब्दाना श्रोत्रमेकायनमेव सर्वे- बाँ संकल्पानां मन एकायनमेव‍ स- aai विद्याना हृदयमेकायनमेव स- देषां कर्मणा हस्तावेकायनमेव सर्वे- षामानन्दानामुपस्थ एकायनमेव‍ सर्वे- क. ११.] द्वितीयोऽध्यायः । षां विसर्गाणां पायुरेकायनमेव‍ सर्वेषा- मध्वनां पादावेकायनमेव‍ सर्वेषां वेदा- नां वागेकायनम् ॥ ११ ॥ किंचान्यत् ; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञान- व्यतिरेकेणाभावात् जगतो ब्रह्मत्वम्; प्रलयकाले च ; जलबु- द्रुदफैनादीनामिव सलिलव्यतिरेकेणाभाव:, एवं प्रज्ञान्य- तिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानाना- मभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रति- पत्तव्यमित्यत आह । प्रलयप्रदर्शनाय दृष्टान्त: ; स इति दृष्टान्त: ; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादि- गतानामपाम्, समुद्रः अब्धिः एकायनम्, एकंगमनम् एकप्रलयः अविभागप्राप्तिरित्यर्थः ; यथा अयं दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्म- भूतानां त्वक् एकायनम्, त्वगिति त्वग्विषयं स्पर्शसामा- न्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषा:- आप इव समु- द्रम् - तद्व्यतिरेकेणाभावभूता भवन्ति तस्यैव हि ते संस्था- नमात्रा आसन् । तथा तदपि स्पर्शसामान्यमात्रं त्व- क्शब्दवाच्यं मनःसंकल्पे मनोविषयसामान्यमात्रे, श्वग्वि- षय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति ; ; बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्य- तिरेकेणा भावभूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञान- घने परे ब्रह्मणि आप इव समुद्रे प्रलीयते । एवं परम्पराक्र- मेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उ- पाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम् अपारं निरन्तरं ब्रह्म व्यवतिष्ठते । तस्मात् आत्मैव एक- मद्वयमिति प्रतिपत्तव्यम् । तथा सर्वेषां गन्धानां पृथिवी- विशेषाणाम् नासिके घ्राणविषयसामान्यम् । तथा स- र्वेषां रसानामविशेषाणाम् जिह्वेन्द्रियविषयसामान्यम् । तथा सर्वेषां रूपाणां तेजोविशेषाणाम् चक्षुः चक्षुर्विषय- सामान्यम् । तथा शब्दानां श्रोत्रविषयसामान्यं पूर्व- वत् । तथा श्रोत्रादिविषयसामान्यानां मनोविषयसा- मान्ये संकल्पे ; मनोविषयसामान्यस्यापि बुद्धिविषयसा- मान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते । तथा कर्मेन्द्रियाणां विषया वदनादानगमनवि- सर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्ठा न विभा- गयोग्या भवन्ति, समुद्र इव अव्विशेषाः ; तानि च सामा- न्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञानमात्रमेव - 'यो वै प्राण: सा प्रज्ञा या वै प्रज्ञा स प्राण: ' इति कौषीतकिनोऽधीयते । क. १२.] द्वितीयोऽध्यायः । ag सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ; तत्र कोऽभिप्राय इति — बाढम; किंतु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम्; विषयस्यैव स्वात्म- ग्राहकत्वेन संस्थानान्तरं करणं नाम - यथा रूपविशेष- स्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने एवं सर्व- विषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्त- राणि करणानि, प्रदीपवत्; तस्मात् न करणानां पृथक्प्रलये यत्तः कार्य: ; विषयसामान्यात्मकत्वात् विषय प्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥ तत्र ' इदं सर्वं यदयमात्मा' इति प्रतिज्ञातम् ; तत्र हेतुर- भिहित: - आत्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं च; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावा- तू ' प्रज्ञानं ब्रह्म' 'आत्मैवेदं सर्वम्' इति प्रतिज्ञातं यत्, तत् तर्कतः साधितम् । स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति । यस्तु बुद्धिपूर्वकः प्रलय: ब्रह्मविदां ब्रह्मविद्यानि - मित्त:, अयम् आत्यन्तिक इत्याचक्षते - अविद्यानिरोधद्वारेण यो भवति तदर्थोऽयं विशेषारम्भ:- स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. स्यात् । यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्भूतमनन्तमपारं विज्ञान- घन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ती- त्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥ सैन्धवखिल्य:- तंत्र दृष्टान्त उपादीयते - स यथेति सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देन उदकमभिधीयते, स्यन्दनात् सिन्धुः उदकम्, तद्विकारः तत्र भवो वा सैन्ध- वः, सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः, स्वार्थे यत्प्रत्ययः - उदके सिन्धौ स्वयोनौ प्रास्त: प्रक्षिप्तः, उदकमेव विलीयमानम् अनुविलीयते ; यत्तत् भौ- मतैजस संपर्कात् काठिन्यप्राप्तिः खिल्यस्य स्वयोनिसंपर्क- दपगच्छति- तत् उदकस्य 'विलयनम्, तत् अनु सैन्धव- खिल्यो विलीयत इत्युच्यते; तदेतदाह- उदकमेवानुविली- येतेति । न ह नैव— अस्य खिल्यस्य उद्ग्रहणाय उद्धृत्य पूर्व- वग्रहणाय ग्रहीतुम्, नैव समर्थः कश्चित्स्यात् सुनिपुणोऽपि ; इव - शब्दोऽनर्थकः । ग्रहणाय नैव समर्थः ; कस्मात् ? यतो यतः यस्मात् यस्मात् देशान् तदुदकमाददीत, गृहीत्वा आ- क. १२.] - द्वितीयोऽध्यायः । स्वादयेत् लवणास्वादमेव तत् उदकम्, न तु खिल्यभावः । यथा अयं दृष्टान्तः, एवमेव वै अरे मैलेयि इदं परमात्मा- ख्यं महद्भूतम्~~~~ यस्मात् महतो भूतात् अविद्यया परिच्छि- न्ना सती कार्यकरणोपाधिसंबन्धात्खिल्यभावमापन्नासि, म- र्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूप- कार्यात्मिका - अमुष्यान्वयाहमिति स खिल्यभावस्तव कार्यकरणभूतोपाधिसंपर्क भ्रान्तिजनितः महति भूते स्वयो- नौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे सैन्धवधनवदेकर से प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अवि- द्याजनितभ्रान्तिभेदवर्जिते प्रवेशित:; तस्मिन्प्रविष्टे स्व- योनिमस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते- इदमेकमद्वैतं महद्भूतम्— महच्च तद्भूतं च महद्भूतं सर्वमहत्त- रत्वात् आकाशादिकारणत्वाश्च भूतम् - त्रिष्वपि कालेषु स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको नि- ष्ठाप्रत्यय: ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमा- र्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु; अतो विशिनष्टि- इदं तु महच्च तद्भूतं चेति । अनन्तम् नास्यान्तो विद्यत इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपा- . वृहदारण्यकोपनिषद्भाष्ये ' [ ब्रा. ४. रमिति । विज्ञप्तिः विज्ञानम् विज्ञानं च तद्वनश्चेति विज्ञा- नघन, घनशब्दो जात्यन्तरप्रतिषेधार्थः - यथा सुवर्णधनः अयोघन इति ; एव-शब्दोऽवधारणार्थ :- नान्यत् जात्यन्तरम् अन्तराले विद्यत इत्यर्थः । यदि इदमेकमद्वैतं परमार्थतः स्व- च्छं संसारदुःखासंपृक्तम्, किंनिमित्तोऽयं खिल्यभाव आ- त्मन:- जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः अनेक संसारधर्मोपद्रुत इति उच्यते—- एतेभ्यो भूतेभ्य:- यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्म- कानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मन: सलि- लोपमम्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमा- विवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत - एतेभ्यो हेतु- भूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः समुत्थाय सैन्धव- खिल्यवत्- यथा अद्भयः सूर्यचन्द्रादिप्रतिबिम्ब:, यथा वा स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभाव:, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन स- मुत्थाय सम्यगुत्थाय- येभ्यो भूतेभ्य उत्थितः तानि यदा कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषा- त्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदी - समुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदा- क. १३.] द्वितीयोऽध्यायः । ३१७- दिवत् तेषु विनश्यत्सु अन्वेव एष एष विशेषात्मखिल्य- भावो विनश्यति ; ' यथा उदकालक्तकादिहेत्वपनये सू- र्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूप- मेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते । न तत्र प्रेत्य विशेषसंज्ञास्ति का- करणसंघातेभ्यो विमुक्तस्य- इत्येवम् अरे मैत्रेयि ब्रवीमि – नास्ति विशेषसंज्ञेति - अहमसौ अमुष्य पुत्रः ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्या- कृतत्वात्तस्याः; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशि- तत्वात् कुतो विशेषसंज्ञासंभवो ब्रह्मविद : चैतन्यस्वभावा- वस्थितस्य ; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते कि- मुत कार्यकरणविमुक्तस्य सर्वतः । इति ह उवाच न्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥ उक्तवा- सा होवाच मैत्रेय्यंत्रैव मा भगवान - मूमुहन्न प्रेत्य संज्ञास्तीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३ ॥ एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी- बृहदारण्यकोपनिषद्भाष्ये - . [ब्रा. ४. अत्रैव एतस्मिन्नेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्धधर्मवत्त्व- माचक्षाणेन भगवता मम मोह: कृत: ; ' तदाह- अत्रैव मा भगवान् पूजावान् अमूमुहत् मोहं कृतवान् । कथं तेन विरुद्धधर्मवस्वमुक्तमित्युच्यते पूर्व विज्ञानघन एवेति प्रतिज्ञाय, पुनः न प्रेत्य संज्ञास्तीति ; कथं विज्ञानघन एव ? कथं वा न प्रेत्य संज्ञास्तीति ? न हि उष्णः शीतश्च अग्निरे- वैको भवति; अतो मूढास्मि अत्र । स होवाच याज्ञव- ल्क्य:--- न वा अरे मैत्रेय्यहं मोहं ब्रवीमि - मोहनं वाक्यं न ब्रवीमीत्यर्थः । ननु कथं विरुद्धधर्मत्वमवोचः - विज्ञान- घनं संज्ञाभावं च ? न मया इदम् एकस्मिन्धर्मिण्यभिहि- त्वयैव इदं विरुद्धधर्मत्वेन एकं वस्तु परिगृहीतं भ्रा- त्या ; न तु मया उक्तम् ; मया तु इदमुक्तम् - यस्तु अ- विद्याप्रत्युपस्थापितः कार्यकरणसंबन्धी आत्मनः खिल्यभाव:, तस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरी- रादिसंबन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसंघातो. पाधौ प्रविलापिते नश्यति, हेत्वभावात्, उदकाद्याधारना- शादिव चन्द्रादिप्रतिबिम्ब: तन्निमित्तश्च प्रकाशादि: पुन: परमार्थचन्द्रादित्यस्वरूपवत् असंसारित्रह्मस्वरूपस्य वि- ज्ञानघनस्य नाशः; तत् विज्ञानघन इत्युक्तम् ; स आत्मा तम् ; ; न क. १४.] ; द्वितीयोऽध्यायः । सर्वस्य जगतः परमार्थतो भूतनाशात् न विनाशी ; वि- नाशी तु अविद्याकृत: खिल्यभाव:, 'वाचारम्भणं विकारो नामधेयम्' इति श्रुत्यन्तरात् । अयं तु पारमार्थिक :- अवि- `नाशी वा अरेऽयमात्मा ; अत: अलं पर्याप्तम् वै अरे इदं महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम् ; 'न: हि विज्ञातुर्विज्ञातर्विपरिलोपो विद्यतेऽविनाशित्वात् ' इति हि वक्ष्यति ॥ यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतर ५ शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजा- नाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्के- न कं जिघेतत्केन कं पश्येत्तत्केन क‍ शृणुयात्तत्केन कमभिवदेत्तत्केन कं म- न्वीत तत्केन कं विजानीयात् । येनेद‍ सर्व विजानाति तं केन विजानीयाद्विज्ञा- तारमरे केन विजानीयादिति ॥ १४ ॥ इति द्वितीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ४. --- ननु कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते शृणु यत्र यस्मिन् अविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि खिल्यभावे, हि यस्मात् द्वैतमिव - परमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः- उपलक्ष्यते- द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति न, 'वा- चारम्भणं विकारो नामधेयम्' इति श्रुत्यन्तरात् एक- मेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' इति च - तत् तत्र यस्माद्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत आत्मा अपरमार्थः, चन्द्रादेवि उदकचन्द्रादिप्रतिबिम्ब:, इतरो घ्राता इतरेण ब्राणेन इतरं घ्रातव्यं जिघ्रति ; इतर इतरमिति कारकप्रदर्शनार्थम् जिघ्रतीति क्रियाफ- लयोरभिधानम् - यथा छिनत्तीति - यथा उद्यम्य उद्यम्य निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव शब्देन अभिधीते- क्रियावसानत्वात् क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात्; इतरो व्राता इतरेण घ्राणेन इतरं घ्रातव्यं जिघ्रति- तथा सर्व पूर्ववत्- विजाना- ति; इयम् अविद्यावदवस्था । यत्र तु ब्रह्मविद्यया अविद्या नाशमुपगमिता तब आत्मव्यतिरेकेण अन्यस्याभाव:; यत्र वै अस्य ब्रह्मविदः सर्व नामरूपादि आत्मन्येव प्रवि- " क. ११.] द्वितीयोऽध्यायः । लापितम् आत्मैव संवृत्तम्- यत्र एवम् आत्मैवाभूत्, तत् तत्र केन करणेन कं घ्रातव्यं को जिघेत् ? तथा पश्येत् ? विजानीयात्; सर्वत्र हि कारकसाध्या क्रिया ; अतः कारकाभावेऽनुपपत्तिः क्रियाया:; क्रियाभावे च फलाभाव: । तस्मात् अविद्यायामेव सत्यां क्रियाकारकफल- व्र्व्यवहारः, न ब्रह्मविदः - आत्मत्वादेव सर्वस्य, न आत्म- व्यतिरेकेण कारकं क्रियाफलं वास्ति ; न च अनात्मा सन् सर्वमात्मैव भवति कस्यचित्; तस्मात् अविद्ययैव अनात्मत्वं परिकल्पितम् ; न तु परमार्थत आत्मव्यतिरेकेणास्ति किं- चित्; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्य- यानुपपत्तिः अत: विरोधात् ब्रह्मविदः क्रियाणां तत्साध- नानां च अत्यन्तमेव निवृत्तिः । केन कमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम्, केनचिदपि प्रकारेण क्रिया- करणादिकारकानुपपत्तेः- केनचित् कंचित् कश्चित् कथंचित् न जिवेत्यर्थः । यत्रापि अविद्यावस्थायाम् अन्यः अन्यं पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानी- यात् - येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्त - त्वात् ; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि; न च अग्नेरिव आत्मा आत्मनो विषय: ; न च अविषय ज्ञातुः S. B. C. 21 बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ४. ज्ञानमुपपद्यते ; तस्मात् येन इदं सर्वे विजानाति, तं विज्ञा- तारं केन करणेन को वा अन्य: विजानीयात् - यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते, तं विज्ञातारं अरे केन विजानीयादिति ॥ इति द्वितीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥ 'पञ्चमं ब्राह्मणम् ॥ यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम्, तद्वक्त- व्यमिति मैत्रेयीब्राह्मणमारब्धम् तच्च आत्मज्ञानं सर्वसं- न्यासाङ्ग विशिष्टम् आत्मनि च विज्ञाते सर्वमिदं विज्ञातं ; भवति ; आत्मा च प्रियः सर्वस्मात्; तस्मात् आत्मा द्रष्ट- व्य: ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च दर्शनप्रकारा उक्ता:; तत्र श्रोतव्यः, आचार्यागमाभ्याम् ; मन्तव्यः तर्कत:; तत्र च तर्क उक्त:- 'आत्मैवेदं सर्वम् इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भ- वत्वम् आत्मैकप्रलयत्वं च; तत्र अयं हेतुः असिद्ध इत्या- शङ्कते आत्मैकसामान्योद्भवप्रलयाख्यः; तदाशङ्कानिवृत्त्य- र्थमेतद्ब्राह्मणमारभ्यते । यस्मात् परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि यच्च लोके परस्परोपकार्योपकारक- भूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं च दृष्टम्, तस्मात् इदमपि प्रथिव्यादिलक्षणं जगत् पर- स्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति - एष ह्यर्थः अस्मिन्ब्राह्मणे प्रकाश्यते । अथवा 'आत्मैवेदं ' , 3 बृहदारण्यकोपनिषद्भाष्ये : [ ब्रा. ५. सर्वम इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतु- मुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अ- र्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम- 'हेत्व पदे- शात्प्रतिज्ञायाः पुनर्वचनं निगमनम् इति । अन्यैर्व्याख्या- तम् — आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम्, प्रा. मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति । सर्वथापि तु यथा आग- मेनावधारितम्, तर्कतस्तथैव मन्तव्यम् ; यथा तर्कती मत- म्, तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रि- यत इति पृथक् निदिध्यासनविधिरनर्थक एव; तस्मात् पृथक् प्रकरणविभागः अनर्थक इत्यस्मदभिप्रायः श्रवणमन- ननिदिध्यासनानामिति । सर्वथापि तु अध्याय द्वयस्यार्थः अस्मिन्त्राह्मणे उपसंहियते ॥ . 1 इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु यश्चायम- स्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्वायमध्यात्मँ शारीरस्तेजोमयोऽमृत- मयः पुरुषोऽयमेव स योऽयमात्मदममृत- मिदं ब्रह्मेद सर्वम् ॥ १ ॥ क. १.] द्वितीयोऽध्यायः । " - ' इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु सर्वेषां त्र- झादिस्तम्बपर्यन्तानां भूतानां प्राणिनाम् मधु कार्यम् म- विव मधु ; यथा एको मध्वपूपः अनेकैर्मधुकरैर्निर्वर्तितः, एवम् इयं पृथिवी सर्वभूतनिर्वर्तिता । तथा सर्वाणि भूतानि पृथिव्यै पृथिव्याः अस्या:, मधु कार्यम् । किं च यश्चायं पुरुषः अस्यां पृथिव्यां तेजोमयः चिन्मात्र प्रकाशमयः अमृतमयोऽमरणधर्मा पुरुषः, यश्चायम् अध्यात्मम् शारीरः शरीरे भवः पूर्ववत् तेजोमयोऽमृतमयः पुरुषः, स च लि- ङ्गाभिमानी - स च सर्वेषां भूतानामुपकारकत्वेन मधु, सर्वाणि च भूतान्यस्य मधु च शब्दसामर्थ्यात् । एवम् एतच्चतुष्टयं तावत् एकं सर्वभूतकार्यम्, सर्वाणि च भूतान्य- म्य कार्यम्; अतः अस्य एककारणपूर्वकता । यस्मात् एकस्मात्कारणात् एतज्जातम्, तदेव एकं परमार्थतो ब्रह्म, इतरत्कार्ये वाचारम्भणं विकारो नामधेयमातम - इत्येष मधुपर्यायाणां सर्वेषामर्थः संक्षेपतः । अयमेव सः, योऽयं प्रतिज्ञात: - ' इदं सर्वं यदयमात्मा' इति ; इदममृतम्- यन मैत्रेय्याः अमृतत्वसाधनमुक्तम् आत्मविज्ञानम् - इदं तदमृतम् ; इदं ब्रह्म- यत् ब्रह्म ते ब्रवाणि ' • ज्ञापयि- , 1 व्यामि' इत्यध्यायादौ प्रकृतम्, यद्विषया च विद्या ब्रह्म- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. विद्येत्युच्यते इदं सर्वम् - यस्मात् ब्रह्मणो विज्ञानात्सर्व भवति ॥ इमा आपः सर्वेषां भूतानां मध्वा- सामपा सर्वाणि भूतानि मधु यश्चाय- मास्वप्सु तेजोमयोऽमृतमयः पुरुषो य श्वायमध्यात्मँ रैतसस्तेजोमयोऽमृत- मयः पुरुषोऽयमेव स योऽयमात्मेदममृत- मिदं ब्रह्मेद ँ सर्वम् ॥ २ ॥ तथा आपः । अध्यात्मं रेतसि अपां विशेषतोऽव- स्थानः ॥ A अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु यश्चायमस्मिन्नन्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्या- त्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषो sयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद सर्वम् ॥ ३ ॥ तथा अग्निः । वाचि अग्नेर्विशेषतोऽवस्थानम् ॥ 1 क. ५.] द्वितीयोऽध्यायः । अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः संर्वाणि भूतानि मधु यश्चायम- स्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो य- श्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद ँ सर्वम् ॥ ४ ॥ तथा वायु:, अध्यात्मं प्राणः । भूतानां शरीरारम्भक- त्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां कर- णत्वेनोपकारान्मधुत्वम्; तथा चोक्तम्- ' तस्यै वाच: पृथिवी शरीरं ज्योतीरूपमयमग्निः ' इति ॥ अयमादित्यः सर्वेषां भूतानां मध्व- स्यादित्यस्य सर्वाणि भूतानि मधु गश्चा- यमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरु- षो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽ- मृतमयः पुरुषोऽयमेव स योऽयमात्मद- ममृतमिदं ब्रह्मेदँ सर्वम् ॥ ५ ॥ तथा आदित्यो मधु, चाक्षुषः अध्यात्मम् ॥ वृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. इमा दिशः सर्वेषां भूतानां मध्वासां दिशा सर्वाणि भूतानि मधु यश्चाय- मासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म५ श्रत्रः प्रातिश्रुत्कस्ते- जोमयोऽमृतमयः पुरुषोऽयमेव स योग्य- ' • मात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ६ ॥ तथा दिशो मधु । दिशां यद्यपि श्रोत्रमध्यात्मम्, शब्दप्रतिश्रवणवेलायां तु विशेषतः संनिहितो भवतीति अध्यात्मं प्रातिश्रुत्क :- प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥ अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु यश्चायम- स्मिन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतम- यः पुरुषोऽयमेव स योऽयमात्मेदममृत- सिदं ब्रह्मेद सर्वम ॥ ७ ॥ तथा चन्द्र:, अध्यात्मं मानसः ॥ क. १०.] द्वितीयोऽध्यायः । इयं विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधु यश्चाय- मस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतम- यः पुरुषोऽयमेव स योऽयमात्मेदममृत- मिदं ब्रह्मे सर्वम् ॥ ८ ॥ तथा विद्युत्, त्वक्तेजसि भवः तैजसः अध्यात्मम् ॥ अयः स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृत- मयः पुरुषो यश्चायमध्यात्मः शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मद सर्वम् ॥ तथा स्तनयित्नुः । शब्दे भवः शाब्द: अध्यात्मं यद्यपि, तथापि स्वरे विशेषतो भवतीति सौवर: अध्यात्मम् ॥ अयमाकाशः सर्वेषां भूतानां मध्व- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. स्याकाशस्य सर्वाणि भूतानि मधु यश्चा- यमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरु- षो यश्चायमध्यात्म हृद्याकाशस्तेजोम- योऽमृतमयः पुरुषोऽयमेव स योऽयमा- त्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ १० ॥ तथा आकाश:, अध्यात्मं हृद्याकाशः ॥ आकाशान्ताः पृथिव्यादयो भूतगणा देवतागणाश्च का- र्यकरणसंघातात्मानः उपकुर्वन्तो मधु भवन्ति प्रतिशरीरि- णमित्युक्तम् । येन ते प्रयुक्ताः शरीरिभिः संबध्यमाना मधुत्वेनोपकुर्वन्ति तत् वक्तव्यमिति इदमारभ्यते— अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु यश्चायम- स्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो य- इचायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मदममृतमिदं ब्रह्मेदँ सर्बम् ॥ ११ ॥ अयं धर्म:- ' अयम्' इति अप्रत्यक्षोऽपि धर्म: कार्येण क. १२.] ' द्वितीयोऽध्यायः । तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते - अयं धर्म इति - प्रत्यक्ष- वत् । धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः, क्षत्रादीनामपि नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतु- त्वात् प्राणिभिरनुष्ठीयमानरूपश्च ; तेन च 'अयं धर्म:' इति प्रत्यक्षेण व्यपदेशः । सत्यधर्मयोश्व अभेदेन निर्देश: कृत: शास्त्राचारलक्षणयो:; इह तु भेदेन व्यपदेश एकत्वे सत्यपि, दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात् । यस्तु अदृष्टः अपूर्वा - ख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्य- मारभते- सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति, विशेषरूपेण च अध्यात्मं कार्यकरणसंघातस्य ; तत्र प्रथि - व्यादीनां प्रयोक्तरि- यश्चायमस्मिन्धर्मे तेजोमय: ; तथा अध्यात्मं कार्यकरणसंघातकर्तरि धर्मे भवो धर्मः ॥ इदः सत्यः सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु यश्चायम- स्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो य- इचागमध्यात्मथ् सात्यस्तेजोमयोऽमृतम- यः पुरुषोऽयमेव स योऽयमात्मेदममृत- मिदं ब्रह्मेद सर्वम् ॥ १२ ॥ बृहदारण्यकोपनिषद्भाष्ये [ ब्रा. ५. तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति, स एव धर्मः ; सोऽपि द्विप्रकार एव सामान्यविशेषात्म- रूपेण- सामान्यरूपः पृथिव्यादिसमवेतः, विशेषरूपः कार्य- करणसंघातसमवेत:; तत्र पृथिव्यादिसमवेते वर्तमानक्रिया- रूपे सत्ये, तथा अध्यात्मं कार्यकरणसंघातसमवेते सत्ये, भवः सात्यः - 'सत्येन वायुरावाति' इति श्रुत्यन्तरान् ॥, . इदं मानुषः सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु यश्चाय- मस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृत- मयः पुरुषोऽयमेव स योऽयमात्मेदममृत- मिदं ब्रह्मे सर्वम् ॥ १३ ॥ धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसंघातविशेषः, स येन जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः ; तत्र मनुषादिजातिविशिष्टा एव सर्वे प्राणिनिकाया: परम्प- रोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ; अतां मानुषा- दिजातिरपि सर्वेषां भूतानां मधु । तत्र मानुषादिजातिरपि बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति ॥ क. १५.] " द्वितीयोऽध्यायः । अयमात्मा सर्वेषां भूतानां मध्वस्या- त्मनः सर्वाणि भूतानि मधु यश्चायम- स्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरु- षोऽयमेव स योऽयमात्मेदममृतमिदं ब्र- 'ह्मेद' सर्वम् ॥ १४ ॥ यस्तु कार्यकरणसंघातो मानुषादिजातिविशिष्टः, सोऽय- मात्मा सर्वेषां भूतानां मधु । ननु अयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव - न, पार्थिवांशस्यैव तत्र ग्रहणात; इह तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसंघातः सः ' अर्थमात्मा' इत्युच्यते । तस्मिन] अस्मिन आत्मनि तेजोमयोऽमृतमयः पुरुष: अमूर्तरसः सर्वात्मको निर्दिश्यते; एकदेशेन तु पृथि- व्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दि- श्यते । यस्तु परिशिष्टो विज्ञानमय:- यदर्थोऽयं देहलिङ्ग- संघात आत्मा - स: ' यश्चायमात्मा' इत्युच्यते ॥ स वा अयमात्मा सर्वेषां भूतानाम- धिपतिः सर्वेषां भूतानां राजा तद्यथा बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. रथनाभौ च रथनेमी चाराः सर्वे सम- पिता एवमेवास्मिन्नात्मनि सर्वाणि भूता- नि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ १५ ॥ यस्मिन्नात्मनि परिशिष्टो विज्ञानमयः अन्त्ये पर्याये, प्रवेशितः, सोऽयमात्मा । तस्मिन अविद्याकृत कार्यकरणसंघा- तोपाधिविशिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, स एव- मुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स वै- स एव अयमात्मा अव्यवहितपूर्व पर्याये 'तेजोमय:' इत्यादिना निर्दिष्टो विज्ञानात्मा विद्वान् सर्वेषां भूतानामय मात्मा - सर्वै- रुपास्यः-- सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः- न कुमारामात्यवत् - किं तर्हि सर्वेषां भूतानां राजा, राजत्ववि - शेषणम् ' अधिपति:' इति भवति कश्चित् राजोचितवृ- त्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधि- पतिरिति एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति । यदुक्तम्- 'ब्रह्मविद्यया सर्वे भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत् ' इतीदम्, तत् व्याख्यातम् एवम्- आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा, - ; मत्वा तर्कतः, विज्ञाय साक्षात् एवम्, यथा मधुब्राह्मणे क. १५.] द्वितीयोऽध्यायः । ' " दर्शितं तथा— तस्मात् ब्रह्मविज्ञानान एवंलक्षणात् पूर्वमपि, ब्रह्मैव सत अविद्यया अब्रह्म आसीत् सर्वमेव च सत् असर्वमासीत् - तां तु अविद्याम अस्माद्विज्ञानात् तिरस्कृत्य ब्रह्मवित् ब्रह्मैव सन ब्रह्माभवत्, सर्वः सः सर्वमभवत् । परिसमाप्तः शास्त्रार्थः, यदर्थ: प्रस्तुत:; तस्मिन् एतस्मिन सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्व जगत्समर्पितमित्येत- स्मिन्नर्थे दृष्टान्त उपादीयते तद्यथा रथनाभौ च स्थ- मौ चाराः सर्वे समर्पिता इति, प्रसिद्धोऽर्थः एवमेव अम्मिन आत्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि सर्वे देवा: अग्न्यादय: सर्वे लोका: भूरादयः सर्वे प्राणा: वागादय: सर्व एत आत्मानो जलचन्द्रवत् प्रतिशरीरानुप्रवेशिनः अविद्याकल्पिता: ; सर्व