6.P. ४भा- 證 37 श्री १०८ पुस्तकालय, તું અને MEMORIAL EDITION OF THE WORKS OF SRI SANKARACHARYA. THE WORKS 01 ", fག l श्री १०८ ईश्वर 1117. पुस्तकालय & આઈ માર્યો, આ ચી Sri Sankaracharya SRI - VANI VILAS -EDITION. THE WORKS OF SRI SANKARACHARYA VOLUME 7 SRI VANI VILAS PRESS SRIRANGAM ZGG TO HIS HOLINESS SRI JAGADGURU SRI SACHCHIDANANDA SIVABHINAVA NRISIMHA BHARATI SWAMI WHO ADORNS THE THRONE OF THE SRINGERI MUTT AS THE WORTHY REPRESENTATIVE OF THE GREAT SANKARACHARYA AND THAN WHOM IT IS IMPOSSIBLE TO COME ACROSS A HOLIER PERSONAGE, A TRUER MAHATMA, A NOBLER SAINT AND A MORE RIGOROUS ASCETIC, THIS EDITION IS MOST RESPECTFULLY INSCRIBED AS A TOKEN OF UNBOUNDED ADMIRATION BY THE HUMBLEST OF ALL HIS DISCIPLES T. K. BALASUBRAHMANYAM. नानाजन्मसु संचितेन तपसा पूतेन चित्तात्मना मित्रेण प्रतिबोधितेन कुतुकात्सर्वाः कृतीः शांकरीः । संमुय प्रथमं जगद्गुरुपदे भक्त्या मयाद्यार्पिताः स्वीकृत्योपहृतिं करोतु गुरुराड् धन्यं तथेमं जनम् ॥ श्रीमच्छंकरदेशि केन्द्ररचितान्सर्वान्प्रबन्धान्मुदा तत्प्रीत्यै परिशोध्य पुस्तकचयैः संमुद्रय साकं बुधैः । तच्छात्रप्रवरालिमध्यविलसच्छ्री देशिकेन्द्रेषु ता- म्कृत्वाद्योपहृतिं सभक्तिविनयं नूनं कृतार्थोऽस्म्यहम् ॥ सौम्याद माघार्जुनपक्षराजत्सूर्याङ्कतिथ्याश्रितसोमवारे । श्रीशंकरार्यप्रतिमाप्रतिष्ठाकाले मयैषोपहृतिर्व्यधायि ॥ श्रीशंकरकृतिमाल। गुरुवरतुष्ट्यै समर्पिता मोदात् । बालादिमपदभाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥ CONTENTS. PAGE. CHHANDOGYOPANISHAD BHASHYA. 201-572 CHAPTER 4 201 CHAPTER 5 257 CHAPTER 6 333 CHAPTER 7 413 CHAPTER 8 469 VOL. 7 11 विषयाः ॥ छान्दोग्योपनिषद्भाष्यम् चतुर्थोऽध्यायः पृष्ठम् २००–५७२ पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः ... .. अष्टमोऽध्यायः ** 101 THE UPANISHAD-BHASHYA VOL. 4. CHHANDOGYA IV-VIII. B : ॥ श्रीः ॥ उपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । चतुर्थो भागः छान्दोग्ये ४–८. अध्यायाः : ॥ eft: ॥ ॥ विषयानुक्रमणिका ॥ चतुर्थोऽध्यायः जानश्रुतेर्हेसोक्त्या रैक्वनिकटे क्षत्तृप्रेरणम् रैक्काय जानश्रुतेर्धनादिदानम् आख्यायिकासहिता सर्वोपलब्धिफला संवर्गविद्या सत्यकामेन ब्रह्मचर्यार्थे गौतमस्य गोचारणम् बलीवर्दस्य सत्यकामाय ब्रह्मणः प्रथमपादोक्तिः अग्नेः सत्यकामाय ब्रह्मणो द्वितीयपादोक्तिः हंसस्य सत्यकामाय तृतीयपादोक्तिः पृष्ठम् २०१ – २५६ *** *** *** www. ** मद्गोः : सत्यकामाय चतुर्थपादोक्तिः ... २२९ सत्यकामस्य गुरुकुलं प्रति पुनर्गमनम् .... २३१ उपकोसलस्य आत्मविद्या गार्हपत्याग्निविद्या ... २३८ अन्वाहार्य पचनाग्निविद्या S. u. IV. 0 [२] आहवनीयाग्निविद्या अग्नीनामुपकोसलं प्रति वचनम् अक्षिपुरुषोपासना यज्ञोपासना व्याहृत्युपासना ... २४२ ... * ... पञ्चमोऽध्यायः • G ज्येष्ठश्रेष्ठादिगुणोपासना, इन्द्रियाणां विवादश्च प्राणस्य अन्नवासोदृष्ट्या उपासनम् पञ्चाग्निविद्यार्थे श्वेतकेतुप्रवाहणसंवादः लोकरूपाग्निविद्या पर्जन्यरूपाग्निविद्या पृथिवीरूपाग्निविद्या पुरुषरूपानिविद्या योषिद्रूपाद्मिविद्या २५७–३३२ ** *** *** ... योनिद्वारा जातस्य पुनः पुनर्घटीयन्त्रवद्गमनागम- नाय कर्म कुर्वतो मृतस्याग्नये हरणम् आत्मविद्यया उत्तरमार्गः कर्मणा दक्षिणमार्गः औपमन्यवादिभिः पञ्चभिरुद्दालकेन सहितैः कैके- यस्य संवादः क आत्मा किं ब्रह्मेति ... *** [ ३ ] औपमन्यव कैकेयराजसंवादः सत्ययज्ञकैकेयराजसंवादः इन्द्रद्युम्नकैकेयराजसंवादः जनकैकेयसंवादः बुडिलकैकेयसंवादः उद्दालककैकेयसंवादः सर्वैः सह कैकेयसंवादः ... ३१९ ... ... विदुषोऽग्निहोत्रसिद्ध्यर्थं प्राणाय स्वाहेति प्रथमाहुतिकथनम् ३२६ व्यानाय स्वाहेति द्वितीयाहुतिकथनम् अपानाय स्वाहेति तृतीयाहुतिकथनम् **** समानाय स्वाहेति चतुर्थाहुतिकथनम् .... ३२९ भूतसूक्ष्मात्प्रपञ्चसृष्टिक्रमः एकविज्ञानेन सर्वविज्ञानम् अन्नाद्यशितं त्रेधा भवतीति उदानाय स्वाहेति पञ्चमाहुतिकथनम् एवंविदोऽग्निहोत्रफलम् षष्ठोऽध्यायः श्वेतकेतमुपदिशत्यारुणिः ... ३३३ – ४१२ अन्यपक्षनिरसनपूर्वकं सर्वस्य जगतः सन्मात्रत्वकथनम् ... *** ... ३५७ * [ 8 ] भक्ष्यमाणस्याणीयभागो मनआदिर्भवतीति षोडशकलपुरुषोपदेशः सुषुप्तिकालस्थित्युपदेशः सुषुप्त्यादौ सत्संपन्नानां सत्संपत्तिज्ञानाभावे दृष्टान्तः नदीदृष्टान्तेनोपदेशः ... *** वृक्षदृष्टान्तेनोपदेशः ** ... ४०४ ४१३–४६८ न्यग्रोधफलदृष्टान्तेनोपदेश: लवणदृष्टान्तेनोपदेशः गन्धारदेशादानीत पुरुषदृष्टान्तेनोपदेशः मुमूर्षुपुरुषदृष्टान्तेनोपदेशः चौरपरशुग्रहणदृष्टान्तेनोपदेशः सप्तमोऽध्यायः नारदाय सनत्कुमारोपदेशः वाक् नाम्नो भूयसीति मनो वाचो भूय इति संकल्पो मनसो भूयानिति चित्तं संकल्पाद्भूय इति ... ... ४२१ *** विज्ञानं ध्यानाद्भूय इति ... ध्यानं चित्ताद्भूय इति बलं विज्ञानाद्भूय इति अन्नं बलाद्भूय इति आप अन्नाद्भूयस्य इति तेज अद्भ्यो भूय इति आकाशस्तेजसो भूयानिति [4] स्मरणम् आकाशाद्भूय इति आशा स्मरणाद्भूयसीति प्राण आशाया भूयानिति सत्यं त्वेव विजिज्ञासितव्यमित्युपदेशः विज्ञानं त्वेव विजिज्ञासितव्यमित्युपदेशः. मतिस्त्वेव विजिज्ञासितव्येत्युपदेशः श्रद्धा त्वेव विजिज्ञासितव्येत्युपदेशः ... ४३७ ४४ १ ... ... 200 ... ... *** *** *** निष्ठा त्वेव विजिज्ञासितव्येत्युपदेशः कृतिस्त्वेव विजिज्ञासितव्येत्युपदेशः सुखं त्वेव विजिज्ञासितव्यमित्युपदेशः भूमा त्वेव विजिज्ञासितव्य इत्युपदेशः भूम्नः स्वरूपकथनम् सर्वत्र स एवेत्युपदेशः एवंविदः फलोपदेशः S. U. IV. 00 ... ४६५ अष्टमोऽध्यायः [ ६ ] दहर पुण्डरीके ब्रह्मोपासनम् दहरब्रह्मोपासनफलम् . . ४६९–५५३ ** असत्यापिहितसत्योपासनं सत्यमिति नामाक्षरोपासनं च ४८४ सेतुरूपात्मोपासना यज्ञादौ ब्रह्मचर्यदृष्टिः हृदयनाडीसूर्यरश्मिपथोपासना इन्द्रविरोचनयोः प्रजापतिसकाशं गमनम् इन्द्रविरोचनयोरुदशरावे आत्मदर्शनम् इन्द्रस्य पुनरागमनम् इन्द्राय स्वप्नपुरुषोपदेशः - सुषुप्तपुरुषोपदेशः मर्त्यशरीराद्युपदेशः श्यामाच्छबलमिति जपार्थमन्त्रः कारणत्वेन आकाशाख्यब्रह्मोपदेशः परम्परागतमात्मज्ञानमित्युपदेशः ... ... ** ... ** ... ... 300 श्री १०८ ईश्वर पुस्तकालय, भवन, असा राही छान्दोग्योपनिषद्भाष्यम् चतुर्थोऽध्यायः s. u. IV. 1 "" श्री १०८ पुस्तकालय भवन, प्रकाश N ॥ चतुर्थोऽध्यायः वायुप्राणयोर्ब्रह्मणः पाददृष्टथध्या- सः पुरस्ताद्वर्णितः । अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्य- ते । सुखावबोधार्था आख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च । श्रद्धान्नदानानुद्धतत्वादीनां च विद्या- प्राप्तिसाधनत्वं प्रदर्श्यते आख्यायिकया - 7 जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो ब- हुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्न- मत्स्यन्तीति ॥ १ ॥ जानश्रुति: जनश्रुतस्यापत्यम् । हं ऐतिह्यार्थः । पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेय: श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः । बहुदायी प्रभूतं दातुं शीलमस्येति बहु- दायी । बहुपाक्य: वहु पक्तव्य महन्यहनि गृहे यस्यासौ बहुपा- اله छान्दोग्योपनिषद्भाष्ये [ख. क्यः ; भोजनार्थिभ्यो बह्वस्य गृहेऽन्नं पच्यत इत्यर्थः । एवं- गुणसंपन्नोऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव । स ह सर्वतः सर्वासु दिक्षु प्रामेषु नगरेषु आवसथान् एत्य वसन्ति येष्विति आवसथाः तान् मापयांचक्रे कारितवानित्यर्थः । सर्वत एव मे मम अन्नं तेष्वावसथेषु वसन्तः अत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः ॥ अथ हसा निशायामतिपेतुस्तद्वै- व५ ह५ सोह समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्त्र समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी- स्तत्त्वा मा प्रधाक्षीरिति ॥ २ ॥ तत्रैवं सति राजनि तस्मिन्घर्मकाले हर्म्यतलस्थे अथ हंसा निशायां रात्रौ अतिपेतुः । ऋषयो देवता वा राज्ञो - ऽन्नदानगुणैस्तोषिताः सन्तः हंसरूपा भूत्वा राज्ञो दर्शनगो- चरे अतिपेतुः पतितवन्तः । तत् तस्मिन्काले तेषां पततां हंसानाम् एकः पृष्ठतः पतन् अग्रतः पतन्तं हंसमभ्युवाद अभ्युक्तवान — हो होयीति भो भो इति संबोध्य भल्लाक्ष - भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याश्चर्यमिति तद्वत्; भ लाक्षेति मन्ददृष्टित्वं सूचयन्नाह ; अथवा सम्यग्ब्रह्मदर्शना- १.] चतुर्थोऽध्यायः । भिमानवत्त्वात्तस्य असकृदुपालब्धस्तेन पीड्यमानोऽमर्षितया तत्सूचयति भल्लाक्षेति; जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योति: प्रभास्वरम् अन्नदानादिजनितप्रभावजम् आततं व्याप्तं द्युलोकस्पृगित्यर्थः ; दिवा अह्ना वा समं ज्योतिरित्येतत् ; तन्मा प्रसाङ्गीः सञ्जनं सक्तिं तेन ज्योति- षा संबन्धं मा कार्षीरित्यर्थः । तत्प्रसञ्जनेन तत् ज्योति: त्वा त्वां मा प्रधाक्षीः मा दहत्वित्यर्थः ; पुरुषव्यत्ययेन मा प्रधाक्षीदिति ॥ तमु ह परः प्रत्युवाच कम्बर एनमेत- त्सन्तः सयुग्वानमिव रक्कमात्थेति यो नु कथ सयुग्वा रैक्व इति ॥ ३ ॥ तम् एवमुक्तवन्तं परः इतरोऽग्रगामी प्रत्युवाच - अरे निकृष्टोऽयं राजा वराकः, तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयति एनमेवं सबहुमानमेतद्वचनमात्थ रैक्कमिव सयुग्वानम्, सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्कः, तमिव आत्थ एनम् ; अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्क इवेत्यभिप्रायः । इतरश्च आह— यो नु कथं त्वयोच्यते सयुग्वा रैक्कः । इत्युक्तवन्तं भल्लाक्ष आह- शृणु यथा स रैकः ॥ यथा कृतायविजितायाघरेयाः संय- छान्दोग्योपनिषद्भाष्ये न्त्येवमेन सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद समयैतदुक्त इति ॥ ४ ॥ [ख. यथा लोके कृताय: कृतो नामायो द्यूतसमये प्रसिद्धश्च- तुरङ्कः, स यदा जयति द्यूते प्रवृत्तानाम्, तस्मै विजिताय तद्- र्थमितरे त्रिज्येकाङ्का अधरेयाः त्रेताद्वापरकलिनामान: सं- यन्ति संगच्छन्तेऽन्तर्भवन्ति ; चतुरके कृताये त्रिज्येकाङ्कानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः । यथा अयं दृष्टान्तः, एव- मेनं रैकं कृतायस्थानीयं त्रेताद्ययस्थानीयं सर्वं तदभिसमैति अन्तर्भवति रैक्वे । किं तत् ? यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति, तत्सर्वं रैकस्य धर्मेऽन्तर्भ- वति, तस्य च फले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः । तथा अन्योऽपि कश्चित् यः तत् वेद्यं वेद । किं तत् ? यत् वेद्यं सः रैक्कः वेद ; तद्वेद्यमन्योऽपि यो वेद, तमपि सर्वप्राणि- धर्मजातं तत्फलं च रैक्कमिवाभिसमैतीत्यनुवर्तते । सः एवंभूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवमुक्तः, रैक्व- वत्स एव कृतायस्थानीयो भवतीत्यभिप्राय: ॥ तदु ह जानश्रुतिः पौत्रायण उपशु- श्राव स ह संजिहान एव क्षत्तारमुवा- १.] चतुर्थोऽध्यायः । चाङ्गारे ह सयुग्वानमिव रक्कमात्थेति यो नु कथ‍ सयुग्वा रैक इति ॥ ५ ॥ यथा कृतायविजितायाधरेयाः संय- न्त्येवमेन‍ सर्वं तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ६ ॥ तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य- विदुषो रैकादेः प्रशंसारूपम् उपशुश्राव श्रुतवान्हर्म्य तलस्थो राजा जानश्रुतिः पौत्रायणः । तच्च हंसवाक्यं स्मरन्नेव - पौन:- पुन्येन रात्रिशेषमतिवाहयामास । ततः स वन्दिभी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमानः उवाच क्षत्तारं संजि- हान एव शयनं निद्रां वा परित्यजन्नेव, हेऽङ्ग वत्स अरे सयु- ग्वानमिव रैकमात्थ किं माम् स एव स्तुत्यर्हो नाहमित्यभि- प्राय: । अथवा सयुग्वानं रैक्कमात्थ गत्वा मम तद्दिदृशाम् । तदा इवशब्दोऽवधारणार्थोऽनर्थको वा वाच्यः । स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञोऽभिप्रायज्ञः — यो नु कथं सयुग्वा रैक्व इति, राज्ञा एवं चोक्तः आनेतुं तच्चिह्नं ज्ञातु- मिच्छन् यो नु कथं सयुग्वा रैक्व इत्यवोचन् । स च भ- ल्लाक्षवचनमेवावोचत् तस्य म्मरन् ॥ छान्दोग्योपनिषद्भाष्ये स ह क्षत्तान्विष्य नाविदमिति प्रत्ये- याय त‍ होवाच यत्रारे ब्राह्मणस्यान्वेष- णा तदेनमच्छेति ॥ ७ ॥ [ख. स ह क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान् । तं होवाच क्षत्ता- रम् - अरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्तेऽरण्ये नदीपु- लिनादौ विविक्ते देशे अन्वेषणा अनुमार्गणं भवति, तत् तत्र एनं रैक्वम् अच्छे ऋच्छ गच्छ, तत्र मार्गणं कुर्वित्यर्थः ॥ सोऽधस्ताच्छकटस्य पामानं कषमाण- मुपोपविवेश त‍ हाभ्युवाद त्वं नु भग- वः सयुग्वा रैक्क इत्यहारा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ इत्युक्तः क्षत्ता अन्विष्य तं विजने देशे अधस्ताच्छकटस्थ गन्ध्याः पामानं खर्जू कषमाणं कण्डूयमानं दृष्ट्वा, अयं नूनं सयुग्वा रैक इति उप समीपे उपविवेश विनयेनोपविष्ट- वान् । तं च रैक्कं ह अभ्युवाद उक्तवान । त्वमसि हे भगवः भगवन् सयुग्वा रैक इति । एवं पृष्टः अहमस्मि हि अरा३ अरे इति ह अनादर एव प्रतिजज्ञे अभ्युपगतवान् -- स तं विज्ञाय अविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ॥ इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ तदु ह जानश्रुतिः पौत्रायणः षट्- शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे त‍ हाभ्युवाद ॥ १ ॥ तत् तत्र ऋषेर्गार्हस्थ्यं प्रति अभिप्रायं बुद्धा धनार्थितां च उ ह एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं क- ण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्कं प्रति गतवान् । तं च गत्वा अभ्युवाद ह अभ्युक्तवान ॥ रैकेमानि षट्शतानि गवामयं निष्को- ऽयमश्वतरीरथोऽनु म एतां भगवो देव- ताँ शाधि यां देवतामुपास्स इति ॥ २ ॥ हे रैक्व गवां षट् शतानि इमानि तुभ्यं मया आनीता- नि, अयं निष्क: अश्वतरीरथश्चायम् एतद्धनमादत्स्व । भग- वोऽनुशाधि च मे माम् एताम्, यां च देवतां त्वमुपास्से तद्देवतोपदेशेन मामनुशाधीत्यर्थः ॥ तवैव छान्दोग्योपनिषद्भाष्ये तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र सह गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां नि- ष्कमश्वतरीरथं दुहितरं तदादाय प्रतिच- क्रमे ॥ ३ ॥ [ख. तम् एवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्कः । अहे- त्ययं निपातो विनिग्रहार्थीयोऽन्यत्र, इह त्वनर्थकः, एव- शब्दस्य पृथक्प्रयोगात् । हारेत्वा हारेण युक्ता इत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तवैव तिष्ठतु न ममं अपर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायः । हे शूद्रेति - ननु राजासौ क्षत्तृसंबन्धात्, स ह क्षत्तारमुवाचेत्युक्तम् ; विद्याग्रहणाय च ब्राह्मणसमीपोपगमात् शूद्रस्य च अनधि- कारात् कथमिदमननुरूपं रैकेणोच्यते हे शूद्रेति । तत्राहुरा- चार्याः — हंसवचनश्रवणात् शुगेनमाविवेश; तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषि: आत्मनः प- रोक्षज्ञतां दर्शयन् शूद्रेत्याहेति । शूद्रवद्वा धनेनैव एनं विद्या- ग्रहणायोपजगाम न च शुश्रूषया । न तु जात्यैव शूद्र इति । अपरे पुनराहुः अल्पं धनमाहृतमिति रुषैव एनमुक्तवान् शूद्रेति । लिङ्गं च बह्वाहरणे उपादानं धनस्येति । तदु ह - २.] चतुर्थोऽध्यायः । ऋषेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रम- धिकं जायां च ऋषेरभिमतां दुहितरमात्मनः तदादाय प्रति- चक्रमे क्रान्तवान् । त‍ हाभ्युवाद रैक्वेद५ सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्त्रेऽन्वेव मा भगवः शाधीति ॥ तस्या ह मुखमुपोद्गृह्णनुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ते हैते रैक्कपर्णा नाम महावृषेषु यत्रास्मा उ- वास स तस्मै होवाच ॥ ५ ॥ इति द्वितीयः खण्डः ॥ रैक्व इदं गवां सहस्रम् अयं निष्क: अयमश्वतरीरथः इयं जाया जायार्थं मम दुहिता आनीता अयं च ग्राम: यस्मिन्नास्से तिष्ठसि स च त्वदर्थे मया कल्पितः ; तदेतत्सर्वमादाय अनु- शाध्येव मा मां हे भगवः, इत्युक्तः तस्या जायार्थमानीताया राज्ञो दुहितुः ह एव मुखं द्वारं विद्याया दाने तीर्थम् उपो- गृह्णन् जानन्नित्यर्थः । ' ब्रह्मचारी धनदायी मेधावी श्रोत्रियः छान्दोग्योपनिषद्भाष्ये [ख. प्रियः । विद्यया वा विद्यां प्राह तानि तीर्थानि षण्मम' इति विद्याया वचनं विज्ञायते हि । एवं जानन् उपो- गृह्वन् उवाच उक्तवान् । आजहार आहृतवान् भवान् इमा: गा: यच्चान्यद्धनं तत्साध्विति वाक्यशेषः । शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् । अने- नैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यथाः आलापय- सीति मां भाणयसीत्यर्थः । ते ह एते ग्रामा रैकपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषित- वान् रैक:, तानसौ प्रामानदादस्मै रक्वाय राजा । तस्मै राज्ञे धनं दत्तवते ह किल उवाच विद्यां सः रैक्वः ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ वायुर्याव संवर्गो यदा वा अग्निरुद्रा- यति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायु- मेवाप्येति ॥ १ ॥ वायुर्वाव संवर्ग: वायुर्बाह्यः, वावेत्यवधारणार्थः, संव- र्जनात्संग्रहणात्संग्रसनाद्वा संवर्ग:; वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यत: संवर्ग: संवर्जनाख्यो गुणो ध्येयो वायोः, कृतायान्तर्भावदृष्टान्तात् । कथं संवर्गत्वं वायोरिति, आह - - यदा यम्मिन्काले वै अग्निः उद्वायति उद्वा- सनं प्राप्नोति उपशाम्यति, तदा असौ अग्निः वायुमेव अ- प्येति वायुस्वाभाव्यमपिगच्छति । तथा यदा सूर्योऽस्तमेति, वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोः वायौ अपि- गमनम् ? नैष दोष:, अस्तमने अदर्शनप्राप्तेः वायुनिमित्त- त्वात्-; वायुना हि अस्तं नीयते सूर्यः, चलनस्य वायुकार्य- त्वात् । अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूप- योर्वायावेव अपिगमनं स्यात् ॥ छान्दोग्योपनिषद्भाष्ये यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुयैवैतान्सर्वान्संवृङ्क इत्यधिदैवतम् ॥ ख. तथा यदा आप: उच्छुष्यन्ति उच्छोषमाप्नुवन्ति, तदा वायुमेव अपियन्ति । वायुर्हि यस्मादेव एतान् अग्न्याद्या- न्महावलान् संवृङ्क्ते, अतो वायुः संवर्गगुण उपास्य इत्यर्थः । इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥ अथाध्यात्मं प्राणो वाव संवर्गः स यदा खपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राण श्रोत्रं प्राणं मनः प्राणो ह्ये- वैतान्सर्वान्संवृत इति ॥ ३ ॥ अथ अनन्तरम् अध्यात्मम आत्मनि संवर्गदर्शनमिदमु- च्यते । प्राण: मुख्य: वाव संवर्ग: । स पुरुषः यदा य- स्मिन्काले स्वपिति, तदा प्राणमेव वागप्येति - वायुमिवाग्निः । प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैता - न्वागादीन् सर्वान्संवृङ्क इति ॥ तौ वा एतौ द्वौ संवर्गों वायुरेव दे- वेषु प्राणः प्राणेषु ॥ ४ ॥ तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणौ वायुरेव देवेषु - ३.] चतुर्थोऽध्यायः । २१५ संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥ अथ ह शौनकं च कापेयमभिप्रतारि- णं च काक्षसेनिं परिविष्यमाणौ ब्रह्म- चारी बिभिक्षे तस्मा उ ह न ददतुः ॥५ ॥ अथ एतयोः स्तुत्यर्थम् इयमाख्यायिका आरभ्यते हेत्यैतिह्यार्थः । शौनकं च शुनकस्यापत्यं शौनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमणौ सूपकारैः ब्रह्मचारी ब्रह्मवि- च्छौण्डो बिभिने भिक्षितवान् । ब्रह्मचारिणो ब्रह्मविन्मानि- तां बुद्ध्वा तं जिज्ञासमानौ तस्मै उ भिक्षां न ददतुः न दत्तवन्तौ ह किमयं वक्ष्यतीति ॥ स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न द त्तमिति ॥ ६ ॥ स ह उवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहु- वचनम् । देव एकः अग्न्यादीन्वायुर्वागादीन्प्राणः । कः छान्दोग्योपनिषद्भाष्ये ख. सः प्रजापतिः जगार प्रसितवान् । कः स जागरेति प्रश्न- मेके । भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकः तस्य गोपाः गोपायिता रक्षिता गोप्तेत्यर्थः । तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्याः मर- धर्माणोऽविवेकिनोवा हे अभिप्रतारिन् बहुधा अध्यात्मा- धिदैवताधिभूतप्रकारैः वसन्तम् । यस्मै वै एतत् अहन्यहनि अन्नम् अदनायाह्रियते संस्क्रियते च तस्मै प्रजापतये एत- दन्नं न दत्तमिति ॥ । तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येषायात्मा देवानां जनिता प्रजाना‍ हिरण्यदष्ट्रो बभसोऽनसूरिर्महान्तम- स्य महिमानमाहुरनद्यमानो यदनन्नम- तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे द- तस्मै भिक्षामिति ॥ ७ ॥ तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानः मनसा आलोचयन् ब्रह्मचारिणं प्रत्येयाय आजगाम । गत्वा च आह यं त्वमवोचः नाभिपश्यन्ति मर्त्या इति, तं वयं पश्यामः । कथम् ? आत्मा सर्वस्य स्थावरजङ्गमस्य । किंच देवानामग्न्यादीनाम् आत्मनि संहृत्य प्रसित्वा पुनर्जनयिता ३.] चतुर्थोऽध्यायः । उत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम् । अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च जनिता । अथवा आत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजं- गमानाम् । हिरण्यदंष्ट्रः अमृतदंष्ट्रः अभग्नदंष्ट्र इति यावत् । बभसो भक्षणशीलः । अनसूरिः सूरिर्मेधावी न सूरिरसू- रिस्तत्प्रतिषेधोऽनसूरिः सूरिरेवेत्यर्थः । महान्तमतिप्रमाण- मप्रमेयमस्य प्रजापतेर्महिमानं विभूतिम् आहुर्ब्रह्मविदः । यस्मात्स्वयमन्यैरनद्यमानः अभक्ष्यमाणः यदनन्नम् अग्नि- वागादिदेवतारूपम् अत्ति भक्षयतीति । वा इति निरर्थक: । वयं हे ब्रह्मचारिन्, आ इदम् एवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे । वयमिति व्यवहितेन संबन्धः । अन्ये न वयमिदमुपास्महे, किं तर्हि ? परमेव ब्रह्म उपास्महे इति वर्णयन्ति । दत्तास्मै भिक्षामित्यवोचद्भृत्यान् ॥ तस्मा उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा विराडन्नादी तयेद सर्वं दृष्ट सर्वमस्येदं दृष्टं भव- त्यन्नादो भवति य एवं वेद य एवं वेद ॥ इति तृतीयः खण्डः ॥ s. U. IV. 2 छान्दोग्योपनिषद्भाष्ये [ख. तस्मा उ ह ददुः ते हि भिक्षाम् । ते वै ये ग्रस्यन्ते अग्न्यादयः यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथा अन्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश भवन्ति संख्यया, दश सन्तः तत्कृतं भवति ते, चतुरङ्क एकायः एवं चत्वारस्त्र्यङ्कायः एवं त्रयोऽपरे द्व्यङ्काय: एवं द्वाव- न्यावेकाङ्काय: एवमेकोऽन्यः इत्येवं दश सन्तः तत्कृतं भवति । यत एवम्, तस्मात् सर्वासु दिक्षु दंशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव, 'दशाक्षारा विराट् ' ' विराडन्नम् ' इति हि श्रुतिः । अतोऽन्नमेव, दशसंख्यत्वात् । तत एव दश कृतं कृतेऽन्तर्भावात् चतुरङ्कायत्वेनेत्यवोचाम । सैषा विराट् दशसंख्या सती अन्नं च अन्नादी अन्नादिनी च कृतत्वेन । कृते हि दशसंख्या अन्तर्भूता, अतोऽन्नमन्नादिनी च सा । तथा विद्वान्दशदेवतात्मभूतः सन् विराट्त्वेन दशसंख्यया अन्नं कृतसंख्यया अन्नादी च । तया अन्नान्नादिन्या इदं सर्व जगत् दशदिक्संस्थं दृष्टं कृत संख्याभूतया उपलब्धम् । एवंविदः अस्य सर्वे कृतसंख्याभूतस्य दशदिक्संबद्धं दृष्टम् उपलब्धं भवति । किंच अन्नादश्च भवति य एवं वेद यथोक्तदर्शी । द्विरभ्यासः उपासनसमाध्यर्थः ॥ इति तृतीयखण्डभाष्यम् ॥ चतुर्थः खण्डः ॥ सत्यकामो ह जाबाली जबालां मात- रसामन्त्रयांचक्रे ब्रह्मचर्यं भवति विव- त्स्यामि किंगोत्रो न्वहमस्मीति ॥ १ ॥ सर्वे वागाद्यग्न्यादि च अन्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्त्रह्मदृष्टिर्विधातव्येत्यारभ्यते । श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनाय आख्यायिका । सत्य- कामो ह नामतः, ह शब्द ऐतिह्यार्थः, जबालाया अपत्यं जाबालः जबालां स्वां मातरम् आमन्त्रयांचक्रे आमन्त्रित- वान् । ब्रह्मचर्ये स्वाध्यायग्रहणाय हे भवति विवत्स्यामि आचार्यकुले, किंगोत्रोऽहं किमस्य मम गोत्रं सोऽहं किंगो- त्रो नु अहमस्मीति । सा हैनमुवाच नाहमेतद्वेद तात यगो- त्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यगो- वस्त्वमसि जबालां तु नामाहमस्मि स- छान्दोग्योपनिषद्भाष्ये त्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ २ ॥ [ख. एवं पृष्टा जबाला सा ह एनं पुत्रमुवाच --- नाहमेतत् तव गोत्रं वेद, हे तात यद्गोत्रस्त्वमसि । कस्मान्न वेत्सीत्युक्ता आह— बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चर- न्ती अहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहम्, परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् । यौवने च तत्काले त्वामलभे लब्धवत्यस्मि । तदैव ते पितोपरत: ; अतोऽनाथ। अहम्, साहमेतन्न वेद यगोत्रस्त्वमसि । जबाला तु नामाहमस्मि, सत्यकामो नाम त्वमसि, स त्वं सत्यकाम एवाहं जाबालोऽस्मीत्याचार्याय ब्रुवीथाः ; यद्याचार्येण पृष्ट इत्यभिप्राय: ॥ स ह हारिद्रुमतं गौतममेत्योवाच ब्र- ह्मचर्य भगवति वत्स्याम्युपेयां भगव- न्तमिति ॥ ३ ॥ तँ होवाच किंगोत्रो नु सोम्यासी- ति स होवाच नाहमेतद्वेद भो यगोत्रो- ऽहमस्म्यपृच्छं मातर सा मा प्रत्यनवी- ४.] चतुर्थोऽध्यायः । द्वह्वहं चरन्ती परिचारिणी यौवने त्वा- मलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ सत्यकामो जाबालो- ऽस्मि भो इति ॥ ४॥ ; स ह सत्यकाम: हारिद्रुमतं हरिद्रुमतोऽपत्यं हारि- द्रुमतं गौतमं गोत्रतः एत्य गत्वा उवाच - ब्रह्मचर्य भग- वति पूजावति त्वयि वत्स्यामि अतः उपेयाम् उपगच्छेयं शिष्यतया भगवन्तम् इत्युक्तवन्तं तं ह उवाच गौतम :- किं- गोत्र : नु सोम्य असीति, विज्ञातकुलगोत्रः शिष्य उपनेतव्यः इति पृष्टः प्रत्याह सत्यकामः । स ह उवाच - नाहमेतद्वेद भो, यगोत्रोऽहमस्मि ; किं तु अपृच्छं पृष्टवानस्मि मातरम् ; सा मया पृष्टा मां प्रत्यब्रवीन्माता; वह्वहं चरन्तीत्यादि पूर्ववत्; तस्या अहं वचः स्मरामि ; सोऽहं सत्यकाम जाबा- लोऽस्मि भो इति ॥ तँ होवाच नैतदब्राह्मणो विवक्तुम- र्हति समिधः सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामब- छान्दोग्योपनिषद्भाष्ये लानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नु- वाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्र संपेदुः ॥ ५ ॥ इति चतुर्थः खण्डः॥ . [ख. तं ह उवाच गौतम: —–— नैतद्वचः अब्राह्मणो विशेषेण वक्तुमर्हति आर्जवार्थसंयुक्तम् । ऋजवो हि ब्राह्मणा नेतरे स्वभावत: । यस्मान्न · सत्यात् ब्राह्मणजातिधर्मात् अगा: नापेतवानसि, अत: ब्राह्मणं त्वामुपनेष्ये; अत: संस्कारार्थं होमाय समिधं सोम्य आहर, इत्युक्त्वा तमुपनीय कृशा- नामबलानां गोयूथान्निराकृत्य अपकृष्य चतुःशता चत्वारिश- तानि गवाम् उवाच - इमाः गाः सोम्य अनुसंब्रज अनुगच्छ । इत्युक्तः ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच - नासहस्रेण अपूर्णेन सहस्रेण नावर्तेय न प्रत्यागच्छेयम् । स एवमुक्त्वा गा: अरण्यं तृणोदकबहुलं द्वन्द्वरहितं प्रवेश्य स ह वर्षगणं दीर्घे प्रोवास प्रोषितवान् । ताः सम्यग्गावः रक्षिताः यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ अथ हैनमृषभोऽभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रः स्मः प्रापय न आचार्य- कुलम् ॥ १ ॥ तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सती ऋषभमनुप्रविश्य ऋषभभावमापन्ना अनुग्रहाय अथ ह एनमृषभोऽभ्युवाद अभ्युक्तवान् सत्यकाम ३ इति संबोध्य । तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ । प्राप्ताः सोम्य सहस्रं स्मः, पूर्णा तव प्रतिज्ञा, अतः प्रापय न: अस्मानाचार्यकुलम् ॥ ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्म- णः प्रकाशवान्नाम ॥ २ ॥ किंच अहं ब्रह्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथ- . यानि । इत्युक्तः प्रत्युवाच - ब्रवीतु कथयतु मे मह्यं भग- छान्दोग्योपनिषद्भाष्ये वान् । इत्युक्तः ऋषभः तस्मै सत्यकामाय ह उवाच— प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः । तथा प्रतीची दिक्कला दक्षिणा दिक्कला उदीची दिक्कला, एष वै सोम्य ब्रह्मणः पादः चतुष्कलः चतस्रः कला अवयवा यस्य सोऽयं चतुष्कलः पादो ब्रह्मण: प्रकाशवान्नाम प्रकाशवा- नित्येव नाम अभिधानं यस्य । तथोत्तरेऽपि पादास्त्रयश्वतु- ष्कला ब्रह्मण: ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवान- स्मिलोके भवति प्रकाशवतो ह लोका- ञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥ स यः कश्चित् एवं यथोक्तमेतं ब्रह्मणः चतुष्कलं पादं विद्वान् प्रकाशवानित्यनेन गुणेन विशिष्टम् उपास्ते, तस्येदं फलम् - प्रकाशवानस्मिल्लोके भवति प्रख्यातो भवतीत्यर्थः ; तथा अदृष्टं फलम् --- प्रकाशवत: ह लोकान् देवादिसंबन्धिनः मृत: सन् जयति प्राप्नोति ; य एतमेवं विद्वान् चतुष्कलं पादं ब्रह्मण: प्रकाशवानित्युपास्ते ॥ इति पञ्चमखण्डभाष्यम् ॥ षष्ठः खण्डः ॥ अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभ्रुवुस्तत्राग्निमुपसमाधाय गा उ- परुध्य समिधमाधाय पञ्चादग्नेः प्राडुपो- पविवेश ॥ सोऽग्निः ते पादं वक्तेत्युपरराम ऋषभः । सः सत्य- काम: ह श्वोभूते परेद्युः नैत्यकं नित्यं कर्म कृत्वा गाः अभिप्रस्थापयांचकार आचार्यकुलं प्रति । ताः शनैश्वरन्त्यः आचार्यकुलाभिमुख्यः प्रस्थिताः यत्र यस्मिन्काले देशेऽभि सायं निशायामभिसंबभूवुः एकत्राभिमुख्यः संभूताः, तत्रा- ग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मु- ख: उपविवेश ऋषभवचो ध्यायन् ॥ तमग्निरभ्युवाद सत्यकाम३ इति भग- व इति ह प्रतिशुश्राव ॥ २ ॥ तमग्निरभ्युवाद सत्यकाम ३ इति संबोध्य । तम् असौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्र- छान्दोग्योपनिषद्भाष्ये वीतु मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः क- लैष वै सोम्य चतुष्कलः पादो ब्रह्मणो- ऽनन्तवान्नाम ॥ ३ ॥ [ख. ब्रह्मणः सोम्य ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै ह उवाच, पृथिवी कला अन्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् । एष वै सोम्य चतु- ष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मि- लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो- ऽनन्तवानित्युपास्ते ॥ ४ ॥ इति षष्ठः खण्डः ॥ स यः कश्चित् यथोक्तं पादमनन्तवत्वेन गुणेनोपास्ते, स तथैव तद्गुणो भवत्यस्मिँल्लोके, मृतश्च अनन्तवतो ह लो- कान् स जयति ; य एतमेवमित्यादि पूर्ववत् ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ हसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिघमाधाय पश्चादग्नेः प्राडु- पोपविवेश ॥ १ ॥ तँ हँस उपनिपत्याभ्युवाद सत्यका - म३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ सोऽग्निः हंसः ते पादं वक्तेत्युक्त्वा उपरराम । हंस आ- दित्यः, शौक्लथात्पतनसामान्याच्च । स ह श्वोभूते इत्यादि समानम् ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति व्रवी- तु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलै- छान्दोग्योपनिषद्भाष्ये ष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३॥ स य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योति- मानस्मिलोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ इति सप्तमः खण्डः ॥ [ख. अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाच ; अतो हंस आदित्यत्वं प्रतीयते । विद्वत्फलम् – ज्योतिष्मान् दीप्तियु- कोsस्मिलोके भवति । चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकान् जयति । समानमुत्तरम् ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ मनुष्ठे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपवि- बेश ॥ १ ॥ हंसोऽपि मद्गुष्टे पादं वक्तेत्युपरराम । मद्गुः उदकचरः पक्षी, स च अप्संबन्धात्प्राणः । स ह श्वोभूते इत्यादि पूर्ववत् ॥ तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम ३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥ ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्र- वीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष छान्दोग्योपनिषद्भाष्ये वै सोम्य चतुष्कलः पादो ब्रह्मण आयत- नवान्नाम ॥ ३ ॥ [ख. स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राण: कलेत्याद्यायतनवानित्येवं नाम । आयतनं नाम मनः सर्व- करणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवा- न्नाम पादः ॥ स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवा- नस्मिल्लोके भवत्यायतनवतो ह लोकाञ्ज- यति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४ ॥ इति अष्टमः खण्डः ॥ तं पादं तथैवोपास्ते य: स आयतनवान् आश्रयवान- स्मिँल्लोके भवति । आयतनवत एव सावकाश लोकान्मृतो जयति । य एतमेवमित्यादि पूर्ववत् ॥ इति अष्टमखण्डभाष्यम् ॥ नवमः खण्डः ॥ * प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम इति भगव इति ह प्रतिशु- श्राव ॥ १ ॥ स एवं ब्रह्मवित्सन् प्राप ह प्राप्तावानाचार्यकुलम् । तमाचार्योऽभ्युवाद सत्यकाम ३ इति ; भगव इति ह प्रति- शुश्राव ॥ ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशा सेत्यन्ये मनुष्येभ्य इति ह प्र- तिजज्ञे भगवास्त्वेव मे कामे ब्रूयात् ॥ ब्रह्मविदिव वै सोम्य भासि । प्रसन्नेन्द्रियः प्रहसितवद- नश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति । अत आह आचार्यों ब्रह्मविदिव भासीति ; को न्विति वितर्कयन्नुवाच — कस्त्वाम- नुशशासेति । स च आह सत्यकामः अन्ये मनुष्येभ्यः । देवता मामनुशिष्टवत्यः । कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन् अनुशासितुमुत्सहेतेत्यभिप्राय: । अतोऽन्ये मनुष्येभ्य छान्दोग्योपनिषद्भाष्ये ख. इति ह प्रतिजज्ञे प्रतिज्ञातवान् । भगवांस्त्वेव मे कामे ममे- च्छायां ब्रूयात् किमन्यैरुक्तेन, नाहं तद्गणयामीत्यभिप्राय: ॥ श्रुतँ ह्येव मे भगवद्दृशेभ्य आचार्या- द्वैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन वीया- येति वीयायेति ॥ ३॥ इति नवमः खण्डः ॥ किंच श्रुतं हि यस्मात् मम विद्यते एवास्मिन्नर्थे भगवद्दृ- शेभ्यो भगवत्समेभ्यः ऋषिभ्यः । आचार्याद्वैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापति प्राप्नोति ; अतो भगवानेव त्र्या- दित्युक्तः आचार्य: अब्रवीत् तस्मै तामेव दैवतैरुक्तां विद्याम् । अत्र ह न किंचन षोडशकलविद्यायाः किंचिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः । द्विरभ्यासो विद्यापरिसमा- त्यर्थः ॥ इति नवमखण्डभाष्यम् ॥ दशमः खण्डः ॥ पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभते गतिं च तद्विदोऽग्निविद्यां च । आख्यायिका पूर्ववच्छ्रद्धातपसोर्ब्रह्म- विद्यासाधनत्वप्रदर्शनार्थी— उपकोसलो ह वै कामलायनः सत्य- कामे जाबाले ब्रह्मचर्यमुवास तस्य ह द्वादश वर्षाण्यग्नीन्परिचचार स ह स्मा- न्यानन्तेवासिनः समावर्तयस्त ह स्मै- वन समावर्तयति ॥ १ ॥ उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायन: सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य ह ऐतिह्यार्थ:, तस्य आचार्यस्य द्वादश वर्षाणि अग्नीन्परिचचार अग्नीनां परिचरणं कृतवान् । स ह स्म आचार्यः अन्यान्ब्रह्मचा- रिणः स्वाध्यायं प्राहयित्वा समावर्तयन् तमेवोपकोसलमेकं न समावर्तयति स्म ह ॥ तं जायोवाच तप्तो ब्रह्मचारी कुशल- मग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवो- चन्प्रब्रूह्यस्मा इति तस्मै हाम्रोच्यैव प्रवा- सांचक्रे ॥ २ ॥ s.. rv. 3 छान्दोग्योपनिषद्भाष्ये [ख. तम् आचार्य जाया उवाच - तप्तो ब्रह्मचारी कुशलं सम्यक् अग्नीन् परिचचारीत् परिचरितवान् भगवांश्च अग्निषु भक्तं न समात्रर्तयति ; अतः अस्मद्भक्तं न समा- वर्तयतीति ज्ञात्वा त्वाम् अग्नयः मा परिप्रवोचन गर्दा तव मा कुर्युः; अतः प्रब्रूहि अस्मै विद्यामिष्टाम् उपकोसला- येति । तस्मै एवं जायया उक्तोऽपि ह अप्रोच्यैव अनुक्त्वैव किंचित्प्रवासांचक्रे प्रवसितवान् ॥ स ह व्याधिनानशितुं दधे तमाचार्य- जायोवाच ब्रह्मचारिन्नशान किं नु नाश्ना- सीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णो- ऽस्मि नाशिष्यामीति ॥ ३ ॥ किं स ह उपकोसल: व्याधिना मानसेन दुःखेन अनशितुम् अनशनं कर्तुं दध्रे धृतवान्मनः । तं तूष्णीमग्न्यागारेऽवस्थि- तम् आचार्यजायोवाच - हे ब्रह्मचारिन अशान भुङ्क्ष्व, नु कस्मान्नु कारणान्नाश्नासि ? इति । स ह उवाच - अनेकेऽस्मिन्पुरुषे ऽकृतार्थे प्राकृते कामा: इच्छा: कर्तव्यं प्रति नाना अत्यय: अतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्ययाः व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखा- - • बहवः १०.] चतुर्थोऽध्यायः । नीत्यर्थः ; तैः प्रतिपूर्णोऽस्मि ; अतो नाशिष्यामीति ॥ अथ हाग्नयः समूदिरे ततो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४ ॥ उक्त्वा तूष्णींभूते ब्रह्मचारिणि, अथ ह अग्नयः शुश्रूष- यावर्जिताः कारुण्याविष्टाः सन्तः त्रयोऽपि समूदिरे संभू- योक्तवन्तः— हन्त इदानीम् अस्मै ब्रह्मचारिणे अस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वेऽनुशास्मः अनुप्रब्रवाम ब्रह्मविद्याम्, इति एवं संप्रधार्य, तस्मै ह ऊचुः उक्तवन्त:- प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति । स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचु- र्यद्वाव कं तदेव खं यदेव खं तदेव कमि- ति प्राणं च हास्मै तदाकाशं चोचुः ॥ ५ ॥ इति दशमः खण्डः ॥ स ह उवाच ब्रह्मचारी - विजानाम्यहं यद्भवद्भिरुक्तं प्र- सिद्धपदार्थकत्वात्प्राणो ब्रह्मेति सः यस्मिन्सति जीवनं यदप- छान्दोग्योपनिषद्भाष्ये [ख. गमे च न भवति, तस्मिन्वायुविशेषे लोके रूढः ; अत: युक्तं ब्रह्मत्वं तस्य ; तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्र- ह्मेति । कं च तु खं च न विजानामीति । ननु कंखंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारि- णोऽज्ञानम् ? नूनम्, सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसि- त्वात् खंशब्दवाच्यस्य च आकाशस्याचेतनस्य कथं ब्रह्म- त्वमिति मन्यते ; कथं च भगवतां वाक्यमप्रमाणं स्यादिति ; अतो न विजानामीत्याह । तम् एवमुक्तवन्तं ब्रह्मचारिणं ते ह अग्नय ऊचुः— यद्वाव यदेव वयं कम् अवोचाम, तदेव खम् आकाशम्, इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसं- योगजात्सुखान्निवर्तितं स्यात् — नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः । यदेव खम् इत्याकाशमवोचाम, तदेव च कं सुखमिति जानीहि । एवं च सुखेन विशेष्यमाणं खं भौति- कादचेतनात्खान्निवर्तितं स्यात् - नीलोत्पलवदेव । सुखमाका- शस्थं नेतरल्लौकिकम्, आकाशं च सुखाश्रयं नेतरद्भौतिक मि- त्यर्थः । नन्वाकाशं चेत् सुखेन विशेषयितुमिष्टम्, अस्त्वन्य- तरदेव विशेषणम् - यद्वाव कं तदेव खम् इति, अतिरिक्तमि- तरत्; यदेव खं तदेव कमिति पूर्वविशेषणं वा; ननु सुखा- काशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्य- १०.] चतुर्थोऽध्यायः । वोचाम । सुखेन आकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्, सत्यमेवम्; किंतु सुखेन विशेषितस्यैव आकाशस्य ध्ये- यत्वं विहितम् ; न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्ये- यत्वं विहितं स्यात्, विशेषणोपादानस्य विशेष्यनियन्तृत्वे- नैवोपक्षयात् । अतः खेन सुखमपि विशेष्यते ध्येयत्वाय । कुतश्चैतन्निश्चीयते ? कंशब्दस्यापि ब्रह्मशब्द संबन्धात् कं ब्रह्मेति । यदि हि सुखगुणविशिष्टस्य खख ध्येयत्वं विव- क्षितं स्यात्, कं खं ब्रह्मेति ब्रूयुः अग्नयः प्रथमम् । न चैवमुक्तवन्तः । किं तर्हि ? कं ब्रह्म खं ब्रह्मेति । अत: ब्रह्मचारिणो मोहापनयनाय कंखंशब्दयोरितरेतरविशेषणवि- शेष्यत्वनिर्देशो युक्त एव यद्वाव कमित्यादिः । तदेतदग्निभि - रुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह — प्राणं च ह अस्मै ब्रह्मचारिणे, तस्य आकाशः तदाकाशः, प्राणस्य संबन्धी आश्रयत्वेन हार्द आकाश इत्यर्थः, सुखगुणवत्त्वनिर्देशात् ; तं च आकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्म- संपर्कादेव ब्रह्मेत्युभयं प्राणं च आकाशं च समुच्चित्य ब्रह्मणी ऊचुः अग्नय इति ॥ - इति दशमखण्डभाष्यम् ॥ एकादशः खण्डः ॥ अथ हैनं गार्हपत्योऽनुशशास पृथिव्य- ग्निरन्नमादित्य इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ संभूयाग्नयः ब्रह्मचारिणे ब्रह्म उक्तवन्तः । अथ अन- न्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे । तत्र आदौ एनं ब्रह्मचारिणं गार्हपत्यः अग्निः अनुशशास — पृथिव्यग्नि- रन्नमादित्य इति ममैताश्चतस्रस्तनव: । तत्र य आदित्ये एब पुरुषो दृश्यते, सोऽहमस्मि गार्हपत्योऽग्निः, यश्च गार्हपत्यो- ऽग्निः स एवाहमादित्ये पुरुषोऽस्मि, इति पुनः परावृत्त्या सं एवाहमस्मीति वचनम् । पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः संबन्धो न गार्हपत्यादित्ययोः । अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यतः एकत्वमेवानयोरत्यन्तम् । पृथिव्यन्नयोस्तु भोज्यत्वेन आभ्यां संबन्धः ॥ स य एतमेवं विद्वानुपास्तेऽपहते पाप- कृत्यां लोकी भवति सर्वमायुरेति ज्यो- ११.] चतुर्थोऽध्यायः । जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिञ्च लोकेऽमुष्मिश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ इति एकादश: खण्ड: ॥ स यः कश्चित् एवं यथोक्तं गार्हपत्यमग्निम् अन्नान्ना- दत्वेन चतुर्धा प्रविभक्तम् उपास्ते, सोऽपहते विनाशयति पापकृत्यां पापं कर्म । लोकी लोकवांश्चास्मदीयेन लोकेना- ग्नेयेन तद्वान्भवति यथा वयम् । इह च लोके सर्वे वर्षशतम् आयुरेति प्राप्नोति । ज्योक् उज्ज्वलं जीवति नाप्रख्यात इत्येतत् । न च अस्य अवराश्च ते पुरुषाश्च अस्य विदुषः संततिजा इत्यर्थः, न क्षीयन्ते संतत्युच्छेदो न भवती- त्यर्थः । किं च तं वयम् उपभुञ्जामः पालयामः अस्मिंश्च लोके जीवन्तम् अमुष्मिंश्च परलोके । य एतमेवं विद्वानु- पास्ते, यथोक्तं तस्य तत्फलमित्यर्थः ॥ इति एकादशखण्डभाष्यम् ॥ द्वादशः खण्डः ॥ अथ हैनमन्वाहार्यपचनोऽनुशशासा- पो दिशो नक्षत्राणि चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पाप- कृत्यां लोकी भवति सर्वमायुरेति ज्यो- जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ . अथ ह एनम् अन्वाहार्यपचन: अनुशशास दक्षिणाग्निः- आपो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवः चतुर्धा अहमन्वाहार्यपचने आत्मानं प्रविभज्यावस्थितः । तत्र य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवा- हमस्मीति पूर्ववत् । अन्नसंबन्धाज्ज्योतिष्ट्वसामान्याच्च अन्वा - हार्यपचनचन्द्रमसोरेकत्वं दक्षिणदिक्संबन्धाश्च । अपां नक्ष- त्राणां च पूर्ववदन्नत्वेनैव संबन्ध:, नक्षत्राणां चन्द्रमसो भो - ग्यत्वप्रसिद्धेः। अपामन्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः - प्रथि - वीवद्गार्हपत्यस्य । समानमन्यत् ॥ इति द्वादशखण्ड़भाष्यम् ॥ त्रयोदशः खण्डः ॥ अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति य एष विद्यु- ति पुरुषो दृश्यते सोऽहमस्मि स एवा- हमस्मीति ॥ १ ॥ स य एतमेवं विद्वानुपास्तेऽपहते पाप- कृत्यां लोकी भवति सर्वमायुरेति ज्यो- जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिञ्च लोकेऽमुष्मिँ- श्च य एतमेवं विद्वानुपास्ते ॥ २ ॥ इति त्रयोदशः खण्डः । अथ ह एनमाहवनीयोऽनुशशास - प्राण आकाशो द्यौर्वि- द्युदिति ममाप्येताश्चतस्रस्तनवः । य एष विद्युति पुरुषो ह- श्यते, सोऽहमस्मीत्यादि पूर्ववत् सामान्यात् । द्य्वाकाश- योः स्वाश्रयत्वात् विद्युदाहवनीययोः भोग्यत्वेनैव संबन्धः । समानमन्यत् ॥ इति त्रयोदशखण्डभाष्यम् ॥ चतुर्दशः खण्डः ॥ ते होचुरुपकोसलैषा सोम्य तेऽस्मद्वि- द्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्या- जगाम हास्याचार्यस्तमाचार्योऽभ्युवादो- पकोसल३ इति ॥ १ ॥ पुनः संभूयोचुः ह — उपकोसल एषा सोम्य ते तब अस्मद्विद्या अग्निविद्येत्यर्थः ; आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च ; आचार्यस्तु ते गतिं वक्ता विद्याफलप्रा- प्तये इत्युक्त्वा उपरेमुरग्नयः । आजगाम ह अस्य आचार्य: का- लेन । तं च शिष्यम् आचार्यो अभ्युवाद उपकोसल ३ इति ॥ भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानु- शशासेति को नु मानुशिष्याह्नो इती- हापेव निहुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल ते ऽवोचन्निति ॥ २ ॥ इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोस्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ॥ १४.] चतुर्थोऽध्यायः । - भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वा अनुशशास इत्युक्तः प्रत्याह — को नुमा अनुशिष्यात् अनुशासनं कुर्यात् भो भगवन् त्वयि प्रोषिते, इति इह अप इव निह्नुते अपनिह्नुत इवेति व्यवहितेन संबन्ध:, न च अपनिह्नुते, न च यथावदग्निभिरुक्तं ब्रवीती- त्यभिप्रायः । कथम् ? इमे अग्नयः मया परिचरिता: उक्तवन्तः नूनम्, यतस्त्वां दृष्ट्वा वेपमाना इव ईदृशा दृश्यन्ते पूर्व मन्या- दृशा: सन्त:, इति इह अग्नीन् अभ्यूदे अभ्युक्तवान् काक्का अग्नीन्दर्शयन् । किं नु सोम्य किल ते तुभ्यम् अवोचन् अग्नयः ? इति पृष्टः इत्येवम् इदमुक्तवन्तः इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान् प्रतीकमात्रं किंचित्, न सर्व यथोक्तमग्निभिरु- क्तमवोचत् । यत आह आचार्य:- लोकान्वाव पृथिव्या- दीन हे सोम्य किल ते अवोचन, न ब्रह्म साकल्येन । अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यम् - यथा पुष्करपलाशे पद्मपत्रे आपो न श्लिष्यन्ते, एवं यथा वक्ष्यामि ब्रह्म, एवं- विदि पापं कर्म न श्लिष्यते न संबध्यते इति । एवमुक्तवति आचायें आह उपकोसल: - ब्रवीतु मे भगवानिति । तस्मै ह उवाच आचार्य: ॥ " इति चतुर्दशखण्डभाष्यम् ॥ पञ्चदशः खण्डः ॥ य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति व- मनी एव गच्छति ॥ १ ॥ य एषोऽक्षिणि पुरुष: दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादि- साधनसंपन्नैः शान्तैर्विवेकिभिः दृष्टेर्द्रष्टा, 'चक्षुषश्चक्षुः' इत्या- दिश्रुत्यन्तरात् ; ननु अग्निभिरुक्तं वितथम्, यतः आचार्य - स्तु ते गतिं वक्ता इति गतिमात्रस्य वक्तेत्यवोचन्, भवि- ष्यद्विषयापरिज्ञानं च अग्नीनाम् ; नैष दोषः, सुखाकाशस्यैव अक्षिणि दृश्यत इति द्रष्टुरनुवादात् । एष आत्मा प्राणि- नामिति ह उवाच एवमुक्तवान् ; एतत् यदेव आत्मतत्त्वम- बोचाम, एतदमृतम् अमरणधर्मि अविनाशि अत एवाभ यम्, यस्य हि विनाशाशङ्का तस्य भयोपपत्तिः तदभावादभ- यम्, अत एव एतद्ब्रह्म बृहदनन्तमिति । किंच, अस्य ब्रह्म- णोऽक्षिपुरुषस्य माहात्म्यम् - तत् तत्र पुरुषस्य स्थाने अक्षिणि १५. ] . · चतुर्थोऽध्यायः । ' यद्यप्यस्मिन्सर्पिर्वोदकं वा सिध्वति वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति ; न चक्षुषा संबध्यते - पद्मपत्रेणेवोदकम् । स्थानस्याप्येतन्माहात्म्यम्, किं पुनः स्थानिनोऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्राय: ॥ एत संयद्वाम इत्याचक्षत एत हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥ एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते । कस्मात् ? यस्मा- देतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनानि अभिसंयन्ति अभिसंगच्छन्तीत्यतः संयद्वामः । तथा एवंविद- मेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ॥ एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥ एष उ एव वामनी:, यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति च आत्मधर्मत्वेन । विदुषः फलम् — सर्वाणि वामानि नयति य एवं वेद ॥ छान्दोग्योपनिषद्भाष्ये एष उ एव भामनीरेष हि सर्वेषु लो- केषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ [ख. एष उ एव भामनीः, एष हि यस्मात् सर्वेषु लोकेषु आ- दित्यचन्द्राग्न्यादिरूपैः भाति दीप्यते, ' तस्य भासा सर्वमिदं विभाति' इति श्रुतेः । अतो भामानि नयतीति भामनीः । य एवं वेद, असावपि सर्वेषु लोकेषु भाति ॥ अथ यदु चैवास्मिञ्छ्त्र्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुद- ङेति मासास्तान्मासेभ्यः संवत्सरँ संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्र- मसो विद्युतं तत्पुरुषोऽमानवः स एना- ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्त - न्ते नावर्तन्ते ॥ ५ ॥ इति पञ्चदशः खण्डः ॥ १५.] चतुर्थोऽध्यायः । २४७. अथेदानीं यथोक्तब्रह्मविदः गतिरुच्यते । यत् यदि उच एव अस्मिन् एवंविदि शव्यं शवकर्म मृते कुर्वन्ति, यदि च न कुर्वन्ति ऋत्विजः, सर्वथाप्येवंवित् तेन शवकर्मणा अकृते- नापि प्रतिबद्धो न ब्रह्म न प्राप्नोति ; न च कृतेन शवकर्मणा अस्य कश्चनाभ्यधिको लोकः, 'न कर्मणा वर्धते नो कनी- यान्' इति श्रुत्यन्तरात् । शवकर्मण्यनादरं दर्शयन् विद्यां स्तौति, न पुनः शवकर्म एवंविदः न कर्तव्यमिति । अक्रियमाणे हि शवकर्मणि कर्मणां फलारम्भे प्रतिबन्ध: क- चिदनुमीयते ऽन्यत्र । यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतः अप्रतिबन्धेन फलारम्भं दर्शयति । ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवंगुणमु- पासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मां वा भूत् सर्वथा अपि ते अर्चिषमेवाभिसंभवन्ति अ- चिरभिमानिनीं देवतामभिसंभवन्ति प्रतिपद्यन्त इत्यर्थः । अर्चिष: अचिर्देवताया अहः अहरभिमानिनीं देवताम्, अह्नः आपूर्यमाणपक्षं शुक्लपक्षदेवताम्, आपूर्यमाणपक्षात् यान्षण्मा- सान् उदङ् उत्तरां दिशम् एति सविता तान्मासान् उत्तरायण-- देवताम्, तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवताम्, तत: सं- वत्सरादादित्यम्, आदित्याञ्चन्द्रमसम्, चन्द्रमसो विद्युतम् । • " छान्दोग्योपनिषद्भाष्ये [ख. तत् तत्रस्थान् तान् पुरुषः कश्चिद्ब्रह्मलोकादेत्य अमानवः मानव्यां सृष्टौ भवः मानवः न मानवः अमानवः स पुरुष: एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्य- पदेशेभ्यः, सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः । ' ब्रह्मैव सन्त्र- ह्माप्येति' इति हि तत्र वक्तुं न्याय्यम् । सर्वभेदनिरासेन सन्मानप्रतिपत्तिं वक्ष्यति । न च अदृष्टो मार्गोऽगमनायो- पतिष्ठते, 'स एनमविदितो न भुनक्ति' इति श्रुत्यन्त- रात् । एष देवपथः देवैरर्चिरादिभिर्गमयितृत्वेनाधिकृतैरुपल- क्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेन च उप- लक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्म इमं मानवं मनुसंबन्धिनं मनो: सृष्टिलक्षणमावर्ते नावर्तन्ते आवर्तन्तेऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यावर्तः तं न प्रतिपद्यन्ते । नावर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ॥ इति पञ्चदशखण्डभाष्यम् ॥ षोडशः खण्डः ॥ रहस्यप्रकरणे प्रसङ्गात् आरण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्याः, तदभिज्ञस्य च ऋत्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते— एष ह वै यज्ञो योऽयं पवत एष ह यन्निद सर्व पुनाति यदेष यन्निद सर्व पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ १ ॥ एष वै एष वायुः योऽयं पवते अयं यज्ञः । ह वै इति प्र- सिद्धार्थावद्योतकौ निपातौ । वायुप्रतिष्ठो हि यज्ञ: प्रसिद्धः श्रुति- षु, 'स्वाहा वातेधा:' 'अयं वै यज्ञो योऽयं पवते' इत्यादिश्रु- तिभ्यः । वात एव हि चलनात्मकत्वात्क्रियासमवायी, 'वात एव यज्ञस्यारम्भको वातः प्रतिष्ठा' इति च श्रवणात् । एष ह ग्रन् गच्छन् चलन् इदं सर्वं जगत् पुनाति पावयति शोधयति । न हि अचलत: शुद्धिरस्ति । दोषनिरसनं चलतो हि दृष्टं न स्थि- रस्य । यत् यस्माच्च यन् एष इदं सर्वे पुनाति, तस्मादेष एव यज्ञः यत्पुनातीति । तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च म न्त्रोच्चारणे व्यापृता, मनश्च यथाभूतार्थज्ञाने व्यापृतम्, ते एते वाङ्मनसे वर्तनी मार्गों, याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी ; 'प्राणापानपरिचलनवत्या हि वाचश्चित्तस्य चोत्तरोत्त- रक्रमो यद्यज्ञ:' इति हि श्रुत्यन्तरम् । अतो वाङ्मनसाभ्यां S. U. IV. 4 छान्दोग्योपनिषद्भाष्ये यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य ॥ तयोरन्यतरां मनसा सँस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतरा स यत्रोपाकृते प्रातरनुवाके पुरा परिधानी- याया ब्रह्मा व्यवदति ॥ २ ॥ अन्यतरामेव वर्तनी सरस्करोति हीयतेऽन्यतरा स यथैकपाद्वजन्रथो वैके- न चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञ‍ रिष्यन्तं यजमानोऽनुरि- ष्यति स इष्ट्वा पापीयान्भवति ॥ ३ ॥ [ख. तयोः वर्तन्यो: अन्यतरां वर्तनीं मनसा विवेकज्ञानवता सं- स्करोति ब्रह्मा ऋत्विक्, वाचा वर्तन्या होताध्वर्युरुद्गाता इत्येते त्रयोऽपि ऋत्विजः अन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्व- न्ति । तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे । अथ स ब्रह्मा यत्र यस्मिन्काले उपाकृते प्रारब्धे प्रातरनुवाके शस्त्रे, पुरा पूर्व प- रिधानीयाया ऋचः ब्रह्मा एतस्मिन्नन्तरे काले व्यवदति मौनं प- रित्यजति यदि, तदा अन्यतरामेव वाग्वर्तनीं संस्करोति । ब्रह्मणा संस्क्रियमाणा मनोवर्तनी हीयते विनश्यति छिद्रीभवति अन्यत- रा; स यज्ञः वाग्वर्तन्यैव अन्यतरया वर्तितुमशक्नुवन रिष्यति । १६.] चतुर्थोऽध्यायः । कथमिवेति, आह— स यथैकपात् पुरुषः व्रजन् गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन् रिष्यति, एवमस्य य- जमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति । यज्ञं रिष्यन्तं यज- मानोऽनुरिष्यति । यज्ञप्राणो हि यजमानः । अतो युक्तो यज्ञरेषे रेषस्तस्य । सः तं यज्ञमिष्ट्वा तादृशं पापीयान् पापतरो भवति ॥ अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव व- र्तनी सस्कुर्वन्ति न हीयतेऽन्यतरा ॥४॥ स यथोभयपाद्रजन्रथो वोभाभ्यां च- क्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानो- ऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ अथ पुनः यत्र ब्रह्मा विद्वान् मौनं परिगृह्य वाग्विसर्गमकु- र्वन् वर्तते यावत्परिधानीयाया न व्यवदति, तथैव सर्वर्त्विज:, उभे एव वर्तनी संस्कुर्वन्ति न हीयतेऽन्यतरापि । किमिवेत्याह- पूर्वोक्तविपरीतौ दृष्टान्तौ । एवमस्य यजमानस्य यज्ञः स्ववर्तनी- भ्यां वर्तमानः प्रतितिष्ठति स्वेन आत्मनाविनश्यन्वर्तत इत्यर्थः । यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति । सः यजमानः एवं मौ- नविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥ इति षोडशखण्डभाष्यम् ॥ सप्तदशः खण्डः ॥ अत्र ब्रह्मणो मौनं विहितम्, तद्रेषे ब्रह्मत्वकर्मणि च अ- थान्यस्मिंश्च हौत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थ व्याहृतयो विधातव्या इत्याह- प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमा- नानाथ रसान्प्रावृहदग्निं पृथिव्या वायुम- न्तरिक्षादादित्यं दिवः ॥ १ ॥ प्रजापति: लोकानभ्यतपत् लोकानुद्दिश्य तत्र सारजि- घृक्षया ध्यानलक्षणं तपश्चचार । तेषां तप्यमानानां लोकानां रसान्. साररूपान्प्राबृहत् उद्धृतवान् जग्राहेत्यर्थः । कान्? अग्निं रसं पृथिव्याः, वायुमन्तरिक्षात्, आदित्यं दिवः ॥ स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानानाँ रसान्प्रावृहदग्नेर्ऋचो वा- योर्यजुषि सामान्यादित्यात् ॥ २ ॥ पुनरप्येवमेवाग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्य अभ्यतपत् । ततोऽपि सारं रसं त्रयीविद्यां जग्राह ॥ स एतां त्रयीं विद्यामभ्यतपत्तस्यास्त- · १७.] 'चतुर्थोऽध्यायः । प्यमानाया रसान्प्राबृहद्भूरित्यृग्भ्यो भुव- रिति यजुर्भ्यः स्वरिति सामभ्यः ॥ ३ ॥ । तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनच वीर्येणच य- ज्ञस्य विरिष्ट‍ संदधाति ॥ ४ ॥ स एतां पुनरभ्यतपत् त्रयीं विद्याम् । तस्यास्तंप्यमा- नाया रसं भूरिति व्याहृतिम् ऋग्भ्यो जग्राह ; भुवरिति व्याहृतिं यजुर्भ्यः; स्वरिति व्याहृतिं सामभ्यः । अत एव लोकदेववेदरसा महाव्याहृतयः । अतः तत् तत्र यज्ञे यदि ऋक्तः ऋक्संबन्धादृङ्निमित्तं रिष्येत् यज्ञः क्षतं प्राप्नुयात्, भूः स्वाहेति गार्हपत्ये जुहुयात् । सा तत्र प्रायश्चित्तिः । कथम् ? ऋचामेव, तदिति क्रियाविशेषणम्, रसेन ऋचां वीर्येण ओजसा ऋचां यज्ञस्य ऋक्संबन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं संदधाति प्रतिसंधत्ते ॥ स यदि यजुष्टौ रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयाद्यजुषामेव तद्रसेन य- जुषां वीर्येण यजुषां यज्ञस्य विरिष्ट‍ सं- दधाति ॥ ५ ॥ छान्दोग्योपनिषद्भाष्ये [ख. अथ यदि सामतो रिष्येत्स्वः स्वाहे- त्याहवनीये जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्ट‍ संदधाति ॥ १ ॥ अथ यदि यजुष्टो यजुर्निमित्तं रिष्येत्, भुव: स्वाहेति दक्षिणाग्नौ जुहुयात् । तथा सामनिमित्ते रेषे स्व: स्वाहे - त्याहवनीये जुहुयात् । तथा पूर्ववद्यज्ञं संदधाति । ब्रह्मनि- मित्ते तु रेषे त्रिष्वग्निषु तिसृभिर्व्याहृतिभिर्जुहुयात् । त्रय्या हि विद्यायाः स रेष:, ' अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया' इति श्रुते: । न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे ॥ तद्यथा लवणेन सुवर्ण संदध्यात्सु- वर्णेन रजत‍ रजतेन त्रपु त्रपुणा सीस ५ . सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ . एवमेषां लोकानामासां देवतानाम- स्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरि- ष्ट संदधाति भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्रह्मा भवति ॥ ८ ॥ १७.] चतुर्थोऽध्यायः । तद्यथा लवणेन सुवर्ण संदध्यात् । श्रारेण टङ्कणादिना खरे मृदुत्वकरं हि तत् । सुवर्णेन रजतमशक्यसंधानं संद- ध्यात् । रजतेन तथा त्रपु त्रपुणा सीसम्, सीसेन लोहम्, लो- हेन दारु, दारु चर्मणा चर्मबन्धनेन । एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं संदधाति । भेषजकृतो ह वा एष यज्ञः -- रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेन एष यज्ञो भवति । कोऽसौ ? यत्र यस्मिन्यज्ञे एवंवित् यथोक्तव्याहृतिहोमप्रायश्चित्तवित् ब्रह्मा ऋत्विग्भवति स यज्ञ इत्यर्थः ॥ एष ह वा उदक्प्रवणो यज्ञो यत्रैवंवि- ब्रह्मा भवत्येवंविद५ ह वा एषा ब्रह्माण- मनुगाथा यतो यत आवर्तते तत्तद्गच्छति ॥ किं च, एष ह वा उदक्प्रवण उदनिम्नो दक्षिणोच्छ्रायो यज्ञो भवति ; उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः । यत्रैवंविद्ब्रह्मा भवति । एवंविदं ह वै ब्रह्माणम् ऋत्विजं प्रति एषा अनु- गाथा ब्रह्मणः स्तुतिपरा -- यतो यत आवर्तते कर्म प्रदेशात ऋत्विजां यज्ञः क्षतीभवन्, तत्तद्यज्ञस्य क्षतरूपं प्रतिसंदधत् प्रायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥ मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिर- छान्दोग्योपनिषद्भाष्ये क्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानः सर्वा- विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ इति सप्तदशः खण्डः ॥ - [ख. मानवो ब्रह्मा मौनाचरणान्मननाद्वा ज्ञानवत्त्वात् ; ततो ब्रह्मैवैक: ऋत्विक् कुरून् कर्तृन् — योद्धृनारूढानश्वा बडबा यथा अभिरक्षति, एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वोच ऋत्विजोऽभिरक्षति, तत्कृतदोषापनयनात् । यत एवं विशि- ष्टो ब्रह्मा विद्वान्, तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत, नानेवंविदं कदाचनेति । द्विरभ्यासोऽध्याय- परिसमाप्त्यर्थः ॥ इति सप्तदशखण्डभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये चतुर्थोऽध्यायः समाप्तः ॥ छान्दोग्योपनिषद्भाष्यम् पञ्चमोऽध्यायः ॥ पञ्चमोऽध्यायः ॥ स गुणब्रह्मविद्याया उत्तरा गतिरुक्ता । अथे- दानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्य ऊर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूय अन्या दक्षिणदिक्संबन्धिनी केवलकर्मिणां धूमादिलक्षणा, पुनरावृत्तिरूपा तृ- तीया च ततः कष्टतरा संसारगतिः, वैराग्यहेतोः वक्तव्येत्या- रभ्यते । प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्या- दि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम्, स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे, कथं च तस्योपासन- मिति तस्य श्रेष्ठत्वादिगुणविधित्सया इदमनन्तरमारभ्यते— यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥ यो ह वै कश्चित् ज्येष्ठं च प्रथमं वयसा श्रेष्ठं च गुणैर- ह भ्यधिकं वेद, स ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । फलेन छान्दोग्योपनिषद्भाष्ये [ख. पुरुषं प्रलोभ्याभिमुखीकृत्य आह—प्राणो वाव ज्येष्ठश्च वयसा वागादिभ्यः; गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वा - गादिभ्यः पूर्व लब्धात्मिका भवति, यया गर्भो विवर्धते । चक्षुरादिस्थानावयव निष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्ति- लाभ इति प्राणो ज्येष्ठो वयसा भवति । श्रेष्ठत्वं तु प्रतिपा- दयिष्यति — 'सुहय' इत्यादिनिदर्शनेन । अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्च अस्मिन्कार्यकरणसंघाते ॥ यो ह वै वसिष्ठं वेद वसिष्ठो ह खानां भवति वाग्वाव वसिष्ठः ॥ २ ॥ यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद, स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् । कस्तर्हि वसिष्ठ इति, आह— वाग्वाव वसिष्ठः, वाग्मिनो हि पुरुषा वसन्ति अभिभवन्त्यन्यान वसुमत्तमाश्च, अतो वाग्वसिष्ठः ॥ यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य- स्मिश्च लोकेऽमुष्मिँश्च चक्षुर्वाव प्र- तिष्ठा ॥ ३ ॥ यो ह वै प्रतिष्ठां वेद, स अस्मिँल्लोके अमुष्मिंश्च परे प्रतितिष्ठति ह । का तर्हि प्रतिष्ठेति, आह— चक्षुर्वाव १-.j पञ्चमोऽध्यायः । प्रतिष्ठा । चक्षुषा हि पश्यन समे च दुर्गे च प्रतितिष्ठति यस्मात्, अत: प्रतिष्ठा चक्षुः ॥ यो ह वै संपदं वेद सहास्मै कामाः पद्यन्ते देवाश्च मानुषाश्च श्रोत्रं वाव संपत् ॥ यो ह वै संपदं वेद, तस्मा अस्मै देवाश्च मानुषाश्च कामा: संपद्यन्ते ह । का तर्हि संपदिति, आह— श्रीलं बाव संपत् । यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च, ततः कर्माणि क्रियन्ते ततः कामसंपदित्येवम्, कामसंपद्धेतु- त्वाच्छ्रोत्रं वाव संपत् ॥ यो ह वा आयतनं वेदायतन५ ह खानां भवति मनो ह वा आयतनम् ॥ यो ह वा आयतनं वेद, आयतनं ह स्वानां भवतीत्यर्थः । किं तदायतनमिति, आह— मनो ह वा आयतनम् । इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपाणां मन आयतनमाश्रयः । अतो मनो ह वा आयतनमित्युक्तम् ॥ अथ ह प्राणा अह‍ श्रेयसि व्यूदिरे- ऽहँ श्रेयानस्म्यहँ श्रेयानस्मीति ॥ ६ ॥ अथ ह प्राणाः एवं यथोक्तगुणाः सन्तः अहंश्रेयसि छान्दोग्योपनिषद्भाष्ये [ख. अहं श्रेयानस्मि अहं श्रेयानस्मि इत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिरे उक्तवन्तः ॥ ते ह प्राणाः प्रजापतिं पितरमेत्योचु- भगवन्को नः श्रेष्ठ इति तान्होवाच य- स्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ७ ॥ - ते ह ते हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कंचिदेत्य ऊचुः उक्तवन्त:- हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः ? इत्येवं पृष्टवन्तः । तान् पितोवाच ह - यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृश्येत कुणपमस्पृश्यमशुचि दृश्येत, सः वः युष्माकं श्रेष्ठ इत्यवो- चत् काक्वा तद्दुःखं परिजिहीर्षुः ॥ साह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमि- ति यथा कला अवदन्तः प्राणन्तः प्राणेन. पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्या- १.] पञ्चमोऽध्यायः । यन्तो मनसैवमिति प्रविवेश ह वाक् ॥ चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्ये - त्योवाच कथमशकतर्ते मज्जीवितुमिति य- थान्धा अपश्यन्तः प्राणन्तः प्राणेन वद- न्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ९ ॥ श्रोत्र होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन बदन्तो याचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ १० ॥ मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्ये- त्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोतेणैवमिति प्रविवेश ह मनः ॥ ११ ॥ तथोक्तेषु प्रित्रा प्राणेषु सा ह वाक् उच्चक्राम उत्क्रान्त- छान्दोग्योपनिषद्भाष्ये [ख. वती; सा च उत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारानि- वृत्ता सती पुनः पर्येत्य इतरान्प्राणानुवाच — कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ; ते ह ऊचु: - यथा कला इत्यादि, कला: मूका: यथा लोकेऽवदन्तो वाचा जीवन्ति । कथम् ? प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्या- यन्तो मनसा, एवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः । एवं वय- मजीविष्मेत्यर्थः । आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक् पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः । समानमन्यत् चक्षुर्होच्चक्राम श्रोत्रं होश्चक्राम मनो होश्चक्रामेत्यादि । यथा बाला अमनस: अप्ररूढमनस इत्यर्थः ॥ अथ ह प्राण उच्चिक्रमिषन्स यथा सु- हयः पङ्खीशशङ्कन्संखिदेदेव मितरान्प्राणा- न्समखिदत्तः हाभिसमेत्योचुर्भगवन्नेषि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ १२ ॥ एवं परीक्षितेषु वागादिषु, अथ अनन्तरं ह स मुख्य: प्राणः उच्चिक्रमिषन् उत्क्रमितुमिच्छन् किमकरोदिति, उ- च्यते—यथा लोके सुहय: शोभनोऽश्वः पढीशशङ्कन् पाद- बन्धनकीलान् परीक्षणाय आरूढेन कशया हतः सन् सं- १.] पञ्चमोऽध्यायः । खिदेत् समुत्खनेत् समुत्पाटयेत्, एवमितरान्वागादीन्प्राणान् समखिदत् समुद्धृतवान् । ते प्राणाः संचालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना: अभिसमेत्य मुख्यं प्राणं त- मूचुः — हे भगवन् एधि भव नः स्वामी, यस्मात् त्वं नः श्रेष्ठोऽसि ; मा च अस्माद्देहादुत्क्रमीरिति ॥ अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच य- दहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ अथ हैन श्रोत्रमुवाच यदह संप- दस्मि त्वं तत्संपदसीत्यथ हैनं मन उवाच . यदहमायतनमस्मि त्वं तदायतनमसीति ॥ अथ हैनं वागादय: प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहु:- बलिमिव हरन्तो राज्ञे विशः । कथम् ? वाक् तावदु- वाच - यदहं वसिष्ठोऽस्मि, यदिति क्रियाविशेषणम्, यद्वसिष्ठ- त्वगुणास्मीत्यर्थः ; त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्व- सिष्ठोऽसि तद्गुणस्त्वमित्यर्थः । अथवा तच्छन्दोऽपि क्रियावि- शेषणमेव । त्वत्कृतस्त्वदीयोऽसौ वसिष्ठत्वगुणोऽज्ञानान्ममेति मया अभिमत इत्येतत् । तथोत्तरेषु योज्यं चक्षुः श्रोत्रमनःसु ॥ न वै वाचो न चक्षूषि न श्रोत्राणि S. U. IV. 5 छान्दोग्योपनिषद्भाष्ये [ख. न मनासीत्याचक्षते प्राणा इत्येवाच - क्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ श्रुतेरिदं वच:- युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहि- तम् ; यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनां- सीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ; किं तर्हि, प्राणा इत्येव आचक्षते कथयन्ति ; यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवति ; अतो मुख्यं प्राणं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसंजिहीर्षति ॥ ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै वि- वदन्तः अन्योन्यं स्पर्धेरन्निति ; न हि चक्षुरादीनां वाचं प्रत्या- ख्याय प्रत्येकं वदनं संभवति ; तथा अपगमो देहात् पुनः प्रवे- शो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते । तत्र अग्न्यादिचेतनावद्दे- वताधिष्ठितत्वात् वागादीनां चेतनावत्त्वं तावत् सिद्धमागमतः । तार्किकसमयविरोध इति चेत् देहे एकस्मिन्ननेकचेतनावत्त्वे, न, ईश्वरस्य निमित्तकारणत्वाभ्युपगमात् । ये तावदीश्वरमभ्युपग- च्छन्ति तार्किकाः, ते मनआदिकार्यकरणानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृ- त्तिमिच्छन्ति - रथादिवत् । न च अस्माभिः अग्न्याद्याश्चेतना- वत्योऽपि देवता अध्यात्मं भोक्त्रयः अभ्युपगम्यन्ते ; किं तर्हि, १.] पञ्चमोऽध्यायः । - कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभू- ताधिदैवभेदकोटि विकल्पानामध्यक्षतामात्रेण नियन्ता ईश्वरो- ऽभ्युपगम्यते । स ह्यकरण:, 'अपाणिपादो जवनो ग्रहीता पश्य- त्यचक्षुः स शृणोत्यकर्ण:' इत्यादिमन्त्रवर्णात्; 'हिरण्यगर्भ पश्यत जायमानम् ' ' हिरण्यगर्भं जनयामास पूर्वम्' इत्यादि च श्वेताश्वतरीयाः पठन्ति । भोक्ता कर्मफलसंबन्धी देहे तद्वि- लक्षणो जीव इति वक्ष्यामः । वागादीनां च इह संवादः कल्पि- तः विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम्- यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमाना: कं- चिगुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ; तेनोक्ता ऐकैकश्येन अदः कार्य साधयितुमुद्यच्छत, येनादः कार्य सा- ध्यते, स वः श्रेष्ठः - इत्युक्ताः तथैवोद्यच्छन्तः आत्मनोऽन्यस्य वा श्रेष्ठतां निर्धारयन्ति - तथेमं संव्यवहारं वागादिषु कल्पि- तवती श्रुतिः - कथं नाम विद्वान् वागादीनामेकैकस्याभावे- ऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्येतेति । तथा च श्रुतिः कौषीतकिनाम् - 'जीवति वागपेतो मूकान्हि पश्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रा- पेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्या- मो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्न:' इत्याद्या ॥ इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनाननं भवतीति ॥ १ ॥ स होवाच मुख्य: प्राण:- किं मेऽन्नं भविष्यतीति । मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तृनिव कल्पय- न्ती श्रुतिराह— यदिदं लोकेऽन्नजातं प्रसिद्धम् आ श्वभ्यः श्वभिः सह आ शकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यद- न्नम्, तत् तत्रान्नमिति होचुर्वागादय इति । प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपा- ह्यावृत्य स्वेन श्रुतिरूपेण आह - तद्वै एतत् यत्किंचिल्लोके प्रा- णिभिरन्नमद्यते, अनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्य- र्थः । सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थम् अन इति प्राणस्य प्रत्यक्षं नाम । प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात् । तथा च सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नाम अन इति स- र्वान्नानामत्तुः साक्षादभिधानम् । न ह वा एवंविदि यथोक्त- प्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति, त- स्मिन्नेवंविदि ह वै किंचन किंचिदपि प्राणिभिरद्यं सर्वैः २.] पञ्चमोऽध्यायः । अनन्नम् अनद्यं न भवति, सर्वमेवंविद्यन्नं भवतीत्यर्थः, प्राण- भूतत्वाद्विदुषः, 'प्राणाद्वा एष उदेति प्राणेऽस्तमेति' इत्युप- क्रम्य ' एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति' इति श्रुत्यन्तरात् ॥ स होवाच किं मे वासो भविष्यती- त्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भु- को ह वासो भवत्यनग्नो ह भवति ॥ २ ॥ स ह उवाच पुनः प्राणः- पूर्ववदेव कल्पना । किं मे वासो भविष्यतीति । आप इति होचुर्वागादय: । यस्मात्प्राण- स्य वासः आपः, तस्माद्वा एतदशिष्यन्तः भोक्ष्यमाणा भुक्त- वन्तश्च ब्राह्मणा विद्वांसः एतत्कुर्वन्ति । किम् ? अद्भि: वास- स्थानीयाभिः पुरस्तात् भोजनात्पूर्वम् उपरिष्टाच्च भोजनादूर्ध्व च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य । लम्भुको लम्भनशीलो वासो ह भवति ; वाससो लब्धैव भवती- त्यर्थः । अनग्नो ह भवति । वाससो लम्भुकत्वेनार्थसिद्धैवा- नग्नतेति अनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् ॥ भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्धयर्थं विज्ञातम्, तस्मिन् प्राणस्य वास इति दर्शनमात्रमिह विधीयते —— अद्भिः , छान्दोग्योपनिषद्भाष्ये [ख. परिदधतीति; न आचमनान्तरम् — यथा लौकिकैः प्राणिभि- रद्यमानमन्नं प्राणस्येति दर्शनमात्रम्, तद्वत्; किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् । यद्याचमनमपूर्व ता. दर्थ्येन क्रियेत, तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् । तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् । यत्तु प्रसिद्धमाचमनं प्रायत्यार्थ प्राणस्यानग्नतार्थं च न भव- तीत्युच्यते, न तथा वयमाचमनमुभयार्थं ब्रूमः । किं तर्हि, प्रायत्यार्थाचमनसाधनभूता आप: प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः । तब आचमनस्योभयार्थत्वप्रसङ्गदोषचो- दना अनुपपन्ना । वासोऽर्थ एव आचमने तद्दर्शनं स्यादिति चेत्, न, वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रा- नग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः । आचमनस्य तदर्थत्व- मन्यार्थत्वं चेति प्रमाणाभावात् ॥ तद्वैतत्सत्यकामो जाबालो गोश्रुतये.. वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्का- य स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः . प्ररोहेयुः पलाशानीति ॥ ३ ॥ . तदेतत्प्राणदर्शनं स्तूयते । कथम् ? तद्वैतत्प्राणदर्शनं सत्य - २.] पञ्चमोऽध्यायः । कामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः । किं तदुवाचेति, आह— यद्यपि शुष्काय स्थाणवे एतद्दर्शनं ब्रूयात्प्राणवित्, जांयेरन् उत्पद्येरन्नेव अ- स्मिन्स्थाणौ शाखा: प्ररोहेयुश्च पलाशानि पत्राणि, किमु जीवते पुरुषाय ब्रूयादिति ॥ यथोक्तप्राणदर्शनविदः इदं मन्थाख्यं कर्म आरभ्यते- अथ यदि महजिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्या रात्रौ सर्वोषधस्य मन्थं दधिमधुनो रुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपात - मवनयेत् ॥ ४ ॥ अथ अनन्तरं यदि महत् महत्त्वं जिगमिषेत् गन्तुमि- च्छेत्, महत्त्वं प्राप्तुं यदि कामयेतेत्यर्थः, तस्येदं कर्म विधी - यते । महन्त्वे हि सति श्रीरुपनमते । श्रीमतो हि अर्थप्राप्तं धनम्, ततः कर्मानुष्ठानम्, ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म, न विषयोपभोगकामस्य । तस्यायं कालादिविधिरुच्यते- अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं छान्दोग्योपनिषद्भाष्ये ख. कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः । न पुनर्दैश्मेव कर्मजातं सर्वमुपादत्ते, अतद्विकारत्वान्मन्था- ख्यस्य कर्मण: । 'उपसद्व्रती' इति श्रुत्यन्तरात् पयोमात्र- भक्षणं च शुद्धिकारणं तप उपादत्ते । पौर्णमास्यां रात्रौ कर्म आरभते — सर्वौषधस्य प्राम्यारण्यानामोषधीनां यावच्छक्त्य- ल्पमल्पमुपादाय तद्वितुषीकृत्य आममेव पिष्टं दधिमधुनो रौ- दुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्य उपमध्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावा- वसध्ये आज्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे संपात - मवनयेत् संस्रवमधः पातयेत् ॥ वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्ना- वाज्यस्य हुत्वा मन्थे संपातमवनयेत्संपदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपात - मवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५ ॥ समानमन्यत्, वसिष्ठाय प्रतिष्ठायै संपदे आयतनाय स्वाहेति, प्रत्येकं तथैव संपातमवनयेत् हुत्वा ॥ अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जप- २.] पञ्चमोऽध्यायः । त्यमो नामास्यमा हि ते सर्वमिद स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठय श्रैष्ठय५ राज्यमाधिपत्यं गमयत्वहमेवेद५ सर्वमसानीति ॥ ६ ॥ अथ प्रतिसृष्य अग्नेरीषदपसृत्य अञ्जलौ मन्थमाधाय जप- ति इमं मन्त्रम् — अमो नामास्यमा हि ते ; अम इति प्राण- स्य नाम । अन्नेन हि प्राणः प्राणिति देहे इत्यतो मन्थद्रव्यं प्राणस्य अन्नत्वात् प्राणत्वेन स्तूयते अमो नामासीति ; कुतः ? यत: अमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वे समस्तं जगदिदम्, अत: । स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्व; अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य । सः मा मामपि मन्थः प्राणो ज्यैष्टया- दिगुणपूगमात्मनः गमयतु, अहमेवेदं सर्वे जगदसानि भवानि प्राणवत् । इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ॥ अथ खल्वेतयर्चा पच्छ आचामति त- त्सवितुर्वृणीमह इत्याचामति वयं देवस्थ भोजनमित्याचामति श्रेष्ठ सर्वधातममि- त्याचामति तुरं भगस्य धीमहीति सर्व छान्दोग्योपनिषद्भाष्ये पिबति निर्णिज्य कसं चमसं वा पश्चा- दग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्ये- त्समृद्धं कर्मेति विद्यात् ॥ ७ ॥ [ख. अथ अनन्तरं खलु एतया वक्ष्यमाणया ऋचा पच्छः पादशः आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं प्रासं भक्षयति । तत् भोजनं सवितुः सर्वस्य प्रसवितु:, प्राणमा- दित्यं च एकीकृत्योच्यते, आदित्यस्य वृणीमहे प्रार्थये महि मन्थरूपम्; येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः । देवस्य सवितुरिति पूर्वेण संबन्धः । श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधा- तमं सर्वस्य जगतो धारयितृतमम् अतिशयेन विधातृत- ममिति वा ; सर्वथा भोजनविशेषणम् । तुरं त्वरं तूर्ण शीघ्रमित्येतत्, भगस्य देवस्य सवितुः स्वरूपमिति शेष: ; धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः । अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहीति सर्वे च मन्थलेपं पिबति । निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा औदुम्बरं पात्रम्; पीत्वा आचम्य पश्चादग्नेः :; २.] पञ्चमोऽध्यायः । प्राक्शिराः संविशति चर्मणि वा अजिने स्थण्डिले केवलायां वा भूमौ वाचंयमो वाग्यतः सन्नित्यर्थः, अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा, तथा सं- यतचित्तः सन्नित्यर्थः । स एवंभूतो यदि स्त्रियं पश्येत्स्वप्नेषु, तदा विद्यात्समृद्धं ममेदं कर्मेति ॥ तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियः खप्नेषु पश्यति समृद्धिं तत्र जा- नीयान्तस्मिन्वप्ननिदर्शने तस्मिन्स्वप्ननिद- र्शने ॥ ८ ॥ इति द्वितीयः खण्डः ॥ तदेतस्मिन्नर्थे एष श्लोको मन्त्रोऽपि भवति - यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति, समृद्धिं तत्र जानीयात्, कर्मणां फलनिष्पत्तिर्भवि- ष्यतीति जानीयादित्यर्थः ; तस्मिंस्त्र्यादिप्रशस्तस्व प्रदर्शने सतीत्यभिप्रायः । द्विरुक्तिः कर्मसमाप्त्यर्था ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतो- र्मुमुक्षूणाम् इत्यत आख्यायिका आरभ्यते— श्वेतकेतुर्हारुणेयः पञ्चालानाँ समिति- मेयाय त‍ ह प्रवाहणो जैवलिरुवाच कु- मारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ श्वेतकेतुर्नामत:, ह इति ऐतिह्यार्थः, अरुणस्यापत्यमा- रुणिः तस्यापत्यमारुणेयः पञ्चालानां जनपदानां समितिं सभाम् एयाय आजगाम । तमागतवन्तं ह प्रवाहणो नामतः जीवलस्यापत्यं जैवलिः उवाच उक्तवान् — हे कुमार अनु त्वा त्वाम् अशिषत् अन्वशिषत् पिता ? किमनुशिष्टस्त्वं पित्रेत्यर्थः । इत्युक्तः स आह—अनु हि अनुशिष्टोऽस्मि भगव इति सूच- यन्नाह ॥ वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृ- याणस्य च व्यावर्तना३ इति न भगव इति ॥ २ ॥ ३.] पञ्चमोऽध्यायः । तं ह उवाच - यद्यनुशिष्टोऽसि, वेत्थ यदितः अस्माल्लो- कात् अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति, तत्किं जानीषे इत्यर्थः । न भगव इत्याह इतर:, न जानेऽहं तत् यत्पृच्छसि । एवं तर्हि, वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति । न भगव इति प्रत्याह । वेत्थ पथोर्मार्गयोः सहप्रयाण- योर्देवयानस्य पितृयाणस्य च व्यावर्तना व्यावर्तनमितरेतर- वियोगस्थानं सह गच्छतामित्यर्थः ॥ वेत्थ यथासौ लोको न संपूर्यत ३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुता- वापः पुरुषवचसो भवन्तीति नैव भगव इति ॥ ३ ॥ वेत्थ यथा असौ लोकः पितृसंबन्धी- यं प्राप्य पुनरा- वर्तन्ते, बहुभिः प्रयद्भिरपि येन कारणेन न संपूर्यते इति । न भगव इति प्रत्याह । वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायाम् आहुतिनिर्वृत्ता आहुतिसा- धनाश्च आपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुष- शब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः । इत्युक्तो नैव भगव इत्याह ; नैवाहमत्र किंचन जानामीत्यर्थः ॥ छान्दोग्योपनिषद्भाष्ये अथानु किमनुशिष्टोऽवोचथा यो ही- मानि न विद्यात्कथ‍ सोऽनुशिष्टो ब्रुवी- तेति स हायस्तः पितुरर्धमेयाय त हो- वाचाननुशिष्य वाव किल मा भगवान्त्र- वीदनु त्वाशिषमिति ॥ ४ ॥ [ख. अथ एवमज्ञः सन् किमनु कस्मात्त्वम् अनुशिष्टोऽस्मीति - अवोचथा उक्तवानसि ; यो हि इमानि मया पृष्टान्यर्थजा- तानि न विद्यात् न विजानीयात् कथं स विद्वत्सु अनुशि- " ष्टोऽस्मीति ब्रुवीत । इत्येवं स श्वेतकेतुः राज्ञा आयस्त: आ- यासितः सन् पितुरर्धं स्थानम् एयाय आगतवान्, तं च पितरमुवाच – अननुशिष्य अनुशासनमकृत्वैव मा मां किल भगवान् समावर्तनकालेऽब्रवीत् उक्तवान् अनु त्वाशिषम् अन्वशिषं त्वामिति ॥ - पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्ते- षां नैकंचनाशकं विवक्तुमिति स होवा- च यथा मा त्वं तदैतानवदो यथाहमेषां नैकंचन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥ ३.] पञ्चमोऽध्यायः । स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायाही चकार स ह प्रातः सभाग उदेयाय त होवाच मानुषस्य भगवन्गौ- तम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन्मानुषं वित्तं यामेव कुमार- स्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव ॥ ६ ॥ - यतः पञ्च पञ्चसंख्याकान्प्रश्नान् राजन्यबन्धुः राजन्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः, अप्राक्षीत् पृष्टवान् । तेषां प्रश्नानां नैकंचन एकमपि नाशकं न शक्तवा- नहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः । स ह उवाच पिता - यथा मा मां वत्स त्वं तदा आगतमात्र एव एतान्प्र- श्रान् अवद उक्तवानसि तेषां नैकंचन अशकं विवक्तुमिति, तथा मां जानीहि त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयम- ज्ञानं जानीहीत्यर्थः । कथम् ? यथा अहमेषां प्रश्नानाम् एकं चन एकमपि न वेद न जाने इति — यथा त्वमेवान एता- प्रश्नान् न जानीषे, तथा अहमपि एतान्न जाने इत्यर्थः । अतो मय्यन्यथाभावो न कर्तव्यः । कुत एतदेवम् ? यतो न जाने ; यद्यहमिमान्प्रश्नान् अवेदिष्यं विदितवानास्मि, कथं छान्दोग्योपनिषद्भाष्ये [ख. ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्त- वानस्मि - इत्युक्त्वा स ह गौतम: गोत्रतः राज्ञ: जैवले: अ स्थानम् एयाय गतवान् । तस्मै ह गौतमाय प्राप्ताय अर्हाम् अर्हणां चकार कृतवान् । स च गौतमः कृतातिथ्यः उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञि उदेयाय । . भजनं भाग: पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गौतमः उदेयाय राजानमुद्गतवान् । तं होवाच गौतमं राजा - मानुषस्य भगवन् गौतम मनुष्य संब- न्धिनो वित्तस्य ग्रामादेः वरं वरणीयं कामं वृणीथा: प्रार्थये - था: । स ह उवाच गौतमः —- तवैव तिष्ठतु राजन् मानुषं वित्तम् ; यामेव कुमारस्य मम पुत्रस्य अन्ते समीपे वाचं पञ्चप्रश्नलक्षणाम् अभाषथाः उक्तवानसि तामेव वाचं मे मह्यं ब्रूहि कथय- इत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव - कथं त्विदमिति ॥ तरह चिरं वसेत्याज्ञापयांचकार त‍ होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्गच्छ- ति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशा- सनमभूदिति तस्मै होवाच ॥ ७ ॥ ३.] पञ्चमोऽध्यायः । स ह कृच्छ्रीभूतः अप्रत्याख्येयं ब्राह्मणं मन्वानः न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वस- इत्येवमाज्ञापयांचकार आज्ञप्तवान् । यत्पूर्वे प्रख्यातवान् राजा विद्याम्, यश्च पश्चाश्चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्मणं क्षमापयति हेतुवचनोक्त्या । तं ह उवाच राजा- सर्वविद्यो ब्राह्मणोऽपि सन् यथा येन प्रकारेण मा मां हे गौतम अवदः त्वम्-तामेव विद्यालक्षणां वाचं मे ब्रूहि - इत्यज्ञा - नात्, तेन त्वं जानीहि । तत्रास्ति वक्तव्यम् -- यथा येन प्रका- रेण इयं विद्या प्राक् त्वत्तो ब्राह्मणान् न गच्छति न गतवती, न च ब्राह्मणा अनया विद्यया अनुशासितवन्तः, तथा एतत्प्रसिद्धं लोके यत:, तस्मादु पुरा पूर्व सर्वेषु लोकेषु क्षत्रस्यैव क्षत्र- जातेरेव अनया विद्यया प्रशासनं प्रशास्तृत्वं शिष्याणाम- भूत् बभूव ; क्षत्रियपरम्परयैवेयं विद्या एतावन्तं कालमा- गता ; तथाप्यहमेतां तुभ्यं वक्ष्यामि ; त्वत्संप्रदानादूर्ध्वं त्रा- ह्मणान्गमिष्यति ; अतो मया यदुक्तम्, तत्क्षन्तुमर्हसीत्यु- क्त्वा तस्मै ह उवाच विद्यां राजा ॥ इति तृतीयखण्डभाष्यम् ॥ 5. r, IV. 6 चतुर्थः खण्डः ॥ - 'पञ्चम्यामाहुतावाप:' इत्ययं प्रश्न: प्राथम्येनापाक्रियते,. तदपाकरणमनु इतरेषामपाकरणमनुकूलं भवेदिति । अग्नि- होत्राहुत्योः कार्यारम्भो यः, स उक्तो वाजसनेयके तं प्रति प्रश्नाः । उत्क्रान्तिराहुत्योर्गति: प्रतिष्ठा तृप्ति: पुनरावृ- तिर्लोकं प्रत्युत्थायी इति । तेषां च अपाकरणमुक्तं तत्रैव- 'ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्ला- माहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत' इत्यादि ; एवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते । इमामाविश्य तर्पयित्वा पुरुषमाविशतः । ततः स्त्रियमाविश्य लोकं प्रत्युत्थायी भव- ति इति । तत्र अग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्तम्, इह तु तं कार्यारम्भमग्निहोत्रापूर्वविपरिणामल- क्षणं पञ्चधा प्रविभज्य अग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्ति- साधनं विधित्सन् आह-- असौ वाव लोको गौतमाग्निस्तस्या- दित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्र- मा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ ४.] पञ्चमोऽध्यायः । असौ वाव लोको गौतमाग्निरित्यादि । इह सायंप्रातर- ग्निहोबाहुती हुते पयआदिसाधने श्रद्धापुरःसरे आहवनीया- मिसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते च अन्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अ- प्समवायित्वादपशब्दवाच्ये श्रद्धा हेतुत्वाच्च श्रद्धाशब्दवाच्ये । तयोरधिकरणः अग्निः अन्यच्च तत्संबन्धं समिदादीत्युच्यते । या च असावग्न्यादिभावना आहुत्योः, सापि तथैव निर्दि- श्यते । असौ वाब लोकोऽग्निः हे गौतम - यथामिहोत्वाधिकर- णमाहवनीय इह । तस्याग्नेर्द्युलोकाख्यस्य आदित्य एव स- मित, तेन हि इद्ध: असौ लोको दीप्यते, अत: समिन्ध- नात् समिदादित्यः । रश्मयो धूमः, तदुत्थानात्; समिधो हि धूम उत्तिष्ठति । अहरर्चि: प्रकाशसामान्यात्, आदि- त्यकार्यत्वाच्च । चन्द्रमा अङ्गारा:, अह्नः प्रशमेऽभिव्यक्तेः ; अर्चिषो हि प्रशमेऽङ्गारा अभिव्यज्यन्ते । नक्षत्राणि विस्फु- लिङ्गाः, चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ॥ इति चतुर्थः खण्डः ॥ ' छान्दोग्योपनिषद्भाष्ये ख. तस्मिन्नेतस्मिन् यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् । श्रद्धाम् अग्निहोत्राहुतिपरिणामाव- स्थारूपा: सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते, पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यपां होम्य- तया प्रश्ने श्रुतत्वात्; ' श्रद्धा वा आप: श्रद्धामेवारभ्य प्रणीय प्रचरन्ति' इति च विज्ञायते । तां श्रद्धाम् अनूपां जुह्वति; तस्या आहुतेः सोमो राजा अपां श्रद्धाशब्दवा- च्यानां द्युलोकाम्रौ हुतानां परिणामः सोमो राजा संभवति — यथा ऋग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्ते आदित्ये यशआदिकार्य रोहितादिरूपलक्षणमारभन्ते इत्युक्तम् — तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्मा: श्रद्धाशब्दवाच्या आप द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्रा- हुत्योः । यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावना- भाविता आहुतिरूपेण कर्मणा आकृष्टा: श्रद्धाप्समवायिनो लोकमनुप्रविश्य सोमभूता भवन्ति । तदर्थे हि तैरग्निहोत्रं हुतम् । अत्र तु आहुतिपरिणाम एव पञ्चाग्निसंबन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थे न यजमानानां गतिः । तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति, विदुषां च उत्तरा विद्याकृताम् ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ पर्जन्यो वाव गौतमाग्निस्तस्य वायु- रेब समिदभ्रं घूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः ॥ १ ॥ - " द्वितीयहोमपर्यायार्थमाह — पर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्टयुपकरणाभिमानी देवताविशे- षः । तस्य वायुरेव समित् वायुना हि पर्जन्योऽग्निः समिध्यते ; पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं घूमः, धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् । विद्युदर्चिः, प्रकाशसा- मान्यात् । अशनिः अङ्गारा:, काठिन्याद्विद्युत्संबन्धाद्वा । ह्रादनयो विस्फुलिङ्गाः, ह्रादनयः गर्जितशब्दाः मेघानाम्, विप्रकीर्णत्वसामान्यात् ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः सोमः रा- जानं जुह्वति तस्या आहुतेर्बर्ष‍ सं- भवति ॥ २ ॥ इति पञ्चमः खण्डः ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति । तथा आहुतेर्वर्षे संभवति ; श्रद्धाख्या आपः सोमाकारपरि- णता द्वितीये पर्याये पर्जन्याग्नि प्राप्य वृष्टित्वेन परिणमन्ते ॥ इति पञ्चमखण्डभाष्यम् ॥ षष्ठः खण्डः ॥ पृथिवी वाव गौतमाग्निस्तस्याः संव- त्सर एव समिदाकाशो धूमो रात्रिरचि- र्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ , पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् । तस्याः पृथि - व्याख्यस्याग्नेः संवत्सर एव समित् संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति । आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते— यथा अग्नेर्धूमः । रात्रिरचिः, पृथिव्या हि अप्रकाशात्मिकाया अनुरूपा रात्रिः, तमोरूपत्वात् — अग्नेरिवानुरूपमचिः । दिशः अङ्गारा:, उप- शान्तत्वसामान्यात् । अवान्तरदिशः विस्फुलिङ्गाः, क्षुद्र- त्वसामान्यात् ॥ तस्मिन्नेतस्मिन्नग्नौ देवा वर्षे जुह्वति तस्या आहुतेरन्नः संभवति ॥ २ ॥ इति षष्ठः खण्डः ॥ तस्मिन्नित्यादि समानम् । तस्या आहुतेरन्नं व्रीहियवादि संभवति ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वाचिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥ " पुरुषो वाव गौतमाग्निः । तस्य वागेव समित् वाचा हि मुखेन समिध्यते पुरुषो न मूकः । प्राणो धूमः, धूम इव मुखान्निर्गमनात् । जिह्वा अर्चि:, लोहितत्वात् । चक्षुः अङ्गाराः, भास आश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः, विप्रकी- र्णत्वसाम्यात् ॥ तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ॥ २ ॥ इति सप्तमः खण्डः ॥ समानमन्यत् । अन्नं जुह्वति व्रीह्यादिसंस्कृतम् । तस्या आहुते रेतः संभवति ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमो योनि- रर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥ योषा वाव गौतमाग्निः । तस्या उपस्थ एव समित् तेन हि सा पुत्राद्युत्पादनाय समिध्यते । यदुपमन्त्रयते स धूमः, स्त्रीसंभवादुपमन्त्रणस्य । योनिरर्चिः, लोहितत्वात् । यदन्तः करोति तेऽङ्गाराः, अग्निसंबन्धात् । अभिनन्दाः सुखलवाः विस्फुलिङ्गाः, क्षुद्रत्वात् ॥ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति ॥ २ ॥ इति अष्टमः खण्डः ॥ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुते- र्गर्भः संभवतीति । एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्र- ८.] - पञ्चमोऽध्यायः । मेण आप एव गर्भीभूतास्ताः । तत्र अपामाहुतिसमवायि- . त्वात् प्राधान्यविवक्षा - आपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति । न त्वाप एव केवलाः सोमादिकार्यमारभन्ते । न च आपोऽत्रिवृत्कृताः सन्तीति । त्रिवृत्कृतत्वेऽपि विशेष- संज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतम- बाहुल्यनिमित्त: । तस्मात्समुदितान्येव भूतान्यव्बाहुल्या- त्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते । दृश्यते च द्रवबाहुल्यं सोमवृष्टयन्नरेतोदेहेषु । बहुद्रवं च शरीरं यद्यपि पार्थिवम् । तत्र पञ्चम्यामाहुतौ हुतायां रेतो- रूपा आपो गर्मीभूताः ॥ इति अष्टमखण्डभाष्यम् ॥ नवमः खण्डः ॥ इति तु पञ्चम्यामाहुतावापः पुरुषवच- सो भवन्तीति सं उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते १ ॥ इति तु एवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती- ति व्याख्यातः एकः प्रश्नः । यत्तु द्युलोकादिमां प्रत्यावृत्तयो - राहुत्योः पृथिवीं पुरुषं स्त्रियं क्रमेण आविश्य लोकं प्रत्यु- त्थायी भवतीति वाजसनेयके उक्तम्, तत्प्रासङ्गिकमिहो- च्यते । इह च प्रथमे प्रश्ने उक्तम्- वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । तस्य च अयमुपक्रमः स गर्भोऽपां पञ्चमः परि- 'णामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानाम् उल्बावृतः उल्बेन जरायुणा आवृत: वेष्टित: दश वा नव वा मासान् अन्तः मातुः कुक्षौ शयित्वा यावद्वा यावता का- 'लेन न्यूनेनातिरिक्तेन वा अथ अनन्तरं जायते ॥ - उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते । कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्यो - बाशुचिपटावृतस्य लोहितरेतोशुचिबीजस्य मातुरशितपी- ९.]. पञ्चमोऽध्यायः । तरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेज: प्रज्ञा- चेष्टस्य शयनम् । ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति, मुहूर्तमप्यसां दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च ॥ स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ २ ॥ इति नवमः खण्डः ॥ स एवं जातः यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागम- नाय कर्म कुर्वन् कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्म - णोपात्तमायुः तावज्जीवति । तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति- यदि चेज्जीवन् वैदिके कर्मणि ज्ञाने वा अधिकृत: - तमेनं मृतम् इतः अस्माग्रामात् अग्नये अग्न्यर्थम् ऋत्विजो हरन्ति पुत्रा वा अन्त्यकर्मणे । यत एव इत आगत: अग्नेः सकाशात् श्रद्धाद्याहुतिक्रमेण, यत्तश्च पञ्चभ्योऽग्निभ्यः संभूतः उत्पन्नः भवति, तस्मै एव अग्नये हरन्ति स्वामेव योनिम् अग्निम् आपादयन्तीत्यर्थः ॥ इति नवमखण्डभाष्यम् ॥ दशमः खण्डः ॥ तद्य इत्थं विदुः । ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्त्य- चिंषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणप- क्षाद्यान्षडुदङ्ङेति मासास्तान् ॥ १ ॥ मासेभ्यः संवत्सर" संवत्सरादादित्य- मादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं त- त्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ॥ २ ॥ - ' वेत्थ यदितोऽधि प्रजाः प्रयन्ति' इत्ययं प्रश्नः प्रत्युपस्थितो- Sपाकर्तव्यतया । तत् तत्र लोकं प्रति उत्थितानाम् अधिकृतानां गृहमेधिनां ये इत्थम् एवं यथोक्तं पश्चाग्निदर्शनम् - द्युलोकाद्य- निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मानः- इत्येवं विदुः जानीयुः । कथमवगम्यते इत्थं विदुरिति गृहस्था एव उच्यन्ते नान्य इति ? गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपरा: ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति । ये च अरण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धा तप १०.] पञ्चमोऽध्यायः । इत्युपासते, तेषां च इत्थंविद्भिः सह अर्चिरादिना गमनं वक्ष्यति, पारिशेष्यादग्निहोत्राहुति संबन्धाच्च गृहस्था एव गृह्य- न्ते - इत्थं विदुरिति । ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्या अरण्यश्रुत्या च अनुपलक्षिता विद्यन्ते, कथं पारिशेष्यसिद्धि: ? नैष दोषः । पुराणस्मृतिप्रामाण्यात् ऊर्ध्वरेतसां नैष्ठिकन्रह्म- चारिणाम् उत्तरेणार्यम्णः पन्थाः प्रसिद्धः, अतः तेऽप्यरण्य- वासिभिः सह गमिष्यन्ति । उपकुर्वाणकास्तु स्वाध्यायग्रह- णार्थी इति न विशेषनिर्देशाहः । ननु ऊर्ध्वरेतस्त्वं चेत् उत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यते, इत्थं- वित्त्वमनर्थकं प्राप्तम् । न, गृहस्थान्प्रत्यर्थवत्त्वात् । ये गृहस्था अनित्थंविद:, तेषां स्वभावतो दक्षिणो धूमादि: पन्थाः प्रसिद्ध:, तेषां य इत्थं विदुः सगुणं वा अन्यद्ब्रह्म विदुः, 'अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि च नार्चिषमेव ' इति लिङ्गात् उत्तरेण ते गच्छन्ति । ननु ऊर्ध्वरेतसां गृहस्थानां च समाने आश्रमित्वे ऊर्ध्वरेतसामेव उत्तरेण पथा गमनं न गृहस्थानामिति न युक्तम् अग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ; नैष दोष:, अपूता हि ते – शत्रुमित्रसंयोगनिमित्तौ हि तेषां रागद्वेषौ, तथा धर्माधर्मो हिंसानुग्रह निमित्तौ, हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्य ते- - छान्दोग्योपनिषद्भाष्ये [ख. " षाम्, अतोऽपूताः । अपूतत्वात् न उत्तरेण पथा गमनम् । हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हि इतरे, शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसः; तेषां युक्त उत्तर: पन्थाः । तथा च पौराणिकाः -- 'ये प्रजामीषिरे ऽधीरास्ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे' इत्याहु: । इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सति, अरण्यवासिनां विद्यान- र्थक्यं प्राप्तम् ; तथा च श्रुतिविरोध: - ' न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः' इति, 'स एनमविदितो न भुनक्ति इति च विरुद्धम् । न, आभूतसंप्लवस्थानस्यामृतत्वेन विव- क्षितत्वात् । तत्रैवोक्तं पौराणिकैः -- ' आभूतसंप्लवं स्थान- ममृतत्वं हि भाष्यते ' इति । यच्च आत्यन्तिक्रममृतत्वम्, तद्- पेक्षया 'न तत्र दक्षिणा यन्ति' 'स एनमविदितो न भुनक्ति' इत्याद्याः श्रुतयः -- इत्यतो न विरोधः । न च पुन- रावर्तन्ते' इति ' इमं मानवमावर्त नावर्तन्ते ' इत्यादि- श्रुतिविरोध इति चेत्, न ; ' इमं मानवम् ' इति विशेषणात् ' तेषामिह न पुनरावृत्तिरस्ति' इति च। यदि हि एकान्तेनैव नावर्तेरन्, इमं मानवम् इह इति च विशेषणमनर्थकं स्यात् । इममिह इत्याकृतिमात्रमुच्यत इति चेत्, न ; अनावृत्तिशब्दे- १०.] । पञ्चमोऽध्यायः । २९५. नैव नित्यानावृत्त्यर्थस्य प्रतीतत्वात् आकृतिकल्पना अन- र्थिका । अत: इमभिह इति च विशेषणार्थवत्त्वाय अन्यत्र आवृत्तिः कल्पनीया । न च सदेकमेवाद्वितीयमित्येवं प्रत्य- यवतां मूर्धन्यनाड्या अर्चिरादिमार्गेण गमनम्, 'ब्रह्मैव स- ब्रह्माप्येति' ' तस्मात्तत्सर्वमभवत् ' ' न तस्य प्राणा उत्क्रामन्ति । अत्रैव समबलीयन्ते' इत्यादिश्रुतिशतेभ्यः । ननु तस्माज्जीवादुञ्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव ग- च्छन्तीत्ययमर्थः कल्प्यत इति चेत्; न, ' अत्रैव समवली - यन्ते' इति विशेषणानर्थक्यात्, 'सर्वे प्राणा अनूत्क्रामन्ति' इति च प्राणैर्गमनस्य प्राप्तत्वात् । तस्मादुत्क्रामन्तीत्यनाशङ्क- वैषा । यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जी- वेन सह आगमनमाशङ्कथ तस्मान्नोत्क्रामन्तीत्युच्यते, तदा- पि 'अत्रैव समवलीयन्ते ' इति विशेषणमनर्थकं स्यात् । न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा, सर्वगत-- त्वात्सदात्मनो निरवयवत्वात् प्राणसंबन्धमात्रमेव हि अ- भिविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतः तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुम्, श्रुतयश्चेत्प्रमाणम् । न च सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन् गच्छतीति शक्यं कल्पयितुम् । तस्मात् ' तयोर्ध्वमायन्नमृ- छान्दोग्योपनिषद्भाष्ये [ख. तत्वमेति' इति सगुणब्रह्मोपासकस्य प्राणैः सह नाड्या गम- नम्, सापेक्षमेव च अमृतत्वम्, न साक्षान्मोक्ष इति गम्यते, ' तदपराजिता पूस्तदैरं मदीयं सरः ' इत्याद्युक्त्वा ' तेषामे- वैष ब्रह्मलोक:' इति विशेषणात् ॥ अतः पञ्चाग्निविदो गृहस्था:, ये च इमे अरण्ये वान- प्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्धधानास्तपस्विनश्चेत्यर्थः ; उपासनशब्द- स्तात्पर्यार्थः ; इष्टापूर्ते दत्तमित्युपासत इति यद्वन् । श्रुत्य- न्तरात् ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते, ते सर्वे अि षम् अर्चिरभिमानिनीं देवताम् अभिसंभवन्ति प्रतिपद्यन्ते । समानमन्यत् चतुर्थगतिव्याख्यानेन । एष देवयानः पन्था व्याख्यातः सत्यलोकावसानः, न अण्डाद्वहि:, ' यदन्तरा पितरं मातरं च' इति मन्त्रवर्णात् ॥ अथ य इमे ग्राम इष्टापूर्ते दत्तमि- "त्युपासते ते धूममभिसंभवन्ति धूमा- द्वात्रिः रात्रेरपरपक्षमपरपक्षाद्यान्षडूद- क्षिणैति मासास्तान्नैते संवत्सरमभि- प्राप्नुवन्ति ॥ ३ ॥ - १०.] पञ्चमोऽध्यायः । अथेत्यर्थान्तरप्रस्तावनार्थ:, य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानामसाधारणं विशेषणम् अरण्यवासिभ्यो व्या- वृत्त्यर्थम् — यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थम्, तद्वत्; इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म, पूर्त वापीकूपतडागारामादिकरणम् ; दत्तं बहि- वैदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम्; इति एवंविधं परिचरणपरित्राणादि उपासते, इति-शब्दस्य प्रकारदर्श- नार्थत्वात् । ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवताम् अभिसंभवन्ति प्रतिपद्यन्ते । तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेरपरपक्षदेवताम् एवमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान्षण्मासान् दक्षिणा दक्षिणां दिशमेति सविता, तान्मासान् दक्षिणायनषण्मासाभिमानिनीर्देवताः पद्यन्त इत्यर्थः । संघचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगः तासु । नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवतामभिप्राप्नुवन्ति । कुत: पुनः संवत्सरप्राप्तिप्रसङ्गः, यतः प्रतिषिध्यते ? अस्ति हि प्रस- ङ्गः—संवत्सरस्य हि एकस्यावयवभूते दक्षिणोत्तरायणे, तत्र अर्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविन: संवत्स- रस्य प्राप्तिरुक्ता ; अत: इहापि तदवयवभूतानां दक्षिणायन- S. U. IV. 7 प्रति- छान्दोग्योपनिषद्भाष्ये [ख. मासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्रा- प्रिरापन्नेति । अतः तत्प्राप्तिः प्रतिषिध्यते - नैते संवत्सरम- भिप्राप्नुवन्तीति ॥ मासेभ्यः पितृलोकं पितृलोकादाका- शमाकाशाच्चन्द्रमसमेष सोमो राजा तद्दे- वानामन्नं तं देवा भक्षयन्ति ॥ ४ ॥ मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रम- संम् । कोऽसौ, यस्तैः प्राप्यते चन्द्रमाः ? य एष दृश्यतेऽन्त- रिक्षे सोमो राजा ब्राह्मणानाम्, तदन्नं देवानाम्, तं चन्द्रमस- मन्नं देवा इन्द्रादयो भक्षयन्ति । अतस्ते धूमादिना गत्वा चन्द्र- भूताः कर्मिणो देवैर्भक्ष्यन्ते । ननु अनर्थाय इष्टादिकरणम्, यद्यन्नभूता देवैर्भक्ष्येरन् । नैष दोष:, अन्नमित्युपकरणमा- त्रस्य विवक्षितत्वात् — न हि ते कबलोत्क्षेपेण देवैर्भक्ष्यन्ते । किं तर्हि, उपकरणमात्रं देवानां भवन्ति ते, स्त्रीपशुभृत्या- दिवत्, दृष्टश्चान्नशब्द उपकरणेषु - स्त्रियोऽन्नं पशवोऽन्नं वि शोऽन्नं राज्ञामित्यादि । न च तेषां स्त्र्यादीनां पुरुषोपभो- ग्यत्वेऽप्युपभोगो नास्ति । तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति । शरीरं च तेषां सुखो- पभोगयोग्यं चन्द्रमण्डले आप्यमारभ्यते । तदुक्तं पुरस्तात्- I १०.] पञ्चमोऽध्यायः । श्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा संभव- तीति । ता आपः कर्मसमवायिन्यः इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपा- सकानां भवन्ति । अन्त्यायां च शरीराहुतावन्नौ हुतायाम ग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सह ऊर्ध्वं यज- मानमावेश्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्य- शरीरारम्भिका भवन्ति । तदारब्धेन च शरीरेण इष्टादि- फलमुपभुञ्जाना आसते ॥ तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वा- नं पुनर्निवर्तन्ते यथेतमाकाशमाकाशा- द्वायुं वायुर्भूत्वा धूमो भवति धूमो भू- त्वाभ्रं भवति ॥ ५ ॥ यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, संपतन्ति येने- ति संपातः कर्मणः क्षयः यावत्संपातं यावत्कर्मण: क्षय इत्यर्थः, तावत् तस्मिंश्चन्द्रमण्ले उषित्वा अथ अनन्तरम् एतमेव वक्ष्य- माणमध्वानं मार्ग पुनर्निवर्तन्ते । पुनर्निवर्तन्त इति प्रयोगा- त्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्च आसन्निति गम्य- ते । तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ; तत्क्षये च आवर्तन्ते; क्षणमात्रमपि तत्र स्थातुं न लभ्यते, छान्दोग्योपनिषद्भाष्ये स्थितिनिमित्तकर्मक्षयात् - स्नेहक्षयादिव प्रदीपस्य ॥ [ख. तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणम्, किं वा सावशेष इति । किं ततः ? यदि सर्वस्यैव क्षयः कर्मणः, चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ; तिष्ठतु तावत्तत्रैव, मोक्षः स्यात्, न वेति ; तत आगतस्य इह शरीरोपभोगादि न संभवति । ' ततः शेषेण ' इत्यादिस्मृतिविरोधञ्च स्यात् । नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि संभ- वन्ति, न च तेषां चन्द्रमण्डले उपभोगः, अतोऽक्षीणानि तानि ; यन्निमित्तं चन्द्रमण्डलमारूढः, तान्येव क्षीणानीत्य- विरोधः; शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ; अत एव च तत्रैव मोक्षः स्यादिति दोषाभाव:; विरुद्धाने- कयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोरारम्भक- त्वसंभवात् । न च एकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपप- द्यते, ब्रह्महत्यादेश्व एकैकस्य कर्मण अनेकजन्मारम्भकत्वस्म- रणात्, स्थावरादिप्राप्तानां च अत्यन्तमूढानामुत्कर्षहेतोः कर्मण आरम्भकत्वासंभवात् । गर्भभूतानां च स्रंसमानानां कर्मासंभवे संसारानुपपत्तिः । तस्मात् न एकस्मिन्मनि सर्वे- षां कर्मणामुपभोगः ॥ १०.] पञ्चमोऽध्यायः । यत्तु कैश्चिदुच्यते— सर्वकर्माश्रयोपमर्देन प्रायेण कर्म- णां जन्मारम्भकत्वम् । तत्र कानिचित्कर्माण्यनारम्भक- त्वेनैव तिष्ठन्ति कानिचिज्जन्म आरभन्त इति नोप- पद्यते, मरणस्य सर्वकर्माभिव्यञ्जकत्वात् स्वगोचराभिव्य- ञ्जकप्रदीपवदिति । तदसत् सर्वस्य सर्वात्मकत्वाभ्युप- गमात् न हि सर्व सर्वात्मकत्वे देशकालनिमित्तावरुद्ध- त्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोप- पद्यते, तथा कर्मणामपि साश्रयाणां भवेत् — यथा च पूर्वानुभूतमनुष्य मयूरमर्कटादिजन्माभिसंस्कृताः विरुद्धानेक- वासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन नोपमृद्यन्ते तथा कर्मण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृ- द्यन्त इति युक्तम् । यदि हि सर्वाः पूर्वजन्मानुभववासना: उपमृद्येरन्, मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मन्यनभ्य- स्तत्वात् । न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसी- त्तस्येति शक्यं वक्तुम्, 'तं विद्याकर्मणी समन्वारभेते पूर्व- प्रज्ञा च' इति श्रुतेः । तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसंभवः । यत एवम् तस्माच्छेषेणोपभुक्तात्कर्मणः । छान्दोग्योपनिषद्भाष्ये संसार उपपद्यत इति न कश्चिद्विरोधः ॥ ' -- [ख: कोऽसावध्वा यं प्रति निवर्तन्त इति, उच्यते —— यथेतं यथागतं निवर्तन्ते । ननु मासेभ्यः पितृलोकं पितृलोकादा- काशमाकाशाश्चन्द्रमसमिति गमनक्रम उक्तः, न तथा नि- वृत्ति: ; किं तर्हि, आकाशाद्वायुमित्यादि; कथं यथेतमित्यु- च्यते । नैष दोष:, आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च । न च अत्र यथेतमेवेति नियमः, अनेवंविधमपि निवर्तन्ते ; पुनर्निवर्तन्त इति तु नियमः । अत उपलक्षणार्थमेतत् - यद्यथे- तमिति । अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते -- यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसन्, तास्तेषां तत्रोप- भोगनिमित्तानां कर्मणां क्षये विलीयन्ते - घृतसंस्थानमिवाभि- संयोगे, ता विलीना अन्तरिक्षस्था आकाशभूता इव सूक्ष्माः भवन्ति । ता अन्तरिक्षाद्वायुर्भवन्ति, वायुप्रतिष्ठा वायुभूता इतश्चामुतश्च ऊह्यमानाः ताभि: सह क्षीणकर्मा वायुभूतो भवति । वायुर्भूत्वा ताभिः सहैव धूमो भवति । धूमो भूत्वा अभ्रम् अव्भरणमात्ररूपो भवति ॥ अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्प- तयस्तिलभाषा इति जायन्तेऽतो वै खलु १०.] पञ्चमोऽध्यायः । दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ६ ॥ अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति ; भेघो भूत्वा उन्नतेषु प्रदेशेष्वथ प्रवर्षति ; वर्षधारारूपेण शेषकर्मा पततीत्यर्थः । त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते ; क्षीणकर्मणामनेकत्वात् बहुवचननि- देश: । मेघादिषु पूर्वेष्वेकरूपत्वात् एकवचननिर्देश: । य- स्माद्भिरितटदुर्गनदीसमुद्रारण्य मरुदेशादि संनिवेशसहस्राणि व- र्षधाराभिः पतितानाम्, अतः तस्माद्धेतोः वै खलु दुर्निष्प्र- पतरं दुर्निष्क्रमणं दुर्निःसरणम् – यतो गिरितटादुदकस्रो- तसोह्यमाना नदीः प्राप्नुवन्ति, ततः समुद्रम्, ततो मकरादि- भिर्भक्ष्यन्ते ; तेऽप्यन्येन; तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातटे वा अगम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालमृगादि- पीता भक्षिताश्चान्यैः तेऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन्; कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन्; भक्ष्येष्वपि स्थावरेषु जातानां रेतः सिग्देहसंबन्धो दुर्लभ एव, बहुत्वा- स्थावराणाम् - इत्यतो दुर्निष्क्रमणत्वम् । अथवा अतः अस्मा- द्रीहियवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरम् । दुर्निष्प्रपत- " छान्दोग्योपनिषद्भाष्ये ख. रमिति तकार एको लुप्तो द्रष्टव्यः ; व्रीहियवादिभावो दु- निष्प्रपत:, तस्मादपि दुर्निष्प्रपताद्रेतः सिग्देहसंबन्धो दुर्निष्प्र- पततर इत्यर्थः ; यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थवि - रैर्वा भक्षिता अन्तराले शीर्यन्ते, अनेकत्वादन्नादानाम् । कदाचित्काकतालीयवृत्त्या रेतः सिग्भिर्भक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः । कथम् ? यो यो हि अन्नमत्ति अनुशयिभिः संश्लिष्टं रेतः सिक्, यश्च रेतः सिभ्वति ऋतुकाले योषिति, तद्भूय एव तदाकृतिरेव भवति ; तदवयवाकृति भूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशयेऽन्तः प्रविष्टोऽनुशयी, रेतसो रेतः सिगाकृतिभावि- तत्वात्, 'सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम् ' इति हि श्रुत्यन्त- रात् । अतो रेतःसिगाकृतिरेव भवतीत्यर्थः । तथा हि- पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिः, तस्माद्युक्तं तद्रूय एव भवतीति ॥ ये त्वन्ये अनुशयिभ्यश्चन्द्रमण्डलमनारुह्य इहैव पापकर्म- भिर्घोरैर्ब्रीहियवादिभावं प्रतिपद्यन्ते, पुनर्मनुष्यादिभावम्, तेषां नानुशयिनामिव दुर्निष्प्रपतरम् । कस्मात् ? कर्मणा हि तैर्त्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादि- स्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकाव- • १०.] पञ्चमोऽध्यायः । त्संक्रमन्ते सविज्ञाना एव 'सविज्ञानो भवति सविज्ञानमे- . वान्ववक्रामति' इति श्रुत्यन्तरात् । यद्यप्युपसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति, तथापि स्वप्नवत् देहान्तरप्राप्तिनि- मित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति, श्रुतिप्रामाण्यात् । तथा अर्चिरादिना धूमादिना च गमनं स्वप्न इवोद्भूतविज्ञानेन लब्धवृत्तिकर्मनिमित्तत्वा- गमनस्य । न तथा अनुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतः सिग्योषिद्देहसंबन्ध उपपद्यते, न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति । ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वात् जलूकावत्सविज्ञानतैव युक्ता, तथा सति घोरो नरका- नुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो याव- द्ब्राह्मणादिजन्म; तथा च सति, अनर्थायैव इष्टापू- र्ताद्युपासनं विहितं स्यात्; श्रुतेश्व अप्रामाण्यं प्राप्तम्, वैदिकानां कर्मणाम् अनर्थानुबन्धित्वात् । न, वृक्षारोहण- पतनवद्विशेषसंभवात् — देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वात् कर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं यु- तम् - वृक्षाप्रमारोहत इव फलं जिघृक्षोः । तथा अर्चिरा- दिना गच्छतां सविज्ञानत्वं भवेत्; धूमादिना च चन्द्रमण्ड- छान्दोग्योपनिषद्भाष्ये [ख. लमारुरुक्षताम् । न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रा- दिव पततां सचेतनत्वम् — यथा च मुद्गराद्यभिहतानां तद- भिघातवेदनानिमित्तसंमूर्छितप्रतिवद्धकरणानां स्वदेहेनैव दे- शांदेशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा, तथा चन्द्र- मण्डलात् मानुषादिदेहान्तरं प्रति अवरुरुक्षतां स्वर्गभोग- निमित्तकर्मश्चयात् मृदिताव्देहानां प्रतिबद्धकरणानाम् । अतः ते अपरित्यक्तदेहबीजभूताभिरद्भिः मूर्च्छिता इव आका - शादिक्रमेण इमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लि यन्ते प्रतिवद्धकरणतया अनुद्भूतविज्ञाना एव । तथा लवन- कण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मू- छितवदेव, देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात् । देह- बीजभूताप्संबन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावत् चेतनावत्त्वं न विरुध्यते । अन्तराले त्वविज्ञानं मूर्च्छितवदेवेत्यदोषः । न च वैदिकानां कर्मणां हिंसायुक्तत्वे- नोभयहेतुत्वं शक्यमनुमातुम्, हिंसायाः शास्त्रचोदितत्वात् । 'अहिंसन्सर्वभूतान्यन्यत्व तीर्थेभ्य:' इति श्रुतेः शास्त्रचोदि- ताया हिंसाया न अधर्महेतुत्वमभ्युपगम्यते । अभ्युपगतेऽप्य- धर्महेतुत्वे मन्त्रैर्विषादिवत् तदपनयोपपत्तेः न दुःखकार्यारम्भ- णोपपत्तिः वैदिकानां कर्मणाम् — मन्त्रेणेव विषभक्षणस्येति ॥ १०.] पञ्चमोऽध्यायः । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रियोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपू- यां योनिमापद्येरन्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ७ ॥ . तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणेनोपलक्षितः शोभनोऽनु- शयः पुण्यं कर्म येषां ते — रमणीयचरणाः उच्यन्ते ; क्रौर्या- नृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयस- द्भाव:; तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेण अभ्याशो ह प्रिमेव, यदिति क्रियाविशेषणम्, ते रमणी- यां क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नुयुः ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण । अथ पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानुशया अ- भ्य़ाशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् कपूयामेव धर्मसंबन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा स्वकर्मानुरूपेणैव ॥ . छान्दोग्योपनिषद्भाष्ये अथैतयोः पथोर्न कतरेणचन तानीमा- नि क्षुद्राण्यसकृदावर्तीनि भूतानि भव- . न्ति जायस्व प्रियस्वेत्येतत्तृतीय‍ स्थानं तेनासौ लोको न संपूर्यते तस्माज्जुगुप्से- त तदेष श्लोकः ॥ ८ ॥ [ख. ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदिष्टा- दिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुन:, घटीयन्त्रवत् । विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकर्म सेवन्ते, तदा अथैतयोः पथोः यथोक्तयोरचिर्धूमादिलक्षणयोः न कत- रेण अन्यतरेण चनापि यन्ति । तानीमानि भूतानि क्षुद्राणि दंशमशककीटादीन्य सकृदावर्तीनि भवन्ति । अतः उभयमा- र्गपरिभ्रष्टा हि असकृज्जायन्ते म्रियन्ते च इत्यर्थः । तेषां ज- ननमरणसंततेरनुकरणमिदमुच्यते । जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते । जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः । एतत् क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम्, येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, १०.] पञ्चमोऽध्यायः । 1 अनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति, ते- नासौ लोको न संपूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः । प्रथमो दक्षिणोत्तर मार्गाभ्यामपाकृतः । दक्षिणो- तरयोः पथोर्व्यावर्तनापि - मृतानामग्नौ प्रक्षेपः समानः, ततो व्यावर्त्य अन्येऽचिरादिना यन्ति, अन्ये धूमादिना, पुनरुत्तर- दक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकम् — इति व्याख्याता । पुन- रावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेण उ- क्ता । अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम्- तेनासौ लोको न संपूर्यत इति । यस्मादेवं कष्टा संसारगतिः, तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः - सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, तस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घृणी भवेत् — मा. भूदेवंविधे संसारमहोदधौ घोरे पात इति । तदेतस्मिन्नर्थे एषः श्लोकः पञ्चाग्निविद्या- स्तुतये ॥ स्तेनो हिरण्यस्य सुरां पिबच गुरो- स्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरँ स्तैरिति ॥ ९ ॥ छान्दोग्योपनिषद्भाष्ये [ख. स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् ब्रा- ह्मणः सन्, गुरोश्च तल्पं दारानावसन्, ब्रह्मा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह आचर - न्निति । अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ १० ॥ इति दशमः खण्डः ॥ अथ ह पुनः यो यथोक्तान्पश्चाग्नीन्वेद, स तैरप्याचरन् महापातकिभि: सह न पाप्मना लिप्यते, शुद्ध एवं । तेन पञ्चाग्निदर्शनेन पावितः यस्मात्पूतः, पुण्यो लोकः प्राजाप- त्यादिर्यस्य सोऽयं पुण्यलोकः भवति ; य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद । द्विरुक्तिः समस्त- प्रश्ननिर्णय प्रदर्शनार्था ॥ इति दशमखण्डभाष्यम् ॥ एकादशः खण्डः ॥ दक्षिणेन पथा गच्छतामन्नभाव उक्त:- -' तद्देवानामन्नम् ' 'तं देवा भक्षयन्ति' इति ; क्षुद्रजन्तुलक्षणा च कष्टा संसार- गतिरुक्ता । तदुभयदोषपरिजिहीर्षया वैश्वानरात्तृभावप्रति- पत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते, ' अत्स्यन्नं पश्यसि प्रियम्' इत्यादिलिङ्गात् । आख्यायिका तु सुखावबोधार्थी विद्यासंप्र- दानन्यायप्रदर्शनार्था च- प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्क- राक्ष्यो वुडिल आश्वतराश्विस्ते हैते महा- शाला महाश्रोत्रियाः समेत्य मीमा- सां चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥ प्राचीनशाल इति नामतः, उपमन्योरपत्यमौपमन्यवः । सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिः । तथेन्द्रद्युम्नो नामतः, भल्लवेरपत्यं भाल्लविः तस्यापत्यं भाल्लवेयः । जन' इति नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्यः । बुडिलो नामतः, अश्वतराश्वस्यापत्यमाश्वतराश्विः । पञ्चापि ते हैते महाशाला: महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः संपन्न इत्यर्थः, महाश्रोत्रियाः श्रुताध्ययनवृत्त संपन्ना इत्यर्थः, ते एवं - छान्दोग्योपनिषद्भाष्ये [ख. भूताः सन्तः समेत्य संभूय क्वचित् मीमांसां विचारणां चक्रुः कृतवन्त इत्यर्थः । कथम् ? को नः अस्माकमाला किं ब्रह्म -- इति ; आत्म ब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् । ब्रह्मेति अध्यात्मपरिच्छिन्नमात्मानं निवर्तयति, आत्मेति च आत्मव्यतिरिक्तस्य आदित्यादिब्रह्मण उपास्यत्वं निवर्तयति । अभेदेन आत्मैव ब्रह्म ब्रह्मैव आत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति, 'मूर्धा ते व्यपतिष्यत ' 'अन्धोऽभविष्यः' इत्यादिलिङ्गात् ॥ ते ह संपादयांचऋरुद्दालको वै भगव- न्तोऽयमारुणिः संप्रतीममात्मानं वैश्वा- नरमध्येति तँ हन्ताभ्यागच्छामेति त‍ हाभ्याजग्मुः ॥ २ ॥ ते ह मीमांसन्तोऽपि निश्चयमलभमानाः संपादयांचक्रुः संपादितवन्तः आत्मन उपदेष्टारम् । उद्दालको वै प्रसिद्धो नामतः, भगवन्तः पूजावन्तः, अयमारुणि: अरुणस्यापत्यं संप्रति सम्यगिममात्मानं वैश्वानरम् अस्मदभिप्रेतमध्येति स्मरति । तं हन्त इदानीमभ्यागच्छाम इत्येवं निश्चित्य तं ह अभ्याजग्मुः गतवन्तः तम् आरुणिम् ॥ स ह संपादयांचकार प्रक्ष्यन्ति मा- ११.] पञ्चमोऽध्यायः । मिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनु- शासानीति ॥ ३ ॥ स ह तान् दृष्ट्वैव तेषामागमनप्रयोजनं बुद्धा संपादयां- चकार । कथम्? प्रक्ष्यन्ति मां वैश्वानरम् इमे महाशाला : महाश्रोत्रियाः, तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ; अत: हन्ताहमिदानीमन्यम् एषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति ॥ तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैके- यः संप्रतीममात्मानं वैश्वानरमध्येति तँ हन्ताभ्यागच्छामेति त‍ हाभ्याजग्मुः ॥ एवं संपाद्य तान् ह उवाच - अश्वपतिर्वै नामत: भग- वन्तः अयं केकयस्यापत्यं कैकेयः संप्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥ तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयां-- चकार स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नाना- हिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदे- S. U. IV. 8 छान्दोग्योपनिषद्भाष्ये कैकस्मा ऋत्विजे धनं दास्यामि तावद्भ- गवद्भथो दास्यामि वसन्तु भगवन्त इति ॥ [ख. तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाणि अर्हणानि पुरोहितैर्भृत्यैश्च कारयांचकार कारितवान् । स ह अन्येद्युः राजा प्रात: संजिहान उवाच विनयेन उपगम्य — एतद्धनं मत्त उपादध्वमिति । तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनम्, यतो न प्रतिगृह्णन्ति मत्तो धनम् इति मन्वानः आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह — न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ; न कदर्य: अदाता सति विभवे ; न मद्यपः द्विजोत्तम: सन्; न अनाहिताग्निः शतगुः ; न अविद्वान् अधिकारानुरूपम् ; न स्वैरी परदारेषु गन्ता ; अत एव स्वैरिणी कुत: दुष्टचारिणी न संभवतीत्यर्थः । तैश्च न वयं धनेनार्थिनं इत्युक्तः आह— अल्पं मत्वा एते धनं न गृह्णन्तीति, यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगव- न्तोऽस्मि । तदर्थं क्लृप्तं धनं मया यावदेकैकस्मै यथोक्तम् ऋत्विजे धनं दाखामि तावत् प्रत्येकं भगवद्भयोऽपि दा- स्यामि । वसन्तु भगवन्तः, पश्यन्तु च मम यागम् ॥ ते होचुर्येन हैवार्थेन पुरुषश्वरेत्तर हैव वदेदात्मानमेवेमं वैश्वानरः संप्रत्यध्येषि ११.] पञ्चमोऽध्यायः । ३१५ तमेव नो ब्रूहीति ॥ ६ ॥ इत्युक्ताः ते ह ऊचु: - येन ह एव अर्थेन प्रयोजनेन यं प्रति चरेत् गच्छेत् पुरुषः, तं ह एवार्थे वदेत् । इदमेव प्रयोजनमागमनस्येत्ययं न्याय: सताम् । वयं च वैश्वानर- ज्ञानार्थिन: । आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जा- नासि । अतस्तमेव नः अस्मभ्यं ब्रूहि ॥ तान्होबाच प्रातर्वः प्रतिवक्तास्मीति ते. ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ता- न्हानुपनीयैवैतदुवाच ॥ ७ ॥ इत्युक्तः तान् ह उवाच । प्रातः वः युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्ताः ते ह राज्ञोऽभिप्रायज्ञा: समि- त्पाणयः समिद्भारहस्ता: अपरेद्युः पूर्वां राजानं प्रतिचक्र- मिरे गतवन्तः । यत एवं महाशालाः महाश्रोत्रियाः ब्रां- ह्मणाः सन्तः महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता : जातितो हीनं राजानं विद्यार्थिनः विनयेनोपजग्मुः । तथा अन्यैर्विद्योपादित्सुभिर्भवितव्यम् । तेभ्यश्च अदाद्विद्याम् अ- नुपनीयैव उपनयनमकृत्वैव तान् । यथा योग्येभ्यो विद्या- मदात्, तथा अन्येनापि विद्या दातव्येति आख्यायिकार्थः । एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन संबन्ध: ॥ इति एकादशंखण्डभाष्यम् ॥ द्वादशः खण्डः ॥ औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मान- मुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥ स कथमुवांचेति, आह— औपमन्यव हे कम् आत्मानं वैश्वानरं त्वमुपास्ते इति पप्रच्छ । नन्वयमन्याय : - आचार्यः सन् शिष्यं पृच्छतीति । नैष दोष:, ' यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामि' इति न्यायदर्शनात् । अन्यत्राप्याचा- र्यस्य अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजा- तशत्रोः, 'वैष तदाभूत्कुत एतदागात्' इति । दिवमेव धुलो- कमेव वैश्वानरमुपासे भगवो राजन् इति ह उवाच । एष वै सुतेजा: शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्मा, आत्मनः अवयवभूतत्वात् । यं त्वम् आ- त्मानम् आत्मैकदेशम् उपास्से, तस्मात् सुतेजसो वैश्वानरस्य १२.] पञ्चमोऽध्यायः । उपासनात् तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतम् आसुतं च अहर्गणादिषु तव कुले दृश्यते ; अतीव कर्मिणस्त्वत्कुलीना इत्यर्थः ॥ अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमे- वमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपति- ष्यद्यन्मां नागमिष्य इति ॥ २ ॥ इति द्वादशः खण्डः ॥ अत्स्यन्नं दीप्ताग्निः सन् पश्यसि च पुत्रपौत्रादि प्रिय- मिष्टम् । अन्योऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादि कर्मित्वं ब्रह्मवर्चसं कुले, य: कश्चित् एतं यथोक्तम् एवं वैश्वानरमुपास्ते । मूर्धा त्वात्मनो वैश्वानरस्य एष न समस्तो वैश्वानरः । अतः समस्तबुद्धधा वैश्वानरस्योपासनात् मूर्धा शिरस्ते विपरीतग्राहिणो व्यप- तिष्यत् विपतितमभविष्यत् यत् यदि मां नागतोऽभवि- घ्यः । · साध्वकार्षीः यन्मामागतोऽसीत्यभिप्राय: ॥ इति द्वादशखण्डभाष्यम् ॥ त्रयोदशः खण्डः ॥ अथ होवाच सत्ययज्ञं पौलुषिं प्राचीन- योग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ अथ होवाच सत्ययज्ञं पौलुषिम् - हे प्राचीनयोग्य कं त्वमा- त्मानमुपास्से इति; आदित्यमेव भगवो राजन् इति ह उवाच । शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य, सर्वरूपत्वाद्वा, सर्वा- णि रूपाणि हि त्वाष्ट्राणि यतः, अतो वा विश्वरूप आदित्यः ; त- दुपासनात् तब बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥ प्रवृत्तोऽश्वतरीरथो दासीनिष्को ऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्य- . स्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वै- श्वानरमुपास्ते चक्षुष्ट्ङ्केतदात्मन इति होवा- चान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ किंच त्वामनु प्रवृत्त: अश्वतरीभ्यां युक्तो रथोऽश्वतरी- रथः दासीनिष्को दासीभिर्युक्तो निष्को हारो दासीनिष्कः । अत्स्यन्नमित्यादि समानम् । चक्षुर्वैश्वानरस्य तु सविता । तस्य समस्तबुद्धयोपासनात् अन्धोऽभविष्यः चक्षुर्होनोऽभ- विष्यः यन्मां नागमिष्य इति पूर्ववत् ॥ चतुर्दशः खण्डः ॥ अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्र- पद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्व- मत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रे- योऽनुयन्ति ॥ १ ॥ अथ ह उवाच इन्द्रद्युम्नं भाल्लवेयम् — वैयाघ्रपद्य कं त्वं- मात्मानमुपास्ते इत्यादि समानम् । पृथग्वर्त्मा नाना वत्मनि यस्य वायोरावहोद्वहादिभिर्भेदैः वर्तमानस्य सोऽयं पृथग्व- र्त्मा वायुः । तस्मात् पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात् पृथ- क् नानादिक्काः त्वां बलयः वस्त्रान्नादिलक्षणा वलय: आयन्ति आगच्छन्ति । पृथप्रथश्रेणयः रथपङ्कयोऽपि त्वामनुयन्ति ॥ अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमे- वमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमि- ष्यद्यन्मां नागमिष्य इति ॥ २ ॥ अत्स्यन्नमित्यादि समानम् । प्राणस्त्वेष आत्मन इति ह उवाच । प्राणस्ते तव उदक्रमिष्यत् उत्क्रान्तोऽभविष्यत्, यन्मां नागमिष्य इति ॥ · पञ्चदशः खण्डः ॥ अथ होवाच जन शार्कराक्ष्य कं त्व- मात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वै- श्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ १ ॥ अथ ह उवाच जनमित्यादि समानम् । एष वै बहुल आत्मा वैश्वानरः । बहुलत्वमाकाशस्य सर्वगतत्वात् बहुल- गुणोपासनाच्च । त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्ष- णयां धनेन च हिरण्यादिना ॥ अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमे- वमात्मानं वैश्वानरमुपास्ते संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्य- द्यन्मां नागमिष्य इति ॥ २ ॥ इति पञ्चदशः खण्डः ॥ संदेहस्त्वेष संदेहः मध्यमं शरीरं वैश्वानरस्य । दिरुप- चयार्थत्वात् मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्संदेहः ते तव शरीरं व्यशीर्यत् शीर्णमभविष्यत् यन्मां नागमिष्य इति ॥ इति पञ्चदशखण्डभाष्यम् । षोडशः खण्डः ॥ अथ होवाच वुडिलमाश्वतराश्विं वै- याघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयि- रात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वँ रयिमान्पुष्टिमानसि ॥ १ ॥ अथ ह उवाच बुडिलमाश्वतराश्विमित्यादि समानम् । एष वै रयिरात्मा वैश्वानरो धनरूपः । अद्भ्योऽन्नं ततो धनमिति । तस्माद्रयिमान धनवान् त्वं पुष्टिमांश्च शरीरेण पुष्टेश्चान्ननिमित्तत्वात् ॥ अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमे- वमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्य- द्यन्मां नागमिष्य इति ॥ २ ॥ इति षोडशः खण्डः ॥ बस्तिस्त्वेष आत्मनो वैश्वानरस्य, बस्तिः मूत्रसंग्रहस्थानम्, बस्तिस्ते व्यभेत्स्यत् भिन्नोऽभविष्यत् यन्मां नागमिष्य इति ॥ इति षोडशखण्डभाष्यम् ॥ सप्तदशः खण्डः ॥ . अथ होवाचोद्दालकमारुणि गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भग- वो राजन्निति होवाचैष वै प्रतिष्ठात्मा वै- श्वानरो यं त्वमात्मानमुपास्ते तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ १ ॥ अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्य- ति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्य- म्लास्येतां यन्मां नागमिष्य इति ॥ २ ॥ इति सप्तदशः खण्डः ॥ अथ ह उवाच उद्दालकमित्यादि समानम् । पृथिवीमेव भगवो राजन्निति ह उवाच । एष वै प्रतिष्ठा पादौ वैश्वा- नरस्य । पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां थी- भूतौ यन्मां नागमिष्य इति ॥ इति सप्तदशखण्डभाष्यम् ॥ अष्टादशः खण्डः ॥ तान्होवाचैते वै खलु यूयं पृथगिवेम- मात्मानं वैश्वानरं विद्वासोऽन्नमत्थ य- स्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मा- नं वैश्वानरमुपास्ते स सर्वेषु लोकेषु स- र्वेषु भूतेषु सर्वेष्वात्मखन्नमन्ति ॥ १ ॥ तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच - एते यूयम्, वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तमिममेकं वैश्वानर- मात्मानं विद्वांसः अन्नमत्थ, परिच्छिन्नात्मबुद्धयेत्येतत् - हस्ति- दर्शन इव जात्यन्धा: । यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इंति प्रादेशमात्रम् । मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः । द्युलोका- दिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः । प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाण: प्रादे- शमात्रः । शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति । इह तु न तथा अभिप्रेतः, 'तस्य ह वा एतस्या- छान्दोग्योपनिषद्भाष्ये [ख. त्मन:' इत्याद्युपसंहारात् । प्रत्यगात्मतया अभिविमीयतेऽहमि ति ज्ञायत इत्यभिविमान: तमेतमात्मानं वैश्वानरम् - विश्वान्न- रान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरः, वि- श्वो नर एव वा सर्वात्मत्वात्, विश्वैर्वा नरैः प्रत्यगात्मतया प्र- विभज्य नीयत इति वैश्वानरः तमेवमुपास्ते य:, सोऽदन् अ- नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वे- ष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु हि आत्मकल्पनाव्यप- देश:, प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन् अन्नमन्ति । न यथा अज्ञः पिण्डमात्राभिमानः सन् इत्यर्थः ॥ तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्वैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथ- ग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिलमानि ब- र्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २॥ इति अष्टादशः खण्डः ॥ कस्मादेवम्? यस्मात्तस्य ह वै प्रकृतस्यैव एतस्य आ- त्मनो वैश्वानरस्य मूर्धैव सुतेजा: चक्षुर्विश्वरूपः प्राणः पृथ- १८.] पञ्चमोऽध्यायः । ग्वर्त्मात्मा संदेह: बहुलो बस्तिरेव रयिः पृथिव्येव पादौ । अथवा विध्यर्थमेतद्वचनम् — एवमुपास्य इति । अथेदानीं वै- श्वानरविदो भोजनेऽग्निहोत्रं संपिपादयिषन् आह — एतस्य वैश्वानरस्य भोक्तुः उर एव वेदिः, आकारसामान्यात् । लोमानि बर्हिः, बेद्यामिवोरसि लोमान्यास्तीर्णानि दृश्यन्ते । हृदयं गार्हपत्यः, हृदयाद्धि मनः प्रणीतमिवानन्तरी भवति ; अतोऽन्वाहार्यपचनोऽग्निः मनः । आस्यं मुखमाहवनीय इव आहवनीयो हूयतेऽस्मिन्नन्नमिति । इति अष्टादशखण्डभाष्यम् ॥ एकोनविंशः खण्डः ॥ तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीय स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्रा-. णाय स्वाहेति प्राणस्तृप्यति ॥ १ ॥ तत् तत्रैवं सति यद्भक्तं प्रथमं भोजनकाले आगच्छेद्धो- जनार्थम्, तद्धोमीयं तद्धोतव्यम्, अग्निहोत्रसंपन्मात्रस्य वि- वक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह; स भोक्ता यां प्रथमामाहुतिं जुहुयात्, तां कथं जुहुयादिति, आह— प्रा- णाय स्वाहेत्यनेन मन्त्रेण; आहुतिशब्दात् अवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः । तेन प्राणस्तृप्यति ॥ प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौ- स्तृप्यति दिवि तृप्यन्त्यां यत्किंच द्यौ- श्वादित्यश्वांधितिष्ठतस्तत्तृप्यति तस्यानु- तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन १९.] पञ्चमोऽध्यायः । ३२७. तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति एकोनविंशः खण्डः ॥ प्राणे तृप्यति चक्षुस्तृप्यति, चक्षुषि तृप्यति आदित्यो द्यौश्चेत्यादि तृप्यति, यच्चान्यत् द्यौश्च आदित्यश्च स्वामित्वेना- धितिष्ठतः तच्च तृप्यति, तस्य तृप्तिमनु स्वयं भुञ्जानः तृप्यति एवं प्रत्यक्षम् । किं च प्रजादिभिश्च । तेजः शरीरस्था दीप्ति: उज्ज्वलत्वं प्रागल्भ्यं वा ब्रह्मवर्चसं वृत्तस्वाध्याय- निमित्तं तेजः ॥ इति एकोनविंशखण्डभाष्यम् ॥ विंशः खण्डः ॥ अथ यां द्वितीयां जुहुयात्तां जुहुया- ड्यानाय स्वाहेति व्यानस्तृप्यति ॥ १ ॥ व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृ- प्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ इति विंशः खण्डः ॥ एकविंशः खण्डः ॥ अथ यां तृतीयां जुहुयात्तां जुहुयाद- पानाय स्वाहेत्यपानस्तृप्यति ॥ १ ॥ अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच पृथि- वी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृसिं तृप्यति प्रजया पशुभिरन्नाद्येन तेज- सा ब्रह्मवर्चसेनेति ॥ २ ॥ इति एकविंशः खण्डः ॥ द्वाविंशः खण्डः ॥ अथ यां चतुर्थी जुहुयात्तां जुहुयात्स- मानाय स्वाहेति समानस्तृप्यति ॥ १ ॥ समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति त- स्यानु तृतिं तृप्यति प्रजया पशुभिरन्ना- द्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ इति द्वाविंशः खण्डः । त्रयोविंशः खण्डः ॥ अथ यां पञ्चमीं जुहुयात्तां जुहुयादु- दानाय स्वाहेत्युदानस्तृप्यति ॥ १ ॥ उदाने तृप्यति त्वक्तृप्यति त्वचि तृ- प्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याका- शस्तृप्यत्याकाशे तृप्यति यत्किंच वायु- श्वाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं प्रजया पशुभिरन्नाद्येन तेजसा ब्र- ह्मवर्चसेन ॥ २ ॥ अथ यां द्वितीयां तृतीयां चतुर्थी पञ्चमीमिति समानम् ॥ इति त्रयोविंशखण्डभाष्यम् ॥ s. U. Iv. 9 चतुर्विंशः खण्डः ॥ स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्त त्स्यात् ॥ १ ॥ स य: कश्चित् इदं वैश्वानरदर्शनं यथोक्तम् अविद्वान्सन् अग्निहोत्रं प्रसिद्धं जुहोति, यथा अङ्गारानाहुतियो ग्यानपो- ह्यानाहुतिस्थाने भस्मनि जुहुयात्, तादृक् तत्तुल्यं तस्य तद- ग्निहोत्रहवनं स्यात्, वैश्वानरविदः अग्निहोत्रमपेक्ष्य — इति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदोऽग्निहोत्रं स्तूयते ॥ अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वा- त्मसु हुतं भवति ॥ २ ॥ अतश्च एतद्विशिष्टमग्निहोत्रम् । कथम् ? अथ य एतदेवं विद्वान् अग्निहोत्रं जुहोति, तस्य यथोक्तवैश्वानरविज्ञानवतः २४.] . पञ्चमोऽध्यायः । सर्वेषु लोकेष्वित्याद्युक्तार्थम्, हुतम् अन्नमत्ति इत्यनयोरेकार्थ- त्वात् ॥ तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव‍ हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥ किंच तद्यथा इषीकायास्तूलम् अग्नौ प्रोतं प्रक्षिप्तं प्रदू- येत प्रदह्येत क्षिप्रम्, एवं ह अस्य विदुषः सर्वात्मभूतस्य सर्वा- नानामत्तुः सर्वे निरवशिष्टाः पाप्मानः धर्माधर्माख्याः अने- कजन्मसंचिताः इह च प्राग्ज्ञानोत्पत्तेः ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन् वर्तमानशरीरारम्भकपाप्मवर्जम् ; लक्ष्यं प्रति मुक्तेषुवत् प्रवृत्तफलत्वात् तस्य न दाहः । य एतदेवं -विद्वान् अग्निहोत्रं जुहोति भुङ्क्ते ॥ तस्मादु हैवंविद्यद्यपि चण्डालायोच्छि- ष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हु- तँ स्यादिति तदेष श्लोकः ॥ ४ ॥ स यद्यपि चण्डालाय उच्छिष्टानर्हाय उच्छिष्टं दद्यात् प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यात्, आत्मनि हैव अस्य चण्डालदेहस्थे वैश्वानरे तद्भुतं स्यात् न अधर्मनिमित्तम्- '३३२ छान्दोग्योपनिषद्भाष्ये [ख. इति विद्यामेव स्तौति । तदेतस्मिन्स्तुत्यर्थे श्लोकः मन्त्रोऽप्येष भवति ॥ यथेह क्षुधिता बाला मातरं पर्युपासत एव सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५ ॥ इति चतुर्विंशः खण्डः ॥ यथा इह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्यु- पासते -कदा नो माता अन्नं प्रयच्छतीति, एवं सर्वाणि भूता- न्यन्नादानि एवंविदः अग्निहोत्रं भोजनमुपासते -कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ इति चतुर्विंशखण्डभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः समाप्तः ॥ छान्दोग्योपनिषद्भाष्यम् षष्ठोऽध्यायः ॥ षष्ठोऽध्यायः ॥ श्वेतकेतुः ह आरुणेय आस इत्याद्यध्यायसं- बन्ध:- ' सर्वं खल्विदं ब्रह्म तज्जलान्' इत्युक्तम्, कथं तस्मात् जगदिदं जायते तस्मि- न्नेव च लीयते अनिति च तेनैव इत्येतद्वक्त- व्यम् । अनन्तरं च एकस्मिन्भुक्ते विदुषि सर्वे जगतृप्तं भवतीत्युक्तम्, तत् एकत्वे सति आत्मनः सर्वभूतस्थस्य उप- पद्यते, न आत्मभेदे; कथं च तदेकत्वमिति तदर्थोऽयं षष्ठो- ऽध्याय आरभ्यते— श्वेतकेतुर्हारुणेय आस त‍ ह पितो- वाच श्वेतकेतो वस ब्रह्मचर्य न वै सो- म्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भ- वतीति ॥ १ ॥ पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था । श्वेतकेतुरिति नामतः, इ इत्यैतिह्यार्थः, आरुणेयः अरुणख छान्दोग्योपनिषद्भाष्ये [ख. पौत्रः आस बभूव । तं पुत्रं ह आरुणिः पिता योग्यं विद्याभाजनं मन्वानः तस्योपनयनकालात्ययं च पश्यन् उवाच — हे श्वेतकेतो अनुरूपं गुरुं कुलस्य नो गत्वा बस ब्रह्मचर्यम् ; न च एतद्युक्तं यदस्मत्कुलीनो हे सोम्य अननूच्य अनधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति । तस्य अत: प्रवासो अनुमीयते पितुः, येन स्वयं गुणवान्सन् पुत्रं नोपनेष्यति ॥ स ह द्वादशवर्ष उपेत्य चतुर्विंशति- वर्षः सर्वान्वेदानधीत्य महामना अनूचा- नमानी स्तब्ध एयाय तरह पितोवाच ॥ सः पित्रोक्तः श्वेतकेतुः ह द्वादशवर्षः सन् उपेत्य आ- चार्य यावच्चतुर्विंशतिवर्षो बभूव, तावत् सर्वान्वेदान् चतुरो- ऽप्यधीत्य तदर्थे च बुद्ध्वा महामना: महत् गम्भीरं मनः यस्य असममात्मानमन्यैर्मन्यमानं मनः यस्य सोऽयं महा- मना: अनूचानमानी अनूचानमात्मानं मन्यत इति एवं- शीलो यः सोऽनूचानमानी स्तब्धः अप्रणतस्वभावः एयाय गृहम् । तम् एवंभूतं ह आत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया । १.] षष्ठोऽध्यायः । श्वेतकेतो यन्नु सोम्येदं महामना अनू- चानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतः श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ३ ॥ श्वेतकेतो यन्नु इदं महामना: अनूचानमानी स्तब्धश्चासि, कस्तेऽतिशयः प्राप्तः उपाध्यायात्, उत अपि तमादेशं आदि- श्यत इत्यादेशः केवलशास्त्राचर्योपदेशगम्यमित्येतत् येन वा परं ब्रह्म आदिश्यते स आदेश: तमप्राक्ष्यः पृष्टवानस्याचा- र्यम्? तमादेशं विशिनष्टि- येन आदेशेन श्रुतेन अश्रुतमपि अन्यच्छ्रुतं भवति अमतं मतम् अतर्कितं तर्कितं भवति अविज्ञातं विज्ञातं अनिश्चितं निश्चितं भवतीति । सर्वानपि वेदानधीत्य सर्वे च अन्यद्वेद्यमधिगम्यापि अकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते । तदेतदद्भुतं श्रुत्वा आह, कथं नु एतदप्रसिद्धम् अन्यविज्ञाने- नान्यद्विज्ञातं भवतीति; एवं मन्वानः पृच्छति — कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥ यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्म- छान्दोग्योपनिषद्भाष्ये यं विज्ञातः स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥ [ख. यथा स आदेशो भवति तच्छृणु हे सोम्य - यथा लोके एकेन मृत्पिण्डेन रुचककुम्भादिकारणभूतेन विज्ञातेन सर्व- मन्यत्तद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् । कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ? नैष दोष:, कारणेनानन्यत्वात्कार्यस्य । यन्मन्यसे अन्य- स्मिन्विज्ञातेऽन्यन्न ज्ञायत इति — सत्यमेवं स्यात्, यद्यन्य- त्कारणात्कार्यं स्यात्, न त्वेवमन्यत्कारणात्कार्यम् । कथं तदं लोके - इदं कारणमयमस्य विकार इति ? शृणु । वाचा- रम्भणं वागारम्मणं वागालम्बनमित्येतत् । कोऽसौ ? वि- कारो नामधेयं नामैव नामधेयम्, स्वार्थे धेयप्रत्ययः, वागा- लम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति ; पर- मार्थतो मृत्तिकेत्येव मृत्तिकैव तु सत्यं वस्त्वस्ति ॥ यथा सोम्यैकेन लोहमणिना सर्व लोह- मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥ यथा सोम्य एकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्य- १.] षष्ठोऽध्यायः । द्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् । वाचार- म्भणमित्यादि समानम् ॥ यथा सोम्यैकेन नखनिकृन्तनेन सर्व काष्र्णायसं विज्ञातः स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्य- मेव सोम्य स आदेशो भवतीति ॥ ६॥ यथा सोम्य एकेन नखनिकृन्तनेनोपलक्षितेन कृष्णाय- सपिण्डेनेत्यर्थः ; सर्व काष्र्णायसं कृष्णायसविकारजातं वि- ज्ञातं स्यात् । समानमन्यत् । अनेकदृष्टान्तोपादानं दाट- न्तिकानेकभेदानुगमार्थम्, दृढप्रतीत्यर्थे च । एवं सोम्य स आदेशः, यः मयोक्तः भवति । इत्युक्तवति पितरि, आह इतर :- -- न वै नूनं भगवन्तस्त एतदवेदिषु - र्यद्धयेतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवा स्त्वेव मे तद्ब्रवीत्विति तथा सो- स्पेति होवाच ॥ ७ ॥ इति प्रथमः खण्डः ॥ छान्दोग्योपनिषद्भाष्ये [ख. न वै नूनं भगवन्त: पूजावन्त: गुरवः मम ये, एतत् यद्भवदुक्तं वस्तु नावेदिषुः न विज्ञातवन्तः नूनम् । यत् यदि हि अवेदिष्यन् विदितवन्तः एतद्वस्तु, कथं मे गुणवते भक्तायानुगताय नावक्ष्यन् नोक्तवन्तः, तेनाहं मन्ये- न विदितवन्त इति । अवाच्यमपि गुरोर्न्यग्भावमवादीत् पुन- गुरुकुलं प्रति प्रेषणभयात् । अतो भगवांस्त्वेव में मां तद्वस्तु, येन सर्वज्ञत्वं ज्ञातेन मे स्यात्, तद्ब्रवीतु कथयतु ; इत्युक्तः पितोवाच- तथास्तु सोम्येति ॥ इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ सदेव सोम्येदमग्र आसीदेकमेवाहि- .तीयम् । तद्धैक आहुरसदेवेदमग्र आसी- देकमेवाद्वितीयं तस्माद्सतः सज्जायत ॥ १ ॥ सदेव सदिति अस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्व- गतमेकं निरञ्जनं निरवयवं विज्ञानम्, यदवगम्यते सर्ववे- दान्तेभ्यः । एव-शब्दः अवधारणार्थः । किं तदवधियत - इति, आह— इदं जगत्, नामरूपक्रियावद्विकृतमुपलभ्यते यत्, तत्सदेवासीत् इति आसीच्छब्देन संबध्यते । कदा सदेवेदमासीदिति, उच्यते — अग्रे जगतः प्रागुत्पत्तेः । किं नेदानीमिदं सत्, येन अमे आसीदिति विशेष्यते ? न । कथं तर्हि विशेषणम् ? इदानीमपीदं सदेव, किंतु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं च इतीदं च भवति । प्रागुत्पत्तेस्तु अग्रे केवलसच्छन्दबुद्धिमात्र गम्यमेवेतिं सदेवे- दमग्र आसीदित्यवधार्यते । न हि प्रागुत्पत्तेः नामवद्रूपवद्वा इदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाले इव । यथा सुषु- प्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति, तथा प्रागुत्पत्तेरित्यभिप्रायः । यथा इदमुच्यते - छान्दोग्योपनिषद्भाष्ये [ख. लोके – पूर्वा घटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसा- रितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतः अपराह्ने तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरा- वादि केवलं पूर्वाह्न आसीदिति, तथा इहाप्युच्यते- सदेवेदमग्र आसीदिति । एकमेवेति । स्वकार्यपतितमन्यन्ना- स्तीति एकमेवेत्युच्यते । अद्वितीयमिति । मृद्व्यतिरेकेण मृद: यथा अन्यद्घटाद्याकारेण परिणमयितृकुलालादिनि- मित्तकारणं दृष्टम्, तथा सद्व्यतिरेकेण सत: सहका- रिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते— अद्वि- तीयमिति, नास्य द्वितीयं वस्त्वन्तरं विद्यते इत्यद्वितीयम् । ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्वस्योपपद्यते, द्रव्यगुणादिषु सच्छब्दबुद्धधनुवृत्तेः- सद्द्रव्यं सन्गुण: स- त्कर्मेत्यादिदर्शनान् । सन्यमेवं स्यादिदानीम् ; प्रागुत्पत्तेस्तु नै- वेदं कार्यं सदेवासीदित्यभ्युपगम्यते वैशेषिकैः, प्रागुत्पत्तेः का- र्यस्यासत्त्वाभ्युपगमात् । न च एकमेव सदद्वितीयं प्रागुत्पत्ते- रिच्छन्ति । तस्माद्वैशेषिकपरिकल्पितात्सतः अन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः । तत् तत्र ह एतस्मिन्प्रागुत्पत्ते- वस्तुनिरूपणे एके वैनाशिका आहुः वस्तु निरूपयन्तः-असत् सदभावमात्रं प्रागुत्पत्तेः इदं जगत् एकमेव अग्रे अद्वितीय- २.] षष्ठोऽध्यायः । मासीदिति । सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धा: । न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति । यथा स- चासदिति गृह्यमाणं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नै- यायिका: । ननु मदभावमात्रं प्रागुत्पत्तेश्वेदभिप्रेतं वैना- शिकैः, कथं प्रागुत्पत्तेरिदमासीदस देकमेवाद्वितीयं चेति कालसंबन्ध: संख्यासंवन्धोऽद्वितीयत्वं च उच्यते तैः । बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् । अस- स्वमात्राभ्युपगमोऽप्ययुक्त एव, अभ्युपगन्तुरनभ्युपगमानुप- पत्तेः । इदानीमभ्युपगन्ता अभ्युपगम्यते न प्रागुत्पत्तेरिति चेत्, न, प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात् । प्रागुत्पत्ते- रसदेवेति कल्पनानुपपत्तिः । ननु कथं वस्त्वाकृतेः शब्दार्थ- त्वे असदेकमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिः, तदनु- पपत्तौ च इदं वाक्यमप्रमाणं प्रसज्येतेति चेत्, नैष दोष:, सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य । सदित्ययं तावच्छब्दः सदा- कृतिवाचकः । एकमेवाद्वितीयमित्येतौ च सच्छब्देन समाना- धिकरणौ ; तथेदमासीदिति च । तत्र नव् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वि- तीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयति, अश्वारूढ इव अश्वालम्बनः अश्वं तदभिमुखविषयान्निवर्त- छान्दोग्योपनिषद्भाष्ये [ख. यति - तद्वत् । न तु पुनः सदभावमेव अभिधत्ते । अतः पुरुषस्य विपरीतग्रहणनिवृत्यर्थपरम् इदमसदेवेत्यादि वाक्यं प्रयुज्यते । दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वात् असदादिवाक्यस्थ श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः । तस्मात् असत: सर्वाभावरूपात् सत् विद्यमानम् जायत समुत्पन्नम् । अडभाव: छान्दसः ॥ कुतस्तु खलु सोम्यैव‍ स्यादिति हो- वाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥ तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषे- - धति- कुतस्तु प्रमाणात्खलु हे सोम्य एवं स्यात् असतः सज्जायेत इत्येवं कुतो भवेत् ? न कुतश्चित्प्रमाणादेवं संभवती- त्यर्थः । यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टः अभावादे- वेति, तदप्यभ्युपगमविरुद्धं तेषाम् । कथम् ? ये तावद्बीजावय- वाः बीजसंस्थानविशिष्टाः तेऽङ्कुरे ऽप्यनुवर्तन्त एव, न तेषामुप- मर्दोऽङ्कुरजन्मनि । यत्पुनर्बीजाकारसंस्थानम्, तद्वीजावयव- व्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते, यदङ्कुरज- न्मन्युपमृद्येत । अथ तदस्ति अवयवव्यतिरिक्तं वस्तुभूतम्, २.] षष्ठोऽध्यायः । तथा च सति अभ्युपगमविरोध: । अथ संवृत्या अभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत्, केयं संवृतिर्नाम - किम- सावभावः, उत भावः इति ? यद्यभावः, दृष्टान्ताभावः । अथ भावः, तथापि नाभावादङ्कुरोत्पत्तिः, बीजावयवेभ्यो हि अङ्क- रोत्पत्तिः । अवयवा अप्युपमृद्यन्त इति चेत्, न, तदवयवेषु तु- ल्यत्वात् । यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति, तथा अवयवा अपीति तेषामप्युपमर्दानुपपत्तिः । बीजावय- वानामपि सूक्ष्मावयवाः तदवयवानामप्यन्ये सूक्ष्मतरावयवाः इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः । सद्बुद्धधनु- वृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः से- त्स्यति । न तु असद्वादिनां दृष्टान्तोऽस्ति असतः सदुत्पत्तेः । मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनाम्, तद्भावे भावात्तद- भावे चाभावात् । यद्यभावादेव घट उत्पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत, अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रस- ज्येत ; न त्वेतदस्ति; अत: नासतः सदुत्पत्तिः । यदप्याहुः मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृदुद्धिर्घटबुद्धेः कारणमुच्यते, न तु परमार्थत एवं मृद्घटो वा अस्तीति, तदपि मृदुद्धिर्विद्य- माना विद्यमानाया एव घटबुद्धेः कारणमिति नासत: सदुत्पत्तिः । मृद्धदबुद्धयोः निमित्तनैमित्तिकतया आनन्त- S. U. IV. 10 छान्दोग्योपनिषद्भाष्ये - " [ख. - र्यमात्रम्, न तु कार्यकारणत्वमिति चेत्, न, बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् । अत: कुतस्तु खलु सोम्य एवं स्यात् इति ह उवाच - कथं केन प्रकारेण असत: सज्जायेत इति ; असत: सदु- त्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः । एवमस- द्वादिपक्षमुन्मथ्य उपसंहरति — सत्त्वेव सोम्येदमग्र आसी- दिति स्वपक्षसिद्धिम् । ननु सद्वादिनोऽपि सतः सदुत्पद्यते इति नैव दृष्टान्तोऽस्ति, घटाटान्तरोत्पत्त्यदर्शनात् । सत्य- मेवं न सतः सदन्तरमुत्पद्यते ; किं तर्हि सदेव संस्थाना- न्तरेणावतिष्ठते — यथा सर्पः कुण्डली भवति, यथा च मृत् चूर्णपिण्डघटकपालादिप्रभेदैः । यद्येवं सदेव सर्वप्रकारा- वस्थम्, कथं प्रागुत्पत्तेरिदमासीदित्युच्ते ? ननु न श्रुतं त्वया सदेवेत्यवधारणम् इदं शब्दवाच्यस्य कार्यस्य । प्राप्तं तर्हि प्रागुत्पत्तेः असदेवासीत् न इदं शब्दवाच्यम्, इदानी- मिदं जातमिति । न, सत एव इदं - शब्दबुद्धिविषयतया अवस्थानात्; यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेना- वतिष्ठते तद्वत् । ननु यथा मृद्वस्तु एवं पिण्डघटाद्यपि, तद्वत् सद्बुद्धेरंन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथा अश्वाद्गौः । नं, पिण्डघटादीनामितरे- . २.] षष्ठोऽध्यायः । तरव्यभिचारेऽपि मृत्त्वाव्यभिचारात् । यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटम्, तथापि पिण्डघटौं मृत्त्वं न व्यभिचरतः तस्मान्मृन्मात्रं पिण्डघटौ । व्यभिचरति त्वश्वं गौः अश्वो वा गाम् । तस्मान्मृदादिसंस्थानमात्रं घटादयः । एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः सदेवेति, वाचारम्भणमात्रत्वाद्विकार संस्थानमात्रस्य । ननु निरवयवं सत्, 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं दिव्यो ह्यमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यज:' इत्यादिश्रुतिभ्य: ; निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ? नैष दोष:, रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवत् बुद्धिपरिकल्पितेभ्यः सदवयवेभ्यः विकारसंस्थानोपपत्तेः । 'वाचारम्भणं वि- कारो नामधेयं मृत्तिकेत्येव सत्यम्' एवं सदेव सत्यम् - इति श्रुतेः । एकमेवाद्वितीयं परमार्थतः इदंबुद्धिकालेऽपि ॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽ- सृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र कच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ३ ॥ ... तत् सत् ऐक्षत ईक्षां दर्शनं कृतवत् । अतश्च न प्रधानं छान्दोग्योपनिषद्भाष्ये [ख. सांख्यपरिकल्पितं जगत्कारणम्, प्रधानस्याचेतनत्वाभ्युपग- मात् । इदं तु सत् चेतनम्, ईक्षितृत्वात् । तत्कथमैक्षतेति, आह— बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्पद्येय, यथा मृद्घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन । असदेव तर्हि सर्वम्, यद्गृह्यते रज्जुरिव सर्पाद्याकारेण । न, सत एव द्वैतभेदेन अन्यथागृह्यमाणत्वात् न असत्त्वं कस्यचित्क्वचिदिति ब्रूमः । यथा सतोऽन्यद्वस्त्वन्तरं प- रिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वम् असत्त्वं ब्रुवते तार्किकाः, न तथा अस्माभिः कदाचित्कचिदपि सतोऽन्य- दभिधानमभिधेयं वा वस्तु परिकल्प्यते । सदेव तु सर्वम- भिधानमभिधीयते च यदन्यबुद्धया, यथा रज्जुरेव सर्प- बुद्ध्या सर्प इत्यभिधीयते, यथा वा पिण्डघटादि मृदोऽन्य- बुद्धया पिण्डघटादिशब्देनाभिधीयते लोके । रज्जुविवेकद- शिनां तु सर्पाभिधानबुद्धी निवर्तेते, यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी, तद्वत् सद्विवेकदर्शिनामन्यविकार शब्दबुद्धी निवर्तेते— 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ' इति, 'अंनिरुक्तेऽनिलयने ' इत्यादिश्रुतिभ्यः । एवमीक्षि- त्वा तत् तेज: असृजत तेजः सृष्टवत्' । ननु ' तस्माद्वा एत- स्मादात्मन आकाशः संभूत:' इति श्रुत्यन्तरे. आकाशाद्वायुः I २.] षष्ठोऽध्यायः 1: 1 ततस्तृतीयं तेजः श्रुतम्, इह कथं प्राथम्येन तस्मादेव तेज: सृज्यते तत एव च आकाशमिति विरुद्धम् ! नैष दोष:, आकाशवायुसर्गानन्तरं तत्सत् तेजोऽसृजतेति कल्पनोप- पत्तेः । अथवा अविवक्षितः इह सृष्टिक्रमः; सत्कार्यमिदं सर्वम्, अत: सदेकमेवाद्वितीयमित्येतद्विवक्षितम्, मृदादि- दृष्टान्तात् । अथवा त्रिवृत्करणस्य विवक्षितत्वात् तेजोबन्ना- नामेव सृष्टिमाचष्टे । तेज इति प्रसिद्धं लोके दग्धुं पक्त- प्रकाशकं रोहितं चेति । तत् सत्सृष्टं तेजः ऐक्षत तेजोरू- पसंस्थितं सत् ऐक्षतेत्यर्थः । बहु स्यां प्रजायेयेति पूर्ववत् । तत् अपोऽसृजत आप: द्रवाः स्निग्धाः स्यन्दिन्यः शुक्का- श्रेति प्रसिद्धा लोके । यस्मात्तेजसः कार्यभूता आप:,. तस्माद्यत्र क्वच देशे काले वा शोचति संतप्यते स्वेदते प्रस्विद्यते वा पुरुष: तेजस एव तत् तदा आप: अधिजायन्ते ॥ ता आप ऐक्षन्त बह्वयः खाम प्रजाये- महीति ता अन्नमसृजन्त तस्माद्यत्र के च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ४ ॥ इति द्वितीयः खण्डः ॥ छान्दोग्योपनिषद्भाष्ये ता आप ऐक्षन्त पूर्ववदेव अवाकारसंस्थितं सदैक्षतेत्यर्थः । बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहीति । ता अन्नमसृजन्त पृथिवीलक्षणम् । पार्थिवं हि अन्नम् ; यस्मा- दुष्कार्यमन्नम्, तस्मात् यत्र च च वर्षति देशे तत् तत्रैव भूयिष्ठं प्रभूतमन्नं भवति । अतः अद्भ्य एव तदन्नाद्यमधि- जायते। ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वम्, इह तु दृष्टा- न्ते अन्नं च तदाद्यं चेति विशेषणात् व्रीहियवाद्या उच्यन्ते । अन्नं च गुरु स्थिरं धारणं कृष्णं च रूपतः प्रसिद्धम् ॥ ननु तेजःप्रभृतिषु ईक्षणं न गम्यते, हिंसादिप्रतिषेधाभावात् त्रासादिकार्यानुपलम्भाच्च; तत्र कथं तत्तेज ऐक्षतेत्यादि ? नैष दोषः। ईक्षितृकारणपरिणामत्वात्तेजः प्रभृतीनां सत एव ई- तुः नियतक्रमविशिष्टकार्योत्पादकत्वाश्च तेजःप्रभृति ईक्षते इव ईक्षते इत्युच्यते भूतम् । ननु सतोऽप्युपचरितमेव ईक्षितृत्वम् । न । सदीक्षणस्य केवलशब्दगम्यत्वात् न शक्यमुपचरितं कल्पयितुम् । तेजःप्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् । ननु सतोऽपि मृद्वत्कारणत्वा- दचेतनत्वं शक्यमनुमातुम् । अतः प्रधानस्यैवाचेतनस्य सत- श्चेतनार्थत्वात् नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्च ऐक्षत इव ऐक्षतेति शक्यमनुमातुम् उपचरितमेव ईक्षणम् । दृष्टश्च षष्ठोऽध्यायः । लोके अचेतने चेतनवदुपचारः, यथा कूलं पिपतिषतीति तद्वत् सतोऽपि स्यात् । न, ' तत्सत्यं स आत्मा' इति तस्मिन्नात्मोपदेशात् । आत्मोपदेशोऽप्युपचरित इति चेत्- यथा ममात्मा भद्रसेन इति सर्वार्थकारिण्यनात्मनि आत्मोप- चार:-तद्वत् ; न, सदस्मीति सत्सत्याभिसंघस्य ' तस्य तावदेव चिरम्' इति मोक्षोपदेशात् । सोऽप्युपचार इति चेत्- प्रधानात्माभिसंघस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशो- ऽप्युपचरित एव यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवा- नहं ग्राममिति ब्रूयात्वरापेक्षया - तद्वत् न, येन विज्ञाते- नाविज्ञातं विज्ञातं भवतीत्युपक्रमात् । सति एकस्मिन्वि- ज्ञाते सर्वे विज्ञातं भवति, तदनन्यत्वात् सर्वस्याद्वितीयवच- नाश्च । न च अन्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्या अनु- मेयं वा लिङ्गतः अस्ति, येन मोक्षोपदेश उपचरितः स्यात् । सर्वस्य च प्रपाठकार्थस्य उपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्, पुरुषार्थसाधनविज्ञानस्य तर्के- णैवाधिगतत्वात्तस्य । तस्माद्वेदप्रामाण्यात् न युक्तः श्रुतार्थ- परित्यागः । अत: चेतनावत्कारणं जगत इति सिद्धम् ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ तेषां खल्वेषां भूतानां वीण्येव बीजा- नि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ तेषां जीवाविष्टानां खलु एषां पक्ष्यादीनां भूतानाम्, एषा- मिति प्रत्यक्षनिर्देशात्, न तु तेजः प्रभृतीनाम्, तेषां त्रिवृ- त्करणस्य वक्ष्यमाणत्वात्; असति त्रिवृत्करणे प्रत्यक्ष निर्देशा- नुपपत्तिः । देवताशब्दप्रयोगाच्च तेजः प्रभृतिषु -' इमास्तिस्रो देवता:' इति । तस्मात् तेषां खल्वेषां भूतानां पक्षिपशुस्था- वरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भ- वन्ति । कानि तानीति, उच्यन्ते - आण्डजम् अण्डाज्जात- मण्डजम् अण्डजमेव आण्डजं पक्ष्यादि । पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते । तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यदप्यण्डाज्जातं तज्जाती- यानां बीजमित्यर्थः । ननु अण्डाज्जातम् अण्डजमुच्यते, अतोऽण्डमेव बीजमिति युक्तम्; कथमण्डजं बीजमुच्यते ! सत्यमेवं स्यात्, यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्; स्वतन्त्रा तु श्रुतिः, यत आह अण्डजाद्येव बीजं न अण्डादीति । दृश्यते च अण्डजाद्यभावे तज्जातीयसंतत्यभाव:, न अण्डा- द्यभावे । अतः अण्डजादीन्येव बीजानि अण्डजादीनाम् । ३.] षष्ठोऽध्यायः । तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि । उ- द्भिज्जम् उद्भिनत्तीत्युद्भित् स्थावरं ततो जातमुद्भिज्जम्, धाना वा उद्भित् ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः । स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथा- संभवमन्तर्भावः । एवं हि अवधारणं त्रीण्येव बीजानीत्यु - पपन्नं भवति ॥ सेयं देवतैक्षत हन्नाहमिमास्तिस्रो दे- वता अनेन जीवेनात्मनानुप्रविश्य नाम- रूपे व्याकरवाणीति ॥ २ ॥ सेयं प्रकृता सदाख्या तेजोबन्नयोनिः देवता उक्ता ऐक्षत ईक्षितवती यथापूर्व बहु स्यामिति । तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहु- भवनमेव प्रयोजनमुररीकृत्य । कथम् ? हन्त इदानीमह- मिमा: यथोक्ताः तेजआद्याः तिस्रो देवताः अनेन जीवेनेति स्त्रबुद्धिस्थं पूर्वसृष्टयनुभूतप्राणधारणम् आत्मानमेव स्मर- न्ती आह— अनेन जीवेन आत्मनेति । प्राणधारणकर्त्रा आत्मनेति वचनात् स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतया अविशिष्टेनेत्येतद्दर्शयति । अनुप्रविश्य तेजोबन्नभूतमात्रासं- सर्गेण लब्धविशेषविज्ञाना सती नाम च रूपं च नामरूपे छान्दोग्योपनिषद्भाष्ये [ख. व्याकरवाणि विस्पष्टमाकरवाणि, असौनामायम् इदंरूप इति व्याकुर्यामित्यर्थः ॥ ननु न युक्तमिदम् - असंसारिण्याः सर्वज्ञायाः देवता- याः बुद्धिपूर्वकमनेकशतसहस्रांनर्थाश्रयं देहमनुप्रविश्य दु:- खमनुभविष्यामीति संकल्पनम्, अनुप्रवेशश्च स्वातन्त्र्ये सति । सत्यमेवं न युक्तं स्यात् - यदि स्वेनैवाविकृतेन रूपेणा- नुप्रविशेयं दुःखमनुभवेयमिति च संकल्पितवती; न त्वेवम् । कथं तर्हि ? अनेन जीवेन आत्मना अनुप्रविश्य इति वच- नात् । जीवो हि नाम देवताया आभासमात्रम्, बुद्धयादि.. भूतमात्रासंसर्गजनित: - आदर्शे इव प्रविष्टः पुरुषप्रतिबिम्ब:, जलादिष्विव च सूर्यादीनाम् । अचिन्त्यानन्तशक्तिमत्या देवतायाः बुद्ध्यादिसंबन्ध: चैतन्याभासः देवतास्वरूप- विवेकाग्रह्णनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्प- प्रत्ययहेतुः । छायामात्रेण जीवरूपेणानुप्रविष्टत्वात् देवता न दैहिकै: : स्वतः सुखदुःखादिभिः संबध्यते — यथा पुरुषादि- त्यादय: आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टा: आदर्शोद- कादिदोषैर्न संबध्यन्ते — तद्वद्देवतापि । 'सूर्यो यथा सर्व- - लोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभू- तान्तरात्मा न लिप्यते लोकदुःखेन बाह्य: ' ' आकाशवत्सर्वग- ३.] ' षष्ठोऽध्यायः । . तश्च नित्यः' इति हि काठके; ' ध्यायतीव लेलायतीव ' इति च वाजसनेयके । ननु च्छायामात्रश्चेज्जीवः मृषैव प्राप्त:, तथा पर- लोकेहलोकादि च तस्य । नैष दोषः, सदात्मना सत्यत्वा- भ्युपगमात् । सर्वे च नामरूपादि सदात्मनैव सत्यं विका- रजातम् स्वतस्त्वनृतमेव, 'वाचारम्भणं विकारो नामधे - यम्' इत्युक्तत्वात् । तथा जीवोऽपीति । यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः । अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतोऽन्यत्वे च अनृतत्वमिति न कश्चिद्दोषः तार्किकैरिहानुवक्तुं शक्यः, यथा इतरेतरवि- रुद्धद्वैतवादा: स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥ तासां त्रिवृतं त्रिवृतमेकैकां करवा- णीति सेयं देवतेमास्तिस्रो देवता अनेनै- व जीवेनात्मनानुप्रविश्य नामरूपे व्या- करोत् ॥ ३ ॥ सैवं तिस्रो देवता: अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीति ईक्षित्वा तासां च तिसृणां देवतानामेकैकां विवृतं त्रिवृतं करवाणि एकैक- स्यास्त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभाव: ; . छान्दोग्योपनिषद्भाष्ये [ख. अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात्, न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति । एवं हि तेजोव- न्नानां पृथङ्नामप्रत्ययलाभ: स्यात् — तेज इदम् इमा आप: अन्नमिदम् इति च । सति च पृथङ्नामप्रत्ययलाभे देव- तानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् । एवमी- क्षित्वा सेयं देवता मास्तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवा - दीनां च पिण्डाननुप्रविश्य यथासंकल्पमेव नामरूपे व्या- करोत् — असौनामा अयम् इदंरूप इति ॥ तासां त्रिवृतं त्रिवृतमेकैकामकरोद्य- था तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृ- त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् एकैकामकरोत् कृतवती देवता । तिष्ठतु तावद्देवतादिपि - ण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वम्, यथा तु बहिरिमाः पिण्डेभ्यस्तिस्रो देवतास्त्रिवृत्रिवृदेकै का भवति तन्मे मम निगदतः विजानीहि विस्पष्टम् अवधारय उदाहरणतः ॥ इति तृतीयखण्डभाष्यम् ॥ चतुर्थः खण्डः ॥ यदग्ने रोहित‍ रूपं तेजसस्तद्रूपं य- च्छुक्कं तदपां यत्कृष्णं तदन्नस्यापागादग्ने- रग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥ यत्तद्देवतानां त्रिवृत्करणमुक्तम् तस्यैवोदाहरणमुच्यते— उदाहरणं नाम एकदेशप्रसिद्धया अशेषप्रसिद्धयर्थमुदायित इति । तदेतदाह - यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके, तत् अत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि । तथा यच्छुक्लं रूपमग्नेरेव तदपामत्रिवृत्कृतानाम् ; यत्कृष्णं तस्यैवा- नेः रूपम् तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विद्धि । तत्रैवं सति रूपन्त्रयव्यतिरेकेण अग्निरिति यन्मन्यसे त्वम्, तस्याग्नेरग्नित्वमिदानीम् अपागात् अपगतम् । प्राग्रूपनयवि- वेकविज्ञानात् या अभिबुद्धिरासीत् ते, सा अभिबुद्धिरप- गता अभिशब्दश्चेत्यर्थः यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिकों गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्धधीः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञानात्, तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुः - तद्वत् । ननु - छान्दोग्योपनिषद्भाष्ये [ख. किमत्र बुद्धिशब्दकल्पनया क्रियते, प्राग्रूपन्त्रयविवेककरणाद- ग्निरेवासीत्, तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादि- ति युक्तम् — यथा तन्त्त्रपकर्षणे पटाभावः । नैवम्, बुद्धिशब्द- मात्रमेव हि अग्नि:; यत आह वाचारम्भणमग्निर्नाम विकारो नामधेयं नाममात्रमित्यर्थः । अतः अनिबुद्धिरपि मृषैव । किं तर्हि तत्र सत्यम् ? त्रीणि रूपाणीत्येव सत्यम्, नाणु- मात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥ यदादित्यस्य रोहितँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागा- दादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २॥ यच्चन्द्रमसो रोहित‍ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागा- च्चन्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नाम- धेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥ यद्विद्युतो रोहित ँ रूपं तेजसस्तद्रूपं.: यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागा-.... द्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो : ४.] षष्ठोऽध्यायः । ३५९ नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥ । तथा यदादित्यस्य ग्रच्चन्द्रमसो यद्विद्युत इत्यादि समा- नम् । ननु 'यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्रि- वृदेकैका भवति तन्मे विजानीहि ' इत्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितम्, न अबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे । नैष दोषः । अबन्नवि- षयाण्यप्युदाहरणानि एवमेव च द्रष्टव्यानीति मन्यते श्रुतिः । तेजस उदाहरणमुपलक्षणार्थम्, रूपवत्त्वात्स्पष्टार्थत्वोप- पत्तेश्च । गन्धरसयोरनुदाहरणं त्रयाणामसंभवात् । न हि गन्धरसौ तेजसि स्तः । स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् । यदि सर्वे जगत् त्रिवृत्कृतमिति अग्न्यादिवत् त्रीणि रूपाणीत्येव सत्यम्, अग्नेरभित्ववत् अपागाज्जगतो जगत्त्वम् । तथा अन्नस्याप्यप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्भणमात्रमन्नम् । तथा अपामपि तेज:- शुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यम् । तेजसोऽपि सच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इत्येषोऽर्थो विवक्षितः । ननु वाय्वन्तरिक्षे तु अत्रिवृत्कृते तेजःप्रभृति - ष्वनन्तर्भूतत्वात् अवशिष्येते, एवं गन्धरसशब्दस्पर्शाचा- वशिष्ठा इति कथं सता विज्ञातेन सर्वमन्यदविज्ञातं विज्ञातं भवेत् ! तद्विज्ञाने वा प्रकारान्तरं वाच्यम्; नैष दोषः, छान्दोग्योपनिषद्भाष्ये [ख. रूपवद्द्रव्ये सर्वस्य दर्शनात् । कथम्? तेजसि तावद्रूप- वति शब्दस्पर्शयोरप्युपलम्भात् वाय्वन्तरिक्षयोः तत्र स्पर्श- शब्दगुणवतोः सद्भावो अनुमीयते । तथा अबन्नयोः रूप- वतो रसगन्धान्तर्भाव इति । रूपवतां त्रयाणां तेजोवन्नानां त्रिवृत्करणप्रदर्शनेन सर्वे तदन्तर्भूतं सद्विकारत्वात् त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुतिः । न हि मूर्त रूपवद्द्रव्यं प्र- त्याख्याय वाय्वाकाशयोः तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति । अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः । यथा तु त्रिवृत्कृते बीणि रूपाणीत्येव सत्यम्, तथा पञ्चीक- रणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात् सता विज्ञातेन सर्वमिदं विज्ञातं स्यात् सदेकमेवाद्वितीयं सत्य- मिति सिद्धमेव भवति । तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥ एतद्ध स्म वै तद्विद्वास आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य क- श्वनाश्रुतममतमविज्ञातमुदाहरिष्यतीति. ह्येभ्यो विदांचक्रुः ॥ ५ ॥ . एतत् विद्वांसः विदितवन्तः पूर्वे अतिक्रान्ता: महा- शालाः महाश्रोत्रिया: आहुः ह स्म वै किल । किमुक्तवन्त ४.] षष्ठोऽध्यायः । इति, आह— न नः अस्माकं कुले अद्य इदानीं यथोक्त- विज्ञानवतां कश्चन कश्चिदपि · अश्रुतममतमविज्ञातम् उदाह- रिष्यति नोदाहरिष्यति, सर्वे विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्त्वात् इत्यभिप्रायः । ते पुनः कथं सर्व विज्ञात- वन्त इति, आह-- एभ्यः त्रिभ्यः रोहितादिरूपेभ्यः त्रिवृ- त्कृतेभ्यः विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदांचॐ : विज्ञातवन्त: यस्मात्, तस्मात्सर्वज्ञा एव सद्विज्ञानात् ते आसुरित्यर्थः । अथवा एभ्यो विदांचक्रुरिति अग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदांचकुरित्येतत् ॥ यदु रोहितमिवाभूदिति तेजसस्तद्रूप- मिनि तद्विदांचक्रुर्यदु शुक्लमिवाभूदित्य- पाँ रूपमिति तद्विदांचक्रुर्यदु कृष्णमि- वाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६ ॥ यह विज्ञातमिवाभूदित्येतासामेव देव- ताना समास इति तद्विदांचकुर्यथा तु खलु सोम्पेमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकका भवति तन्मे विजानी- हीति ॥ ७ ॥ इति चतुर्थः खण्डः ॥ S. U. Iv. 11 छान्दोग्योपनिषद्भाष्ये [ख. कथम् ? यदन्यद्रूपेण संदिह्यमाने कपोतादिरूपे रोहित- मिव यद्गृह्यमाणमभूत् तेषां पूर्वेषां ब्रह्मविदाम्, तत्तेजसो रूपमिति विदांचक्रुः । तथा ग्रच्छुक्कुमिवाभूङ्गृह्यमाणं तदपां रूपम्, यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदांचक्रुः । एवमे- वात्यन्तदुर्लक्ष्यं यत् उ अपि अविज्ञातमिव विशेषतो अगृह्य- माणमभूत् तदप्येतासामेव तिसृणां देवतानां समासः समु- दाय इति विदांचक्रुः । एवं तावद्वाह्यं वस्त्वग्न्यादिवद्विज्ञा- तम्, तथेदानीं यथा तु खलु हे सोम्य इमाः यथोक्तास्तिस्रो देवताः पुरुषं शिरः पाण्यादिलक्षणं कार्यकारणसंघातं प्राप्य पुरुषेणोपयुज्यमाना: त्रिवृत्रिवृदेकैका भवति, तत् आध्या- त्मिकं विजानीहि निगदतः इत्युक्त्वा आह ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्य- मस्तन्मासं योऽणिष्ठस्तन्मनः ॥ १ ॥ अन्नम अशितं भुक्तं त्रेधा विधीयते जाठरेणाग्निना पच्यमानं त्रिधा विभज्यते । कथम् ? तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो घातुः स्थूलतमं वस्तु विभक्तस्य स्थूलोंशः, तत्पुरीषं भवति; यो मध्यमोंशो धातुरन्नस्य, तद्रसादिक्रमेण परिणम्य मांसं भवति ; यः अणिष्ठ: अणुतमो धातुः, स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसंघातस्य स्थितिमुत्पादयन् मनो भवति । मनोरूपेण विपरिणमन् मनस उपचयं करोति । ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयवं चेति गृह्यते । यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया; किं तर्हि, सूक्ष्मव्यवहितविप्रकृ- ष्टादिसर्वेन्द्रियविषयव्यापारकत्वापेक्षया । यच्चान्येन्द्रियवि- षयापेक्षया नित्यत्वम्, तदप्यापेक्षिकमेवेति वक्ष्यामः, 'सत्... एकमेवाद्वितीयम्' इति श्रुतेः ॥ आपः पीतास्त्रेधा विधीयन्ते तासां छान्दोग्योपनिषद्भाष्ये यः स्थविष्टो धातुस्तन्मूत्रं भवति यो मध्यमस्तलोहितं योऽणिष्ठः स प्राणः ॥ [ख. तथा आप: पीता: त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुः, तन्मूत्रं भवति, यो मध्यमः, तल्लोहितं भवति ; योऽणिष्ठः, स प्राणो भवति । वक्ष्यति हि - ' आपोमय: प्राणो नपिवतो विच्छेत्स्यते ' इति ॥ तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः समजा योऽणिष्ठः सा चाकू ॥ ३ ॥ तथा तेज: अशितं तैलघृतादि भक्षितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातु: तदस्थि भवति ; यो मध्यमः, स मज्जा अस्थ्यन्तर्गत: स्नेहः ; योऽणिष्ठः सा वाक् । तैलघृ- तादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्र- सिद्धं लोके ॥ अन्नमय‍ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ इति पञ्चमः खण्डः ॥ ५.] षष्ठोऽध्यायः । ' ' यत एवम्, अन्नमयं हि सोम्य मनः आपोमयः प्राणः . तेजोमयी वाक् । ननु केवलान्नभश्चिण अखुप्रभृतयो वा- ग्मिनः प्राणवन्तश्च तथा अम्मात्रभक्ष्याः सामुद्रा मी- नमकरप्रभृतयो मनस्विनो वाग्मिनश्च तथा स्नेहपाना- मपि प्राणवत्वं मनस्वित्वं च अनुमेयम्; यदि सन्ति, तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते ? नैष दोष:, सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः । न हि अत्रिवृत्कृ- तमन्नमश्नाति कश्चित् आपो वा अत्रिवत्कृताः पीयन्ते, तेजो वा अत्रिवृत्कृतमश्नाति कश्चित् इत्यन्नादानामाखु- भृतीनां वाग्मित्वं प्राणवत्त्वं च इत्याद्यविरुद्धम् । इत्येवं प्रत्यायितः श्वेतकेतुराह—- भूय एंव पुनरेव सा मां भगवान् अन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनाव- गमयतु, नाद्यापि मम अस्मिन्नर्थे सम्यंनिश्चयो जातः । यस्मात्तेजोबन्नमयत्वेनाविशिष्टे देहे एकस्मिन्नुपयुज्यमानान्य- नाप्स्नेहजातानि अणिष्ठधातुरूपेण मनःप्राणवाच उपचि- न्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्राय: ; अतो भूय एवेत्याद्याह । तमेवमुक्तवन्तं तथास्तु सोम्येति ह उवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥ इति पञ्चमखण्डभाष्यम् ॥ - . षष्ठः खण्डः ॥ दध्नः सोम्य मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ॥ १ ॥ दघ्नः सोम्य मध्यमानस्य योऽणिमा अणुभाव: स ऊर्ध्वः समुदीषति संभूयो नवनीतभावेन गच्छति, तत्सर्पिर्भवति ॥ एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति ॥ २॥ यथा अयं दृष्टान्तः, एवमेव खलु सोम्य अन्नस्य ओदनादेः अश्यमानस्य भुज्यमानस्य औदर्येणाग्निना वायुसहितेन खजे- नेव मध्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ; तन्मनो भवति, मनोवयवैः सह संभूय मन उपचिनोतीत्येतत् ॥ अपाँ सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवति ॥३॥ • ६.] षष्ठोऽध्यायः । तथा अपां सोम्य पीयमानानां यो अणिमा, स ऊर्ध्वः समुदीषति, स प्राणो भवतीति ॥ तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥ एवमेव खलु सोम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ अन्नमय हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भ- गवान्विज्ञापयत्विति तथा सोम्येति हो- वाच ॥ ५ ॥ इति षष्ठः खण्डः ॥ अन्नमयं हि सोम्य मनः आपोमयः प्राण: तेजोमयी वाक् इति युक्तमेव मयोक्तमित्यभिप्रायः । अतः अप्तेजोर- स्त्वेतत्सर्वमेवम् । मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्च- यो जात: । अत: भूय एव मा भगवान् मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति । तथा सोम्येति ह उवाच पिता ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ षोडशकलः सोम्य पुरुषः पञ्चदशाहा- नि माशीः काममपः पिबापोमयः प्राणो 'नपिबतो विच्छेत्स्यत इति ॥ १ ॥ :: अन्नस्य भुक्तख यो अणिष्ठो धातुः, स मनसि शक्तिम- धात् । सा अन्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता । तथा मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तः तद्वान्कार्यकारणसं- घातलक्षणो जीवविशिष्टः पुरुषः षोडशकल उच्यते ; यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रिया- समर्थः पुरुषो भवति ; हीयमानायां च यस्यां सामर्थ्य- हानि: । वक्ष्यति च 'अथान्नस्यायी द्रष्टा' इत्यादि । सर्वस्य कार्यकारणस्य सामर्थ्यं मनः कृतमेव । मानसेन हि : बलेन संपन्ना बलिनो दृश्यन्ते लोके ध्यानाहाराश्च केचित्, अन्नस्य सर्वात्मकत्वात् । अतः अन्नकृतं मानसं वीर्यम् । षोडश कला: यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः । एतच्चेत्प्रत्यक्षीकर्तु- मिच्छसि पश्चदशसंख्याकान्यहानि माशी: अशनं मा- कार्षीः, कामम् इच्छातः अपः पित्र, यस्मात् नपिबतः अपः , ७.] षष्ठोऽध्यायः । ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते, यस्मादापोमयः अव्विकारः प्राण इत्यवोचाम । न हि कार्य स्वकारणोपष्टम्भ- मन्तरेण अविभ्रंशमानं स्थातुमुत्सहते ॥ स ह पञ्चदशाहानि नाशाथ हैननुप-: ससाद किं ब्रवीमि भो इत्यृचः सोम्य - यजुषि सामानीति स होवाच न वै मा " प्रतिभान्ति भो इति ॥ २ ॥ स ह एवं श्रुत्वा मनसः अन्नमयत्वं प्रत्यक्षीकर्तुमिच्छन् पञ्चदशाहानि न आश अशनं न कृतवान् । अथ षोडशे- ऽहनि ह एनं पितरमुपससाद उपगतवान् । उपगम्य च - किं ब्रवीमि भो इति । इतर आह- : उवाच- - ऋचः सोम्य यजूंषि सामान्यधीष्वेति । एवमुक्तः पित्रा आह- - -न. वै मा माम् ऋगादीनि प्रतिभान्ति मम मनसि न दृश्यन्त इत्यर्थ: हे भो भगवन्निति ॥ त होवाच यथा सोम्य महतोऽभ्यां हितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेव सोम्य ... ते षोडशानां कलानामेका कलातिशिष्टा छान्दोग्योपनिषद्भाष्ये स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ३ ॥ [ख. एवमुक्तवन्तं पिता आह-- शृणु तत्र शृणु तत्र कारणम्,. येन ते तानि ऋगादीनि न प्रतिभान्तीति; तं ह उवाच - यथा लोके हे सोम्य महतः महत्परिमाणस्य अभ्याहितस्य उप- चितस्य इन्धनैः अग्नेः एकोऽङ्गारः खद्योतमात्रः खद्योतप- रिमाण: शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत्, तेना- ङ्गारेण ततोऽपि तत्परिमाणात् ईषदपि न बहु दहेत्, एव- मेव सोम्य ते तव अन्नोपचितानां षोडशानां कलाना- मेका कला अवयवः अतिशिष्टा अवशिष्टा स्यात्, तया त्वं 'खद्योतमात्राङ्गारतुल्यया ऐतर्हि इदानीं वेदान नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचम् अथ अशेषं विज्ञा- स्यसि अशान भुङ्क्ष्व तावत् ॥ खलु स हाशाथ हैनमुपससाद त‍ ह य- त्किंच पप्रच्छ सर्व५ ह प्रतिपेदे ॥ ४ ॥ स ह तथैव आश भुक्तवान् । अथ अनन्तरं ६ एनं पितरं ह शुश्रूषुः उपससाद । तं ह उपगतं पुत्रं यत्किंच ऋगादिषु पप्रच्छ प्रन्थरूपमर्थजातं वा पिता । स श्वेतकेतु: सर्वे ह - तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च ॥ ७.] षष्ठोऽध्यायः । त होवाच यथा सोम्य महतोऽभ्या- हितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततो ऽपि बहु दहेत् ॥ ५ ॥ - तं ह उवाच पुनः पिता- - यथा सोम्य महतः अभ्या- हितस्येत्यादि समानम्, एकमङ्गारं शान्तस्याग्नेः खद्योत- मात्रं परिशिष्टं तं तृणैश्चूर्णैश्च उपसमाधाय प्राज्वलयेत् वर्धयेत् । तेनेद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत् ॥ एव सोम्य ते षोडशानां कलाना- मेका कलातिशिष्टाभूत्सान्नेनोपसमाहि- ता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्न- मय‍ हि सोम्य मन आपोमयः प्राणस्ते- जोमयी वागिति तद्धाय विजज्ञाविति विजज्ञाविति ॥ ६ ॥ इति सप्तमः खण्डः ॥ एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणाम् छान्दोग्योपनिषद्भाष्ये [ख. एका कला अतिशिष्टा अभूत् अतिशिष्टा आसीत्, पञ्चद- शाहान्यभुक्तवतः एकैकेनाह्रा एकैका कला चन्द्रमस इव अपरपक्षे क्षीणा, सा अतिशिष्टा कला तव अनेन भुक्तनोप- समाहिता वर्धिता उपचिता प्राज्वाली, दैर्घ्य छान्दसम्, प्रज्व लिता वर्धितेत्यर्थः । प्राज्वालीदिति पाठान्तरम्, तदा तेनोप- समाहिता स्वयं प्रज्वलितवतीत्यर्थः । तया वर्धितया एतर्हि इदानीं वेदाननुभवसि उपलभसे । एवं व्यावृत्त्यनुवृत्ति- भ्यामन्नमयत्वं मनसः सिद्धमिति उपसंहरति — अन्नमयं हि - 573 सोम्य मन इत्यादि । यथा एतन्मनसोऽन्नमयत्वं तव सिद्धम्, तथा आपोमयः प्राणः तेजोमयी वाक् इत्येतदपि सिद्ध- मेवेत्यभिप्रायः । तदेतद्ध अस्य पितुरुक्तं मनआदीनामन्ना- दिमयत्वं विजज्ञौ विज्ञातवान् श्वेतकेतुः । द्विरभ्यास: त्रि- वृत्करणप्रकरणसमाप्त्यर्थः ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ उद्दालको हारुणिः श्वेतकेतुं पुत्रमु- वाच स्वान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेन स्वपितीत्याचक्षते स्वापी- तो भवति ॥ १ ॥ यस्मिन्मनसि जीवेनात्मनानुप्रविष्टा परा देवता- आदर्श इव पुरुष: प्रतिबिम्बेन जलादिष्विव च सूर्यादयः प्रतिबिम्बैः, तन्मन: अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां संगतमधि- गतम् । यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यवहा- राय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते । तदुक्तं श्रुत्यन्तरे - ' ध्यायतीव लेलायतीव" सधी: स्वप्नो भूत्वेमं लोकमतिक्रामति' 'स वा अयमात्मा ब्रह्म विज्ञा- नमयो मनोमय:' इत्यादि, 'स्वप्नेन शारीरम्' इत्यादि, " प्राणन्नेव प्राणो नाम भवति' इत्यादि च । तस्यास्य मनस्थस्य मनआख्यां गतस्य मनउपशमद्वारेणेन्द्रियवि- षयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभू- छान्दोग्योपनिषद्भाष्ये [ख. तायां यदवस्थानम्, तत् पुत्राय आचिख्यासुः उद्दालको ह किल आरुणिः श्वेतकेतुं पुत्रमुत्राच उक्तवान् — स्वप्नान्तं स्वप्नमध्यम् स्वप्न इति दर्शनवृत्तेः स्वप्नस्याख्या, तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् ; अथवा स्वप्नान्तं स्वप्नस तत्त्व- मित्यर्थः । तत्राप्यर्थात्सुषुप्तमेव भवति, 'स्वमपीतो भवति' इति वचनात् ; न हि अन्यत्र सुषुप्तात् स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः । तत्र हि आदर्शापनयने पुरुषप्रतिबि- म्ब: आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मन- आयुपरमे चैतन्यप्रतिविम्बरूपेण जीवेन आत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेव आ- त्मानं प्रतिपद्यते जीवरूपतां मनआख्यां हित्वा । अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते । यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्या- पुण्यकार्यम् । पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् । पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखदर्शनकार्यार- म्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति । 'अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वान् शेोकान् हृद- यस्य भवति' 'तवा अस्यैतदतिच्छन्दा एष परम आनन्द: ' ८.] षष्ठोऽध्यायः । ३७५. - - इत्यादिश्रुतिभ्यः । सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह — स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः । कदा स्वप्नान्तो भवतीति, उच्यते यत्र यस्मिन्काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः । प्रसिद्धं हि लोके स्वपितीति । गौणं चेदं नामेत्याह — यदा स्वपितीत्युच्यते पुरुषः, तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगतः एकीभूतो भवति । मनसि प्रविष्टं मनआदि संसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यम् अपीत: अपिगतः भवति । अतः तस्मात् स्वपितीत्येनमाचक्षते लौकिकाः । स्वमात्मानं हि यस्मादपीतो भवति; गुणना- मप्रसिद्धितोऽपि स्वात्मप्राप्तिर्गम्यते इत्यभिप्रायः । कथं पुन- लौकिकानां प्रसिद्धा स्वात्मसंपत्ति: ? जाग्रच्छ्रमनिमित्तोद्भव- त्वात्स्वापस्य इत्याहुः— जागरिते हि पुण्यापुण्यनिमित्तसुख- दुःखाद्यनेकायासानुभवाच्छ्रान्तो भवति ततश्च आयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उप- रमो भवति । श्रुतेश्च 'श्राम्यत्येव वाक् श्राम्यति चक्षुः' इत्ये- वमादि । तथा च 'गृहीता वाक् गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः' इत्येवमादीनि करणानि प्राणप्रस्तानि ; प्राण एकः I छान्दोग्योपनिषद्भाष्ये [ख. अश्रान्तः देहे कुलाये यो जागर्ति, तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते । नान्यत्र स्वरूपावस्थाना- च्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिलौकिकानाम् — स्वं ह्यपीतो भवतीति । दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानां विश्रमणम्, तद्वदिहापि स्यादिति युक्तम् । तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त: ' इत्यादिश्रुते ॥ स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यन्त्रायतनभलब्ध्वा बन्धन- मेवोपयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यन्त्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणवन्धन हि सोम्य मन इति ॥ २ ॥ तत्रायं दृष्टान्तः यथोक्तेऽर्थे - स यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र ब- न्धनात् आयतनम् आश्रयं विश्रमणाय अलब्ध्वा अप्राप्य बन्धनमेवोपश्रयते । एवमेव यथा अयं दृष्टान्तः खलु हे ८.] षष्ठोऽध्यायः । सोम्य तन्मनः तत्प्रकृतं षोडशकलमन्नोपचितं मनो निर्धा- रितम्, तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते - मध्चाक्रोशनवत् । स मनआख्योपाधिः जीव: अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः, अन्यत्र सदा- ख्यात् स्वात्मन: आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव, प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते स- दाख्या परा देवता, ' प्राणस्य प्राणम्' ' प्राणशरीरो भारूप: ' इत्यादिश्रुतेः । अतः तां देवतां प्राणं प्राणाख्यामेव उप- श्रयते । प्राणो बन्धनं यस्य मनसः तत्प्राणबन्धनं हि. यस्मात् सोम्य मनः प्राणोपलक्षितदेवताश्रयम्, मन इति तदुपलक्षितो जीव इति ॥ अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव त- दशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनाये- ति तत्रैतच्छुङ्गमुत्पतित सोम्य विजा- नीहि नेदममूलं भविष्यतीति ॥ ३ ॥ S. U. Iv. 12 ·३७८ छान्दोग्योपनिषद्भाष्ये [ख. एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलम्, `तत्पुत्रस्य दर्शयित्वा आह अन्नादिकार्यका- रंणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः - अशनापिपासे अशितुमिच्छा अशना, सन् यलोपेन, पातुमिच्छा पिपांसा ते अशनापिपासे अशनापिपासयोः सतत्त्वं विजानीहीत्येतत् । यत्र यस्मिन्काले एतन्नाम पुरुषो भवति । किं तत् ? अशिशि- पति अशितुमिच्छतीति । तदा तस्य पुरुषस्य किंनिमित्तं नाम भवतीति, आह— यत्तत्पुरुषेण अशितमन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते, तदा भुक्तमन्नं जीर्यति । अथ च भवत्यस्य नाम अशिशिष- तीति गौणम् । जीर्णे हि अन्ने अशितुमिच्छति सर्वो हि जन्तुः । तत्र अपामशित नेतृत्वात् अशनाया इति नाम प्रसिद्धमि- त्येतस्मिन्नर्थे । यथा गोनाय: गां नयतीति गोनायः इत्यु- च्यते गोपालः, तथा अश्वान्नयतीत्यश्वनायः अश्वपाल इत्यु- च्यते, पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा, एवं तत् तदा अप आचक्षते लौकिकाः अशनायेति विसर्जनीय- लोपेन । तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेना- नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गः अङ्कुर उत्पतितः उद्गत:; तमिमं शुद्धं कार्ये शरीराख्यं वटादिशुङ्ग- . 115