7.3 श्री १०८ ईश्व पुस्तकालय : 最 34 श्री १०८ ईश्वर मठ मुक्षु भवन, अस्, वाशी • पुस्तकालय, MEMORIAL EDITION OF THE WORKS OF SRI SANKARACHARYA. श्री १०८ ईश्वर मठ पुस्तकालय, मुमुक्षु भवन, अस्ख, काशी. THE WORKS OF Sri Sankaracharya SRI - VANI VILAS -EDITION. 田 THE WORKS OF SRI SANKARACHARYA VOLUME 6 MMMMMMMMMMMMM SRI VANI VILAS PRESS SRIRANGAM ΤΟ HIS HOLINESS SRI JAGADGURU SRI SACHCHIDANANDA SIVABHINAVA NRISIMHA BHARATI SWAMI WHO ADORNS THE THRONE OF THE SRINGERI MUTT AS THE WORTHY REPRESENTATIVE OF THE GREAT SANKARACHARYA AND THAN WHOM IT IS IMPOSSIBLE TO COME ACROSS A HOLIER PERSONAGE. A TRUER MAHATMA, A NOBLER SAINT AND A MORE RIGOROUS ASCETIC. THIS EDITION IS MOST RESPECTFULLY INSCRIBED AS A TOKEN OF UNBOUNDED ADMIRATION BY THE HUMBLEST OF ALL HIS DISCIPLES T. K. BALASUBRAHMANYAM. नानाजन्मसु संचितेन तपसा पूतेन वित्तात्मना मित्रेण प्रतिबोधितेन कुतुकारः कृती: शांकरीः । संमुख प्रथमं जगद्गुरुपदे भक्त्या मायाताः पहृतं करोतु गुरुराट् धन्यं तथेमं जनम् ॥ श्रीमच्छंकरदेशि केन्द्र रचितान्सर्वान्प्रबन्धादा मी परिशोध्य पुस्तकः संमुख साकं बुधैः । तन्त्राप्रवरादिमध्यविलसच्छ्रीदेनिकेन्द्रेषु ता- कृत्यायोपहतं सभक्तिचिनयं नूनं कृतार्थोऽस्म्यहम् ॥ सौम्बान्दमावार्जुनपक्ष राजत्सूर्योऽविध्याधितसोमबारे । श्रीशंकराप्रतिमाप्रतिष्ठाकाले मयैषोपहतधायि ॥ श्रीशंकरकृतिमाला गुरुवतु समर्पिता मोदात् । बालादिपदभाजा सुब्रह्मण्येन भक्तिनम्रेण ॥ ४ ॥ 312 CONTENTS. TAITTIRIYOPANISHAD-BHASHYA. SIKSHAVALLI BRAHMANANDAVALLI BHRIGUVALLI CHHANDOGYOPANISHAD-BHASHYA. CHAPTER 1. CHAPTER 2. CHAPTER 3. PAGE. 1-156 • 5 . 55 . 123 1-200 5 . 81 . 137 VI. विषया: ॥ तैत्तिरीयोपनिषद्भाष्यम् शीक्षावल्ली ब्रह्मानन्दवल्ली भृगुवल्ली छान्दोग्योपनिषद्भाष्यम् पृष्ठम् १—१५६ १ - २०० प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः THE UPANISHAD-BHASHYA VOL. 3. -TAITTIRIYA &- CHHANDOGYA I-III. 4444 व ॥ श्रीः ॥ उपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । तृतीयो भागः . तैत्तिरीयं छान्दोग्ये १ - ३. अध्यायाश्च 11 ॐ ॥ तैत्तिरीयोपनिषद्भाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । S. U. III. 1 11 eft: 11 ॥ विषयानुक्रमणिका ॥ शीक्षावल्ली पृष्टम् ७-५४ ब्रह्मनमस्काररूपमङ्गलम् गुरुनमस्कारः चिकीर्षितग्रन्थनिर्देशः उपोद्घातः दुरितक्षयाद्यर्थनित्यकाम्यकर्मणां पूर्वकाण्डेऽधिगतत्वम् कर्मभ्योऽसंभाव्यमाननिःश्रेयसफलब्रह्मविद्यायाः सनि- ... दानकर्मोन्मूलनार्थायाः प्रारम्भप्रस्तावः मुमुक्षोरागामिशरीरोत्पादकहेत्वभावादयत्नत एव मोक्षः, अथवा निरतिशयप्रीतिरूपस्वर्गस्य मोक्षादन्यत्रासं- भवात्स्वर्गसाधनस्यैव मोक्षसाधनत्वम्, इति तदर्थं उपनिषदारम्भो व्यर्थ इति पूर्वपक्ष: विरुद्धफलानेकसंचितकर्मसंभवाच्छरीरोत्पादहेत्वभावो- ऽसिद्ध इति प्रथमपक्षपरिहारः संचितकर्मसंभवेऽपि तेषां नित्यकर्मभ्यः क्षय इति श- ङ्कायाः नित्यकर्मणामकरणनिमित्तप्रत्यवायपरिहारा- s. C. 111.0 [२] र्थत्वान्न संचितक्षयहेतुत्वमिति तदेकदेशिमतेनैव व्युदासः नित्यस्य संचितक्षयहेतुत्वेऽपि न शुद्धकर्मक्षपयितृत्वम- विरोधादित्यभिमतहानिः असति विवेकवले काम्यकर्मवर्जनमशक्यमिति मुमुक्षोः काम्यकर्माप्रसक्तिरिति पक्षस्यासिद्धि: अभावाद्भावोत्पत्तौ प्रमाणाभावान्न नित्यानामकरणनि- मित्तप्रत्यवायपरिहारकत्वम्, अपि तु उपात्तदुरित- क्षयज्ञापकं नित्यानामकरणम्, इति स्वमतप्रदर्शन- पूर्वकमयत्नतो मोक्ष इति पक्षखण्डनोपसंहारः स्वर्गसाधनस्यैव मोक्षसाधनत्वमिति पक्षमनूद्य मोक्षस्य नित्यत्वाभ्युपगमेन परिहार: विद्यासहितकर्मणां नित्यारम्भसामर्थ्य माशङ्क्य, विरो- धात्तन्निरसनम् प्रध्वंसाभावदृष्टान्तेन नित्यारम्भसंभवमुद्भाव्य, प्रध्वंसा- भावस्य कार्यत्वमभ्युपगम्य तद्भिन्नत्व विशेषणेन व्यु- दास: ** प्रध्वंसाभावस्य कार्यत्वं न संभवतीति सप्रपञ्चं समर्थनम् विद्याकर्मकर्तृनित्यत्वात् साधनसांतत्येन साध्यसांतत्यश- ङ्कां कर्तृत्वस्यानुपरमे उपरमे वा अभिमतार्थासि- दया समुन्मूल्य, परमात्मज्ञानादेव मोक्ष इति तद- र्थमुपनिषदारम्भः साधुरेवेति वर्णनम् उपनिषच्छब्दार्थव्युत्पादनम् [ ३ ] विद्याश्रवणधारणादीनामप्रतिबन्धाय अध्यात्मप्राणाद्य- भिमानिमित्त्रादिदेवतानां सुखकृत्त्वप्रार्थनम् . ब्रह्म विविदिषुणा वाय्वाख्यब्रह्मविषयाणां नमस्कारवद- नसंरक्षणप्रार्थनक्रियाणां ब्रह्मविद्योपसर्गशान्त्यर्थे करणम् १२ शान्तिः शान्तिरिति त्रिवारपाठस्त्रिविधविद्याप्राप्त्युपस. र्गप्रशमनार्थः अर्थज्ञानप्रधानोपनिषदि स्वरवर्णादिष्वप्रमादाय शीक्षा- ध्यायारम्भः शीक्षाशब्दव्युत्पत्तिपुरःसरं तदर्थविवरणम् शीक्षाध्यायस्थ शिक्षितव्यविषयाः स्वरवर्णादयः ... शिष्येण स्वस्याचार्यस्य च वक्ष्यमाणसंहितोपासनपरि- " ज्ञाननिमित्तयशआदिप्रार्थनम् 'अथातः संहितायाः' इत्यत्राथातः शब्दार्थविवरणम् लोकादिविषयाः पञ्च संहितोपासनाः तासां महासंहितात्वव्युत्पादनम् ... 'अथाधिलोकम् ' ' अथाधिज्यौतिषम् इत्यादावथ- शब्दस्य क्रमार्थत्वम् संहितापूर्ववर्णादिषु पृथिव्यादिदृष्टिरिति लोकविषयसं- हितोपासनप्रकारः अस्य प्रकारस्य ज्योतिरादिविषयेषूपासनेषु समानत्वम् अत्रत्यवेदेत्यस्योपासनार्थत्वप्रपञ्चनपुरःसरमुपासनशब्दा- व्युत्पादनम् [ ४ ] प्रकृतोपासनफलविध्यर्थोपपादनम् ... मेधाकामस्य ' यश्छन्दसाम्' इत्यादिमन्त्रजपविधानं परंपरया विद्योपयोगार्थम् ... 'ओंकारम् ' यश्छन्दसामृषभः । इत्यादिना स्तुत्वा 'स मेन्द्र:' इत्यादिना मेधादीनां प्रार्थनमिति मन्त्रार्थः श्रीकामस्य 'आवहन्ती वितन्वाना' इत्यादिमन्त्रैर्होम- विधानम् ओंकारं प्रत्येव ' आवहन्ती वितन्वाना' इत्यादिना श्री- प्रभृतीनां प्रार्थनमिति मन्त्रार्थः विद्याप्रकरणे श्रीकामाद्युपन्यास: परंपरया विद्योपयोगार्थः वृत्तानुवादपूर्वकमुत्तरानुवाकस्य संबन्धकथनम् मह इति चतुर्थव्याहृतौ माहाचमस्यविदितत्व पूर्वकं ब्र- दृष्टिविधानम् लोकाद्यात्मक भूरादीतरव्याहृतीनां महात्मकब्रह्मावयव- त्वमुपपाद्य तासु एतल्लोकादिदृष्टिविधानम् एकैकव्याहृतीनां चतुष्प्रकारमुपासनम् ... پر پر वक्ष्यमाणानुव।केनास्यैकवाक्यतामुपपाद्य हृदयान्तरुपल- भ्यत्वमनामयत्वादिविशिष्टब्रह्मण एतदुपासनमिति सूचनार्थत्वम् ' स वेद ब्रह्म' इति संदर्भस्य वृत्तानुवादपूर्वकमुत्तरानुवाकसंबन्धवर्णनम् ... प्रकृतोपास्यब्रह्मणो यथावदुपलब्ध्यर्थमुपासनार्थं च स्था- नविशेषप्रदर्शनपूर्वकस्वरूपप्रदर्शनम् [4] प्रतिपादित स्वरूपप्रतिपत्तये मार्गविशेषप्रदर्शनम् उक्तमार्गेण प्रतिपन्नब्रह्मणः पुरुषस्य स्वाराज्यादिफल- विशेषप्रदर्शनम् अस्मिन्नुपासने आदरार्थम् ' प्राचीनयोग्योपास्स्व' इत्या- चार्योक्तिप्रदर्शनम् प्रकृतस्य ब्रह्मणो हिरण्यगर्भस्य पृथिव्यादिपाङ्करूपेणोपा- सनं तत्फलविशेषश्च ..वृत्तानुवादपुरःसरमुत्तरानुवाकावतरणम् शब्दमात्र विषयस्यापि ओंकारोपासनस्य प्रतिमादौ वि- ष्ण्वाद्युपासनस्येव फलप्रदानसामर्थ्यसंभवः *** ... * ओंकारे ब्रह्मसादृश्यवर्णनपुरःसरं ब्रह्मदृष्टिविधानम् 'ओमित्येतदनुकृति ...' इत्यादिना प्रकृतोंकारस्तुति: व्यवहितव्याहृत्यनुवाकेनोत्तरानुवाकसंबन्धकथनम् केवलं विज्ञानेनैव स्वाराज्यादिफलस्योक्तत्वाच्छ्रौतस्मार्त- कर्मणामानर्थक्यमाशङ्कय तेषामपि पुरुषार्थे प्रति साधनत्वसत्त्वात्तान्यवश्यानुष्ठेयानि ... पुनः पुनः 'स्वाध्यायप्रवचने च' इति ग्रहणस्य तयोर्य- नत अनुष्ठेयत्वसिद्धिदर्शनम् उक्तानामपि सत्यतपः प्रभृतीनामादरार्थ राथीतराद्या- चार्यग्रहणेन प्रदर्शनम् ... " अहं वृक्षस्य ' इत्यादिमन्त्रस्य ब्रह्मविद्याप्राप्त्यर्थे जपा- र्थत्वेन विधानम् ".. [ ६ ] अस्य मन्त्रस्य ब्रह्मविदो ब्रह्मभूतस्य त्रिशङ्कुमहर्षेर्वेदानु वचनत्वप्रदर्शनंम् ... ... वेदग्रहणानन्तरमाचार्येण शिष्यं प्रत्यनुशासनात्पूर्वोपचि- तदुरितक्षयद्वारेणावश्यानुष्ठेयानि नित्यनैमित्तिकानी- त्युत्तरानुवाकतात्पर्यार्थः ' सत्यं वद' इत्याद्यनुष्ठेयधर्माणां प्रपञ्चनम् आचार्येषु विद्यमानसुचरितानामेव ग्रहणं न तद्भिन्ना- नामित्याद्युपन्यासः उक्तोपदेशस्य वेदरहस्यार्थत्वादिप्रतिपादनम् उक्तोपनिषत्सिद्धान्तितार्थ विचारमुखेन दृढीकर्तुं विचा- रारम्भः . विदुष एव कर्मस्वधिकारदर्शनात्कर्मभ्य एव केवलेभ्यो मोक्ष इति पक्षमुद्भाव्य, नित्यत्वान्मोक्षस्य कर्माङ्ग- ज्ञानस्य ब्रह्मविद्यायाश्चात्यन्तविलक्षणत्वादित्यादियु- क्तिभिस्तद्वयपोहः विद्योपसर्जनेभ्यः कर्मभ्यः स्यान्मोक्ष इति पक्षमुत्थाप्य नित्यस्यारभ्यत्वानुपपत्तिरिति तन्निरसनम् र ... . विद्याकर्मणोः समुच्चितयोः स्यान्मोक्षसाधनत्वमिति श- ङ्कामुद्भाव्य विरुद्धधर्मवत्कर्तृकयोस्तयोः समुच्चयासं- भव इत्यादियुक्तिभिस्तन्निरसनम् कर्मबोधकश्रुतीनां गतिप्रदर्शनम् कर्मोपसर्जन विद्यातः मोक्ष इत्याशङ्कय विरोधादियुक्ति- भिस्तद्वयुदासः [ ७ ] कर्मणामुपयोगप्रदर्शनम् गृहस्थेतराश्रमाणामानर्थक्यमाशङ्कय इतराश्रमप्रसिद्ध- ब्रह्मचर्यादिश्रवणानुरोधेन तेषामपि विद्यायां परं- परयोपयोग इत्यादियुक्तिभिस्तत्सार्थक्यम् श्रुतीनां कर्मस्वधिकयत्नस्य प्रयोजनप्रदर्शनम् केवलविद्ययैव परं श्रेय इत्युपसंहारः अतीतविद्याप्राप्त्युपसर्गप्रशमनार्थमुत्तरशान्तिपाठस्तदर्थस्य च व्याख्यातत्वम् ब्रह्मानन्दवल्ली ५५-१२२ शिष्यस्य वक्ष्यमाणपरविद्याविघ्नप्रशमनाय स्वस्याचार्यस्य च सामर्थ्यादिप्रार्थनम् वृत्तानुवादपूर्वकं ब्रह्मानन्दवलीतात्पर्यार्थस्य संक्षेपेण कथनम् परविद्याश्रवणादिप्रवृत्तिसिद्ध्यर्थं परविद्याया अज्ञाननि- वक्ष्यमाणलक्षणं ब्रह्म यो वेत्ति तस्य परब्रह्मप्राप्ति- वृत्तिः प्रयोजनमिति सप्रपञ्चं प्रदर्शनम् रिति सूत्ररूपप्रथमवाक्यार्थप्रदर्शनम् आप्नोतिशब्दस्य मुख्यार्थपरिग्रहे बाधकमुपन्यस्य दर्शना- र्थत्वाङ्गीकारेण प्रकृतवाक्यार्थस्य सदृष्टान्तमुपन्यासः. [2] ... प्रथमवाक्येन सूत्रितस्यानिर्धारित स्वरूपविशेषब्रह्मणो ल- क्षणादिप्रदर्शनार्थ उत्तरसंदर्भ इत्यवतारणम् 'सत्यं ज्ञानम्' इति सत्यादिपदानामेकविभक्त्यन्तत्वेन विशेषणविशेष्यभावावगमाद्वेद्यब्रह्म विशेषणार्थत्वप्रद- र्शनम् .** एकस्मिन्वस्तुनि विशेषणान्तरायोगात्कथमेषां विशेषण- विशेष्यभाव इत्याक्षिप्य लक्षणार्थत्वादेषां पदानां लक्षणविशेषणयोश्च वैलक्षण्यादिति तत्समाधानम्... पुनर्विशेषणविशेष्यभावपक्षमवलम्ब्य सत्यादिपदार्थव्या- ख्यानपूर्वकं तेषां पदानां प्रत्येकं व्यवच्छेद्य प्रदर्शनम् .' नान्यद्विजानाति' इति विशेषप्रतिषेधात्स्वात्मज्ञातृत्व- मुपक्षिय ब्रह्मणोऽपि ज्ञेयत्वे ज्ञात्रन्तराभावप्रसङ्गा- दिभिस्तन्निरस्य ज्ञानशब्दस्य भावव्युत्पत्तिकत्वस- मर्थनम् सत्यादिपदानां व्यावृत्त्यर्थत्वे ब्रह्मणश्चाप्रसिद्धत्वाच्छू- न्यार्थमेव सत्यादिवाक्यमित्याशङ्क्यैषां पदानां स्वा र्थसमर्पणद्वारैव व्यावृत्त्यर्थत्वाद्ब्रह्मशब्दस्य च स्वार्थे- नैवार्थवत्त्वादिति तत्परिहारः ब्रह्मात्मैक्ये शास्त्रतात्पर्यमुक्त्वा तदा आत्मनो ज्ञातृत्वप्र- सिद्ध्या ज्ञानपदस्य भावव्युत्पत्तिकत्वहान्याशङ्कापूर्व- कमौपाधिकमेव ज्ञातृत्वमित्यादिना तत्समर्थनम् ज्ञानस्य नित्यत्वेऽपि सर्वज्ञत्वोपपत्तिसमर्थनम् ... [S] सत्यज्ञानादिशब्दानां लक्षणावृत्त्या ब्रह्मलक्षकत्वोपन्यासः व्याख्यातस्य ब्रह्मणः हार्दाकाशस्थितगुहायां वेदनप्रकार- मुक्त्वा तस्य वेदितुर्ब्रह्मभूतस्य सर्वज्ञब्रह्मस्वरूपेण युगपत्सर्वकामानुभवः, इत्युपचारोक्त्या अद्वितीय- स्वात्मानन्दानुभवरूपफलप्रदर्शनम् ... ' तस्माद्वा' इत्याद्युत्तरग्रन्थावतारणाय वृत्तानुवादपुर:- सरमनन्तपदार्थभूतत्रिविधपरिच्छेदराहित्यस्य वक्ष्य- माणसृष्टिवाक्यतात्पर्यविषयस्य सप्रपञ्चं प्रदर्शनम्.... ' तस्माद्वा' इत्यादिसृष्टिवाक्यस्य पदश: अर्थविवरणम् 'स वा एष पुरुष:' इति पुरुषग्रहणस्य तात्पर्यविवरणम् तस्य च पुरुषस्य विद्ययान्तरतमब्रह्मसंक्रमणस्येह विव- क्षितत्वाद्वाह्यविशेषेषु प्रतिपन्नात्मभावस्य झटित्या - न्तरतमप्रवर्तनमशक्यमिति प्रतिपत्तिसौकर्यांय कोश- पञ्चकोपन्यास इति तात्पर्यवर्णनम् ... प्राथमिकान्नमयकोशमुपन्यस्य तस्य सर्वभूतकारणत्वा- दिलिङ्गप्रदर्शनपूर्वकमन्नं ब्रह्मेति विजानतः सर्वान्न- प्राप्तिफलप्रदर्शनम् एवमन्नमयादभ्यन्तरप्राणमयकोशोपन्यासः एवं क्रमेण मनोमयादिकोशोपन्यासः ततोऽप्यभ्यन्तरस्यानन्दमयकोशस्याब्रह्मत्वं सप्रपञ्चमु- क्त्वा तदीयपुच्छमिव प्रतिपाद्यमानस्य ब्रह्मणः प्र- कृतस्येह प्राधान्येन प्रतिपादनम् [१०] ब्रह्मणोऽसत्त्वशङ्कामुद्भाव्यासद्रूपेण वेदन निरसनपूर्वकं स- दिति प्रतिपत्तव्यत्वम् **** किं विद्वानेव ब्रह्म प्राप्नोति, उताविद्वानपीत्यादिप्रश्नप्र- दर्शनपूर्वकं तत्समाधानतया ब्रह्म सद्रूपमेवेत्यादिप्रद- र्शनम् ब्रह्मणोऽचेतनत्वशङ्काव्यावृत्त्यर्थे स्वतन्त्रकामयितृत्वापन्या- सपूर्वकजगत्सृष्टयुपन्यास: प्रवेशवाक्यस्य तात्पर्य दर्शयितुं विस्तरेण विचारमुपक्र- म्य मतान्तरप्रदर्शनपुरःसरं प्रकृतान्त: करणगुहानिहि- तत्वमेव प्रवेश इति समर्थनम् मूर्तीमूर्तसर्वविकारजातं सदात्मकं ब्रह्माभवदिति प्रदर्श्य सद्रूपमेव ब्रह्मेति प्रकृतप्रश्नप्रतिवचनत्वेन निगमनम् ब्रह्मणः सुकृतत्वरसरूपत्वादिनास्तित्वप्रदर्शन म् वातादीनां स्वस्वकार्येषु भयपूर्वक नियतप्रवृत्त्या तत्प्रव- र्तकत्वाद्ब्रह्मास्तित्वम् *** ... साधनसंपत्तिनिमित्तस्य सार्वभौमानन्दप्रभृतिहिरण्यग- र्भानन्दपर्यन्तस्यानन्दस्योत्तरोत्तरोत्कर्षप्रतिपादनेन ब्र- ह्मानन्दस्य निरतिशयसर्वोत्कृष्टत्वप्रतिपादनम् उपक्रान्तब्रह्मात्मैक्यस्योपसंहारः विद्वदविदुषोः प्राप्त्यप्राप्तिविषयप्रश्नव्याख्यारम्भः ... ... सप्रपञ्चमुपसंक्रमणशब्दार्थविचारपूर्वकं ब्रह्मस्वरूपविज्ञा- नमेवोपसंक्रमणमिति समर्थनम् [ ११ ] वाङ्मनसागोचरब्रह्मविज्ञानवतः कुतश्चन भयाभाव इति प्रकरणार्थ संक्षेपः पुण्याकरणपापक्रिये अविदुष इव विद्वांसं न तपत इति प्रदर्शनम् ब्रह्मानन्दवल्ल्यर्थोपसंहारः भृगुवल्ली ... १२३ – १५० वृत्तानुवादपूर्वकमुत्तरवल्लीसंबन्धकथनम् ब्रह्मजिज्ञासुना भृगुणा पृष्टेन वरुणेन ब्रह्मोपलब्धिसाध- नान्नादीनां ब्रहालक्षणस्य ब्रह्मणः प्रतिपत्तव्यत्वस्य च उपदेशः ... एवमुपदिष्टस्य भृगोस्तपोऽनुष्ठानमहिम्नान्नं ब्रह्मेति ज्ञान- मुपदिश्य पुनः पितरमागत्य प्रष्टुः तपसैव ब्रह्म वि जिज्ञासस्वेति प्रतिवचनम् ... एवं क्रमेण भृगोस्तपसैव ब्रह्मज्ञानसंपत्त्या ब्रह्मजिज्ञासो- स्तपसोऽवश्यानुष्ठेयत्वम् एवमुपदिष्टब्रह्मविद्याया ब्रह्मभावापच्त्यादिफलम् ... साधकस्यानुष्ठानार्थं ब्रह्मविदो नियममभिधायान्नान्नाद- रूपेण प्राणाद्युपासनं तत्फलं च पृथिव्याकाशोपासकस्य बह्वन्नसंग्रहमुक्त्वान्नदानस्य मा- हात्म्यकथनम् वागादिषु ब्रह्मोपासनानि तत्फलानि च [ १२ ] एवमध्यारोपमुक्त्वा श्रुत्युपपत्त्यादिना ब्रह्मणोऽसंसारि- त्वमेकत्वं चेत्यपवादप्रदर्शनम् ब्रह्मैकत्वविज्ञानवतोऽन्नमयादिक्रमेणानन्दमयोपसंक्रमण- पूर्वकं ब्रह्मज्ञानफलीभूतकृतार्थताख्यापनाय सर्वात्म- कब्रह्मरूपसामगानप्रदर्शनम् वल्लीद्वयतात्पर्यार्थनिगमनम् ... 100 مل । शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्र- मः । नमो ब्रह्मणे । नमस्ते वा- यो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदि- ष्यामि । तन्मामवतु तद्वक्तार- मवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ श्री १०८ ईश्वर मठ पुस्तकालय, उउछु भवन, अर तैत्तिरीयोपनिषद्भाष्यम् शीक्षावल्ली पुस्तकालय, भवन, भर, काशी • श्री १०८ ईश्वर मठ ॥ तैत्तिरीयोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । -.- ॥ ॐ नमः परमात्मने ॥ यस्माज्जातं जगत्सर्वं यस्मिन्नेव प्रलीयते । येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥ यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः । व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥ तैत्तिरीयकसारस्य मयाचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥ ३ ॥ नि शीक्षावल्ली ॥ त्यान्यधिगतानि कर्माणि उपा- तदुरितक्षयार्थानि काम्यानि च फलार्थिनां पूर्वस्मिन्प्रन्थे । इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूयते । कर्महेतुः कामः स्यात्, प्रवर्तकत्वात् । आप्तकामानां हि कामा- भावे स्वात्मन्यवस्थानात्प्रवृत्त्यनुपपत्तिः । आत्मकामत्वे चाप्त- कामता । आत्मा च त्रह्म । तद्विदो हि परप्राप्तिं वक्ष्यति । अत: अविद्यानिवृत्तौ स्वात्मन्यवस्थानं परप्राप्तिः, ' अभयं प्रतिष्ठां विन्दते ' ' एतमानन्दमयमात्मानमुपसंक्रामति' इत्या- दिश्रुतेः । काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च उपभो- गेन क्षयात् नित्यानुष्ठानेन च प्रत्यवायाभावात् अयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा, निरतिशयायाः प्रीतेः स्वर्ग- शब्दवाच्याया कर्महेतुत्वात्कर्मभ्य एव मोक्ष इति चेत्, न; कर्मानेकत्वात् । अनेकानि हि आरब्धफलानि अनारब्धफलानि च अनेकजन्मान्तरकृतानि विरुद्धफलानि कर्माणि संभवन्ति । शीक्षावल्ली । ,, अतः तेष्वनारब्धफलानामेकस्मिञ्जन्मन्युपभोगेन क्षयासं- भवात् शेषकर्मनिमित्तशरीरारम्भोपपत्तिः । कर्मशेषसद्भाव- सिद्धिश्च तद्य इह रमणीयचरणाः ' ततः शेषेण' इत्यादि- श्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानि इति चेत्, न; अकरणे प्रत्यवायश्रवणात् । प्रत्यवा- यशब्दो हि अनिष्टविषयः । नित्याकरणनिमित्तस्य प्रत्यवाय- स्य दुःखरूपस्य आगामिनः परिहारार्थानि नित्यानीत्यभ्युपग- मात् न अनारब्धफलकर्मक्षयार्थानि । यदि नाम अनारब्ध- फलकर्मक्षयार्थानि नित्यानि कर्माणि, तथाप्यशुद्धमेव क्षप येयुः ; न शुद्धम्, विरोधाभावात् । न हि इष्टफलस्य कर्मण: शुद्धरूपत्वान्नित्यैर्विरोध उपपद्यते । शुद्धाशुद्धयोर्हि विरोधो यु- क्तः । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसंभवाद- शेषकर्मक्षयोपपत्तिः । अनात्मविदो हि काम:, अनात्मफल- विषयत्वात् । स्वात्मनि च कामानुपपत्तिः, नित्यप्राप्तत्वात् । स्वयं चात्मा परं ब्रह्मेत्युक्तम् । नित्यानां च अकरणमभावः ततः प्रत्यवायानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्रा- प्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति शतृ- प्रत्ययस्य नानुपपत्ति:- :- अकुर्वन्विहितं कर्म' इति । अन्य- था हि अभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । । तैत्तिरीयोपनिषद्भाष्ये ' अतः अयन्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । यत्रोक्तं नि- रतिशयप्रीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कर्मारभ्य एव मोक्ष इति, तन्न; नित्यत्वान्मोक्षस्य । न हि नित्यं किंचिदारभ्यते, लोके यदारब्धम्, तदनित्यमिति । अतो न कर्मारभ्यो मोक्षः । विद्यासहितानां कर्मणां नित्यारम्भसाम- र्थ्यमिति चेत्, न ; विरोधात् । नित्यं चारभ्यत इति विरु- द्धम् । यद्धि नष्टम्, तदेव नोत्पद्यत इति प्रध्वंसाभाववन्नि- त्योऽपि मोक्ष आरभ्य एवेति चेन् न ; मोक्षस्य भावरूप- त्वात् । प्रध्वंसाभावोऽप्यारभ्यत इति न संभवति; अभा- वस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी ह्य- भावः । यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते भिन्न इव घटभाव: पटभाव इति, एवं निर्विशेषोऽप्यभावः क्रियागुणयोगाद्द्रव्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादि- वद्विशेषणसहभावी । विशेषणवत्त्वे भाव एव स्यात् । विद्याक- र्मकर्तुर्नित्यत्वात् विद्याकर्मसंतानजनितमोक्षनित्यत्वमिति चेत्, न; गङ्गास्रोतोवत्कर्तृत्वस्य दुःखरूपत्वात्, कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्मादविद्याकामकर्मोपादानहेतुनिवृत्तौ स्वा- त्मन्यवस्थानं मोक्ष इति । स्वयं चात्मा ब्रह्म । तद्विज्ञाना- दवियानिवृत्तिरिति । अतः ब्रह्मविद्यार्थोपनिषदारभ्यते । उप- - शीक्षावल्ली 1 निषदिति विद्योच्यते, तत्सेविनां गर्भजन्मजरादिनिशातनात्, तदवसादनाद्वा ब्रह्मण उपनिगमयितृत्वात्; उपनिषण्णं वा अस्यां परं श्रेय इति । तदर्थत्वाग्रन्थोऽप्युपनिषत् ॥ . ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्माम- वतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥ इति प्रथमोऽनुवाकः ॥ : शं सुखं प्राणवृत्तेरहृश्चाभिमानी देवतात्मा मित्रः नः अस्माकं भवतु । तथैव अपानवृत्तेः रात्रेश्चाभिमानी देव- तात्मा वरुणः ; चक्षुषि आदित्ये चाभिमानी अर्यमा ; ब इन्द्रः ; वाचि बुद्धौ च बृहस्पतिः ; विष्णुः उरुक्रमः विस्तीर्ण- क्रमः पादयोरभिमानी; एवमाद्या अध्यात्मदेवताः शं नः ; तैत्तिरीयोपनिषद्धाप्ये भवतु इति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवण- धारणोपयोगाः अप्रतिबन्धेन भविष्यन्तीति तत्सुखकृत्त्वं प्रार्थ्यते - शं नो भवतु इति । ब्रह्मविद्याविविदिषुणा नम- स्कारब्रह्मवदनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थे क्रि- येते— सर्वत्र क्रियाफलानां तदधीनत्वात् । ब्रह्म वायुः, तस्मै ब्रह्मणे नमः प्रह्वीभावम्, करोमीति वाक्यशेषः । नमः ते तुभ्यं हे वायो नमस्करोमि इति परोक्षप्रत्यक्षाभ्यां वायुरेवा- भिधीयते । किं च त्वमेव चक्षुराद्यपेक्ष्य बाह्यं संनिकृष्टम- व्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात्, तस्मात् त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि; ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुप- रिनिश्चितमर्थं त्वदधीनत्वात् त्वामेव वदिष्यामि; सत्यमिति स एव वाक्कायाभ्यां संपाद्यमानः, सोऽपि त्वदधीन एव संपाद्यत इति त्वामेव सत्यं वदिष्यामि । तत् सर्वात्मकं वाय्वाख्यं ब्रह्म मयैवं स्तुतं सत् विद्यार्थिनं माम् अवतु विद्यासंयोजनेन । तदेव ब्रह्म वक्तारम् आचार्य च वक्तृत्व- सामर्थ्य संयोजनेन अवतु । अवतु माम् अवतु वक्तारम् इति पुनर्वचनमादरार्थम् । शान्तिः शान्तिः शान्तिः इति त्रिर्वचनम् आध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्यु- पसर्गाणां प्रशमनार्थम् ॥ इति प्रथमानुवाकभाष्यम् ॥ द्वितीयोऽनुवाकः ॥ अर्थज्ञानप्रधानत्वादुपनिषदः प्रन्थपाठे यत्नोपरमो मा भू- दिति शीक्षाध्याय आरभ्यते-- शीक्षां व्याख्यास्यामः । वर्णः स्व- रः । मात्रा बलम् । साम संतानः । इत्यु- क्तः शीक्षाध्यायः ॥ १ ॥ इति द्वियीयोऽनुवाकः ॥ शिक्षा शिक्ष्यते अनयेति वर्णाद्युच्चारणलक्षणम् ; शिक्ष्य- न्ते अस्मिन् इति वा शिक्षा वर्णादयः । शिक्षैव शीक्षा । दै- यै छान्दसम् । तां शीक्षां व्याख्यास्यामः विस्पष्टम् आस- मन्तात्प्रकथयिष्यामः । चक्षिङ: ख्याञादिष्टस्य व्याङ्पूर्वस्य व्यक्तवाक्कर्मण एतद्रूपम् । तत्र वर्णः अकारादिः । स्वर उदा- त्तादि: । मात्रा हस्वाद्याः । बलं प्रयत्नविशेषः । साम वर्णा- नां मध्यमवृत्त्योच्चारणं समता । संतान: संततिः, संहितेत्य- र्थः । एवं शिक्षितव्योऽर्थः शिक्षा यस्मिन्नध्याये, सोऽयं शीक्षाध्यायः इति एवम् उक्तः उदितः । उक्त इत्युपसं-. हारार्थः ॥ इति द्वितीयानुवाकभाष्यम् ॥ तृतीयोऽनुवाकः ॥ सह नौ यशः । सह नौं ब्रह्मवर्च- सम् । अथातः सहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधि- लोकमधिज्यौतिषमधिविद्य मधिप्रजमध्या त्मम् । ता महासँहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरु- त्तररूपम् । आकाशः संधिः ॥ १ ॥ अधुना संहितोपनिषदुच्यते । तत्र संहिताद्युपनिषत्प- रिज्ञाननिमित्तं यत् यशः प्राप्यते, तत् नौ आवयोः शिष्या- चार्ययोः सहैव अस्तु । तन्निमित्तं च यत् ब्रह्मवर्चसं तेजः, तच्च सहैवास्तु इति शिष्यवचनमाशीः । शिष्यस्य हि अकृता- र्थत्वात्प्रार्थनोपपद्यते ; नाचार्यस्य, कृतार्थत्वात् । कृतार्थो ह्या- चार्यो नाम भवति । अथ अनन्तरम् अध्ययनलक्षणवि- धानस्य पूर्ववृत्तस्य, अतः यतोऽत्यर्थे ग्रन्थभाविता बुद्धिर्न शक्यते सहसार्थज्ञानविषये ऽवतारयितुमित्यतः, संहितायाः उपनिषदं संहिताविषयं दर्शनमित्येतत् ग्रन्थसंनिकृष्टामेव " 'शीक्षावल्ली । व्याख्यास्यामः पश्वसुं अधिकरणेषु आश्रयेषु, ज्ञानविष- येष्वित्यर्थः । कानि तानीत्याह-- अधिलोकं लोकेष्वधि यद्दर्शनम्, तदधिलोकम् ; तथा अधिज्यौतिषम् अधि- विद्यम् अधिप्रजम् अध्यात्ममिति । ताः एता: पश्च- विषया उपनिषदः लोकादिमहावस्तुविषयत्वात्संहिताविषय- त्वाच्च महत्यश्च ताः संहिताश्च महासंहिताः इति आचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्तानां मध्ये अधि- लोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थः अथशब्दः सर्वत्र । पृथिवी पूर्वरूपम्, पूर्वो वर्ण: पूर्वरूपम्, संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा द्यौः उत्तररू- पम् । आकाश: अन्तरिक्षलोकः संधिः मध्यं पूर्वोत्तररूपयोः संधीयते अस्मिन्पूर्वोत्तररूपे इति ॥ वायुः संधानम् । इत्यधिलोकम् । अ- थाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आ- दित्य उत्तररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम् । अथाधि- विद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥ अन्तेवास्युत्तररूपम् । विद्या संधिः तैत्तिरीयोपनिषद्भाष्ये प्रवचनँ संधानम् । इत्यधिविद्यम् । अ- धाधिप्रजम् । माता पूर्वरूपम् । पितोत्तर- रूपम् । प्रजा संधिः । प्रजनन‍ संधानम् । इत्यधिप्रजम् ॥ ३ ॥ अथाध्यात्मम् । अधरा हनुः पूर्वरू- पम् । उत्तरा हनुरुत्तररूपम् । वाक्संधिः । जिह्वा संधानम् । इत्यध्यात्मम् । इतीमा महासँहिताः । य एवमेता महासहि- ता व्याख्याता वेद । संघीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ ४ ॥ इति तृतीयोऽनुवाकः ॥ वायुः संधानम् । संधीयते अनेनेति संधानम् । इति अधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषम् इत्यादि समा- नम् । इतीमा इति उक्ता उपप्रदर्श्यन्ते । यः कश्चित् एवम् एता: महासंहिताः व्याख्याता: वेद उपास्ते; वेदेत्युपासनं स्यात्, विज्ञानाधिकारात्, 'इति प्राचीनयोग्योपास्स्व' इति शीक्षावल्ली । " च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्यय संततिरसं- कीर्णा च अतत्प्रत्ययैः शास्त्रोक्त्तालम्बनविषया च । प्रसिद्ध- श्रोपासनशब्दार्थो लोके 'गुरुमुपास्ते 'राजानमुपास्ते ' इति । यो हि गुर्वादीन्संततमुपचरति, म उपास्त इत्यु- च्यते । स च फलमाप्नोत्युपासनस्य । अतः अत्रापि य एवं वेद, संधीयते प्रजादिभिः स्वर्गान्तैः । प्रजादिफलं प्राप्नो- तीत्यर्थः : 11 इति तृतीयानुवाकभाष्यम् ॥ • U. III. 2 चतुर्थोऽनुवाकः ॥ यइछन्दसामृषभो विश्वरूपः । छन्दो- भ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूया- सम् । शरीरं से विचर्षणम् । जिह्वा से मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १ ॥ कुर्वाणाचीरमात्मनः । वासासि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः खाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमाय- न्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्म- चारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥ शीक्षावल्ली । · १९ यशो जनेऽसानि स्वाहा । श्रेयान् वय- सोऽसानि स्वाहा । तं त्वा भग प्रविशा- नि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथापः प्रवता यन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धात- रायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा पाहि प्र मा पद्यस्व ॥ ३ ॥ इति चतुर्थोऽनुवाकः ॥ यश्छन्दसामिति मेधाकामस्य श्रीकामस्य च तत्प्राप्ति- साधनं जपहोमावुच्येते, ' स मेन्द्रो मेधया स्पृणोतु' ' ततो मे श्रियमावह' इति च लिङ्गदर्शनात् । यः छन्दसां वेदा- नाम् ऋषभ इव ऋषभः, प्राधान्यात् । विश्वरूपः सर्वरूप:, सर्ववाग्व्याप्तेः 'तद्यथा शङ्कना सर्वाणि पर्णानि संतृण्णान्ये- वमोंकारेण सर्वा वाक्संतृणोंकार एवेदं सर्वम्', इत्यादि- श्रुत्यन्तरात् । अत एव ऋषभत्वमोंकारस्य । ओंकारो ह्यत्रोपास्य इति ऋषभादिशब्दैः स्तुतियय्यैव ओंकारस्य । छन्दोभ्यः तैत्तिरीयोपनिषद्भाष्ये 9 " वेदेभ्यः, वेदा ह्यमृतम्, तस्मात् अमृतात् अधि संब- भूव लोकदेववेदव्याहृतिभ्यः सारिष्ठं जिघृक्षोः प्रजापते- स्तपस्यत: ओंकारः सारिष्ठत्वेन प्रत्यभादित्यर्थः । न हि नित्यस्य ओंकारस्य अञ्जसैवोत्पत्तिरवकल्पते । सः एवंभूत ओंकारः इन्द्रः सर्वकामेशः परमेश्वरः मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु, बलयतु वा, प्रज्ञाबलं हि प्रार्ध्यते । अमृ- तस्य अमृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य, तदधिकारात्; हे देव धारण: धारयिता भूयासं भवेयम् । किं च शरीरं मे मम विचर्षणं विचक्षणं योग्यमित्येतत् भूयादिति प्रथमपुरुष- विपरिणाम: । जिह्वा मे मम मधुमत्तमा मधुमती, अति- शयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्राभ्यां भूरि बहु विश्रुवं त्र्यश्रवम्, श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकरणसंघातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते — ब्रह्मणः परमात्मनः कोश: असि असेवि; उप लब्ध्यधिष्ठानत्वात् ; त्वं हि ब्रह्मणः प्रतीकम; त्वयि ब्रह्मो- पलभ्यते । मेधया लौकिकप्रज्ञया पिहितः आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमा- त्मज्ञानादिकं विज्ञानं मे गोपाय रक्ष; तत्प्राप्त्यविस्मरणा- दिकं कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । श्रीका- - शीक्षावल्ली । · - मस्य होमार्थास्त्वधुनोच्यन्ते मन्वाः- आवहन्ती आनय- न्ती; वितन्वाना विस्तारयन्ती, तनोतेस्तत्कर्मकत्वात्; कु- र्वाणा निर्वर्तयन्ती अचीरम् अचिरं चिप्रमेव ; छान्दसो दीर्घः ; चिरं वा; कुर्वाणा, आत्मनः मम; किमित्याह- वासांसि वस्त्राणि, मम, गावश्च गाचेति यावत्; अन्नपाने च सर्वदा ; एवमादीनि कुर्वाणा श्रीर्या, तां ततः मेधानिर्व- र्तनात्परम् आवह आनय; अमेधसो हि श्रीरनर्थायैवेति । किंविशिष्टाम् ? लोमशाम अजाव्यादियुक्ताम् अन्यैश्व पशुभिः सह युक्ताम् आवहेति । अधिकारादोंकार एवाभिसंबध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आमाय- न्त्विति । आयन्तु, मामिति व्यवहितेन संबन्ध:, ब्रह्मचा- रिणः । विमायन्तु प्रमायन्तु दमायन्तु शमायन्तु इत्यादि । यशोजने यशस्विजनेषु असानि भवानि । श्रेयान् प्रशस्यतरः, वस्यसः वसीयसः वसुतराद्वसुमत्तराद्वा धनवज्जातीयपुरुषा- द्विशेषवानहमसानीत्यर्थः । किं च तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन् पूजार्ह, प्रविशानि । प्रविश्य चान- न्यस्त्वदात्मैव भवानीत्यर्थः । सः त्वमपि मा मां भग भगवन्, प्रविश; आवयोरेकात्मत्वमेवास्तु । तस्मिन् त्वयि सहस्रशाखे बहुशाखाभेदे हे भगवन, निमृजे शोधयामि । तैत्तिरीयोपनिषद्भाष्ये अहं 'पापकृत्याम् । यथा लोके आपः प्रवता प्रवणवता निम्न- वता देशेन यन्ति गच्छन्ति, यथा च मासा : अहर्जरम्, संवत्सरोऽहर्जर : अहोभिः परिवर्तमानो लोकाञ्जरयतीति; अहानि वा अस्मिन् जीर्यन्ति अन्तर्भवन्तीत्यहर्जरः; तं च यथा मासाः यन्ति, एवं मां ब्रह्मचारिण: हे धात: सर्वस्य विधातः, माम् आयन्तु आगच्छन्तु सर्वतः सर्वदि- ग्भ्यः । प्रतिवेशः श्रमापनयनस्थानम् आसन्नं गृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशः त्वच्छीलिनां सर्वपापदुःखापन- यनस्थानमसि । अतः मा मां प्रति प्रभाहि प्रकाशयात्मानम्, प्र मा पद्यस्व प्रपद्यस्त्र च माम् । रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणे अभिधी- यमानो धनार्थः ; धनं च कर्मार्थम् ; कर्म च उपात्तदुरित- क्षयार्थम् ; तत्क्षये हि विद्या प्रकाशते । तथा च स्मृति:- ' -- ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतले प्रख्ये पश्यत्यात्मानमात्मनि ' इति ॥ इति चतुर्थानुवाकभाष्यम् ॥ पञ्चमोऽनुवाकः ॥ भूर्भुवः सुवरिति वा एतास्तिस्रो व्या- हृतयः । तासामु ह स्मैतां चतुर्थीम् । माहा- चमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥ मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीष महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूँ- षि ॥२॥ मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । ध्रुव तैत्तिरीयोपनिषद्भाष्ये इत्यपानः । सुवरिति व्यानः । मह इत्यन्न- म् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्या- हृतयः । ता यो वेद । स वेद ब्रह्म । सर्वे- sस्मै देवा बलिमावहन्ति ॥ ३ ॥ इति पञ्चमोऽनुवाकः ॥ संहिताविषयमुपासनमुक्तम । तदनु मेधाकामस्य श्रीका- मस्य चानुक्रान्ता मन्त्राः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणः अन्तरुपासनं स्वारा- ज्यफलं प्रस्तूयते— भूर्भुवः सुवरिति । इतीत्युक्तोपप्रदर्श- नार्थः । एतास्तिस्र इति च प्रदर्शितानां परामर्शार्थः परामृ- ष्टाः स्मर्यन्ते वै इत्यनेन । तिस्र एताः प्रसिद्धा व्याहृतयः स्मर्यन्त इति यावत् । तासाम इयं चतुर्थी व्याहृतिर्मह इति ; तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते, उह स्म इत्येतेषां वृत्तानुकथनार्थत्वात् विदितवान् ददर्शे- त्यर्थः । माहाचमस्यग्रहणमाषनुस्मरणार्थम् । ऋष्यनुस्मरण- मप्युपासनाङ्गमिति गम्यते, इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृतिः मह इति, तत् ब्रह्म । महद्धि ब्रह्म ; महश्व यतः, शीक्षावल्ली । व्याहृतिः । किं पुनस्तत् ? स आत्मा, आप्नोतेर्व्याप्तिकर्मणः आत्मा ; इतराश्च व्याहृतयो लोका देवा वेदा: प्राणाश्च मह इत्यनेन व्याहृत्यात्मना आदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते अत अङ्गानि अवयवाः अन्याः देवताः । देवताग्रहण- मुपलक्षणार्थं लोकादीनाम् । मह इत्यस्य व्याहृत्यात्मनो देवा लोकादयश्च सर्वे अवयवभूता यतः, अत आह— आदि- त्यादिभिर्लोकादयो महीयन्त इति । आत्मना ह्यङ्गानि मही-. यन्ते । महनं वृद्धि: उपचयः । महीयन्ते वर्धन्त इत्यर्थः । अयं लोकः अग्निः ऋग्वेदः प्राण इति प्रथमा व्याहृति: भू : ; अन्तरिक्षं वायुः सामानि अपानः इति द्वितीया व्या- हृतिः भुवः ; असौ लोक: आदित्यः यजूषि व्यान: इति तृतीया व्याहृतिः सुवः ; आदित्यः चन्द्रमाः ब्रह्म अन्नम् इति चतुर्थी व्याहृतिः महः इत्येवम् एकैकाश्चतुर्धा भवन्ति । मह इति ब्रह्म ब्रह्मेत्योंकार:, शब्दाधिकारे अन्यस्यासंभवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वै एता: भूर्भुवः सुवर्मह इति चतस्रः एकैकशः चतुर्धा चतुः प्रकाराः । धा-शब्दः प्रकारवचन: । चतस्रश्चतस्रः सत्यः चतुर्धा भव- न्तीत्यर्थः । तासां यथाक्लृप्तानां पुनरुपदेशस्तथैवोपासननि- यमार्थः । ताः यथोक्ता व्याहृतीः यः वेद, स वेद विजा- २६. तैत्तिरीयोपनिषद्भाष्ये नाति । किं तत् ? ब्रह्म ' ननु, तद्ब्रह्म स आत्मा' इति ज्ञाते ब्रह्मणि, न वक्तव्यमविज्ञातवत् ' स वेद ब्रह्म' इति ; न; तद्विशेषविवक्षुत्वाददोषः । सत्यं विज्ञातं चतुर्थव्याहृत्या आत्मा ब्रह्मेति ; न तु तद्विशेष:- 11 हृदयान्तरुपलभ्यत्वं तद्विवक्षु हि शास्त्र- मनोमयत्वादिश्च । 'शान्तिसमृद्धम्' इत्येवमन्तो विशेषण- विशेषरूपो धर्मपूगो न विज्ञायत इति; मविज्ञातमिव ब्रह्म मत्वा 'स वेद ब्रह्म' इत्याह । अतो न दोषः । यो वा वक्ष्यमाणेन धर्मपूगेण विशिष्टं ब्रह्म वेद, स वेद ब्रह्म इत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यता अस्य, उभयोर्ह्यनुवाकयोरेकमुपासनम् । लिङ्गाच्च । 'भूरि- त्यग्नौ प्रतितिष्ठति' इत्यादिकं लिङ्गमुपासनैकत्वे । विधाय- काभावाच्च । न हि वेद उपासीत वेति विधायकः कश्चिच्छ- व्दोऽस्ति । व्याहृत्यनुवाके 'ता यो वेद' इति तु वक्ष्यमा- णार्थत्वान्नोपसनाभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविव- क्षुत्वादित्यादिनोक्तम् । सर्वे देवा: अस्मै एवंविदुषे अङ्ग- भूताः आवहन्ति आनयन्ति बलिम्, स्वाराज्यप्राप्तौ सत्या- मित्यर्थः ॥ इति पञ्चमानुवाकभाष्यम् ॥ षष्ठोऽनुवाकः ॥ स य एषोऽन्तर्हृदय आकाशः । तस्मि- न्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवाव- लम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥ 1 सुवरित्यादित्ये । मह इति ब्रह्मणि । . आप्नोति स्वाराज्यम् । आप्नोति मनसस्प- तिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपति- विज्ञानपतिः । एतत्ततो भवति । आका- शशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥ इति षष्ठोऽनुवाकः ॥ तैत्तिरीयोपनिषद्भाष्ये भूर्भुवः सुव: स्वरूपा मह इत्येतस्य हिरण्यगर्भस्य व्या- हृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूताः, तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थे च हृदयाकाश: स्थानमुच्यते, सालग्राम इव विष्णोः । तस्मिन्हि तद्ब्रह्म उपास्यमानं मनोमयत्वादिधर्मविशिष्टं सा- क्षादुपलभ्यते, पाणाविवामलकम् । मार्गश्च सर्वात्मभाव- प्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते—म इति व्युत्क्रम्य अयं पुरुष इत्यनेन संबध्यते । य एष अन्तर्हृदये हृदय- स्यान्तः । हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणाय- तनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तः य एष आकाश: प्रसिद्ध एव करकाकाशवत्, तस्मिन सोऽयं पुरुषः, पुरि शयनात् ; पूर्णा वा भूरादयो लोका येनेति पुरुषः मनोमय:, मनः विज्ञानं मनुतेर्ज्ञानकर्मणः, तन्मयः तत्प्रायः, तदुपलभ्य- त्वात् । मनुते अनेनेति वा मनः अन्तःकरणम् ; तदभि- मानी तन्मयः, तल्लिङ्गो वा । अमृतः अमरणधर्मा । हिर- ण्मयः ज्योतिर्मयः । तस्यैवंलक्षणस्य हृदयाकाशे साक्षात्कृ- तस्य विदुष आत्मभूतस्य ईश्वररूपस्य प्रतिपत्तये मार्गोऽभि- धीयते - हृदयादूर्ध्वे प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु शीक्षावल्ली । प्रसिद्धा । सा च अन्तरेण तालुके मध्ये तालुकयोर्गता । यश्व एष तालुकयोर्मध्ये स्तन इव अवलम्बते मांसखण्डः, तस्य च अन्तरेण इत्येतत् । यत्र च असौ केशान्तः केशा- नामन्तो मूलं केशान्तः विवर्तते विभागेन वर्तत, मूर्धप्रदेश इत्यर्थः ; तं देशं प्राप्य तेनान्तरेण व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले, विनिर्गता या, सा इन्द्रयोनिः इन्द्रस्य ब्रह्मण: योनिः मार्गः, स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तथा एवं विद्वान्मनोमयात्मदर्शी मूर्ध्ना विनिष्क्रम्य अस्य लोकस्याधिष्ठाता भूरिति व्याहृतिरूपो योऽग्निः महतो ब्रह्म- णोऽङ्गभूतः, तस्मिन अग्नौ प्रतितिष्ठति, अग्न्यात्मना इमं लोकं व्याप्नोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ, प्रतितिष्ठतीत्यनुवर्तते । सुवरिति तृतीय व्याहृत्यात्मनि आदित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्यात्मनि ब्रह्मणि प्रति- तिष्ठतीति । तेष्वात्मभावेन स्थित्वा आप्नोति ब्रह्मभूतं स्वा- राज्यं स्वराड्भावं स्वयमेव राजा अधिपतिर्भवति अङ्गभू- तानां देवतानां यथा ब्रह्म ; देवाश्च सर्वे अस्मै अङ्गिने बलि- मावहन्ति अङ्गभूताः यथा ब्रह्मणे । आप्नोति मनसस्पतिम्, सर्वेषां हि मनसां पतिः, सर्वात्मकत्वाद्ब्रह्मणः सर्वैर्हि मनोभि- स्तन्मनुते । तदाप्नोत्येवं विद्वान । किं च, वाक्पतिः सर्वासां । तैत्तिरीयोपनिषद्भाष्ये वाचां पतिर्भवति । तथैव चक्षुष्पतिः चक्षुषां पतिः । श्रोत्र- पति: श्रोत्राणां च पतिः । विज्ञानपतिः विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किं च, ततोऽपि अधिकतरम् एतत् भवति । किं तत् ? उच्यते— आकाशशरीरम् आकाशः शरीरमस्य, आकाशवद्वा सूक्ष्मं शरीरमस्येत्याकाशशरीरम् । किं तत् ? प्रकृतं ब्रह्म । सत्यात्न, सत्यं मूर्तीमूर्तम् अवितथं स्वरूपं वा आत्मा स्वभावोऽस्य, तदिदं सत्यात्म । प्राणारामम्, प्राणेष्वारमणसाक्रीडा यस्य तत्प्राणारामम् ; प्राणानां वा आरामो यस्मिन् तत्प्राणारा- मम् । मन आनन्दम्, आनन्दभूतं सुखकृदेव यस्य मनः, तन्मन आनन्दम् । शान्तिसमृद्धम्, शान्तिरुपशमः, शा- न्तिश्च तत्समृद्धं च शान्तिसमृद्धम; शान्त्या वा समृद्धवत्त- दुपलभ्यत इति शान्तिसमृद्धम् । अमृतम् अमरणधर्मि; एतच्चाधिकरणविशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व इत्याचार्यवचनोक्तिरादरार्था । उक्तस्तूपासनाश- व्दार्थः ॥ इति षष्ठानुवाकभाष्यम् ॥ , सप्तमोऽनुवाकः ॥ पृथिव्यन्तरिक्षं ग्रौर्दिशोऽवान्तरदिशः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आ- प ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनोवाक् त्वक् । चर्म मास लावा- स्थि मज्जा । एतदधिविधाय ऋषिरवो- चत्। पाङ्कं वा इद ँ सर्वम् । पाङ्केनैव पाङ्क स्पृणोतीति ॥ १ ॥ इति सप्तमोऽनुवाकः ॥ : यदेतद्वयाहृत्यात्मकं ब्रह्मोपाखमुक्तम् तस्यैवेदानीं पृथि- व्यादिपाङ्कस्वरूपेणोपासनमुच्यते – पञ्चसंख्यायोगात्पङ्कि- च्छन्द: संपक्तिः; ततः पाङ्कत्वं सर्वस्य । पाङ्कश्च यज्ञः, 'पञ्चपदा पङ्क्तिः पाङ्को यज्ञः' इति श्रुतेः । तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्कं परिकल्पयति, यज्ञमेव तत्परिकल्प- तैत्तिरीयोपनिषद्भाष्ये यति । तेन यज्ञेन परिकल्पितेन पाङ्कात्मकं प्रजापतिमभि- संपद्यते । तत्कथं पाङ्कं वा इदं सर्वमित्यत आह- पृथिवी अन्तरिक्षं द्यौः दिशः अवान्तरदिशः इति लोकपाङ्कम् । : अग्निः वायु: आदित्यः चन्द्रमा: नक्षत्राणि इति देवतापा- लम । आपः ओषधयः वनस्पतयः आकाशः आत्मा इति भूतपाङ्कम् । आत्मेति विराट्, भूताधिकारात् । इत्यधिभू- तमिति अधिलोकाधिदैवतपाङ्कद्वयोपलक्षणार्थम्, लोकदेव- तापाङ्कयोर्द्वयोश्चाभिहितत्वात । अथ अनन्तरम् अध्यात्मं पाङ्कत्रयमुच्यते — प्राणादि वायुपाङ्कम् । चक्षुरादि इन्द्रि यपाङ्कम् । चर्मादि धातुपाङ्कम । एतावद्धीदं सर्वमध्यात्मं बाह्यं च पाङ्कमेव इति एतत् एवम् अधिविधाय परिकल्प्य ऋषिः वेदः एतद्दर्शनसंपन्नो वा कश्चिदृषिः, अवोचत् उक्त- वान् । किमित्याह—पाङ्कं वा इदं सर्व पातेनैव आध्या- लिकेन, संख्यासामान्यात्, पाङ्कं बाह्यं स्पृणोति वलयति पूरयति एकात्मतयोपलभ्यत इत्येतत् । एवं पाङ्कमिदं सर्व- मिति यो वेद, स प्रजापत्यात्मैव भवतीत्यर्थः ॥ इति सप्तमानुवाकभाष्यम् ॥ अष्टमोऽनुवाकः ॥ ओमिति ब्रह्म । ओमिती‍ सर्वम् । ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्राव- येत्याश्रावयन्ति । ओमिति सामानि गा- यन्ति । ओ शोमिति शस्त्राणि शँ स- न्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणा- ति । ओमिति ब्रह्मा प्रसौति । ओमित्य- ग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति । ब्रह्मैवो- पाप्नोति ॥ १ ॥ " इति अष्टमोऽनुवाकः ॥ व्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम । अनन्तरं च पाङ्क्तस्वरूपेण तस्यैवोपासनमुक्तम् । इदानीं सर्वोपास- नाङ्गभूतस्य ओंकारस्योपासनं विधित्स्यते । परापरब्रह्मदृ- या हि उपास्यमान ओंकारः शब्दमात्रोऽपि परापरब्रह्म- प्राप्तिसाधनं भवति ; स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च, S. U. III. 3 तैत्तिरीयोपनिषद्धाप्ये प्रतिमेव विष्णोः, 'एतेनैवायतनेनैकतरमन्वेति' इति श्रुतेः । ओमिति, इतिशब्दः स्वरूपपरिच्छेदार्थः ; ॐ इत्येतच्छब्द- रूपं ब्रह्म इति मनसा धारयेत् उपासीत; यतः ॐ इति इदं सर्वं हि शब्दस्वरूपमोंकारेण व्याप्तम्, ' तद्यथा शङ्कुना' " इति श्रुत्यन्तरात् । 'अभिधानतन्त्रं ह्यभिधेयम्' इत्यतः इदं सर्वमोंकार इत्युच्यते । ओंकारस्तुत्यर्थ उत्तरो ग्रन्थः, उपा- स्यत्वात्तस्य । ॐ इत्येतत् अनुकृति अनुकरणम् । करोमि यास्यामि चेति कृतमुक्त ओमित्यनुकरोत्यन्यः, अतः ओंका- रोऽनुकृतिः । ह् स्म वै इति प्रसिद्धार्थश्रोतकाः । प्रसिद्धं ह्योंकारस्यानुकृतित्वम् । अपि च ओश्रावय इति प्रैषपूर्वमा - श्रावयन्ति प्रतिश्रावयन्ति । तथा ॐ इति सामानि गायन्ति आँ सामगाः । ॐ शामिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथा ॐ इति अध्वर्युः प्रतिगरं प्रतिगृणाति । ॐ इति ब्रह्मा प्रसौति अनुजानाति । ॐ इति अग्निहोत्रम् अनुजानाति जुहो- मीत्युक्ते ॐ इत्येव अनुज्ञां प्रयच्छति । ॐ इत्येव ब्राह्मणः प्रवक्ष्यन् प्रवचनं करिष्यन् अध्येष्यमाणः ओमित्याह ओ- मित्येव प्रतिपद्यते अध्येतुमित्यर्थः ; ब्रह्म वेदम् उपानवानि इति प्राप्नुयां ग्रहीष्यामीति उपाप्नोत्येव ब्रह्म । अथवा, ब्रह्म परमात्मानम् उपाप्नवानीत्यात्मानं प्रवक्ष्यन् प्रापयिष्यन् ओ- शीक्षावल्ली । मित्येवाह । स च तेनोंकारेण ब्रह्म प्राप्नोत्येव । ओंकार- पूर्व प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्, तस्मादोंकारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥ इत्यष्टमानुवाकभाष्यम् ॥ नवमोऽनुवाकः ॥ ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रव- चने च । दमश्च स्वाध्यायप्रवचने च । श- मश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वा- ध्यायप्रवचने च । अग्निहोत्रं च स्वाध्याय- प्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्या- यप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्र- वचने एवेति नाको मौद्गल्यः । तद्धि तप- स्तद्धि तपः ॥ २ ॥ इति नवमोऽनुवाकः ॥ शीक्षावल्ली । - विज्ञानादेवाप्नोति स्वाराज्यमित्युक्तत्वात् श्रौतस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्येतन्मा प्रापदिति कर्मणां पुरुषार्थ प्रति साधनत्वप्रदर्शनार्थ इहोपन्यासः ऋतमिति व्याख्या- तम् । स्वाध्याय: अध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । एतानि ऋतादीनि, अनुष्ठेयानि इति वाक्यशेषः । सत्यं सत्यवचनं यथाव्याख्यातार्थं वा । तपः कृच्छ्रादि । दमः बाह्यकरणोपशमः । शमः अन्तःकरणोपशम: अग्नयश्च आधातव्याः । अग्निहोत्रं च होतव्यम् । अति- थयश्च पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा च उत्पाद्या । प्रजनश्च प्रज- । ननम् ; ऋतौ भार्यागमनमित्यर्थः । प्रजाति: पौत्रो- त्पत्तिः; पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः कर्म- भिर्युक्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थे सर्वेण सह स्वाध्यायप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थ- ज्ञानम् । अर्थज्ञानाधीनं च परं श्रेयः । प्रवचनं च तदवि- स्मरणार्थं धर्मवृद्धयर्थं च । ततः स्वाध्यायप्रवचनयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठेयमिति सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचाः, नाम वा तस्य ; राथीतर: रथीतरसगोत्रः राथीतर आचार्यो मन्यते । तप इति तप : तैत्तिरीयोपनिषद्भाष्ये एव कर्तव्यमिति तपोनित्यः तपसि नित्यः तपः परः, तपो- नित्य इति वा नाम; पौरुशिष्टिः पुरुशिष्टस्यापत्यं पौरुशि- ष्टिराचार्यो मन्यते । स्वाध्यायप्रवचने एव अनुष्ठेये इति नाको नामतः मुद्गलस्यापत्यं मौद्गल्य आचार्यो मन्यते । तद्धि तपस्तद्धि तपः । यस्मात्स्वाध्यायप्रवचने एव तपः, तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्र- वचनानां पुनर्ग्रहणमादरार्थम् ॥ इति नवमानुवाकभाष्यम् ॥ दशमोऽनुवाकः ॥ अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृ- तमस्मि । द्रविणँ सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवच- नम् ॥ १ ॥ इति दशमोऽनुवाकः ॥ अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्रान्नायः । स्वा- ध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थी हीदं प्रकरणम् ; न च अन्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते । अहं वृक्षस्य उच्छेद्यात्मकस्य संसा- वृक्षस्य रेरिवा प्रेरयिता अन्तर्याम्यात्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः ; वाजिनि इव वाजवतीव, वाजम- नम्, तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृतमात्म- तत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं सु अमृतं .४० तैत्तिरीयोपनिषद्भाष्ये : शोभनं विशुद्धमात्मतत्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम्, अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा आत्मतत्त्वप्रकाशकत्वात्सवर्चसम्, द्रविणमित्र द्रविणम्, मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्या- हार: कर्तव्यः । सुमेधाः शोभना मेधा सर्वज्ञत्वलक्षणा यस्य मम, सोऽहं सुमेधाः; संसारस्थित्युत्पत्तिसंहारकौशलयोगा- त्सुमेधस्त्वम्; अत एव अमृत: अमरणधर्मा, अक्षित: अक्षीणः अव्ययः अक्षतो वा; अमृतेन वा उक्षितः सिक्तः 'अमृतोक्षितोऽहम्' इत्यादि त्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम्, वेदः वेदनम् आत्मैकत्वविज्ञानम्, तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्रिशङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽधिगम्यते । 'ऋतं च' इति धर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥ इति दशमानुवाकभाष्यम् ॥ एकादशोऽनुवाकः ॥ वेदमनूच्याचार्योऽन्तेवासिनमनुशा- स्ति । सत्यं वद । धर्म चर । स्वाध्याया- न्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रम- दितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १ ॥ देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आ- चार्यदेवो भव । अतिथिदेवो भव । या- न्यनवद्यानि कर्माणि । तानि सेवितव्या- नि । नो इतराणि । यान्यस्माक सुच- रितानि । तानि त्वयोपास्यानि ॥ २ ॥ नो इतराणि । ये के चास्मच्छ्रेया सो तैत्तिरीयोपनिषद्भाष्ये ब्राह्मणाः । तेषां त्वयासनेन प्रश्वसित- व्यम् । श्रद्धया देयम् । अश्रद्धयादेयम् । श्रिया देयम् । हिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥ ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुज्ञा- सनम् । एवमुपासितव्यम् । एवमु चैतदु- पास्यम् ॥ ४ ॥ इति एकादशोऽनुवाकः ॥ शीक्षावल्ली । I ' वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मात्मवि- ज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तानि कर्माणीत्येवमर्थः, अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशु- द्धसत्त्वस्य आत्मज्ञानमञ्जसैवोपजायते । तपसा कल्मषं हन्ति विद्ययामृतमश्नुते ' इति हि स्मृति: । वक्ष्यति च — 'तपसा ब्रह्म विजिज्ञासस्व' इति । अतो विद्योत्पत्त्यर्थमनुष्ठे- यानि कर्माणि । अनुशास्तीत्यनुशासनशब्दादनुशासनातिक्रमे हि दोषोत्पत्ति: । प्रागुपन्यासाच्च कर्मणाम्, केवलब्रह्मविद्या- रम्भाच्च पूर्वं कर्माण्युपन्यस्तानि । उदितायां च ब्रह्मविद्या- याम् 'अभयं प्रतिष्ठां विन्दते' 'न विभेति कुतश्चन' 'किमहं साधु नाकरवम्' इत्यादिना कर्मनैष्किचन्यं दर्श- यिष्यति । अतः अवगम्यते-- पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाश्ञ्च- 'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति ऋतादीनां पूर्वत्रोपदेश: आनर्थक्यपरिहारार्थः ; इह तु ज्ञानोत्पत्स्यर्थत्वात्कर्तव्य- तानियमार्थः । वेदम् अनूच्य अध्याप्य आचार्यः अन्ते- वासिनं शिष्यम् अनुशास्ति ग्रन्थग्रहणात् अनु पश्चात् शास्ति तदर्थं प्राहयतीत्यर्थः । अतोऽवगम्यते अधीतवेदस्य धर्मजि- ज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । 'बुद्धा क- तैत्तिरीयोपनिषद्भाष्ये र्माणि कुर्वीत' इति स्मृतेश्च । कथमनुशास्तीत्यत आह- सत्यं वद यथाप्रमाणावगतं वक्तव्यं च वद । तद्वत् धर्म चर; धर्म इत्यनुष्ठेयानां सामान्यवचनम्, सत्यादिविशेष- निर्देशात् । स्वाध्यायात् अध्ययनात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय आचार्यार्थं प्रियम् इष्टं धनम् आहृत्य आनीय दत्त्वा विद्यानिष्क्रयार्थम् आचार्येण च अनुज्ञातः अनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छेत्सीः; प्रजासंततेर्विच्छित्तिर्न कर्तव्या; अनुत्पद्यमानेऽपि पुत्रे पुत्र- काम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः, प्रजाप्रजनप्रजातित्रयनिर्देशसामर्थ्यात्; अन्यथा प्रजन- त्येतदेकमेवावक्ष्यत् । सत्यात् न प्रमदितव्यं प्रमादो न कर्त- व्य: ; सत्याच्च प्रमदनमनृतप्रसङ्गः ; प्रमादशब्दसामर्थ्याद्वि- स्मृत्याप्यनृतं न वक्तव्यमित्यर्थः ; अन्यथा असत्यवदनप्र- तिषेध एव स्यात् । धर्मात् न प्रमदितव्यम्, धर्मशब्द- स्यानुष्ठेयविशेषविषयत्वादननुष्ठानं प्रमादः, स न कर्तव्यः, अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलात् आत्मर- क्षार्थात्कर्मणः न प्रमदितव्यम् । भूतिः विभूतिः, तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणः न प्रमदितव्यम् । स्वाध्यायप्र- वचनाभ्यां न प्रमदितव्यम्, ते हि नियमेन कर्तव्ये इत्यर्थः । शीक्षावल्ली । " तथा देवपितृकार्याभ्यां न प्रमदितव्यम्, दैवपित्र्ये कर्मणी कर्त- व्ये । मातृदेवः माता देवो यस्य सः, त्वं मातृदेवः भव स्या: । एवं पितृदेवो भव; आचार्यदेवो भव; अतिथिदेवो भव; देवतावदुपास्या एते इत्यर्थः । यान्यपि च अन्यानि अनवद्यानि अनिन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि त्वया । नो न कर्तव्यानि इत- राणि सावधानि शिष्टकृतान्यपि । यानि अस्माकम् आचा- र्याणां सुचरितानि शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि अदृष्टार्थान्यनुष्ठेयानि ; नियमेन कर्तव्यानीत्येतत् । नो इतराणि विपरीतान्याचार्यकृतान्यपि । ये के च विशेषिता आचार्यत्वादिधर्मैः अस्मत् अस्मत्तः श्रेयांसः प्रशस्ततराः, ते च ब्राह्मणाः, न क्षत्रियादय:, तेषाम् आसनेन आसनदानादिना त्वया प्रश्वसितव्यम्, प्रश्वसनं प्रश्वासः श्रमापनयः ; तेषां श्रमस्त्वया अपनेतव्य इत्यर्थः । तेषां वा आसने गोष्ठीनिमित्ते समुदिते, तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्य: ; केवलं तदुक्तसारग्रा- हिणा भवितव्यम् । किं च यत्किंचिद्देयम् तत् श्रद्धयैव दातव्यम् । अश्रद्धया अदेयं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया भीत्या च " " तैत्तिरीयोपनिषद्धाप्ये देयम् । संविदा च मैत्र्यादिकार्येण देयम् । अथ एवं वर्त- मानस्य यदि कदाचित् ते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वा आचारलक्षणे विचिकित्सा संशयः स्यात् भवेत्, ये तत्र तस्मिन्देशे काले वा ब्राह्मणाः तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्ध: कर्तव्यः संमर्शिन: विचारक्षमा:, युक्ताः अभियुक्ताः, कर्मणि वृत्ते वा आयुक्ता: अपरप्रयुक्ताः, अलूक्षा: अरूक्षा: अक्रूरमतयः, धर्मकामा: अदृष्टार्थिनः अका- महता इत्येतत् ; स्युः भवेयुः, ते ब्राह्मणाः यथा येन प्रकारेण तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरन्, तथा त्वमपि वर्तेथाः । अथ अभ्याख्यातेषु, अभ्याख्याता अभ्युक्ताः दोषेण संदिह्यमानेन संयोजिताः केनचित् तेषु च यथोक्तं सर्वमुपनयेत् — ये तलेत्यादि । एषः आदेश: विधिः । एषः उपदेशः पुत्रादिभ्यः पित्रादीनामपि । एषा वेदोपनिषत् वेदरहस्यम्, वेदार्थ इत्येतत् । एतदेव अनुशासनम् ईश्वरवचनम् ; आदेशवा- च्यस्य विधेरुक्तत्वात् । सर्वेषां वा प्रमाणभूतानामनुशासन- मेतत् । यस्मादेवम्, तस्मात् एवं यथोक्तं सर्वम् उपासि- तव्यं कर्तव्यम् । एवमु च एतत् उपास्यम् उपास्यमेव चैतत् नानुपास्यम् इत्यादरार्थे पुनर्वचनम् ॥ ; अत्रैतच्चिन्त्यते विद्याकर्मणोर्विवेकार्थम् — किं कर्मभ्य शीक्षावल्ली । एव केवलेभ्यः परं श्रेयः, उत विद्यासंव्यपेक्षेभ्यः, आहोस्वि- द्विद्याकर्मभ्यां संहताभ्याम्, विद्याया वा कर्मापेक्षायाः, उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात्, समस्तवेदार्थज्ञानवतः कर्माधिकारात् ' वेदः कृत्स्नो- ऽधिगन्तव्यः सरहस्यो द्विजन्मना ' इति स्मरणात् । अधि- गमश्च सहोपनिषदर्थेनात्मज्ञानादिना । ' विद्वान्यजते ' ' वि- द्वान्याजयति' इति च विदुप एव कर्मण्यधिकारः प्रद- श्र्श्यते सर्वत्र ज्ञात्वानुष्ठानमिति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते, वेदोऽनर्थकः स्यात् । न ; नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्य चानित्यत्वं प्रसिद्धं लोके । कर्मभ्यश्चेच्छ्रेय:, अनित्यं स्यात् तचानिष्टम् । ननु काम्यप्रतिषिद्धयोरनारम्भात् आरब्धस्य च कर्मण उपभो- गेनैव क्षयात् नित्यानुष्ठानाच्च प्रत्यवायानुपपत्तेः ज्ञाननिरपेक्ष एव मोक्ष इति चेत, तत्र न ; कर्मशेषसंभवात्तन्निमित्ता शरीरान्तरोत्पत्तिः प्राप्नोतीति प्रत्युक्तम् ; कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च । यदुक्तं स- मस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि, तच्च न; श्रुत- ज्ञानत्र्यतिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधि- तैत्तिरीयोपनिषद्भाष्ये क्रियते, नोपासनज्ञानमपेक्षते । उपासनं च श्रुतज्ञानादर्था- न्तरं विधीयते मोक्ष फलम् ; अर्थान्तरप्रसिद्धेश्व स्यात्; ' श्रो- तव्यः' इत्युक्त्वा तद्वयतिरेकेण 'मन्तव्यो निदिध्यासितव्यः' इति यत्नान्तरविधानात् मनननिदिध्यासनयोश्च प्रसिद्धं श्रवण- ज्ञानादर्थान्तरत्वम् । एवं तहिं विद्यासंत्र्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः ; विद्यासहितानां च कर्मणां भवेत्कार्यान्तरार- म्भसामर्थ्यम् ; यथा स्वतो मरणज्वरादिकार्यारम्भसमर्थानामपि विषदध्यादीनां मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसा- मर्थ्यम्, एवं विद्यासहितैः कर्मभिः मोक्ष आरभ्यत इति चेत्, न; आरभ्यस्यानित्यत्वादित्युक्तो दोषः । वचनादार- भ्योऽपि नित्य एवेति चेत्, न; ज्ञापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकम्, नाविद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यते, आरब्धं वा अविनाशि भवेत् । एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् ॥ विद्याकर्मणी मोक्षप्रतिबन्धहेतुनिवर्तके इति चेत्, न; कर्मणः फलान्तरदर्शनात् । उत्पत्तिविकार संस्काराप्तयो हि फलं कर्मणो दृश्यन्ते । उत्पत्त्यादिफलविपरीतश्च मोक्षः । गतिश्रुतेराप्य इति चेत् — 'सूर्यद्वारेण' ' तयोर्ध्वमायन' इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत्, न; सर्वग- शीक्षावल्ली । तत्वात् गन्तृभ्यश्चानन्यत्वात् । आकाशादिकारणत्वात्सर्वगतं ब्रह्म, ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः ; अतो नाप्यो मोक्षः । गन्तुरन्यद्विभिन्नदेशं च भवति गन्तव्यम् । न हि, येनैवाव्यतिरिक्तं यत्, तत्तेनैव गम्यते । तदनन्यत्वसिद्धिश्च 'तत्सृष्ट्वा तदेवानुप्राविशत्' ' क्षेत्रज्ञं चापि मां विद्धि सर्व- क्षेत्रेषु' इत्येवमादिश्रुतिस्मृतिशतेभ्यः । गत्यैश्वर्यादिश्रुतिवि- रोध इति चेत् — अथापि स्यात् यद्यप्राप्यो मोक्षः, तदा गतिश्रुतीनाम् स एकधा' ' स यदि पितृलोककाम: ' 'स्त्रीभिर्वा यानैर्वा' इत्यादिश्रुतीनां च कोप: स्यात् इति चेत्, न; कार्यब्रह्मविषयत्वात्तासाम् । कार्ये हि ब्रह्मणि स्त्र्यादयः स्युः, न कारणे ; 'एकमेवाद्वितीयम् ' 'यत्र ना- न्यत्पश्यति' 'तत्केन क्रं पश्येत्' इत्यादिश्रुतिभ्यः । विरो- धाञ्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रलीनकर्त्रादिका- रकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन क- र्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कर्त्रादिविशेषवत् तच्छून्यं चेति उभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्यतर- न्मिथ्या स्यात् । अन्यतरस्य च मिध्यात्वप्रसङ्गे युक्तं यत्स्वा- भाविकाज्ञानविषयस्य द्वैतख मिध्यात्वम्; मिव भवति' 'मृत्योः स मृत्युमाप्नोति S. U. III. 4 , ' यत्र हि द्वैत- ' अथ यत्रान्यत्प- तैत्तिरीयोपनिषद्भाष्ये श्यति तदल्पम् ' ' अन्योऽसावन्योऽहमस्मि' ' उदरमन्तरं कुरुते' 'अथ तस्य भयं भवति' इत्यादिश्रुतिशतेभ्यः । सत्यत्वं च एकत्वस्य ' एकधैवानुद्रष्टव्यम्' 'एकमेवाद्वि- तीयम्' 'ब्रह्मैवेद" सर्वम्' 'आत्मैवेद सर्वम्' इत्यादिश्रु- तिभ्यः । न च संप्रदानादिकारक भेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादाश्च विद्याविषये सहस्रशः श्रूयन्ते । अतो विरोधो विद्याकर्मणोः । अतश्च समुच्चयानुपपत्तिः ॥ तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इत्येतदनु- पपन्नमिति, तदयुक्तम्, तद्विहितत्वात्कर्मणां श्रुतिविरोध इति चेत् — यद्युपमृद्य कर्त्रादिकारकविशेषमात्मैकत्वविज्ञानं वि- धीयते सर्पादिभ्रान्तिज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत्, प्राप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधो न युक्तः, प्रमाणत्वाच्छ्रुतीनामिति चेत्, न; पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । विद्योपदेशपरा तावच्छ्रुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतो- रविद्यायाः विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः । एवमपि कर्त्रादिकारकसद्भावप्र- तिपादनपरं शास्त्रं विरुध्यत एवेति चेत्, न; यथाप्रा- तमेव कारकास्तित्वमुपादाय उपात्तदुरितक्षयार्थं कर्माणि शीक्षावल्ली । विदधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न का- कास्तित्वे व्याप्रियते । उपचितदुरितप्रतिबन्धस्य हि वि- द्योत्पत्तिर्नाविकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात्, तत- 1 श्वाविद्यानिवृत्तिः, तत आत्यन्तिकः संसारोपरमः । अपि च, अनात्मदर्शिनो ह्यनात्मविषयः कामः ; कामयमानश्च करोति कर्माणि ; ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षण: सं- सार: । तद्वयतिरेकेणात्मैकत्वदर्शिनो विषयाभावात्कामा- नुपपत्तिः, आत्मनि चानन्यत्वात्कामानुपपत्तौ स्वात्मन्यव - स्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोर्विरोधः । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोप- चितदुरितप्रतिबन्धापनयनद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते क- र्माणि नित्यानीति । अत एवास्मिन्प्रकरणे उपन्यस्तानि कर्माणीत्यवोचाम । एवं च अविरोधः कर्मविधिश्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् ॥ एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्प- त्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न; कर्मानेकत्वा- त् । न ह्यग्निहोत्रादीन्येव कर्माणि ब्रह्मचर्य तपः सत्यवचनं शमः दम: अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसि- ; ' तैत्तिरीयोपनिषद्भाष्ये द्धानि विद्योत्पत्तौ साधकतमान्यसंकीर्णा विद्यन्ते ध्यानधा- रणादिलक्षणानि च । वक्ष्यति च – 'तपसा ब्रह्म विजि- ज्ञासस्व' इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्या- द्विद्योत्पत्तिसंभवात् कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः कर्म- साध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धा- त्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात्, पत्र- जिष्यन्वा अरेऽहमस्मात्स्थानादस्मि' इत्येवमादिश्रुतिलिङ्गदर्श- नात् । कर्म प्रति श्रुतेनाधिक्यदर्शनादयुक्तमिति चेत् —– अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्या- यासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम्; तपोब्रह्मच- र्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्प- साधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभि- स्तस्य इति चेत्, न; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोष:, यतो जन्मा- न्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानु- - शीक्षावल्ली । ग्राहकं भवति विद्योत्पत्तिं प्रति; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्या- विद्वेषिणः । तस्माज्जन्मान्तरकृत संस्कारेभ्यो विरक्तानामा- श्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्ग- ब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपप द्यते, आशिषां बाहुल्यदर्शनात् — इदं मे स्यादिदं मे स्या- दिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् — कर्म- भ्य एव पूर्वोपचितदुरितप्रतिवन्धक्षयाद्विद्योत्पद्यते चेत् क- र्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत्; न; नियमाभावात् । न हि 'प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्' इति नियमो ऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्, साक्षा- देव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्यांश्रमान्तराणि । सर्वेषां चाधिकारों विद्यायाम्, परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥ इत्येकादशानुवाकभाष्यम् ॥ द्वादशोऽनुवाकः ॥ शं नो मित्रः शं वरुणः । शं नो भव - त्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्ता- रमावीत्। आवीन्माम् । आवीद्वक्तारम् ॥ ॐ शान्तिः । शान्तिः । शान्तिः ॥ इति द्वादशोऽनुवाकः ॥ अतीतविद्याप्राप्त्युपसर्गशमनार्थी शान्ति पठति — शं नो मित्र इत्यादि । व्याख्यातमेतत्पूर्वम् ॥ इति द्वादशानुवाकभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये शीक्षावल्लीभाष्यम् संपूर्णम् ॥ तैत्तिरीयोपनिषद्भाष्यम् ब्रह्मानन्दवल्ली ब्रह्मानन्दवल्ली ॥ अतीतविद्याप्राप्युपसर्गप्रशमनाथ शान्तिः पठिता । इदानीं तु वक्ष्यमाण- ब्रह्मविद्याप्राप्युपसर्गोपशमनार्था शान्ति: प- ठ्यते— । ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजखि नावधीतम- स्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ सह नाववत्विति । सह नाववतु, नौ शिष्याचार्यौ सहैव अवतु रक्षतु । सह नौ भुनक्तु ब्रह्म भोजयतु । सह वीर्य विद्यानिमित्तं सामर्थ्यं करवावहै निर्वर्तयावहै । तेजस्वि नौ तेजस्विनोरावयोः अधीतं स्वधीतम् अस्तु अर्थज्ञानयो- ग्यमस्त्वित्यर्थः । मा विद्विषावहै, विद्याग्रहणनिमित्तं शिष्यस्य आचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तः; तच्छम- तैत्तिरीयोपनिषद्भाष्ये नायेयमाशी : - मा विद्विषावहै इति । मैव नावितरेतरं विद्वे- षमापद्यावहै । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनमु- क्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमानार्था चेयं शान्तिः । अविघ्नेनात्मविद्याप्राप्तिराशास्यते तन्मूलं हि परं श्रेय इति ॥ ' ब्रह्मविदानोति परम् । तदेषाभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद नि- हितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिते- ति । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओ- षधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥ इति प्रथमोऽनुवाकः ॥ ब्रह्मानन्दवल्ली । संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं च अन्तःसोपाधिकमात्मदर्शनमुक्तं व्याहृतिद्वारेण स्वाराज्यफलम् । न चैतावता अशेषतः संसारबीजस्य उपम- र्दनमस्ति । अतः अशेषोपद्रववीजस्य अज्ञानस्य निवृत्त्यर्थं विधूत सर्वोपाधिविशेषात्मदर्शनार्थमिदमारभ्यते— ब्रह्मविदा- प्रोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया अविद्या- निवृत्ति:, ततश्च आत्यन्तिकः संसाराभावः । वक्ष्यति च — ' विद्वान्न बिभेति कुतश्चन' इति । संसारनिमित्ते च सति अभयं प्रतिष्ठां विन्दत इत्यनुपपन्नम्, कृताकृते पुण्यपापे न तपत इति च । अतोऽवगम्यते—अस्माद्विज्ञानात्सर्वात्मब्रह्म- विषयादात्यन्तिकः संसाराभाव इति । स्वयमेवाह प्रयोजनम् 'ब्रह्मविदाप्नोति परम्' इत्यादावेव संबन्धप्रयोजनज्ञापना- र्थम् । निर्ज्ञातयोर्हि संबन्धप्रयोजनयोः विद्याश्रवणग्रहणधा- रणाभ्यासार्थं प्रवर्तते । श्रवणादिपूर्वकं हि विद्याफलम्, 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मवित्, ब्रह्मेति वक्ष्यमाणलक्षणम्, बृहत्तमत्वात् ब्रह्म, तद्वेत्ति विजानातीति ब्रह्मवित्, आप्नोति प्राप्नोति परं निर- तिशयम्; तदेव ब्रह्म परम् ; न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्श- - यति - इत्यादि ॥ तैत्तिरीयोपनिषद्भाष्ये ' स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ' ननु, सर्वगतं सर्वस्य चात्मभूतं ब्रह्म वक्ष्यति । अतो नाप्यम् । आप्तिश्च अन्यथान्येन परिच्छिन्नस्य च परिच्छि न्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छि- नवत् अनात्मवच्च तस्याप्तिरनुपपन्ना । नायं दोषः । कथम् ? दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आयनाघ्योः, परमार्थतो ब्रह्मस्व- रूपस्यापि सतः अस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छि- न्नान्नमयाद्यात्मदर्शिनः तदासक्तचेतसः । प्रकृतसंख्यापूरण- स्यात्मनः अव्यवहितस्यापि बाह्यसंख्येयविषयासक्तचित्ततया स्वरूपाभावदर्शनवत् परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणया अविद्यया अन्नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्न- त्वात् अन्नमयाद्यनात्मभ्यो नान्योऽहमस्मीत्यभिमन्यते । एव- मविद्यया आत्मभूतमपि ब्रह्म अनाप्तं स्यात् । तस्यैवमवि- द्यया अनाप्तब्रह्मस्वरूपस्य प्रकृतसंख्यापूरणस्यात्मनः अवि- द्ययानाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्यया आप्तिर्यथा, तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्मत्वदर्श- नेन विद्यया तदाप्तिरुपपद्यत एव । ब्रह्मविदाप्नोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्ल्यर्थस्य । ब्रह्मविदाप्नोति पर- ब्रह्मानन्दवल्ली । मित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारित- स्वरूपविशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणाय अविशेषेण च उक्त- वेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य विशेषेण प्रत्यगात्मतया अनन्यरूपेण विज्ञेयत्वाय, ब्रह्मविद्याफलं च ब्रह्मविदो यत्प- रप्राप्तिलक्षणमुक्तम्, स सर्वात्मभावः सर्वसंसारधर्मातीत- वह्मस्वरूपत्वमेव, नान्यदित्येतत्प्रदर्शनाय च एषा ऋगुदा- ह्रियते —तदेषाभ्युक्तेति । तत् तस्मिन्नेव ब्राह्मणवाक्योक्तार्थे एषा ऋक् अभ्युक्ता आन्नाता । सत्यं ज्ञानमनन्तं ब्रह्म इति ब्रह्मणो लक्षणार्थं वाक्यम् । सत्यादीनि हि त्रीणि विशेष- णार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म, विव- क्षितत्वाद्वेद्यतया । वेद्यत्वेन यतो ब्रह्म प्राधान्येन विवक्षि- तम, तस्माद्विशेष्यं विज्ञेयम् । अतः अस्माद्विशेषणविशे- ध्यत्वादेव सत्यादीनि एकविभक्त्यन्तानि पदानि समानाधि- करणानि । सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशे- ध्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञातं भवति, यदन्येभ्यो निर्धारितम् ; यथा लोके नीलं महत्सुगन्ध्युत्पलमिति । ननु, विशेष्यं विशेषणान्तरं व्यभिचरद्विशेष्यते, यथा नीलं रक्तं चोत्पलमिति यदा ह्यनेकानि द्रव्याणि एकजातीयान्येक- तैत्तिरीयोपनिषद्भाष्ये विशेषणयोगीनि च तदा विशेषणस्यार्थवत्त्वम् ; न ह्येकस्मि नेव वस्तुनि, विशेषणान्तरायोगात् ; यथा असावेक आ- दित्य इति, तथा एकमेव ब्रह्म, न ब्रह्मान्तराणि, येभ्यो विशेष्येत नीलोत्पलवत् । न; लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् ? लक्षणार्थप्रधानानि विशेषणानि, न विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययोर्विशेषणविशेष्य- योर्वा विशेष: ? उच्यते । सजातीयेभ्य एव निवर्तकानि विशेषणानि विशेष्यस्य; लक्षणं तु सर्वत एव, यथा अव- काशप्रदात्राकाशमिति । लक्षणार्थं च वाक्यमित्यवोचाम ॥ सत्यादिशब्दा न परस्परं संबध्यन्ते, परार्थत्वात्; विशे- व्यार्था हि ते । अत एवं एकैको विशेषणशब्दः परस्परं नि- रपेक्षो ब्रह्मशब्देन संबध्यते - सत्यं ब्रह्म ज्ञानं ब्रह्म अनन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यन्निश्चितं तद्रूपं न व्यभिचरति, तत्सत्यम् । यद्रूपेण यन्निश्चितं तद्रूपं व्यभिचरति, तदनृत- मित्युच्यते । अतो विकारोऽनृतम्, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्', एवं सदेव सत्यमित्यवधार- णात् । अतः 'सत्यं ब्रह्म' इति ब्रह्म विकारान्निवर्तयति । अतः कारणत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वम्, वस्तुत्वात् मृद्वत् अचिद्रूपता च प्राप्ता; अत इदमुच्यते- ब्रह्मानन्दवल्ली । ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिः अवबोधः, -- भावसाधनो ज्ञान- शब्द:-- न तु ज्ञानकर्तृ, ब्रह्मविशेषणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यता अनन्तता च ज्ञानकर्तृत्वे सत्युपपद्येते । ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेत्, अनन्तं च ? यद्धि न कुतश्चित्प्रविभज्यते, तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात्, ' यत्र नान्य- द्विजानाति स भूमा, अथ यत्रान्यद्विजानाति तदल्पम्' इति श्रुत्यन्तरात् । ' नान्यद्विजानाति ' इति विशेषप्रतिषेधात् आ- त्मानं विजानातीति चेत्, न; भूमलक्षणविधिपरत्वाद्वाक्य- स्य । 'यत्र नान्यत्पश्यति' इत्यादि भूम्रो लक्षणविधिपरं वाक्यम् । यथाप्रसिद्धमेव अन्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति, स भूमा इति भूमस्वरूपं तत्र ज्ञाप्यते । अन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वात् न स्वात्मनि क्रियास्तित्व- परं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञेयत्वे ज्ञावभावप्रसङ्गः, ज्ञेयत्वेनैव विनियुक्त - त्वात् ॥ एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीति चेत्, न ; युगपदनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेय - ज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशा- तैत्तिरीयोपनिषद्भाष्ये - नर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेश: अर्थवान् । तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्तिः । सन्मात्रत्वं चानु- पपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति ; सन्मात्रत्वं च सत्यम्, 'तत्सत्यम्' इति श्रुत्यन्तरात् । तस्मात्सत्यानन्तश- ब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्द: । 'ज्ञानं ब्रह्म' इति कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । 'ज्ञानं ब्रह्म' इति वचनात्प्राप्तमन्तवत्त्वम्, लौकिकस्य ज्ञानस्य अन्तवत्त्व- दर्शनात् । अत: तन्निवृत्त्यर्थमाह —– अनन्तमिति । सत्या- दीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्रह्मणः उत्प- लादिवदप्रसिद्धत्वात् ' मृगतृष्णाम्भसि स्नातः खपुष्पकृत- शेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धर: ' इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्, न; लक्षणार्थ- त्वात् । विशेषणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवो- चाम । शून्ये हि लक्ष्ये अनर्थकं लक्षणवचनम् । अतः लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । शून्यार्थत्वे हि सत्या- दिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भयो विशेष्येभ्यो ब्रह्मणो विशेष्यस्य ब्रह्मानन्दवल्ली । नियन्तृत्वमुपपद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तव अनन्तशब्दः अन्तवत्त्वप्रतिषेधद्वारेण विशेषणम् । सत्य- ज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवत: ॥ ' तस्माद्वा एतस्मादात्मनः' इति ब्रह्मण्येव आत्मशब्द- प्रयोगात् वेदितुरात्मैव' ब्रह्म । ' एतमानन्दमयमात्मानमुप- संक्रामति' इति च आत्मतां दर्शयति । तत्प्रवेशाच्च ; ' तत्सृष्ट्वा तदेवानुप्राविशत्' इति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तर्हि, आत्मत्वाज्ज्ञानकर्तृत्वम् ; 'आत्मा ज्ञाता' इति हि प्रसिद्धम्, .' सोऽकामयत' इति च कामिनो ज्ञानकर्तृत्वप्रसिद्धिः ; अतो ज्ञानकर्तृत्वात् ज्ञप्तिर्ब्रह्मेत्ययुक्तम् ; अनित्यत्वप्रसङ्गाच्च ; यदि नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणः, तदाप्यनित्यत्वं प्रसज्येत ; पारतन्त्र्यं च धात्वर्थानां कारकापेक्षत्वात्, ज्ञानं च धात्वर्थ: ; अतोऽस्य अनित्यत्वं परतन्त्रता च । न; स्व- रूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिः न ततो व्यतिरिच्यते । अतो नित्यैव । तथापि बुद्धेरुपाधि- लक्षणायाश्चक्षुरादिद्वारैर्विषयाकारपरिणामिन्या: ये शब्दा- द्याकारावभासा:, ते आत्मविज्ञानस्य विषयभूता उत्पद्यमाना एव आत्मविज्ञानेन व्याप्तां उत्पद्यन्ते । तस्मादात्मविज्ञाना- s. D. 111. 5 तैत्तिरीयोपनिषद्भाष्ये वभास्याश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । यत्तु ब्रह्मणो विज्ञानम्, तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपात्र्यतिरिक्तं स्वरूपमेव तत् । न तत्कारणान्तरसव्य- पेक्षम्, नित्यस्वरूपत्वात्, सर्वभावानां च तेनाविभक्तदेश- कालत्वात् कालाकाशादिकारणत्वात् निरतिशय सूक्ष्मत्वाच्च । न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भ- विष्यद्वा अस्ति । तस्मात्सर्वज्ञं तद्ब्रह्म । मन्त्रवर्णाश्च 'अपाणि- पादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ' इति । 'नं हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽवि- नाशित्वान्न तु तद्वितीयमस्ति इत्यादिश्रुतेश्च । विज्ञातृस्व- रूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञानस्व- रूपत्वेऽपि नित्यत्वप्रसिद्धिः । अतो नैव धात्वर्थस्तत्, अक्रि- यारूपत्वात् । अत एव च न ज्ञानकर्तृ; तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तल्लक्ष्यते ; न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि । सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मणः बाह्यसत्तासामान्यविष , ब्रह्मानन्दवल्ली । येण सत्यशब्देन लक्ष्यते 'सत्यं ब्रह्म' इति ; न तु सत्यश- ब्दवाच्यं ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधानादन्यो- न्यनियम्यनियामकाः सन्तः सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मणः, लक्षणार्थाश्च भवन्तीति । अतः सिद्धम् ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' ' अनिरुक्तेऽनिलयने ' इति च अवाच्यत्वम्, नीलोत्पलवदवाक्यार्थत्वं ब्रह्मणः ॥ च तद्यथाव्याख्यातं ब्रह्म यः वेद विजानाति निहितं स्थितं गुहायाम्, गूहतेः संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेय- ज्ञातृपदार्था इति गुहा बुद्धि:, गूढावस्यां भोगापवर्गों पुरु- पार्थाविति वा, तस्यां परमे प्रकृष्टे व्योमन् व्योम्नि आकाशे अव्याकृताख्ये; तद्धि परमं व्योम, 'एतस्मिन्खल्वक्षरे गार्ग्याकाश:' इत्यक्षरसंनिकर्षात् ; 'गुहायां व्योमन्' इति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा ; तत्रापि नि- गूढाः सर्वे पदार्थास्त्रिषु कालेषु, "कारणत्वात्सूक्ष्मतरत्वाच्च ; तस्मिन्नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यम्, विज्ञानाङ्गत्वेन व्योम्नो विवक्षितत्वात् । 'यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयम- न्तर्हृदय आकाश:' इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः पर- तैत्तिरीयोपनिषद्भाष्ये - मत्वम् । तस्मिन्हार्दे व्योम्नि या बुद्धिर्गुहा, तस्यां निहितं ब्रह्म तद्व्यावृत्त्या विविक्ततयोपलभ्यत इति । न ह्यन्यथा विशिष्ट- देशकालसंबन्धोऽस्ति ब्रह्मणः, सर्वगतत्वान्निर्विशेषत्वाच्च । सः एवं ब्रह्म विजानन् ; किमित्याह - अश्नुते भुङ्क्ते सर्वान् निर- वशेषान् कामान् काम्यभोगानित्यर्थः । किमस्मदादिवत्पुत्रस्व- र्गादीन्पर्यायेण ? नेत्याह — सह युगपत् एकक्षणोपारूढानेव एकयोपलब्ध्या सवितृप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्त- या, यामवोचाम 'सत्यं ज्ञानम्' इति । एतत्तदुच्यते — ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान् ब्रह्मस्वरूपेणैव सर्वान्कामान् सह अश्नुते । न तथा यथोपाधिकृतेन स्वरूपेणात्मनो जलसूर्य- कादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्च- क्षुरादिकरणापेक्षांश्च सर्वान्कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि ? यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्य- ब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षान् चक्षुरादिकरणानपे- क्षांश्च सर्वान्कामान्सहाश्नुत इत्यर्थः । विपश्चिता मेधावि- ना सर्वज्ञेन । तद्धि वैपश्चित्यम्, यत्सर्वज्ञत्वम् । तेन सर्व- ज्ञस्वरूपेण ब्रह्मणा अश्नुत इति । इतिशब्दो मन्त्रपरिसमा- प्त्यर्थः ॥ सर्व एव वल्ल्यर्थः ' ब्रह्मविदाप्नोति परम्' इति ब्राह्मण- ब्रह्मानन्दवल्ली । वाक्येन सूत्रित: । स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्या- ख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्त- द्वृत्तिस्थानीय ग्रन्थ आरभ्यते - तस्माद्वा एतस्मादित्यादिः । तत्र च 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्युक्तं मन्त्रादौ; तत्कथं सत्यमनन्तं चेत्यत आह । त्रिविधं ह्यानन्त्यम् - देशत: का- लतो वस्तुतश्चेति । तद्यथा— देशतोऽनन्त आकाश: ; न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चानन्त्यं वस्तुत- च आकाशस्य । कस्मात् ? कार्यत्वात् । नैवं ब्रह्मण आकाशवत्कालतोऽप्यन्तवस्त्वम्, अकार्यत्वात् । कार्य हि वस्तु कालेन परिच्छिद्यते । अकार्य च ब्रह्म । तस्मात्कालतो- ऽख्यानन्त्यम् । तथा वस्तुत: । कथं पुनर्वस्तुत आनन्त्यम् ? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भव- ति ; वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निव- र्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतो- ऽप्यानन्त्यम्। कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते— सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां का- रणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्वमिति चेत्, न; अनृ- तैत्तिरीयोपनिषद्भाष्ये तत्वात्कार्यस्य वस्तुनः । न हि कारणव्यतिरेकेण कार्य नाम वस्तुतोऽस्ति, यतः कारणबुद्धिर्विनिवर्तेत ; 'वाचारम्भणं वि- कारो नामधेयं मृत्तिकेत्येव सत्यम्' एवं सदेव सत्यमिति श्रु- त्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धं देशत: ; तस्येदं कारणम् ; तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्व- गतमुत्पद्यमानं लोके किंचिदृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतः । तथा अकार्यत्वात्कालत:; तद्भिन्नवस्त्वन्त- राभावाच्च वस्तुत: । अत एव निरतिशयसत्यत्वम् ॥ तस्मात् इति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते ; एतस्मात् इति मन्त्रवाक्येन अनन्तरं यथालक्षितम् । यद्ब्रह्म आदौ ब्राह्मणवाक्येन सूत्रितम्, यच्च 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यनन्तरमेव लक्षितम्, तस्मादेतस्माद्ब्रह्मण आत्मन: आ- त्मशब्दवाच्यात्; आत्मा हि तत् सर्वस्य, ' तत्सत्यं स आत्मा' इति श्रुत्यन्तरात्; अतो ब्रह्म आत्मा; तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपात् आकाशः संभूतः समुत्पन्नः । आकाशो नाम शब्दगुणः अवकाशकरो मूर्तद्रव्याणाम् । तस्मात् आकाशात् स्वेन स्पर्शगुणेन पूर्वेण च आकाशगुणेन शब्देन द्विगुणः वायुः, संभूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रि- ब्रह्मानन्दवल्ली । । गुणः अग्निः संभूतः । अग्नेश्च स्वेन रसगुणेन पूर्वैश्च विभि: चतुर्गुणा आपः संभूताः । अद्भयः स्वेन गन्धगुणेन पूर्वैश्व चतुर्भिः पञ्चगुणा पृथिवी संभूता । पृथिव्याः ओषधयः । ओ- षधीभ्यः अन्नम् । अन्नात् रेतोरूपेण परिणतात् पुरुषः शिर:- पाण्याद्याकृतिमान् । स वै एष पुरुषः अन्नरसमयः अन्नर- सविकारः पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतं . रेतो बीजम् । तस्माद्यो जायते, सोऽपि तथा पुरुषाकृतिरेव स्यात्; सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पु- रुष एव गृह्यते ? प्राधान्यात् । किं पुनः प्राधान्यम् ? कर्म- ज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वाद पर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, 'पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीक्षतीत्येवं संपन्नः ; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्' इत्यादि श्रुत्यन्तरदर्शनात् ॥ स हि पुरुषः इह विद्यया आन्तरतमं ब्रह्म संक्रामयितु- मिष्टः । तस्य च बाह्याकारविशेषेष्वनात्मसु आत्मभाविताबु- द्धि: विना आलम्बनविशेषं कंचित सहसा आन्तरतमप्रत्य- तैत्तिरीयोपनिषद्भाष्ये गात्मविषया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसा- मान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह-त- स्येदमेव शिरः । तस्य अस्य पुरुषस्यान्नरसमयस्य इदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहा- पि तत्प्रसङ्गो मा भूदिति इदमेव शिर इत्युच्यते । एवं प- क्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षि णः पक्षः । अयं सव्यो बाहुः उत्तरः पक्षः । अयं मध्यमो देहभाग: आत्मा अङ्गानाम्, 'मध्यं ह्येषामङ्गानामात्मा' इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गम् तत् पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छम् अधोलम्बन- सामान्यात्, यथा गोः पुच्छम् । एतत्प्रकृत्य उत्तरेषां प्राण- मयादीनां रूपकत्वसिद्धि:, मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येष श्लोको भवति । तत् तस्मिन्नेवार्थे ब्राह्मणोक्ते अन्न- मयात्मप्रकाशके एष श्लोकः मन्त्रः भवति ॥ " इति प्रथमानुवाकभाष्यम् ॥ द्वितीयोऽनुवाकः ॥ अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवी ५ श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्व वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वौष- धमुच्यते । अन्नाद्भूतानि जायन्ते । जाता- न्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एत- स्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुष- विध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्या- नो दक्षिणः पक्षः । अपान उत्तरः पक्षः । तैत्तिरीयोपनिषद्भाष्ये आकाश आत्मा । पृथिवी पुच्छं प्रति- ष्ठा । तदप्येष श्लोको भवति ॥ १ ॥ इति द्वितीयोऽनुवाकः ॥ अन्नात् रसादिभावपरिणतात्, वै इति स्मरणार्थः, प्रजाः स्थावरजङ्गमात्मकाः, प्रजायन्ते । या: काश्च अविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रिताः, ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि, जाता : अन्नेनैव जीवन्ति प्राणान्धारयन्ति, वर्धन्त इत्यर्थ: । अथ अपि, एनत् अन्नम्, अपियन्ति अपिगच्छन्ति, अपि शब्दः प्रतिशब्दार्थे, अन्नं प्रति लीयन्त इत्यर्थः ; अन्तत: अन्ते जीवनलक्षणाया वृत्तेः परिसमाप्तौ । कस्मात् ? अन्नं हि यस्मात् भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हि इतरेषां भूतानां कारणमन्नम् ; अत: अन्नप्रभवा अन्न- जीवना अन्नप्रलयाश्च सर्वाः प्रजाः । यस्माच्चैवम्, तस्मात् सर्वौषधं सर्वप्राणिनां देहदाहप्रशमनमन्नमुच्यते ॥ अन्नब्रह्मविदः फलमुच्यते— सर्व वै ते समस्तमन्नजा- तम् आप्नुवन्ति । के ? ये अन्नं ब्रह्म यथोक्तम् उपासते । कथम् ? अन्नजोऽन्नात्मान्नप्रलयोऽहम् तस्मादन्नं ब्रह्म इति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमिति, उच्यते— " " - ब्रह्मानन्दवल्ली । अन्नं हि भूतानां ज्येष्ठं भूतेभ्यः पूर्वमुत्पन्नत्वाज्ज्येष्ठं हि य- स्मात् तस्मात्सर्वौषधमुच्यते; तस्मादुपपन्ना सर्वांन्नात्मोपा- सकस्य सर्वान्नप्राप्तिः । अन्नाद्भूतानि जायन्ते, जातान्यन्नेन वर्धन्ते इति उपसंहारार्थ पुनर्वचनम् । इदानीमन्नशब्दनिर्वच- नमुच्यते- - अद्यते भुज्यते चैव यद्भूतैः अत्ति च भूतानि स्वयम् तस्मात् भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्च अन्नं तत् उच्यते । इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः । अन्नमया- दिभ्य आनन्दमयान्तेभ्य आत्मभ्यः अभ्यन्तरतमं ब्रह्म वि- यया प्रत्यगात्मत्वेन दिदर्शयिषु शास्त्रम् अविद्याकृतपञ्चको- शापनयनेन अनेकतुषकोद्रववितुपीकरणेनेव तण्डुलान् प्रस्तौ- ति--तस्माद्वा एतस्मादन्नरसमयादित्यादि । तस्माद्वै एतस्मा- त् यथोक्तात् अन्नरसमयात्पिण्डात् अन्यः व्यतिरिक्त: अ- न्तरः अभ्यन्तर: आत्मा पिण्डवदेव मिध्यापरिकल्पित आ- मत्वेन प्राणमयः, प्राण: वायुः, तन्मयः तत्प्राय: तेन प्राणमयेन एषः अन्नरसमय आत्मा पूर्ण: वायु- नेव दृति: । स वै एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव शिरः पक्षादिभिः । किं स्वत एव ? ने- त्याह- प्रसिद्धं तावदन्नरसमयस्यात्मनः पुरुषविधत्वम् ; तस्य अन्नरसमयस्य पुरुषविधतां पुरुषाकारताम् अनु अयं तैत्तिरीयोपनिषद्भाष्ये प्राणमयः पुरुषविधः मूषानिषिक्तप्रतिमावत्, न स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविधता; तामनु उत्तरोत्तर: पुरुष- विधो भवति, पूर्वः पूर्वश्वोत्तरोत्तरेण पूर्णः । कथं पुनः पुरु- षविधता अस्येति, उच्यते— तस्य प्राणमयस्य प्राण एव शिरः प्राणमयस्य वायुविकारस्य प्राण: मुखनासिकानि:- सरणो वृत्तिविशेषः शिर इति कल्प्यते, वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानः व्यानवृत्तिः दक्षिण: पक्ष: । अपानः उत्तरः पक्षः । आकाश आत्मा, य आका- शस्थो वृत्तिविशेषः समानाख्यः, स आत्मेव आत्मा प्राणवृ- त्यधिकारात् । मध्यस्थत्वादितराः पर्यन्ता वृत्तीरपेक्ष्य आ- त्मा; ' मध्यं ह्येषामङ्गानामात्मा' इति प्रसिद्धं मध्यस्थ- स्यात्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवीदे- वता आध्यात्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । 'सैषा पुरुषस्यापानमवष्टभ्य' इति हि श्रुत्यन्तरम् । अन्यथा उदानवृत्त्या ऊर्ध्वगमनं गुरुत्वात्पतनं वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्य आत्मन: । तत् तस्मिन्नेवार्थे प्राणमयात्मविषये एष श्लोको भवति ॥ इति द्वितीयानुवाकभाष्यम् ॥ 1 तृतीयोऽनुवाकः ॥ प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयु- र्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामो- त्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गि- रसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥ इति तृतीयोऽनुवाकः !! तैत्तिरीयोपनिषद्भाष्ये प्राणं देवा अनु प्राणन्ति । अग्न्यादयः देवाः प्राणं वा- स्वात्मानं प्राणनशक्तिमन्तम् अनु तदात्मभूताः सन्तः प्रा- णन्ति प्राणनकर्म कुर्वन्ति, प्राणनक्रियया क्रियावन्तो भव- न्ति । अध्यात्माधिकारात् देवाः इन्द्रियाणि प्राणमनु प्राण- न्ति मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये, ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमये- नैव परिच्छिन्नात्मना आत्मवन्तः प्राणिनः । किं तर्हि ? तद- न्तर्गतप्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिना आत्म- वन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिः उत्तरोत्तरैः सूक्ष्मैः आनन्दमयान्तैराकाशादिभूतारब्धैरवि- द्याकृतैः आत्मवन्तः सर्वे प्राणिनः ; तथा, स्वाभाविकेना- प्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञाना- नन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मना आत्मवन्त: ; सहि परमार्थत आत्मा सर्वेषामित्येतदप्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्याद्युक्तम् ; तत्कस्मादित्याह - प्राण: हि यस्मात् भूतानां प्राणिनाम् आयुः जीवनम् ' यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदेवायु:' इति श्रुत्यन्तरात् । तस्मात् सर्वायुषम्, सर्वेषामायुः सर्वायुः, सर्वायुरेव सर्वायुषम् इत्युच्यते ; प्राणापगमे मरणप्रसिद्धेः । प्रसिद्धं हि लोके ब्रह्मानन्दवल्ली । सर्वायुष्यं प्राणस्य । अतः अस्माद्वाह्यादसाधारणादन्नमयादा- त्मनोऽपक्रम्य अन्तः साधारणं प्राणमयमात्मानं 'ब्रह्म उपा- सते ये 'अहमस्मि प्राणः सर्वभूतानामात्मा आयुः, जीव- नहेतुत्वात्' इति, ते सर्वमेव आयुः अस्मिँल्लोके ग्रन्ति; नापमृत्युना म्रियन्ते प्राक्प्राप्तादायुष इत्यर्थः । शतं वर्षा - णीति तु युक्तम्, 'सर्वमायुरेति' इति श्रुतिप्रसिद्धेः । किं कारणम् ? —प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति । यो यद्गुणकं ब्रह्मोपास्ते, स तद्गुणभाग्भवतीति विद्याफलप्राप्तेर्हेत्वर्थे पुनर्वचनम् -- प्राणो हीत्यादि । तस्य पूर्वस्य अन्नमयस्य एष एव शरीरे अन्नमये भवः शारीरः आत्मा । क: ? य एष प्राणमयः । तस्माद्वा एतस्मादि- त्याद्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति संकल्पविकल्पात्मकमन्तःकरणम्, तन्मयो मनोमय: ; सोऽयं प्राणमयस्याभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरिति अनियताक्षरपादावसानो मन्त्रविशेषः ; तज्जातीय- वचनो यजुः शब्दः ; तस्य शिरस्त्वम्, प्राधान्यात् । प्राधा- न्यं च यागादौ संनिपत्योपकारकत्वात् यजुषा हि हविर्दीयते स्वाहाकारादिना ॥ "वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो "हि तैत्तिरीयोपनिषद्भाष्ये स्थानप्रयत्ननादस्वरवर्णपदवाक्यविषया तत्संकल्पात्मिका त- द्भाविता वृत्ति: श्रोत्रकरणद्वारा यजुः संकेतेन विशिष्टा यजु- रित्युच्यते । एवम् ऋक्; एवं साम च । एवं च मनोवृत्तित्वे मन्त्राणाम्, वृत्तिरेव आवर्त्यत इति मानसो जप उपपद्यते । अन्यथा अविषयत्वान्मन्त्रो नावर्तयितुं शक्यः घटादिवत् इति मानसो जपो नोपपद्यते । मन्त्रा- वृत्तिश्चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रा- वृत्तिः स्यात् इति चेत्, न; मुख्यार्थासंभवात् । ' त्रिः प्रथमामन्वाह त्रिरुत्तमाम्' इति ऋगावृत्ति: श्रूयते । त ऋचः अविषयत्वे तद्विषयस्मृत्यावृत्या मन्त्रावृत्तौ च क्रिय- माणायाम् ' त्रिः प्रथमामन्वाह' इति ऋगावृत्तिर्मुख्योऽर्थ- श्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपाधिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्म चैतन्यमनादिनिधनं यजुः शब्दवाच्यम् आ- त्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम् । अन्य- थाविषयत्वे रूपादिवदनित्यत्वं च स्यात्; नैतद्युक्तम् । 'सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा' इति च श्रुतिः नित्यात्मनैकत्वं ब्रुवन्ती ऋगादीनां नित्यत्वे सम जसा स्यात् । 'ऋचोऽक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ' इति च मन्त्रवर्णः । आदेशः अत्र ब्राह्मणम्, आदेष्टव्यवि- ब्रह्मानन्दवल्ली । शेषानादिशतीति । अथर्वणाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात् पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् ॥ इति तृतीयानुवाकभाष्यम् ॥ S. U. III. 6 चतुर्थोऽनुवाकः ॥ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बि- भेति कदाचनेति । तखैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्म- नोमयात् । अन्योऽन्तर आत्मा विज्ञान- मयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुष- विधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥ इति चतुर्थोऽनुवाकः ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणमयस्य एष एव आत्मा शारीरः शरीरे प्राणमये भवः शारीरः । कः ? य एष मनोमयः । तस्माद्वा एतस्मा- ब्रह्मानन्दवल्ली । दिति पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयः मनोमय- स्याभ्यन्तरो विज्ञानमयः । मनोमयो वेदात्मा उक्तः । वे- दार्थविषया बुद्धिर्निश्चयात्मिका विज्ञानम्, तच्चाध्यवसायल- क्षणमन्तःकरणस्य धर्मः, तन्मयः निश्चयविज्ञानैः प्रमाणस्व- रूपैर्निर्वर्तित: आत्मा विज्ञानमयः प्रमाणविज्ञानपूर्वको हि यज्ञादि: तायते । यज्ञादिहेतुत्वं च वक्ष्यति लोकेन । निश्च- यविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्व श्रद्धा उपपद्यते । सा सर्व कर्तव्यानां प्राथम्यात् शिर इव शिरः । ऋतसत्ये यथा- व्याख्याते एव । योग: युक्तिः समाधानम् आत्मैव आत्मा । आत्मवतो हि युक्तस्य समाधानवतः अङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति । तस्मात्समाधानं योग आ- त्मा विज्ञानमयस्य । महः पुच्छं प्रतिष्ठा । मह इति महत्त- त्त्वं प्रथमजम्, 'महद्यक्षं प्रथमजं वेद' इति श्रुत्यन्तरात्, पुच्छं प्रतिष्ठा कारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा, यथा वृक्षवीरुधां पृथिवी । सर्वविज्ञानानां च महत्तत्त्वं का- रणम् । तेन तद्विज्ञानमयस्यात्मनः प्रतिष्ठा । तदप्येष श्लो- को भवति पूर्ववत् । यथा अन्नमयादीनां ब्राह्मणोक्तानां प्र- काशकाः श्लोकाः, एवं विज्ञानमयस्यापि ॥ इति चतुर्थानुवाकभाष्यम् ॥ पञ्चमोऽनुवाकः ॥ विज्ञानं यज्ञं तनुते । कर्माणि तनुते- ऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठ- मुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वा- न्कामान्समश्नुत इति । तस्यैष एव शा- रीर आत्मा । यः पूर्वस्य । तस्माद्वा एत- स्माद्विज्ञानमयात् । अन्योऽन्तर आत्मा- नन्दमयः । तेनैष पूर्णः । स वा एष पुरुष- विध एव । तस्य पुरुष विधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आ- नन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तद- प्येष श्लोको भवति ॥ १ ॥ इति पञ्चमोऽनुवाकः ॥ ब्रह्मानन्दवल्ली । विज्ञानं यज्ञं तनुते, विज्ञानवान्हि यज्ञं तनोति श्रद्धापू- र्वकम् ; अतो विज्ञानस्य कर्तृत्वं तनुत इति । कर्माणि च तनुते । यस्माद्विज्ञानकर्तृकं सर्वम् तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मेति । किंच, विज्ञानं ब्रह्म सर्वे देवा: इन्द्रादयः ज्येष्ठम्, प्रथमजत्वात्; सर्ववृत्तीनां वा तत्पूर्वकत्वात्प्रथमजं विज्ञानं ब्रह्म उपासते ध्यायन्ति, तस्मिन्विज्ञानमये ब्रह्मण्य- भिमानं कृत्वा उपासत इत्यर्थः । तस्मात्ते महतो ब्रह्मण उपासनात् ज्ञानैश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेत् यदि वेद विजानाति ; न केवलं वेदैव, तस्मात् ब्रह्मणः चेत् न प्रमाद्यति ; बाह्येष्वनात्मस्वात्मा भावित: ; तस्मात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनम् ; तन्निवृत्त्यर्थ - मुच्यते-- तस्माच्चेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदि- त्यर्थः । ततः किं स्यादिति, उच्यते - शरीरे पाप्मनो हित्वा ; शरीराभिमाननिमित्ता हि सर्वे पाप्मानः; तेषां च विज्ञान- मये ब्रह्मण्यात्माभिमानात् निमित्तापाये हानमुपपद्यते, छत्रा- पाय इव च्छायायाः । तस्मात् शरीराभिमाननिमित्तान्स- र्वान् पाप्मनः शरीरप्रभवान् शरीरे एव हित्वा विज्ञानमय- ब्रह्मस्वरूपापन्नः तत्स्थान् सर्वान् कामान् विज्ञानमयेनैवा- तैत्तिरीयोपनिषद्भाष्ये त्मना समश्नुते सम्यग्भुङ्क्ते इत्यर्थः । तस्य पूर्वस्य मनो - मयस्य आत्मा एष एव शरीरे मनोमये भवः शारीरः । कः ? य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्ता - र्थम् । आनन्दमय इति कार्यात्मप्रतीति:, अधिकारात् मयट्शब्दाच्च । अन्नादिमया हि कार्यात्मानो भौतिका इहा- धिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट् चात्र विकारार्थे दृष्टः, यथा अन्नमय इत्यत्र । तस्मात्कार्यात्मा आनन्दमयः प्रत्येतव्यः । संक्रमणाच्च । ' आनन्दमयमा - त्मानमुपसंक्रामति' इति वक्ष्यति । कार्यात्मनां च संक्र मणमन्नात्मनां दृष्टम् । संक्रमणकर्मत्वेन च आनन्दमय आत्मा श्रूयते, यथा 'अन्नमयमात्मानमुपसंक्रामति' इति । न च आत्मन एवोपसंक्रमणम्, अधिकारविरोधात् । असंभवाच । न ह्यात्मनैव आत्मन उपसंक्रमणं संभवति, स्वात्मनि भेदा- भावात्; आत्मभूतं च त्रह्म संक्रमितुः । शिरआदि- कल्पनानुपपत्तेश्च । न हि यथोक्तलक्षणे आकाशादि- कारणे अकार्यपतिते शिरआद्यवयवरूपकल्पना उपपद्यते । 'अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने' 'अस्थूलमनणु' 'नेति नेत्यात्मा' इत्यादिविशेषापोह श्रुतिभ्यश्च । मन्त्रोदाहरणानुपप- त्तेश्व । न हि प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूय- ब्रह्मानन्दवल्ली । माने आनन्दमये आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभा- वात् 'असन्नेव स भवति असद्ब्रह्मेति वेद चेत्' इति मन्त्रोदाहरणमुपपद्यते । ' ब्रह्म पुच्छं प्रतिष्ठा' इत्यपि चानुपपन्नं पृथग्ब्रह्मण: प्रतिष्टात्वेन ग्रहणम् । तस्मात्कार्यप- तित एवानन्दमयः, न पर एवात्मा । आनन्द इति वि- द्याकर्मणोः : फलम् तद्विकार आनन्दमयः । स च विज्ञा- नमयादान्तरः, यज्ञादिहेतोर्विज्ञानमयादस्यान्तरत्वश्रुतेः । " ज्ञानकर्मणोर्हि फलं भोक्त्रर्थत्वादान्तरतमं स्यात्; आन्तरत- मश्च आनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थ- त्वाच्च । प्रियादिप्रयुक्ते हि विद्याकर्मणी; तस्मात्प्रियादीनां फ- लरूपाणामात्मसंनिकर्षात् विज्ञानमयादस्याभ्यन्तरत्वमुपपद्य- ते ; प्रियादिवासनानिर्वर्तितो ह्यात्मा आनन्दमयो विज्ञानम- याश्रित: स्वप्ने उपलभ्यते । तस्य आनन्दमयस्यात्मनः इष्टपु- त्रादिदर्शनजं प्रियं शिर इव शिरः, प्राधान्यात् । मोद इति प्रियलाभनिमित्तो हर्षः । स एव च प्रकृष्टो हर्षः प्रमोदः । आनन्द इति सुखसामान्यम् आत्मा प्रियादीनां सुखावयवा - नाम्, तेष्वनुस्यूतत्वात् । आनन्द इति परं ब्रह्म ; तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषयविशेषों- पाधौ अन्तःकरणवृत्तिविशेषे तमसा अप्रच्छाद्यमाने प्रसन्ने तैत्तिरीयोपनिषद्भाष्ये अभिव्यज्यते । तद्विषयसुखमिति प्रसिद्धं लोके । तद्दृ- त्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनवस्थितत्वात् सुखस्य क्ष- णिकत्वम् । तद्यदन्तःकरणं तपसा तमोघ्नेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावत्, तावत् विविक्ते प्रसन्ने अन्तःकरणे आनन्द विशेष उत्कृष्यते विपुली- भवति । वक्ष्यति च— 'रसो वै सः, रस ह्येवायं लब्ध्वा- नन्दी भवति, एष ह्येवानन्दयाति, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुत्यन्तरात् । एवं च का- मोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षः आनन्दस्य व- क्ष्यते । एवं च उत्कृष्यमाणस्य आनन्दमयस्यात्मन: पर- मार्थब्रह्मविज्ञानापेक्ष्या ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानानन्त- लक्षणम्, यस्य च प्रतिपत्त्यर्थं पश्च अन्नादिमयाः कोशा उप- न्यस्ताः, यच्च तेभ्य आभ्यन्तरम्, येन च ते सर्वे आत्मवन्तः, तत् ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्य अवसानभूतम् अद्वैतं ब्रह्म प्रतिष्ठा, आनन्दमयस्य एकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्या- वसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थे एष लोको भवति ॥ इति पञ्चमानुवाकभाष्यम् ॥ षष्ठोऽनुवाकः ॥ असन्नेव स भवति । असद्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य । कश्चन ग- च्छती ३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता ३ उ । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इद ँ सर्वमसृजत । यदिदं किंच । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच । तत्सत्यमि- तैत्तिरीयोपनिषद्भाष्ये त्याचक्षते । तदप्येष श्लोको भवति ॥ १ ॥ इति षष्ठोऽनुवाकः ॥ असन्नेव असत्सम एव, यथा असन् अपुरुषार्थ संबन्धी, एवं सः भवति अपुरुषार्थसंबन्धी । कोऽसौ ? यः असत् अविद्यमानं ब्रह्म इति वेद विजानाति चेत् यदि । तद्विपर्य येण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्त- मितमपि, अस्ति तत् ब्रह्म इति वेद चेत्, कुतः पुनराशङ्का तन्नास्तित्वे ? व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । व्यवहार- विषये हि वाचारम्भणमात्रे अस्तित्वभावितबुद्धिः तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा 'घटादिर्व्य- वहारविषयतयोपपन्नः सन् तद्विपरीतः असन्' इति प्रसि- द्धम्, एवं तत्सामान्यादिहापि स्याद्ब्रह्मणो नास्तित्वं प्रत्या- शङ्का । तस्मादुच्यते — अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानत: ? तदाह-सन्तं विद्यमानं ब्रह्मस्व- रूपेण परमार्थसदात्मापन्नम् एनम् एवंविदं विदुः ब्रह्मविदः । ततः तस्मात् अस्तित्ववेदनात् सः अन्येषां ब्रह्मवद्विज्ञेयो भव- तीत्यर्थः । अथवा यो नास्ति त्रह्मेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्थालक्षणस्य नास्तित्वं प्रतिप- द्यते ; ब्रह्मप्रतिपत्त्यर्थत्वात्तस्य । अतः नास्तिकः सः असन् " ब्रह्मानन्दवल्ली । असाधुरुच्यते लोके । तद्विपरीतः सन् यः अस्ति त्रह्मेति चेद्वेद, स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्ग वर्णाश्रमादिव्यवस्था- लक्षणं श्रद्दधानतया यथावत्प्रतिपद्यते यस्मात्, तत: तस्मात् सन्तं साधुमार्गस्थम् एनं विदुः साधवः । तस्मा- दस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्य पूर्वस्य विज्ञानमयस्य एष एव शरीरे विज्ञानमये भवः शारीरः आत्मा । कोऽसौ ? य एष आनन्दमयः । तं प्रति नास्त्या- शङ्का नास्तित्वे । अपोढसर्वविशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता ; सर्वसाम्याच्च ब्रह्मणः । यस्मादेवम्, अतः तस्मात् अथ अनन्तरं श्रोतुः शिष्यस्य अनुप्रश्नाः आचार्योक्ति- मनु एते प्रश्नाः । सामान्यं हि ब्रह्म आकाशादिकारणत्वात् विदुषः अविदुषश्च; अतः अविदुषोऽपि ब्रह्मप्राप्तिराशङ्कयते उत अपि अविद्वान् अमुं लोकं परमात्मानम् इतः प्रेत्य कश्चन, चनशब्दः अप्यर्थे, अविद्वानपि गच्छति प्राप्नोति ? ' किं वा न गच्छति ?' इति द्वितीयोऽपि प्रश्नो द्रष्टव्यः, अनुप्रश्ना इति बहुवचनात् । विद्वांसं प्रत्यन्यौ प्रश्नौ - यद्यविद्वान्सामान्यं कारणमपि ब्रह्म न गच्छति, अतो विदुषोऽपि ब्रह्मागमनमा - शङ्कयते ; अतस्तं प्रति प्रश्न:- आहो विद्वानिति । उकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतशब्दाव्या- तैत्तिरीयोपनिषद्भाष्ये - सज्य आहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छति — उताहो विद्वानिति । विद्वान् ब्रह्मविदपि कश्चित् इतः प्रेत्य अमुं लोकं समश्नुते प्राप्नोति । समश्नुते उ इत्येवं स्थिते, अयादेशे य- लोपे च कृते, अकारस्य प्लुति:-- समश्नुता ३ उ इति । विद्वान्समश्नुते अमुं लोकम्; किं वा, यथा अविद्वान्, एवं विद्वानपि न समश्नुते इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्व- दविद्वद्विषयौ; बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । 'असद्ब्रह्मेति वेद चेत् ' ' अस्ति ब्रह्मेति चेद्वेद' इति श्रवणादस्ति नास्तीति संशयः । तत: अर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणः अपक्षपातित्वात् अविद्वा- न्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽपि अवि- दुष इव विदुषोऽप्यगमनमाशङ्कय किं विद्वान्समश्नुते न समश्नुते इति तृतीयोऽनुप्रश्नः ॥ एतेषां प्रतिवचनार्थ उत्तरो ग्रन्थ आरभ्यते । तत्र अस्ति- त्वमेव तावदुच्यते । यश्ञ्चोक्तम् 'सत्यं ज्ञानमनन्तं ब्रह्म इति, तत्र च कथं सत्यत्वमित्येतद्वक्तव्यमिति इदमुच्यते । सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि सदेव सत्यमिति; त- स्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थता अवगम्यते अस्य ग्रन्थस्य ? शब्दानुगमात् । अनेनैव ह्यर्थेनान्वितानि उ- ब्रह्मानन्दवल्ली । त्तरवाक्यानि --' तत्सत्यमित्याचक्षते ' ' यदेष आकाश आ- नन्दो न स्यात्' इत्यादीनि । तत्र असदेव ब्रह्मेत्याशङ्कयते । कस्मात् ? यदस्ति, तद्विशेषतो गृह्यते; यथा घटादि । यन्नास्ति, तन्नोपलभ्यते; यथा शशविषाणादि । तथा नो- पलभ्यते ब्रह्म; तस्माद्विशेषतः अग्रहणान्नास्तीति । तन्न, आकाशादिकारणत्वाद्ब्रह्मणः । न नास्ति ब्रह्म । कस्मात् ? आकाशादि हि सर्व कार्यं ब्रह्मणो जातं गृह्यते; य- स्माच्च जायते किंचित्, तदस्तीति दृष्टं लोके, यथा घटाङ्क- रादिकारणं मृद्बीजादि; तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । न चासतो जातं किंचिद्गृह्यते लोके कार्यम् । असतश्चे- नामरूपादि कार्यम्, निरात्मकत्वान्नोपलभ्येत; उपलभ्यते तु; तस्मादस्ति ब्रह्म । असतश्चेत्कार्य गृह्यमाणमपि असद- न्वितमेव स्यात्; न चैवम्; तस्मादस्ति ब्रह्म । तत्र 'कथमसतः सज्जायेत' इति श्रुत्यन्तरमसतः सज्जन्मासं- भवमन्वाचष्टे न्यायतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्वीजादिवत् कारणं स्यात्, अचेतनं तर्हि । न; कामयि- नृत्वात् । न हि कामयित्रचेतनमस्ति लोके । सर्वज्ञं हि ब्रह्मेत्यवोचाम ; अतः कामयितृत्वोपपत्तिः । कामयितृत्वाद- स्मदादिवदनाप्तकाममिति चेत्, न; स्वातन्त्र्यात् । यथा तैत्तिरीयोपनिषद्भाष्ये अन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति, न तथा ब्रह्म- णः प्रवर्तकाः कामाः । कथं तर्हि ? सत्यज्ञानलक्षणाः स्वात्म- भूतत्वाद्विशुद्धाः । न तैर्ब्रह्म प्रवर्त्यते ; तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मण:; अतो न अनाप्तकामं ब्रह्म । साधनान्तरानपेक्षत्वाच्च । यथा अन्येषाम- नात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरिक्तका- र्यकरणसाधनान्तरापेक्षाश्च न तथा ब्रह्मणः । किं तर्हि ? स्वात्मनोऽनन्याः । तदेतदाह - सोऽकामयत । सः आत्मा यस्मादाकाशः संभूतः, अकामयत कामितवान् । कथम् ? बहु प्रभूतं स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे बहुत्वं स्या- दिति, उच्यते - प्रजायेय उत्पद्येय । न हि पुत्रोत्पत्तेरिवार्थान्तर- विषयं बहुभवनम् । कथं तर्हि ? आत्मस्थानभिव्यक्तनामरू- पाभिव्यक्त्या । यदा आत्मस्थे अनभिव्यक्ते नामरूपे व्या- क्रियेते, तदा आत्मस्वरूपापरित्यागेनैव ब्रह्मणः अप्रविभ- क्तदेशकाले सर्वावस्थासु व्याक्रियेते । तदेतन्नामरूपव्याक- रणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यते अल्पत्वं वा, यथा आकाशस्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतः तङ्कारेणैवात्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्त- ब्रह्मानन्दवल्ली । देशकालं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वा वस्तु विद्यते । अतः नामरूपे सर्वावस्थे ब्रह्मणैवात्मवती । न ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उ- च्येते । ताभ्यां च उपाधिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसं- व्यवहारभाग्ब्रह्म । सः आत्मा एवंकामः सन् तपः अतप्य- त । तप इति ज्ञानमुच्यते, 'यस्य ज्ञानमयं तपः' इति श्रु- त्यन्तरात् । आप्तकामत्वाच्च इतरस्य असंभव एव तपसः । तत्तपः अतप्यत तप्तवान्, सृज्यमानजगद्रचनादिविषयामालो- चनामकरोदात्मेत्यर्थः । सः एवमालोच्य तपः तवा प्राणि- कर्मादिनिमित्तानुरूपम् इदं सर्वं जगत् देशतः कालतः ना- म्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूय- मानम् असृजत सृष्टवान् । यदिदं किंच यत्किंचेदमविशिष्ट- म्, तत् इदं जगत् सृष्ट्वा, किमकरोदिति, उच्यते— तदेव सृष्टं जगत् अनुप्राविशदिति ॥ " तत्रैतञ्चिन्त्यम् —— कथमनुप्राविशदिति । किम् यः स्रष्टा, स तेनैवात्मनानुप्राविशत्, उत अन्येनेति ? किं तावद्युक्तम् ? क्त्वाप्रत्ययश्रवणात्, यः स्रष्टा, स एवानुप्राविशदिति । ननु न युक्तं मृद्वच्चेत्कारणं ब्रह्म, तदात्मकत्वात्कार्यस्य, कारण- मेव हि कार्यात्मना परिणमते ; अतः अप्रविष्टस्यैव कार्योत्प- तैत्तिरीयोपनिषद्भाष्ये तेरूर्ध्व पृथक्कारणस्य पुनः प्रवेशोऽनुपपन्नः । न हि घटपरि- णामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेशः, एवमनेन आत्मना नामरूपकार्ये अनुप्रवेश आत्मनः इति चेत् श्रुत्यन्तराञ्च 'अनेन जीवेनात्मनानुप्रवि- श्य ' इति ; नैवं युक्तम्, एकत्वाद्ब्रह्मणः । मृदात्मनस्त्वनेकत्वात् सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनानुप्रवेशः, मृदश्चूर्ण- स्य अप्रविष्टदेशत्वाच्च । न त्वात्मन एकत्वे सति निरवयव- त्वादप्रविष्टदेशाभावाच्च प्रवेश उपपद्यते; कथं तर्हि प्रवेशः स्थान् ? युक्तश्च प्रवेशः, श्रुतत्वात् - ' तदेवानुप्राविशत् ' इति । सावयवमेवास्तु ; तर्हि सावयवत्वात् मुखे हस्तप्रवेशवत् नामरूपकार्ये जीवात्मनानुप्रवेशो युक्त एवेति चेत्, न; अशून्यदेशत्वात् । न हि कार्यात्मना परिणतस्य नामरूपका- र्यदेशव्यतिरेकेण आत्मशून्यः प्रदेशोऽस्ति, यं प्रविशेज्जीवा- त्मना । कारणमेव चेत्प्रविशेत्, जीवात्मत्वं जह्यात्, यथा घटो मृत्प्रवेशे घटत्वं जहाति । ' तदेवानुप्राविशत्' इति च श्रुतेर्न कारणानुप्रवेशो युक्तः । कार्यान्तरमेव स्यादिति चेत् - तदेवानुप्राविशदिति जीवात्मरूपं कार्य नामरूपपरिणतं कार्यान्तरमेव आपद्यत इति चेत्, न; विरोधात् । न हि घटो घटान्तरमापद्यते, व्यतिरेकश्रुतिविरोधाच्च । जीवस्य ब्रह्मानन्दवल्ली । नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन्; तदा- पत्तौ मोक्षासंभवाच्च । न हि यतो मुच्यमानः, तदेव आप- द्यते । न हि शृङ्खलापत्तिः वद्धस्य तस्करादे: । बाह्यान्तर्भेदेन परिणतमिति चेत् — तदेव कारणं ब्रह्म शरीरायाधारत्वेन तदन्तर्जीवात्मना आधेयत्वेन च परिणतमिति चेत्, न व- हिष्ठस्य प्रवेशोपपत्तेः । न हि यो यस्यान्तःस्थः स एव त- प्रविष्ट उच्यते । बहिष्टस्यानुप्रवेशः स्यात्, प्रवेशशब्दार्थस्यै- वं दृष्टत्वात् — यथा गृहं कृत्वा प्राविशदिति । जलसूर्यका - दिप्रतिविम्ववत् प्रवेशः स्यादिति चेत्, न; अपरिच्छिन्नत्वा- दमूर्तत्वाच्च । परिच्छिन्नस्य मूर्तस्यान्यस्य अन्यत्र प्रसादख- भाव के जलादौ सूर्यकादिप्रतिबिम्वोदयः स्यात्, न त्वात्म- न:; अमूर्तत्वान्, आकाशादिकारणस्य आत्मनः व्यापकत्वा- न् । तद्विप्रकृष्टदेशप्रतिविम्वाधारवस्त्वन्तराभावाच्च प्रतिवि- म्ववत्प्रवेशो न युक्तः । एवं तर्हि नैवास्ति प्रवेश: ; न च ग- त्यन्तरमुपलभामहे, ' तदेवानुप्राविशत्' इति श्रुतेः । श्रु- तिच नोडतीन्द्रियविषये विज्ञानोत्पत्तौ निमित्तम् । न चास्माद्वाक्यात् यन्नवतामपि विज्ञानमुत्पद्यते । हन्त तर्ह्य- नर्थकत्वादपोह्यमेतद्वाक्यम् ' तत्सृष्ट्वा तदेवानुप्राविशत्' इति ; न, अन्यार्थत्वात् । किमर्थमस्थाने चर्चा ? प्रकृतो हान्यो S. U. III. 7 तैत्तिरीयोपनिषद्भाष्ये विवक्षितोऽस्य वाक्यार्थः अस्ति; स स्मर्तव्य:- 'ब्रह्मवि- -- दाप्नोति परम् ' ' सत्यं ज्ञानमनन्तं ब्रह्म' 'यो वेद निहितं गुहायाम्' इति । तद्विज्ञानं च विवक्षितम् ; प्रकृतं च तत् । ब्रह्मस्वरूपावगमाय च आकाशाद्यन्नमयान्तं कार्य प्रदर्शि- तम; ब्रह्मावगमश्च आरब्धः । तत्र अन्नमयादात्मनोऽन्यो- ऽन्तर आत्मा प्राणमयः, तदन्तर्मनोमयो विज्ञानमय इति दिनानगुहायां प्रवेशित:; तत्र च आनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेण आनन्द विवृद्धयवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्ववि- कल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते । न ह्यन्यत्रोपलभ्यते ब्रह्म, निर्विशेष- त्वात्; विशेषसंबन्धो ग्रुपलब्धिहेतुर्दृष्टः - यथा राहोश्चन्द्रा- * विशेष संवन्धः । एवमन्तःकरणगुहात्मसंबन्धो ब्रह्मण उप- लब्धिहेतुः संनिकर्षान्, अवभासात्मकत्वाच अन्त:कर- णस्य । यथा च आलोकविशिष्टघटाद्युपलब्धिः, एवं बुद्धि- प्रत्ययालोकविशिष्टात्मोपलब्धि: स्यान; तस्मात् उपलब्धि- तौ गुहायां निहितमिति प्रकृतमेव । तद्वृत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुप्राविशदित्युच्यते ॥ , तदेवेदमाकाशादिकारणं कार्य सृष्ट्वा तदनुप्रविष्टमिवान्त- ब्रह्मानन्दवल्ली । र्गुहायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञात्रित्येवं विशेषवदुपल- भ्यते । स एव तस्य प्रवेश: ; तस्मादस्ति तत्कारणं ब्रह्म । अतः अस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत् कार्यमनुप्र- विश्य ; किम् ? सच्च मूर्तं त्यच्च अमूर्तम् अभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेन आत्मना व्याक्रियेते मूर्तीमूर्तशब्दवाच्ये । ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वा आत्मा ते अभवदित्युच्यते । किं च, निरुक्तं चानि- रुक्तं च, निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यः देशकालविशिष्टतया इदं तदित्युक्तम् ; अनिरुक्तं तद्विपरीतम् ; निरुक्तानिरुक्ते अपि मूर्तीमूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षं, तथा निलयनं चानिलयनं च । निल- यनं नीडम् आश्रयः मूर्तस्यैव धर्म: ; अनिलयनं तद्विपरीतम् अमूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनानि अमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव, सर्वोत्तरकालभावश्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणानि अमू- र्तस्य व्याकृतविषयाण्येवैतानि । विज्ञानं चेतनम् ; अविज्ञानं तद्रहितमचेतनं पाषाणादि । सत्यं च व्यवहारविषयम्, अ- धिकारात्; न परमार्थसत्यम्; एकमेव हि परमार्थसत्यं ब्रह्म । इह पुनः व्यवहारविषयमापेक्षिकं सत्यम्, मृगतृष्ण- तैत्तिरीयोपनिषद्भाष्ये " काद्यनृतापेक्षया उदकादि सत्यमुच्यते । अनृतं च तद्विपरी- तम् । किं पुनः ? एतत्सर्वमभवत् सत्यं परमार्थसत्यम् ; किं पुनस्तत् ? ब्रह्म, 'सत्यं ज्ञानमनन्तं ब्रह्म' इति प्रकृत- त्वात् । यस्मात् सत्यदादिकं मूर्तीमूर्तधर्मजातं यत्किंचेदं सर्वमविशिष्टं विकारजातमेकमेव सच्छब्दवाच्यं ब्रह्माभवत्, तद्व्यतिरेकेणाभावान्नामरूपविकारस्य तस्मात् तत् ब्रह्म स- त्यमित्याचक्षते ब्रह्मविदः । अस्ति नास्तीत्यनुप्रश्नः प्रकृत: ; तस्य प्रतिवचनविषये एतदुक्तम् -' आत्माकामयत बहुस्याम् ' इति । स यथाकामं च आकाशादिकार्य सत्यदादिलक्षणं सृष्ट्वा तदनुप्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन् वह्नभवत्; तस्मात् तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन् हृद- गुहायां निहितं तत्प्रत्ययावभासविशेषेणोपलभ्यमानमस्ती- त्येवं विजानीयादित्युक्तं भवति । तत् एतस्मिन्नर्थे ब्राह्मणोक्ते एषः श्लोकः मन्त्रः भवति । यथा पूर्वेष्वन्नमयाद्यात्मप्रकाश- काः पञ्चस्वपि, एवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि म- न्त्रः कार्यद्वारेण भवति ॥ इति षष्ठानुवाकभाष्यम् ॥ • सप्तमोऽनुवाकः ॥ । असदा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वै तत्सुकृ- तम् । रसो वै सः । रसँ ह्येवायं लब्ध्वा - नन्दी भवति । को ह्येवान्यात्कः प्राण्या- त् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एत- स्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषो मन्वानस्य । तदप्येष श्लोको भवति ॥ १ ॥ इति सप्तमोऽनुवाकः ॥ तैत्तिरीयोपनिषद्भाष्ये असद्वा इदमग्र आसीत् । असदिति व्याकृतनामरूप- विशेषविपरीतरूपम् अव्याकृतं ब्रह्म उच्यते ; न पुनरत्यन्त- मेवासत् । न ह्यसतः सज्जन्मास्ति । इदम् इति नामरूपविशे- षवद्व्याकृतं जगत्; अग्रे पूर्व प्रागुत्पत्तेः ब्रह्मैव असच्छन्दवा- त्र्यमासीत् । तत: असतः वै सत् प्रविभक्तनामरूपविशेषम् अजायत उत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति — पितुरिव पुत्रः ? नेत्याह । तत् असच्छच्दवाच्यं स्वयमेव आत्मानमेव अकुरुत कृतवत् । यस्मादेवम्, तस्मात् तत् ब्रह्मैव सुकृतं स्वयं कर्तृ उच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्वं सर्वात्मना, तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतम् उच्यते । सर्वथापि तु फलसंब- न्धादिकारणं सुकृतशब्दवाच्यं प्रसिद्धं लोके । यदि पुण्यं यदि वा अन्यत् सा प्रसिद्धिः नित्ये चेतनकारणे सति उपपद्यते, तस्मादस्ति ब्रह्म, सुकृतप्रसिद्धेरिति । इतश्चास्ति ; कुत: ? रस- त्वात् । कुतो रसत्वप्रसिद्धिर्ब्रह्मण इत्यत आह- यद्वै तत्सुकृतं रसो वै सः । रसो नाम तृप्तिहेतुः आनन्दकरो मधुराम्ला- दि: प्रसिद्धो लोके । रसमेव हि अयं लब्ध्वा प्राप्य आन- न्दी सुखी भवति । नासत आनन्दहेतुत्वं दृष्टं लोके । बाह्या- नन्दसाधनरहिता अपि अनीहा निरेषणा ब्राह्मणा बाह्यरस- 1 ब्रह्मानन्दवल्ली । - लाभादिव सानन्दा दृश्यन्ते विद्वांसः ; नूनं ब्रह्मैव रसस्ते- षाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्रह्म । इतश्चा- स्ति ; कुत: ? प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणिति अपानेन अपानिति । एवं वायवी- या ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैर्निर्वर्त्यमाना दृश्य- न्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं सं- भवति, अन्यत्रादर्शनात् । तदाह — यत् यदि एषः आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यात् न भवेत, को ह्येव लोके अन्यात् अपानचेष्टां कुर्यादित्यर्थः । कः प्रा- ण्यात् प्राणनं वा कुर्यात्; तस्मादस्ति तद्ब्रह्म, यदर्थाः कार्य- करणप्राणनादिचेष्टा:; तत्कृत एव च आनन्दो लोकस्य । कुत: ? एप ह्येत्र पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम् । स एवात्मा आनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषो- रस्ति तद्ब्रह्म । सद्वस्त्वाश्रयणेन हि अभयं भवति ; नासद्व- स्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । कथमभयहेतुत्वमिति, उच्यते यदा ह्येव यस्मात् एषः साधक: एतस्मिन् ब्रह्मणि— किंविशिष्टे ? अदृश्ये दृश्यं नाम द्रष्टव्यं विकारः, दर्शनार्थत्वाद्विकारस्य ; न दृश्यम् अदृश्यम्, अविकार " तैत्तिरीयोपनिषद्भाष्ये इत्यर्थः । एतस्मिन्नदृश्ये अविकारेऽविषयभूते, अनात्म्ये अशरीरे, यस्माददृश्यं तस्मादनात्म्यम्, यस्मादात्म्यं तस्मादनिरुक्तम् ; विशेषो हि निरुच्यते ; विशेषश्च विकारः ; अविकारं च ब्रह्म, सर्वविकारहेतुत्वात्; तस्मात् अनिरुक्तम् । यत एवम् तस्मादनिलयनं निलयनं नीड आश्रयः न निल- यनम् अनिलयनम् अनाधारं तस्मिन् एतस्मिन् अदृश्येऽना- त्म्येsनिरुक्तेऽनिलने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्या- र्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गा- न्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा सः तस्मिन्नानात्वस्त्र भयहेतोरविद्याकृतस्यादर्शना- दुभयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति, तदा नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति, न आत्मन एवं आत्मनो भयं युक्तम् ; तस्मात् आत्मैव आत्मन: अभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु ; तच्चायुक्तमसति भयत्राणे ब्रह्मणि । तस्मात्तेषामभयदर्शनादस्ति तद्भयकारणं ब्रह्मेति । कदा असौ अभयं गतो भवति साधकः ? यदा नान्यत्पश्यति आत्मनि च अन्तरं भेदं न कुरुते, तदा अभयं गतो भवतीत्य- भिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मात् एष: अविद्या- ब्रह्मानन्दवल्ली । वान् अविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रव- त्पश्यत्यात्मनि च एतस्मिन् ब्रह्मणि, उत अपि, अरम् अल्प- मपि, अन्तरं छिद्रं भेददर्शनं कुरुते; भेददर्शनमेव हि भयका- रणम् ; अल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोः तस्य भेददर्शिनः आत्मनो भयं भवति । तस्मादात्मैवात्मनो भयकारणमविदुषः ; तदेतदाह - तत् ब्रह्म त्वेत्र भयं भेददशि- नो विदुषः ईश्वरोऽन्यो मत्तः अहमन्यः संसारीत्येवंविदुषः भेददृष्टमीश्वराख्यं तदेव ब्रह्म अल्पमप्यन्तरं कुर्वतः भयं भवति एकत्वेन अमन्वानस्य । तस्मात् विद्वानप्यविद्वानेवासौ, योऽय- मेकमभिन्नमात्मतत्त्वं न पश्यति । उच्छेदहेतुदर्शनाद्धयुच्छे- द्याभिमतस्य भयं भवति; अनुच्छेद्यो ह्युच्छेदहेतुः ; तत्र अ- सत्युच्छेदहेतौ उच्छेद्ये न तद्दर्शनकार्य भयं युक्तम् । सर्व च जगद्भयवद्दृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते — नूनं तद- स्ति भयकारणमुच्छेदहेतुरनुच्छेद्यात्मकम् यतो जगद्विभेती- ति । तत् एतस्मिन्नप्यर्थे एषः श्लोकः भवति ॥ " इति सप्तमानुवाकभाष्यम् ॥ - अष्टमोऽनुवाकः ॥ भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धा- वति पञ्चम इति । सैषानन्दस्य मीमाँ- सा भवति । युवा स्यात्साधुयुवाध्या- यकः । आशिष्ठो दृढिष्ठो बलिष्ठः । तत्रेयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १ ॥ स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चा- कामहतस्य । ते ये शतं देवगन्धर्वाणामा- नन्दाः । स एकः पितॄणां चिरलोकलोका- ब्रह्मानन्दवल्ली । नामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामा- नन्दाः । स एक आजानजानां देवानामा- नन्दः ॥ २ ॥ श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चा- कामहतस्य । ते ये शतं कर्मदेवानां देवा- नामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्या- नन्दः ॥ ३ ॥ श्रोत्रियस्य चाकामहतस्य । ते ये शत- मिन्द्रस्यानन्दाः । स एको बृहस्पतेरान- न्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजाप- तैत्तिरीयोपनिषद्भाष्ये तेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्र- ह्मण आनन्दः । श्रोत्रियस्य चाकामह- तस्य ॥ ४ ॥ भीषा भयेन अस्मात् वातः पवते । भीषोदेति सूर्य: । भीषा अस्मात् अग्निश्चेन्द्रश्च । मृत्युर्धाविति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पवनादिकार्येष्वा- यासबहुलेषु नियताः प्रवर्तन्ते; तद्युक्तं प्रशास्तरि सति; यस्मात् नियमेन तेषां प्रवर्तनम्, तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म । यतस्ते भृत्या इव राज्ञः अस्मात् ब्रह्मण: भयेन प्रवर्तन्ते तच्च भयकारणमानन्दं ब्रह्म । तस्य अस्य ब्रह्मण: आनन्दस्य एषा मीमांसा विचारणा भवति । कि- मानन्दस्य मीमांस्यमिति, उच्यते-- किमानन्दो विषयवि- षयिसंबन्धजनितः लौकिकानन्दवत्, आहोस्वित् स्वाभा- विक:, इत्येवमेषा आनन्दस्य मीमांसा ॥ तत्र लौकिक आनन्दो बाह्याध्यात्मिक साधनसंपत्तिनि- मित्त उत्कृष्टः । सः य एष निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेन आनन्देन व्यावृत्तविषयबुद्धिगम्य ब्रह्मानन्दवल्ली । आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दः ब्रह्मानन्द- स्यैव मात्रा ; अविद्यया तिरस्क्रियमाणे विज्ञाने उत्कृष्यमा- णायां च अविद्यायां ब्रह्मादिभिः कर्मवशात् यथाविज्ञानं विपयादिसाधनसंबन्धवशाच्च विभाव्यमानश्च लोकेऽनव- स्थितो लौकिक: संपद्यते ; स एव अविद्याकामकर्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिषु अकामहतविद्वच्छ्रोत्रिय प्रत्यक्षों विभाव्यते शतगुणोत्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य त्र- ह्मण आनन्द इति ॥ निरस्ते त्वविधाकृते विषयविषयिविभागे, विद्यया स्वाभा- विकः परिपूर्णः एकः आनन्द: अद्वैतः भवतीत्येतमर्थ विभावयिष्यन्नाह-- युवा प्रथमवयाः; साधुयुवेति साधु- श्रासौ युवा चेति यूनो विशेषणम् युवाप्यसाधुर्भवति सा - धुरप्ययुवा, अतो विशेषणं युवा स्यात्साधुयुवेति; अध्या- यक: अधीतवेदः । आशिष्ठ: आशास्तृतमः ; दृढिष्ठः दृढ- तम: ; वलिष्ठः बलवत्तम: ; एवमाध्यात्मिक साधनसंपन्नः । तस्येयं पृथिवी उर्वी सर्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथि- वीपतिरित्यर्थः । तस्य च य आनन्दः, सः एकः मानुषः मनु- ष्याणां प्रकृष्टः एक आनन्दः । ते ये शतं मानुषा आनन्दाः, तैत्तिरीयोपनिषद्भाष्ये 1 स एको मनुष्यगन्धर्वाणामानन्दः ; मानुषानन्दात् शतगुणे- नोत्कृष्टः मनुष्यगन्धर्वाणामानन्दः भवति । मनुष्याः सन्तः कर्मविद्याविशेषात् गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्त- र्धानादिशक्तिसंपन्नाः सूक्ष्मकार्यकरणा:; तस्मात्प्रतिघाता- पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसंपत्तिश्च । ततः अप्र- तिहन्यमानस्य प्रतीकारवतः मनुष्यगन्धर्वस्य स्याच्चित्तप्रसा दः । तत्प्रसादविशेषात्सुखविशेषाभिव्यक्ति: । एवं पूर्वस्था: पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगु- न आनन्दोत्कर्ष उपपद्यते । प्रथमं तु अकामहताग्रहणं म नुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दात् शतगुणेन आनन्दोत्कर्षः मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवा अध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्येते । ते ह्यविशिष्टे सर्वत्र । अकामहतत्वं तु विषयोकर्पाप- कर्षतः सुखोत्कर्षापकर्षाय विशेष्यते । अतः अकामहतग्रह- णम्, तद्विशेषतः शतगुणसुखोत्कर्षोपलब्धेः अकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानाभिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितॄणाम्, ते चि- रलोकलोका इति । . आजान इति देवलोकः तस्मिन्नाजाने जाता ब्रह्मानन्दवल्ली । आजानजा देवाः, स्मार्तकर्मविशेषतो देवस्थानेषु जाताः । कर्मदेवा ये वैदिकेन कर्मणा अग्निहोत्रादिना केव- लेन देवानपियन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः ; इन्द्र- स्तेषां स्वामी ; तस्य आचार्यो बृहस्पतिः । प्रजापतिः विराट् त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । यत्रैते आनन्दभेदा एकतां गच्छन्ति, धर्मश्च तन्निमित्त: ज्ञानं च तद्विषयम् अकामहतत्वं च निरतिशयं यत्र, स एष हिरण्यगर्भो ब्रह्मा, तस्यैप आनन्दः श्रोत्रियेण अवृ- जिनेन अकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते । तस्मादे- तानि त्रीणि साधनानीत्यवगम्यते । तत्र श्रोत्रियत्वावृजि- त्वे नियते, अकामहतत्वं तु उत्कृष्यत इति प्रकृष्टसाधनता अवगम्यते । तस्य अकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रि- प्रत्यक्ष ब्रह्मण आनन्द: यस्य परमानन्दस्य मात्रा एक- देशः, 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुत्यन्तरात् । स एष आनन्द:- यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ताः यलैकतां गताः - स एष परमानन्दः स्वाभाविकः, अद्वैतात् ; आनन्दानन्दिनोश्च अविभागोऽत्र ॥ स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोका- तैत्तिरीयोपनिषद्भाष्ये त्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति । एतं प्राणमयमात्मानमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं वि- ज्ञानमयमात्मानमुपसंक्रामति । एतमान- न्दमयमात्मानमुपसंक्रामति । तदप्येष श्लोको भवति ॥ ५॥ इति अष्टमोऽनुवाकः ॥ तदेतन्मीमांसाफलमुपसंहियते -- स यश्चायं पुरुष इति । यः गुहायां निहितः परमे व्योम्नि आकाशादिकार्य सृष्ट्वा अन्नमयान्तम्, तदेवानुप्रविष्टः, सः य इति निश्चीयते । को- ऽसौ ? अयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखाण्युपजीवन्ति, सः यश्चासावादित्ये इति निर्दिश्यते । स एकः भिन्नप्रदेशघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽध्यात्मं न युक्तो निर्देश:; यश्चायं दक्षिणेऽक्षन्निति तु युक्तः, प्रसिद्धत्वात् । न, परा- धिकारात् । परो ह्यात्मा अत्र अधिकृत: 'अदृश्येऽनात्म्ये ' 'भीषास्माद्वातः पवते' 'सैषानन्दस्य मीमांसा' इति । न ब्रह्मानन्दवल्ली । ११.३. -- हि अकस्मादप्रकृतो युक्तो निर्देष्टुम् ; परमात्मविज्ञानं च विव- क्षितम् । तस्मात् पर एव निर्दिश्यते—स एक इति । नन्वा- नन्दस्य मीमांसा प्रकृता; तथा अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविक: आनन्दः परमात्मैव, न विषयविषयि- संबन्धजनित इति । ननु तदनुरूप एव अयं निर्देश:- ' स यश्चायं पुरुषे यश्चासावादित्ये स एक:' इति भिन्नाधि- करणस्थविशेषोपमर्देन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थ- कम्; न अनर्थकम्, उत्कर्षापकर्षापोहार्थत्वात् । द्वैतस्य हि यो मूर्तीमूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गत: स चेत्पुरु- पगतविशेषोपमर्देन परमानन्दमपेक्ष्य समो भवति, न कश्चि- दुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्यभयं प्रतिष्ठां विन्दत इत्युपपन्नम् ॥ 'अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राण- नाभयप्रतिष्ठाभयदर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृत: अनुप्रश्न एक: ; द्वावन्यानुप्रश्नौ विद्वदविदुषो- ब्रह्मप्राप्यप्राप्तिविषयौ; तत्र विद्वान्समश्नुते न समश्नुत इत्य- नुप्रश्नोऽन्त्यः ; तदपाकरणायोच्यते । मध्यमोऽनुप्रश्न: अन्त्या- पाकरणादेव अपाकृत इति तदुपाकरणाय न यत्यते । स यः कश्चित् एवं यथोक्तं ब्रह्म उत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञा- S. U. III. 8 I तैत्तिरीयोपनिषद्भाष्ये नमनन्तमस्मीत्येवं वेत्तीति एवंवित्; एवंशब्दस्य प्रकृतपरा- मर्शार्थत्वात् । स किम ? अस्माल्लोकात्प्रेत्य दृष्टादृष्टेष्टविषय- समुदायो हि अयं लोकः, तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निर पेक्षो भूत्वा एतं यथाव्याख्यातम् अन्नमयमात्मानमुपसंका- मति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति, सर्व स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । ततः अभ्यन्तर- मेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति । अथादृश्येना- त्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते ॥ , तत्रैतच्चिन्त्यम् -- कोऽयमेवंवित्, कथं वा संक्रामतीति; किं परस्मादात्मनोऽन्य: संक्रमणकर्ता प्रविभक्तः, उत स एवेति । किं ततः ? यद्यन्यः स्यात् श्रुतिविरोधः - 'त- त्सृष्ट्वा तदेवानुप्राविशत् ' ' अन्योऽसावन्योऽहमस्मीति । न स वेद' 'एकमेवाद्वितीयम्' 'तत्त्वमसि' इति । अथ स एव आनन्दमयमात्मानमुपसंक्रामतीति, कर्मकर्तृत्वानुपपत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोषो न परिहर्तुं शक्यत इति, व्यर्था चिन्ता । अथ अन्यत- रस्मिन्पक्षे दोषाप्राप्तिः तृतीये वा पक्षे अदुष्टे, स एव शा- स्वार्थ इति व्यर्थैव चिन्ता ; न, तन्निर्धारणार्थत्वात् । सत्यं ब्रह्मानन्दवल्ली । प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिन् तृतीये वा पक्षे अदुष्टे अवधृते व्यर्था चिन्ता स्यात्; न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता । सत्यमर्थवती चिन्ता, शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि च त्वम्, न तु निर्णे- व्यसि ; किं न निर्णेतव्यमिति वेदवचनम् ? न ; कथं तर्हि ? बहु- प्रतिपक्षत्वात्; एकत्ववादी त्वम्, वेदार्थपरत्वात्; बहवो हि नानात्ववादिनो वेदवाह्याः त्वत्प्रतिपक्षाः ; अतो ममाशङ्का- न निर्णेयसीति । एतदेव मे स्वस्त्ययनम् — यन्मामेकयो- गिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वान्; आरभे च चिन्ताम् ॥