जगत् अम्मिन्समर्पितम् । यदुक्तम्, ब्रह्मवित् वामदेव: प्रतिपेदे - अहं मनुरभवं सूर्यचेति, स एष सर्वात्मभावो व्याख्यातः । स एष विद्वान ब्रह्मवित् सर्वो- पाधिः सर्वात्मा सर्वो भवति ; निरुपाधिः निरुपाख्यः अनन्तरः अबाह्यः कृत्स्नः प्रज्ञानघनः अजोऽजरोऽमृतोऽभ- योऽचलः नेति नेत्यम्थूलोऽनणुरित्येवंविशेषणः भवति । तमेतमर्थम् अजानन्तस्तार्किकाः केचित् पण्डितंमन्याचा- 6 बृहदारण्यकोपनिषद्भाष्ये " ' [ ब्रा. ५. " गमविदः शास्त्रार्थे विरुद्धं मन्यमाना विकल्पयन्तो मोहम- गाधमुपयान्ति । तमेतमर्थम् एतौ मन्त्रावनुब्रदत :- 'अने- जदेकं मनसो जवीय:' ' तदेजति तन्नैजति' इति । तथा च तै- त्तिरीयके, ' यस्मात्परं नापरमस्ति किंचित्' एतत्साम गायन्नास्ते ' अहमन्नमहमन्नमहमन्नम्' इत्यादि । तथा च च्छान्दोग्ये ' 'जक्षत्क्रीडन्रममाणः ', ' स यदि पितृलोककाम: 'सूर्वगन्धः सर्वरस : ', ' सर्वज्ञः सर्ववित्' इत्यादि । अथ- र्वणे च ' दूरात्सुदूरे तदिहान्ति के च' । कठवल्लीष्वपि 'अणो- रणीयान्महतो महीयान ' कस्तं मदामदं देवम्' ' तद्धावतो- ऽन्यानत्येति तिष्टत्' इति च । तथा गीतासु ' अहं क्रतुरहं यज्ञ: ' ' पिताहमस्य जगत: नादत्ते कस्यचित्पापम् ' ' समं 26 सर्वेषु भूतेषु' 'अविभक्तं विभक्तेषु' ' प्रसिष्णु प्रभविष्णु च' इति — एवमाद्यागमार्थ विरुद्धमिव प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्त:- अस्त्यात्मा नास्त्यात्मा, कर्ता अकर्ता, मुक्तः बद्धः, क्षणिको विज्ञानमात्रं शून्यं च इत्येवं विकल्पयन्तः न पारमधिगच्छन्त्यविद्यायाः, विरुद्धधर्मदर्शित्वात्सर्वत्र । तस्मात् तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त ए- वाविद्याया: पारमधिगच्छन्ति ; त एव च अस्मान्मोहसमु- क. १५. ] द्वितीयोऽध्यायः । ३३७ द्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुद्धिकौशलानुसारिणः ॥ - परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी पृष्टवती भर्तारम् ' यदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहि' इति । एतस्या ब्रह्मविद्याया: स्तुत्यर्था इयमाख्या- यिका आनीता । तस्या आख्यायिकायाः संक्षेपतोऽर्थप्रका- शनीर्थावेतौ मन्त्रौ भवतः ; एवं हि मन्त्रब्राह्मणाभ्यां स्तुत- त्वात् अमृतत्व सर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं रा- जमार्गमुपनीतं भवति - यथा आदित्यः उद्यन् शावरं तमो- ऽपनयतीति- तद्वत् । अपि च एवं स्तुता ब्रह्मविद्या- या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि यस्मात् अश्विभ्या- मपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन प्राप्ता ; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसं- धाय, तस्मिन्निन्द्रेण च्छन्ने पुनः स्वशिर एव प्रतिसंघाय, तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता; यस्मात् ततः परतरं किंचित्पुरुषार्थसाधनं न भूतं न भवि वा, कुत एव वर्तमानम् - इति नातः परा स्तुतिरस्ति । अपि चैवं स्तूयते ब्रह्मविद्या - सर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्धम; तच्च कर्म वित्तसाध्यम्, तेन आशापि नास्त्यमृतत्वस्य ; तदिदममृतत्वं केवलया आत्म- बृहदारण्यकोपनिषद्भाष्ये - [ब्रा. ५. विद्यया कर्मनिरपेक्षया प्राप्यते; यस्मात् कर्मप्रकरणे वक्तुं प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा विरुद्धत्वात् केवलसंन्याससहिता अभिहिता अमृतत्वसाध- नाय - तस्मात् नातः परं पुरुषार्थ साधनमस्ति । अपि च एवं स्तुता ब्रह्मविद्या- सर्वो हि लोको द्वन्द्वाराम:, 'सवै नैव रेमे तस्मादेकाकी न रमते इति श्रुते; याज्ञवल्क्यो लोकसाधारणोऽपि सन आत्मज्ञानबलात भार्यापुत्रवित्तादि- संसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव । अपि च एवं स्तुता ब्रह्मविद्या - यम्मात् याज्ञवल्क्येन संसारमा - गत् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता, ' प्रियं भाषस एह्यास्स्व' इति लिङ्गान । इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि- भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । तां नरा सनये दस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथ- र्वणो वामश्वस्य शीर्णा प्र यदीमुवा- चेति ॥ १६ ॥ तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम का पुन: क. १६.] द्वितीयोऽध्यायः । मा आख्यायिकेति उच्यते - इदमित्यनन्तरनिर्दिष्टं व्यप- दिशति, बुद्धौ संनिहितत्वान; वै-शब्दः स्मरणार्थ : ; तदि- त्याख्यायिका निर्वृत्तं प्रकरणान्तराभिहितं परोक्षं वै शब्देन स्मारयन इह व्यपदिशति; यन प्रवर्ग्यप्रकरणे सूचितम्, आविष्कृतं मधु, तदिदं मधु इह अनन्तरं निर्दिष्टम् - 'इथं पृथिवी' इत्यादिना ; कथं तत्र प्रकरणान्तरे सूचितम् — दध्यङ् ह वा आभ्यामाथर्वणां मधु नाम ब्राह्मणमुवाच ; तदेनयोः प्रियं धाम तदवैनयोरतेनोपगच्छति ; स होवाचे- न्द्रेण वा उक्तोऽस्म्येतश्चेदन्यस्मा अनुब्रूयास्तत एव ते शिर- शिछन्द्यामिति ; तम्माद्वै बिभेमि यद्वै मे स शिरो न च्छि न्द्यात्तद्वामुपनेष्य इति; तो होचतुरावां त्वा तस्मात्रम्यावह इति ; कथं मा त्राम्येथे इति ; यदा नावुपनेष्य से ; अथ ते शिरश्छित्त्वान्यत्राहृत्योपनिधाभ्याव: ; अथाश्वस्य शिर आ- हृत्य तत्ते प्रतिधास्याव: ; तेन नावनुवक्ष्यसि ; स यदा नावनु- वक्ष्यसि ; अथ ते तदिन्द्रः शिरश्छेत्स्यति ; अथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति ; तथेति तौ होपनिन्ये; तौ य- दोपनिन्ये ; अथास्य शिरश्छित्त्वा अन्यत्रोपनिदधतुः ; अथा- श्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुः ; तेन हाभ्यामनूंबाच ; स यदाभ्यामनूवाच अथास्य तदिन्द्रः शिरश्चिच्छेद ; अथास्य बृहदारण्यकोपनिषद्भाष्ये ' [ ब्रा. ५. स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति । यावत्तु प्रवर्ग्य कर्मा- ङ्गभूतं मधु, तावदेव तत्राभिहितम; न तु कक्ष्यमात्मज्ञाना- ख्यम् ; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रद- ते; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्वि भ्यामुवाच । तदेतदृषिः -- तदेतत्कर्म, ऋषिः मन्त्रः पश्यन् उपलभमानः, अवोचत् उक्तवान् ; कथम ? तत् दंस: इति व्य- वहितेन संबन्ध:, दंस इति कर्मणो नामधेयम; तच्च दंस: किंविशिष्टम् ? उयं क्रूरम्, वां युवयोः, हे नरा नराकाराव- श्विनौ; तच्च कर्म किंनिमित्तम् ? सनये लाभाय ; लाभलु- धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्ये- ते यर्था लोके; तत् आविः प्रकाशं कृणोमि करोमि, यत् रहसि भवद्भयां कृतम् ; किमिवेत्युच्यत - तन्यतुः पर्जन्य:, न इव ; नकारस्तु उपरिष्टादुपचारः उपमार्थीयो वेदे, न प्रति- षेधार्थ : - यथा 'अश्वं न अश्वमिवेति यद्वत्; तन्यतुरिव वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तनयित्वा दिशब्दैः, तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति संबन्धः । ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम् ! निन्दाव- चनौ- हीमो - नैष दोष: ; स्तुतिरेवैषा, न निन्दावचनौ; यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च ' क. १७.] वतः ; द्वितीयोऽध्यायः । - मीयत इति न चान्यत्किंचिद्धीयत एवेति स्तुतावेतौ भ- निन्दां प्रशंसां हि लौकिकाः स्मरन्ति; तथा प्रशं- सारूपा च निन्दा लोके प्रसिद्धा । दध्यङ्नाम आथर्वण: ; हेत्यनर्थको निपातः ; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम् आथर्वणः वां युवाभ्याम अश्वस्य शीर्णा शिरसा प्रयत् ईम् उवाच - यत्प्रोवाच मधु ; ईमित्यनर्थको निपातः ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विः भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽव्य शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृताय- न्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥ www.g इदं वै तमध्वित्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम् । तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म । आथर्वणो दध्यङ्नाम- आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि - दध्यङ्नाम आथर्वणः, तस्मै दधीचे आ- थर्वणाय, हे अश्विनाविति मन्त्रदृशो वचनम् ; अश्व्यम् अश्वस्य स्वभूतम् शिरः, ब्राह्मणस्य शिरसि च्छिन्ने " अश्वस्य शिरश्छित्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं बृहदारण्यकोपनिषद्भाष्ये ' C. [ब्रा. ५. शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ युवाम् ; स च आथर्वण: वां युवाभ्याम् तन्मधु · प्रवोचत् यत्पूर्व प्रतिज्ञातम् - वक्ष्यामीति । स किमर्थमेवं जीवितसंदे- हमारुह्य प्रवोचदित्युच्यते - ऋतायन यत्पूर्व प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन्; जीवितादपि हि सत्यधर्म- परिपालना गुरुतरेत्येतस्य लिङ्गमेतत् । किं तन्मधु प्रवोच- दित्युच्यते - त्वाष्ट्रम् त्वष्टा आदित्यः, तस्य संबन्धि - य- ज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत्, तत्प्रतिसंधानार्थे प्रवर्ग्य कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु - य- ज्ञस्य शिरश्छेदनप्रति संघानादिविषयं दर्शनं तवाष्ट्रं यन्मधु; हे दस्रौ दस्राविति परबलानामुपक्षपयितारौ शत्रूणां हिंसि- तारौ ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसंबन्धि युवा- भ्यामवोचत्; अपि च कक्ष्यं गोप्यं रहस्यं परमात्म संबन्धि यद्विज्ञानं मधु मधुब्राह्मणेनोक्तुं अध्याय द्वय प्रकाशितम्, तच वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥ , इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि- भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । पुरचक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशदिति । क. १८.] द्वितीयोऽध्यायः । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृ- तम् ॥ १८ ॥ इदं वै तन्मध्विति पूर्ववत् । उक्तौ द्वौ मन्त्रौ प्रवर्ग्यसं- बन्ध्याख्यायि कोपसंहर्तारौ ; द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययो- रर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः । ब्रह्मविद्या- र्थयोस्त्वध्याययोरर्थ उत्तराभ्यामृग्भ्यां प्रकाशयितव्य इत्यतः प्रवर्तते । यत् कक्ष्यं च मधु उक्तवानाथर्वणो युवाभ्यामित्यु- क्तम् - किं पुनस्तन्मध्वित्युच्यते पुरश्चक्रे, पुर : पुराणि शरीराणि - यत इयमव्याकृतव्याकरणप्रक्रिया - स परमे- वरो नामरूपे अव्याकृतं व्याकुर्वाणः प्रथमं भूरादीन लोकान्सृष्ट्वा चक्रे कृतवान, द्विपदः द्विपादुपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि तथा पुरः शरीराणि चक्रे चतुष्पदः चतुष्पादुपलचिंतानि पशुशरीराणि ; पुर: पुरस्तान, म ईश्वर: पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणि - पुरुष आविशदित्यस्यार्थमाच श्रुतिः - स वा अयं पुरुषः सर्वासु पूर्षु सर्वशरीरेषु पुरिशय:, पुरि शेत इति पुरिशय: सन पुरुष इत्युच्यते ; न एनेन अनेन किंचन किंचिदपि अनावृतम् अनाच्छादितम ; बृहदारण्यकोपनिषद्भष्ये r [ब्रा. ५. तथा न एनेन किंचनासंवृतम् अन्तरननुप्रवेशितम् - बाह्य- भूतेनान्तर्भूतेन च न अनावृतम् ; एवं स एव नामरूपा- त्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थित: ; पुर- चक्रे इत्यादिमन्त्रः संक्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥ इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि- भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् । रूप रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति । अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमन परमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वा- नुभूरित्यनुशासनम् ॥ १९ ॥ इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥ इदं वै तन्मध्वित्यादि पूर्ववत । रूपं रूपं प्रतिरूपो बभूव - रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ; प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्सं- क. १९. ] द्वितीयोऽध्यायः । स्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपा- ज्जायते द्विपदों वा चतुष्पात; स एव हि परमेश्वरो ' नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव । किमर्थे -- पुनः प्रतिरूपमागमनं तस्येत्युच्यते तत् अस्य आत्मनः रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणा- त्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं प्रतिख्यायेत । इन्द्रः परमेश्वर: मायाभि: प्रज्ञाभिः नाम- रूपभूतकृतमिध्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहु- रूप:, ईयते गम्यते - एकरूप एव प्रज्ञानघनः सन् अवि- द्याप्रज्ञाभिः । कस्मात्पुनः कारणात् ? युक्ताः रथ इव वा- जिनः, स्वविषयप्रकाशनाय, हि यस्मात्, अस्य हरयः हरणात् इन्द्रियाणि, शता शतानि दश च प्राणिभेदबा हुल्यात् शतानि दश च भवन्ति; तस्मात् इन्द्रियविषयबा- हुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाश- नाय ; ' पराश्चि खानि व्यतृणत्स्वयंभूः' इति हि काठके । तस्मात् तैरेव विषयस्वरूपैरीयते, न् प्रज्ञानघनैकरसेन स्व- रूपेण । एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ५. उच्यते--- अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च प्राणिभेदस्य आनन्त्यान । किं बहुना ? देय आत्मा, अपूर्वम नास्य कारणं पूर्व विद्यत इत्य- पूर्वम, नास्यापरं कार्य विद्यत इत्यनपरम, नाम्य जात्यन्त- रमन्तराले विद्यत इत्यनन्तरम्, तथा बहिरम्य न विद्यत इत्यबाह्यम् ; किं पुनस्तत् निरन्तरं ब्रह्म ? अयमात्मा; को- sir : यः प्रत्यगात्मा द्रष्टा श्रोता मन्ता बोद्धा विज्ञाता सर्वानुभू:- सर्वात्मना सर्वमनुभवतीति सर्वानुभूः - इत्ये. तदनुशासनम् सर्ववेदान्तोपदेश: ; एष सर्ववेदान्तानामुपसं- हृतोऽर्थ : ; एतदमृतमभयम; परिसमाप्रश्च शास्त्रार्थः ॥ इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥ षष्ठं ब्राह्मणम् ॥ अथ वञ्शः पौतिमाध्यां गौपवनागौप- वनः पौतिमाष्यात्पौतिमाष्यां गौपवना गौपवनः कौशिकान्कौशिकः कौण्डिन्या- स्कौण्डिन्यः शाण्डिल्याच्छ्राण्डिल्यः कौ शिकाच्च गौतमाच्च गौतमः ॥ १ ॥ अग्निवेश्यादग्निवेश्यः शाण्डिल्या- चानभिम्लानाच्चानभिम्लात आनभिम्ला नादानभिम्लात आनभिम्लानादानभि- म्लाता गौतमाङ्गौतमः मैतवप्राचीनयां- ग्याभ्या सैतवप्राचीनयोग्यौ पाराश- यत्पारश भारद्वाजाद्भारद्वाजो भार- द्वाजाच गौतमाच गौतमो भारद्वाजाना- बृहदारण्यकोपनिषद्भाष्ये [ब्रा. ६. रद्वाजः पाराशर्यात्पाराशर्यो बैजवापाय- नाद्वैजवापायनः कौशिकायनेः कौशिका- यनिः ॥ २ ॥ घृतकौशिकाद्धृतकौशिकः पाराश- र्यायणात्पाराशर्यायणः पाराशर्यात्पारा- शर्यो जातूकर्ण्याज्जातूकर्ण्य आसुराय- णाच्च यास्काच्चासुरायणस्त्रैवर्णस्त्रैवणिरौ- पजन्धने रौपजन्धनिरासुरेरासुरिर्भारद्वा- जाद्भारद्वाज आत्रेयादात्रेयो माण्टेम- ण्टिगौतमाङ्गौतमी गौतमाङ्गौतमो वा- त्स्याद्वात्स्यः शाण्डिल्याच्छ्राण्डिल्यः कै- शोर्यात्काप्यात्कैशोर्यः काप्यः कुमारहा- रिनात्कुमारहारितो गालवाङ्गालवो वि- दर्भीकौण्डिन्याद्विदर्भीकौण्डिन्यो वत्स- नपातो बाभ्रवाद्वत्सनपाद्वाभ्रवः पथः सौ- भरात्पन्थाः सौभरोऽयास्यादाङ्गिरसाद- क. ३.] द्वितीयोऽध्यायः । यास्य आङ्गिरस आभूतेस्त्वाष्ट्रादाभूति- स्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्विश्वरूपस्त्वा ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद- ध्यङ्काथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्व मनान्मृत्युः प्राध्वसनः प्रध्वसनात्प्रध्वसन एकर्षेरेकर्षिर्विप्रः चित्तेर्विप्रचित्तिर्व्यष्टेष्टिः सनारोः स- नारुः सनातनात्सनातनः सनगात्स- नगः परमेष्ठिनः परमेष्ठी ब्रह्मणो ब्रह्म स्वयंभु ब्रह्मणे नमः ॥ ३ ॥ इति द्वितीयाध्यायस्य षष्ठं ब्राह्मणम् ॥ अथेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंश: स्तुत्यर्थो ब्रह्मविद्याया: । मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च । तत्र वंश इव वंश :- यथा वेणुः वंश: पर्वणः पर्वणो हि भिद्यते तद्वत् अग्रात्प्रभृति आ मूलप्राप्तेः अयं वंश: ; अध्यायचतुष्ट- यस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ; तत्र प्रथमान्त: बृहदारण्यकोपनिषद्भाष्ये ब्रा. ६. शिष्यः पञ्चम्यन्त आचार्य: ; परमेष्ठी विराट् ; ब्रह्मणो हिर- ण्यगर्भात्; ततः परम् आचार्यपरम्परा नास्ति । यत्पुन- ब्रह्म, तन्नित्यं स्वयंभु, तस्मै ब्रह्मणे स्वयंभुवे नमः ॥ इति द्वितीयाध्यायस्य षष्ठं ब्राह्मणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ बृहदारण्यकोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