1 स एव तु स्यात्, तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो हि अत्र विवक्षितः - 'ब्रह्मविदाप्नोति परम् ' इति । न हि अन्यस्य अन्यभावापत्तिरुपपद्यते । ननु तस्या- पि तद्भावापत्तिरनुपपन्नैव । न, अविद्याकृतानात्मापोहार्थ- त्वात् । या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते, सा अ- विद्याकृतस्य अन्नादिविशेषात्मनः आत्मत्वेनाध्यारोपितस्य अनात्मन: अपोहार्था । कथमेवमर्थता अवगम्यते ? विद्यामा- त्रोपदेशात् । विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिः; तचेह विद्यामात्रमात्मप्राप्तौ साधनमुपदिश्यते । मार्गविज्ञानोपदेशव- तैत्तिरीयोपनिषद्भाष्ये ' " दिति चेत्, तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । क- स्मात् ? देशान्तरप्राप्तौ मार्गविज्ञानोपदेशदर्शनात् । न हि ग्राम एव गन्तेति चेत्, न; वैधर्म्यात् । तत्र हि ग्रामविषयं नोपदिश्यते, तत्प्राप्तिमार्गविषयमेवोपदिश्यते विज्ञानम; न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञान- मुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत न; नित्यत्वान्मोक्षस्येत्यादि- ना प्रत्युक्तत्वात् । श्रुतिश्च तत्सृष्ट्वा तदेवानुप्राविशत् ' इति कार्यस्य तदात्मत्वं दर्शयति । अभयप्रतिष्ठोपपत्तेश्च । यदि हि विद्यावान स्वात्मनोऽन्यन्न पश्यति, ततः अभयं प्रतिष्ठां विन्दत इति स्यात्, भयहेतोः परस्य अन्यस्य अभा- वात् । अन्यस्य च अविद्याकृतत्वे विद्यया अवस्तुत्वदर्शनो- पपत्तिः; तद्धि द्वितीयस्य चन्द्रस्य असत्त्वम्, यद्तैमिरिकेण चक्षुष्मता न गृह्यते ; नैवं न गृह्यत इति चेत्, न; सुषुप्तस- माहितयोरग्रहणात् । सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत्, न; सर्वाग्रहणात् । जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत्, न; अविद्याकृतत्वात् जाग्रत्स्वप्नयो: यदन्यग्रहणं जाग्रत्स्व- प्रयोः, तदविद्याकृतम्, विद्याभावे अभावात् । सुषुप्ते अग्रह- णमपि अविद्याकृतमिति चेत्, न; स्वाभाविकत्वात् । द्रव्यस्य ; ब्रह्मानन्दवल्ली । हि तत्त्वमविक्रिया, परानपेक्षत्वात्; विक्रिया न तत्त्वम्, परापेक्षत्वात् । न हि कारकांपेक्षं वस्तुनस्तत्त्वम्; सतो विशेषः कारकापेक्षः ; विशेषश्च विक्रिया; जाग्रत्स्वप्नयोश्च ग्रहणं विशेषः । यद्धि यस्य नान्यापेक्षं स्वरूपम्, तत्तस्य त- त्त्वम् ; यदन्यापेक्षम्, न तत्तत्त्वम्; अन्याभावे अभावात् । तस्मात् स्वाभाविकत्वात् जाग्रत्स्वप्नवत् न सुषुप्ते विशेष: । येषां पुनरीश्वरो अन्य आत्मनः, कार्य च अन्यत्, तेषां भया- निवृत्ति:, भयस्य अन्यनिमित्तत्वात्; सतश्च अन्यस्य आत्म- हानानुपपत्तिः । न च असत आत्मलाभः । सापेक्षस्य अन्यस्य भयहेतुत्वमिति चेत्, न ; तस्यापि तुल्यत्वात् । यद्धर्माद्यनु- सहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्य अन्यद्भयकारणं स्यात्, तस्यापि तथाभूतस्य आत्महानाभावात् भयानिवृत्तिः; आत्महाने वा सदसतोरितरेतरापत्तौ सर्वत्र अनाश्वास एव । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्य अविद्या- कल्पितत्वाददोषः । तैमिरिकदृष्टस्य हि द्वितीयचन्द्रस्य न आत्मलाभो नाशो वा अस्ति । विद्याविद्ययोः तद्धर्मत्व- मिति चेत्, न ; प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत् प्रत्यक्षावुपलभ्येते अन्तःकरणस्थौ । न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टृधर्मत्वम् । अविद्या च स्वानुभवेन रूप्यते - मूढो- तैत्तिरीयोपनिषद्भाष्ये ऽहम् अविविक्तं मम विज्ञानम् इति । तथा विद्याविवेक्रो अनुभूयते । उपदिशन्ति च अन्येभ्य आत्मनो विद्यां बुधाः । तथा च अन्ये अवधारयन्ति । तस्मात् नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च ; न आत्मधर्मौ, 'नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति श्रुत्यन्तरात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते; न परमार्थतो विद्यमाने । अभेदे 'एतमानन्दमयमात्मानमुपसंक्रामति' इति कर्मकर्तृ- त्वानुपपत्तिरिति चेत्, न विज्ञानमालत्वात् संक्रमणस्य । न जलूकादिवत् संक्रमणमिहोपदिश्यते ; किं तर्हि, विज्ञान- मात्रं संक्रमणश्रुतेरर्थः । ननु मुख्यमेव संक्रमणं श्रूयते — उप- संक्रामतीति इति चेत्, न; अन्नमये अदर्शनात् । न हि अन्न- मयमुपसंक्रामतः बाह्यादस्माल्लोकात् जलूकावत् संक्रमणं दृश्य- ते, अन्यथा वा । मनोमयस्य वहिर्निर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्या आत्मसंक्रमणमिति चेत्, न ; स्वात्मनि क्रियाविरोधात् । अन्योऽन्नमयमन्यमुपसंक्रामतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसंक्रामतीति विरोधः स्यात् । तथा न आनन्दमयस्य आत्मसंक्रमणमुपपद्यते । तस्मात् न प्राप्तिः संक्रमणम् ; नापि अन्नमयादीनामन्यतम- कर्तृकं पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्यतिरिक्तकर्तृकं ब्रह्मानन्दवल्ली । ज्ञानमात्रं च संक्रमणमुपपद्यते । ज्ञानमात्रत्वे च आनन्दम- यान्तःस्थस्यैव सर्वान्तरस्य आकाशाद्यन्नमयान्तं कार्य सृष्ट्वा अनुप्रविष्टस्य हृदयगुहाभिसंबन्धादन्नमयादिषु अनात्मसु आत्मविभ्रमः संक्रमणात्मक विवेकविज्ञानोत्पत्त्या विनश्यति । तदेतस्मिन्नविद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते न हि अन्यथा सर्वगतस्य आत्मनः संक्रमणमुपपद्यते । वस्त्व- न्तराभावाच्च । न च स्वात्मन एव संक्रमणम् । न हि जलू- का आत्मानमेव संक्रामति । तस्मात् सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरसलाभा- भयसंक्रमणादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारविषये; न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । तमेतं निर्विकल्पमात्मानम् एवं क्रमेणोपसंक्र- म्य विदित्वा न विभेति कुतश्चन अभयं प्रतिष्ठां विन्दत इत्येतस्मिन्नर्थेऽपि एषः श्लोकः भवति । सर्वस्यैव अस्य प्रकरणस्य आनन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनाय एष मन्त्रो भवति ॥ इति अप्रमानुवाकभाष्यम् ॥ नवमोऽनुवाकः ॥ यतो वाचो निवर्तन्ते । अप्राप्य मन- सा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्वनेति । एत ह वाव न त- पति । किमह ँ साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानः स्पृणुते । उभे ह्येवैष एते आ- त्मान ँ स्पृणुते । य एवं वेद । इत्युपनि- षत् ॥ १ ॥ इति नवमोऽनुवाकः ॥ यतः यस्मात् निर्विकल्पात् यथोक्तलक्षणात् अद्वयान- न्दात् आत्मनः, वाच: अभिधानानि द्रव्यादिसविकल्पवस्तु- विषयाणि वस्तुसामान्यान्निर्विकल्पे अद्वयेऽपि ब्रह्मणि प्रयो- क्तृभिः प्रकाशनाय प्रयुज्यमानानि, अप्राप्य अप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धीयन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च, यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे, तदर्थे च प्रवर्तते प्र- काशनाय । यत्र च विज्ञानम्, तत्र वाचः प्रवृत्तिः । तस्मात् सहैव वाङ्मनसयोः अभिधानप्रत्ययोः प्रवृत्तिः सर्वत्र । त- ब्रह्मानन्दवल्ली । स्मात् ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचः यस्मादप्रत्ययविषयादनभिधेयाददृश्यादिविशे- षणात् सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन नित्र- र्तन्ते तं ब्रह्मण आनन्दं श्रोत्रियस्य अवृजिनस्य अका- महतस्य सर्वेषणाविनिर्मुक्तस्य आत्मभूतं विषयविषयिसं- बन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं त्र- ह्मणो विद्वान् यथोक्तेन विधिना न विभेति कुतश्चन, निमित्ताभावात् । न हि तस्माद्विदुषः अन्यद्वस्त्वन्तरमस्ति भिन्नं यतो विभेति । अविद्यया यदा उदरमन्तरं कुरुते, अथ तस्य भयं भवतीति हि युक्तम् । विदुषश्च अविद्या- कार्यस्य तैमिरिकदृष्ट द्वितीयचन्द्रवत् नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते । मनोमये च उदाहृतः मन्त्रः, मन- सो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तुत्यर्थं न विभेति कदाचनेति भयमात्रं प्रतिषिद्धम् ; इह अद्वैत - विषये न विभेति कुतश्चनेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमिति, उच्यते — एतं यथोक्तमेवंविदम् ह वाव इत्य- वधारणार्थौ, न तपति नोद्वेजयति न संतापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीति, उच्यते— किं तैत्तिरीयोपनिषद्धाप्ये कस्मात् साधु शोभनं कर्म नाकरवं न कृतवानस्मि इति पश्चात्संतापो भवति आसन्ने मरणकाले ; तथा किं कस्मात् पापं प्रतिषिद्धं कर्म अकरवं कृतवानस्मि इति च नरकपत- नादिदुःखभयात् तापो भवति । ते एते साध्वकरणपाप- क्रिये एवमेनं न तपतः, यथा अविद्वांसं तपतः । कस्मात्पु- नविद्वांसं न तपत इति उच्यते—स य एवंविद्वान एते साध्वसाधुनी तापहेतू इति आत्मानं स्पृणुते प्रीणाति वलयति वा, परमात्मभावेन उभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मात् एवम् एष विद्वान् एते आत्मा- नात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वा आ- त्मानं स्पृणुत एव । कः ? य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद, तस्य आत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके . जन्मान्तरारम्भके न भवतः । इतीयम् एवं यथोक्ता अस्यां वल्ल्यां ब्रह्मविद्योपनिषत्, सर्वाभ्यः विद्याभ्यः परमरहस्यं दर्शितमित्यर्थः परं श्रेयः अस्यां निषण्णमिति ॥ - इति नवमानुवाकभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ. तैत्तिरीयोपनिषद्भाष्ये ब्रह्मानन्दवल्लीभाष्यं संपूर्णम् ॥ तैत्तिरीयोपनिषद्भाष्यम भृगुवल्ली भृगुवल्ली ॥ सत्यं ज्ञानमनन्तं ब्रह्म आकाशादिकार्यमन्न- मयान्तं सृष्ट्वा तदेवानुप्रविष्टं विशेषवदिवो- पलभ्यमानं यस्मात् तस्मात् सर्वकार्यवि- , लक्षणम् अदृश्यादिधर्मकमेव आनन्दं तदे- वाहमिति विजानीयात्, अनुप्रवेशस्य तदर्थत्वात्; तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवतः इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः । परिसमाप्ता च ब्रह्म- विद्या । अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यम्; अन्नादि- विषयाणि च उपासनान्यनुक्तानीत्यतः इदमारभ्यते— भृगुर्वै वारुणिः । वरुणं पितरमुपससा- र । अधीहि भगवो ब्रह्मेति । तस्मा एत- त्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तँ होवाच । यतो वा इमा- तैत्तिरीयोपनिषद्भाष्ये नि भूतानि जायन्ते । येन जातानि जी- वन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्वि- जिज्ञासस्व । तद्ब्रह्मेति । स तपोऽतप्य- त । स तपस्तप्त्वा ॥ १ ॥ इति प्रथमोऽनुवाकः ॥ आख्यायिका विद्यास्तुतये, प्रियाय पुत्राय पित्रोक्तेति - भृगुर्वै वारुणिः । वै-शब्दः प्रसिद्धानुस्मारक:, भृगुरित्येवं नामा प्रसिद्धो अनुस्मार्यते, वारुणि: वरुणस्यापत्यं वारुणि: वरुणं पितरं ब्रह्म विजिज्ञासुः उपससार उपगतवान् -- . अधीहि भगवो ब्रह्म इत्यनेन मन्त्रेण । अधीहि अध्यापय कथय । स च पिता विधिवदुपसन्नाय तस्मै पुत्राय एतत् वचनं प्रोवाच— अन्नं प्राणं चक्षुः श्रोत्रम् मनो वाचम् इति । अन्नं शरीरं तदभ्यन्तरं च प्राणम् अत्तारम् अन- न्तरमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचम् इत्येतानि ब्रह्मोपलब्धौ द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्य- नादीनि तं भृगुं होवाच ब्रह्मणो लक्षणम् । किं तत् ? यतः यस्मात् वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते, ' भृगुवल्ली । विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंवि- शन्ति तादात्म्यमेव प्रतिपद्यन्ते, उत्पत्तिस्थितिलयकालेषु य- दात्मतां न जहति भूतानि, तदेतद्ब्रह्मणो लक्षणम्, तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व ; यदेवंलक्षणं ब्रह्म तद- न्नादिद्वारेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च - ' प्राणस्य प्रा- णमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यम्' इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति । स भृगुः ब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुः, तपो ब्रह्मोपलब्धिसाधनत्वेन अ- तप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्र- तिपत्तिर्भृगोः ? सावशेषोक्तेः । अन्नादिब्रह्मण: प्रतिपत्तौ द्वारं लक्षणं च यतो वा इमानि इत्याद्युक्तवान् । सावशेषं हि तत्, साक्षाद्ब्रह्मणोऽनिर्देशात् । अन्यथा हि स्वरूपेणैव ब्रह्म निर्दे- व्यं जिज्ञासवे पुत्राय इदमित्थंरूपं ब्रह्म इति ; न चैवं नि- रदिशत्; किं तर्हि, सावशेष मेवोक्तवान् । अतोऽवगम्यते नू- नं साधनान्तरमप्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोवि- शेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्; सर्वेषां हि नियतसा- ध्यविषयाणां साधनानां तप एव साधकतमं साधनमिति हि प्रसिद्धं लोके । तस्मात् पित्रा अनुपदिष्टमपि ब्रह्मविज्ञानसा- तैत्तिरीयोपनिषद्भाष्ये धनत्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्यान्तःकरणस- माधानम्, तद्दूारकत्वाद्ब्रह्मप्रतिपत्तेः, 'मनसश्चेन्द्रियाणां च यैकाग्र्यं परमं तपः । तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ' इति स्मृतेः । स च तपस्तप्त्वा ॥ इति प्रथमानुवाकभाष्यम् ॥ द्वितीयोऽनुवाकः ॥ अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंवि- शन्तीति । तद्विज्ञाय । पुनरेव वरुणं पि- तरमुपससार । अधीहि भगवो ब्रह्मेति । तर होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तप- स्तप्त्वा ॥ १ ॥ इति द्वितीयोऽनुवाकः ॥ अन्नं ब्रह्मेति व्यजानात् विज्ञातवान् । तद्धि यथोक्तल- क्षणोपेतम् । कथम् ? अन्नाद्धयेव खलु इमानि भूतानि जा- यन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविश- न्तीति । तस्माद्युक्तमन्नस्य ब्रह्मत्वमित्यभिप्राय: । स एवं तपस्तप्त्वा, अन्नं ब्रह्मेति विज्ञाय लक्षणेन उपपत्त्या च पुन- s. C. 111. 9 I तैत्तिरीयोपनिषद्भाष्ये रेव संशयमापन्नः वरुणं पितरमुपससार - अधीहि भगवो ब्रह्मेति । कः पुन: ' संशयहेतुरस्येति, उच्यते—अन्नस्योत्प- त्तिदर्शनात् । तपसः पुनः पुनरुपदेश: साधनातिशयत्वाव- धारणार्थः । यावद्ब्रह्मणो लक्षणं निरतिशयं न भवति, या- वच्च जिज्ञासा न निवर्तते, तावत्तप एव ते साधनम् ; तप- सैव ब्रह्म विजिज्ञासस्वेत्यर्थः । ऋज्वन्यत् ॥ इति द्वितीयानुवाकभाष्यम् ॥ तृतीयोऽनुवाकः ॥ प्राणो ब्रह्मेति व्यजानात् । प्राणाद्धधेव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंवि- शन्तीति । तद्विज्ञाय । पुनरेव वरुणं पि- तरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासख । तपो ब्रह्मेति । स तपोऽतप्यत । स तप- स्तप्त्वा ॥ १ ॥ इति तृतीयोऽनुवाकः । चतुर्थोऽनुवाकः ॥ मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंवि- शन्तीति । तद्विज्ञाय । पुनरेव वरुणं पि- तरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासख । तपो ब्रह्मेति । स तपोऽतप्यत । स तप- स्तप्त्वा ॥ १ ॥ इति चतुर्थोऽनुवाकः ॥ पञ्चमोऽनुवाकः ॥ विज्ञानं ब्रह्मेति व्यजानात् । विज्ञाना- द्वयेव खल्विमानि भूतानि जायन्ते । वि- ज्ञानेन जातानि जीवन्ति । विज्ञानं प्रय- न्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म वि- जिज्ञासख । तपो ब्रह्मेति । स तपोऽतप्य- त । स तपस्तप्त्वा ॥ १ ॥ इति पञ्चमोऽनुवाकः ॥ षष्ठोऽनुवाकः ॥ आनन्दो ब्रह्मेति व्यजानात् । आनन्दा- द्वयेव खल्विमानि भूतानि जायन्ते । आ- नन्देन जातानि जीवन्ति । आनन्दं प्रय- नृत्यभिसंविशन्तीति । सैषा भार्गवी वा- रुणी विद्या । परमे व्योमन् प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति । प्रजया पशुभि- ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १ ॥ । इति षष्ठोऽनुवाकः ॥ एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्ष- णमपश्यन् शनैः शनैः अन्तरनुप्रविश्य अन्तरतममानन्दं ब्रह्म विज्ञातवान् तपसैव साधनेन भृगुः; तस्मात् ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तप: साधनमनुष्ठेयमिति प्रकरणार्थः । अधुना आख्यायिकांच भृगुवल्ली । उपसंहृत्य श्रुतिः स्वेन वचनेन आख्यायिकानिर्वर्त्यमर्थमा- चष्टे । सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योमन हृदयाकाशगुहायां परमे आनन्दे अद्वैत प्रतिष्ठित परिसमाप्ता अन्नमयादात्मनोऽधिप्रवृत्ता । य एवमन्योऽपि तपसैव साधनेन अनेनैव क्रमेण अनुप्रवि- श्य आनन्दं ब्रह्म वेद, स एवं विद्याप्रतिष्ठानात् प्रतितिष्ठति आनन्दे परमे ब्रह्मणि, त्रह्मैव भवतीत्यर्थः । दृष्टं च फलं तस्योच्यते- - अन्नवान प्रभूतमन्नमस्य विद्यत इत्यन्नवान् ; स- तामात्रेण तु सर्वो हि अन्नवानिति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यन्नादः, दीप्ताग्निर्भवतीत्यर्थः । महान्भवति । केन महत्त्वमित्यत आह-- प्रजया पुत्रादिना पशुभिः गवा- वादिभिः ब्रह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा । महान्भवति कीर्त्या ख्यात्या शुभाचारनिमित्तया ॥ इति षष्ठानुवाकभाष्यम् ॥ सप्तमोऽनुवाकः ॥ अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्र- तिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । त- देतदन्नमन्ने प्रतिष्ठितम् । स य एतन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्ना- दो भवति । महान् भवति । प्रजया पशु- भिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १ ॥ इति सप्तमोऽनुवाकः ॥ किं च, अन्नेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात् तस्मात् गुरुमिव अन्नं न निन्द्यात्; तत् अस्य एवं ब्रह्मविदो व्रतम् उपदिश्यते । व्रतोपदेशो अन्नस्तुतये, स्तुतिभाक्त्वं च अन्नस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम्, शरीरान्तर्भावा- त्प्राणस्य । यत् यस्यान्तः प्रतिष्ठितं भवति, तत्तस्यान्नं भवती ति । शरीरे च प्राणः प्रतिष्ठितः, तस्मात् प्राणोऽन्नं शरीर- । भृगुवल्ली । मन्नादम् । तथा शरीरमप्यन्नं प्राणोऽन्नादः । कस्मात् प्राणे शरीरं प्रतिष्ठितम् ? तन्निमित्तत्वाच्छरीरस्थिते: । तस्मात् तदेतत् उभयं शरीरं प्राणश्च अन्नमन्नादश्च । येनान्योन्य- स्मिन्प्रतिष्ठितं तेनान्नम् ; येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मात् प्राणः शरीरं च उभयमन्नमन्नादं च । स य एवम एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नान्नादात्मनैव । किं च, अन्नवानन्नादो भवतीत्यादि पूर्ववत् ॥ इति सप्तमानुवाकभाष्यम् ॥ S. U. III 10 अष्टमोऽनुवाकः ॥ अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्यो- तिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठि- ताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्र- जया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥ इति अष्टमोऽनुवाकः ॥ अन्नं न परिचक्षीत न परिहरेत् । तद्रतं पूर्ववत्स्तुत्यर्थम् । तदेवं शुभाशुभकल्पनया अपरिहीयमाणं स्तुतं महीकृतमन्नं स्यात् । एवं यथोक्तमुत्तरेष्वपि आपो वा अन्नम् इत्यादिषु योजयेत् ॥ इति अष्टमानुवाकभाष्यम् ॥ नवमोऽनुवाकः ॥ अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी । । वा अन्नम् । आकाशोऽन्नादः । पृथिव्या- माकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । . अन्नवानन्नादो भवति । महान्भवति । प्र- जया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥ इति नवमोऽनुवाकः ॥ अप्सु ज्योतिः इत्यब्ज्योतिषोरन्नान्नाद्गुणत्वेनोपासकस्य अन्नस्य बहुकरणं व्रतम् ॥ इति नवमानुवाकभाष्यम् ॥ दशमोऽनुवाकः ॥ न कंचन वसतौ प्रत्याचक्षीत । तद्व- तम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्ष- ते। एतद्वै मुखतोऽन्नँ राद्धम् । मुखतो- ऽस्मा अन्नँ राध्यते । एतद्वै मध्यतोऽन्न राद्धम् । मध्यतोऽस्मा अन्नँ राध्यते । एत- द्वा अन्ततोऽन्नः राद्धम् । अन्ततोऽस्मा अन्न‍ राध्यते ॥ १ ॥ तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचिदपि न प्रत्याचक्षीत, वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्ते अवश्यं हि अशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बह्वन्नं प्राप्नुयात् बह्वन्नसंग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसः अभ्यागताय अन्ना- थिंने अराधि संसिद्धम् अस्मै अन्नम् इत्याचक्षते, न नास्ती- भृगुवल्ली । ति प्रत्याख्यानं कुर्वन्ति, तस्माच्च हेतोः बह्नन्नं प्राप्नुयादिति पूर्वेण संबन्ध: । अपि च अन्नदानस्य माहात्म्यमुच्यते- यथा यत्कालं प्रयच्छत्यन्नम्, तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह — एतद्वै अन्नं मुखतः मुख्ये प्रथमे वयसि मुख्यया वा वृत्त्या पूजापुरःसरमभ्यागतायान्नार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्या- दिति, उच्यते — मुखतः पूर्वे वयसि मुख्यया वा वृत्त्या अस्मै अन्नदाय अन्नं राध्यते; यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन च उपचारेण; तथा अन्ततः अन्ते वयसि जघन्येन च उपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यन्नम् ॥ य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । ' इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥२॥ य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तद्दानस्य च फलम्, तस्य यथोक्तं फलमुपनमते । इदानीं ब्रह्मण तैत्तिरीयोपनिषद्भाष्ये उपासनप्रकारः उच्यते— क्षेम इति वांचि । क्षेमो नाम उपात्तपरिरक्षणम् । ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठित- मित्युपास्यम् । योगक्षेम इति, योगः अनुपात्तस्योपादा- नम् । तौ हि योगक्षेमौ प्राणापानयोः बलवतोः सतोर्भवतः यद्यपि, तथापि न प्राणापाननिमित्तावेव; किं तर्हि, ब्रह्मनि- मित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठित- मित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेन आत्मना ब्रह्मैवो- पास्यम् । कर्मणो ब्रह्मनिर्वर्त्यत्वात् हस्तयोः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषी: मनुष्येषु भवा मानुष्याः समाज्ञाः, आध्यात्मिक्यः समाज्ञा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ अनन्तरं दैवी: दैव्यः देवेषु भवाः समाज्ञा उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्रह्मैव तृप्त्या- त्मना वृष्टौ व्यवस्थितमित्युपास्यम् ; तथा अन्येषु तेन तेना- त्मना ब्रह्मैवोपास्यम् । तथा वलरूपेण विद्युति ॥ यश इति पशुषु । ज्योतिरिति नक्ष- तेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्व- मित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रति- भृगुवल्ली । ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति ॥ ३ ॥ यशोरूपेण पशुषु। ज्योतीरूपेण नक्षत्रेषु । प्रजाति: अमृतम् अमृतत्वप्राप्तिः पुत्रेण ऋणविमोक्षद्वारेण आनन्दः सुखमित्ये- तत्सर्वमुपस्थनिमित्तं ब्रह्मैव अनेनात्मना उपस्थे प्रतिष्ठितमि- त्युपास्यम्। सर्वं हि आकाशे प्रतिष्ठितम् ; अतो यत्सर्वमाकाशे तद्ब्रह्मैवेत्युपास्यम् ; तच्चाकाशं ब्रह्मैव । तस्मात् तत् सर्वस्य प्रति- ष्ठेत्युपासीत । प्रतिष्ठागुणोपासनात् प्रतिष्ठावान् भवति । एवं सर्वेष्वपि। यद्यत्राधिगतं फलम्, तत् ब्रह्मैव ; तदुपासनात्तद्वा- न्भवतीति द्रष्टव्यम्; श्रुत्यन्तराच्च -- ' तं यथा यथोपासते तदेव भवति' इति । तन्मह इत्युपासीत । महः महत्त्वगुण- वत् तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थो भवति ॥ तन्नम इत्युपासीत । नम्यन्तेऽस्मै का- माः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भव- ति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्ये- णं म्रियन्ते द्विषन्तः सपत्नाः । परि ये- तैत्तिरीयोपनिषद्भाष्ये प्रिया भ्रातृव्याः । स यश्चायं पुरुषे । य- श्वासावादित्ये । स एकः ॥ ४ ॥ तन्नम इत्युपासीत नमनं नमः नमनगुणवत् तदुपासी- त । नम्यन्ते प्रह्वीभवन्ति अस्मै उपासित्वे कामा: काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मेत्युपासीत । ब्रह्म परि- वृढतममित्युपासीत । ब्रह्मवान् तद्गुणो भवति । तद्ब्रह्मणः प- रिमर इत्युपासीत ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च दे- वता विद्युदृष्टिश्चन्द्रमा आदित्योऽग्निरित्येताः । अतः वायुः परिमरः श्रुत्यन्तरप्रसिद्धेः । स एवायं वायुराकाशेनानन्य इत्याकाशो ब्रह्मणः परिमरः ; तस्मादाकाशं वाय्वात्मानं ब्रह्म- ण: परिमर इत्युपासीत । एनम् एवविदं प्रतिस्पर्धिनो द्विष- अद्विपन्तोऽपि सपत्ना यतो भवन्ति, अतो विशेष्यन्ते द्वि- पन्तः सपत्ना इति । एनं द्विषन्तः सपत्ना: ते परिम्रियन्ते न्तः; प्राणान् जहति । किं च, ये च अप्रिया अस्य भ्रातृव्या अद्वि- । षन्तोऽपि ते च परिम्रियन्ते ॥ 'प्राणो वा अन्नं शरीरमन्नादम्' इत्यारभ्य आकाशान्तस्य कार्यस्यैव अन्नान्नादत्वमुक्तम् । उक्तं नाम- - किं तेन ? तेनै- तत्सिद्धं भवति — कार्यविषय एव भोज्यभोक्तृत्वकृतः - भृगुवल्ली । संसार:, न त्वात्मनीति । आत्मनि तु भ्रान्त्या उपचर्यते । नन्वात्मापि परमात्मनः कार्यम्, ततो युक्तः तस्य संसार इति ;न, असंसारिण एव प्रवेशश्रुतेः । ' तत्सृष्ट्वा तदेवानुप्रावि- शत्' इत्याकाशादिकारणस्य हि असंसारिण एव परमात्मनः कार्येष्वनुप्रवेशः श्रूयते । तस्मात्कार्यानुप्रविष्टो जीव आत्मा पर एव असंसारी ; सृष्ट्वा अनुप्राविशदिति समानकर्तृत्वोपप- त्तेश्च । सर्गप्रवेशक्रिययोश्चैकश्चेत्कर्ता, ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावान्तरापत्तिरिति चेत्, न प्रवेशस्यान्यार्थ - त्वेन प्रत्याख्यातत्वात् । ' अनेन जीवेन' इति विशेषश्रुतेः ध- मन्तरेणानुप्रवेश इति चेत्, न; 'तत्सत्यम् ' 'स आत्मा' 'तत्त्वमसि' इति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारि- त्वमिति चेत्, न; उपलब्धुरनुपलभ्यत्वात् । संसारधर्मवि- शिष्ट आत्मोपलभ्यत इति चेत्, न; धर्माणां धर्मिणोऽव्यति- रेकात् कर्मत्वानुपपत्तेः । उष्णप्रकाश योर्दाह्यप्रकाश्यत्वानुपप- त्तिवत् त्रासादिदर्शनाद्दुः खित्वाद्यनुमीयत इति चेत्, न; त्रा- सादेर्दु:खस्य च उपलभ्यमानत्वात् नोपलब्धृधर्मत्वम् । का- पिलकाणादादितर्कशास्त्रविरोध इति चेत्, न तेषां मूला- भावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सि- द्धम् आत्मनोऽसंसारित्वम्, एकत्वाच्च । कथमेकत्वमिति, उ- तैत्तिरीयोपनिषद्भाष्ये च्यते- - स यश्चायं पुरुषे यश्चासावादित्ये स एकः इत्येवमादि पूर्ववत्सर्वम् ॥ स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रम्य । एतं प्रा- णमयमात्मानमुपसंक्रम्य । एतं मनोम- यमात्मानमुपसंक्रम्य । एतं विज्ञानम- यमात्मानमुपसंक्रम्य । एतमानन्दमयमा- त्मानमुपसंक्रम्य । इमाँल्लोकान्कामान्नी कामरूप्यनुसंचरन् । एतत्साम गाय- न्नास्ते । हावु हा३वु हा३षु ॥ ५ ॥ अन्नमयादिक्रमेण आनन्दमयमात्मानमुपसंक्रम्य एतत्साम गायन्नास्ते । 'सत्यं ज्ञानम्' इत्यस्या ऋचः अर्थः व्या- ख्यातः विस्तरेण तद्विवरणभूतया आनन्दवल्ल्या । 'सो- ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता' इति तथ फलवचनस्य अर्थविस्तारो नोक्तः । के ते ? किंविषया वा सर्वे कामा: ? कथं वा ब्रह्मणा सह समश्नुते : - इत्येतद्वक्त- व्यमितीदमिदानीमारभ्यते । तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपः ब्रह्मविद्यासाधनमुक्तम् । प्राणादे- , भृगुवल्ली । राकाशान्तस्य च कार्यस्य अन्नान्नादत्वेन विनियोगश्च उक्तः ; ब्रह्मविषयोपासनानि च । ये च सर्वे कामा: प्रतिनियताने- कसाधनसाध्या आकाशादिकार्यभेदविषयाः, एते दर्शिताः । एकत्वे पुनः कामकामित्वानुपपत्तिः, भेदजातस्य सर्वस्य आ- त्मभूतत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामान् एवं- वित्समश्नुत इति उच्यते-- सर्वात्मत्वोपपत्तेः । कथं सर्वा- त्मत्वोपपत्तिरिति, आह— पुरुषादित्यस्थात्मैकत्वविज्ञानेनापो- ह्योत्कर्षापकर्षावन्नमयादीन् आत्मनोऽविद्याकल्पितान् क्रमेण संक्रम्य आनन्दमयान्तान् सत्यं ज्ञानमनन्तं ब्रह्म अदृश्यादि- धर्मकं स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्नः इमाँल्लोकान्भूरादीननुसंचरन्निति व्यवहितेन संबन्धः । कथ- मनुसंचरन् ? कामान्नी कामतोऽन्नमस्येति कामान्नी ; तथा कामतो रूपाण्यस्येति कामरूपी; अनुसंचरन् सर्वात्मना इमान् लोकानात्मत्वेन अनुभवन् । किम् ? एतत्साम गायन्नास्ते । स- मत्वाद्ब्रह्मैव साम सर्वानन्यरूपं गायन् शब्दयन् आत्मैकत्वं प्रख्यापयन् लोकानुग्रहार्थं तद्विज्ञानफलं च अतीव कृतार्थत्वं गायन आस्ते तिष्ठति । कथम् ? हा३वु हा३वु हा ३वु । अ- हो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् ॥ अहमन्नमहमन्नमहमन्नम् । अहमन्ना- तैत्तिरीयोपनिषद्भाष्ये दोऽहमन्नादो ३ऽहमन्नादः । अह‍ श्लोक- कृदह ँ श्लोककृदह ँ श्लोककृत्। अह- मस्मि प्रथमजा ऋता ३स्य । पूर्व देवेभ्यो- ऽमृतस्य ना३भायि । यो मा ददाति स इदेव माश्वाः । अहमन्नमन्नमदन्त- मा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेद । इत्युपनि- षत् ॥ ६ ॥ इति दशमोऽनुवाकः ॥ कः पुनरसौ विस्मय इति उच्यते-- अद्वैत आत्मा निरञ्जनोऽपि सन् अहमेवान्नमन्नादश्च । किंच, अहमेव लोककृत् । श्लोको नाम अन्नान्नादयोः संघातः, तस्य कर्ता चेतनावान् । अन्नस्यैव वा परार्थस्य अन्नादार्थस्य सतो- Sनेकात्मकस्य पारार्थ्येन हेतुना संघातकृत् । त्रिरुक्तिः विस्मयत्वख्यापनार्था । अहंमस्मि भवामि । प्रथमजाः प्रथं- मजः प्रथमोत्पन्नः । ऋतस्य सत्यस्य मूर्तीमूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिः अमृतत्वस्य नाभिः, मध्यं मत्संस्थम् अमृतत्वं प्राणिनामित्यर्थः । यः कश्चित् मा भृगुवल्ली । माम् अन्नमन्नार्थिभ्यो ददाति प्रयच्छति- - अन्नात्मना त्रवीति, सः इत् इत्थमेवेत्यर्थः, एवमविनष्टं यथाभूतं माम् आबा अवतीत्यर्थः । यः पुनरन्यो मामदत्वा अर्थिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यद्मि भक्षयामि । अत्राह — एवं तर्हि विभेमि सर्वात्मत्व प्राप्ते- मोक्षात्; अस्तु संसार एव, यतो मुक्तोऽप्यहम् अन्नभूतः अद्यः स्याम् अन्यस्य । एवं मा भैषीः; संव्यवहारविषय- त्वात् सर्वकामाशनस्य; अतीत्यायं संत्र्यवहारविषयमन्नान्ना- दादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापन्नः विद्वान्; तस्य नैव द्वितीयं वस्त्वन्तरमस्ति, यतो विभेति; अतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह -- अहमन्नमहमन्नाद इति ? उच्यते । योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः, स संव्यवहारमात्रमेव ; न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थमुच्यते - ' अहमन्नमहमन्नमहमन्नम् । अ- हमन्नादोऽहमन्नादोऽहमन्नाद : ' इत्यादि । अतः भयादिदोषग- न्धोऽपि अविद्यानिमित्तः अविद्योच्छेदाद्ब्रह्मभूतस्य नास्तीति । अहं विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिर्भव- न्तीति वा अस्मिन् भूतानीति भुवनम् अभ्यभवाम् अभि- तैत्तिरीयोपनिषद्भाष्ये भवामि परेणेश्वरेण स्वरूपेण । सुवर्न ज्योती: सुवः आदित्यः ; नकार उपमार्थे; आदित्य इव सकृद्विभातमस्मदीयं ज्योती: ज्योतिः, प्रकाश इत्यर्थः । इति वल्लीद्वयविहिता उपनिषत् पर- मात्मज्ञानम् ; तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरत- स्तितिक्षुः समाहितो भूत्वा भृगुवत् तपो महदास्थाय य एवं वेद, तस्येदं फलं यथोक्तमोक्ष इति ॥ इति दशमानुवाकभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्यं संपूर्णम् ॥ 1 ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्र- मः । नमो ब्रह्मणे । नमस्ते वा- यो। त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादि- षम् । तन्मामावीत् । तद्वक्तार- मावीत् । आवीन्माम् । आवी- द्वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ 田 उपनिषन्मन्त्राणां वर्णानुक्रमणिका S. U. 111 11 11 eft: 11 उपनिषन्मन्त्राणां ॥ वर्णानुक्रमणिका ॥ अ पृष्ठम् ऋतं च स्वाध्यायप्रवचने ३६ अथाध्यात्मम् अन्तेवास्युत्तररूपम् ओ ओमिति ब्रह्म अन्नं न निन्द्यात् क अन्नं न परिचक्षीत १३८ कुर्वाणा चौरमात्मनः अन्नं बहु कुर्वीत त अन्नं ब्रह्मेति व्यजानात् तन्नम इत्युपासीत अन्नाद्वै प्रजाः प्रजायन्ते द असद्वा इदमग्र आसीत् १०१ देवपितृकार्याभ्यां असन्नेव स भवति न अहं वृक्षस्य रेरिवा न कंचन वसतौ अहमन्नमहमन्नं नो इतराणि आ प आनन्दो ब्रह्मेति व्यजानात् १३४ पृथिव्यन्तरिक्षं ऋ प्राणं देवा अनुप्राणन्ति उपनिषन्मन्त्राणां पृष्टम् पृष्टम् प्राणो ब्रह्मेति व्यजानात् व व वायुः संधानम् ब्रह्मविदाप्नोति परम् विज्ञानं ब्रह्मेति व्यजानात् १३३ भ भीषास्माद्वातः पवते विज्ञानं यज्ञं तनुते वेदमनूच्याचार्यो भूर्भुवः सुबरिति श भृगुर्वै वारुणिः शं नो मित्रः म 23 39 23 मनो ब्रह्मेति व्यजानात् मह इति ब्रह्म शीक्षां व्याख्यास्यामः श्रोत्रियस्य चाकामहतस्य १०७ मह इत्यादित्यः 33 य स य एवं वेद स एको मनुष्यगन्धर्वा ० १०६ यतो वाचो निवर्तन्ते स य एवंवित् स य एषोऽन्तर्हृदय " "" 33 यश इति पशुषु स यश्चायं पुरुषे यशो जनेऽसानि स्वाहा यश्छन्दसामृषभो विश्वरूपः १८ ये तत्र ब्राह्मणाः संमर्शिनः ४२ सह नाववतु सह नौ यशः सुवरित्यादित्ये ॥ ॐ ॥ ॥ छान्दोग्योपनिषद्भाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । 11: 11 ॥ विषयानुक्रमणिका ॥ अथमोऽध्यायः उपोद्घातः उम् ५–८० ॐकारस्य रसतमत्वाप्तिसमृद्धिगुणानामुक्तिः प्राणदृष्टयों कारोपासनम् ... ... आदित्यदृष्ट्या प्राणादिदृष्ट्या च उद्गीथस्वरोपासनम् स्वरशब्दितोंकारोपासनम् वागादीनां मुख्यप्राणस्य च रश्मीनामादित्यस्य च अ- भेददृष्ट्या उद्गीथोपासनस्य निन्दापूर्वकं तेषां पुन- भेददृष्ट्या उद्गीथोपासनम् शिलकदाल्भ्यजैवलिसंवादः दुर्भिक्षकाले उपस्तेर्देशान्तरगमनं हस्तिपालोच्छिष्टभो- जनादिप्रस्तावपूर्वकराजयज्ञदर्शनम् ऋत्विक्संवादश्च राजोषस्तिसंवादपूर्वकम् आर्त्विज्यप्रस्तावेन देवताज्ञानम् कुक्कुरैरुद्गीथोपासनोपदेश: भक्त्यवयवोपासनम् 06. द्वितीयोऽध्यायः [ २ ] साधुदृष्ट्या समस्तसामोपासना ८१ - १३६ ... लोकदृष्ट्या हिंकारः प्रस्ताव उद्गीथः प्रतिहारो निधन- मिति पञ्चविधसामोपासना वृष्टिदृष्ट्या पञ्चविधसामोपासना अव्दृष्ट्या पञ्चविधसामोपासना ऋतुदृष्ट्या पञ्चविधसामोपासना पशुदृष्ट्या पञ्चविधसामोपासना ... ... ९.१ प्राणादिदृष्ट्या पञ्चविधसामोपासना वाग्दृष्टया हिंकारः प्रस्ताव आदिरुद्गीथः प्रतिहार उप- द्रवो निधनमिति सप्तविधसामोपासना आदित्यदृष्टया सप्तविधसामोपासना ... ... आदित्यजयेन सप्तविधसामोपासना प्राणेषु गायत्रसामोपासना ... ... अग्नौ रथंतरसामोपासना मिथुने वामदेव्यसामोपासना आदित्ये बृहत्सामोपासना ... पर्जन्ये वैरूपसामोपासना ऋतुषु वैराजसामोपासना पृथिव्यादिदृष्ट्या शक्करीसामोपासना पशुदृष्ट्या रेवतीसामोपासना [ ३ ] अङ्गदृष्टया यज्ञायज्ञीयसामोपासना देवतादृष्टया राजनसामोपासना 'त्रयीविद्यादिदृष्ट्या सामोपासना विनर्दिगुणविशिष्टसामोपासना धर्मस्कन्धेनोंकारोपासना ... ... सामोपासनप्रसङ्गेन सामहोममन्त्रोत्थानानि, अज्ञातसा- महोममन्त्रोत्थानस्य कर्मनिषेधश्व तृतीयोऽध्यायः आदित्यादौ मध्यादिदृष्टिः दक्षिणदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः पश्चिमदिक्स्थर म्यादौ मधुनाड्यादिदृष्टिः उत्तर दिक्स्थर म्यादी मधुनाड्यादिदृष्टिः ऊर्ध्वदिक्स्थर म्यादी मधुन ड्यादिदृष्टिः १३७–२०० ... ... प्रथमामृतं यद्रोहितादिरूपं वसूपजीवनभूतं तस्योपासनम् १४८ द्वितीयामृतं रुद्रोपजीवनभूतं यत्तदुपासनम् तृतीयामृतमादित्योपजीवनभूतं यत्तदुपासनम् चतुर्थामृतं मरुदुपजीवनभूतं यत्तदुपासनम् पञ्चमामृतं साध्योपजीवनभूतं यत्तदुपासनम् भोगक्षये आत्मनि संहृतं सर्वमित्युपासनम् गायत्र्या ब्रह्मोपासनम् द्वारपालादिगौणोपासनं हृदि मुख्यब्रह्मोपासनम् ... ... ... [ ४ ] सर्वदृष्टया ब्रह्मोपासनं मनोमयत्वाद्यारोपेण शाण्डिल्य - विद्या च पुत्रदीर्घायुष्ट्टुफला विराट्कोशोपासना आत्मनो दीर्घायुष्टुफलात्मयज्ञोपासना ... ... आत्मयज्ञोपासनाङ्गिरसेन देवकीपुत्रायोक्ता अक्षयादि- फला मन आदिदृष्ट्या अध्यात्माधिदैविकब्रह्मोपासना आदित्यण्डदृष्ट्या अध्यात्माधिदैविकब्रह्मोपासना ... ... ... -- 口 आप्यायन्तु ममाङ्गानि वा- . क्प्राणश्चक्षुः श्रोत्रमथो बल- मिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म नि- राकरोदनिराकरणमस्त्वनि- राकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ छान्दोग्योपनिषद्भाष्यम् प्रथमोऽध्यायः ॥ छान्दोग्योपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । -*- 'ओमित्येतदक्षरम्' इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् । तस्याः संक्षेपतः अर्थजिज्ञासुभ्यः ऋजुविवरणमल्पग्र- न्थमिदमारभ्यते । तत्र संबन्ध:- -- समस्तं कर्माधिगतं प्राणादिदेवतावि- ज्ञानसहितम् अचिरादिमार्गेण ब्रह्मप्रतिपत्तिकारणम् ; केवलं च कर्म धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् ; स्वभाव- वृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टा अधोगतिरुक्ता ; न छान्दोग्योपनिषद्भाष्ये [ख. च उभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थ- सिद्धि: - इत्यतः कर्मनिरपेक्षम् अद्वैतात्मविज्ञानं संसारगति- वयहेतूपमर्देन वक्तव्यमिति उपनिषदारभ्यते । न च अद्वै- तात्मविज्ञानादन्यत्र आत्यन्तिकी निःश्रेयसप्राप्तिः । वक्ष्यति हि—' अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भव- न्ति'; विपर्यये च-'स स्वराड् भवति ' - इति । तथा — - द्वैत- विषयानृताभिसंधस्य वन्धनम्, तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्रामिश्च इत्युक्त्वा - अद्वैतात्मसत्या- भिसंधस्य, अतस्करस्येव तप्तपरशुग्रहणे वन्धदाहाभावः, सारदुःखनिवृत्तिर्मोक्षश्च - इति ॥ सं- अत एव न कर्मसहभावि अद्वैतात्मदर्शनम् ; क्रिया- कारकफलभेदोपमर्देन 'सत्... एकमेवाद्वितीयम्' 'आ- त्मैवेदं सर्वम्' इत्येवमादिवाक्यजनितस्य बाधकप्रत्यया- नुपपत्तेः । कर्मविधिप्रत्यय इति चेत्, न; कर्तृभोक्तृस्वभा- वविज्ञानवतः तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मवि- धानात् । अधिगतसकलवेदार्थस्य कर्मविधानात अद्वैतज्ञान- वतोऽपि कर्मेति चेत्, न; कर्माधिकृतविषयस्य कर्तृभोक्त्रा- दिज्ञानस्य स्वाभाविकस्य 'सत्... एकमेवाद्वितीयम्' 'आ- त्मैवेदं सर्वम्' इत्यनेनोपमर्दितत्वात् । तस्मात् अविद्यादि- १.] प्रथमोऽध्यायः । 5 दोषवत एव कर्माणि विधीयन्ते न अद्वैतज्ञानवतः । अत एव हि वक्ष्यति - 'सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थो- ऽमृतत्वमेति' इति ॥ - तत्रैतस्मिन्नद्वैतविद्याप्रकरणे अभ्युदयसाधनानि उपास- नान्युच्यन्ते, कैवल्यसंनिकृष्टफलानि च अद्वैतादीषद्विकृत- ब्रह्मविषयाणि 'मनोमयः प्राणशरीरः' इत्यादीनि कर्म- समृद्धिफलानि च कर्माङ्गसंबन्धीनि रहस्यसामान्यात् मनोवृत्तिसामान्याच्च — यथा अद्वैतज्ञानं मनोवृत्तिमात्रम्, तथा अन्यान्यप्युपासनानि मनोवृत्तिरूपाणि - इत्यस्ति हि सामान्यम् । कस्तर्हि अद्वैतज्ञानस्योपासनानां च विशेष: ? उच्यते—— स्वाभाविकस्य आत्मन्यक्रियेऽध्यारोपितस्य क- ऋदिकारकक्रियाफलभेद विज्ञानस्य निवर्तकम द्वैत विज्ञानम्, रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनि- श्चयः प्रकाशनिमित्त: ; उपासनं तु यथाशास्त्रसमर्थितं किंचिदा- लम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसंतानकरणं तद्विलक्ष- णप्रत्ययानन्तरितम् — इति विशेषः । तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वात् अद्वैतज्ञानोपकार- काणि, आलम्बनविषयत्वात् सुखसाध्यानि च -- इति पूर्वमुप- न्यस्यन्ते । तत्र कर्माभ्यासस्य दृढीकृतत्वात् कर्मपरित्यागेनो- छान्दोग्योपनिषद्भाष्ये [ख. पासन एव दुःखं चेत: समर्पणं कर्तुमिति कर्माङ्गविषयमेव तावत् आदौ उपासनम् उपन्यस्यते ॥ ओमित्येतदक्षरमुद्गीथमुपासीत । ओ- मिति ह्युद्गायति तस्योपव्याख्यानम् ॥ ओमित्येतदक्षरमुद्गीथमुपासीत - ओमित्येतदक्षरं परमा- त्मनोऽभिधानं नेदिष्ठम् ; तस्मिन्हि प्रयुज्यमाने स प्रसीदति, प्रियनामग्रहण इव लोक:; तदिह इतिपरं प्रयुक्तम् अभिधाय- कत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ; तथा च अर्चा- दिवत् परस्यात्मनः प्रतीकं संपद्यते; एवं नामत्वेन प्रती - कत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्व- वगतम्; जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात् प्रसि- द्धमस्य श्रैष्ठयम् ; अतः तदेतत्, अक्षरं वर्णात्मकम्, उद्गीथभ- क्त्यवयवत्वादुद्गीथशब्दवाच्यम्, उपासीत - कर्माङ्गावयवभूते ॐकारे परमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं संतनुयात् । स्वयमेव श्रुतिः ओंकारस्य उद्गीथशब्दवाच्यत्वे हेतुमाह- ओमिति ह्युद्गायति ; ओमित्यारभ्य, हि यस्मात्, उद्गायति, अत उद्गीथ ओंकार इत्यर्थः । तस्य उपव्याख्यानम् - तस्य अक्षरस्य, उपव्याख्यानम् १.] प्रथमोऽध्यायः । एवमुपासनमेवंविभूत्येवं फलमित्यादिकथनम् उपव्याख्यानम्, प्रवर्तत इति वाक्यशेष:- एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः । अपामोषधयो रस ओष- धीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ २ ॥ एषां चराचराणां भूतानां पृथिवी रसः गतिः परायण- मवष्टम्भ: ; पृथिव्या आप: रस:- अप्सु हि ओता च प्रोता च पृथिवी ; अतः ताः रसः पृथिव्याः । अपाम् ओषधयः रसः, अप्परिणामत्वादोषधीनाम्; तासां पुरुषो रसः, अन्नपरि- णामत्वात्पुरुषस्य ; तस्यापि पुरुषस्य वाक् रस:- पुरुषाव- यवानां हि वाकू सारिष्ठा, अतो वाक् पुरुषस्य रस उच्यते ; तस्या अपि वाचः, ऋक् रसः सारतरा; ऋचः साम रसः सारतरम् ; तस्यापि साम्नः उद्गीथः प्रकृतत्वादों- कारः सारतरः ॥ स एष रसानाँ रसतमः परमः परा- र्थ्योऽष्टमो यदुद्गीथः ॥ ३ ॥ छान्दोग्योपनिषद्भाष्ये [ख. एवम् — स एष: उद्गीथाख्य ॐकारः, भूतादीनामुत्तरोत्त- ररसानाम्, अतिशयेन रसः रसतम: ; परम:, परमात्मप्र- तीकत्वात् ; परार्ध्यः - अर्ध स्थानम्, परं च तदर्ध च परार्धम्, तदर्हतीति परार्ध्यः, — परमात्मस्थानाई, परमात्मवदुपा- स्यत्वादित्यभिप्राय: ; अष्टम: - पृथिव्यादिरससंख्यायाम् ; यदुद्गीथः य उद्गीथः ॥ कतमा कतमर्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ ४ ॥ वाच ऋग्रसः.... इत्युक्तम् ; कतमा सा ऋक् ? कतमत्त- त्साम ? कतमो वास उद्गीथः ? कतमा कतमेति वीप्सा आदरा- र्था । ननु 'वा बहूनां जातिपरिप्रश्ने डतमच्' इति डतमच्प्र- त्ययः इष्ट: ; न हि अत्र ऋग्जातिबहुत्वम् ; कथं डतमच्प्रयोगः ! नैष दोष: ; जातौ परिप्रश्नो जातिपरिप्रश्नः - इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः, न तु जातेः परिप्रश्न इति विगृह्यते । ननु जाते: परिप्रश्नः - इत्यस्मिन्विग्रहे ' कतमः कठः' इत्याद्युदाहरणमुपपन्नम्, जातौ परिप्रश्न इत्यत्र तु न युज्यते-- तत्रापि कठादिजातावेव व्यक्तिबहुत्वाभिप्रायेण परिप्रश्न इत्य- दोषः। यदि जातेः परिप्रश्नः स्यात्, 'कतमा कतमर्क' इत्या- १.] प्रथमोऽध्यायः । दावुपसंख्यानं कर्तव्यं स्यात् । विमृष्टं भवति विमर्शः कृतो भवति ॥ वागेव प्रणः सामोमित्येतदक्षरमुद्गी- थः । तद्वा एतन्मिथुनं यद्वाक्च प्राणश्च- कर्च साम च ॥ ५॥ विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना -- वागेव ऋक् प्राणः साम ओमित्येतदक्षरमुद्गीथः इति । वागृचोरेक- त्वेऽपि न अष्टमत्वव्याघातः, पूर्वस्मात् वाक्यान्तरत्वात् ; आ- तिगुणसिद्धये हि ओमित्येतदक्षरमुद्गीथः इति । वाक्प्राणौ ऋक्सामयोनी इति वागेव ऋक् प्राणः साम इत्युच्यते ; यथा- क्रमम् ऋक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां स- र्वेषां च साम्नामवरोधः कृतः स्यात्; सर्वसमावरोधे च ऋक्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ; तद्- वरोधे च सर्वे कामा अवरुद्धाः स्युः । ओमित्येतदक्षरम् उद्गीथः इति भक्त्याशङ्का निवर्त्यते । तद्वा एतत् इति मिथुनं निर्दिश्यते । किं तन्मिथुनमिति, आह-- यद्वाक्च प्राणश्च सर्वक्समकारणभूतौ मिथुनम्; ऋक्च साम चेति ऋक्सा- मकारणौ ऋक्सामशब्दोक्तावित्यर्थः ; न तु स्वातन्त्र्येण ऋक्च S. U. 111. 12 छान्दोग्योपनिषद्धाप्ये , [ख. साम च मिथुनम् । अन्यथा हि वाक्प्राणश्च इत्येकं मिथुनम, ऋक्साम च अपरम् इति द्वे मिथुने स्याताम् ; तथा च तद्वा एतन्मिथुनम् इत्येकवचननिर्देशोऽनुपपन्नः स्यात् ; तस्मान् ऋक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम ॥ तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे स- सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥ तदेतत् एवंलक्षणं मिथुनम् ओमित्येतस्मिन्नक्षरे संसृज्य- ते; एवं सर्वकामाप्तिगुणविशिष्टं मिथुनम् ओंकारे संसृष्टं विद्यत इति ओंकारस्य सर्वकामाप्तिगुणवत्त्वं सिद्धम् ; वाङ्मयत्वम् ओंकारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्व- म । मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते— यथा लोके मिथुनौ मिथुनावयवो स्त्रीपुंसौ यदा समाग- च्छतः ग्राम्यधर्मतया संयुज्येयातां तदा आपयतः प्रापयतः अन्योन्यस्य इतरेतरस्य तौ कामम्, तथा स्वात्मानुप्रवि- ष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वम् ओंकारस्य सिद्धमि- त्यभिप्राय: ॥ तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याह- १.] प्रथमोऽध्यायः आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥ , आपयिता ह वै कामानां यजमानस्य भवति य एतत अक्षरम् एवम् आप्तिगुणवत् उद्गीथम् उपास्ते, तस्य एतद्यथोक्तं फलमित्यर्थः, ' तं यथा यथोपासते तदेव भवति' इति श्रुतेः ॥ तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजा- नात्योमित्येव तदाहैषो एव समृद्धिर्यद- नुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥ समृद्धिगुणवांश्च ओंकारः ; कथम् ? तत् वै एतत् प्रकृतम्, अनुज्ञाक्षरम् अनुज्ञा च सा अक्षरं च तत् ; अनुज्ञा च अनु- मति:, ओंकार इत्यर्थः । कथमनुज्ञेति, आह श्रुतिरेव — यद्धि किंच यत्किंच लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनी वा, तत्रानुमतिं कुर्वन् ओमित्येव तदाह ; तथा च वेदे 'त्रय- स्त्रिंशदित्योमिति होवाच' इत्यादि; तथा च लोकेऽपि तवेदं धनं गृह्णामि इत्युक्ते ओमित्येव आह । अत एषा उ एव एषैव हि समृद्धि: यदनुज्ञा या अनुज्ञा सा समृद्धि:, तन्मूलत्वादनु- छान्दोग्योपनिषद्भाष्ये [ख. ज्ञायाः; समृद्धो हि ओमित्यनुज्ञां ददाति ; तस्मात् समृद्धि- गुणवानोंकार इत्यर्थः । समृद्धिगुणोपासकत्वात् तद्धर्मा सन् समर्धयिता ह वै कामानां यजमानस्य भवति; य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यादि पूर्ववत् ॥ तेनेयं त्रयीविद्या वर्तते ओमित्याश्रा- वयत्योमिति श৺सत्योमित्युद्गायत्येतस्यै- वाक्षरस्यापचित्यै महिना रसेन ॥ ९ ॥ अथ इदानीमक्षरं स्तौति, उपास्यत्वात् प्ररोचनार्थम् ; कथम् ? तेन अक्षरेण प्रकृतेन इयम् ऋग्वेदादिलक्षणा त्रयी- विद्या, त्रयीविद्याविहितं कर्मेत्यर्थः- न हि त्रयीविद्यैव- आश्रावणादिभिर्वर्तते । कर्म तु तथा प्रवर्तत इति प्रसिद्धम् ; कथम् ? ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति ; लिङ्गाच्च सोमयाग इति गम्यते । तच्च कर्म एतस्यैव अक्ष- रस्य अपचित्यै पूजार्थम्; परमात्मप्रतीकं हि तत्; तदप- चितिः परमात्मन एव स्यात्, 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इति स्मृतेः । किंच, एतस्यैवाक्षरस्य महिना महस्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः ; तथा एत- स्यैवाक्षरस्य रसेन त्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः ; १.] प्रथमोऽध्यायः । यागहोमादि अक्षरेण क्रियते ; तत्र आदित्यमुपतिष्ठते ; ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते ; प्राणैरन्नेन च यज्ञस्तायते ; अत उच्यते — अक्षरस्य महिम्ना रसेन इति ॥ तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमा- क्षिपति- तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्यो- पव्याख्यानं भवति ॥ १० ॥ इति प्रथमाध्यायस्य प्रथमः खण्डः ॥ तेन अक्षरेण उभौ कुरुत:, यश्च एतत् अक्षरम् एवं यथा- व्याख्यातं वेद, यश्च कर्ममात्रवित् अक्षरयाथात्म्यं न वेद, ता- वुभौ कुरुत: कर्म ; तयोश्च कर्मसामर्थ्यादेव फलं स्यात्, किं तत्राक्षरयाथात्म्यविज्ञानेन इति ; दृष्टं हि लोके हरीतकीं भक्ष- यतोः तद्रसाभिज्ञेतरयोः विरेचनम् — नैवम् ; यस्मात् नाना तु विद्या च अविद्या च, भिन्ने हि विद्याविद्ये, तु-शब्दः छान्दोग्योपनिषद्भाष्ये [ख. पक्षव्यावृत्त्यर्थः ; न ओंकारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानम् ; किं तर्हि ? ततोऽभ्यधि- कम्; तस्मात् तदङ्गाधिक्यात् तत्फलाधिक्यं युक्तमित्यभि- प्राय: ; दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिवि- क्रये वणिजो विज्ञानाधिक्यात् फलाधिक्यम्; तस्मात् यदेव विद्यया विज्ञानेन युक्तः सन् करोति कर्म श्रद्धया श्रद्दधानश्च सन्, उपनिषदा योगेन युक्तश्चेत्यर्थः, तदेव कर्मवीर्यवत्तरम् अविद्वत्कर्मणोऽधिकफलं भवतीति; विद्वत्कर्मणो वीर्यवत्त- रत्ववचनादविदुषोऽपि कर्म वीर्यवदेव भवतीत्यभिप्रायः । न च अविदुषः कर्मण्यनधिकारः, औषस्त्ये काण्डे अविदु- षामप्यार्त्विज्यदर्शनात् । रसतमाप्तिसमृद्धिगुणवदक्षरमित्ये- मध्ये प्रयत्नान्तरादर्शनात् ; अनेकैर्हि विशे- षणैः अनेकधा उपास्यत्वात् खलु एतस्यैव प्रकृतस्य उद्गीथा- ख्यस्य अक्षरस्य उपव्याख्यानं भवति ॥ कमुपासनम्, इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजहुरनेनै- नानभिभविष्याम इति ॥ १ ॥ देवासुराः देवाश्व असुराश्च देवाः दीव्यतेर्योतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तय: ; असुराः तद्विपरीता: स्वेष्वे- वासुषु विष्वग्विषयासु प्राणनक्रियासु रमणान् स्वाभाविक्यः तमआत्मिका इन्द्रियवृत्तय एव; ह वै इति पूर्ववृत्तोद्भास- कौ निपातौ; यत्र यस्मिन्निमित्ते इतरेतरविषयापहारलक्षणे संयेतिरे, संपूर्वस्य यततेः संग्रामार्थत्वमिति, संग्रामं कृतवन्त इत्यर्थः । शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्ताः स्वाभावि क्यस्तमोरूपा इन्द्रियवृत्तयः असुराः, तथा तद्विपरीता: शास्त्रार्थविषयविवेकज्योतिरात्मानः देवा: स्वाभाविकतमो- रूपासुराभिभवनाय प्रवृत्ताः इति अन्योन्याभिभवोद्भवरूपः संग्राम इव, सर्वप्राणिषु प्रतिदेहं देवासुरसंग्रामो अनादिका- लप्रवृत्त इत्यभिप्रायः । स इह श्रुत्या आख्यायिकारूपेण धर्मा- छान्दोग्योपनिषद्धाप्ये [ख. धर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधि- परतया । अत: उभयेऽपि देवासुराः, प्रजापतेरपत्यानीति प्रा- जापत्या:- प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः, पुरुष ए- वोक्थमयमेव महान्प्रजापति:' इति श्रुत्यन्तरात् तस्य हि शास्त्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धा: अपत्यानीव, तदुद्भवत्वात् । तत् तत्र उत्कर्षापकर्षलक्षणनिमित्ते ह देवा: उ- द्गीथम् उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्म आजहुः आहृतव- न्तः; तस्यापि केवलख आहरणासंभवात् ज्योतिष्टोमाद्या- हृतवन्त इत्यभिप्रायः । तत्किमर्थमाजहुरिति, उच्यते-अ- नेन कर्मणा एनान् असुरान् अभिभविष्याम इति एवमभि- प्रायाः सन्तः ॥ यदा च तदुद्गीथं कर्म आजिहीर्षवः, तदा— ते ह नासिक्यं प्राणमुद्गीथमुपासां- चक्रिरे तँ हासुराः पाप्मना विविधुस्त- स्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ २ ॥ ते ह देवाः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं घ्राणम् उद्गीथकर्तारम् उद्गातारम् उद्गीथभक्त्या उपासांचक्रिरे २.] प्रथमोऽध्यायः । उपासनं कृतवन्त इत्यर्थः ; नासिक्यप्राणदृष्टया उद्गीथाख्यम- क्षरमोंकारम् उपासांचक्रिरे इत्यर्थः । एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थोपादानं च न कृतं स्यात् - - ' खल्वेतस्याक्षरस्य ' इत्योंकारो हि उपास्यतया प्रकृतः । ननु उद्गीथोपलक्षितं कर्म आहृतवन्त इत्यवोचः ; इदानीमेवं कथं नासिक्यप्राण- दृष्टया उद्गीथाख्यमक्षरमोंकारम् उपासांचक्रिर इत्यात्थ ? नैष दोष: ; उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्या उ- द्गीथभक्त्यवयवश्च ओंकारः उपास्यत्वेन विवक्षितः, न स्व- तन्त्रः ; अतः तादर्थ्येन कर्म आहृतवन्त इति युक्तमेवोक्तम् । तम् एवं देवैर्वृतमुद्गातारं ह असुराः स्वाभाविकतम आत्मानः ज्योतीरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्मा- सङ्गरूपेण विविधु: विद्धवन्तः, संसर्ग कृतवन्त इत्यर्थः । स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गा- भिभूतविवेकविज्ञानो बभूव ; स तेन दोषेण पाप्मसंसर्गी बभूव तदिदमुक्तमसुराः पाप्मना विविधुरिति । यस्मादा- सुरेण पाप्मना विद्ध:, तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनाम् । अतः तेन उभयं जिघ्रति लोक: सुरभि च दुर्गन्धि च, पाप्मना हि एषः यस्मात् विद्धः । उभयग्रहणम् अविवक्षितम्- - ' यस्योभयं हविरार्तिमाच्र्च्छति' इति यद्वत्; प्रकरणश्रुतेः ॥ ' छान्दोग्योपनिषद्भाष्ये [ख. यदेवेदमप्रतिरूपं जिघ्रति' इति समान- अथ ह वाचमुद्गीथमुपासांचक्रिरे ताँ हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च पाप्मना ह्येषा विद्वा ॥ ३ ॥ अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्वा- सुराः पाप्मना विविधुस्तस्मात्तेनोभयं प- श्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ ४ ॥ अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे त- द्धासुराः पाप्मना विविधुस्तस्मात्तेनोभ- यँ शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ ५ ॥ अथ ह मन उद्गीथमुपासांचक्रिरे तद्धा- सुराः पाप्मना विविधुस्तस्मात्तेनोभय‍ २.] प्रथमोऽध्यायः । संकल्पते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ ६ ॥ - मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्वानुभवार्थ: अयं वि- चारः श्रुत्या प्रवर्तितः । अतः चक्षुरादिदेवताः क्रमेण विचा- र्य आसुरेण पाप्मना विद्धा इत्यपोह्यन्ते । समानमन्यत् - अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि । अनुक्ता अप्यन्याः त्वग्रसनादिदेवता: द्रष्टव्याः, 'एवमु खल्वेता देवता: पाप्मभि:' इति श्रुत्यन्तरात् ॥ अथ ह य एवायं मुख्यः प्राणस्तमुद्गी- थमुपासांचक्रिरे त हासुरा ऋत्वा विद- ध्वंसुर्यथाश्मानमाखणमृत्वा विध्वसेतै- वम् ॥ ७ ॥ आसुरेण पाप्मना विद्धत्वात् प्राणादिदेवता: अपोह्य, अथ अनन्तरम्, ह, य एवायं प्रसिद्ध:, मुखे भवः मुख्य: प्राणः, तम् उद्गीथम् उपासांचक्रिरे, तं ह असुराः पूर्ववत् ऋत्वा प्राप्य विदध्वंसुः विनष्टाः, अभिप्रायमात्रेण, अकृत्वा किंचि- दपि प्राणस्य ; कथं विनष्टा इति, अत्र दृष्टान्तमाह-यथा लोके अश्मानम् आखणम्- न शक्यते खनितुं कुद्दालादिभिरपि, छान्दोग्योपनिषद्भाष्ये [ख. टक्कैश्च छेत्तुं न शक्यः अखनः, अखन एव आखणः, तम्- ऋत्वा - सामर्थ्यात् लोष्ट: पांसुपिण्डः, श्रुत्यन्तराञ्च - अश्मनि क्षिप्तः अश्मभेदनाभिप्रायेण, तस्य अश्मनः किंचिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येत — एवं विदध्वंसुरित्यर्थः । एवं वि- शुद्धः असुरैरधर्षितत्वात् प्राणः इति ॥ यथाश्मानमाखणमृत्वा विध्वसत एवँ हैव स विध्वसते य एवंविदि पापं कामयते यश्चैनमभिदासति स एषोऽश्मा- खणः ॥ ८ ॥ एवंविदः प्राणात्मभूतस्य इदं फलमाह - यथाश्मानमिति । एष एव दृष्टान्तः ; एवं हैव स विध्वंसते विनश्यति ; कोऽसा- विति, आह- य एवंविदि यथोक्तप्राणविदि पापं तदनहै कर्तुं कामयते इच्छति यश्चापि एनम् अभिदासति हिनस्ति प्राणविदं प्रति आक्रोशताडनादि प्रयुङ्क्ते, सोऽप्येवमेव विध्वंसत इत्यर्थः ; यस्मात् स एष प्राणवित् प्राणभूतत्वात् अश्माखण इव अश्मा- खणः अधर्षणीय इत्यर्थः । ननु नासिक्योऽपि प्राणः वाय्वा- त्मा, यथा मुख्य: ; तत्र नासिक्यः प्राणः पाप्मना विद्ध:- प्राण एव सन्, न मुख्य: - कथम् ? नैष दोष: ; नासिक्यस्तु २.] प्रथमोऽध्यायः । स्थानकरणवैगुण्यात् असुरैः पाप्मना विद्ध:, वाय्वात्मापि सन्; मुख्यस्तु तदसंभवात् स्थानदेवतावलीयस्त्वात् न विद्ध इति लिम् — यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति, न अन्यहस्तगताः, तद्वत् दोषवद्धाणस- चिवत्वाद्विद्धा प्राणदेवता, न मुख्यः ॥ नैवैतेन सुरभि न दुर्गन्धि विजानात्य- पहतपाप्मा ह्येष तेन यदश्नाति यत्पिब- ति तेनेतरान्प्राणानवति एतमु एवान्त- तोऽवित्त्वोत्क्रामति व्याददात्येवान्तत इ- ति ॥ ९ ॥ यस्मान्न विद्ध: असुरैः मुख्यः, तस्मात् नैव एतेन सुरभि न दुर्गन्धि च विजानाति लोक: ; घ्राणेनैव तदुभयं विजा- नाति; अतश्च पाप्मकार्यादर्शनात् अपहतपाप्मा अपहतः विनाशितः अपनीतः पाप्मा यस्मात् सोऽयमपहतपाप्मा हि एष:, विशुद्ध इत्यर्थः । यस्माच्च आत्मंभरयः कल्याणा- द्यासङ्गवत्त्वात् घ्राणादयः- न तथा आत्मंभरिर्मुख्य: ; किं तर्हि ? सर्वार्थः ; कथमिति, उच्यते — तेन मुख्येन यद- श्नाति यत्पिबति लोकः तेन अशितेन पीतेन च इतरान - छान्दोग्योपनिषद्भाष्ये [ख. प्राणान् ब्राणादीन् अवति पालयति ; तेन हि तेषां स्थिति- र्भवतीत्यर्थः ; अतः सर्वभरिः प्राणः ; अतो विशुद्धः । कथं पुनर्मुख्याशितपीताभ्यां स्थितिः इतरेषां गम्यत इति, उच्यते- एतमु एव मुख्यं प्राणं मुख्यप्राणस्य वृत्तिम्, अन्नपाने इत्यर्थः, अन्तत: अन्ते मरणकाले अवित्त्वा अलब्ध्वा उत्क्रामति, घ्राणादिप्राणसमुदाय इत्यर्थः ; अप्राणो हि न शक्नोत्यशितुं पातुं वा; तदा उत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य ; दृश्यते हि उत्क्रान्तौ प्राणस्याशिशिषा, यतः व्याददा- त्येव, आस्यविदारणं करोतीत्यर्थः ; तद्धि अन्नाला उत्क्रा- न्तस्य लिङ्गम् ॥ तँ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १० ॥ तं ह अङ्गिराः- तं मुख्यं प्राणं ह अङ्गिरा इत्येवंगुणम् उद्गीथम् उपासांचक्रे उपासनं कृतवान्, बको दालभ्य इति वक्ष्यमाणेन संबध्यते ; तथा बृहस्पतिरिति, आयास्य इति च उपासांचक्रे बकः इत्येवं संबन्धं कृतवन्तः केचित्, एतमु एवाङ्गिरसं बृहस्पतिमायास्यं प्राणं मन्यन्ते - इति वचनात् । भवत्येवं यथाश्रुतासंभवे ; संभवति तु यथाश्रुतम् ऋषिचोदनायामपि — श्रुत्यन्तरवत् - ' तस्माच्छतचिन इत्याच- - २.] प्रथमोऽध्यायः । क्षते एतमेव सन्तम्' ऋपिमपि ; तथा माध्यमा गृत्समदो विश्वा- मित्रो वामदेवोऽत्रिः इत्यादीन् ऋषीनेव प्राणमापादयति श्रुति: ; तथा तानपि ऋषीन् प्राणोपासकान् अङ्गिरोबृहस्पत्यायास्यान् प्राणं करोत्यभेदविज्ञानाय - 'प्राणो ह पिता प्राणो माता ' इत्यादिवच्च । तस्मात् ऋषिः अङ्गिरा नाम, प्राण एव सन्, आत्मानमङ्गिरसं प्राणमुद्गीथम् उपासांचक्रे इत्येतत् यत् यस्मात् सः अङ्गानां प्राणः सन् रस:, तेनासौ अङ्गिरसः ॥ तेन त ह वृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृह- ती तथा एष पतिः ॥ ११ ॥ तथा वाचो बृहत्याः पतिः तेनासौ बृहस्पतिः ॥ तेन त ँ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ॥ तथा यत् यस्मात् आस्यात् अयते निर्गच्छति तेन आया- स्यः ऋषिः प्राण एव सन् इत्यर्थः । तथा अन्योऽप्युपासकः आत्मानमेव आङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥ तेन तह बको दाल्भ्यो विदांचकार । छान्दोग्योपनिषद्भाष्ये स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति ॥ १३ ॥ [ख. न केवलमङ्गिरःप्रभृतय उपासांचक्रिरे ; तं ह बको नाम दल्भस्यापत्यं दाल्भ्यः विदांचकार यथादर्शितं प्राणं विज्ञा- तवान् ; विदित्वा च स ह नैमिशीयानां सत्रिणाम् उद्गाता बभूव स च प्राणविज्ञानसामर्थ्यात् एभ्यः नैमिशीयेभ्यः कामान् आगायति स्म ह आगीतवान्किलेत्यर्थः ॥ आगाता ह वै कामानां भवति य ए- तदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्या- त्मम् ॥ १४ ॥ इति द्वितीयः खण्डः ॥ तथा अन्योऽप्युद्गाता आगाता ह वै कामानां भवति ; य एतत् एवं विद्वान् यथोक्तगुणं प्राणम् अक्षरमुद्गीथमुपास्ते, तस्य एतद्दृष्टं फलम् उक्तम्, प्राणात्मभावस्त्वदृष्टम् - 'देवो भूत्वा देवानप्येति' इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः । इत्य- ध्यात्मम् - एतत् आत्मविषयम् उद्गीथोपासनम् इति उक्तोपसं- हारः, अधिदैवतोद्गीथोपासने वक्ष्यमाणे, बुद्धिसमाधानार्थः ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ -❀- अधाधिदैवतं य एवासौ तपति तमु - द्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गा- यति । उद्यस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥ अथ अनन्तरम् अधिदैवतं देवताविषयमुद्गीथोपासनं प्र- स्तुतमित्यर्थः, अनेकधा उपास्यत्वादुद्गीथस्य ; य एवासौ आ- दित्यः तपति, तम् उद्गीथमुपासीत आदित्यदृष्टया उद्गीथमुपा- सीतेत्यर्थः ; तमुद्गीथम् इति उद्गीथशब्दः अक्षवाची सन् कथमादित्ये वर्तत इति, उच्यते— उद्यन् उद्गच्छन् वै एषः प्रजाभ्यः प्रजार्थम् उद्गायति प्रजानामन्नोत्पत्त्यर्थम् ; न हि अनुद्यति तस्मिन् व्रीह्मादे: निष्पत्तिः स्यात्; अतः उद्गाय- तीवोद्गायति — यथैवोद्गाता अन्नार्थम् ; अतः उद्गीथः सविते- त्यर्थः । किंच उद्यन् नैशं तमः तज्जं च भयं प्राणिनाम् अप- हन्ति ; तमेवंगुणं सवितारं यः वेद, सः अपहन्ता नाशयिता S. U. III, 13 ह छान्दोग्योपनिषद्भाप्ये [ख. वै भयस्य जन्ममरणादिलक्षणस्य आत्मनः तमसश्च तत्का- रणस्याज्ञानलक्षणस्य भवति ॥ यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते, तथापि न स तत्त्वभेदस्तयोः । कथम् — समान उ एवायं चासौ चोष्णोऽयमु- ष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥२॥ समान उ एव तुल्य एव प्राणः सवित्रा गुणतः, सविता च प्राणेन ; यस्मात् उष्णोऽयं प्राणः उष्णश्चासौ सविता । किंच स्वर इति इमं प्राणमाचक्षते कथयन्ति तथा स्वर इति प्रत्यास्वर इति च अमुं सवितारम्; यस्मात् प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति, सविता तु अस्तमित्वा पुनरप्यहन्य- हनि प्रत्यागच्छति, अतः प्रत्यास्वर: ; अस्मात् गुणतो नाम- तश्च समानावितरेतरं प्राणादित्यौ । अतः तत्त्वाभेदात् एतं प्राणम् इमम् अमुं च आदित्यम् उद्गीथमुपासीत ॥ अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सो- ३.] प्रथमोऽध्यायः । ऽपानः । अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः सा वाक् । तस्मादप्रा- णन्ननपानन्वाचमभिव्याहरति ॥ ३ ॥ अथ खलु इति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते ; व्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषम् उद्गीथम् उपासीत । अधुना तस्य तत्त्वं निरूप्यते – यद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं वहिर्निःसारयति, स प्रा- णाख्यो वायोर्वृत्तिविशेष: ; यदपानिति अपश्वसिति ताभ्या- मेवान्तराकर्षति वायुम्, सः अपानः अपानाख्या वृत्तिः । ततः किमिति, उच्यते-अथ यः उक्तलक्षणयोः प्राणापा- नयोः संधिः तयोरन्तरा वृत्तिविशेषः, सः व्यान: ; य: सांख्यादिशास्त्रप्रसिद्धः, श्रुत्या विशेषनिरूपणात् - नासौ व्यान इत्यभिप्रायः । कस्मात्पुनः प्राणापानौ हित्वा महता आया- सेन व्यानस्यैवोपासनमुच्यते ? वीर्यवत्कर्महेतुत्वात् । कथं वीर्यवत्कर्महेतुत्वमिति, आह— य: व्यानः सा वाक्, व्या- नकार्यत्वाद्वाचः । यस्माद्व्याननिर्वर्त्या वाक्, तस्मात् अप्राण- न्ननपानन् प्राणापानव्यापारावकुर्वन् वाचमभिव्याहरति उ- च्चारयति लोकः ॥ या वाक्सतस्मादप्राणन्ननपाननृचम- छान्दोग्योपनिषद्भाष्ये भिव्याहरति यतत्साम तस्मादप्राणन्नन- पानन्साम गायति यत्साम स उद्गीथस्त- स्मादप्राणन्ननपानन्नुद्गायति ॥ ४ ॥ [ख. तथा वाग्विशेषामृचम्, ऋक्संस्थं च साम, सामावयवं चोद्गीथम्, अप्राणन्ननपानन् व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥ अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढख धनुष आयमनमप्राणन्ननपानस्तानि करोत्येत- स्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ ५ ॥ न केवलं वागाद्यभिव्याहरणमेव ; अतः अस्मात् अन्या- न्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि- यथा अग्नेर्मन्थनम्, आजे: मर्यादाया: सरणं धावनम्, दृढस्य धनुषः आयमनम् आकर्षणम् - अप्राणन्ननपानंस्तानि करोति ; अतो विशिष्टः व्यानः प्राणादिवृत्तिभ्यः । विशिष्ट- स्योपासनं ज्यायः, फलवत्त्वाद्राजोपासनवत् । एतस्य हेतोः एतस्मात्कारणात् व्यानमेवोद्गीथमुपासीत, नान्यद्वृत्त्यन्तरम् । कर्मवीर्यवत्तरत्वं फलम् ॥ ; ३.] प्रथमोऽध्यायः । अथ खलुद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गी- र्वाचो ह गिर इत्याचक्षतेऽन्नं धमन्ने हीदँ सर्व स्थितम् ॥ ६ ॥ - अथ अधुना खलु उद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टि — उद्गीथ इति ; उद्गीथनामाक्षरा- णीत्यर्थः - नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भ- वेत् अमुकमिश्रा इति यद्वत् । प्राण एव उत्, उदित्यस्मिन्न- क्षरे प्राणदृष्टिः । कथं प्राणस्य उत्त्वमिति, आह—प्राणेन हि उत्तिष्ठति सर्वः, अप्राणस्यावसाददर्शनात्; अतोऽस्त्युदः प्राणस्य च सामान्यम् । वाक् गीः, वाचो ह गिर इत्याचक्षते शिष्टाः । तथा अन्नं थम्, अन्ने हि इदं सर्वं स्थितम् ; अत: अस्त्यन्नस्य थाक्षरस्य च सामान्यम् ॥ ; त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि - द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादि- त्य एवोद्वायुर्गीरग्निस्थ र सामवेद एवोद्य- जुर्वेदो गीऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं छान्दोग्योपनिषद्भाष्ये यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उ- द्गीथ इति ॥ ७ ॥ [ख. द्यौरेव उत् उच्चैः स्थानात्, अन्तरिक्षं गीः गिरणाल्लोका- नाम्, पृथिवी थं प्राणिस्थानात्; आदित्य एव उत् ऊर्ध्व- त्वात्, वायुः गीः अग्न्यादीनां गिरणात्, अग्निः थं याज्ञी- यकर्मावस्थानात्; सामवेद एव उत् स्वर्गसंस्तुतत्वात्, य- जुर्वेदो गीः यजुषां प्रत्तस्य हविषो देवतानां गिरणात्, ऋ- ग्वेदः थम् ऋत्र्यध्यूढत्वात्साम्नः । उद्गीथाक्षरोपासनफलम- धुनोच्यते—दुग्धे दोग्धि अस्मै साधकाय; का सा ? वाक् ; कम् ? दोहम् ; कोऽसौ दोह इति, आह— यो वाचो दोह:, ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायः, तत् वाचो दोहः तं स्वयमेव वाक् दोग्धि आत्मानमेव दोग्धि । किंच अन्नवान् प्रभूतान्न: अन्नादश्च दीप्ताग्निर्भवति य एतानि यथोक्तानि एवं यथोक्तगुणानि उद्गीथाक्षराणि विद्वान्सन् उपास्ते उद्गीथ इति ॥ । अथ खल्वाशीःसमृद्धिरुपसरणानीत्यु- पासीत येन साम्ना स्तोष्यन्स्यात्तत्सामो- पधावेत् ॥ ८ ॥ ३.] प्रथमोऽध्यायः । अथ खलु इदानीम्, आशी:समृद्धि: आशिषः कामस्य समृद्धिः यथा भवेत् तदुच्यत इति वाक्यशेष:, उपसरणानि उपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः ; कथम् ? इत्युपा- सीत एवमुपासीत; तद्यथा- येन साना येन सामविशे- षेण स्तोष्यन् स्तुतिं करिष्यन् स्यात् भवेदुद्गाता तत्साम उपधावेत् उपसरेत् चिन्तयेदुत्पत्त्यादिभिः ॥ यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुप- धावेत् ॥ ९ ॥ यस्यामृचि तत्साम तां च ऋचम् उपधावेत् देवतादिभिः यदार्षेयं साम तं च ऋषिम् ; यां देवतामभिष्टशेष्यन्स्यात् तां देवतामुपधावेत् ॥ येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उ- पधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तँ स्तोममुपधावेत् ॥ १० ॥ येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात् तच्छन्द उ- पधावेत्; येन स्तोमेन स्तोष्यमाणः स्यात्, स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति तं स्तोममुपधावेत् ॥ छान्दोग्योपनिषद्भाष्ये यां दिशमभिष्टोष्यन्स्यात्तां दिशमुप- धावेत् ॥ ११ ॥ [ख. यां दिशमभिष्टोष्यन्स्यात् तां दिशमुपधावेत् अधिष्ठात्रा- दिभिः ॥ आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स का- मः समृध्येत यत्कामः स्तुवीतेति यत्का- मः स्तुवीतेति ॥ १२॥ इति तृतीयः खण्डः ॥ आत्मानम् उद्गाता स्वं रूपं गोत्रनामादिभि:- -- - सामादीन् क्रमेण स्वं च आत्मानम् - अन्ततः अन्ते उपसृत्य स्तुवीत, कामं ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वन् । तत: अभ्याशः क्षिप्रमेव ह यत् यत्र अस्मै एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् । कोऽसौ ? यत्कामः यः कामः अस्य सोऽयं यत्कामः सन् स्तुवीतेति । द्विरुक्तिरादरार्था ॥ इति तृतीयखण्डभाष्यम् ॥ चतुर्थः खण्डः ॥ - ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १ ॥ ओमित्येतत् इत्यादिप्रकृतस्याक्षरस्य पुनरुपादानम् उद्गीथा- क्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ; प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमि - त्यारम्भः । ओमित्यादि व्याख्यातम् ॥ देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्रा- विशस्ते छन्दोभिरच्छादयन्यदेभिर- च्छादय‍ स्तच्छन्दसां छन्दस्त्वम् ॥ २ । देवा वै मृत्योः मारकात् विभ्यतः किं कृतवन्त इति, उच्यते— त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन् प्रविष्टव- न्तः, वैदिकं कर्म प्रारब्धवन्त इत्यर्थः, तत् मृत्योस्त्राणं मन्य- मानाः । किंच, ते कर्मण्यविनियुक्तैः छन्दोभिः मन्त्रैः जप- होमादि कुर्वन्तः आत्मानं कर्मान्तरेष्वच्छादयन् छादितवन्तः । छान्दोग्योपनिषद्भाष्ये [ख. यत् यस्मात् एभिः मन्त्रैः अच्छादयन्, तत् तस्मात् छन्दसां मन्त्राणां छादनात् छन्दस्त्वं प्रसिद्धमेव ॥ तानु तत्र मृत्युर्यथा मत्स्यमुदके परि- पश्येदेवं पर्यपश्यद्यचि साम्नि यजुषि । ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ ३ ॥ तान् तत्र देवान्कर्मपरान् मृत्युः यथा लोके मत्स्यधा- तको मत्स्यमुदके नातिगम्भीरे परिपश्येत् बडिशोदकस्रावो- पायसाध्यं मन्यमानः, एवं पर्यपश्यत् दृष्टवान् ; मृत्युः कर्म- क्षयोपायेन साध्यान्देवान्मेने इत्यर्थः । कासौ देवान्ददर्शेति, उच्यते— ऋचि साम्नि यजुषि ऋग्यजुःसामसंबन्धिकर्म- णीत्यर्थः । ते नु देवाः वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तः मृत्योश्चिकीर्षितं विदितवन्तः ; विदित्वा च ते ऊर्ध्वाः व्यावृत्ताः कर्मभ्यः ऋचः साम्नः यजुषः ऋग्यजुःसामसं- बद्धात्कर्मणः अभ्युत्थायेत्यर्थः । तेन कर्मणा मृत्युभयापगमं प्रति निराशाः तदपास्य अमृताभयगुणमक्षरं स्वरं स्वरश- ब्दितं प्राविशन्नेव प्रविष्टवन्तः, ओंकारोपासनपराः संवृत्ता: ; एव-शब्दः अवधारणार्थः सन् समुञ्चयप्रतिषेधार्थः; तदुपासन- पराः संवृत्ता इत्यर्थः ॥ ४.] प्रथमोऽध्यायः । कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येति, उच्यते— यदा वा ऋचमाप्नोत्योमित्येवातिखर- त्येव सामैवं यजुरेष उ स्वरो यदेतदक्ष- रमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ ४ ॥ यदा वै ऋचम् आप्नोति ओमित्येवातिस्वरति एवं साम एवं यजुः ; एष उ स्वरः; कोऽसौ ? यदेतदक्षरम् एतदमृ- तम् अभयम्, तत्प्रविश्य यथागुणमेव अमृता अभयाश्च अभवन् देवाः ॥ स य एतदेवं विद्वानक्षरं प्रणौत्येतदे- वाक्षर‍ स्वरममृतमभयं प्रविशति तत्प्र- विश्य यदमृता देवास्तदमृतो भवति ॥ इति चतुर्थः खण्डः ॥ स यः अन्योऽपि देववदेव एतदक्षरम् एवम् अमृता- भयगुणं विद्वान् प्रणौति स्तौति; उपासनमेवात्र स्तुति- रभिप्रेता, स तथैव एतदेवाक्षरं स्वरममृतमभयं प्रविशति ; तत्प्रविश्य च — राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्ग- छान्दोग्योपनिषद्भाष्ये " [ख. तावत् न परस्य ब्रह्मणोऽन्तरङ्गबहिरङ्गताविशेषः किं तर्हि ? यदमृता देवाः येनामृतत्वेन यदमृता अभूवन् तेनैवामृतत्वेन विशिष्टः तदमृतो भवति ; न न्यूनता नाप्यधिकता अमृ- तत्वे इत्यर्थः ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ -- प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रण- वोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्टया अक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यते— अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य उद्गी- थ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ अथ खलु य उद्गीथः स प्रणवः वढचानाम्, यश्च प्रणवः तेषां स एव च्छान्दोग्ये उद्गीथशब्दवाच्यः । असौ वा आदित्य उद्गीथः एष प्रणवः; प्रणवशब्दवाच्योऽपि स एव बह्वृचानाम्, नान्यः । उद्गीथ आदित्यः कथम् ? उद्गी- थाख्यमक्षरम् ओमिति एतत् एषः हि यस्मात् स्वरन् उच्चा- रयन्, अनेकार्थत्वाद्धातूनाम्; अथवा स्वरन् गच्छन् एति । अत: असावुद्गीथः सविता ॥ एतमु एवाहमभ्यगासिषं तस्मान्मम छान्दोग्योपनिषद्भाष्ये त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मीस्त्वं पर्यावर्तयाद्बहवो वै ते भवि- ष्यन्तीत्यधिदैवतम् ॥ २ ॥ [ख. तम् एतम् उ एव अहम् अभ्यगासिषम् आभिमुख्येन गीतवानस्मि, आदित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मी- त्यर्थः । तेन तस्मात्कारणात् मम त्वमेकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाच उक्तवान् । : अत: रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात् पर्यावर्तये- त्यर्थः, त्वंयोगात् । एवं बहवो वै ते तव पुत्रा भविष्यन्ती- त्यधिदैवतम् ॥ अथाध्यात्मं य एवायं मुख्यः प्राणस्त- मुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ अथ अनन्तरम् अध्यात्मम् उच्यते । य एवायं मुख्य: प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् । तथा ओमिति ह्येष प्राणोऽपि स्वरन्नेति ओमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृ- त्त्यर्थमेतीत्यर्थः । न हि मरणकाले मुमूर्षोः समीपस्था: प्रा- णस्योंकरणं शृण्वन्तीति । एतत्सामान्यादादित्ये ऽप्यकरणम- नुज्ञामात्रं द्रष्टव्यम् ॥ 4.] प्रथमोऽध्यायः । एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणास्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ ४ ॥ एतमु एवाहमभ्यगासिषमित्यादि पूर्ववदेव । अतो वागा- दीन्मुख्यं च प्राणं भेदगुणविशिष्टमुद्गीथं पश्यन् भूमानं मन- सा अभिगायतात्, पूर्ववदावर्तयेत्यर्थः ; बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः । प्राणादित्यैकत्वोद्गीथ- दृष्टेः एकपुत्रत्वफलदोषेणापोदितत्वात् रश्मिप्राणभेददृष्टेः कर्त- व्यता चोद्यते अस्मिन्खण्डे बहुपुत्र फलत्वार्थम् ॥ अथ खलु य उद्गीथः स प्रणवो यः प्र- णवः स उद्गीथ इति होतृषदनाद्वैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ इति पञ्चमः खण्डः ॥ अथ खलु य उद्गीथ इत्यादि प्रणवोद्गीथैकत्वदर्शनमुक्त- म्, तस्यैतत्फलमुच्यते— होतृषदनात् होता यत्रस्थ: शंसति तत्स्थानं होतृषदनम्, हौत्रात्कर्मणः सम्यक्प्रयुक्तादित्यर्थः । छान्दोग्योपनिषद्भाष्ये [ख. न हि देशमात्रात्फलमाहर्तुं शक्यम् । किं तत् ? ह एवापि दुरुद्गीतं दुष्टमुद्गीतम् उद्गानं कृतम् उद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः ; तदनुसमाहरति अनुसंधत्त इत्यर्थः -- चिकित्स- येव धातुवैषम्यसमीकरणमिति ॥ इति पञ्चमखण्डभाष्यम् ॥ षष्ठः खण्डः ॥ अथेदानीं सर्वफलसंपत्त्यर्थम् उद्गीथस्य उपासनान्तरं विधित्स्यते— इयमेवर्गग्निः साम तदेतदेतस्यामृच्य- ध्यूढ ँ साम तस्मादृच्यध्यूढः साम गी- यत इयमेव साग्निरमस्तत्साम ॥ १ ॥ इयमेव पृथिवी ऋक् ; ऋचि पृथिवीदृष्टिः कार्या । तथा अग्निः साम; साम्नि अग्निदृष्टिः । कथं पृथिव्यग्न्योः ऋ- क्सामत्वमिति, उच्यते-- तदेतत् अग्न्याख्यं साम एतस्यां पृथिव्याम् ऋचि अध्यूढम् अधिगतम् उपरिभावेन स्थित- मित्यर्थः ; ऋचीव साम; तस्मात् अत एव कारणात् ऋ- च्यध्यूढमेव साम गीयते इदानीमपि सामगैः । यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यम्, तथैतौ पृथिव्यन्नी; कथम् ? इयमेव पृथिवी सा सामनामार्धशब्दवाच्या ; इतरा- र्धशब्दवाच्यः अग्निः अम: ; तत् एतत्पृथिव्यग्निद्वयं सामै- कशब्दाभिधेयत्वमापन्नं साम; तस्मान्नान्योन्यं भिन्नं पृथि- व्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव । तस्माच्च पृथिव्य - ग्न्योर्ऋक्सामत्वमित्यर्थः । सामाक्षरयोः पृथिव्यग्निदृष्टिवि- धानार्थमियमेव सा अग्निरम इति केचित् ॥ S. u. III. 14 छान्दोग्योपनिषद्भाष्ये अन्तरिक्षमेवग्र्वायुः साम तदेतदेत- स्यामृच्यध्यूढ साम तस्मादृच्यध्यू- ८५ साम गीयतेऽन्तरिक्षमेव सा वायु- रमस्तत्साम ॥ २ ॥ अन्तरिक्षमेव ऋक् वायुः साम इत्यादि पूर्ववत् ॥ द्यौरेवर्गादित्यः साम तदेतदेतस्यामृ- च्यध्यूढ साम तस्मादृच्यध्यूढ‍ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ ३ ॥ नक्षत्राण्येवचन्द्रमाः साम तदेतदेत- स्यामृच्यध्यूढ साम तस्मादृच्यध्यूढ ५ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ ४ ॥ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम । अथ यदेतदादित्यस्य शुक्लं भाः सैव- गथ यन्नीलं परः कृष्णं तत्साम तदेतदे- तस्यामृच्यध्यूढ ५ साम तस्मादृच्यध्यूढ‍ साम गीयते ॥ ५॥ [ख. ६.] प्रथमोऽध्यायः । अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैव ऋक् । अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्यं तत्साम । तद्ध्येकान्तसमाहितदृष्टेर्द्दश्यते ॥ अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृ- श्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखा- त्सर्व एव सुवर्णः ॥ ६॥ ते एवैते भासौ शुक्लकृष्णत्वे सा च अमश्च साम । अथ य एषः अन्तरादित्ये आदित्यस्यान्तः मध्ये हिरण्मयः हिर- ण्मय इव हिरण्मयः । न हि सुवर्णविकारत्वं देवस्य संभ- वति, ऋक्साम गेष्णत्वापहतपाप्मत्वासंभवात्; न हि सौवर्णे- ऽचेतने पाप्मादिप्राप्तिरस्ति, येन प्रतिषिध्येत, चाक्षुषे च अग्रहणात् ; अतः लुप्तोपम एव हिरण्मयशब्दः, ज्योतिर्मय इत्यर्थः । उत्तरेष्वपि समाना योजना । पुरुष: पुरि शयनात् पूरयति वा स्वेन आत्मना जगदिति; दृश्यते निवृत्तचक्षुभिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षैः । तेजस्विनोऽपि श्म- श्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि — हिरण्यश्मश्रुर्हि- छान्दोग्योपनिषद्भाष्ये [ख. रण्यकेश इति ; ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः । आप्रणखात् प्रणखः नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः ॥ तस्य यथा कप्यासं पुण्डरीकमेवमक्षि- णी तस्योदिति नाम स एष सर्वेभ्यः पा- प्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्म- भ्यो य एवं वेद ॥ ७ ॥ तस्य एवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्विशेषः । कथम् ? तस्य यथा कपेः मर्कटस्य आसः कप्यास: ; आसेरुपवेशना- र्थस्य करणे घन् ; कपिपृष्ठान्तः येनोपविशति ; कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि एवम् देवस्य अक्षिणी; उपमितो- पमानत्वात् न हीनोपमा । तस्य एवंगुणविशिष्टस्य गौणमिदं नाम उदिति ; कथं गौणत्वम् ? स एषः देवः सर्वेभ्यः पाप्म- भ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः, 'य आत्मापहतपाप्मा' इत्यादि वक्ष्यति, उदितः उत् इतः, उद्द्भुत इत्यर्थः । अतः असौ उन्नामा । तम् एवंगुणसंपन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेव उदेति उद्गच्छति सर्वेभ्यः पाप्मभ्यः— ह वै इत्यवधारणार्थौ निपातौ — उदेत्येवेत्यर्थः ॥ तस्यच साम च गेष्णौ तस्मादुद्गीथ- ६.] प्रथमोऽध्यायः । स्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देव- कामानां चेत्यधिदैवतम् ॥ ८ ॥ इति षष्ठः खण्डः ॥ तस्योद्गीथत्वं देवस्य आदित्यादीनामिव विवक्षित्वा आह- तस्य ऋक्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी । सर्वात्मा हि देवः । परापरलोकका मेशितृत्वादुप- पद्यते पृथिव्यग्न्याद्युक्साम गेष्णत्वम्, सर्वयोनित्वाच्च । यत एवमुन्नामा च असौ ऋक्सामगेष्णश्च तस्मादृक्सा मगेष्णत्वे प्राप्ते उद्गीथत्वमुच्यते परोक्षेण, परोक्षप्रियत्वाद्देवस्य तस्मा- दुद्गीथ इति । तस्मात्त्वेव हेतोः उदं गायतीत्युद्गाता । यस्मा- द्धि एतस्य यथोक्तस्योन्नाम्नः गाता असौ अतो युक्ता उद्गात नामप्रसिद्धिः उद्गातुः । स एष: देव: उन्नामा ये च अमुष्मात् आदित्यात् पराञ्चः परागञ्चनात् ऊर्ध्वा लोकाः तेषां लोकानां च ईटे न केवलमीशितृत्वमेव, च-शब्दाद्धार च, 'स दाधार पृथिवीं द्यामुतेमाम्' इत्यादिमन्त्रवर्णात् । किंच, देवकामानामीष्टे इति एतत् अधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ अथाध्यात्मं वागेव प्रणः साम तदे- तदेतस्यामृच्यध्यूढ‍ साम तस्मादृच्य- ध्यूढ साम गीयते । वागेव सा प्राणो- ऽमस्तत्साम ॥ १ ॥ अथ अधुना अध्यात्ममुच्यते — वागेव ऋक् प्राण: साम, अधरोपरिस्थानत्वसामान्यात् । प्राणो ब्राणमुच्यते सह वा- युना । वागेव सा प्राणोऽम इत्यादि पूर्ववत् ॥ चक्षुरेवर्गात्मा साम तदेतदेतस्यामृ- च्यध्यूढ‍ साम तस्मादृच्यध्यूढँ साम गीयते । चक्षुरेव सात्मामस्तत्साम ॥ २ ॥ चक्षुरेव ऋक् आत्मा साम । आत्मेति च्छायात्मा, तत्स्थत्वात्साम ॥ श्रोत्रमेवर्झनः साम तदेतदेतस्यामृ- च्यध्यूढ‍ साम तस्मादृच्यध्यूढँ साम गीयते । श्रोत्रमेव सा मनोऽमस्तत्साम ॥ ७. ] प्रथमोऽध्यायः । श्रोत्रमेव ऋक् मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम् ॥ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्या- मृच्यध्यूढ‍ साम तस्मादृच्यध्यूढ ५ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्त- त्साम ॥ ४ ॥ अथ यदेतदक्ष्णः शुक्लं भाः सैव ऋक् । अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम ॥ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्य- ते सैवर्त्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म त- स्यैतस्य तदेव रूपं यदमुष्य रूपं यावमु- ष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ अथ य एषोऽन्तरक्षिण पुरुषो दृश्यते, पूर्ववत् । सैव ऋक् अध्यात्मं वागाद्या, पृथिव्याद्या च अधिदैवतम् ; प्र- सिद्धा च ऋक् पादवद्धाक्षरात्मिका ; तथा साम; उक्थ- साहचर्याद्वा स्तोत्रं साम ऋक शस्त्रम् उक्थादन्यत् तथा छान्दोग्योपनिषद्भाष्ये [ख. यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुः तत्स एव । सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम । ऋगादिप्रकरणात् तद्ब्रह्मेति त्रयो वेदाः । तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते । किं तत् ? यदमुष्य आदित्यपुरुषस्य - हिरण्मय इत्यादि यदधिदैवतमुक्तम्, यावमुष्य गेष्णौ पर्वणी, तावेवास्यापि चाक्षुषस्य गेष्णौ ; यच्चामुष्य नाम उदित्यु - द्गीथ इति च तदेवास्य नाम । स्थानभेदात् रूपगुणनामाति- देशात् ईशितृत्वविषयभेदव्यपदेशाश्च आदित्यचाक्षुषयोर्भेद इति चेत्, न ; ' अमुना' 'अनेनैव' इत्येकस्योभयात्मत्वप्रा- प्त्यनुपपत्तेः । द्विधाभावेनोपपद्यत इति चेत् — वक्ष्यति हि ' स एकधा भवति त्रिधा भवति' इत्यादि, न; चेतनस्यैकस्य निरवयवत्वाद्विधाभावानुपपत्तेः । तस्मादध्यात्माधिदैवतयोरेक- त्वमेव । यत्तु रूपाद्यतिदेशो भेदकारणमवोचः, न तद्भेदा- वगमाय ; किं तर्हि, स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥ स एष ये चैतस्मादवश्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वी- णायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥ स एषः चाक्षुषः पुरुषः ये च एतस्मात् आध्यात्मिका- ७.] प्रथमोऽध्यायः । दात्मन: अर्वाश्च: अर्वाग्गताः लोकाः तेषां चेष्टे मनुष्य- संबन्धिनां च कामानाम् । तत् तस्मात् य इमे वीणायां गाय- न्ति गायकाः त एतमेव गायन्ति । यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयः धनलाभयुक्ताः, धनवन्त इत्यर्थः ॥ अथ य एतदेवं विद्वान्साम गायत्यु- भौ स गायति सोऽमुनैव स एष ये चा- मुष्मात्पराश्चो लोकास्तावाप्नोति देव- कामाश्च ॥ ७॥ अथ य एतदेवं विद्वान् यथोक्तं देवमुद्गीथं विद्वान् साम गायति उभौ स गायति चाक्षुषमादित्यं च । तस्यैवंविदः फलमुच्यते— सोऽमुनैव आदित्येन स एष ये च अमुष्मा- त्पराञ्चः लोकाः तांश्च आप्नोति, आदित्यान्तर्गतदेवो भूत्वे- त्यर्थः देवकामांश्च ॥ " अथानेनैव ये चैतस्मादवश्चो लोका- स्ताश्वाप्नोति मनुष्यकामाश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ ८ ॥ कं ते काममागायानीत्येष ह्येव काम- छान्दोग्योपनिषद्भाष्ये गानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ ९॥ इति सप्तमः खण्डः ॥ [ख. अथ अनेनैव चाक्षुषेणैव ये च एतस्मादर्वाचो लोकाः तांश्च आप्नोति, मनुष्यकामांश्च - चाक्षुपो भूत्वेत्यर्थः । तस्मादु ह एवंवित् उद्गाता ब्रूयात् यजमानम् — कम् इष्टं ते तव काममागायानीति । एष हि यस्मादुद्गाता कामागानस्य उद्वानेन कामं संपादयितुमीष्टे समर्थः इत्यर्थः । कोऽसौ ? य एवं विद्वान् साम गायति । द्विरुक्तिरुपासन समाप्त्यर्था ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ त्रयो होद्गीथे कुशला बभ्रुवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥ अनेकधोपास्यत्वात् अक्षरस्य प्रकारान्तरेण परोवरीय- स्त्वगुणफलमुपासनान्तरमानिनाय । इतिहासस्तु सुखावबो- धनार्थ: । त्रयः त्रिसंख्याकाः, ह इत्यैतिह्यार्थः, उद्गीथे उद्गीथज्ञानं प्रति, कुशलाः निपुणा वभूवुः कस्मिंश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्राय: । न हि सर्वस्मि- जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने । श्रूयन्ते हि उपस्तिजानश्रुति कैकेयप्रभृतयः सर्वज्ञकल्पाः । के ते त्रय इति, आह—- शिलक : नामतः, शलावतोऽपत्यं शालावत्य: ; चिकितायनस्यापत्यं चैकितायनः, दल्भगोत्रो दाल्भ्यः, व्यामुष्यायणो वा; प्रवाहणो नामतः, जीवलस्यापत्यं जैवलिः इत्येते त्रयः - ते होचुः अन्योन्यम् - उद्गीथे वै कुशलाः निपुणा इति प्रसिद्धाः स्मः । अतो हन्त यद्यनुमतिर्भवताम् उद्गीथे उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन छान्दोग्योपनिषद्भाष्ये [ख. वदाम: वादं कुर्म इत्यर्थः । तथा च तद्विद्यसंवादे विपरीत- ग्रहणनाशोऽपूर्व विज्ञानोपजनः संशयनिवृत्तिश्चेति । अतः त- द्विद्यसंयोगः कर्तव्य इति च इतिहासप्रयोजनम् । दृश्यते हि शिलकादीनाम् । तथेति ह समुपविविशुः स ह प्रवा- हणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचः श्रोष्यामीति ॥ २ ॥ तथेत्युक्त्वा ते समुपविविशुः ह उपविष्टवन्तः किल । तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाच इत- रौ - भगवन्तौ पूजावन्तौ अग्रे पूर्वं वदताम्; ब्राह्मणयोरिति लिङ्गाद्राजा असौ; युवयोर्ब्राह्मणयोः वदतो वाचं श्रोष्यामि; अर्थरहितामित्यपरे, वाचमिति विशेषणात् ॥ स ह शिलकः शालावत्यश्चेकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृ- च्छेति होवाच ॥ ३ ॥ उक्तयोः स ह शिलकः शालावत्यः चैकितायनं दाल्भ्य- मुवाच — हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानि इत्युक्तः इतर : पृच्छेति होवाच ॥ ८.] प्रथमोऽध्यायः । का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्या इति होवाच ॥ ४ ॥ ' लब्धानुमतिराह -- का सान्न:— प्रकृतत्वादुद्गीथस्य ; उद्गीथो हि अत्र उपास्यत्वेन प्रकृतः ; 'परोवरीयांसमुद्गीथम् ' इति च वक्ष्यति — गतिः आश्रयः, परायणमित्येतत् । एवं पृष्ठो दाल्भ्य उवाच -- स्वर इति स्वरात्मकत्वात्साम्नः । यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तम्, मृदा- श्रय इव घटादिः । स्वरस्य का गतिरिति, प्राण इति हो- प्राणनिष्पाद्यो हि स्वर:, तस्मात्स्वरस्य प्राणो गतिः । प्राणस्य का गतिरिति, अन्नमिति होवाच ; अन्नावष्टम्भो हि ' प्राणः, ' शुष्यति वै प्राण ऋतेऽन्नात्' इति श्रुतेः, 'अन्नं दाम' इति च । अन्नस्य का गतिरिति, आप इति होवाच, अप्संभवत्वादन्नस्य ॥ वाच ; अपां का गतिरित्यसौ लोक इति हो- वाचामुष्य लोकस्य का गतिरिति न स्वर्ग लोकमति नयेदिति होवाच स्वर्ग वयं लो- छान्दोग्योपनिषद्भाष्ये क৺सामाभिसंस्थापयामः खर्गस रस्ताव हि सामेति ॥ ५ ॥ [ख. अपां का गतिरिति, असौ लोक इति होवाच ; अमुष्मा- द्धि लोकाद्वृष्टिः संभवति । अमुष्य लोकस्य का गतिरिति पृष्टः दाल्भ्य उवाच -- स्वर्गममुं लोकमतीत्य आश्रयान्तरं साम न नयेत्कश्चित् इति होवाच आह । अतो वयमपि स्वर्ग लोकं साम अभिसंस्थापयामः; स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः । स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावम् हि यस्मात् स्वर्गो वै लोकः साम वेद इति श्रुतिः ॥ " तँह शिलकः शालावत्यश्चेकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दा- लभ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते वि- पतिष्यतीति मूर्धा ते विपतेदिति ॥ ६ ॥ तम् इतरः शिलकः शालावत्यः चैकितायनं दाल्भ्यमुवाच - अप्रतिष्ठितम् असंस्थितम्, परोवरीयत्वेनासमाप्तगति सामेत्यर्थः ; वै इत्यागमं स्मारयति किलेति च, दालभ्य तव साम । यस्तु असहिष्णुः सामवित् एतर्हि एतस्मिन्काले ब्रूयात् कश्चिद्विपरीतविज्ञानम् - अप्रतिष्ठितं साम प्रतिष्ठित- ते ८.] प्रथमोऽध्यायः । मिति - एवंवादापराधिनो मूर्धा शिरः ते विपतिष्यति वि- स्पष्टं पतिष्यतीति । एवमुक्तस्यापराधिनः तथैव तद्विपतेत् न संशयः; न त्वहं ब्रवीमीत्यभिप्रायः । ननु मूर्धपातार्ह चेद- पराधं कृतवान्, अतः परेणानुक्तस्यापि पतेन्मूर्धा, न चेदप- राधी उक्तस्यापि नैव पतति; अन्यथा अकृताभ्यागमः कृत- नाशश्च स्याताम् । नैष दोष:, कृतस्य कर्मण: शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात् । तत्रैवं सति मूर्धपातन- मित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति ॥ हन्ताहमेतद्भगवतो वेदानीति विद्धी- ति होवाचामुष्य लोकस्य का गतिरि- त्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमति नयेदिति होवाच प्रतिष्ठां वयं लोक सामाभिस- स्थापयामः प्रतिष्ठास प्रस्ताव हि सा- मेति ॥ ७ ॥ एवमुक्तो दालभ्य आह— हन्ताहमेतद्भगवत्तः भगवतः वे- दानि यत्प्रतिष्ठं साम इत्युक्तः प्रत्युवाच शालावत्यः - विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति पृष्ट: दाल्भ्येन छान्दोग्योपनिषद्भाष्ये [ख. शालावत्यः अयं लोक इति होवाच ; अयं हि लोको याग- दानहोमादिभिरमुं लोकं पुण्यतीति; ' अतः प्रदानं देवा उपजीवन्ति' इति हि श्रुतय: ; प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति; अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् । अस्य लोकस्य का गतिरित्युक्तः आह शालावत्यः- न प्रतिष्ठाम् इमं लोकमतीत्य नयेत् साम कश्चित् । अतो वयं प्रतिष्ठां लोकं साम अभिसंस्थापयाम: ; यस्मात्प्रतिष्ठा- संस्तावं हि, प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः ; ' इयं वै रथं- तरम्' इति च श्रुतिः ॥ - त ँह प्रवाहणो जैबलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रू- यान्मूर्धा ते विपतिष्यतीति मूर्धा ते वि- पतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच ॥ ८ ॥ इति अष्टमः खण्डः ॥ तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाच अन्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् । ततः शालावत्य आह -- हन्ताहमेतद्भगवत्तो बेदानीति; विद्धीति होवाच इतरः ॥ इति अप्रुमखण्डभाष्यम् ॥ नवमः खण्डः ॥ अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्या- काशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः प- रायणम् ॥ १ ॥ O ; अनुज्ञात: आह्— अस्य लोकस्य का गतिरिति, आ- काश इति होवाच प्रवाहणः ; आकाश इति च पर आत्मा, 'आकाशो वै नाम' इति श्रुतेः ; तस्य हि कर्म सर्वभूतोत्पाद- कत्वम् ; तस्मिन्नेव हि भूतप्रलय: - ' तत्तेजोऽसृजत' ' तेज: परस्यां देवतायाम्' इति हि वक्ष्यति सर्वाणि ह वै इमानि भूतानि स्थावरजङ्गमानि आकाशादेव समुत्पद्यन्ते तेजोवन्नादिक्रमेण, सामर्थ्यात्, आकाशं प्रति अस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण; हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यः ज्यायान् महत्तरः, अतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः ॥ s. u. III. 15 छान्दोग्योपनिषद्भाष्ये स एष परोवरीयानुद्गीथः स एषोऽन- न्तः परोवरीयो हास्य भवति परोवरीय- सो ह लोकाञ्जयति य एतदेवं विद्वान्प- रोवरीया समुद्गीथमुपास्ते ॥ २ ॥ ख. यस्मात् परं परं वरीयः वरीयसोऽप्येष वरः परश्व वरी- यांश्च परोवरीयान् उद्गीथः परमात्मा संपन्न इत्यर्थः, अत एव स एषः अनन्तः अविद्यमानान्तः । तमेतं परोवरीयांसं परमात्मभूतमनन्तम् एवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तस्यैतत्फलमाह — परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं ह अस्य विदुषो भवति दृष्टं फलम्, अदृष्टं च परोवरी- यसः उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तान् लोकान् ज- यति — य एतदेवं विद्वानुद्गीथमुपास्ते ॥ त हैतमतिधन्वा शौनक उदरशा- ण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजाया- मुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्ता- वदस्मिलोके जीवनं भविष्यति ॥ ३ ॥ किं च तमेतमुद्गीथं विद्वान् अतिधन्वा नामतः, शुनक- ९.] प्रथमोऽध्यायः । स्यापत्यं शौनकः, उदरशाण्डिल्याय शिष्याय एतम् उद्गीथ- दर्शनम् उक्त्वा उवाच - यावत् ते तव प्रजायाम्, प्रजासं- ततावित्यर्थः, एनम् उद्गीथं त्वत्संततिजा वेदिष्यन्ते ज्ञास्य- न्ति, तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिक- जीवनेभ्यः उत्तरोत्तर विशिष्टतरं जीवनं तेभ्यो भविष्यति ॥ तथामुष्मिलोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हाथा- स्मिलोके जीवनं भवति तथामुष्मिल्लोके लोक इति लोके लोक इति ॥ ४ ॥ इति नवमः खण्डः ॥ तथा अदृष्टेऽपि परलोके अमुष्मिन् परोवरीयाँलोको भविष्यतीत्युक्तवान् शाण्डिल्याय अतिधन्वा शौनकः । स्यादे- तत्फलं पूर्वेषां महाभाग्यानाम्, नैदंयुगीनानाम् — इत्याश- ङ्कानिवृत्तये आह- स यः कश्चित् एतमेवं विद्वान् उद्गी- थम् एतर्हि उपास्ते, तस्याप्येवमेव परोवरीय एव ह अस्य अस्मिलोके जीवनं भवति तथा अमुष्मिलोके लोक इति ॥ इति नवमखण्डभाष्यम् ॥ - दशमः खण्डः ॥ मटचीहतेषु कुरुष्वाटिक्या सह जाय- योषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १ ॥ उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं व- क्तव्यमितीदमारभ्यते ; आख्यायिका तु सुखावबोधार्था । मटचीहतेषु मटच्यः अशनयः ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः । ततो दुर्भिक्षे जाते आटिक्या अनुप- जातपयोधरादिस्त्रीव्यञ्जनया सह जायया उषस्तिर्ह नामतः, चक्रस्यापत्यं चाक्रायणः ; इभो हस्ती तमर्हतीति इभ्यः ईश्वर:, हस्त्यारोहो वा तस्य ग्रामः इभ्यग्रामः तस्मिन्; प्रद्राणक: अन्नालाभात्, 'द्रा कुत्सायां गतौ', कुत्सितां गतिं गतः, अन्त्यावस्थां प्राप्त इत्यर्थः ; उवास उषितवान् कस्य- चिद्गृहमाश्रित्य ॥ स हेभ्यं कुल्माषान्खादन्तं विभिक्षे त‍ होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥ सः अन्नार्थमटन इभ्यं कुल्माषान् कुत्सितान्माषान् खाद- १०.] प्रथमोऽध्यायः । , न्तं भक्षयन्तं यदृच्छयोपलभ्य विभिक्षे याचितवान् । तम् उषस्ति ह उवाच इभ्यः- :- न इतः अस्मान्मया भक्ष्यमा- णादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते; यच्च ये राशौ मे मम उपनिहिताः प्रक्षिप्ता: इमे भाजने, किं करोमि ; इत्युक्तः प्रत्युवाच उषस्तिः-- एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पी- तर स्यादिति होवाच ॥ ३ ॥ एतेषाम् एतानित्यर्थः, मे मह्यं देहीति ह उवाच ; तान् स इभ्य: अस्मै उपस्तये प्रददौ प्रदत्तवान् । पानाय समी- पस्थमुदकं च गृहीत्वा उवाच- -हन्त गृहाणानुपानम् ; इत्युक्तः प्रत्युवाच — उच्छिष्टं वै मे मम इदमुदकं पीतं स्यात्, यदि पास्यामि ; इत्युक्तवन्तं प्रत्युवाच इतर:- - न स्विदेतेऽप्युच्छिष्टा इति न वा अ- जीविष्यमिमानखादन्निति होवाच का- मो म उदपानमिति ॥ ४ ॥ किं न स्विदेते कुल्माषा अप्युच्छिष्टाः, इत्युक्तः आह उषस्तिः • न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्मा- -- छान्दोग्योपनिषद्भाष्ये [ख. षान् अखादन् अभक्षयन् इति होवाच । कामः इच्छातः मे मम उदकपानं लभ्यत इत्यर्थः । अतश्चैतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो न अघस्पर्श इत्यभिप्रायः । तस्यापि जीवितं प्रति उपाया- न्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय; ज्ञानाव- लेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः, प्रद्राणकशब्द- श्रवणात् ॥ स ह खादित्वातिशेषाञ्जायाया आज- हार साग्र एव सुभिक्षा बभूव तान्प्रति- गृह्य निदधौ ॥ ५॥ तांश्च स खादित्वा अतिशेषान अतिशिष्टान् जायायै कारुण्यादाजहार; सा आटिकी अग्रे एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिना, लब्धान्नेत्येतत् बभूव संवृत्ता ; तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान पत्युर्हस्तात्प्र- तिगृह्य निदधौ निक्षिप्तवती ॥ स ह प्रातः संजिहान उवाच यद्वता- न्नस्य लभेमहि लभेमहि धनमात्राः रा- जासौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणी- तेति ॥ ६ ॥ १०.] प्रथमोऽध्यायः । - स तस्याः कर्म जानन् प्रात: उप:काले संजिहान: शयनं निद्रां वा परित्यजन उवाच पत्न्याः शृण्वन्त्याः यत् यदि बतेति विद्यमानः अन्नस्य स्तोकं लभेमहि, तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम्; ततः अ- स्माकं जीवनं भविष्यतीति । धनलाभे च कारणमाह- राजासौ नातिदूरे स्थाने यक्ष्यते; यजमानत्वात्तस्य आत्म- नेपदम् ; स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैः ऋत्विकर्मभिः ऋत्विक्कर्मप्रयोजनायेत्यर्थः वृणीतेति ॥ तं जायोवाच हन्त पत इम एव कु- ल्माषा इति तान्खादित्वामुं यज्ञं वितत- मेयाय ॥ ७ ॥ एवमुक्तवन्तं जायोवाच- हन्त गृहाण हे पते इमे एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति । तान्खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिः एयाय ॥ तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोप- विवेश स ह प्रस्तोतारमुवाच ॥ ८ ॥ तत्र च गत्वा, उद्गातॄन् उद्गातृपुरुषानागत्य, आ स्तुवन्त्य- स्मिन्निति आस्ताव: तस्मिन्नास्तावे स्तोष्यमाणान् उपोपविवेश छान्दोग्योपनिषद्भाष्ये [ख. सभीपे उपविष्टस्तेषामित्यर्थः । उपविश्य च सह प्रस्तो- तारमुवाच ॥ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मृर्धा ते विष- तिष्यतीति ॥ ९॥ हे प्रस्तोतः इत्यामन्त्र्य अभिमुखीकरणाय, या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगता अन्वायत्ता, तां चेत् देवतां प्रस्तावभक्तेः अविद्वान्सन प्रस्तोष्यसि, विदुपो मम समीपे - तत्परोक्षेऽपि चेत् विपतेत्तस्य मूर्धा, कर्ममात्रविदामनधिकार एव कर्मणि स्यात्; तथानिष्टम्, अविदुषामपि कर्मदर्शनात्, दक्षिणमार्गश्रुतेश्च अनधिकारे च अविदुषामुत्तर एवैको मार्गः श्रूयेत ; न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः, 'यज्ञेन दानेन' इत्यादिश्रुतेः ; ' तथोक्तस्य मया' इति च विशे- पणाद्विद्वत्समक्षमेव कर्मण्यनधिकारः, न सर्वत्राग्निहोत्रस्मा- र्तकर्माध्ययनादिषु च ; अनुज्ञायास्तत्र तत्र दर्शनात् कर्म- मात्रविदामप्यधिकारः सिद्धः कर्मणीति — मूर्धा ते विप- तिष्यतीति ॥ " एवमेवोद्गातारमुवाचोगातर्या देवतो- द्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि १०.] प्रथमोऽध्यायः । मूर्धा ते विपतिष्यतीति ॥ १० ॥ एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वा- प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ॥ ११ ॥ इति दशमः खण्डः । एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् । ते प्रस्तोत्रादयः कर्मभ्यः समारता : उपरताः सन्तः मूर्धपातभ- यात् तूष्णीमासांचक्रिरे अन्यच्चाकुर्वन्तः, अर्थित्वात् ॥ इति दशमखण्डभाष्यम् ॥ एकादशः खण्डः ॥ अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चा- क्रायण इति होवाच ॥ १ ॥ अथ अनन्तरं ह एनम् उपस्ति यजमानः राजा उवाच भगवन्तं पूजावन्तम् वै अहं विविदिषाणि वेदितुमिच्छामि ; इत्युक्तः उषस्तिः अस्मि चाक्रायणः तवापि श्रोत्रपथमागतो यदि - इति ह उवाच उक्तवान् ॥ स होवाच भगवन्तं वा अहमेभिः स- वैरात्र्त्विज्यैः पर्यैषिषं भगवतो वा अहम- वित्त्यान्यानवृषि ॥ २॥ - स ह यजमानः उवाच - सत्यमेवमहं भगवन्तं बहुगुणम- श्रौषम्, सर्वैश्च ऋत्विकर्मभिः आर्त्विज्यैः पर्येषिषं पर्येषणं कृतवानस्मि ; अन्विष्य भगवतो वा अहम् अवित्त्या अलाभेन अन्यानिमान् अवृषि वृतवानस्मि ॥ भगवास्त्वेव मे सर्वैरात्र्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां ११.] प्रथमोऽध्यायः । यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ ३ । : अद्यापि भगवांस्त्वेव मे मम सर्वैरात्र्त्विज्यैः ऋत्विकर्मार्थम् अस्तु, इत्युक्तः तथेत्याह उपस्तिः ; किं तु अथैवं तर्हि एते एव त्वया पूर्व वृताः मया समतिसृष्टा मया सम्यक्प्रसन्नेनानु- ज्ञाताः सन्तः स्तुवताम् ; त्वया त्वेतत्कार्यम् -- यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दया: ; इत्युक्तः तथेति ह यजमानः उवाच ॥ ' अथ हैनं प्रस्तोतोपससाद प्रस्तोतय देवता प्रस्तावमन्वायत्ता तां चेदविद्वा- प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ ४॥ अथ ह एनम् औषस्त्यं वचः श्रुत्वा प्रस्तोता उपससाद उषस्ति विनयेनोपजगाम । प्रस्तोतर्या देवतेत्यादि मा मां भगवानवोचत्पूर्वम्— कतमा सा देवता या प्रस्तावभक्ति- मन्वायत्तेति ॥ प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति छान्दोग्योपनिषद्भाष्ये प्राणमभ्युजिहते सैषा देवता प्रस्तावम- न्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ५॥ [ख. पृष्टः प्राण इति ह उवाच ; युक्तं प्रस्तावस्य प्राणो देव- तेति । कथम् ? सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेव अभिसंविशन्ति प्रलयकाले, प्राणमभि लक्षयित्वा प्राणात्मनैवो- जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले; अत: सैषा देवता प्रस्तावमन्वायत्ता ; तां चेदविद्वान् त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि, मूर्धा शिरः ते व्यप- तिष्यत् विपतितमभविष्यत् तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति । अतस्त्वया साधु कृतम् ; मया निषिद्धः कर्मणो यदुपरममकार्षीरित्यभिप्राय: ॥ अथ हैनमुद्गातोपससादोद्गात देव- तोद्गीथमन्वायत्ता तां चेदविद्वानुद्रास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवो- चत्कतमा सा देवतेति ॥ ६ ॥ तथोद्गाता पप्रच्छ कतमा सा उद्गीथभक्तिमनुगता अन्वा- यत्ता देवतेति ॥ ११.] प्रथमोऽध्यायः । आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुचैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वा- नुद्गास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ ७ ॥ पृष्टः आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति, स्तुवन्तीत्यभिप्रायः, उच्छब्दसामान्यात्, प्रशब्दसामान्यादिव प्राणः । अतः सैषा देवतेत्यादि पूर्ववत् ॥ अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्या- प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ एवमेवाथ ह एनं प्रतिहर्ता उपससाद कतमा सा देवता प्रतिहारमन्वायत्तेति ॥ अन्नमिति होवाच सर्वाणि ह वा इमा- नि भूतान्यन्नमेव प्रतिहरमाणानि जीव- छान्दोग्योपनिषद्भाष्ये न्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपति- ष्यत्तथोक्तस्य मयेति तथोक्तख मयेति ॥ इति एकादशः खण्डः ॥ [ख. पृष्टः अन्नमिति होवाच । सर्वाणि ह वा इमानि भूता- न्यन्नमेव आत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति । सैषा देवता प्रतिशब्दसामान्यात्प्रतिहार भक्तिमनुगता । समा- नमन्यत्तथोक्तस्य मयेति । प्रस्तावोद्गीथप्रतिहारभक्ती: प्राणा- दित्यान्नदृष्टयोपासीतेति समुदायार्थः । प्राणाद्यापत्तिः कर्म- समृद्धिर्वा फलमिति ॥ इति एकादशखण्डभाष्यम् ॥ द्वादशः खण्डः ॥ अथातः शौव उद्गीथस्तद्ध बको दा- ल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्व- व्राज ॥ १ ॥ अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्ता उच्छिष्टो- च्छिष्टपर्युषितभक्षणलक्षणा ; सा मा भूदित्यन्नलाभाय अथ अनन्तरं शौवः श्वभिर्दृष्टः उद्गीथः उद्गानं साम अत: प्रस्तूयते । तत् तत्र ह किल वको नामतः, दल्भस्यापत्यं दा- लभ्यः ; ग्लावो वा नामतः, मित्रायाश्चापत्यं मैत्रेय: ; वा- शब्दश्चार्थे; ब्यामुष्यायणो ह्यसौ; वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः; द्विनामा द्विगोत्र इत्यादि हि स्मृति: ; दृश्यते च उभयतः पिण्डभाक्त्वम् ; उद्गीथे बद्धचित्तत्वात् ऋषावनादराद्वा । वा-शब्दः स्वाध्यायार्थः । स्वाध्यायं कर्तुं ग्रामाद्बहिः उद्वव्राज उद्गतवान्विविक्तदेशस्थोदकाभ्याशम् । 'उद्वव्राज' 'प्रतिपालयांचकार' इति च एकवचनालिङ्गात् एकोऽसौ ऋषिः । श्वोद्गीथकालप्रतिपालनात् ऋषेः स्वाध्याय- करणमन्नकामनयेति लक्ष्यत इत्यभिप्रायतः ॥ तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये छान्दोग्योपनिषद्भाष्ये श्वान उपसमेत्योचुरन्नं नो भगवानागाय- त्वशनायामचा इति ॥ २ ॥ [ख. स्वाध्यायेन तोषिता देवता ऋषिर्वा रूपं गृहीत्वा श्रा श्वेतः सन् तस्मै ऋषये तदनुग्रहार्थे प्रादुर्वभूव प्रादुश्चकार । तमन्ये शुकुं श्वानं क्षुल्लका: श्वानः उपसमेत्य ऊचुः उक्तव- न्त:- अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन नि- ष्पादयत्वित्यर्थः । मुख्यप्राणवागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोपिताः सन्तः अनुगृह्णीयुरेनं श्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् । अशनायाम वै बुभुक्षिताः स्मो वै इति ॥ तान्होबाचे हैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्र- तिपालयांचकार ॥ ३ ॥ एवमुक्ते श्वा श्वेत उवाच तान् क्षुल्लकान् शुनः, इहैव अस्मिन्नेव देशे मा मां प्रातः प्रातःकाले उपसमीयातेति । दैर्घ्यं छान्दसम्, समीयातेति प्रमादपाठो वा । प्रात:कालक- रणं तत्काल एव कर्तव्यार्थम्, अन्नदस्य वा सवितुरपरा- ह्वेऽनाभिमुख्यात् । तत् तत्रैव छ बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयांचकार प्रतीक्षणं कृतवानित्यर्थः ॥ १२.] प्रथमोऽध्यायः । ते ह यथैवेदं बहिष्पवमानेन स्तोष्य- माणाः सँरब्धाः सर्पन्तीत्येवमाससृपु- स्ते ह समुपविश्य हिं चक्रुः ॥ ४ ॥ आगत्य ऋषेः समक्षं यथैवेह कर्मणि बहि- " पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः संरब्धा: संल- माः अन्योन्यमेव सर्पन्ति, एवं मुखेनान्योन्यस्य पुच्छं गृहीत्वा आससृपुः आसृप्तवन्तः, परिभ्रमणं कृतवन्त इत्यर्थः ; त एवं सं- सृप्य समुपविश्य उपविष्टाः सन्तः हिं चक्रुः हिंकारं कृतवन्तः ॥ ओ३मदाश्मों३ पिबा३मों३ देवो वरुणः प्रजापतिः सविता२न्नमिहा२हरदन्नपते ३- ऽन्नमिहारहरा २हरो ३ मिति ॥ ५ ॥ ओमदामों पिबामों देवः, द्योतनात् ; वरुणः वर्षणाज्ज- गत: ; प्रजापतिः, पालनात्प्रजानाम्; सविता प्रसवितृत्वा- त्सर्वस्य आदित्य उच्यते । एतैः पर्यायैः स एवंभूतः आ- दित्य: अन्नम् अस्मभ्यम् इह आहरत् आहरत्विति । ते एवं हिं कृत्वा पुनरप्यूचुः- स त्वं हे अन्नपते; स हि सर्वस्या- न्नस्य प्रसवितृत्वात्पतिः ; न हि तत्पाकेन विना प्रसूतमन्न- मणुमात्रमपि जायते प्राणिनाम्; अतोऽन्नपतिः । हे अन्नपते, अन्नमस्मभ्यमिहाहराहरेति ; अभ्यासः आदरार्थः । ओमिति ॥ इति द्वादशखण्डभाप्यम् ॥ -- S. u. III. 16 त्रयोदशः खण्डः ॥ भक्तिविषयोपासनं सामावयवसंवद्धमित्यतः सामावयवा- न्तरस्तोभाक्षरविषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते- ऽनन्तरम् तेषां सामावयवसंवद्धत्वाविशेषात् - अयं वाव लोको हाउकारो वायुहीइ- कारश्चन्द्रमा अथकारः । आत्मेहकारो- ऽग्निरीकारः ॥ १ ॥ अयं वाव अयमेव लोक: हाउकारः स्तोभो रथंतरे साम्नि प्रसिद्ध:-' इयं वै रथंतरम्' इत्यस्मात्संबन्धसामान्या- त् हाउकारस्तोभोऽयं लोकः इत्येवमुपासीत । वायुर्हाइकार: ; वामदेव्ये सामनि हाइकारः प्रसिद्धः ; वाय्व संवन्धश्च वामदेव्यस्य साम्नो योनि: इत्यस्मात्सामान्यात् हाइकारं वायुदृष्टयोपासीत । चन्द्रमा अथकारः ; चन्द्रदृष्टया अथ- कारमुपासीत; अन्ने हीदं स्थितम्; अन्नात्मा चन्द्रः ; थंकाराकारसामान्याच्च । आत्मा इहकारः ; इहेति स्तोभ:; प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्यते; इहेति च स्तोभः, तत्सामान्यात् । अग्निरीकारः ; ईनिधनानि च आग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥ १३. j प्रथमोऽध्यायः । आदित्य ऊकारो निहव एकारो विश्वे- देवा औहोयिकारः प्रजापतिर्हिकारः प्रा- णः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥ आदित्यः ऊकारः; उच्चैरूर्ध्वं सन्तमादित्यं गायन्तीति ऊ- कारश्चायं स्तोभ:; आदित्यदैवत्ये साम्नि स्तोभ इति आदित्य ऊकारः । निहव इत्याह्वानम् ; एकार: स्तोभ: ; एहीति च आह्वयन्तीति तत्सामान्यात् । विश्वेदेवा औहोयिकारः, वैश्व- देव्ये साम्नि स्तोभस्य दर्शनात् । प्रजापतिर्हिकारः, आनि- रुक्त्यात्, हिंकारस्य च अव्यक्तत्वात् । प्राणः स्वरः ; स्वर इति स्तोभ:; प्राणस्य च स्वरहेतुत्वसामान्यात् । अन्नं या - या इति स्तोभ: अन्नम्, अन्नेन हीदं यातीत्यतस्तत्सामा- न्यात् । वागिति स्तोभो विराट् अन्नं देवताविशेषो वा, वैराजे साम्नि स्तोभदर्शनात् ॥ अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुं- कारः ॥ ३ ॥ अनिरुक्तः अव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः संचरः विकल्प्यमानस्वरूप इत्यर्थः । कोऽसाविति, आह— त्रयोदश: स्तोभ: हुंकारः । अव्यक्तो ह्ययम्; अतो- निरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥ ॥ द्वितीयोऽध्यायः ॥ 'ओमित्येतदक्षरम्' इत्यादिना सामावयव- विषयमुपासनमनेकफलमुपदिष्टम् । अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् — सर्वथा- पि सामैकदेशसंबद्धमेव तदिति । अथेदानीं समस्ते सान्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यार- भते श्रुतिः । युक्तं हि एकदेशोपासनानन्तरमेकदेशिविषयम्- पासनमुच्यत इति ॥ समस्तस्य खलु साम्न उपासन साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥ समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्ति- कस्य च इत्यर्थः । खल्विति वाक्यालंकारार्थः । साम्न उपा- सनं साधु । समस्ते सान्नि साधुदृष्टिविधिपरत्वान्न पूर्वोपास- ननिन्दार्थत्वं साधुशब्दस्य । ननु पूर्वत्राविद्यमानं साधुत्वं छान्दोग्योपनिषद्भाष्ये [ख. समस्ते साम्न्यभिधीयते । न, 'साधु सामेत्युपास्ते' इत्युपसं- हारात् । साधुशब्दः शोभनवाची । कथमवगम्यत इति, आह— यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धम्, तत्सा- मेत्याचक्षते कुशलाः । यदसाधु विपरीतम्, तदसामेति ॥ तदुताप्याहुः साम्नैनमुपागादिति सा- धुनैनमुपागादित्येव तदाहुरसान्नैनमुपागा- दिव्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥ तत् तत्रैव साध्वसाधुविवेककरणे उताप्याहु: सान्ना एनं राजानं सामन्तं च उपागात् उपगतवान्; कोऽसौ ? यतः असाधुत्वप्राप्त्याशङ्का स इत्यभिप्राय: ; शोभनाभिप्रा- येण साधुना एनमुपागात् इत्येव तत् तत्र आहुः लौकिका : बन्धनाद्यसाधुकार्यमपश्यन्तः । यत्र पुनर्विपर्ययेण बन्धना- द्यसाधुकार्यं पश्यन्ति, तब असाम्ना एनमुपागादिति असा- धुनैनमुपागादित्येव तदाहुः ॥ अथोताप्याहुः साम नो बतेति यत्सा- धु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ १.] द्वितीयोऽध्यायः । अथोताप्याहुः स्वसंवेद्यं साम नः अस्माकं बतेति अनुक- म्पयन्त: संवृत्तमित्याहुः ; एतत्तैरुक्तं भवति, यत्साधु भवति साधु बतेत्येव तदाहुः ; विपर्यये जाते असाम नो बतेति ; यदसाधु भवति असाधु वतेत्येव तदाहु: ; तस्मात्सामसाधु- शब्दयोरेकार्थत्वं सिद्धम् ॥ स य एतदेवं विद्वान्साधु सामेत्युपा- स्तेऽभ्याशो ह यदेन साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ इति प्रथमः खण्डः । - अतः स य: कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वान्, तस्यैतत्फलम् अभ्याशो ह क्षिप्रं ह, यत् इति क्रियाविशेषणार्थम्, एनम् उपासकं साधवः शोभनाः धर्माः श्रुतिस्मृत्यविरुद्धाः आ च गच्छेयुः आग- च्छेयुश्च ; न केवलमागच्छेयुः, उप च नमेयुः उपनमेयुश्च, भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥ इति प्रथमखण्डभाष्यम् ॥ พ द्वितीयः खण्डः ॥ लोकेषु पञ्चविध‍ सामोपासीत पृथि- वी हिंकारः । अग्निः प्रस्तावोऽन्तरिक्षमु- गीध आदित्यः प्रतिहारो द्यौर्निधनमित्यू- वेंषु ॥ १ ॥ कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामा- न्युपास्यानीति, इमानि तान्युच्यन्ते — लोकेषु पञ्चविधम् इत्यादीनि । ननु लोकादिदृष्टया तान्युपास्यानि साधुदृष्टया च इति विरुद्धम् ; न, साध्वर्थस्य लोकादिकार्येषु कारणस्यानु- गतत्वान् — मृदादिवादिविकारेषु । साधुशब्दवाच्योऽर्थो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम् । अतः यथा यत्र घटादिदृष्टिः मृदादिदृष्टयनुगतैव सा तथा साधुदृष्टधनु- गतव लोकादिदृष्टिः-- धर्मादिकार्यत्वाल्लोकादीनाम् । यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयो:, तथापि धर्म एव साधुशब्द- वाच्य इति युक्तम, साधुकारी साधुर्भवति इति धर्मविषये साधुशब्दप्रयोगात् । ननु लोकादिकार्येषु कारणस्यानुगतत्वा- दर्थप्रामैव तद्दृष्टिरिति 'साधु सामेत्युपास्ते' इति न वक्तव्यम् ; २.] द्वितीयोऽध्यायः । न, शास्त्रगम्यत्वात्तद्दृष्टेः; सर्वत्र हि शास्त्रप्रापिता एव धर्मा उपास्याः, न विद्यमाना अप्यशास्त्रीया: ॥ लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्र- कारं साधु समस्तं सामोपासीत । कथम् ? पृथिवी हिंकारः । लोकेष्विति या सप्तमी, तां प्रथमात्वेन विपरिणमय्य पृथिवी- दृथा हिंकारे पृथिवी हिंकार इत्युपासीत । व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिंकारादिषु पृथिव्यादिदृष्टिं कृत्वो- पासीत । तत्र पृथिवी हिंकारः, प्राथम्यसामान्यात् । अग्निः प्रस्तावः । अग्नौ हि कर्माणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः । अन्तरिक्षमुद्गीथः । अन्तरिक्षं हि गगनम् । गकारविशिष्ट- वोद्गीथः । आदित्यः प्रतिहारः, प्रतिप्राण्यभिमुखत्वान्मां प्रति मां प्रतीति । द्यौनिधनम् । दिवि निधीयन्ते हि इतो गता इत्यूर्ध्वपूर्ध्वगतेषु लोकदृष्ट्या सामोपासनम् ॥ अथावृत्तेषु द्यौर्हिकार आदित्यः प्रस्ता- वोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम् ॥ २ ॥ अथ आवृत्तेषु अवाङ्मुखेषु पश्वविधमुच्यते सामोपा- सनम् । गत्यागतिविशिष्टा हि लोकाः । यथा ते, तथादृ- छान्दोग्योपनिषद्भाष्ये [ख. ष्टयैव सामोपासनं विधीयते यतः, अत आवृत्तेषु लोकेषु । द्यौर्हिकारः, प्राथम्यात् । आदित्यः प्रस्तावः, उदिते ह्यादि- ये प्रस्तूयन्ते कर्माणि प्राणिनाम् । अन्तरिक्षमुद्गीथः पूर्ववत् । अग्निः प्रतिहारः, प्राणिभिः प्रतिहरणादग्नेः । पृथिवी निध- नम्, तत आगतानामिह निधनात् ॥ कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृ- ताश्च य एतदेवं विद्वाल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३ ॥ इति द्वितीयः खण्डः ॥ उपासनफलं— कल्पन्ते समर्था भवन्ति ह अस्मै लोका ऊर्ध्वाश्च आवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः । य एतदेवं विद्वान् लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्ते इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ वृष्टौ पञ्चविध‍ सामोपासीत पुरोवा- तो हिंकारो मेघो जायते स प्रस्तावो वर्ष- ति स उद्गीथो विद्योतते स्तनयति स प्र- तिहार उद्गृह्णाति तन्निधनम् ॥ १ ॥ वृष्टौ पञ्चविधं साम उपासीत । लोकस्थिते: वृष्टिनि- मित्तत्वादानन्तर्यम् । पुरोवातो हिंकारः । पुरोवाताद्युग्रह- णान्ता हि वृष्टिः, यथा साम हिंकारादिनिधनान्तम् ; अत: पुरोवातो हिंकारः, प्राथम्यात् । मेघो जायते स प्रस्ताव : ; प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धि:; वर्षति स उद्गीथः, श्रैष्ठधात् ; विद्योतते स्तनयति स प्रतिहारः, प्रति- हृतत्वात्; उद्गृह्णाति तत् निधनम्, समाप्तिसामान्यात् ॥ वर्षाति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविध‍ सामोपास्ते ॥ २ ॥ इति तृतीयः खण्डः ॥ - फलमुपासनस्य — वर्षति ह अस्मै इच्छातः । तथा वर्ष- यति ह असत्यामपि वृष्टौ । य एतदित्यादि पूर्ववत् ॥ इति तृतीयखण्डभाष्यम् ॥ चतुर्थः खण्डः ॥ सर्वास्वप्सु पञ्चविध सामोपासीत मेघो यत्संप्लवते स हिंकारो यहर्षति स प्रस्ता- वो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥ सर्वास्वप्सु पञ्चविधं साम उपासीत । वृष्टिपूर्वकत्वात्स- र्वासामपामानन्तर्यम् । मेघो यत्संप्लवते एकीभावेनेतरेतरं घनीभवति मेघः यदा उन्नतः, तदा संप्लवते इत्युच्यते, तदा अपामारम्भः स हिंकारः ; यद्वर्षति स प्रस्ताव:; आ- पः सर्वतो व्याप्तुं प्रस्तुताः । या: प्राच्यः स्यन्दन्ते स उद्गी- थः, श्रेष्ठयात्; याः प्रतीच्यः स प्रतिहारः, प्रतिशब्दसामा- न्यात्; समुद्रो निधनम्, तन्निधनत्वादपाम् ॥ न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु पञ्चविध सामोपास्ते ॥ इति चतुर्थः खण्डः । " अति । नेच्छति चेत् । अप्सुमान् अम्मान्भ- वति फलम् ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ ऋतुषु पञ्चविध‍ सामोपासीत वस- न्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गी- थः शरत्प्रतिहारो हेमन्तो निधनम् ॥१॥ ऋतुषु पञ्चविधं साम उपासीत । ऋतुव्यवस्थाया यथो- क्ताम्बुनिमित्तत्वादानन्तर्यम् । वसन्तो हिंकारः, प्राथम्यात्; ग्रीष्मः प्रस्तावः ; यवादिसंग्रहः प्रस्तूयते हि प्रावृडर्थम् ; व- र्षा उद्गीथः, प्राधान्यात्; शरत् प्रतिहारः, रोगिणां मृतानां च प्रतिहरणात्; हेमन्तो निधनम् निवाते निधनात्प्राणिनाम् ॥ ' कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं विद्यानृतुषु पञ्चविध‍ सामो- पास्ते ॥ २ ॥ इति पञ्चमः खण्डः । फलम् -- कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मै उपासकाय ऋतवः । ऋतुमान् आर्तवैर्भोगैश्च संपन्नो भवती- त्यर्थः ॥ इति पञ्चमखण्डभाष्यम् ॥ षष्ठः खण्डः ॥ पशुषु पञ्चविध‍ सामोपासीताजा हिं- कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्र- तिहारः पुरुषो निधनम् ॥ १ ॥ पशुषु पञ्चविधं साम उपासीत । सम्यग्वृत्तेष्वृतुषु पश- व्यः काल इत्यानन्तर्यम् । अजा हिंकारः, प्राधान्यात्, प्राथ- म्याद्वा- 'अज: पशूनां प्रथम:' इति श्रुतेः ; अवय: प्रस्ताव:, साहचर्यदर्शनादजावीनाम् ; गाव उद्गीथः, श्रेष्ठ्यात्; अश्वाः प्रतिहारः, प्रतिहरणात्पुरुषाणाम् ; पुरुषो निधनम्, पुरुषाश्र- यत्वात्पशूनाम् ॥ भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पश्चविध‍ सा- मोपास्ते ॥ २ ॥ इति षष्ठः खण्डः ॥ फलम् - भवन्ति ह अस्य पशवः पशुमान्भवति, पशुफ- लैश्व भोगत्यागादिभिर्युज्यत इत्यर्थः ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ प्राणेषु पञ्चविधं परोवरीयः सामोपा- सीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गी- थः श्रोत्रं प्रतिहारो मनो निधनं परोव- रीयासि वा एतानि ॥ १ ॥ प्राणेषु पञ्चविधं परोवरीयः साम उपासीत, परं परं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः । प्राणो हिंकारः, उत्तरोत्तरवरीयसां प्राथम्यात् ; वाक् प्रस्तावः, वाचा हि प्रस्तूयते सर्वम्, वाग्वरीयसी प्राणात् अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः ; चक्षुरुद्गीथः, वाचो बहुतरविषयं प्रकाशयति चक्षुः, अतो वरीयो वाचः उद्गीथः, श्रेष्ठयात्; श्रोत्रं प्रतिहारः, प्रतिहृतत्वात्; वरीय- चक्षुपः, सर्वतः श्रवणात् ; मनो निधनम्, मनसि हि निधी- यन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृता विषयाः ; वरी- यस्त्वं च श्रोत्रान्मनसः, सर्वेन्द्रियविषयव्यापकत्वात् ; अ- तीन्द्रियविषयोऽपि मनसो गोचर एवेति । यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वै एतानि ॥ S. U. III. 17 छान्दोग्योपनिषद्भाष्ये परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २॥ इति सप्तमः खण्डः । [ख. एतद्दृष्टया विशिष्टं यः परोवरीयः साम उपास्ते, परो- वरीयो ह अस्य जीवनं भवतीत्युक्तार्थम् । इति तु पञ्चवि - धस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम् । निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धि समाधित्सति ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ अथ सप्तविधस्य वाचि सप्तविध‍ सा- मोपासीत यत्किंच वाचो हुमिति स हिंका- रो यत्प्रेति स प्रस्तावो यदेति स आदिः ॥ अथ अनन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते । वाचि इति सप्तमी पूर्ववत्, वाग्दृष्टि- विशिष्टं सप्तविधं सामोपासीतेत्यर्थः । यत्किंच वाचः शब्दस्य हुमिति यो विशेषः स हिंकार:, हकारसामान्यात् । यत्प्रेति शब्दरूपं स प्रस्तावः, प्र- सामान्यात् । यत् आ इति स आदिः, आकारसामान्यात् । आदिरित्योंकारः सर्वादित्वात् ॥ ' यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहा- रो यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ यदुदिति स उद्गीथः, उत्पूर्वत्वादुद्गीथस्य ; यत्प्रतीति स प्रतिहारः, प्रतिसामान्यात्; यदुपेति स उपद्रवः, उपोषक- मत्वादुपद्रवस्य ; यन्नीति तन्निधनम् नि शब्दसामान्यात् ॥ दुग्धेऽस्मै वाग्दो यो वाचो दोहोऽन्न- वानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविध‍ सामोपास्ते ॥ ३ ॥ दुग्धेऽस्मै इत्याद्युक्तार्थम् ॥ " इति अप्रुमखण्डभाष्यम् ॥ नवमः खण्डः ॥ अथ खल्वमुमादित्यः सप्तविध‍ सा- मोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये । अथ इदानीं खलु अमुमादित्यं समस्ते साम्न्य- वयवविभागशोऽध्यस्य सप्तविधं सामोपासीत । कथं पुन: सामत्वमादित्यस्येति, उच्यते – उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः । कोऽसौ ? सर्वदा समः वृद्धिक्षयाभावात्; तेन हेतुना साम आदित्यः । मां प्रति मां प्रतीति तुल्यां बुद्धि- मुत्पादयति ; अतः सर्वेण समः ; अत: साम, समत्वादित्यर्थः । उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्यात् हिं- कारादित्वं गम्यत इति हिंकारादित्वे कारणं नोक्तम् । सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्व- मुक्तम् ॥ तस्मिन्निमानि सर्वाणि भूतान्यन्वाय- त्तानीति विद्यात्तस्य यत्पुरोदयात्स हिं- ९.] द्वितीयोऽध्यायः । कारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति हिंकारभाजिनो ह्येतस्य साम्नः ॥ तस्मिन् आदित्ये अवयवविभागशः इमानि वक्ष्यमाणा- नि सर्वाणि भूतानि अन्वायत्तानि अनुगतान्यादित्यमुपजी- व्यत्वेन इति विद्यात् । कथम् ? तस्य आदित्यस्य यत्पुरोदया- त् धर्मरूपम्, सहिंकार : भक्ति:; तत्रेदं सामान्यम्, यत्तस्य हिंकारभक्तिरूपम् । तदस्यादित्यस्य साम्नः पशवः गवादयः अन्वायत्ता: अनुगता: तद्भक्तिरूपमुपजीवन्तीत्यर्थः । यस्मा- देवम्, तस्मात्ते हिं कुर्वन्ति पशवः प्रागुदयात् । तस्माद्धिंका- रभाजिनो हि एतस्य आदित्याख्यस्य साम्नः, तद्भक्तिभजन- शीलत्वाद्धि त एवं वर्तन्ते ॥ अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिका- माः प्रशसाकामाः प्रस्तावभाजिनो हो- तस्य साम्नः ॥ ३ ॥ अथ यत्प्रथमोदिते सवितृरूपम्, तदस्य आदित्याख्यस्य साम्नः स प्रस्ताव: ; तदस्य मनुष्या अन्वायत्ताः पूर्ववत् । त- छान्दोग्योपनिषद्भाष्ये [स्व. स्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते यस्मात्प्रस्तावभाजिनो हि एतस्य साम्न्नः ॥ अथ यत्संगववेलाया स आदिस्त- दस्य वया स्यन्वायत्तानि तस्मात्तान्य- न्तरिक्षेऽनारम्वणान्यादायात्मानं परिप- तन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ ४ ॥ , अथ यत् संगववेलायां गवां रश्मीनां संगमनं संगवो यस्यां वेलायाम्, गवां वा वत्सैः सह, सा संगववेला तस्मि न्काले यत्सावित्रं रूपम् स आदि: भक्तिविशेष: ओंकारः । तदस्य वयांसि पक्षिणोऽन्वायत्तानि । यत एवम, तस्मात् तानि वयांसि अन्तरिक्षे अनारम्वणानि अनालम्बनानि, आ- त्मानमादाय आत्मानमेव आलम्बनत्वेन गृहीत्वा, परिपत- न्ति गच्छन्ति; अत आकारसामान्यादादिभक्तिभाजीनि हि एतस्य सान्नः ॥ अथ यत्संप्रतिमध्यंदिने स उद्गीथस्त- दस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य सा- म्नः ॥ ५ ॥ ९.] द्वितीयोऽध्यायः । अथ यन् संप्रतिमध्यंदिने ऋजुमध्यंदिने इत्यर्थः, स उद्गीथभक्तिः, तदस्य देवा अन्वायत्ता:, द्योतनातिशयात्त- त्काले । तस्मात्ते सत्तमाः विशिष्टतमाः प्राजापत्यानां प्रजा- पत्यपत्यानाम्, उद्गीथभाजिनो हि एतस्य साम्नः ॥ अथ यदूर्ध्व मध्यंदिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मा- ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजि- नो ह्येतस्य साम्नः ॥ ६ ॥ अथ यदूर्ध्व मध्यंदिनान् प्रागपराह्नात् यद्रूपं सवितुः, स प्रतिहारः ; तदस्य गर्भा अन्वायत्ता: । अतः ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तः नावपद्यन्ते नाधः पतन्ति, तङ्कारे सत्यपीत्यर्थः । यतः प्रतिहारभाजिनो हि एतस्य साम्नो गर्भाः ॥ अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स- उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्ष श्वभ्रमित्युपद्रवन्त्युपद्र- वभाजिनो ह्येतस्य साम्नः ॥ ७ ॥ छान्दोग्योपनिषद्भाष्ये अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् स उपद्रवः, तदस्य आरण्याः पशवः अन्वायत्ताः । तस्मात्ते पुरुषं दृष्ट्वा भीता: कक्षम् अरण्यं श्वभ्रं भयशून्यमिति उपद्रवन्ति उपगच्छन्ति ; दृष्ट्वोपद्रवणात् उपद्रवभाजिनो हि एतस्य साम्न्नः ॥ अथ यत्प्रथमास्तमिते तन्निधनं तदख पितरोऽन्वायत्तास्तस्मात्तान्निदधति निध- नभाजिनो ह्येतस्य साम्न एवं खल्वमुमा- दित्यँ सप्तविध‍ सामोपास्ते ॥ ८ ॥ इति नवमः खण्डः । , अथ यत् प्रथमास्तमितेऽदर्शनं जिगमिषति सवितरि त- निधनम्, तदस्य पितरः अन्वायत्ता: ; तस्मात्तान्निदधति- पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तान् ; तदर्थं पिण्डान्वा स्थापयन्ति । निधनसंबन्धान्निधनभाजिनो हि एतस्य साम्नः पितरः । एवमवयवशः सप्तधा विभक्तं खलु अमुमादित्यं सप्तविधं सामोपास्ते यः, तस्य तदापत्तिः फल- मिति वाक्यशेषः ॥ इति नवमखण्डभाष्यम् ॥ -- दशमः खण्डः ॥ ; - मृत्यु: आदित्यः, अहोरात्वादिकालेन जगतः प्रमापयि- तृत्वात् । तस्य अतितरणाय इदं सामोपासनमुपदिश्यते- अथ खल्वात्मसंमितमतिमृत्यु सप्तवि- * सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥ अथ खलु अनन्तरम्, आदित्यमृत्युविषयसामोपासनस्य ; आत्मसंमितं स्वावयवतुल्यतया मितम्, परमात्मतुल्यतया वा संमितम्, अतिमृत्यु, मृत्युजयहेतुत्वात् यथा प्रथमेऽध्याये उद्गीथभक्तिनामाक्षराणि उद्गीथ इत्युपास्यत्वेनोक्तानि तथेह सान्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्त्रिभिः समतया सामत्वं परिकल्प्य उपास्यत्वेन उच्यन्ते । तदुपासनं मृत्युगोचराक्षरसंख्यासामान्येन मृत्युं प्राप्य, तदतिरिक्ताक्ष- रेण तस्य आदित्यस्य मृत्योरतिक्रमणायैव संक्रमणं कल्पयति । अतिमृत्यु सप्तविधं साम उपासीत, मृत्युमतिक्रान्तमतिरिक्ता- क्षरसंख्यया इत्यतिमृत्यु साम । तस्य प्रथमभक्तिनामाक्षराणि हिंकार इति ; एतत् त्र्यक्षरं भक्तिनाम । प्रस्ताव इति च भक्तस्त्र्यक्षरमेव नाम ; तत् पूर्वेण समम् ॥ आदिरिति यक्षरं प्रतिहार इति चतु- छान्दोग्योपनिषद्भाष्ये रक्षरं तत इहैकं तत्समम् ॥ २ ॥ [ख. आदिरिति द्व्यक्षरम ; सप्तविधस्य साम्नः संख्यापूरणे ओंकारः आदिरित्युच्यते । प्रतिहार इति चतुरक्षरम् । तत इहैकमक्षरम- वच्छिद्य आद्यक्षरयोः प्रक्षिप्यते ; तेन तत् सममेव भवति ॥ उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुर- क्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमनि- शिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥ उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति । अक्षरमतिशिष्यते अतिरिच्यते । तेन वैषम्ये प्राप्ते, साम्नः समत्वकरणाय आह—- तदेकमपि सदक्षरमित त्र्यक्षरमेव भवति । अतः तत् समम् ॥ निधनमिति व्यक्षरं तत्सममेव भवति तानि हवा एतानि द्वाविशतिरक्षराणि ॥ निधनमिति त्र्यक्षरं तत्सममेव भवति । एवं त्र्यक्षरस- मतया सामत्वं संपाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते — तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः ॥ एकविशत्यादित्यमाप्नोत्येकवि‍शो वा इतोऽसावादित्यो द्वाविशेन परमादि- त्याज्जयति तन्नाकं तद्विशोकम् ॥ ५ ॥ १०.] द्वितीयोऽध्यायः । तत्रैकविंशत्यक्षरसंख्यया आदित्यमाप्नोति मृत्युम् । यस्मा- देकविंशः इतः अस्माल्लोकात् असावादित्यः संख्यया । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एक- विश:' इति श्रुतेः; अतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योः आदित्यान् जयति आप्नोतीत्यर्थः । यच तदादित्यात्परम; किं तन् ? नाकम्, कमिति सुखं तस्य प्रतिषेधोऽकं तन्न भवतीति नाकम्, कमेवेत्यर्थः, अमृत्युविषयत्वात् । विशोकं च तत् वि- गतशोकं मानसदुःखरहितमित्यर्थः — तदाप्नोतीति ॥ आनोति हादित्यस्य जयं परो हास्या- दिव्यजयाज्जयो भवति य एतदेवं विद्वा- नात्मसंमितमतिमृत्यु सप्तविध‍ सामो- पास्ते सामोपास्ते ॥ ६ ॥ इति दशमः खण्डः ॥ उक्तस्यैव पिण्डितार्थमाह — एकविंशतिसंख्यया आदित्य- स्य जयमनु, परो ह, अस्य एवंविदः आदित्यजयात मृत्युगो - चरात् परो जयो भवति, द्वाविंशत्यक्षरसंख्ययेत्यर्थः । य एत- देवं विद्वानित्याद्युक्तार्थम्, तस्यैतद्यथोक्तं फलमिति । द्विरभ्या- सः साप्तविध्यसमाप्त्यर्थः ॥ इति दशमखण्डभाष्यम् ॥ एकादशः खण्डः ॥ मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ १ ॥ विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपा- सनमुक्तम् । अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफ- लानि सामोपासनान्तराण्युच्यन्ते । यथाक्रमं गायत्रादीनां कर्मणि प्रयोग:, तथैव मनो हिंकार:, मनसः सर्वकरणवृत्ती- नां प्राथम्यात् । तदानन्तर्यात् वाक् प्रस्ताव: ; चक्षुः उद्गीथः, श्रेष्ठयात् । श्रोत्रं प्रतिहारः, प्रतिहृतत्वात् । प्राणो निधनम्, यथोक्तानां प्राणे निधनात्स्वापकाले । एतद्गायत्रं साम प्राणेषु प्रोतम्, गायत्र्याः प्राणसंस्तुतत्वात् ॥ स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २ ॥ सः, य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति ; अवि- कलकरणो भवतीत्येतत् । सर्वमायुरेति, शतं वर्षाणि सर्वमायुः पुरुषस्य इति श्रुतेः । ज्योक् उज्ज्वलः सन् जीवति । महान् भवति प्रजादिभिः । महांश्व कीर्त्या । गायत्रोपासकस्य एतत् व्रतं भवति, यत् महामना: अक्षुद्रचित्तः स्यादित्यर्थः ॥ इति एकादशखण्डभाष्यम् ॥ द्वादशः खण्डः ॥ अभिमन्धति स हिंकारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्न- धनँ सशाम्यति तन्निधनमेतद्रथंतरम- नौ प्रोतम् ॥ १ ॥ अभिमन्थति स हिंकारः, प्राथम्यात् । अग्नेर्धूमो जायते स प्रस्तावः, आनन्तर्यात् । ज्वलति स उद्गीथ:, हविः सं- बन्धाच्छ्रेष्ठ्यं ज्वलनस्य । अङ्गारा भवन्ति स प्रतिहारः, अङ्गाराणां प्रतिहृतत्वात् । उपशमः, सावशेषत्वादग्नेः, सं- शम: निःशेषोपशमः; समाप्तिसामान्यान्निधनम् । एतद्रथं- अग्नौ प्रोतम् । मन्थने हि अग्निर्गीयते ॥ तरम् स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्म- वर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जी- वति महान्प्रजया पशुभिर्भवति महान्की- र्त्या न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ॥ स य इत्यादि पूर्ववत् । ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् । तेजस्तु केवलं त्विड्भावः । अन्नादो दी- प्राग्निः । न प्रत्यक्, अग्नेरभिमुखो न आचामेत् न भक्षये- त्किंचित् ; न निष्ठीवेत् श्लेष्मनिरसनं च न कुर्यात् ; तद्व्रतम् ॥ इति द्वादशखण्डभाष्यम् ॥ त्रयोदशः खण्डः ॥ उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदे- त्र्यं मिथुने प्रोतम् ॥ १॥ उपमन्त्रयते संकेतं करोति, प्राथम्यात् स हिंकारः । ज्ञप- यते तोषयति, स प्रस्तावः । सहशयनम् एकपर्यङ्कगमनम्, स उद्गीथः, श्रेष्ठयात् । प्रति स्त्रीं शयनं स्त्रिया अभिमुखीभावः, स प्रतिहारः । कालं गच्छति मैथुनेन, पारं समाप्तिं गच्छति तन्निधनम् ; एतद्वामदेव्यं मिथुने प्रोतम्, वाय्वम्बुमिथुनसं- बन्धात् ॥ स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्प्रजा- यते सर्वमायुरेति ज्योग्जीवति महान्प्र- १३.] द्वितीयोऽध्यायः । जया पशुभिर्भवति महान्कीया न. कां- चन परिहरेत्तद्व्रतम् ॥ २ ॥ इति त्रयोदशः खण्डः ॥ स य इत्यादि पूर्ववत् । मिथुनीभवति अविधुरो भवती- त्यर्थः । मिथुनान्मिथुनात्प्रजायते इति अमोघरेतस्त्वमु- च्यते । न कांचन, कांचिदपि स्त्रियं स्वात्मतल्पप्राप्तां न परि- हरेत् समागमार्थिनीम्, वामदेव्यसामोपासनाङ्गत्वेन विधा- नात् । एतस्मादन्यत्र प्रतिषेधस्मृतयः । वचनप्रामाण्याच धर्मावगर्न प्रतिषेधशास्त्रेणास्त्र विरोधः ॥ इति त्रयोदशखण्डभाष्यम् ॥ चतुर्दशः खण्डः ॥ उद्यन्हिकार उदितः प्रस्तावो मध्यं- दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्नि- धनमेतद्बृहदादित्ये प्रोतम् ॥ १ ॥ उद्यन्सविता स हिंकार:, प्राथम्याद्दर्शनस्य । उदितः प्रस्ताव:, प्रस्तवनहेतुत्वात्कर्मणाम् । मध्यंदिन उद्गीथः, श्रैष्ठयात् । अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हर- णात् । यदस्तं यंस्तन्निधनम्, रात्रौ गृहे निधानात्प्राणि- नाम्। एतद्बृहत् आदित्ये प्रोतम, वृहतः आदित्यदैवत्यत्वात् ॥ " स य एवमेतद्दृहदादित्ये प्रोतं वेद ते- जस्त्र्यन्नादो भवति सर्वमायुरेति ज्यो- ग्जीवति महान्प्रजया पशुभिर्भवति म- हान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम् ॥ २ ॥ इति चतुर्दशः खण्डः ॥ स य इत्यादि पूर्ववत् । तपन्तं न निन्देत् ; तद्व्रतम् ॥ इति चतुर्दशखण्डभाष्यम् ॥ पञ्चदशः खण्डः ॥ अभ्राणि संप्लवन्ते स हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णा- ति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम् ॥ १ ॥ अभ्राणि अब्भरणात् । मेघः उदकसेक्तत्वात् । उक्तार्थम- न्यत् । एतद्वैरूपं नाम साम पर्जन्ये प्रोतम् । अनेकरूपत्वात् अभ्रादिभिः पर्जन्यस्य, वैरूप्यम् ॥ स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाश्च सुरूपाश्च पशूनवरुन्धे स- र्वमायुरेति ज्योग्जीवति महान्प्रजया प- शुभिर्भवति महान्कीर्त्या वर्षन्तं न नि- न्देत्तद्व्रतम् ॥ २ ॥ इति पञ्चदशः खण्डः ॥ विरूपांश्च सुरूपांश्चाजाविप्रभृतीन्पशूनवरुन्धे प्राप्नोतीत्य- र्थः वर्षन्तं न निन्देत् तंद्व्रतम् ॥ इति पञ्चदशखण्डभाष्यम् ॥ S. u. III. 18 अष्टादशः खण्डः ॥ अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ १ ॥ अजा हिंकार इत्यादि पूर्ववत् । पशुषु प्रोताः ॥ स य एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्देत्तद्व्रतम् ॥ २ ॥ इति अष्टादशः खण्डः ॥ पशून न निन्देत् तद्व्रतम् ॥ इति अष्टादशखण्डभाष्यम् ॥ एकोनविंशः खण्डः ॥ लोम हिंकारस्त्वक्प्रस्तावो माँसमु- गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्य- ज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ १ ॥ लोम हिंकारः, देहावयवानां प्राथम्यात् । त्वक् प्रस्तावः, आनन्तर्यात् । मांसम् उद्गीथः, श्रेष्ठयात् । अस्थि प्रतिहारः, प्रतिहृतत्वात् । मज्जा निधनम्, आन्त्यात् । एतद्यज्ञाय- ज्ञीयं नाम साम देहावयवेषु प्रोतम् ॥ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमा- युरेति ज्योग्जीवति महान्प्रजया पशु- भिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात्तद्रतं मज्ज्ञो नाश्नीयादिति वा ॥ अङ्गी भवति समग्राङ्गो भवतीत्यर्थः । नानेन हस्तपादा- दिना विहूर्छति न कुटिलीभवति, पङ्गुः कुणी वा इत्यर्थः । संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्रीयात् न भक्ष- येत् । बहुवचनं मत्स्योपलक्षणार्थम् । मज्ज्ञो नाश्नीयात् सर्वदैव नाभीयादिति वा, तद्व्रतम् ॥ इति एकोनविंशखण्डभाष्यम् ॥ विंशः खण्डः ॥ अग्निहिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निध- नमेतद्राजनं देवतासु प्रोतम् ॥ १ ॥ अग्नि: हिंकारः, प्रथमस्थानत्वात् । वायुः प्रस्ताव:, आन- न्तर्यसामान्यात् । आदित्यः उद्गीथः, श्रेष्ठयात् । नक्षत्राणि प्रतिहारः, प्रतिहृतत्वात् । चन्द्रमा निधनम्, कर्मिणां तन्निध- नात् । एतद्राजनं देवतासु प्रोतम्, देवतानां दीप्तिमत्त्वात् ॥ स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाँ सलोकताँ सा- ष्टिता सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ विद्वत्फलम् - एतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां साष्र्ष्टितां समानर्द्धित्वं सायुज्यं सयुग्भावम् एकदेहदेद्दित्वमित्येतत्, वा-शब्दोऽत्र लुप्तो द्रष्टव्यः ; सलो- कतां वा इत्यादि ; भावनाविशेषतः फलविशेषोपपत्तेः । ग- च्छति प्राप्नोति ; समुञ्चयानुपपत्तेश्च । ब्राह्मणान् न निन्देत् तद्व्रतम् । 'एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः' इति श्रुतेः ब्राह्मणनिन्दा देवतानिन्दैवेति ॥ इति विंशखण्डभाष्यम् ॥ एकविंशः खण्डः ॥ त्रयी विद्या हिंकारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयासि मरीचयः स प्रति- हारः सर्पा गन्धर्वाः पितरस्तन्निधनमेत- त्साम सर्वस्मिन्प्रोतम् ॥ १ ॥ त्रयी विद्या हिंकारः । अग्न्यादिसाम्न आनन्तर्य त्रयी- विद्याया अग्न्यादिकार्यत्वश्रुतेः । हिंकार : प्राथम्यात्सर्वकर्त- व्यानाम् । त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः । अग्न्यादीनामुद्द्रीयत्वं श्रेष्ठयात् । नक्षत्रादीनां प्रतिहतत्वा- त्प्रतिहारत्वम् । सर्पादीनां धकारसामान्यान्निधनत्वम् । एत- त्साम नामविशेषाभावात्सामसमुदायः सामशब्द: सर्वस्मिन् प्रोतम् । त्रयीविद्यादि हि सर्वम् । त्रयीविद्यादिदृष्टया हिंकारादिसामभक्तय उपास्या: । अतीतेष्वपि सामोपास- नेषु येषु येषु प्रोतं यद्यत्साम, तद्दृष्ट्या तदुपास्यमिति । कर्माङ्गानां दृष्टिविशेषेणेवाज्यस्य संस्कार्यत्वात् ॥ स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्व५ ह भवति ॥ २॥ छान्दोग्योपनिषद्भाष्ये [ख. सर्वविषय सामविदः फलम् — सर्व ह भवति सर्वेश्वरो भवतीत्यर्थः । निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्रा- प्यनुपपत्तिः ॥ तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥ तत् एतस्मिन्नर्थे एषः श्लोकः मत्रोऽप्यस्ति । यानि पञ्चधा पञ्चप्रकारेण हिंकारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यः ज्यायः महत्तरं परं च व्यतिरिक्तम् अन्यत् वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः । तत्रैव हि सर्वस्यान्तर्भावः ॥ यस्तद्वेद स वेद सर्व सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत त- द्व्रतं तद्व्रतम् ॥ ४॥ इति एकविंश: खण्ड: ॥ यः तत् यथोक्तं सर्वात्मकं साम वेद, स वेद सर्व स स- र्वज्ञो भवतीत्यर्थः । सर्वा दिशः सर्वदिक्स्था अस्मै एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः । सर्वम् अस्मि भवामि इति एवम् एतत्साम उपासीत, तस्य एतदेव व्रतम् । द्विरुक्तिः सामोपासनसमाप्त्यर्था । इति एकविंशखण्डभाष्यम् ॥ द्वात्रिंशः खण्डः ॥ विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गी- धोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं वृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवो- पसेवेत वारुणं त्वेव वर्जयेत् ॥ १ ॥ सामोपासनप्रसङ्गेन गानविशेषादिसंपत् उद्दातुरुपदिश्यते, फलविशेषसंबन्धात् । विनर्दि विशिष्टो नर्दः स्वरविशेषः ऋषभकूजितसमोऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः । तच्च साम्नः संबन्धि पशुभ्यो हितं पशव्यम् अग्नेः अग्निदेवत्यं च उद्गीथ: उद्गानम् । तदहमेवंविशिष्टं वृणे प्रार्थये इति क- श्विद्यजमानः उद्गाता वा मन्यते । अनिरुक्तः अमुकसमः इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स गानविशेष:, आ- निरुक्त्यात्प्रजापतेः । निरुक्तः स्पष्टः । सोमस्य सोमदेवत्यः स उद्गीथ इत्यर्थः । मृदु ऋक्ष्णं च गानं वायोः वायुदेवत्यं तत् । लक्ष्णं वलवच्च प्रयत्नाधिक्योपेतं च इन्द्रस्य ऐन्द्रं तद्गानम् । क्रौञ्चं क्रौञ्च पक्षिनिनादसमं बृहस्पते: बार्हस्पत्यं तत् । अप- छान्दोग्योपनिषद्भाष्ये [ख. ध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्य एतद्द्वानम् । तान्सर्वाने- वोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥ अमृतत्वं देवेभ्य आगायानीत्यागाये- त्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणो- दकं पशुभ्यः स्वर्ग लोकं यजमानायान्न- मात्मन आगायानीत्येतानि मनसा ध्या- यन्नप्रमत्तः स्तुवीत ॥ २ ॥ अमृतत्वं देवेभ्य आगायानि साधयानि ; स्वधां पितृभ्य आगायानि; आशां मनुष्येभ्यः, आशां प्रार्थनां प्रार्थितमि- त्येतत् ; तृणोदकं पशुभ्य: ; स्वर्ग लोकं यजमानाय ; अन्नम् आत्मने मह्यम् आगायानि; इत्येतानि मनसा चिन्तयन् ध्यायन् अप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥ सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्मा - णः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्यो- रात्मानस्तं यदि खरेषूपालभेतेन्द्र ५ शर- णं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥ २२.] द्वितीयोऽध्यायः । प्राणस्य सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मण: आत्मान: देहावयवस्थानीयाः । सर्वे ऊष्माणः शषसहादय: प्रजापतेर्विराजः कश्यपस्य वा आत्मानः । सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानः । तमेवंविदमुद्गातारं यदि कश्चित् स्वरेषूपालभेत - स्वरस्त्वया दुष्टः प्रयुक्त इति, एवमु- पालब्धः इन्द्रं प्राणमीश्वरं शरणम् आश्रयं प्रपन्नोऽभूवं स्वरान्प्रयुञ्जानोऽहम्, स इन्द्रः यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ॥ अथ यद्येनमूष्मसूपालभेत प्रजापति शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यती- त्येनं ब्रूयादथ यद्येनं स्पर्शेषूपालभेत मृत्यु शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥ अथ यद्येनमूष्मसु तथैवोपालभेत, प्रजापतिं शरणं प्रप- नोऽभूवम्, स त्वा प्रति पेक्ष्यति संचूर्णयिष्यतीत्येनं ब्रूयात् । अथ यद्येनं स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवम्, स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात् ॥ सर्वे स्वरा घोषवन्तो बलवन्तो वक्त- छान्दोग्योपनिषद्धाप्ये व्या इन्द्रे बलं ददानीति सर्व ऊष्माणो- sग्रस्ता अनिरस्ता विवृता वक्तव्याः प्र- जापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरा- त्मानं परिहराणीति ॥ ५ ॥ इति द्वाविंशः खण्डः ॥ [ख. यत इन्द्राद्यात्मानः स्वरादयः, अतः सर्वे स्वराः घोषवन्तः बलवन्तो वक्तव्याः तथा अहमिन्द्रे वलं ददानि वलमाद- धानीति । तथा सर्वे ऊष्माण: अग्रस्ताः अन्तरप्रवेशिताः अनिरस्ताः बहिरप्रक्षिप्ताः विवृताः विवृतप्रयत्नोपेताः । प्रजा- पतेरात्मानं परिददानि प्रयच्छानीति । सर्वे स्पर्शाः लेशेन शनकैः अनभिनिहिता: अनभिनिक्षिप्ता वक्तव्याः । मृत्यो- रात्मानं बालानिव शनकैः परिहरन् मृत्योरात्मानं परिह- राणीति ॥ इति द्वाविंशखण्डभाष्यम् ॥ त्रयोविंशः खण्डः ॥ - यो धर्मस्कन्धा यज्ञोऽध्ययनं दान- मिति प्रथमस्तप एव द्वितीयो ब्रह्मचा- र्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मा- नमाचार्यकुलेऽवसादयन्सर्व एते पुण्य- लोका भवन्ति मेति ॥ १ ॥ ब्रह्मसँस्थोऽमृतत्व- ओंकारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याचार- भ्यते । नैवं मन्तव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्यों- कारस्योपासनात्फलं प्राप्यत इति; किं तर्हि, यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोंकारो- पासनात्प्राप्यत इति । तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः । त्रयः त्रिसंख्याका धर्मस्य स्कन्धाः धर्मस्कन्धाः धर्मप्रवि- भागा इत्यर्थः ; के ते इति, आह— यज्ञः अग्निहोत्रादिः, अध्ययनं सनियमस्य ऋगादेरभ्यासः, दानं वहिर्वेदि यथा- शक्ति द्रव्यसंविभागो भिक्षमाणेभ्यः, इति एषः प्रथमः धर्म- छान्दोग्योपनिषद्भाष्ये [ख. स्कन्धः गृहस्थसमवेतत्वात् तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते ; प्रथमः एक इत्यर्थः, द्वितीयतृतीयश्रवणात् न आद्यार्थ: । तप एव द्वितीय: ; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्डा, न ब्रह्मसंस्थ: आश्रमधर्ममात्र संस्थः, ब्रह्म- संस्थस्य तु अमृतत्वश्रवणात् ; द्वितीय: धर्मस्कन्धः : । ब्रह्म- चारी आचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी । अत्य- न्तं यावज्जीवम् आत्मानं नियमैः आचार्यकुले अवसादयन् क्षपयन् देहं तृतीयः धर्मस्कन्धः । अत्यन्तमित्यादिविशेषणान्नै- ष्ठिक इति गम्यते । उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वात् न पुण्यलोकत्वं ब्रह्मचर्येण । सर्व एते त्रयोऽप्याश्रमिणः यथो- तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति । अवशिष्टस्त्वनुक्तः परि- त्राट् तुरीयः ब्रह्मसंस्थ: ब्रह्मणि सम्यक्स्थितः, सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकम् एति, न आपेक्षि- कम्, देवाद्यमृतत्ववत्, पुण्यलोकात्पृथक् अमृतत्वस्य विभागकरणात् ॥ यदि च पुण्यलोकातिशयमात्रममृतत्वमभविष्यत्, ततः पुण्यलोकत्वाद्विभक्तं - नावक्ष्यत् । विभक्तोपदेशाच्च आत्यन्ति- कममृतत्वमिति गम्यते । अत्र च आश्रमधर्मफलोपन्यासः १३.] द्वितीयोऽध्यायः । प्रणव सेवास्तुत्यर्थः, न तत्फलविध्यर्थः, स्तुतये च प्रणवसे- वायाः, आश्रमधर्मफलविधये च, इति हि भिद्येत वाक्यम् । तस्मात्स्मृतिप्रसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं त्रु- वन् प्रणव सेवां स्तौति । यथा पूर्णवर्मणः सेवा भक्तपरिधा- नमात्रफला, राजवर्मणस्तु सेवा राज्यतुल्यफलेति- तद्वत् । प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् । ' एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्' इत्याद्याम्नानात्काठके, युक्तं तत्से- वातोऽमृतत्वम् ॥ अत्र आहुः केचित् - चतुर्णामाश्रमिणामविशेषेण स्वधर्मानु- ष्ठानात्पुण्यलोकता इहोक्ता ज्ञानवर्जितानाम् 'सर्व एते पुण्यलो- का भवन्ति' इति । नात्र परिव्राडवशेषितः ; परिव्राजकस्यापि ज्ञानं यमा नियमाश्च तप एवेति ; तप एव द्वितीय इत्यत्र तपः- शब्देन परिव्राट्तापसौ गृहीतौ । अतस्तेषामेव चतुर्णां यो ब्रह्मसंस्थः प्रणवसेवकः सोऽमृतत्वमेतीति चतुर्णामधिकृत- त्वाविशेषात्, ब्रह्मसंस्थत्वेऽप्रतिषेधाश्ञ्च, स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्थ्योपपत्तेः । न च यववराहादिशब्दवत् ब्रह्मसंस्थशब्दः परिव्राजके रूढः, ब्रह्मणि संस्थितिनिमित्त- मुपादाय प्रवृत्तत्वात् । न हि रूढिशब्दा निमित्तमुपाददते । सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते । यत्र यत्र निमित्तमस्ति छान्दोग्योपनिषद्भाष्ये [ख. ब्रह्मणि संस्थितिः, तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोचे कारणाभावात् निरो- द्रुमयुक्तम् । न च पारित्राज्याश्रमधर्ममात्रेणामृतत्वम्, ज्ञा- नानर्थक्यप्रसङ्गात् । पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाध- नमिति चेत्, न, आश्रमधर्मत्वाविशेषात् । धर्मो वा ज्ञान- विशिष्टोऽमृतत्वसाधनमित्येतदपि सर्वाश्रमधर्माणामविशिष्टम् । न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षः, नान्येषाम् इति । ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धा- न्तः । तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितधर्मवताम्, सोऽमृतत्वमेतीति ॥ न, कर्मनिमित्तविद्याप्रत्यययोर्विरोधात् । कर्तादिकारक क्रि- याफलभेदप्रत्ययवत्त्वं हि निमित्तमुपादाय इदं कुरु इदं मा कार्षीः इति कर्मविधयः प्रवृत्ताः । तच्च निमित्तं न शास्त्रकृ- तम्, सर्वप्राणिषु दर्शनात् । ' सत्... एकमेवाद्वितीयम्' ' आत्मैवेदं सर्वम्' ' ब्रह्मैवेदं सर्वम्' इति शास्त्रजन्यः प्रत्य- यो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मवि- धिनिमित्तमनुपमृद्य न जायते, भेदाभेदप्रत्यययोर्विरोधात् । न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्रायेकत्वप्रत्यय उपजायते, विद्याविद्याप्रत्यययोर्विरोधात् । २३.] द्वितीयोऽध्यायः । .१२५ तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृत्ताः, स यस्योपमर्दितः 'सत्... एकमेवाद्वितीयम् ' ' तत्सत्यम् ' 'वि- कारभेदोऽनृतम्' इत्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन, स सर्वकर्मभ्यो निवृत्तः, निमित्तनिवृत्तेः; स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते ; स च परिव्राडेव, अन्यस्यासंभवात्, अन्यो हि अनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वा- नो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते । तस्यैवं कुर्वतो न ब्रह्मसंस्थता, वाचारम्भणमात्रविकारानृताभिसं- धिप्रत्ययवत्त्वात् । न च असत्यमित्युपमर्दिते भेदप्रत्यये स- त्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते- आकाश इव तलमलबुद्धिर्विवेकिनः । उपमर्दितेऽपि भेद- प्रत्यये कर्मभ्यो न निवर्तते चेत्, प्रागिव भेदप्रत्ययानुपम- र्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् । अभ- क्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवत् युक्तमेकत्ववा - प्रामाण्यम्, सर्वोपनिषदां तत्परत्वात् । कर्मविधीनामप्रामाण्यप्रसङ्ग इति चेत्, न, अनुपमर्दितभे- दप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रवोधात् । विवेकिनामकरणात् कर्म विधिप्रामाण्यो- च्छेद इति चेत्, न, काम्यविध्यनुच्छेददर्शनात् । न हि, s. u. III. 19 छान्दोग्योपनिषद्वाप्ये [ख. कामात्मता न प्रशस्तेत्येवं विज्ञानवद्भिः काम्यानि कर्माणि नानुष्ट्रीयन्त इति, काम्यकर्म विधय उच्छिद्यन्ते, अनुष्टीयन्त एवं कामिभिरिति तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिननुष्ठीयते कमणीति न तद्विधय उच्छिद्यन्ते, अब्रह्मविद्भिरनुष्ठीयन्त एवेति । परिव्राजकानां भिक्षाचरणादिवत् उत्पन्नैकत्वप्रत्य यानामपि गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेत्, न, प्रामाण्यचिन्तायां पुरुपप्रवृत्तेरदृष्टान्तत्वात् — न हि, नाभिचरेदिति प्रतिषिद्धमप्यभिचरणं कश्चित्कुर्वन्दृष्ट इति, शत्रौ द्वेषरहितेनापि विवेकिना अभिचरणं क्रियते । न च कर्म विधिप्रवृत्तिनिमित्ते भेदप्रत्यये वाधिते अग्निहोत्रादौ प्रत्र- तेकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ वुभुक्षादि प्रवर्तकम् । इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत्, न, भेदप्रत्ययवतोऽधिकृतत्वात् । भेदप्रत्ययवान् अनुपमर्दितभेदवु- द्धिर्विद्यया यः, स कर्मण्यधिकृत इत्यवोचाम ; यो हि अधिकृत: कर्मणि, तस्य तदकरणे प्रत्यवाय: ; न निवृत्ताधि- कारस्य, गृहस्थस्येव, ब्रह्मचारिणो विशेषधर्माननुष्ठाने । एवं तर्हि सर्वः स्वाश्रमस्थः उत्पन्नैकत्वप्रत्ययः परिव्राडिति चेत्, न, स्वस्वामित्व भेदबुद्धयनिवृत्तेः, कर्मार्थत्वाच इतराश्रमा- णाम् — 'अथ कर्म कुर्वीय' इति श्रुतेः । तस्मात् स्वस्वा- २३.] द्वितीयोऽध्यायः । मित्वाभावात् भिक्षुरेक एव परिव्राट्, न गृहस्थादिः । एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्यो- पमर्दितत्वात् यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत्, न, बुभुक्षादिना एकत्वप्रत्ययात्प्रच्यावितस्योपपत्तेः, निवृत्त्य- र्थत्वात् । न च प्रतिषिद्धसेवाप्राप्तिः, एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् । न हि रात्रौ कूपे कण्टके वा पतितः उदितेऽपि सवितरि पतति तस्मिन्नेव । तस्मात् सिद्धं निवृ- त्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति । यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति — सत्यमेतत् । यञ्चोक्तं तपः- शब्देन परिव्राडप्युक्त इति - एतदसत् । कस्मात् ? परित्रा- जकस्यैव निवृत्त भेदप्रत्ययस्य ब्रह्मसंस्थतासंभवात् । स एव हि अवशेषित इत्यवोचाम । एकत्वविज्ञानवतोऽग्निहोत्रादिवत्त- पोनिवृत्तेश्च । भेदबुद्धिमत एव हि तपः कर्तव्यता स्यात् । एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यम्, अप्रतिषेधश्च प्र- त्युक्तः । तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञान- वैयर्थ्य प्रत्युक्तम् । यत्पुनरुक्तं यववराहादिशब्दवत्परित्रा- जके न रूढो ब्रह्मसंस्थशब्द इति, तत्परिहृतम् ; तस्यैव ब्रह्मसंस्थतासंभवान्नान्यस्येति । यत्पुनरुक्तं रूढशब्दाः नि- मित्तं नोपाददत इति, तन्न, गृहस्थतक्षपरिव्राजकादिशब्द- छान्दोग्योपनिषद्भाष्ये [खं. दर्शनात् । गृहस्थितिपारिव्राज्य तक्षणादिनिमित्तोपादाना अपि, गृहस्थपरिव्राजकावाश्रमिविशेषे, विशिष्टजातिमति च तक्षेति, रूढा दृश्यन्ते शब्दा: । न यत्र यत्र निमित्तानि तत्र तत्र वर्तन्ते, प्रसिद्ध्यभावात् । तथा इहापि ब्रह्मसंस्थशब्दो निवृत्त सर्वकर्मतत्साधनपरित्रा डेकविषये ऽत्याश्रमिणि परमहं साख्ये वृत्त इह भवितुमर्हति, मुख्यामृतत्वफलश्रवणात् । अतश्चेदमेवैकं वेदोक्तं पारित्राज्यम्, न यज्ञोपवीतत्रिदण्ड- कमण्डल्वादिपरिग्रह इति ; 'मुण्डोऽपरिग्रहोऽसङ्गः' इति च । श्रुति: ' अत्याश्रमिभ्यः परमं पवित्रम्' इत्यादि च श्वेताश्वतरीये; 'निस्तुतिर्निर्नमस्कार:' इत्यादिस्मृतिभ्यश्च ; ' तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । तस्मादलिङ्गो धर्मज्ञोऽञ्यक्तलिङ्गः' इत्यादिस्मृतिभ्यश्च ॥ यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते, क्रियाकारकफलभे- दबुद्धेः सत्यत्वाभ्युपगमात्, तन्मृषा । यच्च वौद्धैः शून्यता- भ्युपगमात् अकर्तृत्वमभ्युपगम्यते, तदप्यसत्, तदभ्युप- गन्तुः सत्त्वाभ्युपगमात् । यच्च अज्ञैरलसतया अकर्तृत्वाभ्युप- गमः, सोऽप्यसत्, कारकबुद्धेरनिवर्तितत्वात्प्रमाणेन । तस्मात् वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पा- रिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् । एतेन गृहस्थस्यैकत्ववि - २३.] द्वितीयोऽध्यायः । १२९ ज्ञाने सति पारित्राज्यमर्थसिद्धम् ॥ ननु अग्न्युत्सादन दोषभाक्स्यान् परिव्रजन — 'वीरहा वा एष देवानां योऽग्निमुद्वासयते ' इति श्रुतेः, न, दैवोत्सा- दितत्वात्, उत्सन्न एव हि स एकत्वदर्शने जाते- 'अपा- गादग्नेरग्नित्वम्' इति श्रुतेः । अतो न दोषभाक् गृहस्थः परि- जन्निति ॥ यत्संस्थ: अमृतत्वमेति, तन्निरूपणार्थमाह- प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितसे- भ्यस्त्रयी विद्या संप्रास्रवत्तामभ्यतपत्त- स्या अभितप्ताया एतान्यक्षराणि संप्रास्र- वन्त भूर्भुवः स्वरिति ॥ २ ॥ प्रजापतिः विराट् कश्यपो वा, लोकान् उद्दिश्य: तेषु सारजिघृक्षया अभ्यतपत् अभितापं कृतवान् ध्यानं तपः कृतवानित्यर्थः ; तेभ्यः अभितप्तेभ्यः सारभूता त्रयी विद्या संप्रास्रवत् प्रजापतेर्मनसि प्रत्यभादित्यर्थः । तामभ्यतपत्- पूर्ववत् । तस्या अभितप्तायाः एतान्यश्नराणि संप्रास्रवन्त भूर्भुव: स्वरिति व्याहृतयः ॥ छान्दोग्योपनिषद्भाष्ये तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णा- नि संतृण्णान्येवमोंकारेण सर्वा वाक्सं- तृणोंकार एवेद सर्वम् ॥ ३ ॥ सर्वमोंकार एवेद‍ [ख. इति त्रयोविंशः खण्डः ॥ तानि अक्षराणि अभ्यतपत्, तेभ्यः अभितप्तेभ्यः ॐकारः संप्रास्रवत् । तत् ब्रह्म कीदृशमिति, आह— तद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि संतृणानि नि- विद्धानि व्याप्तानीत्यर्थः । एवम् ओंकारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक् शब्दजातं संतृष्णा - ' अकारो वैस- र्वा वाक्' इत्यादिश्रुतेः । परमात्मविकारश्च नामधेयमात्रम् इत्यतः ओंकार एवेद सर्वमिति । द्विरभ्यासः आदरार्थः । लोकादिनिष्पादनकथनम् ओंकारस्तुत्यर्थमिति ॥ इति त्रयोविंशखण्डभाष्यम् ॥ चतुर्विंशः खण्डः ॥ · सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्य ओंकारं पर- मात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्य अङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह— ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः- सवन रुद्राणां माध्यंदिन‍ सवनमादि- त्यानां च विश्वेषां च देवानां तृतीयसव- नम् ॥ १ ॥ ब्रह्मवादिनो वदन्ति, यत्प्रातः सवनं प्रसिद्धं तद्वसूनाम् । तैश्च प्रातःसवनसंबद्धोऽयं लोको वशीकृतः प्रातः सवनेशानैः । तथा रुद्रैर्माध्यंदिनसवनेशानैः अन्तरिक्षलोकः । आदित्यैश्च विश्वैर्देवैश्व तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः । इति यजमानस्य लोकोऽन्यः परिशिष्टो न विद्यते ॥ क तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ॥ छान्दोग्योपनिषद्भाष्ये - [ख. अतः क्व तर्हि यजमानस्य लोकः, यदर्थं यजते ; न - चिल्लोकोऽस्तीत्यभिप्राय:- 'लोकाय वै यजते यो यजते ' इति श्रुते: । लोकाभावे च स यो यजमानः तं लोकस्वीकर- णोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यात् न विजानी- यात्, सोऽज्ञः कथं कुर्यात् यज्ञम्, न कथंचन तस्य कर्तृत्व- मुपपद्यत इत्यर्थः । सामादिविज्ञानस्तुतिपरत्वात् न अविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते - स्तुतये च सामादिवि- ज्ञानस्य, अविद्वत्कर्तृत्वप्रतिषेधाय च इति हि भिद्येत वाक्यम् । आये च औपस्त्ये काण्डे अविदुषोऽपि कर्मास्तीति हेतुम- वोचाम । अथ एतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात् ॥ पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासव सामाभिगायति ॥ ३ ॥ किं तद्वेद्यमिति, आह— पुरा पूर्व प्रातरनुवाकस्य श- स्त्रस्य प्रारम्भात् जघनेन गार्हपत्यस्य पश्चात् उदङ्मुखः सन् उपविश्य सः वासवं वसुदैवत्यं साम अभिगायति ॥ लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयँ रा ३३३३३ हु ३ म् आ ३३ ज्या ३ २४.] द्वितीयोऽध्यायः । यो ३ आ ३२१११ इति ॥ ४ ॥ लोकद्वारम् अस्य पृथिवीलोकस्य प्राप्तये द्वारम् अपावृणु हे अग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥ अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ॥ ५ ॥ - अथ अनन्तरं जुहोति अनेन मन्त्रेण- नमोऽग्नये प्री- भूता: तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते लोकनिवासाय, पृथिवीलोक निवासायेत्यर्थः ; लोकं मे मह्यं यजमानाय विन्दु लभस्व; एष वै मम यजमानस्य लोक: एता गन्ता अस्मि ॥ अत्र यजमानः परस्तादायुषः स्वाहा- पजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवन‍ संप्रयच्छन्ति ॥ ६॥ अत्र अस्मिँल्लोके यजमानः अहम् आयुषः परस्तात् ऊर्ध्वं मृत: सन् इत्यर्थ: । स्वाहेति जुहोति । अपजहि अपनय परिघं लोकद्वारार्गलम् — इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति । एव- - छान्दोग्योपनिषद्भाष्ये [ख- मेतैर्वसुभ्यः प्रातः सवनसंबद्धो लोको निष्क्रीतः स्यात् । ततस्ते प्रातः सवनं वसवो यजमानाय संप्रयच्छन्ति ॥ पुरा माध्यंदिनस्य सवनस्योपाकरणा- ज्जघनेनाग्नीधीयस्योदङ्मुख उपविश्य स रौद्र सामाभिगायति ॥ ७ ॥ लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३ आ३२१११इति ॥ ८ ॥ तथा आग्नीध्रीयस्य दक्षिणाग्नेः जघनेन उदङ्मुख उप- विश्य सः रौद्रं साम अभिगायति यजमानः रुद्रदैवत्यं वैरा- ज्याय ॥ अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्देष वै यजमानस्य लोक एतास्मि ॥ ९ ॥ अत्र यजमानः परस्तादायुषः स्वाहा- पजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यंदिन सवन संप्रयच्छन्ति ॥ २४.] द्वितीयोऽध्यायः । १३५ अन्तरिक्षक्षित इत्यादि समानम् ॥ पुरा तृतीयसवनस्योपाकरणाज्जघनेना- हवनीयस्योदङ्मुख उपविश्य स आदि- त्य ँस वैश्वदेवँ सामाभिगायति ॥ ११ ॥ लो३कद्वारमपावा३र्णू३३ पश्येम त्वा व- य‍ स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो ३ आ ३२१११ इति ॥ १२ ॥ आदित्यमथ वैश्वदेवं लो३कद्वारमपा- वा३र्णू३३ पश्येम त्वा वय‍ साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ॥ तथा आहवनीयस्योदङ्मुख उपविश्य सः आदित्यदैव- त्यम् आदित्यं वैश्वदेवं च साम अभिगायति क्रमेण स्वारा- ज्याय साम्राज्याय ॥ अथ जुहोति नम आदित्येभ्यश्च विश्वे- भ्यश्च देवेभ्यो दिविक्षियो लोकक्षियो लोकं मे यजमानाय विन्दत ॥ १४ ॥ छान्दोग्योपनिषद्भाप्ये एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परि- घमित्युक्त्वोत्तिष्ठति ॥ १५ ॥ [ख. दिविक्षिय इत्येवमादि समानमन्यत् । विन्दत अपहृत इति बहुवचनमात्रं विशेषः । याजमानं त्वेतत्, एतास्म्यत्र यजमान इत्यादिलिङ्गात् ॥ तस्मा आदित्याश्च विश्वे च देवास्तृती- यसवनः संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ १६॥ इति चतुर्विंशः खण्डः ॥ एष ह वै यजमानः एवंवित् यथोक्तस्य सामादेर्विद्वान् यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् । य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥ इति चतुर्विंशखण्डभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये द्वितीयोऽध्यायः ॥ समाप्तः ॥ छान्दोग्योपनिषद्भाष्यम् तृतीयोऽध्यायः ॥ तृतीयोऽध्यायः ॥ सौ वा आदित्यः' इत्यादि अध्यायारम्भे संबन्ध: । अतीतानन्तराध्यायान्ते उक्तम् 'यज्ञस्य मात्रां वेद' इति । यज्ञविषयाणि च सामहोम- मन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूता- न्युपदिष्टानि । सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते । स एष सर्वप्राणिकर्मफल- भूतः प्रत्यक्षं सर्वैरुपजीव्यते । अतो यज्ञव्यपदेशानन्तरं त- त्कार्यभूत सवितृविषयमुपासनं सर्वपुरुषार्थेभ्य: श्रेष्ठतम फलं वि- धास्यामीत्येवमारभते श्रुति:- - असौ वा आदित्यो देवमधु तख द्यौ- रेव तिरश्चीनवशोऽन्तरिक्षमपूपो मरी- चयः पुत्राः ॥ १ ॥ असौ वा आदित्यो देवमध्वित्यादि । देवानां मोदनात् मध्विव मधु असौ आदित्यः । वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य । कथं मधुत्वमिति, आह— तस्य मधुनः द्यौरेव भ्रामरस्येव मधुनः तिरश्चीनवं- छान्दोग्योपनिषद्भाष्ये [ख. शः तिरश्वीनश्वासौ वंशश्चेति तिरश्चीनवंशः । तिर्यग्गतेव हि द्यौर्लक्ष्यते । अन्तरिक्षं च मध्यपूपः द्युवंशे लग्नः सन् लम्बत इव, अतो मध्वपूपसामान्यात् अन्तरिक्षं मध्वपूपः, मधुनः सवितुराश्रयत्वाच्च । मरीचयः रश्मयः रश्मिस्था आपो भौ- माः सवित्राकृष्टाः । एता वा आप: स्वराजो यन्मरीचय: ' इति हि विज्ञायन्ते । ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गत- त्वात् भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्राः, मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः ॥ तस्य ये प्राची रश्मयस्ता एवास्य प्रा- च्यो मधुनाड्यः । ऋच एवं मधुकृत ऋ- ग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥ तस्य सवितुः मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गताः रश्मयः, ता एव अस्य प्राच्यः प्रागञ्चनात् मधुनो नाड्यः मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः । तत्र ऋच एव मधुकृतः लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृत: भ्रमरा इव; यतो रसानादाय मधु कुर्वन्ति, तत्पु- पमिव पुष्पम् ऋग्वेद एव । तत्र ऋग्ब्राह्मणसमुदायस्य १.] तृतीयोऽध्यायः । ऋग्वेदाख्यत्वात् शब्दमात्राञ्च भोग्यरूपरसनिस्रावासंभवात् ऋग्वेदशब्देन अत्र ऋग्वेदविहितं कर्म, ततो हि कर्मफलभू- तमधुरसनिस्रावसंभवात् । मधुकरैरिव पुष्पस्थानीयादृग्वेद- विहितात्कर्मणः अप आदाय ऋग्भिर्मधु निर्वर्त्यते । कस्ता आप इति, आह— ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपाः अग्नौ प्रक्षिप्ताः तत्पाकाभिनिर्वृत्ता अमृताः अमृतार्थत्वादत्य- न्तरसवत्यः आपो भवन्ति । तद्रसानादाय ता वा एता ऋचः पुष्पेभ्यो रसमाददाना इव भ्रमरा ऋचः ॥ एतमृग्वेदमभ्यतपस्तस्याभितप्तख य- शस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजा- यत ॥ ३ ॥ एतम् ऋग्वेदम् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् अभ्य- तपन् अभितापं कृतवत्य इव एता ऋचः कर्मणि प्रयुक्ताः । ऋग्भिर्हि मन्त्रैः शस्त्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधु- निर्वर्तकं रसं मुञ्चतीत्युपपद्यते, पुष्पाणीव भ्रमरैराचूष्यमा- णानि । तदेतदाह - तस्थ ऋग्वेदस्य अभितप्तस्य । कोऽसौ रसः, यः ऋङ्मधुकराभितापनिःसृत इत्युच्यते ? यश: वि- श्रुतत्वं तेजः देहगता दीप्तिः इन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवै- कल्यं वीर्यं सामर्थ्यं बलमित्यर्थः, अन्नाद्यम् अन्नं च तदाद्यं च S. u. III. 20 छान्दोग्योपनिषद्भाष्ये [ख. येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात् तदन्नाद्यम् एष रसः अजायत यागादिलक्षणात्कर्मणः ॥ तद्व्ग्रक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए- तद्यदेतदादित्यस्य रोहित‍ रूपम् ॥ ४ ॥ इति प्रथमः खण्डः । यश आद्यन्नाद्यपर्यन्तं तत् व्यक्षत् विशेषेणाक्षरत् अगमत् । गत्वा च तदादित्यम् अभितः पार्श्वतः पूर्वभागं सवितुः अश्र- यत् आश्रितवदित्यर्थः । अमुष्मिन्नादित्ये संचितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यशआदिलक्षणफलप्राप्तये कर्मा- णि क्रियन्ते मनुष्यैः – केदारनिष्पादनमिव कर्षकैः । तत्प्र- त्यक्षं प्रदर्श्यते श्रद्धा हेतोः । तद्वा एतत्; किं तत् ? यदेतत् आदित्यस्य उद्यतो दृश्यते रोहितं रूपम् ॥ - इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ अथ येऽस्य दक्षिणा रश्मयस्ता एवा- स्य दक्षिणा मधुनाड्यो यजूष्येव मधुकृ- तो यजुर्वेद एव पुष्पं ता अमृता आपः ॥ अथ ये अस्य दक्षिणा रश्मय इत्यादि समानम् । यजूं- येव मधुकृतः यजुर्वेदविहिते कर्मणि प्रयुक्तानि पूर्ववन्मधु- कृत इव । यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते । ता एव सोमाद्या अमृता आपः ॥ तानि वा एतानि यजू येतं यजुर्वेद- मभ्यतपस्तस्याभितप्तस्य यशस्तेज इ- न्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ २ । तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए- तद्यदेतदादित्यस्य शुक्ल ँ रूपम् ॥ ३ ॥ इति द्वितीयः खण्डः ॥ तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् इत्येवमादि सर्वं समानम् । मधु एतदादित्यस्य दृश्यते शुक्लं रूपम् ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ तानि वा एतानि सामान्येत सामवें-, दमभ्यतपस्तस्याभितप्तस्य यशस्तेज इ- न्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए- तद्यदेतदादित्यस्य कृष्ण रूपम् ॥ ३ ॥ इति तृतीयः खण्डः । अथ येऽस्य प्रत्यचो रश्मय इत्यादि समानम् । तथा सानां मधु, एतदादित्यस्य कृष्णं रूपम् ॥ इति तृतीयखण्डभाष्यम् ॥ चतुर्थः खण्डः ॥ अथ येऽस्योदञ्चो रश्मयस्ता एवास्यो- दीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृ- त इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ते वा एतेऽथर्वाङ्गिरस एतदितिहास- 'पुराणमभ्यतपः स्तस्याभितप्तस्य यशस्ते- ज इन्द्रियं वीर्यमन्नाद्य ५ रसोऽजायत ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए- तद्यदेतदादित्यस्य परं कृष्ण रूपम् ॥३॥ इति चतुर्थः खण्डः ॥ अथ येऽस्योदश्च रश्मय इत्यादि समानम् । अथर्वा - ङ्गिरसः अथर्वणा अङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, कर्मणि प्रयुक्ता मधुकृतः । इतिहासपुराणं पुष्पम् । तयोश्चे- तिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनि- योगः सिद्धः । मधु एतदादित्यस्य परं कृष्णं रूपम् अतिशयेन कृष्णमित्यर्थः ॥ इति चतुर्थखण्डभाष्यम् ॥ पञ्चमः खण्डः ॥ अथ येऽस्योर्ध्वा रश्मयस्ता एवास्यो- र्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥ ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्य- तपस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत ॥ २ ॥ तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा ए- तद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥ अथ येऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् । गुह्या गोप्या रहस्या एव आदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतः, ब्रह्मैव शब्दाधिकारात्प्रणवाख्यं पुष्पम् । समानमन्यत् । मधु एतत् आदित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते संचलतीव । ते वा एते रसाना रसा वेदा हि ५.] तृतीयोऽध्यायः । रसास्तेषामेते रसास्तानि वा एतान्यमृ- तानाममृतानि वेदा ह्यमृतास्तेषामेतान्य- मृतानि ॥ ४ ॥ इति पञ्चमः खण्डः ॥ ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः । केषां रसानामिति, आह- वेदा हि यस्माल्लोक निष्यन्दत्वा- त्सारा इति रसा:, तेषां रसानां कर्मभावमापन्नानामप्येते रो- हितादिविशेषा रसा अत्यन्तसारभूता इत्यर्थः । तथा अमृताना- ममृतानि वेदा मृताः, नित्यत्वात् तेषामेतानि रोहितादीनि रूपाण्यमृतानि । रसानां रसा इत्यादि कर्मस्तुतिरेषा — यस्यै- वंविशिष्टान्यमृतानि फलमिति ॥ इति पञ्चमखण्डभाष्यम् ॥ षष्ठः खण्डः ॥ तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्य- ग्निना मुखेन न वै देवा अश्नन्ति न पिब- न्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ तत् तत्र यत्प्रथमममृतं रोहितरूपलक्षणं तद्वसवः प्रात:- सवनेशाना उपजीवन्ति अग्निना मुखेन अग्निना प्रधानभूतेन, अग्निप्रधानाः सन्त उपजीवन्तीत्यर्थः । ' अन्नाद्यं रसोऽजायत' इति वचनात् कवलग्राहमनन्तीति प्राप्तम्, तत्प्रतिषिध्यते— न वै देवा अनन्ति न पिबन्तीति । कथं तर्हि उपजीवन्तीति, उच्यते — एतदेव हि यथोक्तममृतं रोहितं रूपं दृष्ट्वा उप- लभ्य सर्वकरणैरनुभूय तृप्यन्ति, दृशेः सर्वकरणद्वारोपल- न्रध्यर्थत्वात् । ननु रोहितं रूपं दृष्ट्वेत्युक्तम्; कथमन्येन्द्रिय- विषयत्वं रूपस्येति ; न, यशआदीनां श्रोत्रादिगम्यत्वात् । श्रोत्रग्राह्यं यशः । तेजोरूपं चाक्षुपम् । इन्द्रियं विषयग्रह- णकार्यानुमेयं करणसामर्थ्यम् । वीर्ये वलं देहगत उत्साहः प्राणवत्ता । अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति । रसो ह्येवमात्मकः सर्वः । यं दृष्ट्वा तृप्यन्ति सर्वे ६.] तृतीयोऽध्यायः । देवा दृष्ट्वा तृप्यन्तीति एतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः । आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥ त एतदेव रूपमभिसंविशन्त्येतस्मा- द्रूपादुद्यन्ति ॥ २ ॥ किं ते निरुद्यमा अमृतमुपजीवन्ति ? न; कथं तर्हि, एतदेव रूपम् अभिलक्ष्य अधुना भोगावसरो नास्माक- मिति बुढ्ढा अभिसंविशन्ति उदासते । यदा वै तस्यामृतस्य भोगावसरो भवेत्, तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ; एतस्माद्रूपात् उयन्ति उत्साहवन्तो भवन्तीत्यर्थः । नहि अनुत्साहवतामननुतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥ स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्य- ति स एतदेव रूपमभिसंविशत्येतस्माद्रू- पादुदेति ॥ ३ ॥ स यः कश्चित् एतदेवं यथोदितम् ऋङ्मधुकरता परससं- क्षरणम् ऋग्वेदविहितकर्मपुष्पात् तस्य च आदित्यसंश्रयणं रोहितरूपत्वं च अमृतम्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वा अग्निना छान्दोग्योपनिषद्धाप्ये [ख. मुखेनोपजीवनं दर्शनमात्रेण तृप्तिं च स्वभोगावसरे उद्यमनं तत्कालापाये च संवेशनं वेद, सोऽपि वसुवत् सर्वं तथैवानु- भवति ॥ स यावदादित्यः पुरस्तादुदेता पश्चाद- स्तमेता वसूनामेव तावदाधिपत्य स्वा- राज्यं पर्येता ॥ ४॥ इति षष्ठः खण्डः ॥ कियन्तं कालं विद्वांस्तदमृतमुपजीवतीति, उच्यते - स विद्वान् यावदादित्यः पुरस्तात् प्राच्यां दिशि उदेता पश्चात् प्रतीच्याम् अस्तमेता, तावद्वसूनां भोगकालः तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्येता परितो गन्ता भवतीत्यर्थः । न यथा चन्द्रमण्डलस्थ: केवलकर्मी परतन्त्रो देवानामन्नभूतः ; किं तर्हि, अयम् आधिपत्यं स्वाराज्यं स्वराड्भावं च अधि- गच्छति ॥ इति षष्ठखण्डभाष्यम् ॥ सप्तमः खण्डः ॥ अथ यद्वितीयममृतं तद्रुद्रा उपजीव- न्तीन्द्रेण मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्- पादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपा- दुदेति ॥ ३ ॥ अथ यद्दितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥ स यावदादित्यः पुरस्तादुदेता पश्चाद- स्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतो- Sस्तमेता रुद्राणामेव तावदाधिपत्य‍ स्खा- राज्यं पर्येता ॥ ४ ॥ इति सप्तमः खण्डः ॥ स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावत् ततो द्विगुणं कालं दक्षिणत उदेता उत्तरतोऽस्तमेता रुद्राणां तावद्भोगकालः ॥ इति सप्तमखण्डभाष्यम् ॥ अष्टमः खण्डः ॥ अथ यत्तृतीयममृतं तदादित्या उपजी- वन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्माद्रू- पादुद्यन्ति ॥ २ ॥ . स य एतदेवममृतं वेदादित्यानामेवै- को भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृ- ष्ट्वा तृप्यति स एतदेव रूपमभिसंविश- त्येतस्माद्रूपादुदेति ॥ ३॥ स यावदादित्यो दक्षिणत उदेतोत्तर- तोऽस्तमेता द्विस्तावत्पश्चादुदेता पुर- स्तादस्तमेतादित्यानामेव तावदाधिपत्य स्वाराज्यं पर्येता ॥ ४ ॥ इति अष्टमः खण्डः ॥ तथा पश्चात् उत्तरतः ऊर्ध्वमुदेता विपर्ययेण अस्तमेता । पूर्वस्मात्पूर्वस्माद्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् । सवितुः चतुर्दिशमिन्द्रयमवरुणसोमपुरीषु उदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम्, मानसोत्तरस्य मूर्धनि मेरो: . ८.] तृतीयोऽध्यायः । । प्रदक्षिणावृत्तेस्तुल्यत्वादिति । अत्रोक्तः परिहारः आचार्यैः । अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वास: स्यात् । उदयश्च नाम सवितुः तन्निवासिनां प्राणिनां चक्षुर्गो- चरापत्तिः, तदत्ययश्च अस्तमनम् ; न परमार्थत उदयास्तमने स्त: । तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति, चक्षुर्गोचरापत्तेस्तदत्ययस्य च अभावात् । तथा अमरावत्याः सकाशाद्दिगुणं कालं संयमनी पुरी वसति, अतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इव उदेति उत्तरतोऽस्तमेति इत्युच्यतेऽस्मद्बुद्धिं च अपेक्ष्य । तथो- त्तरास्वपि पुरीषु योजना । सर्वेषां च मेरुरुत्तरतो भवति । यदा अमरावत्यां मध्याह्नगतः सविता, तदा संयमन्यामुद्य- न्दृश्यते ; तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते; तथोत्तर- स्याम्, प्रदक्षिणावृत्तेस्तुल्यत्वात् । इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सविता ऊर्ध्व इव उदेता अर्वागस्तमेता दृश्यते, पर्वतोर्ध्वच्छिद्र प्रवेशात्सवितृप्रकाशस्य । तथा ऋगाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवी- र्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन । उद्यमनसंवेश- नादि देवानां रुद्रादीनां विदुषश्च समानम् ॥ इति अष्टमखण्डभाष्यम् ॥ नवमः खण्डः ॥ अथ यच्चतुर्थममृतं तन्मरुत उपजीव- न्ति सोमेन मुखेन न वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्मा- द्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येत- स्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्यः पश्चादुदेता पुरस्ताद- स्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतो- ऽस्तमेता मरुतामेव तावदाधिपत्य स्वा- राज्यं पर्येता ॥ ४॥ इति नवमः खण्डः । दशमः खण्डः ॥ अथ यत्पञ्चमममृतं तत्साध्या उपजी- वन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिवन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥ त एतदेव रूपमभिसंविशन्त्येतस्मा- द्रूपादुद्यन्ति ॥ २ ॥ स य एतदेवममृतं वेद साध्यानामेवै- को भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येत- स्माद्रूपादुदेति ॥ ३ ॥ स यावदादित्य उत्तरत उदेता दक्षि णतोऽस्तमेता द्विस्तावदूर्ध्व उदेतार्वा - गस्तमेता साध्यानामेव तावदाधिपत्य‍ स्वाराज्यं पर्येता ॥ ४ ॥ इति दशमः खण्डः ॥ एकादशः खण्डः ॥ अथ तत ऊर्ध्व उदैत्य नैवोदेता नास्त- मेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनु- ग्रहम्, तत्कर्मफलभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्य, अथ ततः तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन् आत्मन्यु- देत्य उद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात् स्वात्मस्थः नैवोदेता नास्तमेता एकल: अद्वितीयः अनवयवः मध्ये स्वा- त्मन्येव स्थाता । तत्र कश्चिद्विद्वान्वस्वादिसमानचरण: रोहि- ताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वे- नोपेत्य समाहितः सन् एतं मन्त्रं दृष्ट्वा उत्थितः अन्यस्मै पृष्ठ- वते जगाद—यतस्त्वमागतो ब्रह्मलोकात् किं तत्राप्यहोरात्रा- भ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्मा- कम्; इत्येवं पृष्टः प्रत्याह — तत् तत्र यथा पृष्ठे यथोक्ते च अर्थे एष श्लोको भवति तेनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥ न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहँ सत्येन मा विरा- धिषि ब्रह्मणेति ॥ २ ॥ न वै तत्र यतोऽहं ब्रह्मलोकादागतः तस्मिन्न वै तत्र एतदस्ति यत्पृच्छसि । न हि तत्र निम्लोच अस्तमगमत्सविता न च ११.] तृतीयोऽध्यायः । उदियाय उद्गतः कुतश्चित् कदाचन कस्मिंश्चिदपि काले इति । उदयास्तमयवर्जित: ब्रह्मलोकः इत्यनुपपन्नम् इत्युक्तः शपथ- मिव प्रतिपेदे – हे देवा: साक्षिणो यूयं शृणुत, यथा मयोक्तं सत्यं वचः तेन सत्येन अहं ब्रह्मणा ब्रह्मस्वरूपेण मा विरा- धिषि मा विरुध्येयम्, अप्राप्तिर्ब्रह्मणो मम मा भूदित्यर्थः ॥ सत्यं तेनोक्तमित्याह श्रुति:- न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्र- ह्मोपनिषदं वेद ॥ ३ ॥ न हवा अस्मै यथोक्तब्रह्मविदे न उदेति न निम्लोच- ति नास्तमेति, किं तु ब्रह्मविदेऽस्मै सकृद्दिवा हैव सदैव अह- र्भवति, स्वयंज्योतिष्ट्वात्; य एतां यथोक्तां ब्रह्मोपनिषदं वेद- गुह्यं वेद, एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसंबन्धं च यच्च अन्यदवोचाम एवं जानातीत्यर्थः । विद्वान् उदयास्तमयकाला- परिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥ तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजाप- तिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालकाया- रुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ तद्वैतत् मधुज्ञानं ब्रह्मा हिरण्यगर्भः विराजे प्रजापतये S. U. III. 21 छान्दोग्योपनिषद्भाष्ये [ख. उवाच ; सोऽपि मनवे ; मनुरिक्ष्वाक्काद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति — ब्रह्मादिविशिष्टक्रमागतेति । किं च, तद्वैतत् मधुज्ञानम् उद्दालकाय आरुणये पिता ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय प्रोवाच ॥ इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्र- ह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ इदं वाव तद्यथोक्तम् अन्योऽपि ज्येष्ठाय पुत्राय सर्वप्रियाहय ब्रह्म प्रब्रूयात् । प्रणाय्याय वा योग्याय अन्तेवासिने शिष्याय ॥ . नान्यस्मै कस्मैचन यद्यप्यस्मा इमाम- द्भिः परिगृहीतां धनस्य पूर्णा दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ॥६॥ नान्यस्मै कस्मैचन प्रब्रूयात् । तीर्थद्वयमनुज्ञातमनेकेषां प्रा- प्तानां तीर्थानामाचार्यादीनाम् । कस्मात्पुनस्तीर्थ संकोचनं वि- द्यायाः कृतमिति, आह— यद्यपि अस्मै आचार्याय इमां क- श्चित्पृथिवीम् अद्भिः परिगृहीतां समुद्रपरिवेष्टितां समस्तामपि दद्यात्, अस्या विद्याया निष्क्रयार्थम्, आचार्याय धनस्य पूर्णां संपन्नां भोगोपकरणैः; नासावस्य निष्क्रयः यस्मात् ततोऽपि दानात् एतदेव यन्मधुं विद्यादानं भूयः बहुतरफलमित्यर्थः । द्विरभ्यास: आदरार्थः ॥ इति एकादशखण्डभाष्यम् ॥ द्वादशः खण्डः ॥ यत एवमतिशयफलैषा ब्रह्मविद्या, अतः सा प्रकारान्तरे- णापि वक्तव्येति 'गायत्री वा' इत्याद्यारभ्यते । गायत्रीद्वा- रेण च उच्यते ब्रह्म, सर्वविशेषरहितस्य ' नेति नेति' इत्या- दिविशेषप्रतिषेधगम्यस्य दुर्योधत्वात् । सत्स्वनेकेषु च्छन्दः सु गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् । सोमाह- रणान् इतरच्छन्दोक्षराहरणेन इतरच्छन्दोव्याप्त्या च सर्व- सवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः । गायत्रीसार- त्वाच्च ब्राह्मणस्य मातरमिव, हित्वा गुरुतरां गायत्रीं ततो- ऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति, तस्यामत्यन्तगौ- रवस्य प्रसिद्धत्वात् । अतो गायत्रीमुखेनैव ब्रह्मोच्यते- गायत्री वा इदँ सर्व भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इद५ सर्व भूतं गायति च त्रायते च ॥ १ ॥ गायत्री वा इत्यवधारणार्थो वै-शब्दः । इदं सर्व भूतं प्राणिजातं यत्किंच स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव । छान्दोग्योपनिषद्भाष्ये [ख. तस्याश्छन्दोमालायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दरूपामापाद्यति गायत्रीं वाग्वै गायत्रीति । वाग्वा इदं सर्वे भूतम् । यस्मात् वाक् शब्दरूपा सती सर्व भूतं गा- यति शब्दयति- असौ गौः असावश्व इति च, त्रायते च रक्षति - अमुष्मान्मा भैषीः किं ते भयमुत्थितम् इत्यादिना सर्वतो भयान्निवर्त्यमानः वाचा त्रातः स्यात् । यत् वाक् भूतं गायति च त्रायते च, गायत्र्येव तत् गायति च त्रायते च, अनन्यत्वाद्गायत्र्याः । गानान्त्राणाञ्च गायत्र्या गायत्रीत्वम् ॥ वाच: या वै सा गायत्रीयं वाव सा येयं पृथि- व्यस्था ही सर्व भूतं प्रतिष्ठितमेता- मेव नातिशीयते ॥ २ ॥ या वै सा एवंलक्षणा सर्वभूतरूपा गायत्री, इयं बाव सा येयं पृथिवी । कथं पुनरियं पृथिवी गायत्रीति, उच्यते— सर्वभूतसंबन्धात् । कथं सर्वभूतसंबन्ध:, अस्यां पृथिव्यां हि यस्मात् सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितम्, एतामेव पृथि- वीं नातिशीयते नातिवर्तत इत्येतत् । यथा गानत्राणाभ्यां भूतसंबन्धो गायत्र्याः, एवं भूतप्रतिष्ठानाद्भूतसंबद्धा पृथिवी; अतो गायत्री पृथिवी ॥ १२.] तृतीयोऽध्यायः । या वै सा पृथिवीयं वाव सा यदिदम- स्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रति- ष्ठिता एतदेव नातिशीयन्ते ॥ ३ ॥ या वैसा पृथिवी गायत्री इयं वाव सा इदमेव । तत्किम् ? यदिदमस्मिन्पुरुषे कार्यकरणसंघाते जीवति शरी- रम्, पार्थिवत्वाच्छरीरस्य । कथं शरीरस्य गायत्रीत्वमिति, उच्यते—अस्मिन्हि इमे प्राणाः भूतशब्दवाच्याः प्रति- ष्ठिताः, अतः पृथिवीवद्भूतशब्दवाच्य प्राणप्रतिष्ठानात् शरीरं गायली, एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥ यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदि- दमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्रा- णाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥४॥ यद्वै तत्पुरुषे शरीरं गायत्री इदं वाव तत् । यदिदम- स्मिन्नन्तः मध्ये पुरुषे हृदयं पुण्डरीकाख्यम् एतद्गायत्री । कथ- मिति, आह— अस्मिन्हि इमे प्राणाः प्रतिष्ठिताः, अत: शरीरवत् गायत्री हृदयम् । एतदेव च नातिशीयन्ते प्राणाः । ' प्राणो ह पिता । प्राणो माता' ' अहिंसन्सर्वभूतानि ' इति श्रुतेः भूतशब्दवाच्याः प्राणाः ॥ छान्दोग्योपनिषद्भाष्ये सैषा चतुष्पदा षड्विधा गायत्री तदे- तदृचाभ्यनूक्तम् ॥ ५ ॥ [ख. सैपा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गाय- त्री षडिधा - वाग्भूतपृथिवीशरीर हृदयप्राणरूपा सती षडिधा भवति । वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम्, अन्यथा षड्विधसंख्यापूरणानुपपत्तेः । तत् एतस्मिन्नर्थे एतत् गायत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तम् ऋचा अपि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥ तावानस्य महिमा ततो ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपाद - स्यामृतं दिवीति ॥ ६ ॥ तावान् अस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः, यावांश्चतुष्पात्षडिधश्च ब्रह्मणो विकारः पादो गायतीति व्याख्यातः । अतः तस्माद्विकारलक्षणाद्गा- यत्र्याख्याद्वाचारम्भणमात्रात् ततो ज्यायान् महत्तरश्च परमा- र्थसत्यरूपोऽविकारः पूरुष: पुरुष: सर्वपूरणात् पुरि शय- नाच्च । तस्य अस्य पादः सर्वा सर्वाणि भूतानि तेजोबन्ना- दीनि सस्थावरजङ्गमानि त्रिपात् त्रयः पादा अस्य सोऽयं १२.] तृतीयोऽध्यायः । त्रिपात्; त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥ यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादा- काशः ॥ ७ ॥ यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेति, इदं वाव तत् इदमेव तत् ; योऽयं प्रसिद्धः वहिर्धा बहिः पुरुषादाकाश: भौतिको यो वै स बहिर्धा पुरुषादाकाश उक्तः ॥ " अयं वाव स योऽयमन्तः पुरुष आका- शो यो वै सोऽन्तः पुरुष आकाशः ॥ ८॥ अयं वाव सः, योऽयमन्तः पुरुषे शरीरे आकाशः । यो वै सोऽन्तः पुरुष आकाशः ॥ अयं वाव स योऽयमन्तर्हृदय आका - शस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी‍ श्रियं लभते य एवं वेद ॥ ९ ॥ इति द्वादशः खण्डः ॥ छान्दोग्योपनिषद्भाष्ये - [ख. अयं वाव सः, योऽयमन्तर्हृदये हृदयपुण्डरीके आकाशः । कथमेकस्य सत आकाशस्य त्रिधा भेद इति, उच्यते-वा- ह्येन्द्रियविषये जागरितस्थाने नभसि दुःखवाहुल्यं दृश्यते । ततोऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति । स्व- मान्पश्यतो हृदयस्थे पुनर्नभसि न कंचन कामं कामयते न कंचन स्वप्नं पश्यति । अतः सर्वदुःखनिवृत्तिरूपमाकाशं सु- षुप्तस्थानम् । अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् । बहिर्धा पुरुषादारभ्य आकाशस्य हृदये संकोचकरणं चेत:- समाधानस्थानस्तुतये —— यथा 'त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते । अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्' इति, तद्वत् । तदेतद्धार्दाकाशाख्यं त्रह्म पूर्ण सर्वगतम्, न हृदय- मात्र परिच्छिन्नमिति मन्तव्यम्, यद्यपि हृदयाकाशे चेतः समाधीयते । अप्रवर्ति न कुतश्चित्कचित्प्रवर्तितुं शीलमस्येत्य- प्रवर्ति, तदनुच्छित्तिधर्मकम् । यथा अन्यानि भूतानि परि- च्छिन्नान्युच्छित्तिधर्मकाणि, न तथा हार्द नभः । पूर्णामप्रवर्ति- नीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टम् । य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानाति इहैव जीवन् तद्भावं प्रतिपद्यत इत्यर्थः ॥ इति द्वादशखण्डभाष्यम् ॥ त्रयोदशः खण्डः ॥ तस्य ह वा एतस्य हृदयस्य पञ्च देव- सुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्च- क्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपा- सीत तेजस्व्यन्नादो भवति य एवं वेद । तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण: उपास- नाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते । यथा लोके द्वारपाला: राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति, तथेहापीति । तस्य इति प्रकृतस्य हृदयस्येत्यर्थः । एतस्य अनन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याकाः देवानां सुषय: देव- सुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैः प्राणादित्यादिभिः रक्ष्यमाणानि इत्यतो देवसुषय: ; तस्य स्वर्गलोकभवनस्य हृद- यस्य अस्य यः प्राङ्सुषि: पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राण:; तत्स्थः तेन द्वारेण यः संचरति वायुविशेष: स प्रागनितीति प्राणः । तेनैव संवद्धमव्यतिरिक्तं तच्चक्षुः ; तथैव स आदित्य: 'आदित्यो ह वै बाह्यप्राण:' इति श्रुतेः चक्षुरूपप्रतिष्ठाक्रमेण हृदि स्थितः ; 'स आदित्यः कस्मि- छान्दोग्योपनिषद्भाष्ये [ख. प्रतिष्ठित इति चक्षुषि' इत्यादि हि वाजसनेयके । प्राण- वायुदेवतैव हि एका चक्षुरादित्यश्च सहाश्रयेण । वक्ष्यति च- प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति । तदेतत् प्राणाख्यं स्वर्गलोकद्वारपालत्वात् ब्रह्म । स्वर्गलोकं प्रतिपि- त्सुः तेजस्वी एतत् चक्षुरादित्यस्वरूपेण अन्नाद्यत्वाच्च सवितुः तेज: अन्नाद्यम् इत्याभ्यां गुणाभ्याम् उपासीत । ततः तेज- स्व्यन्नादश्च आमयावित्वरहितो भवति ; य एवं वेद तस्यै- तद्गुणफलम् । उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्तिहेतु- भवतीति मुख्यं च फलम् ॥ अथ योऽस्य दक्षिणः सुषिः स व्यान- स्तच्छ्रोत्र स चन्द्रमास्तदेतच्छ्रीश्च यश- चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ २ ॥ अथ योऽस्य दक्षिण: सुषिः तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन् विगृह्य वा प्राणापानौ नाना वा अनि- तीतिं व्यान: । तत्संबद्धमेव च तच्छ्रोत्रमिन्द्रियम् । तथा स चन्द्रमाः -श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च इति श्रुतेः । सहा- - श्रयौ पूर्ववत् ; तदेतत् श्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहे- १३.] तृतीयोऽध्यायः । तुत्वम्; अतस्ताभ्यां श्रीत्वम् । ज्ञानान्नवतश्च यशः ख्या- तिर्भवतीति यशोहेतुत्वात् यशस्त्वम् । अतस्ताभ्यां गुणाभ्या- मुपासीतेत्यादि समानम् ॥ २ ॥ अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्य- मित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३ । अथ योऽस्य प्रत्यङ्सुषि: पश्चिमः तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन् अधोऽनितीत्यपानः । सा तथा वाक्, तत्संबन्धात्; तथा अग्निः; तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनि- मित्तं तेजः ब्रह्मवर्चसम्, अग्निसंबन्धाद्वृत्तस्वाध्यायस्य । अन्नग्रसनहेतुत्वात् अपानस्य अन्नाद्यत्वम् । समानमन्यत् ॥ अथ योऽस्योदङ्सुषिः स समानस्त- न्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टि- श्वेत्युपासीत कीर्तिमान्त्र्युष्टिमान्भवति य एवं वेद ॥ ४ ॥ अथ योऽस्योदङ् सुषि: उदग्गतः सुषिः तत्स्थो वायु- छान्दोग्योपनिषद्भाष्ये [ख. विशेषः सोऽशितपीते समं नयतीति समानः । तत्संबद्धं मनोऽन्तःकरणम्, स पर्जन्यो वृष्टयात्मको देवः पर्जन्यनि- मित्ताश्च आप इति, 'मनसा सृष्टा आपश्च वरुणश्च' इति श्रुतेः । तदेतत्कीर्तिश्च मनसो ज्ञानस्य कीर्तिहेतुत्वात् । आत्मपरोक्षं विश्रुतत्वं कीर्तिर्यशः । स्वकरणसंवेद्यं विश्रुत- त्वं व्युष्टिः कान्तिर्देहगतं लावण्यम् । ततश्च कीर्तिसंभवा- कीर्तिश्चेति । समानमन्यत् ॥ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्यु- पासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ५ ॥ अथ योऽस्योर्ध्वः सुधिः स उदान: आ पादतलादार- भ्योर्ध्वमुत्क्रमणात् उत्कर्षार्थ च कर्म कुर्वन् अनितीत्युदानः । स वायुः तदाधारश्च आकाशः । तदेतत् वाय्वाकाशयोरोजो- हेतुत्वादोज: बलं महत्वाच्च मह इति । समानमन्यत् ॥ ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदा- १३.] तृतीयोऽध्यायः । स्य कुले वीरो जायते प्रतिपद्यते स्वर्ग लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ६ ॥ ते वा एते यथोक्ताः पञ्चसुषिसंबन्धात् पश्च ब्रह्मणो हार्दस्य पुरुषाः राजपुरुषा इव द्वारस्था: स्वर्गस्य हार्दस्य लोकस्य द्वारपा: द्वारपालाः । एतैर्हि चक्षुः श्रोत्रवाङ्मनः- प्राणैर्वहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धानि । प्रत्यक्षं हि एतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढ- त्वात् न हार्दे ब्रह्मणि मनस्तिष्ठति । तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषा: स्वर्गस्य लोकस्य द्वारपा इति । अतः स य एता- नेवं यथोक्तगुणविशिष्टान् स्वर्गस्य लोकस्य द्वारपान् वेद उपास्ते उपासनया वशीकरोति, स राजद्वारपालानिवोपास- नेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गे लोकं राजान- मिव हार्द ब्रह्म किं च अस्य विदुष: कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् । तस्य च ऋणापाकरणेन ब्रह्मो- पासनप्रवृत्तिहेतुत्वम् । ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम् ॥ ' अथ यदतः परो दियो ज्योतिदप्यते छान्दोग्योपनिषद्भाष्ये विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ७ ॥ " अथ यत् असौ विद्वान् स्वर्ग लोकं वीरपुरुषसेवनात्प्रति- पद्यते, यश्च्चोक्तं त्रिपादस्यामृतं दिवीति, तदिदं लिङ्गेन चक्षुः- श्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथा अग्न्यादि धूमादि- लिङ्गेन । तथा हि एवमेवेदमिति यथोक्ते अर्थे दृढा प्रतीतिः स्यात् - अनन्यत्वेन च निश्चय इति । अत आह— यदतः अमुष्मात् दिवः द्युलोकात् परः परमिति लिङ्गव्यत्ययेन, ज्योतिर्दीप्यते, स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यत इव दीप्यत इत्युच्यते, अग्न्यादिवज्ज्वलनलक्षणाया दीप्तेरसंभवात् । विश्वतः पृष्ठेष्वित्येतस्य व्याख्यानं सर्वतः पृष्ठेष्विति, संसा- रादुपरीत्यर्थः ; संसार एव हि सर्व:, असंसारिणः एकत्वा- न्निर्भेदत्वाच्च । अनुत्तमेषु, तत्पुरुषसमासाशङ्कानिवृत्तये आह उत्तमेषु लोकेष्वति ; सत्यलोकादिषु हिरण्यगर्भादिकार्यरूपस्य परस्येश्वरस्य आसन्नत्वादुच्यते उत्तमेषु लोकेष्वति । इदं वाव इदमेव तत् यदिदमस्मिन्पुरुषे अन्तः मध्ये ज्योति: चक्षुः- श्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन च अवगम्यते । यत् त्वचा १३.] तृतीयोऽध्यायः । स्पर्शरूपेण गृह्यते तचक्षुषैव, दृढप्रतीतिकरत्वात्त्वचः, अवि- नाभूतत्वाच्च रूपस्पर्शयोः T: 11 तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे सँ- स्पर्शेनोष्णमानं विजानाति तस्यैषा श्रु- तिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदधु- रिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ८ ॥ इति त्रयोदशः खण्डः ॥ कथं पुनः तस्य ज्योतिषः लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह— यत्र यस्मिन्काले, एतदिति क्रियाविशेषणम्, अस्मिञ्शरीरे हस्तेन आलभ्य संस्पर्शेन उष्णिमानं रूपसह- भाविनमुष्णस्पर्शभावं विजानाति, स हि उष्णिमा नामरू- पव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिष: लिङ्गम्, अव्यभिचारात् । न हि जीवन्तमात्मानमुष्णिमा व्यभिचर- ति । उष्ण एव जीविष्यन् शीतो मरिष्यन् इति हि विज्ञा- यते । मरणकाले च तेजः परस्यां देवतायामिति परेणाविभाग- छान्दोग्योपनिषद्धाप्ये [ख. त्वोपगमात् । अतः असाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः । अ- तस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः । तथा तस्य ज्योतिषः एषा श्रुतिः श्रवणं श्रवणोपायो ऽप्युच्य- मान: । यत्र यदा पुरुष: ज्योतिषो लिङ्गं शुश्रूपति श्रोतुमि च्छति, तदा एतत् कर्णावपिगृह्य, एतच्छब्दः क्रियाविशेषणम्, अपिगृह्य अपिधायेत्यर्थः, अङ्गुलिभ्यां प्रोर्णुल निनदमिव रथस्येव घोषो निनदः तमिव शृणोति, नदधुरिव ऋषभकूजित- मित्र शब्दः, यथा च अमेर्वहिर्व्वलतः एवं शब्दमन्तः शरीरे उपशृणोति, तदेतत् ज्योति: दृष्टश्रुतलिङ्गत्वात् दृष्टुं च श्रुतं च इत्युपासीत । तथोपासनात् चक्षुष्यः दर्शनीयः श्रुतः विथु- तश्च । यत् स्पर्शगुणोपासननिमित्तं फलं तत् रूपे संपादयति चक्षुष्य इति, रूपस्पर्शयोः सहभावित्वात् इष्टत्वाच्च दर्शनी- यतायाः । एवं च विद्यायाः फलमुपपन्नं स्यात्, न तु मृदुत्वा- दिस्पर्शवत्त्वे । य एवं यथोक्तौ गुणौ वेद । स्वर्गलोकप्रतिप- त्तिस्तु उक्तमदृष्टं फलम् । द्विरभ्यासः आदरार्थः ॥ " इति त्रयोदशखण्डभाष्यम् ॥ พ चतुर्दशः खण्डः ॥ पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणोऽनन्तगुणवतोऽनन्तश- तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्त्वेनोपासनं विधि- त्सन् आह— सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत ॥ १ ॥ सर्व समस्तम्, खल्विति वाक्यालंकारार्थो निपातः । इदं जगत् नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्म कारणम् ; वृद्धतम- त्वात् ब्रह्म । कथं सर्वस्य ब्रह्मत्वमित्यत आह- तज्जलानि- ति; तस्माद्ब्रह्मणो जातं तेजोवन्नादिक्रमेण सर्वम्; अतः तज्जम् ; तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तलम् ; तथा तस्मिन्नेव स्थितिकाले, अनिति प्राणिति चेष्टत इति । एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टम्, तद्व्यतिरेकेणाग्रहणात् । अतः तदेवेदं जगत् । यथा च इदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण व- क्ष्यामः । यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तः रागद्वेषादिदो- षरहितः संयत: सन्, यत् तत्सर्वं ब्रह्म तत् वक्ष्यमाणैर्गुणैरुपा- सीत । कथमुपासीत ? ऋतुं कुर्वीत ऋतुः निश्चयोऽध्यवसायः 1 S. U. III. 22 - छान्दोग्योपनिषद्भाष्ये [ख. एवमेव नान्यथेत्यविचलः प्रत्यय:, तं क्रतुं कुर्वीत उपासीत इत्यनेन व्यवहितेन संवन्धः । किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ? कथं वा ऋतुः कर्तव्यः ? क्रतुकरणं च अभि- प्रेतार्थसिद्धिसाधनं कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थम् अथे- त्यादिग्रन्थः । अथ खत्विति हेत्वर्थः । यस्मात्क्रतुमयः ऋतुप्रायोऽध्यवसायात्मकः पुरुषः जीवः ; यथाक्रतुः यादृशः ऋतुः अस्य सोऽयं यथाक्रतुः यथाध्यवसायः यादृनिश्च- यः अस्मिल्लोके जीवन् इह पुरुषो भवति, तथा इतः अस्मा- देहात् प्रेत्य मृत्वा भवति ; ऋत्वनुरूपफलात्मको भवती- त्यर्थः । एवं हि एतच्छास्त्रतो दृष्टम् —' यं यं वापि स्मर- न्भावं त्यजत्यन्ते कलेवरम्' इत्यादि । यत एवं व्यवस्था शास्त्रदृष्टा, अतः सः एवं जानन् ऋतुं कुर्वीत ; यादृशं ऋतुं वक्ष्यामः तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलम्, अतः स कर्तव्यः क्रतुः ॥ - मनोमयः प्राणशरीरो भारूपः सत्य- संकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवा- क्यनादरः ॥ २॥ कथम् ? मनोमयः मनः प्रायः ; मनुतेऽनेनेति मनः तत् १४.] तृतीयोऽध्यायः । स्ववृत्त्या विषयेषु प्रवृत्तं भवति, तेन मनसा तन्मयः; तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च । अत एव प्राणशरीर: प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वय संमूर्च्छितः, 'यो वै प्राण: सा प्रज्ञा या वा प्रज्ञा स प्राण:' इति श्रुते: । सः शरीरं यस्य स प्राणशरीरः, 'मनोमयः प्राणशरीर- नेता' इति च श्रुत्यन्तरात् । भारूप: भा दीप्तिः चैतन्य- लक्षणं रूपं यस्य सः भारूपः । सत्यसंकल्पः सत्या अवितथा: संकल्पाः यस्य, सोऽयं सत्यसंकल्पः ; न यथा संसारिण इवानैकान्तिकफल: संकल्प ईश्वरस्येत्यर्थः । सं- सारिणः अनृतेन मिथ्या फलत्वहेतुना प्रत्यूढत्वात् संकल्पस्य मिथ्याफलत्वं वक्ष्यति—' अनृतेन हि प्रत्यूढा: ' इति । आका- शात्मा आकाश इव आत्मा स्वरूपं यस्य सः आकाशात्मा । सर्वगतत्वं सूक्ष्मत्वं रूपादिहीनत्वं च आकाशतुल्यता ईश्व- रस्य । सर्वकर्मा सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्म यस्य स सर्वकर्मा, ' स हि सर्वस्य कर्ता' इति श्रुतेः । सर्वकामः सर्वे कामा दोषरहिता अस्येति सर्वकाम:, 'धर्मा- विरुद्धो भूतेषु कामोऽस्मि' इति स्मृतेः । ननु कामोऽस्मीति वचनात् इह बहुव्रीहिर्न संभवति सर्वकाम इति । न, काम- स्य कर्तव्यत्वात् शब्दादिवत्पारार्थ्यप्रसङ्गाच्च देवस्य । तस्मात् छान्दोग्योपनिषद्भाष्ये [ख- यथेह सर्वकाम इति बहुव्रीहिः, तथा कामोऽस्मीति स्मृत्यर्थो वाच्यः । सर्वगन्धः सर्वे गन्धाः सुखकरा अस्य सोऽयं सर्वगन्ध:, 'पुण्यो गन्धः पृथिव्याम्' इति स्मृतेः । तथा रसा अपि विज्ञेया: ; अपुण्यगन्धरसग्रहणस्य पाप्मसंबन्धनिमित्त- त्वश्रवणात्, 'तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च । पाप्मना ह्येष विद्ध:' इति श्रुतेः । न च पाप्मसंसर्ग ईश्व- रस्य, अविद्यादिदोषस्यानुपपत्तेः । सर्वमिदं जगत् अभ्यात्तः अभिव्याप्तः । अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा । तथा अवा- की— उच्यते अनयेति वाक् वागेव वाकः, यद्वा वचेर्घञन्त- स्य करणे वाकः, स यस्य विद्यते स वाकी, न वाकी अ- वाकी । वाक्प्रतिषेधश्च अत्र उपलक्षणार्थ: । गन्धरसादि- श्रवणात् ईश्वरस्य प्राप्तानि घ्राणादीनि करणानि गन्धादि - ग्रहणाय ; अत: वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ; अपा- णिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ' इत्यादिमत्रवर्णात् । अनादरः असंभ्रमः; अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य । न तु आप्तकामत्वात् नित्यतृप्तस्ये- श्वरस्य संभ्रमोऽस्ति कचित् ॥ एष म आत्मान्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक- तण्डुलाद्वैष म आत्मान्तर्हृदये ज्याया - १४.] तृतीयोऽध्यायः । न्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दि- वो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥ एषः यथोक्तगुणः मे मम आत्मा अन्तर्हृदये हृदयपुण्ड- रोकस्यान्तः मध्ये अणीयान् अणुतरः, व्रीहेर्वा यवाद्वा इत्यादि अत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् । श्यामाकाद्वा श्यामाकतण्डुलाद्वा इति परिच्छिन्नपरिमाणात् अणीयानित्युक्तेऽणुपरिमाणत्वं अतः तत्प्रतिषेधायारभते- प्राप्तमाशङ्कय, - - एष म आत्मा- न्तर्हृदये ज्यायान्पृथिव्या इत्यादिना । ज्यायः परिमाणाच ज्यायस्त्वं दर्शयन् अनन्तपरिमाणत्वं दर्शयति - मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन ॥ सर्वकर्मा सर्वकामः सर्वगन्धः सर्व- रसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मेतमितः प्रेत्या- भिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥ यथोक्तगुणलक्षणः ईश्वरः ध्येयः, न तु तद्गुणविशिष्ट एव—यथा राजपुरुषमानय चित्रगुं वा इत्युक्ते न विशेष- छान्दोग्योपनिषद्भाष्ये [ख. णस्याप्यानयने व्याप्रियते, तद्वदिहापि प्राप्तम्; अतस्तन्नि- वृत्त्यर्थं सर्वकर्मेत्यादि पुनर्वचनम् । तस्मात् मनोमयत्वादिगु- विशिष्ट एवेश्वरो ध्येयः । अत एव षष्ठसप्तमयोरिव 'त- त्वमसि' 'आत्मैवेदं सर्वम्' इति नेह स्वाराज्येऽभिषि- वति, एष म आत्मा एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मि इति लिङ्गात् ; न तु आत्मशब्देन प्रत्यगात्मैव उच्यते, ममेति षष्ठयाः संबन्धार्थप्रत्यायकत्वात्, एतमभिसंभवितास्मीति च कर्मकर्तृत्वनिर्देशात् । ननु षष्ठेऽपि 'अथ संपत्स्ये' इति सत्संपत्तेः कालान्तरितत्वं दर्शयति । न, आरब्धसंस्कारशे- षस्थित्यर्थपरत्वात् ; न कालान्तरितार्थता, अन्यथा तत्त्व- मसीत्येतस्यार्थस्य बाधप्रसङ्गात् । यद्यपि आत्मशब्दस्य प्र- त्यर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतम् एष म आत्मा- न्तर्हृदय एतद्ब्रह्मेत्युच्यते, तथापि अन्तर्धानमीषदपरित्यज्यैव एतमात्मानं इतः अस्माच्छरीरात् प्रेत्य अभिसंभवितास्मी- त्युक्तम् । यथाक्रतुरूपस्य आत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्यात् भवेत् अद्धा सत्यम् एवं स्यामहं प्रेत्य, एवं न स्यामिति न च विचिकित्सा अस्ति इत्येतस्मिन्नर्थे क्रतुफलसंबन्धे, स तथैवेश्वरभावं प्रतिपद्यते विद्वान् इत्येतदाह स्म उक्तवान्किल शाण्डिल्यो नाम ऋषिः । द्विरभ्यासः आदरार्थः ॥ " इति चतुर्दशखण्डभाष्यम् ॥ पञ्चदशः खण्डः ॥ 'अस्य कुले वीरो जायते' इत्युक्तम् । न वीरजन्ममात्रं पितुस्त्राणाय, ' तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः' इति श्रुत्य- न्तरात् । अतस्तद्दीर्घायुष्यं कथं स्यादित्येवमर्थ कोशविज्ञाना- रम्भः । अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदा- नीमेव आरभ्यते— अन्तरिक्षोदरः कोशो भूमिवुनो न जीर्यति दिशो यस्य स्रक्तयो चौरस्योत्त रं बिल स एष कोशो वसुधानस्तस्मि- न्विश्वमिद‍ श्रितम् ॥ १ ॥ ' अन्तरिक्षम् उदरम् अन्तः सुषिरं यस्य सोऽयम् अन्तरिक्ष- दरः, कोशः कोश इव अनेकधर्मसादृश्यात्कोशः ; स च भूमि- बुध्नः भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नः, न जीर्यति नवि- नश्यति त्रैलोक्यात्मकत्वात् । सहस्रयुगकालावस्थायी हि स: । दिशो हि अस्य सर्वाः स्रक्तयः कोणाः । द्यौरस्य कोशस्य उत्तरम ऊर्ध्वं विलम् ; स एष यथोक्तगुणः कोश: वसुधानः वसु धीयतेऽस्मिन्प्राणिनां कर्मफलाख्यम्, अतो वसुधानः । तस्मिन्नन्तः विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैः इदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितम् आश्रितं स्थितमित्यर्थः ॥ छान्दोग्योपनिषद्भाष्ये तस्य प्राची दिग्जुहूर्नाम सहमाना ना- म दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एत- मेवं वायुं दिशां वत्सं वेद न पुत्ररोद‍ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोद ँ रुदम् ॥ २ ॥ " [ख- तस्यास्य प्राची दिक् प्राग्गतो भागः जुहूर्नाम जुह्वत्यखां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूर्नाम । सहमाना नाम सहन्तेऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणा दिक् । तथा राज्ञी नाम प्रतीची पश्चिमा दिक् राज्ञी राज्ञा वरुणेनाधिष्ठिता, संध्यारागयो- गाद्वा । सुभूता नाम भूतिमद्भिरीश्वरकुवेरादिभिरधिष्ठितत्वात् सुभूता नाम उदीची । तासां दिशां वायुः वत्सः, दिग्जत्वा- द्वायो:, पुरोवात इत्यादिदर्शनात् । स यः कश्चित् पुत्रदीर्घजी- वितार्थी एवं यथोक्तगुणं वायुं दिशां वत्सम् अमृतं वेद, स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति, पुत्रो न म्रियत इत्यर्थः । यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानम्, अतः सोऽहं पुत्रजीवितार्थी एवमेतं वायुं दिशां वत्सं वेद १५.] तृतीयोऽध्यायः । जाने । अतः पुत्ररोदं मा रुदं पुत्रमरणनिमित्तं पुत्ररोदो मम मा भूदित्यर्थः ॥ अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्रा- णं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुना- मुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३ ॥ अरिष्टम् अविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नोऽस्मि पुत्रायुषे । अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य । तथा प्राणं प्रपद्येऽमुनामुनामुना, भूः प्रपद्येऽमुनामुनामुना, भुवः प्रपद्येऽमुनामुनामुना, स्वः प्रपद्येऽमुनामुनामुना, सर्वत्र प्रपद्ये इति त्रिर्नाम गृह्णाति पुनः पुनः ॥ स यदवोचं प्राणं प्रपद्य इति प्राणो वा इद ँ सर्व भूतं यदिदं किंच तमेव तत्प्रा- पत्सि ॥ ४ ॥ स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः । प्राणो वा इद सर्व भूतं यदिदं जगत् । ' यथा वारा नाभौ ' इति वक्ष्यति । अतस्तमेव सर्वं तत् तेन प्राणप्रतिपादनेन प्रापत्सि प्रपन्नोऽभूवम् । छान्दोग्योपनिषद्वाप्य अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥ [ख- तथा भूः प्रपद्ये इति त्रीलोकान्भूरादीन्प्रपद्ये इति तदवो - चम् ॥ अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवो- चम् ॥ ६ ॥ अथ यदवोचं भुवः प्रपद्ये इति, अग्न्यादीन्प्रपद्ये इति तदवोचम् ॥ अथ यदवोचः स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ७ ॥ इति पञ्चदशः खण्डः ॥ ' अथ यदवोचं स्वः प्रपद्ये इति ऋग्वेदादीन्प्रपद्ये इत्येव तदवोचमिति । उपरिष्टान्मन्त्रान् जपेत् ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा । द्विर्वचनमादरार्थम् ॥ इति पञ्चदशखण्डभाष्यम् ॥ षोडशः खण्डः ॥ पुत्रायुष उपासनमुक्तं जपश्च । अथेदानीमात्मनः दीर्घ- जीवनायेदमुपासनं जपं च विदधदाह; जीवन्हि स्वयं पुत्रा- दिफलेन युज्यते, नान्यथा । इत्यतः आत्मानं यज्ञं संपादयति पुरुषः- पुरुषो वाव यज्ञस्तस्य यानि चतुर्विश- ति वर्षाणि तत्प्रातःसवनं चतुर्विशत्यक्ष- रा गायत्री गायत्रं प्रातः सवनं तदख व- सवोऽन्वायत्ताः प्राणा वाव वसव एते हीद सर्व वासयन्ति ॥ १ ॥ पुरुष: जीवनविशिष्टः कार्यकरणसंघातः यथाप्रसिद्ध एव; वावशब्दोऽवधारणार्थ : ; पुरुष एव यज्ञ इत्यर्थः । तथां हि सामान्यैः संपादयति यज्ञत्वम् । कथम् ? तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषः, तत्प्रातः सवनं पुरुषा- ख्यस्य यज्ञस्य । केन सामान्येनेति, आह— चतुर्विंशत्यक्षरा गायत्री छन्दः, गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रात:- छान्दोग्योपनिषद्भाष्ये [ख- सवनम्; अतः प्रातःसवनसंपन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुष: अतो विधियज्ञसादृश्यात् यज्ञः । तथोत्तरयोरप्याः युषोः सवनद्वयसंपत्तिः त्रिष्टुब्जगत्यक्षरसंख्या सामान्यतो वा- च्या । किंच, तदस्य पुरुषयज्ञस्य प्रातः सवनं विधियज्ञस्येव वसवः देवा अन्वायत्ता: अनुगताः; सवनदेवतात्वेन स्वा- मिन इत्यर्थः । पुरुषयज्ञेऽपि विधियज्ञ इव अग्न्यादयो वस- व: देवाः प्राप्ता इत्यतो विशिनष्टि - प्राणा वाव वसवः वा- गादयो वायवश्च । एते हि यस्मात् इदं पुरुषादिप्राणिजातम् एते वासयन्ति । प्राणेषु हि देहे वसत्सु सर्वमिदं वसति, नान्यथा । इत्यतो वसनाद्वासनाच वसत्रः ॥ तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं मा- ध्यंदिन सवनमनु संतनुतेति माहं प्राणा- नां वसूनां मध्ये यज्ञो विलोप्सयेित्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥ तं चेत् यज्ञसंपादिनम् एतस्मिन् प्रातः सवनसंपन्ने वयसि किंचित् व्याध्यादि मरणशङ्काकारणम् उपतपेत् दुःखमुत्पा- दयेत्, स तदा यज्ञसंपादी पुरुषः आत्मानं यज्ञं मन्यमानः १६. ] तृतीयोऽध्यायः । ब्रूयात् जपेदित्यर्थः इमं मन्त्रम् - हे प्राणाः वसवः इदं मे प्रातःसवनं मम यज्ञस्य वर्तते, तत् माध्यंदिनं सवनम् अनुसंत- नुतेति माध्यंदिनेन सवनेन आयुषा सहितं एकीभूतं संततं कुरुतेत्यर्थः । मा अहं यज्ञः युष्माकं प्राणानां वसूनां प्रातःसव- नेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः । इति- शब्दो मन्त्रपरिसमात्यर्थ: । स तेन जपेन ध्यानेन च ततः तस्मादुपतापात् उत् एति उद्गच्छति । उद्गम्य विमुक्तः सन् अगदोह अनुपतापो भवत्येव ॥ अथ यानि चतुश्चत्वारिशद्वर्षाणि तन्माध्यंदिन‍ सवनं चतुश्चत्वारिशद- क्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदिन सवनं त- दस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते ही सर्व रोदयन्ति ॥ ३ ॥ अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् । रुदन्ति रोदयन्तीति प्राणा रुद्राः । क्रूरा हि ते मध्यमे वयसि, अतो रुद्राः ॥ 1 तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यंदिन सवनं छान्दोग्योपनिषद्भाष्ये तृतीयसवनमनुसंतनुतेति माहं प्राणाना रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्वैव तत एत्यगदो ह भवति ॥ ४ ॥ अथ यान्यष्टाचत्वारिशद्वर्षाणि त- तृतीयसवनमष्टाचत्वारिशदक्षरा जग- ती जागतं तृतीयसवनं तदस्यादित्या अ- न्वायत्ताः प्राणा वावादित्या एते हीद सर्वमाददते ॥ ५ ॥ [ख. तं चेदस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवन- मायुरनुसंतनुतेति माहं प्राणानामादि- त्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत. एत्यगदो हैव भवति ॥ ६ ॥ तथा आदित्याः प्राणाः । ते हि इदं शब्दादिजातम् आददते, अत आदित्याः । तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयत अनुसंतनुत यज्ञं समापयतेत्यर्थः । समानम- न्यत् ॥ १६.] तृतीयोऽध्यायः । निश्चिता हि विद्या फलायेत्येतद्दर्शयन उदाहरति- एतद्ध स्म वै तद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहम- नेन न प्रेष्यामीति स ह षोडशं वर्षशत- मजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ७ ॥ इति षोडशः खण्डः ॥ एतत् यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो ना- मतः ; इतराया अपत्यम् ऐतरेयः । किं कस्मात् मे मम एतत् उपतपनम् उपतपसि सत्वं हे रोग; योऽहं यज्ञः अनेन त्व- स्कृतेनोपतापेन न प्रेष्यामि न मरिष्यामि ; अतो वृथा तव श्रम इत्यर्थः । इत्येवमाह स्म -इति पूर्वेण संबन्ध: । स एवंनि- श्चयः सन् षोडशं वर्षशतमजीवत् । अन्योऽप्येवंनिश्चयः षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसंपादनं वेद जानाति, स इत्यर्थः ॥ , इति षोडशखण्डभाष्यम् ॥ सप्तदशः खण्डः ॥ स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥ स यदशिशिपतीत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वे - जैव संबध्यते । यदशिशिषति अशितुमिच्छति ; तथा पिपासति पातुमिच्छति ; यन्न रमते इष्टाद्यप्राप्तिनिमित्तम् ; यदेवंजातीयकं दुःखमनुभवति, ता अस्य दीक्षाः ; दुःख- सामान्याद्विधियज्ञस्येव ॥ अथ यदश्नाति यत्पिबति यद्रमते तदु- पसदैरेति ॥ २ ॥ अथ यदश्नाति यत्पिबति यद्रमते रतिं च अनुभवति इष्टादिसंयोगात्, तत् उपसदैः समानतामेति । उपसदां च प- योव्रतत्वनिमित्तं सुखमस्ति । अल्पभोजनीयानि च अहान्यास- नानि इति प्रश्वास: ; अतोऽशनादीनामुपसदां च सामान्यम् ॥ अथ यद्धसति यज्जक्षति यन्मैथुनं चर- ति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥ अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति, स्तुत- शस्त्रैरेव तत्समानतामेति ; शब्दवत्त्वसामान्यात् ॥ अथ यत्तपो दानमार्जवमहिसा सत्य- वचनमिति ता अस्य दक्षिणाः ॥ ४ ॥ १७.] तृतीयोऽध्यायः । अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति, ता अस्य दक्षिणाः, धर्मपुष्टिकरत्वसामान्यात् ॥ तस्मादाहुः सोष्यत्यसोष्ठेति पुनरुत्पा- दनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥ यस्माच्च यज्ञः पुरुषः, तस्मात् तं जनयिष्यति माता यदा, तदा आहुरन्ये सोष्यतीति तस्य मातरम् ; यदा च प्रसूता भवति, तदा असोष्ट पूर्णिकेति; विधियज्ञे इव सोध्यति सोमं देवदत्तः, असोष्ट सोमं यज्ञदत्त इति ; अतः शब्दसामान्याद्वा पुरुषो यज्ञः । पुनरुत्पादनमेवास्य तत् पुरुषाख्यस्य यज्ञस्य, यत्सोष्यत्यसोष्टेति शब्दसंबन्धित्वं विधियज्ञस्येव । किंच तन्म- रणमेव अस्य पुरुषयज्ञस्य अवभृथः समाप्तिसामान्यात् ॥ ' तद्वैतद्वोर आङ्गिरसः कृष्णाय देवकी- पुत्रायक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षित- मस्यच्युतमसि प्राणस शितमसीति त- चैते द्वे ऋचौ भवतः ॥ ६ ॥ तद्वैतत् यज्ञदर्शनं घोरः नामतः, आङ्गिरसः गोत्रतः, कृष्णाय देवकीपुत्राय शिष्याय उक्त्वा, उवाच तदेतत्रयम् इत्यादिव्यवहितेन संबन्धः । स च एतद्दर्शनं श्रुत्वा अपि- S. U. III. 23 छान्दोग्योपनिषद्भाष्ये [ख. पास एवान्याभ्यो विद्याभ्यो बभूव । इत्थं च विशिष्टा इयम्, यत्कृष्णस्य देवकीपुत्रस्य अन्यां विद्यां प्रति तृड्डिच्छेदकरी इति पुरुषयज्ञविद्यां स्तौति । घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति, तदाह – स एवं यथोक्तयज्ञवित् अन्त- वेलायां मरणकाले एतत् मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः । किं तत् ? अक्षितम् अक्षीणम् अक्षतं वा असि इत्येकं यजुः । सा- मर्थ्यादादित्यस्थं प्राणं च एकीकृत्य आह । तथा तमेव आह, अच्युतं स्वरूपादप्रच्युतमसि इति द्वितीयं यजुः । प्राणसं- शितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत् त्वमसि इति तृतीयं यजुः । तत्र एतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतः, न जपार्थे, त्र्यं प्रतिपद्येत इति त्रित्वसंख्यावा- धनात् ; पञ्चसंख्या हि तदा स्यात् ॥ आदित्प्रत्नस्य रेतसः । उयं तमस- स्परि ज्योतिः पश्यन्त उत्तर खः पश्य- न्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योति- रुत्तममिति ज्योतिरुत्तममिति ॥ ७ ॥ आदित् इत्यत्र आकारस्यानुवन्धस्तकारः अनर्थक इच्छ- व्दश्च । प्रन्नस्य चिरंतनस्य पुराणस्येत्यर्थः ; रेतस: कारणस्य बीजभूतस्य जगत:, सदाख्यस्य ज्योति: प्रकाशं १७.] तृतीयोऽध्यायः । १९.१ मन्त्र- पश्यन्ति । आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन संबध्यते ; किं तज्ज्योतिः पश्यन्ति; वासरम् अहः अहरिव तत् सर्वतो व्याप्तं ब्रह्मणो ज्योति:; निवृत्तचक्षुषो ब्रह्मविदः ब्रह्मचर्या- दिनिवृत्तिसाधनैः शुद्धान्त:करणाः आ समन्ततः ज्योति: पश्यन्तीत्यर्थः । परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्पर- त्वात्, यत् इध्यते दीप्यते दिवि द्योतनवति परस्मिन्त्रह्मणि वर्तमानम् येन ज्योतिषेद्धः सविता तपति चन्द्रमाभाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते । किं च, अन्यो हगाह यथोक्तं ज्योतिः पश्यन् — उद्वयं तमसः अज्ञानलक्षणा- तु परि परस्तादिति शेषः ; तमसो वा अपनेतृ यज्ज्योति: उत्तरम् - आदित्यस्थं परिपश्यन्तः वयम् उत् अगन्म इति व्यवहितेन संबन्ध: ; तज्ज्योतिः स्वः स्वम् आत्मीयमस्मद्वृदि स्थितम, आदित्यस्थं च तदेकं ज्योतिः ; यत् उत्तरम् उत्कृष्टत- रमूर्ध्वतरं वा अपरं ज्योतिरपेक्ष्य, पश्यन्तः उद्गन्म वयम् । कमुद्गन्मेति, आह । देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु, सूर्य रसानां रश्मीनां प्राणानां च जगतः ईरणात्सूर्यः तमुद्ग- न्म गतवन्तः, ज्योतिरुत्तमं सर्वज्योति उत्कृष्टतमम् अहो प्राप्ता वयमित्यर्थः । इदं तज्ज्योतिः, यत् ऋग्भ्यां स्तुतं यद्यजु- स्त्रयेण प्रकाशितम् । द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥ इति सप्तदशखण्डभाष्यम् ॥ अष्टादशः खण्डः ॥ मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधि- दैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्य- ध्यात्मं चाधिदैवतं च ॥ १ ॥ मनोमय ईश्वर उक्तः आकाशात्मेति च ब्रह्मणो गुणैक- देशत्वेन । अथेदानीं मनआकाशयोः समस्तत्रह्मदृष्टिविधा- नार्थ आरम्भः मनो ब्रह्मेत्यादि । मनः मनुतेऽनेनेत्यन्त:- करणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनम् अध्यात्मम् । अथ अधिदैवतं देवताविषयमिदं वक्ष्यामः । आकाशो ब्रह्मेत्युपासीत ; एवमुभयमध्यात्ममधिदैवतं च उभयं ब्रह्मदृष्टिविषयम् आदिष्टम् उपदिष्टं भवति; आकाशमनसोः सूक्ष्मत्वात् मनसोपलभ्यत्वाच्च ब्रह्मणः, योग्यं मनो ब्रह्म- दृष्टेः, आकाशश्च, सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच ॥ तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पाद- चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथा- धिदैवतमग्निः पादो वायुः पाद आदित्यः १८.] तृतीयोऽध्यायः । पादो दिशः पाद इत्युभयमेवादिष्टं भव- त्यध्यात्मं चैवाधिदैवतं च ॥ २ ॥ तदेतत् मनआख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति । कथं चतुष्पात्त्वं मनसो ब्रह्मण इति, आह— वाक्प्राणश्चक्षुः- श्रोत्रमित्येते पादाः इत्यध्यात्मम् । अथाधिदैवतम् आकाशस्य ब्रह्मणोऽग्निर्वायुरादित्यो दिश इत्येते । एवमुभयमेव चतुष्पा- द्ब्रह्म आदिष्टं भवति अध्यात्मं चैवाधिदैवतं च । तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादवयापेक्षया - वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति तिष्ठति ; अतो मनसः पाद इव वाक् । तथा प्राणो घ्राणः पादः ; तेनापि गन्ध- विषयं प्रति च क्रामति । तथा चक्षुः पादः श्रोत्रं पाद इत्ये- वमध्यात्मं चतुष्पात्त्वं मनसो ब्रह्मणः । अथाधिदैवतम् अभि- वाय्वादित्यदिशः आकाशस्य ब्रह्मण उदर इव गोः पादा इव लग्ना उपलभ्यन्ते ; तेन तस्य आकाशस्य अग्न्यादयः पादा उच्यन्ते । एवमुभयमध्यात्मं चैवाधिदैवतं च चतुष्पादादिष्टं भवति ॥ वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च छान्दोग्योपनिषद्भाष्ये तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥ . [ख. तत्र वागेव मनसो ब्रह्मणश्वतुर्थः पादः । सोऽग्निना अ- धिदैवतेन ज्योतिषा भाति च दीप्यते तपति च संतापं च औंष्ण्यं करोति । अथवा तैलघृताद्याग्नेयाशनेन इद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः । विद्वत्फलम्, भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं यथोक्तं वेद ॥ प्राण एव ब्रह्मणश्वतुर्थः पादः स वायु- ना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ । चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदि- त्येन ज्योतिषा भाति च तपति च भा- ति च तपति च कीर्त्या यशसा ब्रह्मवर्च- सेन य एवं वेद ॥ ५ ॥ श्रोत्रमेव ब्रह्मणञ्चतुर्थः पादः स दि- १८.] तृतीयोऽध्यायः । ग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ इति अष्टादशः खण्डः ॥ तथा प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना गन्धाय भाति च तपति च । तथा चक्षुः आदित्येन रूपग्रह- णाय, श्रोत्रं दिग्भिः शब्दग्रहणाय । विद्याफलं समानं सर्वत्र ब्रह्मसंपत्तिरदृष्टं फलं य एवं वेद । द्विरुक्तिर्दर्शनसमात्यर्था । इति अष्टादशखण्डभाष्यम् ॥ एकोनविंशः खण्डः ॥ आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकल ब्रह्मदृष्ट्य- र्थमिदमारभ्यते— आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्या- नमसदेवेदमग्र आसीत् । तत्सदासीत्त- त्समभवत्तदाण्डं निरवर्तत तत्संवत्सरख मात्रामशयत तन्निरभिद्यत ते आण्डक- पाले रजतं च सुवर्ण चाभवताम् ॥ १ ॥ आदित्यो ब्रह्मेत्यादेशः उपदेशः; तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् । असत् अव्याकृतनामरूपम् इदं जगत् अशेषमग्रे प्रागवस्थायामुत्पत्तेः आसीत्, न त्वसदेव ; ' कथमसत: सज्जा- येत' इति असत्कार्यत्वस्य प्रतिषेधात् । ननु इहासदेवेति विधानाद्विकल्पः स्यात् । न, क्रियास्विव वस्तुनि विकल्पानु- पपत्तेः । कथं तर्हि इदमसदेवेति ? नन्ववोचाम अव्याकृतनाम- रूपत्वादसदिवासदिति । नन्वेवशब्दोऽवधारणार्थः; सत्यमे- वम, न तु सत्त्वाभावमवधारयति ; किं तर्हि, व्याकृतनाम- १९.] तृतीयोऽध्यायः । रूपाभावमवधारयति ; नामरूपव्याकृतविषये सच्छन्द प्रयोगो दृष्टः । तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगत: । तदभावे हि अन्धं तम इव इदं न प्रज्ञायेत किंचन इत्यतः तत्स्तुतिपरे वाक्ये सदपीदं प्रागुत्पत्तेर्जगदसदेवेत्यादित्यं स्तौ- ति ब्रह्मदृष्टथर्हत्वाय; आदित्यनिभित्तो हि लोके सदिति व्य- वहारः- :- यथा असदेवेदं राज्ञः कुलं सर्वगुणसंपन्ने पूर्णव- मणि राजन्यस्तीति तद्वत् । न च सत्त्वमसत्त्वं वा इह जगत: प्रतिपिपादयिषितम्, आदित्यो ब्रह्मेत्यादेशपरत्वात् । उपसंहरिष्यत्यन्ते आदित्यं ब्रह्मेत्युपास्त इति । तत्सदासीत् तत् असच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितम् अनिस्पन्दमस - दिव सत्कार्याभिमुखम् ईषदुपजातप्रवृत्ति सदासीत् ; ततो ल- व्धपरिस्पन्दं तत्समभवत् अल्पतरनामरूपव्याकरणेन अङ्कुरी- भूतमिव बीजम् । ततोऽपि क्रमेण स्थूलीभवत् अद्भ्यः आण्डं समवर्तत संवृत्तम् । आण्डमिति दैर्घ्य छान्दसम् । तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणम् अभिन्न- स्वरूपमेव अशयत स्थितं बभूव । तत् ततः संवत्सरपरिमा- णात्कालादूर्ध्वं निरभिद्यत निर्भिन्नम् – वयसामिवाण्डम् । तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं च अभवतां संवृत्ते ॥ S. U. III. 24 छान्दोग्योपनिषद्भाष्ये तद्यद्रजत सेयं पृथिवी यत्सुवर्ण सा द्यौर्यजरायु ते पर्वता यदुल्ब समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेय- मुदकस समुद्रः ॥ २ ॥ [ख. तत् तयोः कपालयोः यद्रजतं कपालमासीत्, सेयं पृथि- बी पृथिव्युपलक्षितमधोऽण्डकपालमित्यर्थः । यत्सुवर्ण कपा- लं सा द्यौः लोकोपलश्नितमूर्ध्वं कपालमित्यर्थः । यज्जरायु गर्भपरिवेष्टनं स्थूलम् अण्डस्य द्विशकलीभावकाले आसीत्, ते पर्वता बभूवुः । यदुवं सूक्ष्मं गर्भपरिवेष्टनम्, तत् सह मेधैः समेघः नीहारोऽवश्यायः वभूवेत्यर्थः । या गर्भस्य जातस्य देहे धमनयः शिराः, तानद्यो बभूवुः । यत् तस्य वस्तौ भवं वास्तेयमुदकम्, स समुद्रः ॥ अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनुदतिष्ठन्सर्वा णि च भूतानि सर्वे च कामास्तस्मात्त- स्योदयं प्रति प्रत्यायनं प्रति घोषा उलूल- वोsनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥ १९.] तृतीयोऽध्यायः । अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे, सोऽसावादित्यः ; तमादित्यं जायमानं घोषाः शब्दाः उलूलव: उरूरवो विस्ती- र्णरवाः उदतिष्ठन् उत्थिवन्तः ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्त्रान्नादय: । यस्मादा- दित्यजन्मनिमित्ता भूतकामोत्पत्तिः, तस्मादद्यत्वेऽपि तस्या- दित्यस्योदयं प्रति प्रत्यायनं प्रति अस्तगमनं च प्रति, अथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः ; सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानुति- ष्ठन्ति । प्रसिद्धं हि एतदुदयादौ सवितुः ॥ स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपा- स्तेऽभ्याशो ह यदेन साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ४ ॥ इति एकोनविंशः खण्डः ॥ स यः कश्चित् एतमेवं यथोक्तमहिमानं विद्वान्सन् आ- दित्यं ब्रह्मेत्युपास्ते, स तद्भावं प्रतिपद्यत इत्यर्थः । किंच दृष्टं फलम् अभ्याशः क्षिप्रं तद्विदः, यदिति क्रियाविशेषणम्, एन- मेवंविदं साधवः शोभना घोषाः, साधुत्वं घोषादीनां यदु- छान्दोग्योपनिषद्भाष्ये [ख. पभोगे पापानुबन्धाभाव:, आ च गच्छेयुः आगच्छेयुच, उप च निम्रेडेरन् उपनिम्रेडेरंश्व न केवलमागमनमात्रं घोषाणाम् उपसुखयेयुश्च उपसुखं च कुर्युरित्यर्थः । द्विर- भ्यासः अध्यायपरिसमात्यर्थः आदरार्थश्च ॥ इति एकोनविंशखण्डभाष्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः समाप्तः ॥ MEMORIAL EDITION OF THE WORKS OF SRI SANKARACHARYA. ZV NGAM