श्री १०८ ईश्वर पुस्तकालय, भवन, काशी • ॥ मुण्डकोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता ॥ 'ब्रह्मा देवानाम्' इत्याद्याथर्वणोपनिषत् । अस्याश्च विद्यासंप्रदायकर्तृपारम्पर्यल- क्षणं संबन्धमादावेवाह स्वयमेव स्तु- त्यर्थम् — एवं हि महद्भिः परमपुरु- - षार्थसाधनत्वेन गुरुणायासेन लब्धा विद्येति । श्रोतृबुद्धिप्ररोचनाय विद्यां महीकरोति, स्तुत्या प्ररोचितायां हि विद्यायां सादरा: मुण्डकोपनिषद्भाष्ये प्रवर्तेरन्निति । प्रयोजनेन तु विद्यायाः साध्यसाधनल- क्षणं संबन्धमुत्तरत्र वक्ष्यति 'भिद्यते हृदयग्रन्थिः ' इत्या- दिना । अत्र चापरशब्दवाच्याया ऋग्वेदादिलक्षणाया विधि- प्रतिषेधमात्रपराया विद्यायाः संसारकारणाविद्यादिदोषनि- वर्तकत्वं नास्तीति स्वयमेवोक्त्वा परापरेति विद्याभेदकरणपू- र्वकम् ' अविद्यायामन्तरे वर्तमाना:' इत्यादिना, तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्र- सादलभ्यां ब्रह्मविद्यामाह 'परीक्ष्य लोकान्' इत्यादिना । प्रयोजनं चासकृद्ब्रवीति 'ब्रह्म वेद ब्रह्मैव भवति' इति परामृताः परिमुच्यन्ति सर्वे' इति च । ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारः, तथापि संन्यासनिष्ठैव ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति 'भैक्षचर्यं चरन्त: ' ' संन्या- सयोगात्' इति च ब्रुवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वप्नेऽपि संपादयितुं शक्यम्; विद्याया: कालविशेषाभावादनियतनिमित्तत्वाच्च कालसंकोचानुपपत्तेः । यत्तु गृहस्थेषु ब्रह्मविद्यासंप्रदाय कर्तृ- त्वादि लिङ्गं न तत्स्थितं न्यायं बाधितुमुत्सहते ; न हि विधिशतेनापि तमःप्रकाशयोरेकत्र सद्भावः शक्यते कर्तुम्, किमुत लिङ्गैः केवलैरिति । एवमुक्तसंबन्धप्रयोजनाया उप- प्रथमं मुण्डकम् । निषदोऽल्पग्रन्थं विवरणमारभ्यते । य इमां ब्रह्मविद्यामुप- यन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तः तेषां गर्भजन्म- जरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयत्यविद्या- दिसंसारकारणं वा अत्यन्तमवसादयति विनाशयतीत्युप-. निषत्; उपनिपूर्वस्य सदेरेवमर्थस्मरणात् ॥ 11 ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठा- मथर्वाय ज्येष्ठपुत्राय प्राहं ॥ १ ॥ ब्रह्मा परिवृढो महान् धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यान- तिशेत इति ; देवानां द्योतनवतामिन्द्रादीनां प्रथमः गुणैः प्रधान: सन्, प्रथमः अग्रे वा संवभूव अभिव्यक्तः सम्यक् स्वातन्त्र्येणेत्यभिप्रायः । न तथा यथा धर्माधर्मवशात्संसारि- णोऽन्ये जायन्ते, ' योऽसावतीन्द्रियोऽग्राह्यः' इत्यादिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्ता उत्पादयिता, भुवनस्य उत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । सः एवं प्रख्यातमहत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् ' येनाक्षरं पुरुषं वेद सत्यम्' इति विशेषणात् । मुण्डकोपनिषद्भाष्ये परमात्मविषया हि सा । ब्रह्मणा वाग्रजेनोक्तेति ब्रह्मविद्या । तां ब्रह्मविद्याम्, सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यक्तिहेतुत्वा- त्सर्वविद्याश्रयामित्यर्थः ; सर्वविद्यावेद्यं वा वस्त्वनयैव ज्ञायत इति, 'येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम् ' इति श्रुतेः । सर्वविद्याप्रतिष्ठामिति च स्तौति विद्याम् । अथर्वाय ज्येष्ठपुत्राय ज्येष्ठश्वासौ पुत्रश्च अनेकेषु ब्रह्मण: सृष्टिप्रकारेष्वन्यतमस्य सृष्टिप्रकारस्य प्रमुखे पूर्वम् अथर्वा सृष्ट इति ज्येष्ठ: ; तस्मै ज्येष्ठपुत्राय प्राह प्रोक्तवान् ॥ अथर्वणे यां प्रवदेत ब्रह्मा- थर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥ याम् एताम् अथर्वणे प्रवदेत प्रावदद्ब्रह्मविद्यां ब्रह्मा, तामेव ब्रह्मणः प्राप्ताम् अथर्वा पुरा पूर्वम्; उवाच उक्तवान् अङ्गिरे अङ्गीर्नाने ब्रह्मविद्याम् । स चाङ्गी भारद्वजाय भरद्वाजगोत्राय सत्यवहाय सत्यवहनाने प्राह प्रोक्तवान् । भारद्वाज: अङ्गिरसे स्वशिष्याय पुत्राय वा परावरां पर- स्मात्परस्मादवरेणावरेण प्राप्तेति परावरा परावरसर्वविद्या- प्रथमं मुण्डकम् । विषयव्याप्तेर्वा, तां परावरामङ्गिरसे प्राहेत्यनुषङ्गः ॥ शौनको ह वै महाशालोऽङ्गिरसं वि- धिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो वि- ज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ शौनकः शुनकस्यापत्यं महाशाल: महागृहस्थः अङ्गिरसं भारद्वाजशिष्यमाचार्य विधिवत् यथाशास्त्रमित्येतत् ; उपसन्नः उपगतः सन् पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः संबन्धादर्वा - ग्विधिवद्विशेषणाभावादुपसदनविधेः पूर्वेषामनियम इति गम्य- ते । मर्यादाकरणार्थं विशेषणम् । मध्यदीपिकान्यायार्थ वा वि- शेषणम्, अस्मदादिष्वप्युपसदनविधेरिष्टत्वात् । किमित्याह- कस्मिन्नु भगवो विज्ञाते, नु इति वितर्के, भगवः हे भगवन्, सर्वं यदिदं विज्ञेयं विज्ञातं विशेषेण ज्ञातमवगतं भवतीति 'एकस्मिन्विज्ञाते सर्वविद्भवति' इति शिष्टप्रवादं श्रुतवाञ्शौ- नक: तद्विशेषं विज्ञातुकामः सन्कस्मिन्निति वितर्कयन्पप्रच्छ । अथवा, लोकसामान्यदृष्ट्या ज्ञात्वैव पप्रच्छ । सन्ति हि लोके सुवर्णादिशकलभेदाः सुवर्णत्वाद्येकत्वविज्ञानेन विज्ञायमाना लौकिकैः; तथा किं न्वस्ति सर्वस्य जगद्भेदस्यैकं कारणम्, यत्रैकस्मिन्विज्ञाते सर्वं विज्ञातं भवतीति । नन्वविदिते हि मुण्डकोपनिषद्भाष्ये कस्मिन्निति प्रश्नोऽनुपपन्नः ; किमस्ति तदिति तदा प्रश्नो युक्तः ; सिद्धे ह्यस्तित्वे कस्मिन्निति स्यात्, यथा कस्मिन्निधेय- मिति । न ; अक्षरबाहुल्यादायास भीरुत्वात्प्रश्नः संभवत्येव- किं न्वस्ति तद्यस्मिन्नेकस्मिन्विज्ञाते सर्ववित्स्यादिति ॥ तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चै- वापरा च ॥ ४॥ तस्मै शौनकाय सः अङ्गिराः ह किल उवाच उक्तवान् । किमिति, उच्यते —— द्वे विद्ये वेदितव्ये ज्ञातव्ये इति । एवं ह स्म किल यत् ब्रह्मविदः वेदार्थाभिज्ञा: परमार्थदर्शिनः वद- न्ति । के ते इत्याह- परा च परमात्मविद्या, अपरा च धर्माधर्मसाधनतत्फलविषया । ननु कस्मिन्विदिते सर्वविद्भव- तीति शौनकेन पृष्टम् ; तस्मिन्वक्तव्येऽपृष्टमाहाङ्गिराः - द्वे विद्ये इत्यादि । नैष दोषः, क्रमापेक्षत्वात्प्रतिवचनस्य । अपरा हि विद्या अविद्या; सा निराकर्तव्या तद्विषये हि अविदिते न किंचित्तत्त्वतो विदितं स्यादिति ; ' निराकृत्य हि पूर्वपक्षं पश्चात्सिद्धान्तो वक्तव्यो भवति' इति न्यायात् ॥ तत्रापरा, ऋग्वेदो यजुर्वेदः सामवेदो- प्रथमं मुण्डकम् । ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥ तत्र का अपरेत्युच्यते— ऋग्वेदो यजुर्वेदः सामवेदोऽथ- र्ववेद: इत्येते चत्वारो वेदा: । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इत्यङ्गानि षट् ; एषा अपरा विद्योक्ता । अथ इदानीम् इयं परा विद्योच्यते यया तत् वक्ष्यमाणविशेषणम् अक्षरम् अधिगम्यते प्राप्यते, अधिपूर्वस्य गमेः प्रायशः प्रात्यर्थत्वात् ; न च परप्राप्तेरवगमार्थस्य च भेदोऽस्ति ; अविद्याया अपाय एव हि परप्राप्तिर्नार्थान्तरम् । ननु ऋग्वे दादिबाह्या तर्हि सा कथं परा विद्या स्यात् मोक्षसाधनं च । 'या वेदबाह्या: स्मृतयो याश्च काश्च कुदृष्टयः ....' इति हि स्मरन्ति । कुदृष्टित्वान्निष्फलत्वादनादेया स्यात्; उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात् । ऋग्वेदादित्वे तु पृथक्करणम नर्थकम् अथ परेति । न, वेद्यविषयविज्ञानस्य विवक्षित- त्वात् । उपनिषद्वेद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधान्येन विवक्षितम्, नोपनिषच्छब्दराशि: । वेदशब्देन तु सर्वत्र शब्दराशिर्विवक्षितः । शब्दराश्यधिगमेऽपि यन्ना- . मुण्डकोपनिषद्भ न्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधि- गमः संभवतीति पृथक्करणं ब्रह्मविद्याया अथ परा विद्येति ॥ यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ यथा विधिविषये कर्ताद्यनेककारकोपसंहारद्वारेण वाक्या- र्थज्ञानकालादन्यत्रानुष्ठेयोऽर्थोऽस्त्यग्निहोत्रादिलक्षणः, न त- थेह परविद्याविषये वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति, केवलशब्दप्रकाशितार्थज्ञानमात्रनिष्ठाव्यतिरिक्ताभा- वात् । तस्मादिह परां विद्यां सविशेषणेनाक्षरेण विशि- नष्टि — यत्तदद्रेश्यमित्यादिना । वक्ष्यमाणं बुद्धौ संहृत्य सिद्धवत्परामृशति — यत्तदिति । अद्रेश्यम् अदृश्यं सर्वेषां बुद्धीन्द्रियाणामगम्यमित्येतत् । दृशेर्वहिः प्रवृत्तस्य पश्चे- न्द्रियद्वारकत्वात् । अग्राह्यं कर्मेन्द्रियाविषयमित्येतत् । अगो- त्रम्, गोत्रमन्वयो मूलमित्यनर्थान्तरम् । अगोत्रम् अनन्वय- मित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अवि- प्रथमं मुण्डकम् । . द्यमाना वर्णा यस्य तत् अवर्णम् अक्षरम् । अचक्षुः श्रोत्रं चक्षुश्च श्रोत्रं च नामरूपविषये करणे सर्वजन्तूनाम्, ते अविद्यमाने यस्य तदचक्षुः श्रोत्रम् । यः सर्वज्ञः सर्ववित् ' तदचक्षुःश्रोत्रम् । इति चेतनावत्त्वविशेषणात्प्राप्तं संसारिणामिव चक्षुः श्रोता- दिभिः करणैरर्थसाधकत्वम् ; तदिह अचक्षुः श्रोत्रमिति वार्य- ते, 'पश्यत्यचक्षुः स शृणोत्यकर्ण:' इत्यादिदर्शनात् । किंच, तत् अपाणिपादं कर्मेन्द्रियरहितमित्येतत् । यत एवम् अ- ग्राह्यमग्राहकं च अतो नित्यमविनाशि । विभुं विविधं ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विभुम् । सर्वगतं व्या- पकमाकाशवत्सुसूक्ष्मम । शब्दादिस्थूलत्वकारणरहितत्वात् । शब्दादयो ह्याकाशवाय्वादीनामुत्तरोत्तरस्थूलत्वकारणानि ; तदभावात्सुसूक्ष्मम्, किंच, तत् अव्ययम् उक्तधर्मत्वादेव न व्येतीत्यव्ययम् । न ह्यनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः संभ- वति शरीरस्येव । नापि कोशापचयलक्षणो व्ययः संभवति राज्ञ इव । नापि गुणद्वारको व्ययः संभवति, अगुणत्वात्सर्वा- त्मकत्वाच्च । यत् एवंलक्षणं भूतयोनिं भूतानां कारणं पृथि- वीव स्थावरजङ्गमानां परिपश्यन्ति सर्वत आत्मभूतं सर्वस्य अक्षरं पश्यन्ति धीराः धीमन्तो विवेकिनः । ईदृशमक्षरं यया विद्यया अधिगम्यते सा परा विद्येति समुदायार्थः ॥ । मुण्डकोपनिषद्भाष्ये यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ॥ ७ ॥ भूतयोनिरक्षरमित्युक्तम् । तत्कथं भूतयोनित्वमित्युच्यते दृष्टान्तैः - यथा लोके प्रसिद्धः ऊर्णनाभि: लूताकीट: किंचित्कारणान्तरमनपेक्ष्य स्वयमेव सृजते स्वशरीराव्यति- रिक्तानेव तन्तून्बहिः प्रसारयति पुनस्तानेव गृह्णते च गृहा- ति स्वात्मभावमेवापादयति ; यथा च पृथिव्याम् ओषधयः, व्रीह्यादिस्थावराणीत्यर्थः, स्वात्माव्यतिरिक्ता एव प्रभवन्ति संभवन्ति ; यथा च सतः विद्यमानाज्जीवतः पुरुषात् केश- लोमानि केशाश्च लोमानि च संभवन्ति विलक्षणानि । यथै- ते दृष्टान्ताः, तथा विलक्षणं सलक्षणं च निमित्तान्तरानपे- क्षाद्यथोक्तलक्षणात् अक्षरात् संभवति समुत्पद्यते इह संसा- रमण्डले विश्वं समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सु- खावबोधनार्थम् ॥ तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । प्रथमं मुण्डकम् । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८ ॥ यद्ब्रह्मण उत्पद्यमानं विश्वं तदनेन क्रमेणोत्पद्यते, न युग- पद्वदरमुष्टिप्रक्षेपवदिति क्रमनियमविवक्षार्थोऽयं मन्त्र आ- रभ्यते— तपसा ज्ञानेन उत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयते उपचीयते उत्पादयिष्यदिदं जगत् अङ्कुरमिव बीजमुच्छ्रनतां गच्छति पुत्रमिव पिता हर्षेण । एवं सर्वज्ञ- तया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तयोपचितात् ततः ब्रह्म- णः अन्नम् अद्यते भुज्यत इत्यन्नमव्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्थारूपेण अभिजायते उत्पद्यते । ततश्च अव्याकृताद्व्याचिकीर्षितावस्थान् अन्नात् प्राणः हिरण्य- गर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठितो जगत्साधारणोऽविद्या- कामकर्मभूतसमुदायबीजाङ्कुरो जगदात्मा अभिजायत इत्यनु- षङ्गः । तस्माच्च प्राणात् मनः मनआख्यं संकल्पविकल्पसंशय- निर्णयाद्यात्मकमभिजायते । ततोऽपि संकल्पाद्यात्मकान्मनसः सत्यं सत्याख्यमाकाशादिभूतपञ्चकमभिजायते । तस्मात्स- त्याख्याद्भूतपथ्यकादण्डक्रमेण सप्त लोका: भूरादयः । तेषु म- नुष्यादिप्राणिवर्णाश्रमक्रमेण कर्माणि । कर्मसु च निमित्तभू- तेषु अमृतं कर्मजं फलम् । यावत्कर्माणि कल्पकोटिशतैरपि S. U. II. 2 मुण्डकोपनिषद्भाष्ये न विनश्यन्ति, तावत्फलं न विनश्यतीत्यमृतम् ॥ यः सर्वज्ञः सर्ववि- द्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९ ॥ इति प्रथममुण्डके प्रथमः खण्डः ॥ उक्तमेवार्थमुपसंजिहीर्षुर्मन्त्रो वक्ष्यमाणार्थमाह-य: उ- क्तलक्षणोऽक्षराख्यः सर्वज्ञः सामान्येन सर्व जानातीति स- र्वज्ञः ! विशेषेण सर्वं वेत्तीति सर्ववित् । यस्य ज्ञानमयं ज्ञान- विकारमेव सार्वज्ञ्यलक्षणं तपः अनायासलक्षणम्, तस्मात् य- थोक्तात्सर्वज्ञात् एतत् उक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते । किंच, नाम असौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम्, रूपम् इदं शुकुं नीलमित्यादि, अन्नं च व्रीहियवादिलक्षणम्, जायते पूर्वमन्त्रोक्तक्रमेणेत्यविरोधो द्रष्टव्यः ॥ इति प्रथममुण्डके प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ -- तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यं- स्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥ साङ्गा वेदा अपरा विद्योक्ता 'ऋग्वेदो यजुर्वेदः' इत्या- दिना । ' यत्तदद्रेश्यम्' इत्यादिना 'नामरूपमन्नं च जायते ' इत्यन्तेन ग्रन्थेनोक्तलक्षणमक्षरं यया विद्ययाधिगम्यत इति सा परा विद्या सविशेषणोक्ता । अतः परमनयोर्विद्ययोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्राप- रविद्याविषयः कर्त्वादिसाधन क्रियाफलभेदरूपः संसारोऽना- दिरनन्तो दुःखस्वरूपत्वाद्धातव्यः प्रत्येकं शरीरिभिः साम- स्त्येन नदीस्रोतोवदविच्छेद रूपसंबन्धः तदुपशमलक्षणो मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्र- सन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्व ताव- दपरविद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निर्वे- दोपपत्तिः । तथा च वक्ष्यति – ' परीक्ष्य लोकान्कर्मचितान् ' मुण्डकोपनिषद्भाष्ये इत्यादिना । न ह्यप्रदर्शिते परीक्षोपपद्यत इति तत्प्रदर्शय- न्नाह — तदेतत् सत्यम् अवितथम् । किं तत् ? मन्त्रेषु ऋग्वेदाद्याख्येषु कर्माणि अग्निहोत्रादीनि मन्त्रैरेव प्रकाशि- तानि कवयः मेधाविनो वसिष्ठादयः यानि अपश्यन् दृष्टव- न्तः । यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्, तानि च वेद- विहितानि ऋषिदृष्टानि कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरणभूतायां बहुधा बहुप्रकारं संततानि संप्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि ; अतो यूयं तानि आचरथ निर्वर्तयत निय- तं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एषः वः युष्माकं पन्थाः मार्गः सुकृतस्य स्वयं निर्वर्तितस्य कर्मणः लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्य- ते । तदर्थं तत्प्राप्तये एष मार्ग इत्यर्थः । यान्येतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि तान्येष पन्था अवश्यफलप्राप्ति- साधनमित्यर्थः ॥ यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरे- णाहुतीः प्रतिपादयेत् ॥ २ ॥ प्रथमं मुण्डकम् । तत्राग्निहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वक- र्मणां प्राथम्यात् । तत्कथम् ? यदैव इन्धनैरभ्या हितैः सम्य- गिद्धे समिद्धे दीप्ते हव्यवाहने लेलायते चलति अर्चिः ; तदा तस्मिन्काले लेलायमाने चलत्यर्चिषि आज्यभागौ आज्यभागयो: अन्तरेण मध्ये आवापस्थाने आहुती: प्रति- पादयेत् प्रक्षिपेत् देवतामुद्दिश्य । अनेकाहः प्रयोगापेक्षया आ- हुतीरिति बहुवचनम् । एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्म- मार्गो लोकप्राप्तये पन्थाः । तस्य च सम्यक्करणं दुष्करम् ; विपत्तयस्त्वनेका भवन्ति ॥ यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अद्भुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३ ॥ कथम् ? यस्य अग्निहोत्रिणः अग्निहोत्रम् अदर्श दर्शा- ख्येन कर्मणा वर्जितम् । अग्निहोत्रभिरवश्यकर्तव्यत्वाद्द- र्शस्य । अग्निहोत्रसंबन्ध्यग्निहोत्रविशेषणमिव भवति । तद- क्रियमाणमित्येतत् । तथा अपौर्णमासम् इत्यादिष्वप्यग्नि- होत्रविशेषणत्वं द्रष्टव्यम् । अग्निहोत्राङ्गत्वस्याविशिष्टत्वात् । अपौर्णमासं पौर्णमासकर्मवर्जितम् । अचातुर्मास्यं चातुर्मा- मुण्डकोपनिषद्भाष्ये स्यकर्मवर्जितम् । अनाप्रयणम् आग्रयणं शरदादिषु कर्तव्यम्, तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं च अतिथिपूजनं चाहन्यहन्यक्रियमाणं यस्य । स्वयं सम्यगग्निहोत्रकाले अहुतम् । अदर्शादिवत् अवैश्वदेवं वैश्वदेवकर्मवर्जितम् । हूयमानमप्यवि- धिना हुतम् अयथाहुतमित्येतत् । एवं दुःसंपादितमसंपादितम- ग्निहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते — आसप्तमान् सप्तमसहितान् तस्य कर्तुर्लोकान् हिनस्ति हिनस्तीव आयास- मात्रफलत्वात् । सम्यक् क्रियमाणेषु हि कर्मसु कर्मपरिणा- मानुरूप्येण भूरादयः सत्यान्ताः सप्त लोकाः फलं प्राप्तव्यम् । ते लोकाः एवंभूतेनाग्निहोत्रादिकर्मणा त्वप्राप्यत्वाद्विस्यन्त इव, आयासमात्रं त्वव्यभिचारीत्यतो हिनस्तीत्युच्यते । पिण्डदाना- द्यनुग्रहेण वा संबध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौ - त्रप्रपौत्राः स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्निहोत्वा- दिना न भवन्तीति हिंस्यन्त इत्युच्यते ॥ काली कराली च मनोजवा च सुलोहिता याच सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥ काली कराली च मनोजवा च सुलोहिता या च सुधू- प्रथमं मुण्डकम् । म्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना दह- नस्य जिह्वाः । काल्याद्या विश्वरुच्यन्ता लेलायमाना: अग्ने- ईविराहुतिप्रसनार्था एताः किल सप्त जिह्वाः ॥ एतेषु यश्चरते भ्राजमानेषु : यथाकालं चाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५ ॥ एतेषु अग्निजिह्वाभेदेषु यः अग्निहोत्री चरते कर्माचर- त्यग्निहोत्रादिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तं कालमनतिक्रम्य यथाकालं यज- मानम् आददायन् आददाना आहुतयः तं नयन्ति प्रापयन्ति । एताः आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयः भूत्वा, रश्मिद्वारैरित्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पतिः इन्द्रः एकः सर्वानुपरि अधि वसतीति अधिवासः ॥ एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ मुण्डकोपनिषद्भाष्ये - कथं सूर्यस्य रश्मिभिर्यजमानं वहन्तीत्युच्यते — एहि एहि. इति आह्वयन्त्यः तं यजमानम् आहुतयः सुवर्चसः दीप्तिमत्यः; किंच, प्रियाम् इष्टां वाचं स्तुत्यादिलक्षणाम् अभिवदन्त्यः उच्चारयन्त्यः अर्चयन्त्यः पूजयन्त्यश्च एषः वः युष्माकं पुण्यः सुकृत: ब्रह्मलोकः फलरूप:, इत्थं प्रियां वाचम् अभिवद- न्त्यो वहन्तीत्यर्थः । ब्रह्मलोक: स्वर्गः प्रकरणात् ॥ प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७ ॥ एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यम् अ- तोऽसारं दुःखमूलमिति निन्द्यते— प्लवाः विनाशिन इत्यर्थः । हि यस्मात् एते अदृढाः अस्थिरा: यज्ञरूपा: यज्ञस्य रूपा- णि यज्ञरूपाः यज्ञनिर्वर्तका: अष्टादश अष्टादशसंख्याकाः षोडशत्विजः पत्नी यजमानश्चेत्यष्टादश । एतदाश्रयं कर्म उक्त कथितं शास्त्रेण येषु अष्टादशसु अवरं केवलं ज्ञानवर्जितं कर्म । अतस्तेषामवरकर्माश्रयाणामष्टादशानामदृढतया प्लवत्वात्प्लवते सह फलेन तत्साध्यं कर्म; कुण्डविनाशादिव क्षीरदध्यादी- नां तत्स्थानां नाशः ; यत एवम् एतत् कर्म श्रेयः श्रेयःसाधन- प्रथमं मुण्डकम् । मिति ये अभिनन्दन्ति अभिहृष्यन्ति अविवेकिनः मूढाः, अतः ते जरां च मृत्युं च जरामृत्युं कंचित्कालं स्वर्गे स्थित्वा पुन- रेव अपि यन्ति भूयोऽपि गच्छन्ति ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८ ॥ किंच, अविद्यायाम् अन्तरे मध्ये वर्तमानाः अविवेकप्रा- याः स्वयं वयमेव धीराः धीमन्तः पण्डिता विदितवेदितव्या- श्चेति मन्यमाना आत्मानं संभावयन्तः, च जङ्घन्यमानाः जरारोगाद्यने कानर्थव्रातैर्हन्यमाना भृशं पीड्यमानाः परियन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वात् अन्धेनैव अचक्षुष्केणैव नीयमानाः प्रदर्श्यमानमार्गाः ; यथा लोके अन्धाः चक्षुरहिता गर्तकण्टकादौ पतन्ति, तद्वत् ॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागा- त्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९ ॥ किंच, अविद्यायां बहुधा बहुप्रकारं वर्तमानाः वयमेव मुण्डकोपनिषद्भाष्ये कृतार्थाः कृतप्रयोजना: इति एवम् अभिमन्यन्ति अभिम- न्यन्ते अभिमानं कुर्वन्ति बाला: अज्ञानिनः । यत् यस्मादेवं कर्मिणः न प्रवेदयन्ति तत्त्वं न जानन्ति रागात् कर्मफलरा- गाभिभवनिमित्तम् तेन कारणेन आतुराः दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकात् च्यवन्ते ॥ इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वे- मं लोकं हीनतरं वा विशन्ति ॥ १० ॥ इष्टापूर्तम् इष्टं यागादि श्रौतं कर्म पूर्त स्मार्त वापीकूप- तडागादिकर्म मन्यमानाः एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्तयन्तः, अन्यत् आत्मज्ञानाख्यं श्रे- यः साधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्रपशुबान्धवा- दिषु प्रमत्ततया मूढाः ; च नाकस्य स्वर्गस्य पृष्ठे उपरिस्थाने सुकृते भोगायतने अनुभूत्वा अनुभूय कर्मफलं पुन: इमं लोकं मानुषम् अस्मात् हीनतरं वा तिर्यङ्नरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥ तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । प्रथमं मुण्डकम् । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥ ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्थाः संन्यासिनश्च, तपः श्रद्धे हि तपः स्वाश्रमविहितं कर्म श्रद्धा हिरण्यगर्भादि- विषया विद्या, ते तपः श्रद्धे उपवसन्ति सेवन्तेऽरण्यें वर्तमानाः सन्तः । शान्ता: उपरतकरणग्रामाः । विद्वांसः गृहस्थाच ज्ञानप्रधाना इत्यर्थः । भैक्षचर्यां चरन्तः परिग्रहाभावादुप- वसन्त्यरण्ये इति संबन्ध: । सूर्यद्वारेण सूर्योपलक्षितेनोत्तरे- ण पथा ते विरजाः विरजसः, श्रीणपुण्यपापकर्माणः सन्त इत्यर्थः । प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोका दौ अमृतः स पुरुषः प्रथमजो हिरण्यगर्भः हि अव्ययात्मा अव्ययस्वभावो यावत्संसारस्थायी । एतदन्तास्तु संसार- गतयोऽपरविद्यागम्याः । नन्वेतं मोक्षमिच्छन्ति केचित् । न, 'इहैव सर्वे प्रविलीयन्ति कामाः '' ते सर्वगं स- र्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ' इत्यादि - श्रुतिभ्य: ; अप्रकरणाच्च । अपरविद्याप्रकरणे हि प्रवृत्ते न ह्यकस्मान्मोक्षप्रसङ्गोऽस्ति । विरजस्त्वं त्वापेक्षिकम् । समस्त- मपरविद्याकार्यं साध्यसाधनलक्षणं क्रियाकारक फलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यगर्भ प्राप्त्यवसानम् । तथा च म- मुण्डकोपनिषद्भाष्ये नुनोक्तं स्थावरायां संसारगतिमनुक्रामता — 'ब्रह्मा विश्व - सृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां ग- तिमाहुर्मनीषिणः' इति ॥ परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छे- त्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां विद्यायामधिकारप्रदर्शनार्थमिदमुच्यते-- परीक्ष्य यदेतदृग्वेदाद्यपरविद्याविषयं स्वाभाविकाविद्याकामकर्मदोष- वत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वा- तदनुष्ठान कार्यभूताश्च लोका ये दक्षिणोत्तरमार्गलक्षणाः फलभूता:, ये च विहिताकरणप्रतिषेधातिक्रमदोषसाध्या नर- कतिर्यक्प्रेतलक्षणाः, तानेतान्परीक्ष्य प्रत्यक्षानुमानोपमाना- गमैः सर्वतो याथात्म्येनावधार्य लोकान् संसारगतिभूतान - व्यक्तादिस्थावरान्तान्व्याकृताव्याकृतलक्षणान्बीजाङ्कुरवदित रेतरोत्पत्तिनिमित्ताननेकानर्थशतसहस्रसंकुलान्कदलीगर्भवद सारान्मायामरीच्युदकगन्धर्वनगराकारस्त्रम जलबुडुदफेनस मान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वा विद्याकामदोषप्रवर्तितकर्म- : - प्रथमं मुण्डकम् । चितान्धर्माधर्मनिर्वर्तितानित्येतत् । ब्राह्मणः, ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मण- ग्रहणम् । परीक्ष्य लोकान्किं कुर्यादित्युच्यते— निर्वेदम, निष्पूर्वो विदिरत्र वैराग्यार्थेः, वैराग्यम् आयात् कुर्यादित्येतत् । स वैराग्यप्रकार: प्रदश्यते — इह संसारे नास्ति कश्चिदपि अकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्म- कृतत्वाच्चानित्याः । न नित्यं किंचिदस्तीत्यभिप्रायः । सर्व तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्व कर्म कार्यम्—उत्पाद्यमाप्यं विकार्य संस्कार्यं वा । नातः परं कर्मणो विषयोऽस्ति । अहं च नित्येनामृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थेनार्थी, न तद्विपरीतेन । अतः किं कृतेन कर्मणा आयासबहुलेनानर्थसाधनेन इत्येवं निर्विण्णोऽभयं शिवम- कृतं नित्यं पदं यत्, तद्विज्ञानार्थं विशेषेणाधिगमार्थं स निर्वि- ण्णो ब्राह्मणः गुरुमेव आचार्य शमदमादिसंपन्नम् अभिग- च्छेत् । शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम् । समित्पाणिः समिद्वार- गृहीतहस्तः श्रोत्रियम् अध्ययनश्रुतार्थसंपन्नं ब्रह्मनिष्ठं हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्म- निष्ठः ; जपनिष्ठस्तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्म- मुण्डकोपनिषद्भाष्ये निष्ठता संभवति, कर्मात्मज्ञानयोर्विरोधात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥ तस्मै स विद्वानुपसन्नाय सम्य- क्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ तस्मै सः विद्वान गुरुर्ब्रह्मवित्, उपसन्नाय उपगताय । सम्यक् यथाशास्त्रमित्येतत् । प्रशान्तचित्ताय उपरतदर्पा- दिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय, सर्वतो विरक्तायेत्येतत् । येन विज्ञानेन यया विद्यया च परया अक्षरम् अद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्द- वाच्यं पूर्णत्वात्पुरि शयनाच्च, सत्यं तदेव परमार्थस्वाभा त्र्यादव्ययम्; अक्षरं चाक्षरणादक्षतत्वादक्षयत्वाच्च, वेद विजा- नाति तां ब्रह्मविद्यां तत्त्वतः यथावत् प्रोवाच प्रब्रूयादित्यर्थः । आचार्यस्याप्ययमेव नियमो यन्यायप्राप्तसच्छिष्य निस्तार- गमविद्यामहोदधेः ॥ ' इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मुण्डकोपनिषद्भाष्ये प्रथमं मुण्डकं समाप्तम् ॥ मुण्डकोपनिषद्भाष्यम् द्वितीयं मुण्डकम् द्वितीयं मुण्डकम् ॥ अ परविद्यायाः सर्वं कार्यमु- क्तम् । स च संसारो यत्सारो यस्मा- न्मूलादक्षरात्संभवति यस्मिंश्च प्रलीय- ते, तदक्षरं पुरुषाख्यं सत्यम् । यस्मि- विज्ञाते सर्वमिदं विज्ञातं भवति, त- त्परस्या ब्रह्मविद्याया विषयः । स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते-- तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १ ॥ यदपरविद्याविषयं कर्मफललक्षणम्, सत्यं तदापेक्षिकम् । इदं तु परविद्याविषयम्, परमार्थसल्लक्षणत्वात् । तदेतत् सत्यं यथाभूतं विद्याविषयम्; अविद्याविषयत्वाश्च अनृतमितरत् । S. C. II. 3 . मुण्डकोपनिषद्भाष्ये अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येर- निति दृष्टान्तमाह-- यथा सुदीप्तात् सुष्ठु दीप्तादिद्धात् पावकात् अग्नेः विस्फुलिङ्गाः अग्न्यवयवाः सहस्रशः अने- कशः प्रभवन्ते निर्गच्छन्ति सरूपा: अग्निसलक्षणा एव, तथा उक्तलक्षणात् अक्षरात् विविधाः नानादेहोपाधिभे- दमनुविधीयमानत्वाद्विविधाः हे सोम्य, भावा: जीवाः आकाशादिवद्धटादिपरिच्छिन्नाः सुषिरभेदा घटाद्युपाधि- प्रभेदमनु भवन्ति; एवं नानानामरूपकृतदेहोपाधिप्रभव- मनु प्रजायन्ते तत्र चैव तस्मिन्नेव चाक्षरे अपियन्ति देहो - पाधिविलयमनु विलीयन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाकाशस्य सुषिरभेदोत्पत्तिप्रलयनिमित्तत्वं घटाद्युपाधि- कृतमेव, तद्वदक्षरस्यापि नामरूपकृत देहोपाधिनिमित्तमेव जी - वोत्पत्तिप्रलयनिमित्तत्वम् ॥ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥ नामरूपबीजभूतादव्याकृताख्यात्स्व विकारापेक्षया पराद- द्वितीयं मुण्डकम । " क्षरात्परं यत्सर्वोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्यादिविशेषणं विवक्षन्नाह — दिव्यः द्योतनवान्, स्वयंज्योतिष्वात् । दिवि वा स्वात्मनि भवः अलौकिको वा । हि यस्मात् अमूर्त: सर्वमूर्तिवर्जितः, पुरुष: पूर्ण: पुरिशयो वा, सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरेण वर्तत इति । अज: न जायते कुतश्चित् स्वतोऽजस्य जन्मनिमित्तस्य चाभावात्; यथा जलबुदादेर्वाय्वादिः, यथा नभः सुषि- रभेदानां घटादिः । सर्वभावविकाराणां जनिमूलत्वात् तत्प्रति- षेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजः अतो- ऽजरोऽमृतोऽक्षरो ध्रुवोऽभय इत्यर्थः । यद्यपि देहाद्युपा- धिभेददृष्टिभेदेषु सप्राण: समना: सेन्द्रियः सविषय इव प्रत्यवभासते तलमलादिमदिवाकाशम्, तथापि तु स्वतः परमार्थस्वरूपदृष्टीनाम् अप्राण: अविद्यमान: क्रियाशक्तिभेदवान् चलनात्मको वायुर्यस्मिन्नसौ अप्राणः । तथा अमना: अनेकज्ञानशक्तिभेदवत्संकल्पाद्यात्मकं मनो- stयविद्यमानं यस्मिन्सोऽयममनाः । अप्राणो ह्यमनाश्चेति प्राणादिवायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथा बुद्धिम- नसी बुद्धीन्द्रियाणि तद्विषयाश्च प्रतिषिद्धा वेदितव्याः; यथा श्रुत्यन्तरे ध्यायतीव लेलायतीवेति । यस्माच्चैवं प्रति- मुण्डकोपनिषद्भाष्ये षिद्धोपाधिद्वयस्तस्मात् शुभ्रः शुद्धः । अतोऽक्षरान्नामरूपबी- जोपाधिलक्षितस्वरूपात सर्वकार्यकरणवीजत्वेनोपलक्ष्यमाण- त्वात्परं तत्त्वं तदुपाधिलक्षणमव्याकृताख्यमक्षरं सर्वविकारे- भ्यस्तस्मात्परतोऽक्षरात्परः निरुपाधिकः पुरुष इत्यर्थः । यस्मिंस्तदाकाशाख्यमक्षरं संत्र्यवहारविषयमोतं च प्रोतं च । कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति, तदा पुरुषस्य प्रा- णादिना विद्यमानेन प्राणादिमत्त्वं स्यात्; न तु प्राणादयः प्रागुत्पत्तेः सन्ति । अतः प्राणादिमान्पर: पुरुष:, यथानुत्पन्ने पुत्रे अपुत्रो देवदत्तः ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥ कथं ते न सन्ति प्राणादय इति, उच्यते-- यस्मात् एतस्मादेव पुरुषान्नात्मरूपवीजोपाधिलक्षितात् जायते उत्प- द्यतेऽविद्याविषयो विकारभूतो नामधेयोऽनृतात्मकः प्रा- णः, 'वाचारम्भणं विकारो नामधेयम् ' ' अनृतम्' इति द्वितीयं मुण्डकम् । श्रुत्यन्तरात् । न हि तेनाविद्याविषयेणानृतेन प्राणेन स- प्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृप्रेनेव पुत्रेण सपुत्रत्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते । तस्मात्सिद्धमस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थतोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मनश्चेन्द्रियाणि च, तथा शरीरविपयकारणा- नि भूतानि खम् आकाशम्, वायुः वाह्य आवहादिभेदः, ज्योतिः अग्निः, आप: उदकम् पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी; एतानि च शब्दस्पर्शरूपरसगन्धोत्तरोत्त- रंगुणानि पूर्वपूर्वगुणसहितान्येतस्मादेव जायन्ते ॥ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य ' पद्भयां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ संक्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यम् 'दिव्यो ह्यमूर्तः इत्यादिना मन्त्रेणोक्त्वा, पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते; संक्षेपविस्तरोक्तो हि पदार्थ: सुखाधिगम्यो भवति सूत्रभाष्योक्तिवदिति । यो हि प्रथमजात्प्राणाद्धिरण्यगर्भाज्जायते ऽण्डस्यान्तर्विराट्, मुण्डकोपनिषद्धाप्ये स तत्त्वान्तरितत्त्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जाय- त एतन्मयश्चेत्येतदर्थमाह, तं च विशिनष्टि — अग्नि: धुलो- कः, 'असौ वाव लोको गौतमाग्निः' इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः, चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यौ; य- स्येति सर्वत्रानुषङ्गः कर्तव्यः अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरिणामं कृत्वा । दिशः श्रोत्रे यस्य । वाक् विवृ- ताश्च उद्घाटिताः प्रसिद्धा वेदा: यस्य । वायुः प्राणो यस्य । हृदयम् अन्तःकरणं विश्वं समस्तं जगत् अस्य यस्येत्येतत् । सर्वं ह्यन्तःकरणविकारमेव जगत्, मनस्येव सुपुप्ते प्रलयदर्श- नात् ; जागरितेऽपि तत एवाग्निविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भयां जाता पृथिवी, एष देवो विष्णुरनन्तः प्रथ- मशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकरणात्मा ॥ पञ्चाग्निद्वारेण च याः संसरन्ति प्रजाः, ता अपि तस्मादेव पुरुषात्प्रजायन्त इत्युच्यते- तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् । पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः ॥ ५ ॥ द्वितीयं मुण्डकम् । तस्मात् परस्मात्पुरुषात् प्रजावस्थानविशेषरूपः अग्निः । स विशेष्यते— समिधो यस्य सूर्यः, समिध इव समिधः ; सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलोकानैर्निष्पन्ना- न् सोमात् पर्जन्यः द्वितीयोऽग्निः संभवति । तस्माच्च पर्ज- न्यात् ओषधयः पृथिव्यां संभवन्ति । ओषधिभ्यः पुरुषानौ हुताभ्य उपादानभूताभ्यः पुमानग्निः रेतः सिञ्चति योषिता- यां योषिति योषानौ स्त्रियामिति । एवं क्रमेण बह्वीः बह्वयः प्रजाः ब्राह्मणाद्याः पुरुषात् परस्मात् संप्रसूताः समुत्पन्नाः ॥ तस्मादृचः साम यजुषि दीक्षा यज्ञाश्च सर्वे ऋतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ किंच, कर्मसाधनानि फलानि च तस्मादेवेत्याह-- कथम् ? तस्मात् पुरुषात् ऋच: नियताक्षरपादावसानाः गायत्र्यादि- च्छन्दोविशिष्टा मन्त्राः ; साम पाञ्चभक्तिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् ; यजूंषि अनियताक्षरपादावसानानि वाक्यरूपाणि ; एवं त्रिविधा मन्त्राः । दीक्षा: मौञ्ज्यादि- लक्षणाः कर्तृनियमविशेषाः । यज्ञाश्च सर्वे अग्निहोत्रादयः । मुण्डकोपनिषद्भाष्ये ऋतवः सयूपाः । दक्षिणाश्च एकगवाद्या अपरिमितसर्वस्वा- न्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकाः तस्य कर्मफलभूताः ; ते विशेष्यन्ते – सोमः यत्र येषु - लोकेषु पवते पुनाति लोकान् यत्र च येषु सूर्यस्तपति । ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥ तस्माच्च देवा बहुधा संप्रसृताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ ७ ॥ - तस्माच्च पुरुषात्कर्माङ्गभूता देवा: बहुधा वस्वादिगणभे- देन संप्रसूताः सम्यक् प्रसूता:- साध्याः देवविशेषाः, मनु- ष्याः कर्माधिकृताः, पशवः ग्राम्यारण्याः, वयांसि पक्षिणः ; जीवनं च मनुष्यादीनां प्राणापानौ त्रीहियवौ हविरथ; तपश्च कर्माङ्गं पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् ; श्रद्धा यत्पूर्वकः सर्वपुरुषार्थ साधनप्रयोगश्चित्तप्रसाद आस्ति- क्यबुद्धिः; तथा सत्यम् अनृतवर्जनं यथाभूतार्थवचनं चापी- डाकरम् ; ब्रह्मचर्य मैथुनासमाचार: ; विधिश्व इतिकर्त- व्यता ॥ द्वितीयं मुण्डकम् । सप्त प्राणाः प्रभवन्ति तस्मा- त्सप्तार्चिषः समिधः सप्त होमाः । सप्तेमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥ किंच, सप्त शीर्षण्याः प्राणाः तस्मादेव पुरुषात् प्रभ- वन्ति । तेषां सप्त अर्चिषः दीप्तयः स्वस्वविषयावद्योत- नानि । तथा सप्त समिधः सप्त विषयाः ; विषयैर्हि समि- ध्यन्ते प्राणाः । सप्त होमाः तद्विषयविज्ञानानि, ' यदस्य विज्ञानं तज्जुहोति' इति श्रुत्यन्तरात् । किंच, सप्त इमे लोका: इन्द्रियस्थानानि येषु चरन्ति संचरन्ति प्राणाः इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेष- णमिदं प्राणापानादिनिवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम् । यानि च आत्मया- जिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्मफलानि च सर्वं चैतत्परस्मादेव पुरुषात्स- र्वज्ञात्प्रसूतमिति प्रकरणार्थ: ॥ अतः समुद्रा गिरयश्च सर्वे- ऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः । मुण्डकोपनिषद्भाष्ये अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥ अतः पुरुषात् समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिम- वदादयः अस्मादेव पुरुषात् सर्वे । स्यन्दन्ते स्रवन्ति गङ्गाद्या: सिन्धवः नद्यः सर्वरूपाः बहुरूपा: । अस्मादेव पुरुषात् सर्वाः ओषधयः त्रीहियवाद्याः । रसश्च मधुरादिः षड़िध:, येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितः तिष्ठते तिष्ठति हि अन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्धयन्तराले शरीरस्यात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा ॥ पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ इति द्वितीयमुण्डके प्रथमः खण्डः ॥ एवं पुरुषात्सर्वमिदं संप्रसूतम् । अतो वाचारम्भणं वि- कारो नामधेयमनृतं पुरुष इत्येव सत्यम्; अत: पुरुष एव इदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किंचिदस्ति । अ- द्वितीयं मुण्डकम् । तो यदुक्तं तदेवेदमभिहितम् 'कस्मिन्नु भगवो विज्ञाते सर्व- मिदं विज्ञातं भवति' इति ; एतस्मिन्हि परस्मिन्नात्मनि सर्व- कारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्यदस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते-- कर्म अग्निहोत्रा- दिलक्षणम् ; तपः ज्ञानं तत्कृतं फलमन्यदेव तावद्धीदं सर्वम् ; तच्च एतद्ब्रह्मणः कार्यम् ; तस्मात्सर्वं ब्रह्म परामृतं परममृतमह- मेवेति यो वेद निहितं स्थितं गुहायां हृदि सर्वप्राणिनाम्, सः एवं विज्ञानात् अविद्याग्रन्थि ग्रन्थिमिव दृढीभूतामविद्यावा- सनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव, न मृत: सन् हे सोम्य प्रियदर्शन ॥ इति द्वितीयमुण्डके प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ * आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् । एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १ ॥ अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते - आविः प्रकाशं संनिहितम्, वागाद्युपाधिभि: - ज्वलति भ्राजतीति श्रु- त्यन्तरात्-शब्दादीनुपलभमानवदव भासते; दर्शनश्रवणमनन- विज्ञानाद्युपाधिधर्मैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म संनिहितं सम्यक् स्थितं हृदि, तत् गुहाचरं नाम गुहायां चरतीति दर्शनश्रवणादिप्रकारैर्गुहाचरमिति प्रख्यातम् । महत् सर्वमहत्त्वात् पदं पद्यते सर्वेणेति, सर्वपदा- र्थास्पदत्वात् । कथं तन्महत्पदमित्युच्यते ? यतः अत्र अस्मि- ब्रह्मणि एतत्सर्वं समर्पितं संप्रवेशितं रथनाभाविवाराः - एजत् चलत्पक्ष्यादि, प्राणत् प्राणितीति प्राणापानादिमन्म- नुष्यपश्वादि, निमिषञ्च यन्निमेषादिक्रियावत् यच्चानिमिषत्; " द्वितीयं मुण्डकम् । च-शब्दान समस्तमेतदत्रैव ब्रह्मणि समर्पितम् । एतत् यदा- स्पदं सर्वे जानथ है शिष्याः, अवगच्छत तदात्मभूतं भव- ताम ; सदसत् सदसत्स्वरूपं सदसतोर्मूर्तमूर्तयोः स्थूलसूक्ष्म- यो:, तव्यतिरेकेणाभावात् । वरेण्यं वरणीयम, तदेव हि सर्वस्य नित्यत्वात्प्रार्थनीयम्; परं व्यतिरिक्तं विज्ञानात्प्रजानामिति व्यवहितेन संबन्ध: ; यल्लौकिकविज्ञानागोचरमित्यर्थः । यत् वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु तद्धयेकं ब्रह्म अतिशयेन वरं सर्वदोषरहितत्वात् ॥ यदमिद्यदणुभ्योऽणु च यस्मिँल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यं तदमृतं तद्धव्यं सोम्य विद्धि ॥ २ ॥ किंच, यत् अर्चिमत् दीप्तिमत् ; तद्दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किंच, यत् अणुभ्यः श्यामाकादिभ्योऽपि अणु च सूक्ष्मम् । च शब्दात्स्थूलेभ्योऽप्यतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिन् लोका: भूरादयः निहिताः स्थिताः, मुण्डकोपनिषद्भाष्ये ये च लोकिनः लोकनिवासिनः मनुष्यादयः, चैतन्याश्रया हि सर्वे प्रसिद्धाः ; तदेतत् सर्वाश्रयम् अक्षरं ब्रह्म स प्राणः तदु वाङ्मनः वाक्च मनश्च सर्वाणि च करणानि तदु अन्तश्चैतन्यम्; चैतन्याश्रयो हि प्राणेन्द्रियादिसर्व संघातः, 'प्राणस्य प्राणम्' इति श्रुत्यन्तरात् । यत्प्राणादीनामन्तश्चैतन्य- मक्षरं तदेतत् सत्यम् अवितथम्, अतः अमृतम् अविनाशि तत् वेद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनसः समाधानं कर्तव्यमित्यर्थः । यस्मादेवं हे सोम्य, विद्धि अक्षरे चेतः समाधत्स्व ॥ धनुर्गृहीत्वौपनिषदं महाखं शरं ह्युपासानिशितं संदधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥ कथं वेद्धव्यमिति, उच्यते — धनुः इष्वासनं गृहीत्वा आदाय औपनिषदम् उपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदत्रं च महास्त्रं धनुः, तस्मिन् शरम् ; किंविशिष्टमित्याह— उपासानिशितं संतताभिध्यानेन तनूकृतम्, संस्कृतमित्येतत् ; संदधीत संधानं कुर्यात् । संधाय च आयम्य आकृष्य सेन्द्रि- यमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवावर्जितं कृत्वे- द्वितीयं मुण्डकम् । त्यर्थः । न हि हस्तेनेव धनुष आयमनमिह संभवति । तद्भावगतेन तस्मिन्त्रह्मण्यक्षरे लक्ष्ये भावना भावः तद्गतेन चेतसा, लक्ष्यं तदेव यथोक्तलक्षणम् अक्षरं सोम्य, विद्धि ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥ यदुक्तं धनुरादि, तदुच्यते – प्रणवः ओंकारः धनुः । यथा इष्वासनं लक्ष्ये शरस्य प्रवेशकारणम्, तथा आत्मशरस्याक्षरे लक्ष्ये प्रवेशकारणमोंकारः । प्रणवेन ह्यभ्यस्यमानेन संस्क्रि- यमाणस्तदालम्बनोऽप्रतिबन्धेनाक्षरेऽवतिष्ठते । यथा धनुषा अ- स्त इषुर्लक्ष्ये । अतः प्रणवो धनुरिव धनुः । शरो ह्यात्मा उपा- धिलक्षण: पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्वबौद्ध- प्रत्ययसाक्षितया ; स शर इव स्वात्मन्येवार्पितोऽक्षरे ब्रह्मणि; अतः ब्रह्म तत् लक्ष्यमुच्यते लक्ष्य इव मनः समाधित्सुभि- रात्मभावेन लक्ष्यमाणत्वात् । तत्रैवं सति अप्रमत्तेन वाह्यवि- षयोपलब्धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रि- येणैकाग्रचित्तेन वेद्धव्यं ब्रह्म लक्ष्यम् । ततस्तद्वेधनादूर्ध्व मुण्डकोपनिषद्भाष्ये शरवत् तन्मयः भवेत्; यथा शरस्य लक्ष्यैकात्मत्वं फलं भवति, तथा देहाद्यात्मताप्रत्यय तिरस्करणेनाक्षरैकात्मत्वं फ- लमापादयेदित्यर्थः ॥ यस्मिन्द्यौः पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मान- मन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन् अक्षरे पुरुषे द्यौः पृथिवी च अन्तरिक्षं च ओतं समर्पितं मनश्च सह प्राणैः करणैः अन्यैः सर्वैः, तमेव सर्वा- श्रयमेकमद्वितीयं जानथ जानीत हे शिष्याः । आत्मानं प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा च अन्याः वाच: अपरविद्यारूपाः विमुञ्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्वे कर्म ससाधनम् । यतः अमृतस्य एषः सेतुः एतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतु:, संसारमहोदधेरुत्तरणहेतुत्वात्; तथा च श्रुत्यन्तरम् - 'तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' इति ॥ द्वितीयं मुण्डकम् । अरा इव रथनाभौ संहता यत्र नाड्य: स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६ ॥ किंच, अरा इव यथा रथनाभौ समर्पिता अरा:, एवं संहताः संप्रविष्टाः यत्र यस्मिन्हृदये सर्वतो देहव्यापि - न्य: नाड्यः, तस्मिन्हृदये बुद्धिप्रत्ययसाक्षिभूतः स एषः प्रकृत आत्मा अन्तः मध्ये चरते चरति वर्तते । पश्यन् शृण्वन्म- न्वानो विजानन् बहुधा अनेकधा क्रोधहर्षादिप्रत्ययैर्जायमान इव जायमानः अन्तःकरणोपाध्यनुविधायित्वात्; वदन्ति हि लौकिका हृष्टो जातः क्रुद्धो जात इति । तमात्मानम् ओमित्येवम् ओंकारालम्बना: सन्तः यथोक्तकल्पनया ध्यायथ चिन्तयत । उक्तं च वक्तव्यं शिष्येभ्य आचार्येण जानता । शिष्याश्च ब्रह्मविद्याविविदिषुत्वान्निवृत्तकर्माणो मोक्षपथे प्रवृत्ताः तेषां निर्विघ्नतया ब्रह्मप्राप्तिमाशास्त्याचार्य:- स्वस्ति निर्वि- नमस्तु वः युष्माकं पाराय परकूलाय ; कस्य ? अविद्यातमसः परस्तात्; अविद्यारहितत्रह्मात्मस्वरूपगमनायेत्यर्थः ॥ यः सर्वज्ञः सर्ववि- द्यस्यैष महिमा भुवि । S. U. II. 4 -- मुण्डकोपनिषद्भाष्ये दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ॥ ७ ॥ -- योऽसौ तमसः परस्तात्संसारमहोदधिं तीर्त्वा गन्तव्यः परविद्याविषयः, स कस्मिन्वर्तत इत्याह- यः सर्वज्ञः सर्व- वित् व्याख्यातः । तं पुनर्विशिनष्टि — यस्यैष प्रसिद्धो महिमा विभूतिः । कोऽसौ महिमा ? यस्येमे द्यावापृथिव्यौ शा- सने विधृते तिष्ठतः; सूर्याचन्द्रमसौ यस्य शासनेऽलात- चक्रवदजस्रं भ्रमत: ; यस्य शासने सरितः सागराश्च स्वगोचरं नातिक्रामन्ति ; तथा स्थावरं जङ्गमं च यस्य शासने नियतम् ; तथा ऋतवोऽयने अब्दाश्च यस्य शासनं नातिक्रामन्ति ; तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते स एष महिमा ; भुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः । दिव्ये द्योत- नवति सर्वबौद्धप्रत्ययकृतद्योतने ब्रह्मपुरे । ब्रह्मणो ह्यत्र चैतन्य - स्वरूपेण नित्याभिव्यक्तत्वात् ; ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्यद्व्योम, तस्मिन्व्योमनि आकाशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते ; न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा संभवति ॥ " द्वितीयं मुण्डकम् । मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८ ॥ स ह्यात्मा तत्रस्थो मनोवृत्तिभिरेव विभाव्यत इति मनो- मयः, मनउपाधित्वात् । प्राणशरीरनेता प्राणश्च तच्छरीरं च तत्प्राणशरीरं तस्यायं नेता । अस्मात्स्थूलाच्छरीराच्छरीरा- न्तरं सूक्ष्मं प्रति प्रतिष्ठितः अवस्थितः अन्ने भुज्यमानान्नवि- परिणामे प्रतिदिनमुपचीयमाने अपचीयमाने च पिण्डरूपेऽन्ने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य ; हृदयाव- स्थानमेव ह्यात्मनः स्थितिः, न ह्यात्मनः स्थितिरन्ने ; तत् आ- त्मतत्त्वं विज्ञानेन विशिष्टेन शास्त्राचार्योपदेशजनितेन ज्ञानेन शमदमध्यानसर्वत्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्ण पश्यन्ति उपलभन्ते धीराः विवेकिनः । आनन्दरूपं सर्वा- नर्थदुःखायासप्रहीणं सुखरूपम् अमृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥ भिद्यते हृदयग्रन्थि- रिछ्यन्ते सर्वसंशयाः । मुण्डकोपनिषद्भाष्ये क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥ ' कामा अस्य परमात्मज्ञानस्य फलमिदमभिधीयते— हृदय- ग्रन्थिः अविद्यावासनामयो बुद्धयाश्रयः कामः, येऽस्य हृदि श्रिताः' इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ, ना- त्माश्रयः । भिद्यते भेदं विनाशमुपयाति । छिद्यन्ते सर्वे ज्ञेय- विषयाः संशयाः लौकिकानाम् आ मरणात् गङ्गास्रोतोवत्प्रवृ- त्ता विच्छेदमायान्ति । अस्य विच्छिन्नसंशयस्य निवृत्तावि- द्यस्य यानि विज्ञानोत्पत्तेः प्राक्कृतानि जन्मान्तरे चाप्रवृत्तफ- लानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि, न त्वेत- ज्जन्मारम्भकाणि, प्रवृत्तफलत्वात् । तस्मिन् सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मना अवरं च कार्यात्मना तस्मिन्प- रावरे साक्षादहमस्मीति दृष्टे, संसारकारणोच्छेदान्मुच्यत इत्यर्थः ॥ हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योति- स्तद्यदात्मविदो विदुः ॥ १० ॥ द्वितीयं मुण्डकम् । उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि—- हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासे: । आत्मस्वरूपोपलब्धिस्थानत्वात्परं तत्सर्वाभ्यन्तर- त्वात्, तस्मिन् विरजम् अविद्याद्यशेषदोषरजोमलवर्जितं ब्रह्म सर्वमहत्त्वात्सर्वात्मत्वाश्च निष्कलं निर्गताः कला यस्मात्तन्नि- ष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं च अतः तच्छु- भ्रं शुद्धं ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योति: अवभासकम् । अग्न्यादीनामपि ज्योतिष्वमन्तर्गतब्रह्मात्मचे- तन्यज्योतिर्निमित्तमित्यर्थः । तद्धि परं ज्योतिर्यदन्यानवभास्य- मात्मज्योतिः, तत् यत् आत्मविदः आत्मानं स्वं शब्दादिविष- यबुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुः विजानन्ति, ते आ- त्मविदः तद्विदुः, आत्मप्रत्ययानुसारिणः । यस्मात्परं ज्योति- स्तस्मात्त एव तद्विदुः, नेतरे बाह्यार्थप्रत्ययानुसारिणः ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११ ॥ कथं तत् 'ज्योतिषां ज्योति:' इति, उच्यते- न तत्र तस्मि- मुण्डकोपनिषद्भाष्ये स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यो भाति, तद्ब्रह्म न प्रकाशयतीत्यर्थः । स हि तस्यैव भासा सर्वमन्यदनात्मजातं । प्रकाशयति ; न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारकम्, न इमा: विद्युतः भान्ति कुतोऽयमग्निः अस्मद्गोचरः । किं बहुना । यदिदं जगद्भाति, तत्तमेव परमे- श्वरं स्वतो भारूपत्वात् भान्तं दीप्यमानम् अनुभाति अनुदी- प्यते । यथा जलमुल्मुकादि वा अग्निसंयोगादग्निं दहन्तम- नुदहति, न स्वतः ; तद्वत्तस्यैव भासा दीघ्या सर्वमिदं सूर्यादि जगद्विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा ; अतस्तस्य ब्रह्मणो भारूपत्वं स्व- तोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं श- क्रोति । घटादीनामन्यावभासकत्वादर्शनात् भारूपाणां चा- दित्यादीनां तद्दर्शनात् ॥ ब्रह्मैवेदममृतं पुरस्ता- ब्रह्म पश्चाद्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं. ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२ ॥ इति द्वितीयमुण्डके द्वितीयः खण्डः ॥ द्वितीयं मुण्डकम् । यत्तज्ज्योतिषां ज्योतिर्ब्रह्म, तदेव सत्यम्; सर्वे तद्विकार: वाचारम्भणं विकारो नामधेयमात्रमनृतमितरदित्येतमर्थं वि- स्तरण हेतुतः प्रतिपादितं निगमनस्थानीयेन मन्त्रेण पुनरुप- संहरति — ब्रह्मैव उक्तलक्षणम्, इदं यत् पुरस्तात् अग्रेऽब्र- ह्येवाविद्यादृष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म तथा दक्षि- णतश्च तथा उत्तरेण तथैवाधस्तात् ऊर्ध्वं च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवदवभासमानम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं जगत् वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव सर्पप्रत्ययः । ब्रह्मै- वैकं परमार्थसत्यमिति वेदानुशासनम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मुण्डकोपनिषद्भाष्ये द्वितीयं मुण्डकं समाप्तम ॥ मुण्डकोपनिषद्भाष्यम् तृतीयं मुण्डकम् तृतीयं मुण्डकम् ॥ परा विद्योक्ता यया तदक्षरं पुरु- षाख्यं सत्यमधिगम्यते । यदधिगमे हृद- • यग्रन्ध्यादिसंसारकारणस्यात्यन्तिको वि- नाशः स्यात्, तद्दर्शनोपायश्च योगो. धनुराद्युपादानकल्पनयोक्तः । अथेदानीं .. तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थ उत्तर- प्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारान्तरेण क्रियते । अत्यन्तंदुरवगाहत्वात्कृतमपि तत्र सूत्रभूतो मन्त्रः परमार्थवस्त्ववधारणार्थमुपन्यस्यते— द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥ १ ॥ द्वा द्वौ, सुपर्णा सुपर्णौ शोभनपतनौ सुपर्णी, पक्षि- मुण्डकोपनिषद्भाष्ये सामान्याद्वा सुपर्णी, सयुजा सयुजौ सहैव सर्वदा युक्तौ, सखाया सखायौ समानाख्यानौ समानाभिव्यक्तिकारणौ, एवंभूतौ सन्तौ समानम् अविशेषमुपलब्ध्यधिष्ठानतया, एकं वृक्षं वृक्षमिवोच्छेद सामान्याच्छरीरं वृक्षं परिषस्वजाते परि- ष्वक्तवन्तौ । सुपर्णाविवैकं वृक्षं फलोपभोगार्थम् । अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽश्वत्थोऽव्यक्तमूलप्रभवः क्षेत्रसंज्ञकः सर्व प्राणिकर्मफलाश्रयः, तं परिष्वक्तवन्तौ सुपर्णाविव अविद्याका- मकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौ । तयोः परिष्वक्तयोः अ- न्यः एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं कर्मनिष्पन्नं सुखदुःखलक्षणं फलं स्वादु अनेकविचित्रवेदनास्वादरूपं स्वादु अत्ति भक्षयत्युपभुङ्क्ते अविवेकतः । अनश्नन् अन्यः इतरः ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाधिरी- श्वरो नाश्नाति । प्रेरयिता ह्यसावुभयोर्भोज्य भोक्रोर्नित्यसाक्षि- त्वसत्तामात्रेण । स तु अनश्नन् अन्यः अभिचाकशीति पश्य- त्येव केवलम् । दर्शनमात्रं हि तस्य प्रेरयितृत्वं राजवत् ॥ समाने वृक्षे पुरुषो निमग्नो- ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीश- मस्य महिमानमिति वीतशोकः ॥ २ ॥ तृतीयं मुण्डकम् । तत्रैवं सति समाने वृक्षे यथोक्ते शरीरे पुरुषः भोक्ता जीवोऽविद्याकामकर्मफलरागादिगुरुभाराक्रान्तोऽलाबुरिव सा- मुद्रे जले निमग्नः निश्चयेन देहात्मभावमापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृश: स्थूलो गुणवान्निर्गुणः सुखी दुःखीत्येवं- प्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियुज्य- ते च संबन्धिबान्धवैः, अतः अनीशया, न कस्यचित्समर्थो- Sहं पुत्रो मम विनष्टो मृता मे भार्या किं मे जीवितेनेत्येवं दीनभावोऽनीशा, तया शोचति संतप्यते मुह्यमानः अनेकै- रनर्थप्रकारैरविवेकितया अन्तश्चिन्तामापद्यमान: स एवं प्रेततिर्यङ्मनुष्यादियोनिष्वाजवंजवीभावमापन्नः कदाचिदने- कजन्मसु शुद्धधर्मसंचित निमित्ततः केनचित्परमकारुणिकेन दर्शितयोगमार्ग: अहिंसासत्यब्रह्मचर्य सर्वत्यागशमदमादिसंपन्नः समाहितात्मा सन् जुष्टं सेवितमनेकैर्योगमार्गैः कर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानः अन्यं वृक्षोपाधिलक्षणाद्वि- लक्षणम् ईशम् असंसारिणमशनायापिपासाशोकमोहजराम- त्यवतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नेतरोऽविद्याजनितोपाधिपरिच्छिन्नो मायात्मेति महिमानं विभूतिं च जगद्रूपमस्यैव मम परमेश्वरस्य इति मुण्डकोपनिषद्भाष्ये यदैवं द्रष्टा, तदा वीतशोकः भवति सर्वस्माच्छोकसागराद्वि- प्रमुच्यते, कृतकृत्यो भवतीत्यर्थः ॥ यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥ - अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् — यदा यस्मि न्काले पश्यः पश्यतीति विद्वान् साधक इत्यर्थः । पश्यते पश्यति पूर्ववत्, रुक्मवर्ण स्वयंज्योतिः स्वभावं रुक्मस्येव वा ज्योतिरस्याविनाशि; कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्वासौ ब्रह्मयोनिस्तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति, तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वयलक्षणाम्; द्वैतविषयाणि सा- म्यान्यतः अर्वाञ्च्येव, अतोऽद्वयलक्षणमेतत् परमं साम्य- मुपैति प्रतिपद्यते ॥ तृतीयं मुण्डकम् । प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥ किंच, योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैर्भूतैः ब्रह्मादिस्तम्बपर्यन्तैः ; इत्थंभूतलक्षणा तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्मभावेनाय महमस्मीति विजानन् विद्वान् वाक्यार्थज्ञानमात्रेण न भवते न भव- तीत्येतत् । किम् ? अतिवादी अतीत्य सर्वानन्यान्वदितुं शील- मस्येत्यतिवादी । यस्त्वेवं साक्षादात्मानं प्राणस्य प्राणं विद्वान्, सोऽतिवादी न भवतीत्यर्थः । सर्वे यदा आत्मैव नान्यदस्तीति दृष्टम्, तदा किं ह्यसावतीत्य वदेत् । यस्य त्वप- रमन्यद्दृष्टमस्ति स तदतीत्य वदति । अयं तु विद्वान्नात्मनो- ऽन्यत्पश्यति ; नान्यच्छृणोति ; नान्यद्विजानाति । अतो नातिवदति । किंच, आत्मक्रीड: आत्मन्येव क्रीडा क्रीडनं ' , यस्य नान्यत्र पुत्रदारादिषु स आत्मक्रीड: । तथा आत्म- रति: आत्मन्येव रती रमणं प्रीतिर्यय, स आत्मरतिः : । क्रीडा बाह्यसाधनसापेक्षा ; रतिस्तु साधननिरपेक्षा बाह्य- मुण्डकोपनिषद्भाष्ये विषयप्रीतिमात्रमिति विशेषः । तथा क्रियावान् ज्ञानध्यान- वैराग्यादिक्रिया यस्य सोऽयं क्रियवान् । समासपाठे आत्म- रतिरेव क्रियास्य विद्यत इति बहुव्रीहिमतुबंर्थयोरन्यतरो- ऽतिरिच्यते । केचित्त्वग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थ- मिच्छन्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवच- नेन विरुध्यते । न हि बाह्यक्रियावानात्मक्रीड आत्मरतिश्च भवितुं शक्तः । कश्चित्कचिद्वाह्यक्रियाविनिवृत्तो ह्यात्मक्रीडो भवति बाह्यक्रियात्मक्रीडयोर्विरोधात् । न हि तमः प्रकाश- योर्युगपदेकत्र स्थितिः संभवति । तस्मादसत्प्रलपितमे- वैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । 'अन्या वाचो विमुञ्चथ ' ' संन्यासयोगात्' इत्यादिश्रुतिभ्यश्च । तस्माद- यमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसंभिन्नार्यम- र्यादः संन्यासी । य एवंलक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्मनिष्ठः, स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः ॥ सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५ ॥ तृतीयं मुण्डकम् । " अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साध- नानि विधीयन्ते निवृत्तिप्रधानानि -- सत्येन अनृतत्यागेन मृषावदनत्यागेन लभ्यः प्राप्तव्यः । किंच, तपसा हीन्द्रियम- नएकाप्रतया । 'मनसश्चेन्द्रियाणां च यैकाग्र्यं परमं तपः इति स्मरणात् । तद्धयनुकूलमात्मदर्शनाभिमुखीभावात्परमं साधनं तपो नेतरच्चान्द्रायणादि । एष आत्मा लभ्य इत्यनु- षङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुनासमाचारेण । नित्यं सर्वदा; नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानु- षक्तव्यः । वक्ष्यति च 'न येषु जिह्ममनृतं न माया च' इति । क्वासावात्मा य एतैः साधनैर्लभ्य इत्युच्यते- अन्तःशरीरेऽन्तर्मध्ये शरीरख पुण्डरीकाकाशे ज्योतिर्म- यो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्ति उपल- भन्ते यतयः यतनशीलाः संन्यासिनः क्षीणदोषाः क्षीणक्रो- धादिचित्तमला:, स आत्मा नित्यं सत्यादिसाधनैः संन्यासि- भिर्लभ्यत इत्यर्थः । न कादाचित्कैः सत्यादिभिर्लभ्यते । स- त्यादिसाधनस्तुत्यर्थोऽयमर्थवादः ॥ सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः । 8. U. 11. 5 मुण्डकोपनिषद्भाष्ये येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥ सत्यमेव सत्यवानेव जयते जयति, नानृतं नानृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोः जयः पराजयो वा संभवति । प्रसिद्धं लोके सत्यवादिनानृतवाद्यभिभूयते न विपर्यय: ; अतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किंच, शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् ? सत्येन यथाभूतवादव्यवस्थया पन्थाः देवयानाख्यः विततो विस्तीर्णः सातत्येन प्रवृत्तः । येन पथा हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाठ्याहंकारदम्भानृतवर्जिता ह्याप्तकामाः विगततृष्णाः सर्वतो यत्र यस्मिन्, तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य संबन्धि साध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयत इति निधानं वर्तते । तत्र च येन पथा आक्रमन्ति, स सत्येन वितत इति पूर्वेण संबन्धः ॥ वृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥ तृतीयं मुण्डकम् । किं तत्किंधर्मकं च तदित्युच्यते-- बृहत महब तत् प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं स्वयंप्रभमनिन्द्रियगोचरम् अत एव न चिन्तयितुं . शक्यतेऽस्य रूपमिति अचिन्त्यरूपम् । सूक्ष्मादाकाशादे- रपि तत्सूक्ष्मतरम्, निरतिशयं हि सौक्ष्म्यमस्य सर्वकारण- त्वात् ; विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते । किंच, दूरात् विप्रकृष्टाद्देशात्सुदूरे विप्रकृष्टतरे देशे वर्तते वि- दुषामत्यन्तागम्यत्वात्तद्ब्रह्म । इह देहे अन्तिके समीपे च, विदुषामात्मत्वात् । सर्वान्तरत्वाच्चाकाशस्याप्यन्तरश्रुतेः । इह पश्यत्सु चेतनावत्स्वित्येतत्, निहितं स्थितं दर्शनादिक्रियाव- त्वेन योगिभिर्लक्ष्यमाणम् । क ? गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढं लक्ष्यते विद्वद्भिः । तथाप्यविद्यया संवृतं सन्न लक्ष्यते तत्रस्थमेवाविद्वद्भिः ॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्व- स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते-- यस्मात् न मुण्डकोपनिषद्भाष्ये चक्षुषा गृह्यते केनचिदप्यरूपत्वात् नापि गृह्यते वाचा अन- भिधेयत्वात् न चान्यैर्देवैः इतरेन्द्रियैः । तपसः सर्वप्राप्ति- • साधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनाग्निहोत्रादि- कर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह-ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभा- वेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रस- सन्नमशुद्धं सन्नावबोधयति नित्यसंनिहितमप्यात्मतत्त्वं म- लावनद्धमिवादर्शम्, विलुलितमिव सलिलम् । तद्यदेन्द्रि- यविषयसंसर्गजनितरागादिमलकालुष्यापनयनादादर्शसलिला- दिवत्प्रसादितं स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्मात् ततः तस्मात्तु तमात्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं ध्यायमानः सत्यादिसाधनवानुपसंहृतकरण एकाग्रेण मनसा ध्यायमानः चिन्तयन् ॥ , एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९ ॥ तृतीयं मुण्डकम् । यमात्मानमेवं पश्यति, एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः । कासौ ? यस्मिन् शरीरे प्राण: वायुः पञ्चधा प्राणापानादिभेदेन संविवेश सम्यक् प्रविष्ट:, तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा वेदितव्य इत्याह — प्राणैः सहेन्द्रियैः चित्तं सर्वमन्त:- करणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन, काष्ठमिव चाग्निना । सर्वं हि प्रजानामन्त: :करणं चेतनावत्प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति, एषः उक्त आत्मा विशेषेण स्वेनात्मना विभवति आत्मानं प्रकाशयती- त्यर्थः ॥ यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां- स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥१०॥ इति तृतीयमुण्डके प्रथमः खण्डः ॥ य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य स - र्वात्मत्वादेव सर्वावाप्तिलक्षणं फलमाह — यं यं लोकं पित्रा- दिलक्षणं मनसा संविभाति संकल्पयति मह्यमन्यस्मै वा भ- ' मुण्डकोपनिषद्भाष्ये वेदिति, विशुद्धसत्वः क्षीणक्लेशः आत्मविन्निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थयते भोगान् तं तं लोकं जयते प्राप्नोति तांश्च कामान्संकल्पितान्भोगान् । तस्माद्विदुषः स- त्यसंकल्पत्वादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं ह्यर्चयेत्पू- जयेत्पादप्रक्षालनशुश्रूपानमस्कारादिभिः भूतिकामः विभूति- मिच्छुः । ततः पूजार्ह एवासौ ॥ इति तृतीयमुण्डके प्रथमखण्डभाग्यम् ॥ द्वितीयः खण्डः ॥ स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामा- स्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥ यस्मात् स वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम सर्वकामाणामाश्रयमास्पदम्, यत्र यस्मिन्त्र- ह्मणि धानि विश्रं समस्तं जगत् निहितम् अर्पितम्, यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम्, तमप्येवंविधमात्मज्ञं पुरुषं ये हि अकामा: विभूतितृष्णावर्जिता मुमुक्षवः सन्तः उपा- सते परमिव देवम्, ते शुक्रं नृबीजं यदेतत्प्रसिद्धं शरीरोपा- दानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर्योनिं प्रसर्पन्ति 1 'न पुन: क रतिं करोति' इति श्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥ . कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । मुण्डकोपनिषद्भाष्ये पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति- क़ामान् यः दृष्टादृष्टेष्टविषयान् कामयते मन्यमानः तद्गुणां- श्विन्तयानः प्रार्थयते, सः तैः कामभिः कामैर्धर्माधर्मप्र- वृत्तिहेतुभिर्विषयेच्छारूपैः सह जायते; तत्र तत्र यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति तत्र तत्र तेषु तेषु विषयेषु तैरेव कामैर्वेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञानात्पर्याप्तकामः आत्मकामत्वेन परि सम- न्तत: आप्ताः कामा यस्य तस्य पर्याप्तकामस्य कृतात्मनः अविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य, तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्माधर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति, नश्यन्तीत्यर्थः । कामाः तज्जन्महेतुवि - नाशान्न जायन्त इत्यभिप्राय: ॥ नायमात्मा प्रवचनेन लभ्यो : न मेधया न बहुना श्रुतेन । तृतीयं मुण्डकम् । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनुं खाम् ॥ - 1. यद्येवं सर्वलाभात्परम आत्मलाभः, तल्लाभाय प्रवचना- -दय उपाया बाहुल्येन कर्तव्या इति प्राप्ते, इदमुच्यते- य: अयमात्मा व्याख्यातः, यस्य लाभः परः पुरुषार्थ:, नासौ वेदशास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य इति उच्यते- यमेव परमात्मानमेव एषः विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष पर आत्मा लभ्यः, नान्येन साधनान्तरेण, नित्यलब्धस्वभावत्वात् । कीदृशोऽसौ विदुष आत्मलाभ इति, उच्यते — तस्य एष आत्मा अविद्यासंछन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादिर्विद्यायां सत्यामाविर्भवतीत्यर्थः । तस्मादन्यत्यागेना- त्मप्रार्थनैव आत्मलाभसाधनमित्यर्थः ॥ नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् । मुण्डकोपनिषद्भाष्ये एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्म धाम ॥ आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमा- दतपांसि लिङ्गयुक्तानि संन्याससहितानि । यस्मात् न अयमा- त्मा बलहीनेन बलप्रहीणेनात्मनिष्ठाजनितवीर्यहीनेन ल- भ्यः ; नापि लौकिकपुत्रपश्वादिविषयासङ्गनिमित्तात्प्रमादात् ; तथा तपसो वापि अलिङ्गात् लिङ्गरहितात् । तपोऽत्र ज्ञा- नम् ; लिङ्गं संन्यास: ; संन्यासरहिताज्ज्ञानान्न लभ्यत इत्यर्थः । एतैः उपायैः बलाप्रमादसंन्यासज्ञानैः यतते तत्परः सन्प्रयतते यस्तु विद्वान्विवेकी आत्मवित्, तस्य विदुषः एष आत्मा विशते संप्रविशति ब्रह्म धाम ॥ संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥ ५॥ कथं ब्रह्म विशत इति, उच्यते - संप्राप्य समवगम्य एनम् आत्मानम् ऋषयः दर्शनवन्तः तेनैव ज्ञानेन तृप्ताः, न, बा- तृतीयं मुण्डकम् । ह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः परमा- त्मस्वरूपेणैव निष्पन्नात्मानः सन्तः । वीतरागाः विगतरा- गादिदोषाः । प्रशान्ता: उपरतेन्द्रियाः । ते एवंभूताः सर्वगं सर्वव्यापिनम् आकाशवत् सर्वतः सर्वत्र प्राप्य, नोपाधिपरि- च्छिन्नेनैकदेशेन ; किं तर्हि, तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीराः अत्यन्तविवेकिनः युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽपि आविशन्ति भिन्नघटा- काशवदविद्याकृतोपाधिपरिच्छेदं जहति । एवं ब्रह्मविदो ब्रह्म धाम प्रविशन्ति ॥ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६ ॥ किंच, वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः पर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसु- निश्चितार्थाः । ते च संन्यासयोगात् सर्वकर्मपरित्यागलक्षणयो- गात्केवलब्रह्मनिष्ठास्वरूपाद्योगात् यतयः यतनशीलाः शुद्धस- त्त्वाः शुद्धं सत्त्वं येषां संन्यासयोगात्, ते शुद्धसत्त्वाः । ते त्र- मुण्डकोपनिषद्भाष्ये ह्मलोकेषु ; संसारिणां ये मरणकालास्ते अपरान्तकाला:; तान- पेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्यागकालः परान्तकाल: तस्मिन् परान्तकाले साधकानां बहुत्वाद्ब्रह्मैव लोको ब्रह्मलोकः एकोऽप्यनेकवदृश्यते प्राप्यते च । अतो बहुवचनं ब्रह्मलोके - ष्विति, ब्रह्मणीत्यर्थः । परामृताः परम् अमृतम् अमरणधर्मकं ब्रह्म आत्मभूतं येषां ते परामृता जीवन्त एवं ब्रह्मभूता:, परा- मृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनिर्वाणवद्भिन्न- घटाकाशवच्च निवृत्तिमुपयान्ति परिमुच्यन्ति परि सम- -न्तान्मुच्यन्ते सर्वे, न देशान्तरं गन्तव्यमपेक्षन्ते । 'शकु- नीनामिवाकाशे जले वारिचरस्य वा । पदं यथा न दृश्येत तथा ज्ञानवतां गति: 'अनध्वगा अध्वसु पारयिष्णवः इति श्रुतिस्मृतिभ्याम् ; देशपरिच्छिन्ना हि गतिः संसारविषयैव, परिच्छिन्नसाधनसाध्यत्वात् । ब्रह्म तु समस्तत्वान्न देशपरि- च्छेदेन गन्तव्यम् । यदि हि देशपरिच्छिन्नं ब्रह्म स्यात्, मू- र्तद्रव्यवदाद्यन्तवदन्याश्रितं सावयवमनित्यं कृतकं च स्यात् । न त्वेवंविधं ब्रह्म भवितुमर्हति । अतस्तत्प्राप्तिश्च नैव देशप- रिच्छिन्ना भवितुं युक्ता ॥ , गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । तृतीयं मुण्डकम् । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥ ७७. अपि च, अविद्यादिसंसारबन्धापनयनमेव मोक्षमिच्छन्ति ब्रह्मविदः, न तु कार्यभूतम् । किंच, मोक्षकाले या देहार- म्भिकाः कलाः प्राणाद्याः, ता: स्वा: प्रतिष्ठाः गताः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्विती- याबहुवचनम् । पञ्चदश पञ्चदशसंख्याका या अन्त्यप्रश्न- परिपठिताः प्रसिद्धाः, देवाश्च देहाश्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादित्यादिषु गता भवन्तीत्यर्थः । यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि, प्रवृत्तफलानामुपभो- गेनैव क्षीणत्वात् । विज्ञानमयश्वात्मा अविद्याकृतबुद्धया- युपाधिमात्मत्वेन गत्वा जलादिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वात्सह तेनैव विज्ञान- मयेनात्मना ; अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि विज्ञानमयश्च आत्मा उपाध्यपनये सति परे अव्यये अनन्तेऽक्षये ब्रह्मणि आकाशकल्पेऽजेऽजरेऽमृते ऽभयेऽपूर्वेऽन- परेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते सर्वे एकीभवन्ति अवि- शेषतां गच्छन्ति एकत्वमापद्यन्ते जलाद्याधारापनय इव सू-- 26. मुण्डकोपनिषद्धाप्ये र्यादिप्रतिबिम्बाः सूर्ये, घटाद्यपनय इवाकाशे घटाया- काशाः ॥ यथा नद्यः स्यन्दमानाः समुद्रे- ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥ किंच, यथा नद्यः गङ्गाद्याः स्यन्दमानाः गच्छन्त्यः समुद्रे समुद्रं प्राप्य अस्तम् अदर्शनमविशेषात्मभावं गच्छन्ति प्राप्नु- वन्ति नाम च रूपं च नामरूपे विहाय हित्वा तथा अवि- द्याकृतनामरूपात् विमुक्तः सन् विद्वान् परात् अक्षरात्पूर्वो- क्तात् परं दिव्यं पुरुषं यथोक्तलक्षणम् उपैति उपगच्छति ॥ स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरतिं पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९ ॥ ननु श्रेयस्यनेके विघ्नाः प्रसिद्धाः ; अतः क्लेशानामन्यतमे- नान्येन वा देवादिना च विनितो ब्रह्मविदप्यन्यां गतिं मृतो 1 तृतीयं मुण्डकम् । गच्छति न ब्रह्मैव ; न, विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्यप्रतिबन्धः, नित्यत्वा- दात्मभूतत्वाच्च । तस्मात् सः यः कश्चित् ह वै लोके तत् पर- मं ब्रह्म वेद साक्षादहमेवास्मीति जानाति, स नान्यां गतिं गच्छति । देवैरपि तस्य ब्रह्मप्राप्ति प्रति विघ्नो न शक्यते कर्तुम्; आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान् ब्रह्मैव भवति । किंच, न अस्य विदुष: अब्रह्मवित कुले भवति; किंच, तरति शोकम् अनेकेष्टवैकल्यनिमित्तं मानसं संतापं जीव- नेवातिक्रान्तो भवति । तरति पाप्मानं धर्माधर्माख्यं गुहाग्र- न्थिभ्यः हृदयाविद्याग्रन्थिभ्यः विमुक्तः सन मृतः भवती- त्युक्तमेव ' भिद्यते हृदयग्रन्थिः ' इत्यादि ॥ तदेतदृचाभ्युक्तम्— क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥ अथेदानीं ब्रह्मविद्यासंप्रदानविध्युपप्रदर्शनेनोपसंहारः क्रि- यते —— तदेतत् विद्यासंप्रदानविधानम् ऋचा मन्त्रेण अभ्यु- - मुण्डकोपनिषद्भाष्ये क्तम् अभिप्रकाशितम् । क्रियावन्तः यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रियाः ब्रह्मनिष्ठा: अपरस्मिन्त्रह्मण्यभियुक्ताः परं ब्रह्म बुभुत्सवः स्वयम् एकर्षिम् एकर्षिनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तः ये, तेषामेव संस्कृतात्मनां पात्र -- भूतानाम् एतां ब्रह्मविद्यां वदेत ब्रूयात् शिरोव्रतं शिरस्यग्नि- धारणलक्षणम् । यथा आथर्वणानां वेदव्रतं प्रसिद्धम् । यैस्तु यैश्च तत् चीर्ण विधिवत् यथाविधानं तेषामेव वदेत ॥ तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैत- दचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥ तदेतत् अक्षरं पुरुषं सत्यम् ऋषिः अङ्गिरा नाम पुरा पूर्वं शौनकाय विधिवदुपसन्नाय पृष्टवते उवाच । तद्वदन्यो- ऽपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय ब्रू- यादित्यर्थः । न एतत् ग्रन्थरूपम् अचीर्णव्रतः अचरितव्रतो- Sपि अधीते न पठति ; चीर्णव्रतस्य हि विद्या फलाय संस्कृ- ता भवतीति । समाप्ता ब्रह्मविद्या ; सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता, तेभ्यो नमः परमऋषिभ्यः । परमं तृतीयं मुण्डकम् । ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च ते परमर्षयः तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थः मुण्डकसमा - त्यर्थं च ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मुण्डकोपनिषद्भाष्यं संपूर्णम् ॥ 8. U. 11. 6 田 भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्य- जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ- सस्तनूभिः । व्यशेम देव- हितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति न- स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ -- ॥ 30 ॥ माण्डूक्योपनिषद्भाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । : भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्य- जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ- सस्तनूभिः । व्यशेम देव- हितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः AB पूषा विश्ववेदाः । स्वस्ति न - स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सगौडपादीयकारिका ॥ माण्डूक्योपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता ॥ -88. प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोका- न्भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् । पीत्वा सर्वान्विशेषान्स्वपिति मधुरभुड्यायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥ यो विश्वात्मा विधिजविषयान्प्राश्य भोगान्स्थविष्ठा- न्पश्वाच्चान्यान्स्वमतिविभवाज्ज्योतिषा स्वेन सूक्ष्मान् । सर्वानेतान्पुनरपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥ २ ॥ . आगमप्रकरणम् ॥ . ओमित्येतदक्षरमिदं सर्वं त- स्योपव्याख्यानम् । वेदान्तार्थसार- संग्रहभूतमिदं प्रकरणचतुष्टयम् ओ- मित्येतदक्षरमित्यादि आरभ्यते । अत एव न पृथकू संबन्धाभिधेयप्रयोज- नानि वक्तव्यानि । यान्येव तु वे- दान्ते संबन्धाभिधेयप्रयोजनानि, तान्येवेहापि भवितुमर्हन्ति ; तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानीति मन्य- न्ते व्याख्यातारः । तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेना- भिधेयसंबद्धं शास्त्रं पारम्पर्येण विशिष्ट संबन्धाभिधेयप्रयो- जनवद्भवति । किं पुनस्तत्प्रयोजनमिति, उच्यते — रोगार्त- स्येव रोगनिवृत्तौ स्वस्थता, तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता; अद्वैतभावः प्रयोजनम् । द्वैतप्रप- श्वस्य चाविद्याकृतत्वाद्विद्यया तदुपशमः स्यादिति ब्र- ह्मविद्याप्रकाशनाय अस्यारम्भः क्रियते । ' यत्र हि द्वैतमिव भवति' 'यत्र वान्यदिव स्यात्तत्रान्योऽन्य- 1 आगमप्रकरणम् । त्पश्येदन्योऽन्यद्विजानीयात्' 'यत्र त्वस्य सर्वमात्म- वाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्' इत्यादिश्रु- तिभ्यो ऽस्यार्थस्य सिद्धि: । तत्र तावदोंकारनिर्णयाय प्रथमं प्रकरणमागमप्रधानमात्मतत्त्वप्रतिपत्त्युपायभूतम् । यस्य द्वैत- प्रपञ्चस्योपशमे अद्वैतप्रतिपत्तिः रज्ज्वामिव सर्पादिविकल्पो- पशमे रज्जुतत्त्वप्रतिपत्तिः, तस्य द्वैतस्य हेतुतो वैतथ्यप्रति - पादनाय द्वितीयं प्रकरणम् । तथा अद्वैतस्यापि वैतथ्यप्रस- ङ्गप्राप्तौ युक्तितस्तथात्वप्रतिपादनाय तृतीयं प्रकरणम् । अद्वै- तस्य तथात्वप्रतिपत्तिविपक्षभूतानि यानि वादान्तराण्यवैदि- कानि सन्ति, तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपप- त्तिभिरेव निराकरणाय चतुर्थ प्रकरणम् ॥ ओमित्येतदक्षरमिदँ सर्वं तस्योप- व्याख्यानं भूतं भवद्भविष्यदिति सर्वमों- कार एव । यच्चान्यत्रिकालातीतं तदप्यों- कार एव ॥ १ ॥ कथं पुनरोंकारनिर्णय आत्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिप- द्यत इति, उच्यते – 'ओमित्येतत् ' ' एतदालम्बनम् ' ' एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनै- माण्डूक्योपनिषत्कारिकाभाष्ये ' वायतनेनैकतरमन्वेति ' 'ओमित्यात्मानं युञ्जीत' 'ओमिति ब्रह्म' ' ओंकार एवेदं सर्वम्' इत्यादिश्रुतिभ्यः । रज्ज्वादि- रिव सर्पादिविकल्पस्यास्पदमद्वय आत्मा परमार्थतः सन्प्रा- णादिविकल्पस्यास्पदं यथा, तथा सर्वोऽपि वाक्प्रपञ्चः प्रा- णाद्यात्मविकल्पविषय ओंकार एव । स चात्मस्वरूप- मेव, तदभिधायकत्वात् । ओंकारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविकल्पः अभिधानव्यतिरेकेण नास्ति; वा- चारम्भणं विकारो नामधेयम्' ' तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्व सितम्, सर्व हीदं नामनि' इत्यादिश्रु- तिभ्यः । अत आह— ओमित्येतदक्षरमिदं सर्वमिति । य- दिदम् अर्थजातमभिधेयभूतम्, तस्य अभिधानाव्यतिरेकात्, अभिधानभेदस्य च ओंकाराव्यतिरेकात् ओंकार एवेदं सर्वम् । परं च ब्रह्म अभिधानाभिधेयोपाय पूर्वकमवगम्यत इत्योंकार एव । तस्य एतस्य परापरब्रह्मरूपस्याक्षरस्य ओमित्येतस्य उपव्याख्यानम्, ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्टं प्रकथनमुपव्याख्यानम् ; प्रस्तुतं वेदितव्यमिति वाक्यशेषः । भूतं भवत् भविष्यत् इति कालत्रयपरिच्छेद्यं यत्, तदपि ओंकार एव, उक्तन्यायतः । यश्च अन्यत् त्रिकालातीतं कार्या- धिगम्यं कालापरिच्छेद्यमव्याकृतादि, तदपि ओंकार एव ॥ आगमप्रकरणम् । सर्व ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽय- मात्मा चतुष्पात् ॥ २ ॥ . अभिधानाभिधेययोरेकत्वेऽपि अभिधानप्राधान्येन नि- देश: कृत: 'ओमित्येतदक्षरमिदं सर्वम्' इत्यादि । अभि- धानप्राधान्येन निर्दिष्टस्य पुनरभिधेयप्राधान्येन निर्देश: अभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थः । इतरथा हि अभि- धानतन्त्राभिधेयप्रतिपत्तिरिति अभिधेयस्याभिधानत्वं गौण- मित्याशङ्का स्यात् । एकत्वप्रतिपत्तेश्च प्रयोजनमभिधाना- भिधेययोः — एकेनैव प्रयत्नेन युगपत्प्रविलापयंस्तद्विलक्षणं ब्रह्म प्रतिपद्येतेति तथा च वक्ष्यति -- ' पादा मात्रा मात्राश्च पादा:' इति । तदाह-- सर्वे ह्येतद्ब्रह्मेति । सर्व यदुक्तमोंकारमात्रमिति, तदेतत् ब्रह्म । तच ब्रह्म परोक्षा- भिहितं प्रत्यक्षतो विशेषेण निर्दिशति- -अयमात्मा ब्रह्मेति । अयम् इति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयमात्मेति । सोऽयमात्मा ओंकाराभिधेयः परा- परत्वेन व्यवस्थितः चतुष्पात् कार्षापणवत्, न गौरिव । त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्ति- रिति करणसाधनः पादशब्दः ; तुरीयस्य तु पद्यत इति कर्म- साधनः पादशब्दः ॥ । 1 माण्डूक्योपनिषत्कारिकाभाप्ये जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग ए- कोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथ- मः पादः ॥ ३ ॥ " कथं चतुष्पात्त्वमित्याह -- जागरितस्थान इति । जागरितं स्थानमस्येति जागरितस्थान:, वहिः प्रज्ञः स्वात्मव्यतिरिक्ते वि- षये प्रज्ञा यख सः बहिः प्रज्ञः; बहिर्विषयेव प्रज्ञा यस्याविद्या- तावभासत इत्यर्थः । तथा सप्त अङ्गान्यस्य ; ' तस्य ह वा एत- स्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृ- थग्वर्त्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ ' इत्यग्निहोत्राहुतिकल्पनाशेषत्वेनाभिर्मुखत्वे नाहवनीय उक्त इत्ये- वं सप्ताङ्गानि यस्य सः सप्ताङ्गः । तथा एकोनविंशतिर्मुखान्य- स्य ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश, वायवश्च प्राणादयः पश्च, मनो बुद्धिरहंकारश्चित्तमिति, मुखानीव मुखानि तानि; उपलब्धिद्वाराणीत्यर्थः । स एवंविशिष्टो वैश्वानरः यथोक्तैर्द्वारैः शब्दादीन्स्थूलान्विषयान्भुत इति स्थूलभुक् । विश्वेषां नराणामनेकधा सुखादिनयनाद्विश्वानरः, यद्वा वि- वश्वासौ नरश्चेति विश्वानरः, विश्वानर एव वैश्वानरः, सर्व- पिण्डात्मानन्यत्वात् ; स प्रथमः पादः । एतत्पूर्वकत्वादु- तरपादाधिगमस्य प्राथम्यमस्य । कथम् ' अयमात्मा ब्रह्म' " आगमप्रकरणम् । इति प्रत्यगात्मनोऽस्य चतुष्पात्वे प्रकृते द्युलोकादीनां मूर्धा- द्यङ्गत्वमिति ? नैष दोष:, सर्वस्य प्रपञ्चस्य : साधिदैवि कस्य अनेनात्मना चतुष्पात्त्वस्य विवक्षितत्वात् । एवं च सति सर्वप्रपञ्चोपशमे अद्वैतसिद्धिः । सर्वभूतस्थश्च आत्मा एको दृष्टः स्यात्; सर्वभूतानि चात्मनि । 'यस्तु सर्वाणि भूतानि' इत्यादिश्रुत्यर्थश्चैवमुपसंहृतः स्यात्; अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यगात्मा सांख्यादिभिरिव दृष्टः स्यात्;. तथा च सति अद्वैतमिति श्रुतिकृतो विशेषो न स्यात्, सां- ख्यादिदर्शनेनाविशेषात् । इष्यते च सर्वोपनिषदां सर्वात्मै- क्यप्रतिपादकत्वम्; ततो युक्तमेवास्य आध्यात्मिकस्य पि- ण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमित्य- भिप्रेत्य सप्ताङ्गत्ववचनम् । ' मूर्धा ते व्यपतिष्यत्' इत्यादि- लिङ्गदर्शनाच्च । विराजैकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृ- तात्मनोः । उक्तं चैतन्मधुत्राह्मणे -- 'यश्चायंमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मम्' इत्यादि । सुषुप्ताव्याकृतयोस्त्वेकत्वं सिद्धमेव निर्विशेषत्वात् । एवं च सत्येतत्सिद्धं भविष्यति -- सर्वद्वैतोपशमे चाद्वैतमिति ॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोन- विंशतिमुखः प्रविविक्तभुंक्तैजसो द्विती- माण्डूक्योपनिषत्कारिकाभाप्ये यः पादः ॥ ४ ॥ स्वप्नः स्थानमस्य तैजसस्येति स्वप्नस्थान: । जाग्रत्प्रज्ञा अने- कसाधना बहिर्विषयेवावभासमाना मनः स्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ; तन्मनः तथा संस्कृतं चित्रित इव पटो बाह्यसाधनानपेक्षमविद्याकामकर्मभिः प्रेर्य- माणं जाग्रद्वदवभासते । तथा चोक्तम्- 'अस्य लोकस्य सर्वावतो मात्रामपादाय' इत्यादि । तथा ' परे देवे मनस्येकी- भवति' इति प्रस्तुत्य ' अत्रैष देवः स्वप्ने महिमानमनु- भवति' इत्याथर्वणे । इन्द्रियापेक्षया अन्तःस्थत्वान्मनसः तद्वासनारूपा च स्वप्ने प्रज्ञा यस्येति अन्त: प्रज्ञः, विषय- शून्यायां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवती- ति तैजसः । विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्य- त्वम् ; इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रवि- विक्तो भोग इति । समानमन्यत् । द्वितीयः पादः तैजसः ॥ यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वमं पश्यति तत्सुषुप्तम् । सुषुस- स्थान एकीभूतः प्रज्ञानघन एवानन्दम- आगमप्रकरणम् । यो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥ दर्शनादर्शनवृत्त्योः स्वापस्य तुल्यत्वात्सुषुप्तग्रहणार्थं यत्र सुप्त इत्यादिविशेषणम् । अथवा, त्रिष्वपि स्थानेषु तत्त्वाप्र- तिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते — यत्र यस्मिन्स्थाने काले वा सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति । न हि सुषुप्ते पूर्वयोरिवान्यथाग्रह- लक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यते । तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थान: । स्थानद्वयप्रविभक्तं मनःस्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतमित्युच्यते । अत एव स्वप्नजाग्रन्मनःस्पन्द- नानि प्रज्ञानानि घनीभूतानीव; सेयमवस्था अविवेकरूपत्वा- त्प्रज्ञानघन उच्यते । यथा रात्रौ नैशेन तमसा अविभज्यमानं सर्व घनमिव, तद्वत्प्रज्ञानघन एव एवशब्दान्न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीत्यर्थः । मनसो विषयविषय्याकारस्पन्द- नायासदुःखाभावात् आनन्दमयः आनन्दप्रायः ; नानन्द एव, अनात्यन्तिकत्वात् । यथा लोके निरायासः स्थितः सुख्यानन्दभुगुच्यते । अत्यन्तानायासरूपा हीयं स्थितिरने- नात्मनानुभूयत इत्यानन्दभुक्,' एषोऽस्य परम आनन्दः ' माण्डूक्योपनिषत्कारिकाभाष्ये इति श्रुतेः । स्वप्नादिप्रतिबोधं चेतः प्रति द्वारीभूतत्वात् चेतोमुखः; बोधलक्षणं वा चेतो द्वारं मुखमस्य स्वप्नाद्याग- मनं प्रतीति चेतोमुखः । भूतभविष्यज्ज्ञातृत्वं सर्वविषय- ज्ञातृत्वमस्यैवेति प्राज्ञः । सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते । अथवा, प्रज्ञप्तिमात्रमस्यैव असाधारणं रूपमिति प्राज्ञः ; इतरयोर्विशिष्टमपि विज्ञानमस्तीति । सोऽयं प्राज्ञ- स्तृतीयः पादः ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्या- म्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥ एषः हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजा- तस्य सर्वस्य ईश्वरः ईशिता ; नैतस्माज्जात्यन्तरभूतोऽन्येषामि- व, 'प्राणबन्धनं हि सोम्य मनः' इति श्रुतेः । अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेति एषः सर्वज्ञः । अत एव एषः अन्तर्यामी, अन्तरनुप्रविश्य सर्वेषां भूतानां यमायता नि- यन्ताप्येष एव । अत एव यथोक्तं सभेदं जगत्प्रसूयत इति एषः योनिः सर्वस्य । यत एवम् प्रभवश्चाप्ययश्च प्रभवा- प्ययौ हि भूतानामेष एव ॥ ' आगमप्रकरणम् । अनैते श्लोका भवन्ति - बहिःप्रज्ञो विभुर्विश्वो द्यन्तः प्रज्ञस्तु तैजसः । घनमज्ञस्तथा प्राज्ञ एक एव त्रिधा स्थितः ॥ १ ॥ अत्र एतस्मिन्यथोक्तेऽर्थे एते श्लोका भवन्ति — बहिः प्रज्ञ इति । पर्यायेण त्रिस्थानत्वात् सोऽहमिति स्मृत्या प्रतिसंधा- नाच्च स्थानत्रयव्यतिरिक्तत्वमेकत्वं शुद्धत्वमसङ्गत्वं च सि- द्वमित्यभिप्रायः, महामत्स्यादिदृष्टान्तश्रुतेः ॥ - दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥ जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्श- नार्थोऽयं श्लोकः — दक्षिणाक्षीति । दक्षिणमक्ष्येव मुखम्, तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्व: अनुभूयते, ' इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुष:' इति श्रुतेः । इन्धो दीप्तिगुणो वैश्वानर आदित्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः । नन्वन्यो हिरण्यगर्भः, क्षेत्रज्ञो दक्षिणेऽक्षिण्य- क्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी ; न, स्वतो भेदानभ्यु- पगमात्; ' एको देवः सर्वभूतेषु गूढ:' ज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' S. C. II. 7 , इति श्रुतेः, 'क्षेत्र- ' अविभक्तं च भू- ९.८ माण्डूक्योपनिषत्कारिकाभाप्ये तेषु विभक्तमिव च स्थितम्' इति स्मृतेश्च; सर्वेषु करणेष्व- विशेषेष्वपि दक्षिणाक्षिण्युपलब्धिपाटवदर्शनात्तत्र विशेषेण निर्देशोऽस्य विश्वस्य । दक्षिणाक्षिगतो दृष्ट्वा रूपं निमीलिताक्ष- स्तदेव स्मरन्मनस्यन्त: स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति । यथा तत्र तथा स्वप्ने; अतः मनसि अन्तस्तु तेज- सोऽपि विश्व एव । आकाशे च हृदि स्मरणाख्यव्यापारोप- रमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति, मनोव्यापाराभा- वात् । दर्शनस्मरणे एव हि मनः स्पन्दितम् ; तदभावे हृद्येवा- विशेषेण प्राणात्मनावस्थानम्, 'प्राणो होवैतान्सर्वान्संवृङ्के' इति श्रुतेः । तैजसः हिरण्यगर्भः, मनःस्थित्वात्; 'लिङ्गं मन: ' ' मनोमयोऽयं पुरुष: ' इत्यादिश्रुतिभ्यः । ननु, व्या- कृतः प्राणः सुषुप्ते ; तदात्मकानि करणानि भवन्ति ; कथम- व्याकृतता ? नैष दोषः, अव्याकृतस्य देशकालविशेषाभावा- त् । यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य ; तथा- पि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणे भवतीत्यव्या- कृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् । यथा प्राण- लये परिच्छिन्नाभिमानिनां प्राणोऽव्याकृतः, तथा प्राणाभि- मानिनोऽप्यविशेषापत्तावव्याकृतता. समाना, प्रसववीजात्म- कत्वं च । तदध्यक्षश्चैकोऽव्याकृतावस्थः । परिच्छिन्नाभिमा- आगमप्रकरणम् । ' " ' निनामध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानंघन इत्याद्युपपन्नम् । तस्मिन्नेतस्मिन्नुक्तहेतुसत्त्वाच्च । कथं प्राणशब्दत्वमव्याकृतस्य ? ' प्राणवन्धनं हि सोम्य मनः इति श्रुतेः । ननु, तत्र 'सदेव सोम्य' इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् ; नैष दोष:, वीजात्मकत्वाभ्युपगमात्सतः । यद्यपि सा प्राणशब्दवाच्यं तत्र, तथापि जीवप्रसववीजा- त्मकत्वमपरित्यज्यैव प्राणशब्दत्वं सतः सच्छव्दवाच्यता च । यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत् 'नेति नेति' 'यतो वाचो निवर्तन्ते' 'अन्यदेव तद्विदितादथो अवि- दितादधि' इत्यवक्ष्यत् ; न सत्तन्नास दुच्यते ' इति स्मृतेः । निर्बीजतयैव चेत्, सति प्रलीनानां संपन्नानां सुपुप्तिप्रलययोः पुनरुत्थानानुपपत्तिः स्यात्; मुक्तानां च पुनरुत्पत्तिप्रसङ्गः, बीजाभावाविशेषात्, ज्ञानदाह्यवीजाभावे च ज्ञानानर्थक्य- प्रसङ्गः; तस्मात्सबीजत्वाभ्युपगमेनैव सतः प्राणत्वव्यप- देशः, सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत एव अक्ष- रात्परतः परः ' ' सबाह्याभ्यन्तरो ह्यज: ' 'यतो वाचो निवर्तन्ते' 'नेति नेति' इत्यादिना बीजत्वापनयनेन व्यप- देश: । तामवीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति । माण्डूक्योपनिषत्कारिकाभाप्ये बीजावस्थापि' न किंचिदवेदिषम्' इत्युत्थितस्य प्रत्ययद- र्शनाद्देहेऽनुभूयत एवेति त्रिधा देहे व्यवस्थित इत्युच्यते ॥ विश्वो हि स्थूलभुङ्ं नित्यं तैजसः प्रविविक्तभुक् । आनन्द भुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३ ॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४ ॥ उक्तार्थी हि श्लोकौ ॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५ ॥ त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं यद्धो- ज्यमेकं त्रिधाभूतम् ; यश्च विश्वतैजसप्राज्ञाख्यो भोक्तैकः 'सोऽहम्' इत्येकत्वेन प्रतिसंधानात् द्रष्टृत्वाविशेषाच्च प्रकी- र्तितः; यो वेद एतदुभयं भोज्यभोक्तृतया अनेकधा भिन्न- म, सः भुञ्जानः न लिप्यते, भोज्यस्य सर्वस्यैकभोक्तृ- भोज्यत्वात् । न हि यस्य यो विषयः, स तेन हीयते वर्धते वा । न ह्यग्निः स्वविषयं दग्ध्वा काष्ठादि, तद्वत् ॥ प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्व जनयति प्राणश्वेतोंशून्पुरुषः पृथक् ॥ ६ ॥ C आगमप्रकरणम् । सतां विद्यमानानां स्वेन अविद्याकृतनामरूपमायास्वरू- पेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां पभवः उत्पत्तिः । वक्ष्यति च — वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते' इति । यदि ह्यसतामेव जन्म स्यात्, ब्रह्मणोऽव्य- वहार्यस्य ग्रहणद्वाराभावादसत्त्वप्रसङ्गः । दृष्टं च रज्जुसर्पा- दीनामविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्यात्मना सत्त्वम् । न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिदुपलभ्यन्ते केनचित् । यथा रज्ज्वां प्राक्सर्पोत्पत्तेः रज्ज्वात्मना सर्पः सन्नेवासीत्, एवं सर्वभावानामुत्पत्तेः प्राक्प्राणबीजात्म- नैव सत्त्वमिति । श्रुतिरपि वक्ति 'ब्रह्मैवेदम् ' 'आत्मैवेदमग्र आसीत्' इति । अतः सर्वे जनयति प्राणः चेतोंशून् अंशव इव रवेश्चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञ- तैजसविश्वभेदेन देवमनुष्यतियंगादिदेहभेदेषु विभाव्यमाना- श्वेतोंशवो ये तान् पुरुषः पृथक् सृजति विषयभावविलक्ष- णानग्निविस्फुलिङ्गवत्सलक्षणान् जलार्कवच जीवलक्षणांस्त्वि- तरान्सर्वभावान् प्राणो बीजात्मा जनयति, 'यथोर्णनाभिः ' 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा:' इत्यादिश्रुतेः ॥ ' विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वममायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥ माण्डूक्योपनिषत्कारिकाभाप्ये विभूतिर्विस्तार ईश्वरस्य सृष्टिरिति सृष्टिचिन्तका मन्य- न्ते ; न तु परमार्थचिन्तकानां सृष्टावादर इत्यर्थः, 'इन्द्रो 'मायाभिः पुरुरूप ईयते' इति श्रुतेः । न हि मायाविनं सूत्रमाकाशे निःक्षिप्य तेन सायुधमारुह्य चक्षुर्गोचरतामतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत्कृत- मायादिसतत्त्वचिन्तायामादरो भवति । तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वनादिविकासः तदा रूढमायाविस- मश्च तत्स्थप्राज्ञतैजसादि: ; सूत्रतदारूढा भ्यामन्यः परमा- मायावी । स एव भूमिष्ठो मायाच्छन्नः अदृश्यमान एव स्थितो यथा, तथा तुरीयाख्यं परमार्थतत्त्वम् । अतस्तच्चि- न्तायामेवादरो मुमुक्षूणामार्याणाम्, न निष्प्रयोजनायां सृ- ष्टावादर इत्यत: सृष्टिचिन्तकानामेवैते विकल्पा इत्याह- स्वप्नमायासरूपेति । स्वप्नसरूपा मायासरूपा चेति ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ इच्छामात्रं प्रभोः सत्यसंकल्पत्वात् सृष्टिः घटादीनां संकल्पनामात्रम्, न संकल्पनातिरिक्तम् । कालादेव सृष्टि- रिति केचितं ॥ आगमप्रकरणम् । भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ९॥ इति । भोगार्थम्, क्रीडार्थमिति च अन्ये सृष्टिं मन्यन्ते । अनयोः पक्षयोर्दूषणं देवस्यैष स्वभावोऽयमिति देवस्य स्व- भावपक्षमाश्रित्य, सर्वेषां वा पक्षाणाम् — आप्तकामस्य का स्पृहेति । न हि रज्ज्वादीनामविद्यास्वभावव्यतिरेकेण सर्पा- द्याभासत्वे कारणं शक्यं वक्तुम् ॥ नान्तः प्रज्ञं नबहिः प्रज्ञं नोभयतः प्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृश्यम- व्यवहार्यमग्राह्यमलक्षणमचिन्त्यमत्र्यपदे- श्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शा- न्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥ चतुर्थः पादः क्रमप्राप्तो वक्तव्यं इत्याह- नान्तः प्रज्ञमित्या- दिना । सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेय- त्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्षति । शून्यमेव तर्हि ; तन्न, मिध्याविकल्पस्य निर्निमित्तत्वानुपपत्तेः; न माण्डूक्योपनिषत्कारिकाभाप्ये हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्था- णूषरादिव्यतिरेकेण अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात्तुरीयस्य शब्दवाच्य- त्वमिति न प्रतिषेधैः प्रत्याय्यत्वमुदकाधारादेखि घटादेः ; न, प्राणादिविकल्पस्यावस्तुत्वाच्छुक्तिकादिष्विव रजतादेः ; न हि सदसतोः संबन्धः शब्दप्रवृत्तिनिमित्तभाक्, अवस्तु- त्वात्; नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवत्, आत्मनो निरुपाधिकत्वात्; गवादिवन्नापि जातिमत्त्वम्, अद्वितीयत्वेन सामान्यविशेषाभावात् नापि क्रियावत्त्वं पाचकादिवत्, अविक्रियत्वात् ; नापि गुणवत्त्वं नीलादिवत्, निर्गुणत्वात्; अतो नाभिधानेन निर्देशमर्हति । शशविषा- णादिसमत्वान्निरर्थकत्वं तर्हि; न, आत्मत्वावगमे तुरीयस्या- नात्मतृष्णाव्यावृत्तिहेतुत्वात् शुक्तिकावगम इव रजततृष्णायाः; न हि तुरीयस्यात्मत्वावगमे सति अविद्यातृष्णादिदोषाणां संभवोऽस्ति ; न च तुरीयस्यात्मत्वानवगमे कारणमस्ति, सर्वो- पनिषदां तादर्थ्येनोपक्षयात्- 'तत्त्वमसि' ' अयमात्मा ब्रह्म' 'तत्सत्यं स आत्मा' 'यत्साक्षादपरोक्षाद्ब्रह्म' 'सबाह्याभ्यन्तरो हाज: 'आत्मैवेदं सर्वम्' इत्यादीनाम् । सोऽयमात्मा पर- , मार्थापरमार्थरूपश्च तुष्पादित्युक्तः । तस्यापरमार्थरूपमविद्या- " आगमप्रकरणम् । कृतं रज्जुसर्पादिसममुक्तं पादत्रयलक्षणं बीजाङ्करस्थानी- यम् । अथेदानीमवीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयनिराकरणेनाह—– नान्त: प्रज्ञमि- त्यादिना । नन्वात्मनश्चतुष्पात्त्वं प्रतिज्ञाय पादत्रयकथने- नैव चतुर्थस्यान्तः प्रज्ञादिभ्योऽन्यत्वे सिद्धे 'नान्त: प्रज्ञम् ' इत्यादिप्रतिषेधोऽनर्थकः ; न, सर्पादिविकल्पप्रतिषेधेनैव रज्जु- स्वरूपप्रतिपत्तिवत्त्र्यवस्थस्यैवात्मनस्तुरीयत्वेन प्रतिपिपाद- यिषितत्वात्, 'तत्त्वमसि' इतिवत् । यदि हि व्यवस्थात्म- विलक्षणं तुरीयमन्यत्, तत्प्रतिपत्तिद्वाराभावात् शास्त्रोपदे- शानर्थक्यं शून्यतापत्तिर्वा । रज्जरिव सर्पादिभिर्विकल्प्य- माना स्थानत्रयेऽप्यात्मैक एव अन्तःप्रज्ञादित्वेन विकल्प्यते यदा, तदा अन्तःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणसमकालमेव आत्मन्यर्थ प्रपञ्च निवृत्तिलक्षणं फलं परिसमाप्तमिति तुरी- याधिगमे प्रमाणान्तरं साधनान्तरं वा न मृग्यम् ; रज्जुस- पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्व- धिगमस्य । येषां पुनस्तमोपनयनव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते, तेषां छेद्यावयवसंबन्धवियोगव्यतिरेकेण अन्यतरावयवेऽपि च्छिदिर्व्याप्रियत इत्युक्तं स्यात् । यदा पुनर्घटतमसोर्विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमो- माण्डूक्योपनिषत्कारिकाभाप्ये निवृत्तिफलावसानं छिदिरिव च्छेद्यावयवसंबन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना, तदा नान्तरीयकं घट- विज्ञानं न प्रमाणफलम् । न च तद्वदुप्यात्मन्यध्यारोपि- तान्तः प्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमा- णस्य अनुपादित्सितान्तः प्रज्ञत्वादिनिवृत्तिव्यतिरेकेण तुरीये व्यापारोपपत्तिः, अन्तः प्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृ- त्वादिभेदनिवृत्तेः । तथा च वक्ष्यति — ' ज्ञाते द्वैतं न विद्यते' इति । ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणा- न्तरानवस्थानात्, अवस्थाने वा अनवस्थाप्रसङ्गाद्वैतानि- वृत्तिः; तस्मात्प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैव आ- त्मन्यध्यारोपितान्तः प्रज्ञत्वाद्यनर्थनिवृत्तिरिति सिद्धम् । ना- न्तः प्रज्ञमिति तैजसप्रतिषेधः ; नबहिः प्रज्ञमिति विश्वप्रति- षेधः ; नोभयतः प्रज्ञमिति जागरितस्वप्नयोरन्तरालावस्थाप्रति- पेधः ; नप्रज्ञानघनमिति सुषुप्तावस्थाप्रतिषेधः, बीजभा- चाविवेकस्वरूपत्वात् ; नप्रज्ञमिति युगपत्सर्वविषयज्ञातृत्व- प्रतिषेधः ; नाप्रज्ञमित्यचैतन्यप्रतिषेधः । कथं पुनरन्तःप्र- . ज्ञत्वादीनामात्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत्प्रति- षेधादसत्त्वं गम्यत इति, उच्यते ; ज्ञस्वरूपाविशेषेऽपि इतरे- तरव्यभिचारादसत्यत्वं रज्ज्वादाविव सर्पधारादिविकल्पभेद- पः आगमप्रकरणम् । वत्; सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् । सुषुप्ते व्यभि- चरतीति चेत्; न, सुषुप्तस्यानुभूयमानत्वात्, 'न हि विज्ञा- तुर्विज्ञातेर्विपरिलोपो विद्यते' इति श्रुतेः; अत एव अदृश्यम् । ग्रस्माददृश्यम्, तस्मादव्यवहार्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणम् अलिङ्गमित्येतत्, अननुमेयमित्यर्थः । अत एव अचिन्त्यम् । अत एव अव्यपदेश्यं शब्दैः । एकात्मप्रत्यय- सारं जाग्रदादिस्थानेषु एक एवायमात्मा इत्यव्यभिचारी यः प्रत्यय:, तेनानुसरणीयम्; अथवा, एक आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्याधिगमे, तत्तुरीयमेकात्मप्रत्ययसारम्, 'आत्मेत्येवोपासीत' इति श्रुतेः । अन्तःप्रज्ञत्वादिस्थानिधर्म- प्रतिषेधः कृतः । प्रपञ्चोपशममिति जाग्रदादिस्थानधर्मा- भाव उच्यते । अत एव शान्तम् अविक्रियम्, शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थ तुरीयं मन्यन्ते, प्रतीयमान- पादत्रयरूपवैलक्षण्यात् । स आत्मा स विज्ञेयः इति । प्रती- यमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः, तथा 'त- त्त्वमसि' इत्यादिवाक्यार्थः आत्मा ' अदृष्टो द्रष्टा द्रष्टुष्टर्विपरिलोपो विद्यते' इत्यादिभिरुक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभाव: ॥ अत्रैते श्लोका भवन्ति - ' 'न हि माण्डूक्योपनिषत्कारिकाभाष्ये निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १० ॥ त्रैलोका भवन्ति । प्राज्ञतैजसविश्वलक्षणानां सर्व- दुःखानां निवृत्तेः ईशानः तुरीय आत्मा । ईशान इत्यस्य पदस्य व्याख्यानं प्रभुरिति ; दुःखनिवृत्तिं प्रति प्रभुर्भवती- त्यर्थः, तद्विज्ञाननिमित्तत्वाद्दुःखनिवृत्तेः । अव्ययः न व्येति, स्वरूपान्न व्यभिचरति न च्यवत इत्येतत् । कुत: ? यस्मात् अद्वैतः, सर्वभावानाम् — सर्पादीनां रज्जुरद्वया सत्या च; एवं तुरीयः, न हि द्रष्टुर्टष्टेर्विपरिलोपो विद्यते ' इति श्रुते:- अतो रज्जुसर्पवन्मृषात्वात् । स एष देवः द्योतनात् तुर्यः चतुर्थः विभुः व्यापी स्मृतः ॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणवद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्या- वधारणार्थम् — कार्य क्रियत इति फलभाव:, कारणं करो- तीति बीजभावः । तत्त्वाग्रहणान्यथाग्रहणाभ्यां बीजफलभा- वाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ संगृहीतौ इष्येते । प्राज्ञस्तु बीजभावेनैव बद्धः । तत्त्वाप्रतिबोधमात्रमेव हि बीजं आगमप्रकरणम् । प्राज्ञत्वे निमित्तम् । ततः द्वौ तौ बीजफलभावौ तत्त्वाग्रहणा- न्यथाग्रहणे तुरीये न सिध्यतः न विद्येते, न संभवत इत्यर्थः ॥ नात्मानं न परं चैव न सत्यं नापि चानृतम् । प्राज्ञः किंचन संवेत्ति तु तत्सर्वदृक्सदा ॥ १२ ॥ कथं पुनः कारणवद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रह- णान्यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति ? यस्मात् - आ- त्मानम्, विलक्षणम्, अविद्यावीजप्रसूतं वेद्यं बाह्यं द्वैतम्- प्राज्ञो न किंचन संवेत्ति, यथा विश्वतैजसौ; ततश्चासौ तत्त्वा- ग्रहणेन तमसा अन्यथाग्रहणबीजभूतेन बद्धो भवति । यस्मा- न्तु तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैव भवति, सर्व च तद्दृक्चेति सर्वदृक्; तस्मान्न तत्त्वाग्रहणलक्षणं बीजम् । तत्र तत्प्रसूतस्यान्यथाग्रहणस्याप्यत एवाभाव: । न हि सवितरि सदाप्रकाशात्मके तद्विरुद्धमप्रकाशनमन्यथाप्रका- शनं वा संभवति, 'न हि द्रष्टुर्हष्टेर्विपरिलोपो विद्यते ' इति श्रुतेः । अथवा, जाग्रत्स्वप्रयोः सर्वभूतावस्थः सर्ववस्तुह- गाभासस्तुरीय एवेति सर्वदृक्सदा, 'नान्यदतोऽस्ति द्रष्टृ ' इत्यादिश्रुतेः ॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥ माण्डूक्योपनिषत्कारिकाभाष्ये - निमित्तान्तरप्राप्ताशङ्कानिवृत्त्यर्थोऽयं श्लोकः कथं द्वै- ताग्रहणस्य तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव, न तुरीयस्येति प्राप्ता आशङ्का निवर्त्यते; यस्मात् बीजनिद्रायुतः, तत्त्वाप्र- तिबोधो निद्रा; सैव च विशेषप्रतिबोधप्रसवस्य बीजम् ; सा वीजनिद्रा; तया युतः प्राज्ञः । सदासर्वदृक्स्वभावत्वात्त- त्वाप्रतिबोधलक्षणा वीजनिद्रा तुर्ये न विद्यते; अतो न कारणबन्धस्तस्मिन्नित्यभिप्राय: ॥ स्वमनिद्रायुतावाद्यौ प्राज्ञस्त्वस्वमनिद्रया । न निद्रां नैव च स्वमं तुर्ये पश्यन्ति निश्चिताः ॥ स्वप्नः अन्यथाग्रहणं सर्प इव रज्ज्वाम्, निद्रोक्ता तत्त्वा- प्रतिबोधलक्षणं तम इति ; ताभ्यां स्वप्ननिद्राभ्यां युतौ विश्व- तैजसौ ; अतस्तौ कार्यकारणबद्धावित्युक्तौ । प्राज्ञस्तु स्वप्न- वर्जितया केवलयैव निद्रया युत इति कारणवद्ध इत्युक्तम् । नोभयं पश्यन्ति तुरीये निश्चिताः ब्रह्मविद इत्यर्थः, विरु- द्धत्वात्सवितरीव तमः । अतो न कार्यकारणबद्ध इत्युक्त- स्तुरीयः ॥ अन्यथा गृह्णतः स्वनो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमनुते ॥ १५ ॥ 42 आगमप्रकरणम् । कदा तुरीये निश्चितो भवतीत्युच्यते-- स्वप्नजागरि- तयोः अन्यथा रज्ज्वां सर्पवत् गृह्णतः तत्त्वं स्वप्नो भवति ; निद्रा तत्त्वमजानत: तिसृष्ववस्थासु तुल्या । स्वप्ननिद्रयो- स्तुल्यत्वाद्विश्वतैजसयोरेकराशित्वम् । अन्यथाग्रहणप्राधान्याच्च- गुणभूता निद्रेति तस्मिन्विपर्यासः स्वप्नः । तृतीये तु स्थाने तत्त्वाग्रहणलक्षणा निद्रैव केवला विपर्यासः । अतः तयोः कार्यकारणस्थानयोः अन्यथाग्रहणतत्त्वाग्रहणलक्षणवि- पर्यासे कार्यकारणबन्धरूपे परमार्थतत्त्वप्रतिबोधतः क्षीणे तुरीयं पदमश्नुते तदा उभयलक्षणं बन्धनं तत्रापश्यंस्तु- ये निश्चितो भवतीत्यर्थः ॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥ योऽयं संसारी जीवः, सः उभयलक्षणेन तत्त्वाप्रतियो- धरूपेण बीजात्मना, अन्यथाग्रहणलक्षणेन चानादिकालप्रवृ- त्तेन मायालक्षणेन स्वापेन, ममायं पिता पुत्रोऽयं नप्ता क्षेत्रं गृहं पशवः, अहमेषां स्वामी सुखी दुःखी क्षयितोऽहमनेन वर्धितश्चानेन इत्येवंप्रकारान्स्वप्नान् स्थानद्वयेऽपि पश्य- सुप्तः, यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा ' नास्येवं त्वं हेतुफलात्मकः, किंतु तत्त्वमसि' इति प्रति- माण्डूक्योपनिषत्कारिकाभाष्ये ' " बोध्यमानः, तदैवं प्रतिबुध्यते । कथम्? नास्मिन्बाह्यमाभ्य- न्तरं वा जन्मादिभावविकारोऽस्ति, अत: अजम् 'सबाह्या- भ्यन्तरो ह्यज:' इति श्रतेः सर्वभावविकारवर्जितमित्यर्थः । यस्माज्जन्मादिकारणभूतम् नास्मिन्नविद्यातमोवीजं निद्रा विद्यत इति अनिद्रम्; अनिद्रं हि तत्तुरीयम्; अत एव अस्वप्नम्, तन्निमित्तत्वादन्यथाग्रहणस्य । यस्माच अनि- द्रमस्वप्नम्, तस्माद्जम् अद्वैतं तुरीयमात्मानं बुध्यते तदा ॥ प्रपञ्च यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥ प्रपश्यनिवृत्या चेत्प्रतिबुध्यते, अनिवृत्ते प्रपञ्च कथ- मद्वैतमिति, उच्यते । सत्यमेवं स्यात्प्रपञ्चो यदि विद्येत ; रज्ज्व सर्प इव कल्पितत्वान्न तु स विद्यते । विद्यमान- श्वेत् निवर्तेत, न संशयः । न हि रज्ज्वां भ्रान्तिबुद्धधा क- ल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ; न च माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता; तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतम् ; रज्जु- वन्मायाविवञ्च 'अद्वैतं परमार्थतः ; तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीत्यभिप्राय: ॥ आगमप्रकरणम् । विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥ ननु शास्ता शास्त्रं शिष्य इत्ययं विकल्पः कथं निवृत्त इति, उच्यते — विकल्पो विनिवर्तेत यदि केनचित्कल्पितः स्यात् । यथा अयं प्रपञ्चो मायारज्जुसर्पवत्, तथा अयं शिष्यादिभेदविकल्पोऽपि प्राक्प्रतिबोधादेवोपदेशनिमित्तः ; अत उपदेशादयं वाद : - शिष्यः शास्ता शास्त्रमिति । उपदेश -. कार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्त्वे, द्वैतं न विद्यते ॥ : • सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उका- रो मकार इति ॥ ८॥ अभिधेयप्राधान्येन ओंकारश्चतुष्पादात्मेति व्याख्यातो य:, सोऽयम् आत्मा अध्यक्षरम् अक्षरमधिकृत्य अभिधान- प्राधान्येन वर्ण्यमानोऽध्यक्षरम् । किं पुनस्तदक्षरमित्याह— ओंकारः । सोऽयमोंकारः पादशः प्रविभज्यमानः, अधिमात्रं मात्रामधिकृत्य वर्तत इत्यधिमात्रम् । कथम् ? आत्मनो ये ते ओंकारस्य मात्रा: । कास्ता: ? अकार उकारो पादाः, मकार इति ॥ S. U. II. S माण्डूक्योपनिषत्कारिकाभाष्ये जागरितस्थानो वैश्वानरोऽकारः प्रथ- मा मात्राप्तेरादिमत्त्वाद्वाप्नोति ह वै सर्वा- न्कामानादिश्च भवति य एवं वेद ॥ ९ ॥ तत्र विशेषनियमः क्रियते— जागरितस्थान: वैश्वानरः य:, स ओंकारस्य अकार: प्रथमा मात्रा । केन सामान्येने- त्याह--आप्तेः ; आप्तिर्व्याप्तिः; अकारेण सर्वा वाग्व्याप्ता, 'अकारो वै सर्वा वाक्' इति श्रुतेः । तथा वैश्वानरेण ज- गत्, 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूधैव सुतेजा: ' इत्यादिश्रुतेः । अभिधानाभिधेययोरेकत्वं चावोचाम । आदि- रस्य विद्यत इत्यादिमत; यथैव आदिमदकाराख्यमक्षरम, तथा वैश्वानरः; तस्माद्वा सामान्यादकारत्वं वैश्वानरस्य तदेकत्वविदः फलमाह — आप्नोति ह वै सर्वान्कामान, आदि: प्रथमश्च भवति महताम्, य एवं वेद, यथोक्तमेकत्वं वेदे - त्यर्थः ॥ स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञा- नसंततिं समानश्च भवति नास्याब्रह्मवि- त्कुले भवति य एवं वेद ॥ १० ॥ आगमप्रकरणम् । स्वप्नस्थान: तैजसः : यः, स ओंकारस्य उकारः द्वितीया मात्रा । केन सामान्येनेत्याह — उत्कर्षात् ; अकारादुत्कृष्ट इव ह्युकारः; तथा तैजसो विश्वात् । उभयत्वाद्वा; अकार- मकारयोर्मध्यस्थ उकारः ; तथा विश्वप्राज्ञयोर्मध्ये तैजसः ; अत उभयभाक्त्वसामान्यात् । विद्वत्फलमुच्यते - उत्क- पति ह वै ज्ञानसंततिं विज्ञानसंततिं वर्धयतीत्यर्थः ; समानः तुल्यश्च मित्रपक्षस्येव शत्रुपक्षाणामप्यप्रद्वेष्यो भवति ; अ- ब्रह्मविच अस्य कुले न भवति य एवं वेद । ' सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मा- त्रा मितेरपीतेर्वा मिनोति ह वा इदँ सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥ सुषुप्तस्थानः प्राज्ञः यः, स ओंकारस्य मकारः तृतीया मात्रा । केन सामान्येनेत्याह — सामान्यमिदमत्र -- मितेः ; मितिर्मानम; मीयेते इव हि विश्वतैजसौ प्राज्ञेन प्रलयोत्प- त्योः प्रवेशनिर्गमाभ्यां प्रस्थेनेव यवाः ; तथा ओंकारसमा- प्रौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इव अकारोकारौ म- कारे । अपीतेर्वा ; अपीतिरप्यय एकीभावः ; ओंकारो- च्चारणे हि अन्त्येऽक्षरे एकीभूताविव अकारोकारौ ; तथा वि- माण्डूक्योपनिषत्कारिकाभाष्ये श्वतैजसौ सुषुप्तकाले प्राज्ञे । अतो वा सामान्यादेकत्वं प्राज्ञम- कारयोः । विद्वत्फलमाह -- मिनोति ह वै इदं सर्वम्, जग- द्याथात्म्यं जानातीत्यर्थः ; अपीतिश्च जगत्कारणात्मा च भव- तीत्यर्थः । अत्रावान्तर फलवचनं प्रधानसाधनस्तुत्यर्थम् ॥ अत्रैते श्लोका भवन्ति - विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्र संप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥ अत्र एते श्लोका भवन्ति । विश्वस्य अत्वम अकारमा- त्रत्वं यदा विवक्ष्यते, तदा आदित्वसामान्यम् उक्तन्यायेन उत्कटम् उद्भूतं दृश्यत इत्यर्थः । अत्वविवक्षायामित्यस्य व्याख्यानम् ——मात्रासंप्रतिपत्तौ इति । विश्वस्य अकारमात्र- त्वं यदा संप्रतिपद्यते इत्यर्थ: । आप्तिसमान्यमेव च, उत्क- टमित्यनुवर्तते, च-शब्दात् ॥ तेजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासंप्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २० ॥ तेजसस्य उत्वविज्ञाने उकारत्वविवक्षायाम् उत्कर्षो दृ- श्यते स्फुटं स्पष्टमित्यर्थः । उभयत्वं च स्फुटमेवेति । पूर्व- वत्सर्वम् ॥ आगमप्रकरणम् । ११७ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ तु लयसामान्यमेव च ॥ २१ ॥ मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्ये इत्यर्थः ॥ त्रिषु धामसु यस्तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्यश्चैव महामुनिः ॥ २२ ॥ यथोक्तस्थानत्रये यः तुल्यमुक्तं सामान्यं वेत्ति, एवमेवैत- दिति निश्चित: सन सः पूज्यः वन्द्यश्च ब्रह्मवित्ः लोके भवति ॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३ ॥ इति । यथोक्तैः सामान्यैः आत्मपादानां मात्राभिः सह एक- त्वं कृत्वा यथोक्तोंकारं प्रतिपद्यते यो ध्यायी, तम् अकार: नयते विश्वं प्रापयति । अकारालम्बनमोंकारं विद्वान्वै- श्वानरो भवतीत्यर्थः । तथा उकारः तैजसम्; मकारश्चापि पुनः प्राज्ञम, च-शब्दान्नयत इत्यनुवर्तते । क्षीणे तु मकारे बीजभावक्षयान् अमात्रे ओंकारे गतिः न विद्यते क्वचिदि- त्यर्थः ॥ माण्डूक्योपनिषत्कारिकाभाष्ये अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपश- मः शिवोऽद्वैत एवमोंकार आत्मैव संवि- शत्यात्मनात्मानं य एवं वेद ॥ १२ ॥ इति माण्डूक्योपनिषत्समाप्ता ॥ अमात्रः मात्रा यस्य न सन्ति स: अमात्र : ओंकारः चतु- र्थ: तुरीयः आत्मैव केवल: अभिधानाभिधेयरूपयोर्वायन- सयोः क्षीणत्वात् अव्यवहार्यः प्रपञ्चोपशमः शिवः अद्वैतः :; संवृत्तः एवं यथोक्तविज्ञानवता प्रयुक्त ओंकारस्त्रिमात्रस्त्रिपाद आत्मैव ; संविशति आत्मना स्वेनैव स्वं पारमार्थिकमात्मा- नम्, य एवं वेद; परमार्थदर्शनात् ब्रह्मवित् तृतीयं बीज- भावं दग्ध्वा आत्मानं प्रविष्ट इति न पुनर्जायते, तुरी- यस्याबीजत्वात् । न हि रज्जुसर्पयोर्विवेके रज्ज्वां प्रविष्टः सर्पः बुद्धिसंस्कारात्पुनः पूर्ववत्तद्विवेकिनामुत्थास्यति । म- न्दमध्यमधियां तु प्रतिपन्न साधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च क्लप्तसामान्यविदां यथाव- दुपास्यमान ओंकारो ब्रह्मप्रतिपत्तये आलम्बनीभवति । तथा च वक्ष्यति -- ' आश्रमास्त्रिविधा:' इत्यादि ॥ अत्रैते श्लोका भवन्ति- आगमप्रकरणम् । ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किंचिदपि चिन्तयेत् ॥२४॥ पूर्ववदत्रैते श्लोका भवन्ति । यथोक्तैः सामान्यैः पादा एव मात्रा:, मात्राश्च पादाः; तस्मात् ओंकारं पादश: विद्यात् इत्यर्थः । एवमोंकारे ज्ञाते दृष्टार्थमदृष्टार्थ वा न किंचिदपि प्रयोजनं चिन्तयेत्, कृतार्थत्वादित्यर्थः ॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५ ॥ युञ्जीत समादध्यात् यथाव्याख्याते परमार्थरूपे प्रणवे चेतः मनः ; यस्मात्प्रणवः ब्रह्म निर्भयम्; न हि तत्र सदा- युक्तस्य भयं विद्यते कंचित्, 'विद्वान्न बिभेति कुंतश्चन' इति श्रुतेः ॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः । अपूर्वोऽनन्तरोऽवाह्योऽनपरः प्रणवोऽव्ययः ॥ २६ ॥ परापरे ब्रह्मणी प्रणवः; परमार्थतः क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्म इति ; न पूर्व कारणमस्य विद्यत इत्यपूर्व : ; नास्य अन्तरं भिन्नजातीयं किंचिद्विद्यत इति अनन्तरः, तथा माण्डूक्योपनिषत्कारिकाभाष्ये बाह्यमन्यत् न विद्यत इत्यवाह्य: ; अपरं कार्यमस्य न विद्यत इत्यनपरः, सबाह्याभ्यन्तरो ह्यजः सैन्धवघनवत्प्रज्ञानघन इत्यर्थः : ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्रुते तदनन्तरम् ॥ २७ ॥ आदिमध्यान्ता उत्पत्तिस्थितिप्रलयाः सर्वस्य प्रणव एव । मायाहस्तिरज्जुसर्पमृगतृष्णिका स्वप्नादिवदुत्पद्यमानस्य वियदा- दिप्रपञ्चस्य यथा मायाव्यादयः, एवं हि प्रणवमात्मानं माया- व्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तदात्मभावं व्यश्नुत इत्यर्थः ॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ २८ ॥ सर्वस्य प्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितमीश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवत् ओंकारमात्मानमसंसा- रिणं धीरः धीमान्बुद्धिमान् आत्मतत्त्वं मत्वा ज्ञात्वा न शोचति, शोकनिमित्तानुपपत्तेः, 'तरति शोकमात्मवित्' इत्यादिश्रु- तिभ्यः ॥ आगमप्रकरणम् । अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९ ॥ अमात्रः तुरीय ओंकारः, मीयते अनयेति मात्रा परि- च्छित्तिः, सा अनन्ता यस्य सः अनन्तमात्र: ; नैतावस्व- मस्य परिच्छेत्तुं शक्यत इत्यर्थः । सर्वद्वैतोपशमत्वादेव शिवः । ओंकारो यथाव्याख्यातो विदितो येन, स. एव परमार्थतत्त्वस्य मननान्मुनिः, नेतरो जनः शास्त्रविदपीत्यर्थः ॥ इति प्रथममागमप्रकरणं संपूर्णम् ॥ : वैतथ्यप्रकरणम् ॥ वैतथ्यं सर्वभावानां स्वम आहुर्मनीषिणः । अन्तःस्थानान्तु भावानां संवृतत्वेन हेतुना ॥ १ ॥ 'ज्ञाते द्वैतं न विद्यते' इत्युक्तम् 'एकमेवाद्वितीयम् इत्यादिश्रुतिभ्यः । आगममात्रं तत् । तत्र उपपत्त्यापि द्वैतस्य वैतथ्यं शक्यतेऽवधारयितुमिति द्वितीयं प्रकरणमारभ्यते— वैतथ्यमित्यादिना । वितथस्य भावो वैतथ्यम्; असत्यत्व- मित्यर्थः । कस्य ? सर्वेषां बाह्याध्यात्मिकानां भावानां पदा- र्थानां स्वप्ने उपलभ्यमानानाम्, आहुः कथयन्ति मनीषिणः प्रमाणकुशलाः । वैतथ्ये हेतुमाह — अन्तःस्थानात्, अन्तः शरीरस्य मध्ये स्थानं येषाम् ; तत्र हि भावा उपलभ्यन्ते पर्वतहस्त्यादयः, न बहि: शरीरात्; तस्मात् ते वितथा भवितुमर्हन्ति । ननु अपवरकाद्यन्तरुपलभ्यमानैर्घटादिभि- रनैकान्तिको हेतुरित्याशङ्कयाह -- संवृतत्वेन हेतुनेति । अ- न्तः संवृतस्थानादित्यर्थः । न ह्यन्तः संवृते देहान्तर्नाडीषु पर्वतहस्त्यादीनां संभवोऽस्ति ; न हि देहे पर्वतोऽस्ति ॥ वैतथ्य प्रकरणम् । अदीर्घवाच्च कालस्य गत्वा देहान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २ ॥ स्वप्नदृश्यानां भावानामन्तः संवृतस्थानमित्येतदसिद्धम, यस्मात्प्राच्येषु सुप्त उदक्षु स्वप्नान्पश्यन्निव दृश्यत इत्येत- दाशङ्कयाह -- न देहाद्वहिर्देशान्तरं गत्वा स्वप्नान्पश्यति ; यस्मात्सुतमात्र एवं देहदेशाद्योजनशतान्तरिते मासमा - प्राप्ये देशे स्वप्नान्पश्यन्निव दृश्यते; न च तद्देशप्राप्ते- रागमनस्य च दीर्घः कालोऽस्ति; अतः अदीर्घत्वाच्च कालस्य न स्वप्नदृग्देशान्तरं गच्छति । किंच, प्रतिबुद्धश्च वै सर्व: स्वप्नदृक् स्वप्नदर्शनदेशे न विद्यते । यदि च स्वप्ने देशान्तरं गच्छेत्, यस्मिन्देशे स्वप्नान्पश्येत्, तत्रैव प्रतिबुध्येत । न चैतदस्ति । रात्रौ सुप्तः अहनीव भावान्पश्यति ; बहुभिः संगतो भवति ; यैश्च संगतः स तैर्गृह्येत, न च गृह्यते; गृहीतश्चेत्त्वामद्य तत्वोपलब्धवन्तो वयमिति ब्रूयुः ; न चैत- दस्ति । तस्मान्न देशान्तरं गच्छति स्वप्ने ॥ अभावश्च रथादीनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वम आहुः प्रकाशितम् ॥ ३ ॥ इतश्च स्वप्नदृश्या भावा वितथा:, यतः अभावश्व माण्डूक्योपनिषत्कारिकाभाप्ये , रथादीनां स्वप्नदृश्यानां श्रूयते, न्यायपूर्वकं युक्तितः श्रुतौ 'न तत्र रथाः इत्यत्र । तेन अन्तः स्थानसंवृतत्वादि- हेतुना प्राप्तं चैतथ्यं तदनुवादिन्या श्रुत्या स्वप्ने स्वयंज्योति- प्रतिपादनपरया प्रकाशितमाहुः ब्रह्मविदः ॥ अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥ . जाग्रदृश्यानां भावानां वैतथ्यमिति प्रतिज्ञा । दृश्यत्वा- दिति हेतु: । स्वप्नदृश्यभाववदिति दृष्टान्तः । यथा तत्र स्वप्ने दृश्यानां भावानां वैतथ्यम्, तथा जागरितेऽपि दृश्य- त्वमविशिष्टमिति हेतूपनयः । तस्माज्जागरितेऽपि वैतथ्यं स्मृतमिति निगमनम् । अन्तःस्थानात्संवृतत्वेन च स्वप्न- दृश्यानां भावानां जाग्रद्दृश्येभ्यो भेदः । दृश्यत्वमसत्यत्वं चाविशिष्टमुभयत्र ॥ स्वप्नजागरिते स्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥ . प्रसिद्धेनैव भेदानां ग्राह्यत्वेन हेतुना समत्वेन स्वप्न- जागरितस्थानयोरेकत्वमाहुर्विवेकिन इति पूर्वप्रमाणसिद्ध- स्यैव फलम् ॥ वैतथ्यप्रकरणम् । आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६॥ इतश्च वैतथ्यं जाग्रदृश्यानां भेदानाम् आद्यन्तयोरभावात्, यदादावन्ते च नास्ति वस्तु मृगतृष्णिकादि, तन्मध्येऽपि ना- स्तीति निश्चितं लोके; तथेमे जाग्रद्दृश्या भेदा: आद्यन्त- योरभावात् वितथैरेव मृगतृष्णिकादिभिः सदृशत्वाद्वितथा एव; तथापि अवितथा इव लक्षिता मूढैरनात्मविद्भिः ॥ सप्रयोजनता तेषां स्वमे विप्रतिपद्यते । तस्मदाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥ · स्वप्नदृश्यवज्जागरितदृश्यानामप्यसत्त्वमिति यदुक्तम्, त- दयुक्तम् ; यस्माज्जाग्रद्दृश्या अन्नपानवाहनादयः क्षुत्पिपासा- दिनिवृत्तिं कुर्वन्तो गमनागमनादि कार्यं च सप्रयोजना दृष्टाः । न तु स्वप्नदृश्यानां तदस्ति । तस्मात्स्वप्नदृश्यव- 'ज्जादृश्यानामसत्त्वं मनोरथमात्रमिति । तन्न । कस्मात् ? यस्माद्या सप्रयोजनता दृष्टा अन्नपानादीनाम्, सा स्वप्ने विप्रतिपद्यते । जागरिते हि भुक्त्वा पीत्वा च तृप्तो विनि- वर्तितदृट् सुप्तमात्र एवं क्षुत्पिपासाद्यार्तमहोरात्रोपोषितमभु- क्तवन्तमात्मानं मन्यते, यथा स्वप्ने भुक्त्वा पीत्वा च अ- माण्डूक्योपनिषत्कारिकामाप्ये तृप्तोत्थितः तथा । तस्माज्जाप्रदृश्यानां स्वप्ने विप्रतिपत्ति- ईष्टा । अतो मन्यामहे तेषामप्यसत्त्वं स्वप्नदृश्यवदनाश- ङ्कनीयमिति । तस्मादाद्यन्तवत्त्वमुभयत्र समानमिति मि- थ्यैव खलु स्मृताः ॥ अपूर्व स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ । स्वप्नजाग्रद्भेदयोः समत्वाज्जाप्रद्भेदानामसत्त्वमिति यदु- क्तम, तदसत् । कस्मान् ? दृष्टान्तस्यासिद्धत्वात् । कथम् ? न हि जाग्रदृश्या ये, ते भेदाः स्वप्ने दृश्यन्ते । किं तर्हि ? अपूर्व स्वप्ने पश्यति चतुर्दन्तं गजमारूढोऽप्रभुजमात्मानम् । अन्यदप्येवंप्रकारमपूर्व पश्यति स्वप्ने । तन्नान्येनासता सममिति सदेव । अतो दृष्टान्तोऽसिद्धः । तस्मात्स्वप्न- वज्जागरितस्यासत्त्वमित्ययुक्तम । तन्न । स्वप्ने दृष्टपूर्व यन्मन्यसे, न तत्स्वत: सिद्धम । किं तर्हि ? अपूर्व स्थानिधर्मो हि, स्थानिनो द्रष्टुरेव हि स्वप्नस्थानवतो धर्मः ; यथा स्वर्गनिवासिनामिन्द्रादीनां सहस्राक्षत्वादि, तथा स्व- मदृशोऽपूर्वोऽयं धर्मः, न स्वतः सिद्धो द्रष्टुः स्वरूपवत् । तान् एवंप्रकारानपूर्वान्स्वचित्तविकल्पान अयं स्थानी य: स्वप्नदृ- क्स्वप्नस्थानं गत्वा प्रेक्षते । यथैव इह लोके सुशिक्षित देशान्त- वैतथ्यप्रकरणम् । रमार्गस्तेन मार्गेण देशान्तरं गत्वा पदार्थान्पश्यति, तद्वत् । तस्माद्यथा स्थानिधर्माणां रज्जुसर्पमृगतृष्णिकादी- नामसत्त्वम्, तथा स्वप्नदृश्यानामप्यपूर्वाणां स्थानिधर्मत्वमे- वेत्यसत्त्वम; अतो न स्वप्नदृष्टान्तस्यासिद्धत्वम् ॥ स्वमवृत्तावपि त्वन्तश्वेतसा कल्पितं त्वसत् । बहिश्वेतो गृहीतं सदृष्टं वैतथ्यमेतयोः ॥ २ ॥ i अपूर्वत्वाशङ्कां निराकृत्य स्वप्नदृष्टान्तस्य पुनः स्वप्न- तुल्यतां जाग्रद्भेदानां प्रपञ्चयन्नाह – स्वप्नवृत्तावपि स्व- नस्थानेऽपि अन्तश्चेतसा मनोरथसंकल्पितमसत्; संक- स्पानन्तरसमकालमेवादर्शनात् । तत्रैव स्वप्ने बहिश्चेतसा गृहीतं चक्षुरादिद्वारेणोपलब्धं घटादि सदित्येवमसत्यमिति निश्चितेऽपि सदसद्विभागो दृष्टः । उभयोरप्यन्तर्बहिश्चेतः- कल्पितयोर्वैतथ्यमेव दृष्टम ॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । वहिचेोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० !! सदसतोर्वैतथ्यं युक्तम्, अन्तर्बहिश्चेतः कल्पितत्वाविशे- प्रादिति । व्याख्यातमन्यत् ॥ माण्डूक्योपनिषत्कारिकाभाष्ये • उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥ - चोदक आह— स्वप्नजाग्रत्स्थानयोर्भेदानां यदि वैतथ्यम्, क एतानन्तर्बहिश्वेतः कल्पितान्बुध्यते । को वै तेषां विक- ल्पक: ; स्मृतिज्ञानयोः क आलम्बनमित्यभिप्राय: ; न चेन्नि- रात्मवाद इष्टः ॥ . कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया । स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥ स्वयं स्वमायया स्वमात्मानमात्मा देवः आत्मन्येव वक्ष्यमाणं भेदाकारं कल्पयति रज्ज्वादाविव सर्पादीन, स्वयमेव च तान्बुध्यते भेदान् तद्वदेवेत्येवं वेदान्तनिश्चयः । नान्योऽस्ति ज्ञानस्मृत्याश्रयः । न च निरास्पदे एव ज्ञान- स्मृती वैनाशिकानामिवेत्यभिप्रायः ॥ ' विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च वहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥ - संकल्पयन्केन प्रकारेण कल्पयतीत्युच्यते — विकरोति नाना करोति अपरान् लौकिकान् भावान् पदार्थाशब्दा- वैतथ्यप्रकरणम् । दीनन्यांश्च अन्तश्चित्ते वासनारूपेण व्यवस्थितानव्याकृ- तान् नियतांश्च पृथिव्यादीननियतांश्च कल्पनाकालान् वहि- श्चित्तः सन्, तथा अन्तश्चित्तो मनोरथादिलक्षणानित्येवं कल्पयति, प्रभुः ईश्वरः, आत्मेत्यर्थः ॥ चित्तकाला हि येऽन्तस्तु द्वयकालाच ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥ स्वप्नवञ्चित्तपरिकल्पितं सर्वमित्येतदाशङ्कयते — यस्माच्चि - त्तपरिकल्पितैर्मनोरथादिलक्षणैश्चित्तपरिच्छेद्यैर्वैलक्षण्यं वा- ह्यानामन्योन्यपरिच्छेद्यत्वमिति, सा न युक्ताशङ्का । चित्त- काला हि येऽन्तस्तु चित्तपरिच्छेद्याः, नान्यश्चित्तकालव्य- तिरेकेण परिच्छेदकः कालो येषाम्, ते चित्तकाला : ; कल्पनाकाल एवोपलभ्यन्त इत्यर्थः । द्वयकालाश्च भेद- काला अन्योन्यपरिच्छेद्याः, यथा आगोदोहनमास्ते; याव- दास्ते तावद्गां दोग्धि ; यावद्गां दोग्धि तावदास्ते, तावानयमे- तावान्स इति परस्परपरिच्छेद्य परिच्छेदकत्वं वाह्यानां भेदा- नाम्, ते द्वयकाला: । अन्तश्चित्तकाला वाह्याश्च द्वय- कालाः कल्पिता एव ते सर्वे । न बाह्यो द्वयकालत्वविशेषः कल्पितत्वव्यतिरेकेणान्यहेतुकः । अत्रापि हि स्वप्नदृष्टान्तो भवत्येव ॥ sc. II. 9 .१३० माण्डूक्योपनिषत्कारिकाभाष्ये अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये वहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥ यदपि अन्तरव्यक्तत्वं भावानां मनोवासनामावाभिव्य- क्तानां स्फुटत्वं वा बहिश्चक्षुरादीन्द्रियान्तरे विशेषः, नासौ भेदानामस्तित्वकृतः स्वप्नेऽपि तथा दर्शनात् । किं तर्हि ? इन्द्रियान्तरकृत एव । अतः कल्पिता एव जाग्रद्भावा अपि स्वप्नभाववदिति सिद्धम् ॥ " जीवं कल्पयते पूर्व ततो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांचैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥ - बाह्याध्यात्मिकानां भावानामितरेतरनिमित्तनैमित्तिकतया कल्पनायाः किं मूलमित्युच्यते — जीवं हेतुफलात्मकम् ' अहं करोमि, मम सुखदुःखे' इत्येवंलक्षणम् । अनेवंलक्षण एव शुद्ध आत्मनि रज्ज्वामिव सर्प कल्पयते पूर्वम् । ततस्तादर्थ्येन क्रियाकारक फलभेदेन प्राणादीन्नानाविधान्भावान्वाह्यानाध्या- मिकांश्चैव कल्पयते । तत्र कल्पनायां को हेतुरित्युच्यते-- योऽसौ स्वयं कल्पितो जीवः सर्वकल्पनायामधिकृतः, सः यथाविद्यः यादृशी विद्या विज्ञानमस्येति यथाविद्यः, तथा- त्रिधैव स्मृतिस्तस्येति तथास्मृतिर्भवति स इति । अतो हेतु- वैतथ्यप्रकरणम् । कल्पनाविज्ञानात्फलविज्ञानम्, ततो हेतुफलस्मृति:, ततस्तद्वि- ज्ञानम्, ततः तदर्थक्रियाकारकतत्फलभेदविज्ञानानि, तेभ्यस्त- त्स्मृतिः, तत्स्मृतेश्च पुनस्तद्विज्ञानानि इत्येवं बाह्यानाध्यात्मि- कांश्च इतरेतरनिमित्तनैमित्तिकभावेनानेकधा कल्पयते ॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७ ॥ तत्र जीवकल्पना सर्वकल्पनामूलमित्युक्तम्; सैव जीव- कल्पना किंनिमित्तेति दृष्टान्तेन प्रतिपादयति — यथा लोके स्वेन रूपेण अनिश्चिता अनवधारिता एवमेवेति रज्जुः मन्दान्धकारे किं सर्प उदकधारा दण्ड इति वा अनेकधा विकल्पिता भवति पूर्वं स्वरूपा निश्चयनिमित्तम् । यदि हि पूर्वमेव रज्जुः स्वरूपेण निश्चिता स्यात्, न सर्पादि- विकल्पोऽभविष्यत् यथा स्वहस्ताङ्गुल्यादिषु एष दृष्टा- न्तः । तद्वद्धेतुफलादिसंसारधर्मानर्थविलक्षणतया स्वेन विशु- द्धविज्ञप्तिमात्वसत्ताद्वय रूपेणानिश्चितत्वाज्जीवप्राणाद्यनन्तभा- भेदैरात्मा विकल्पित इत्येष सर्वोपनिषदां सिद्धान्तः ॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रजुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८ ॥ माण्डूक्योपनिषत्कारिकाभाष्ये रज्जुरेवेति निश्चये सर्पादिविकल्पनिवृत्तौ रज्जुरेवेति चाद्वैतं यथा, तथा नेति नेतीति सर्वसंसारधर्मशून्यप्रतिपादकशास्त्र- जनितविज्ञानसूर्यालोककृतात्मविनिश्चयः 'आत्मैवेदं सर्वमपू- र्वोऽनपरोऽनन्तरोऽबाह्यः सबाह्याभ्यन्तरो हाजोऽजरोऽमृतो- Sभय एक एवाद्वय: ' इति ॥ प्राणादिभिरनन्तैस्तु भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य ययायं मोहितः स्वयम् ॥ यदि आत्मैक एवेति निश्चयः, कथं प्राणादिभिरनन्तै- र्भावैरेतैः संसारलक्षणैर्विकल्पित इति ? उच्यते शृणु मायैपा तस्यात्मनो देवस्य । यथा मायाविना विहिता माया गगन- मतिविमलं कुसुमितैः सपलाशैस्तरुभिराकीर्णमिव करोति, तथा इयमपि देवस्य माया, यया अयं स्वयमपि मोहित इव मोहितो भवति 1 मम माया दुरत्यया' इत्युक्तम् ॥ ' प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २० ॥ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २१॥ . वैतथ्यप्रकरणम् । वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३ ॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ २४ ॥ मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५ ॥ पञ्चविंशक इत्येके पडिश इति चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६ ॥ लोकाँल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७ ॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदुः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥२८। प्राणः प्राज्ञो बीजात्मा, तत्कार्यभेदा हीतरे स्थित्यन्ताः । माण्डूक्योपनिषत्कारिकाभाष्ये अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिता भेदा रज्ज्वामिव सर्पादयः । तच्छून्ये आत्मन्यात्मस्वरूपानिश्चय- हेतोरविद्यया कल्पिता इति पिण्डितोऽर्थः । प्राणादि- लोकानां प्रत्येकं पदार्थव्याख्याने फल्गुप्रयोजनत्वात्सिद्धपदा- र्थत्वाच यत्नो न कृतः ॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्वहः समुपैति तम् ॥ २९ ॥ किं बहुना ? प्राणादीनामन्यतममुक्तमनुक्तं वा अन्यं यं भावं पदार्थ दर्शयेद्यस्याचार्योऽन्यो वा आप्तः इदमेव तत्त्व- मिति, स तं भावमात्मभूतं पश्यत्ययमहमिति वा ममेति वा, तं च द्रष्टारं स भावोऽवति, यो दर्शितो भाव:, असौ भूत्वा रक्षति ; स्वेनात्मना सर्वतो निरुणद्धि । तस्मिन्प्रह- तग्रहस्तदभिनिवेशः इदमेव तत्त्वमिति स तं प्रहीतारमु- पैति, तस्यात्मभावं निगच्छतीत्यर्थः ॥ एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥ स एतैः प्राणादिभिः आत्मनोऽपृथग्भूतैरपृथग्भावैः एषः आत्मा रज्जुरिव सर्पादिविकल्पनारूपैः पृथगेवेति लक्षितः वैतथ्यप्रकरणम् । अभिलक्षितः निश्चितः मूढैरित्यर्थः । विवेकिनां तु रज्वामिव कल्पिताः सर्पादयो नात्मव्यतिरेकेण प्राणादयः सन्तीत्य- भिप्राय: ; 'इदं सर्वं यदयमात्मा' इति श्रुतेः । एवमात्मव्य- तिरेकेणासत्त्वं रज्जुसर्पवदात्मनि कल्पितानामात्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितो युक्तितश्च सः अविशङ्कितो वेदार्थ विभागतः कल्पयेत् कल्पयतीत्यर्थः- इदमेवं परं वाक्यम् अदोऽन्यपरम् इति । न ह्यनध्यात्मविद्वे- दान्ज्ञातुं शक्नोति तत्त्वतः, 'न ह्यनध्यात्मवित्कश्चित्क्रियाफ- लमुपाश्नुते इति हि मानवं वचनम् ॥ स्वमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥ " यदेतद्वैतस्यासत्त्वमुक्तं युक्तितः, तदेतद्वेदान्तप्रमाणावगत- मित्याह - स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः । यथा च प्रसारितपण्यापण गृहप्रासादस्त्रीपुंजन पदव्यवहाराकीर्णमिव गन्धर्वनगरं दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम्, यथा च स्वप्नमाये दृष्टे असद्रूपे, तथा विश्वमिदं द्वैतं सम- स्तमसद्दृष्टम् । 'नेह नानास्ति किंचन ? 'इन्द्रो मायाभिः ' 'आत्मैवेदमग्र आसीत् ' ' ब्रह्मैवेदमग्र - माण्डूक्योपनिषत्कारिकाभाष्ये आसीत् ' ' द्वितीयाद्वै भयं भवति ' ' न तु तद्वितीयमस्ति' 'यत्र त्वस्य सर्वमात्मैवाभूत्' इत्यादिपु, विचक्षणैः निपुण- तरवस्तुदर्शिभिः पण्डितैरित्यर्थः ; ' तमः श्वभ्रनिभं दृष्टं वर्ष- बुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम्' इति व्यासस्मृतेः ॥ • न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥ प्रकरणार्थोपसंहारार्थोऽयं श्लोकः- यदा वितथं द्वैतम आत्मैवैकः परमार्थतः सन् तदा इदं निष्पन्नं भवति-स- वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय एवेति । - तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्ति: जन- नम्, बद्धः संसारी जीवः, साधकः साधनवान्मोक्षस्य, मु- मुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः । उत्पत्तिप्रलययोरभा- वाद्वद्धादयो न सन्तीत्येषा परमार्थता । कथमुत्पत्तिप्रलययो- रभाव इति, उच्यते— द्वैतस्यासत्त्वात् । यत्र हि द्वैतमिव भवति' 'य इह नानेव पश्यति' 'आत्मैवेदं सर्वम्' 'ब्रह्म- वेदं सर्वम्' 'एकमेवाद्वितीयम्' ' इदं सर्वे यदयमात्मा' इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो वा स्यात्, नासतः शशविषाणादेः । नाप्यद्वैतमुत्प- 6 वैतथ्यप्रकरणम् । " द्यते प्रलीयते वा । अद्वैतं च, उत्पत्तिप्रलयवच्चेति विप्रतिषि- द्धम् । यस्तु पुनद्वैतसंव्यवहारः, स रज्जुसर्पवदात्मनि प्रा- णादिलक्षण: कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया र- ज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि रज्जुसर्पस्योत्पत्तिः प्रलयो वा न चोभयतो वा । तथा मानसत्वाविशेषाद्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । त- स्मात्सूक्तम् — द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे शास्त्रव्यापारः, नाद्वैते, विरोधात्; तथा च सत्यद्वैतस्य वस्तुत्वे प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैत- स्य चाभावात्; न, रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वे- Sनुपपत्तिरिति प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह-रज्जुर- पि सर्पविकल्पस्यास्पदभूता कल्पितैवेति दृष्टान्तानुपपत्ति: ; न विकल्पनाक्षये अविकल्पितस्याविकल्पितत्वादेव सत्त्वो- पपत्ते: ; रज्जुसर्पवदसत्त्वमिति चेत्, न एकान्तेनाविकल्पि- तत्वात् अविकल्पित रज्ज्वंशवत्प्राक् सर्पाभावविज्ञानात्, वि- कल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवास- त्त्वानुपपत्तिः । कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैत विज्ञान निवर्तकत्वम् ? नैष दोष:, रज्ज्वां सर्पादि- माण्डूक्योपनिषत्कारिकाभाष्ये . वदात्मनि द्वैतस्याविद्याध्यस्तत्वात् कथं सुख्यहं दुःखी मूढो जातो. मृतो जीर्णो देहवान् पश्यामि व्यक्ता- व्यक्तः कर्ता फली संयुक्तो वियुक्तः क्षीणो वृद्धोऽहं ममैते इत्येवमादयः सर्वे आत्मन्यध्यारोप्यन्ते । आत्मा एतेष्वनु- गतः, सर्वत्वाव्यभिचारात्, यथा सर्पधारादिभेदेषु रज्जुः । यदा चैवं विशेष्यस्वरूपप्रत्ययस्य सिद्धत्वान्न कर्तव्यत्वं शास्त्रेण । अकृतकर्तृ च शास्त्रं कृतानुकारित्वे अप्रमाणम् । यतः अविद्याध्यारोपित सुखित्वादिविशेषप्रतिबन्धादेवात्मनः स्वरूपेणानवस्थानम्, स्वरूपावस्थानं च श्रेयः इति सुखि- त्वादिनिवर्तकं शास्त्रमात्मन्यसुखित्वादिप्रत्ययकरणेन नेति नेत्यस्थूलादिवाक्यैः; आत्मस्वरूपवदसुखित्वादिरपि सुखित्वा- दिभेदेषु नानुवृत्तोऽस्ति धर्मः । यद्यनुवृत्तः स्यात्, नाध्यारो- प्येत सुखित्वादिलक्षणो विशेष:, यथेोष्णत्वगुणविशेषवत्यग्नौ शीतता; तस्मान्निर्विशेष एवात्मनि सुखित्वादयो विशेषाः कल्पिताः । यत्त्वसुखित्वादिशास्त्रमात्मनः, तत्सुखित्वादि- विशेषनिवृत्त्यर्थमेवेति सिद्धम् । 'सिद्धं तु निवर्तकत्वात् ' इत्यागमविदां सूत्रम् ॥ : भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३ ॥ वैतथ्यप्रकरणम् । - पूर्वश्लोकार्थस्य हेतुमाह — यथा रज्ज्वामसद्भिः सर्पधा- रादिभिः अद्वयेन च रज्जुद्रव्येण सता अयं सर्प इति धा- रेयं दण्डोऽयमिति वा रज्जुद्रव्यमेव कल्प्यते, एवं प्राणादि- भिरनन्तैः असद्भिरेव अविद्यमानैः, न परमार्थतः । न ह्यप्रच- लिते मनसि कश्चिद्भाव उपलक्षयितुं शक्यते केनचित् ; न चात्मन: प्रचलनमस्ति । प्रचलितस्यैवोपलभ्यमाना भावा न परमार्थतः सन्तः कल्पयितुं शक्याः । अतः असद्भिरेव प्रा- णादिभिर्भावैरद्वयेन च परमार्थसता आत्मना रज्जुवत्सर्ववि- कल्पास्पदभूतेन अयं स्वयमेवात्मा कल्पितः सदैकस्वभावोऽपि सन् । ते चापि प्राणादिभावाः अद्वयेनैव सता आत्मना विकल्पिताः; न हि निरास्पदा काचित्कल्पना उपपद्यते ; अत: सर्वकल्पनास्पदत्वात्स्वेनात्मना अद्वयस्य अव्यभिचारात् क- ल्पनावस्थायामपि अद्वयता शिवा ; कल्पना एव त्वशिवाः, रज्जुसर्पादिवत्त्रासादिकारिण्यो हि ताः । अद्वयता अभया ; अतः सैव शिवा ॥ नात्मभावेन नानेदं न स्वेनापि कथंचन । न पृथङ् नापृथक्किंचिदिति तत्त्वविदो विदुः ॥ ३४ ॥ कुतश्राद्वयता शिवा ? नानाभूतं प्रथक्त्वम् अन्यस्य अ- न्यस्मात् यत्र दृष्टम्, तत्राशिवं भवेत् । न ह्यत्राद्वये परमा- माण्डूक्योपनिषत्कारिकाभाष्ये र्थसत्यात्मनि प्राणादिसंसारजातमिदं जगत् आत्मभावेन प- रमार्थस्वरूपेण निरूप्यमाणं नाना वस्त्वन्तरभूतं भवति ; यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पोऽस्ति, तद्वत् । नापि स्वेन प्राणाद्यात्मना इदं विद्यते कदाचिदपि, रज्जुसर्पवत्कल्पितत्वादेव । तथा अन्यो- न्यं न पृथक् प्राणादि वस्तु, यथा अश्वान्महिषः पृथग्विद्यते, एवम् । अत: असत्त्वात् नापि अपृथक् विद्यतेऽन्योन्यं परेण वा किंचिदिति । एवं परमार्थतत्त्वविदो ब्राह्मणा विदुः । अतः अशिवहेतुत्वाभावाद्वयतैव शिवेत्यभिप्रायः ॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥ तदेतत्सम्यग्दर्शनं स्तूयते— विगतरागभयक्रोधादिसर्व- दोषैः सर्वदा मुनिभिः मननशीलैर्विवेकिभिः वेदपारगैः अवगतवेदान्तार्थतत्त्वैर्ज्ञानिभिः निर्विकल्पः सर्वविकल्पशून्यः अयम् आत्मा दृष्ट: उपलब्धो वेदान्तार्थतत्परैः, प्रपञ्चोपशमः, प्रपञ्चो द्वैतभेद विस्तारः, तस्योपशमोऽभावो यस्मिन् स आत्मा प्रपञ्चोपशमः, अत एव अद्वय: विगतदोषैरेव पण्डितैर्वेदान्तार्थतत्परैः संन्यासिभिः अयमात्मा द्रष्टुं शक्यः, वैतथ्यप्रकरणम् । नान्यैः रागादिकलुषित चेतोभि: स्वपक्षपातिदर्शनैस्ताकिंका- दिभिरित्यभिप्रायः । तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६ ॥ यस्मात्सर्वानर्थोपशमरूपत्वादद्वयं शिवमभयम्, अतः एवं विदित्वैनम् अद्वैते स्मृतिं योजयेत्; अद्वैतावगमायैव स्मृति कुर्यादित्यर्थः । तच्च अद्वैतम् अवगम्य ' अहमस्मि परं ब्रह्म इति विदित्वा अशनायाद्यतीतं साक्षादपरोक्षादजमात्मानं सर्वलोकव्यवहारातीतं जडवत् लोकमाचरेत्; अप्रख्याप- यन्नात्मानमहमेवंविध इत्यभिप्राय: ॥ निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७ ॥ , कया चर्यया लोकमाचरेदिति, आह— स्तुतिनमस्कारा- दिसर्वकर्मविवर्जितः त्यक्तसर्ववायैषण: प्रतिपन्न परमहंसपारि- व्राज्य इत्यभिप्रायः, 'एतं वै तमात्मानं विदित्वा' इत्यादिश्रुतेः, 'तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा:' इत्यादिस्मृतेश्च । चलं शरीरम्, प्रतिक्षणमन्यथाभावात्; अचलम् आत्म- माण्डूक्योपनिषत्कारिकाभाष्ये तत्त्वम् । यदा कदाचिद्भोजनादिसंव्यवहारनिमित्तमाकाशवद- चलं स्वरूपमात्मतत्त्वम् आत्मनो निकेतमाश्रयमात्मस्थितिं विस्मृत्य अहमिति मन्यते यदा तदा चलो देहो निकेतो यस्य सोऽयमेवं चलाचलनिकेतो विद्वान्न पुनर्बाह्यविषयाश्रयः । स च यादृच्छिको भवेत्, यदृच्छाप्राप्तकौपीनाच्छादनप्रास- मात्रदेहस्थितिरित्यर्थः ॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु वाह्यतः । तत्त्वी भूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८ ॥ बाह्यं पृथिव्यादि तत्त्वमाध्यात्मिकं च देहादिलक्षणं रज्जुसर्पादिवत्स्वप्रमायादिवच्च असत्, 'वाचारम्भणं विकारो नामधेयम्' इत्यादिश्रुतेः । आत्मा च सवाह्याभ्यन्तरो ह्यजोऽपूर्वोऽनपरोऽनन्तरोऽबाह्यः कृत्स्नः तथा आकाशवत्सर्व- गतः सूक्ष्मोऽचलो निर्गुणो निष्कलो निष्क्रियः ' तत्सत्यं स आत्मा तत्त्वमसि' इति श्रुतेः, इत्येवं तत्त्वं दृष्ट्वा तत्त्वी- भूतस्तदारामो न बाह्यरमणः ; यथा अतत्त्वदर्शी कश्चित्तमा- त्मत्वेन प्रतिपन्नश्चित्तचलनमनु चलितमात्मानं मन्यमानः तत्त्वाच्चलितं देहादिभूतमात्मानं कदाचिन्मन्यते प्रच्युतोऽह- मात्मतत्त्वादिदानीमिति, समाहिते तु मनसि कदाचि - तत्त्वभूतं प्रसन्नमात्मानं मन्यते इदानीमस्मि तत्त्वीभूत इति; वैतथ्यप्रकरणम् । " न तथा आत्मविद्भवेत्, आत्मन एकरूपत्वात, स्वरूपप्रच्य- वनासंभवाञ्च । सदैव ब्रह्मास्मीत्यप्रच्युतो भवेत्तत्त्वात् सदा अप्रच्युतात्मतत्वदर्शनो भवेदित्यभिप्राय: ; 'शुनि चैत्र श्र पाके च ' ' समं सर्वेषु भूतेषु' इत्यादिस्मृतेः ॥ इति द्वितीयं वैतथ्यप्रकरणं संपूर्णम् ॥ अद्वैतप्रकरणम् ॥ उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥ ओंकारनिर्णये उक्तः प्रपञ्चोपशमः शिवोऽद्वैत आलेति प्रतिज्ञामात्रेण, 'ज्ञाते द्वैतं न विद्यते ' इति च । तत्र द्वैता- भावस्तु वैतथ्यप्रकरणेन स्वप्नमायागन्धर्वनगरादिदृष्टान्तैर्ड- श्यत्वाद्यन्तवत्त्वादिहेतुभिस्तकेण च प्रतिपादितः । अद्वैतं किमागममात्रेण प्रतिपत्तव्यम्, आहोस्वित्तर्केणापीत्यत आह - शक्यते तर्केणापि ज्ञातुम् ; तत्कथमित्यद्वैतप्रकरणमा- रभ्यते । उपास्योपासनादिभेदजातं सर्वं वितथम्, केवल- श्वात्मा अद्वयः परमार्थ इति स्थितमतीते प्रकरणे; यतः उपासनाश्रित: उपासनामात्मनो मोक्षसाधनत्वेन गत: उपा- सकोऽहं ममोपास्यं ब्रह्म । तदुपासनं कृत्वा जाते ब्रह्मणी- दानीं वर्तमान: अजं ब्रह्म शरीरपातादूर्ध्वं प्रतिपत्स्ये प्रागु- त्पत्तेश्चाजमिदं सर्वमहं च । यदात्मकोऽहं प्रागुत्पत्तेरिदानीं जातो जाते ब्रह्मणि च वर्तमान उपासनया पुनस्तदेव प्रति- " अद्वैतप्रकरणम् । पत्स्ये इत्येवमुपासनाश्रितो धर्मः साधकः येनैवं क्षुद्रब्रह्म- वित् तेनासौ कारणेन कृपणो दीनोऽल्पकः स्मृतो नित्या- जब्रह्मदर्शिभिर्महात्मभिरित्यभिप्राय:, ' यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ' इत्यादिश्रुतेस्तलवकाराणाम् ॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किंचिज्जायमानं समन्ततः ॥ २ ॥ , सबाह्याभ्यन्तरमजमात्मानं प्रतिपत्तुमशक्नुवन अवि- द्यया दीनमात्मानं मन्यमानः जातोऽहं जाते ब्रह्मणि वर्ते तदुपासनाश्रितः सन्त्रा प्रतिपत्स्ये इत्येवं प्रतिपन्नः कृपणो भवति यस्मात्, अतो वक्ष्यामि अकार्पण्यम् अकृपणभाव- मजं ब्रह्म । तद्धि कार्पण्यास्पदम् ' यत्रान्योऽन्यत्पश्यत्यन्य- च्छृणोत्यन्यद्विजानाति तदल्पम् ' ' मयै तत्' 'वाचारम्भणं विकारो नामधेयम्' इत्यादिश्रुतिभ्यः । तद्विपरीतं सबा- ह्याभ्यन्तरमजमकार्पण्यं भूमाख्यं ब्रह्म ; यत्प्राप्याविद्याकृत- सर्वकार्पण्यनिवृत्तिः, तदकार्पण्यं वक्ष्यामीत्यर्थः । तत् अ- जाति अविद्यमाना जातिरस्य । समतां गतं सर्वसाम्यं गतम्; कस्मात् ? अवयववैषम्याभावात् । यद्धि सावयवं S. U. II. 10 माण्डूक्योपनिषत्कारिकाभाष्ये वस्तु, तदवयववैषम्यं गच्छज्जायत इत्युच्यते ; इदं तु निरव- यवत्वात्समतां गतमिति न कैश्चिदवयवैः स्फुटति ; अतः अजाति अकार्पण्यं समन्ततः समन्तात्, यथा न जायते किंचित् अल्पमपि न स्फुटति रज्जुसर्पवदविद्याकृतदृष्टया जायमानं येन प्रकारेण न जायते सर्वतः अजमेव ब्रह्म भवति, तथा तं प्रकारं शृण्वत्यर्थः ॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३ ॥ अजाति ब्रह्माकार्पण्यं वक्ष्यामीति प्रतिज्ञातम् ; तत्सि- द्ध हेतुं दृष्टान्तं च वक्ष्यामीत्याह - आत्मा पर: हि य- स्मात् आकाशवत् सूक्ष्मो निरवयवः सर्वगत आकाशवदुक्तः जीवैः क्षेत्रज्ञैः घटाकाशैरिव घटाकाशतुल्यैः उदित: उक्तः ; स एव आकाशसमः पर आत्मा । अथवा घटाकाशैर्यथा आकाश उदित: उत्पन्न:, तथा परो जीवात्मभिरुत्पन्नः ; जीवात्मनां परस्मादात्मन उत्पत्तिर्या श्रूयते वेदान्तेषु, सा महाकाशाद्घटाकाशोत्पत्तिसमा, न परमार्थत इत्यभिप्रायः । तस्मादेवाकाशाद्धटादयः संघाता यथा उत्पद्यन्ते, एवमाका- शस्थानीयात्परमात्मनः पृथिव्यादिभूतसंघाता आध्यात्मि- अद्वैतप्रकरणम् । काश्च कार्यकरणलक्षणा रज्जुसर्पवद्विकल्पिता जायन्ते ; अत उच्यते-- घटादिवच्च संघातैरुदित इति । यदा मन्दबुद्धि- प्रतिपिपादयिषया श्रुत्या आत्मनो जातिरुच्यते जीवादीनाम्, तदा जातावुपगम्यमानायाम् एतत् निदर्शनं दृष्टान्तः यथो- दिताकाशवदित्यादिः ॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥ यथा घटाद्युत्पत्त्या घटाकाशाद्युत्पत्तिः, यथा च घटादि- प्रलयेन घटाकाशादिप्रलयः, तद्वद्देहादिसंघातोत्पत्स्या जीवो- त्पत्तिः तत्प्रलयेन च जीवानाम् इह आत्मनि प्रलयः, न स्वत इत्यर्थः ॥ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५॥ सर्वदेहेष्वात्मैकत्वे एकस्मिन् जननमरणसुखदुःखादिमत्या- त्मनि सर्वात्मनां तत्संबन्धः क्रियाफलसांकर्य च स्यादिति ये त्वाहुद्वैतिनः, तान्प्रतीदमुच्यते — यथा एकस्मिन् घटाकाशे रजोधूमादिभिः युते संयुक्ते, न सर्वे घटाकाशादयः तद्रजो- धूमादिभिः संयुज्यन्ते, तद्वत् जीवाः सुखादिभिः । ननु, माण्डूक्योपनिषत्कारिकाभाप्ये एक एवात्मा; बाढम् ; ननु न श्रुतं त्वया आकाशवत्सर्व- संघातेष्वेक एवात्मेति ? यद्येक एवात्मा, तर्हि सर्वत्र सुखी दुःखी च स्यात् ; न चेदं सांख्यस्य चोद्यं संभवति ; न हि सांख्य आत्मनः सुखदुःखादिमत्त्वमिच्छति, बुद्धिसमवाया- भ्युपगमात्सुखदुःखादीनाम् ; न चोपलब्धिस्वरूपस्यात्मनो भेदकल्पनायां प्रमाणमस्ति । भेदाभावे प्रधानस्य पाराय- नुपपत्तिरिति चेत्, न प्रधानकृतस्यार्थस्यात्मन्यसमवा- यात्; यदि हि प्रधानकृतो बन्धो मोक्षो वा अर्थः पुरुषेषु भेदेन समवैति, ततः प्रधानस्य पारार्थ्यमात्मैकत्वे नोपप- द्यत इति युक्ता पुरुषभेदकल्पना ; न च सांख्यैर्बन्धो मोक्षो वार्थः पुरुषसमवेतोऽभ्युपगम्यते, निर्विशेषाश्च चेतनमात्रा आत्मानोऽभ्युपगम्यन्ते; अतः पुरुषसत्तामात्रप्रयुक्तमेव प्र- धानस्य पारार्थ्य सिद्धम्, न तु पुरुषभेदप्रयुक्तमिति ; अतः पुरुषभेदकल्पनायां न प्रधानस्य पारायै हेतुः ; न चान्यत्पुरुष भेदकल्पनायां प्रमाणमस्ति सांख्यानाम् । परस- त्तामात्रमेव चैतन्निमित्तीकृत्य स्वयं बध्यते मुच्यते च प्रधा- नम् ; परश्चोपलब्धिमात्र सत्तास्वरूपेण प्रधानप्रवृत्तौ हेतु:, न केनचिद्विशेषेणेति, केवलमूढतयैव पुरुषभेदकल्पना वेदार्थप- रित्यागश्च । ये त्वाहुवैशेषिकादयः इच्छादय आत्मसमवायिन अद्वैतप्रकरणम् । इति ; तदप्यसत्, स्मृतिहेतूनां संस्काराणामप्रदेशवत्यात्मन्य- समवायान्, आत्ममन:संयोगाच्च स्मृत्युत्पत्तेः स्मृतिनियमानु- पपत्तिः, युगपद्वा सर्वस्मृत्युत्पत्तिप्रसङ्गः । न च भिन्नजातीया- नां स्पर्शादिहीनानामात्मनां मनआदिभिः संबन्धो युक्तः । न च द्रव्याद्रूपादयो गुणाः कर्मसामान्यविशेषसमवाया वा भिन्नाः सन्ति । परेषां यदि ह्यत्यन्तभिन्ना एव द्रव्यात्स्युः इच्छाद- यश्चात्मनः, तथा सति द्रव्येण तेषां संवन्धानुपपत्तिः । अ- युतसिद्धानां समत्रायलक्षणः संबन्धो न विरुध्यत इति चेन्, न; इच्छादिभ्योऽनित्येभ्य आत्मनो नित्यस्य पूर्वसिद्धत्वान्ना- युतसिद्धत्वोपपत्तिः । आत्मना अयुतसिद्धत्वे च इच्छादीना- मात्मगतमहत्त्ववन्नित्यत्वप्रसङ्गः । स चानिष्टः, आत्मनोऽनि- र्मोक्षप्रसङ्गात् । समवायस्य च द्रव्यादन्यत्वे सति द्रव्येण सं- बन्धान्तरं वाच्यम्, यथा द्रव्यगुणयोः । समवायो नित्यसं- बन्ध एवेति न वाच्यमिति चेत्, तथा सति समवायसंबन्ध- व्रतां नित्यसंबन्धप्रसङ्गात्पृथक्त्वानुपपत्तिः । अत्यन्त पृथक्त्वे च द्रव्यादीनां स्पर्शवदस्पर्शद्रव्ययोरिव षष्ठयर्थानुपपत्तिः । इच्छायुपजनापायवगुणवत्त्वे च आत्मनोऽनित्यत्वप्रसङ्गः । देहफलादिवत्सावयवत्वं विक्रियावत्त्वं च देहादिवदेवेति दो- पावपरिहार्यौ । यथा त्वाकाशस्य अविद्याध्यारोपितघटायु- माण्डूक्योपनिषत्कारिकाभाष्ये पाधिकृतरजोधूममलवत्त्वादिदोषवत्त्वम्, तथा आत्मन: अ- विद्याध्यारोपितबुद्धयाद्युपाधिकृत सुखदुःखादिदोषवत्त्वे बन्ध- मोक्षादयो व्यावहारिका न विरुध्यन्ते; सर्ववादिभिरवि- द्याकृतव्यवहाराभ्युपगमात् परमार्थानभ्युपगमाच्च । तस्मा- दात्मभेदपरिकल्पना वृथैव तार्किकैः क्रियत इति ॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥ कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्म- न्यविद्याकृत उपपद्यत इति, उच्यते । यथा इहाकाशे एक- स्मिन्घटकरकापवरकाद्याकाशानामल्पत्वमहंत्त्वादिरूपाणि भि- द्यन्ते, तथा कार्यमुदकाहरणधारणशयनादि, समाख्याश्च घटाकाश: करकाकाश इत्याद्या: तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपा- दिभेदकृतो व्यवहारः अपरमार्थ एव । परमार्थतस्त्वाका- शस्त्र न भेदोऽस्ति । न चाकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत्, तद्वद्देहोपाधिभेदकृ- तेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृत: बुद्धि- मद्भिः निर्णय: निश्चय इत्यर्थः ॥ अद्वैतप्रकरणम् । नाकाशस्य घटाकाशो विकारावयवौ यथा । नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥ ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादि- भेदव्यवहार इति ; नैतदस्ति, यस्मात्परमार्थाकाशस्य घटा- काशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेनबुद्बुदहिमादिः ; नाप्यवयवः, यथा वृक्षस्य शा- खादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्मापि मलिनो मलैः ॥ ८ ॥ यस्माद्यथा घटाकाशादिभेदबुद्धिनिबन्धनो रूपकार्यादि- भेदव्यवहारः, तथा देहोपाधिजीवभेदकृतो जन्ममरणादि- व्यवहारः, तस्मात्तत्कृतमेव क्लेशकर्मफलमलवत्त्वमात्मनः, न परमार्थत इत्येतमर्थ दृष्टान्तेन प्रतिपिपादयिषन्नाह— यथा भवति लोके बालानाम् अविवेकिनां गगनम् आ- माण्डूक्योपनिषत्कारिकाभाष्ये काशं घनरजोधूमादिमलैः मलिनं मलवत्, न गगन- याथात्म्य विवेकवताम्, तथा भवति आत्मा परोऽपि — यो विज्ञाता प्रत्यक्— क्लेशकर्म फलमलैर्मलिनः अबुद्धानां प्रत्य- गात्मविवेकरहितानाम्, नात्मविवेकवताम् । न ह्यूषरदेश: तृडुत्प्राण्यध्यारोपितोदकफेनतरङ्गादिमान् तथा नात्मा अबु- धारोपितक्लेशादिमलैः मलिनो भवतीत्यर्थः ॥ ' मरणे संभवे चैव गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु चाकाशेनाविलक्षणः ॥ ९ ॥ पुनरप्युक्तमेवार्थे प्रपञ्चयति — घटाकाशजन्मनाशगमना- गमनस्थितिवत्सर्वशरीरेष्वात्मनो जन्ममरणादिराकाशेनावि- लक्षण: प्रत्येतव्य इत्यर्थः ॥ संघाताः स्वमवत्सर्व आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥ घटादिस्थानीयास्तु देहादिसंघाताः स्वप्नदृश्यदेहादिवन्मा- याविकृतदेहादिवच्च आत्ममायाविसर्जिताः, आत्मनो माया अविद्या, तया प्रत्युपस्थापिताः, न परमार्थतः सन्तीत्यर्थः । यदि आधिक्यमधिकभावः तिर्यग्देहाद्यपेक्षया देवांदिकार्य- अद्वैतप्रकरणम् । " करणसंघातानाम्, यदि वा सर्वेषां समतैव तेषां न ह्युपप- त्तिसंभवः, संभवप्रतिपादको हेतुः न विद्यते नास्ति ; हि य- स्मात् तस्मादविद्याकृता एव, न परमार्थतः सन्तीत्यर्थः ॥ " रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥ ११ ॥ - , उत्पत्त्यादिवर्जितस्याद्वयस्यास्यात्मतत्त्वस्य श्रुतिप्रमाणक- त्वप्रदर्शनार्थं वाक्यान्युपन्यस्यन्ते — रसादयः अन्नरसमयः प्राणमय इत्येवमादयः कोशा इव कोशाः अस्यादेः, उत्तरोत्तरा- पेक्षया वहिर्भावात्पूर्वपूर्वस्य व्याख्याताः विस्पष्टमाख्याताः तै- त्तिरीयके तैत्तिरीयकशाखोपनिषद्बल्याम् तेषां कोशानामा- त्मा येनात्मना पञ्चापि कोशा आत्मवन्तोऽन्तरतमेन । स हि सर्वेषां जीवननिमित्तत्वाज्जीवः । कोऽसावित्याह- पर एवा- त्मा यः पूर्वम् ' सत्यं ज्ञानमनन्तं त्रह्म' इति प्रकृत: ; यस्मा- दात्मन: स्वप्रमायादिवदाकाशादिक्रमेण रसादयः कोशल- क्षणाः संघाता आत्ममायाविसर्जिता इत्युक्तम् । स आत्मा अस्माभिः : यथा खं तथेति संप्रकाशितः, 'आत्मा ह्याका- शवत्' इत्यादिश्लोकैः । न तार्किकपरिकल्पितात्मवत्पुरुषबु- द्धिप्रमाणगम्य इत्यभिप्राय: ॥ माण्डूक्योपनिषत्कारिकाभाष्ये द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥ किंच, अधिदैवतमध्यात्मं च तेजोमयोऽमृतमयः पुरुषः पृथिव्याद्यन्तर्गतो यो विज्ञाता पर एवात्मा ब्रह्म सर्वमिति द्वयोर्द्वयोः आ द्वैतक्षयात् परं ब्रह्म प्रकाशितम् ; केत्याह- ब्रह्मविद्याख्यं मधु अमृतम्, अमृतत्वं मोदनहेतुत्वात् तद्वि- ज्ञायते यस्मिन्निति मधुज्ञानं मधुब्राह्मणम्, तस्मिन्नित्यर्थः । किमिवेत्याह— पृथिव्याम् उदरे चैव यथा एक आकाश: अनुमानेन प्रकाशित: लोके, तद्वदित्यर्थः ॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥ यद्युतितः श्रुतितश्च निर्धारितं जीवख परस्य चात्मनो- ऽनन्यत्वम् अभेदेन प्रशस्यते स्तूयते शास्त्रेण व्यासादि- भिश्च यच्च सर्वप्राणिसाधारणं स्वाभाविकं शास्त्रबहिर्मु- खैः कुतार्किकैर्विरचितं नानात्वदर्शनं निन्द्यते, 'न तु तद्वि- तीयमस्ति ' ' द्वितीयाद्वै भयं भवति' ' उदरमन्तरं कुरुते, अथ तस्य भयं भवति' ' इदं सर्वं यदयमात्मा 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्येवमादिवाक्यैरन्यै- अद्वैतप्रकरणम् । व ब्रह्मविद्भिः यचैतत्, तदेवं हि समञ्जसम् ऋज्ववबोधं न्याय्यमित्यर्थः । यास्तु तार्किकपरिकल्पिताः कुदृष्टयः, ता: अनृज्व्यो निरूप्यमाणा न घटनां प्राञ्चन्तीत्यभिप्रायः ॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥१४॥ ननु श्रुत्यापि जीव परमात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः उत्पत्त्यर्थोपनिषद्वाक्येभ्यः पूर्व प्रकीर्तितं कर्मकाण्डे अनेकशः कामभेदतः इदंकामः अद: काम इति, परश्व स दाधार पृथिवीं द्याम्' इत्यादिमन्त्रवर्णैः; तत्र कथं कर्मज्ञानका- ण्डवाक्यविरोधे ज्ञानकाण्डवाक्यार्थस्यैवैकत्वस्य सामञ्जस्य- मवधार्यत इति । अत्रोच्यते-- 'यतो वा इमानि भूतानि जायन्ते ' ' यथाग्नेः क्षुद्रा विस्फुलिङ्गाः ' ' तस्माद्वा एतस्मा- दात्मन आकाशः संभूतः तदैक्षत तत्तेजोऽसृजत' इ- त्याद्युत्पत्त्यर्थोपनिषद्वक्येभ्यः प्राक्पृथक्त्वं कर्मकाण्डे प्रकी- र्तितं यत्, तन्न परमार्थतः । किं तर्हि ? गौणम् ; महाका- शघटाकाशादिभेदवत्, यथा ओदनं पचतीति भविष्यद्वृत्त्या, तद्वत् । न हि भेदवाक्यानां कदाचिदपि मुख्यभेदार्थकत्वमु- पपद्यते, स्वाभाविका विद्यावत्प्राणिभेददृष्टधनुवादित्वादात्मभे- 7. ' माण्डूक्योपनिषत्कारिकाभाप्ये दवाक्यानाम् । इह च उपनिषत्सु उत्पत्तिप्रलयादिवाक्यै- जवपरात्मनोरेकत्वमेव प्रतिपिपादयिषितम् 'तत्त्वमसि' 'अन्योऽसावन्योऽहमस्मीति न स वेद' इत्यादिभिः; अत उपनिषत्स्वेकत्वं श्रुत्या प्रतिपिपादयिषितं भविष्यतीति भावि- नीमिव वृत्तिमाश्रित्य लोके भेददृष्टधनुवादो गौण एवेत्यभि- प्रायः । अथवा, 'तदैक्षत' ' तत्तेजोऽसृजत' इत्याद्युत्पत्तेः प्राक् 'एकमेवाद्वितीयम्' इत्येकत्वं प्रकीर्तितम् ; तदेव च ' तत्सत्यं स आत्मा, तत्त्वमसि' इत्येकत्वं भविष्यतीति तां भविष्यद्वृत्तिमपेक्ष्य यज्जीवात्मनोः पृथक्त्वं यत्र कचिद्वाक्ये गम्यमानम्, तद्गौणम् ; यथा ओदनं पचतीति, तद्वत् ॥ मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथंचन ॥ १५ ॥ ननु ययुत्पत्तेः प्रागजं सर्वमेकमेवाद्वितीयम्, तथापि उ- त्पत्तेरूर्ध्व जातमिदं सर्व जीवाश्च भिन्ना इति । मैवम्, अ- न्यार्थत्वादुत्पत्तिश्रुतीनाम् । पूर्वमपि परिहृत एवायं दोष:- स्वप्नवदात्ममायाविसर्जिताः संघाताः घटाकाशोत्पत्तिभेदा- दिवज्जीवानामुत्पत्तिभेदादिरिति । इत एव उत्पत्तिभेदादिश्रु- तिभ्य आकृष्य इह पुनरुत्पत्तिश्रुतीनामैदं पर्यप्रतिपिपादयिष- अद्वैतप्रकरणम् । 7 योपन्यासः मल्लोहविस्फुलिङ्गादिदृष्टान्तोपन्यासैः सृष्टि: या च उदिता प्रकाशिता कल्पिता अन्यथान्यथा च, स सर्वः सृष्टि- प्रकारो जीवपरमात्मैकत्वबुद्धयवतारायोपायोऽस्माकम् यथा प्राणसंवादे वागाद्यासुरपाप्मवेधाद्याख्यायिका कल्पिता प्राणवै- शिष्ट्यबोधावताराय ; तदप्यसिद्धमिति चेत ; न, शाखाभेदेष्व- न्यथान्यथा च प्राणादिसंवादश्रवणात् । यदि हि वादः परमार्थ एवाभूत्, एकरूप एव संवादः सर्वशाखास्वश्रोष्यत, विरु- द्धानेकप्रकारेण नाश्रोष्यत ; श्रूयते तु; तस्मान्न तादयै सं- वादश्रुतीनाम् । तथोत्पत्तिवाक्यानि प्रत्येतव्यानि । कल्पस- र्गभेदात्संवादश्रुतीनामुत्पत्तिश्रुतीनां च प्रतिसर्गमन्यथात्व- मिति चेन; न निष्प्रयोजनत्वाद्यथोक्तबुद्धयवतारप्रयोज- नव्यतिरेकेण । न ह्यन्यप्रयोजनवत्त्वं संवादोत्पत्तिश्रुतीनां शक्यं कल्पयितुम् । तथात्वप्रतिपत्तये ध्यानार्थमिति चेत ; न, कलहोत्पत्तिप्रलयानां प्रतिपत्तेरनिष्टत्वात् । तस्मादुत्पत्त्या- दिश्रुतय आत्मैकत्वबुद्धयवतारायैव नान्यार्थाः कल्पयितुं युक्ताः । अतो नास्त्युत्पत्त्यादिकृतो भेदः कथंचन ॥ आश्रमास्त्रविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥ यदि हि पर एवात्मा नित्यशुद्धबुद्धमुक्तस्वभाव एकः पर- 11 माण्डूक्योपनिषत्कारिकाभाप्ये ' मार्थतः सन् ' एकमेवाद्वितीयम्' इत्यादिश्रुतिभ्यः, असदन्यत्, किमर्थेयमुपासनोपदिष्टा 'आत्मा वा अरे द्रष्टव्यः' 'य आत्मापहतपाप्मा' ' स क्रतुं कुर्वीत' ' आत्मेत्येवोपासीत इत्यादिश्रुतिभ्यः कर्माणि चाग्निहोत्रादीनि ? शृणु तत्र कारणम्-- आश्रमाः आश्रमिणोऽधिकृताः, वर्णिनश्च मा- गंगाः, आश्रमशब्दस्य प्रदर्शनार्थत्वात्, त्रिविधाः । कथम् ? हीनमध्यमोत्कृष्टदृष्टयः हीना निकृष्टा मध्यमा उत्कृष्टा च दृष्टि: दर्शनसामर्थ्यं येषां ते, मन्दमध्यमोत्तमबुद्धिसाम- र्थ्योपेता इत्यर्थः । उपासना उपदिष्टा इयं तदर्थं मन्दमध्य- माश्रमाद्यर्थं कर्माणि च । न चात्मैक एवाद्वितीय इति निश्चितोत्तमदृष्टयर्थम् । दयालुना वेदेनानुकम्पया सन्मा- गंगाः सन्तः कथमिमामुत्तमामेकत्वदृष्टिं प्राप्नुयुरिति, ' यन्म- नसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते' 'तत्त्वमसि' ' आत्मैवेदं सर्वम्' इत्यादि- श्रुतिभ्यः ॥ स्वसिद्धान्त व्यवस्थासु द्वैतिनो निश्चिता दृढम् परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥ शास्त्रोपपत्तिभ्यामवधारितत्वादद्वयात्मदर्शनं सम्यग्दर्श- नम्, तद्वाह्यत्वान्मिथ्यादर्शनमन्यत् । इतश्च मिथ्यादर्शनं अद्वैतप्रकरणम् । द्वैतिनां रागद्वेषादिदोषास्पदत्वात् । कथम् ? स्वसिद्धान्तव्यव- स्थासु स्वसिद्धान्तरचनानियमेषु कपिलकणादबुद्धार्हता दिदृष्टथ- नुसारिणो द्वैतिनो निश्चिताः, एवमेवैष परमार्थो नान्यथेति, तत्र तत्रानुरक्ताः प्रतिपक्षं चात्मनः पश्यन्तस्तं द्विषन्त इत्येवं रागद्वेषोपेताः स्वसिद्धान्तदर्शननिमित्तमेव परस्परम् अन्योन्यं विरुध्यन्ते । तैरन्योन्यविरोधिभिरस्मदीयोऽयं वै- दिकः सर्वानन्यत्वादात्मैकत्वदर्शनपक्षो न विरुध्यते, यथा स्वहस्तपादादिभिः । एवं रागद्वेषादिदोषानास्पदत्वादात्मैक- त्वबुद्धिरेव सम्यग्दर्शनमित्यभिप्रायः । अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८ ॥ क्रेन हेतुना तैर्न विरुध्यत इत्युच्यते - अद्वैतं परमार्थ:, हि यस्मात् द्वैतं नानात्वं तस्याद्वैतस्य भेदः तद्भेदः, तस्य का- र्यमित्यर्थः, 'एकमेवाद्वितीयम् ' ' तत्तेजोऽसृजत' इति श्रुतेः ; उपपत्तेश्च, स्वचित्तस्पन्दनाभावे समाधौ मूर्छायां सुषुप्तौ वा अभावात् । अत: तद्भेद उच्यते द्वैतम् । द्वैतिनां तु तेषां परमार्थतोऽपरमार्थतश्च उभयथापि द्वैतमेव; यदि च तेषां भ्रान्तानां द्वैतदृष्टिः अस्माकमद्वैतदृष्टिरभ्रान्तानाम्, तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तै:, 'इन्द्रो मायाभि: ' 'न माण्डूक्योपनिषत्कारिकाभाष्ये तु तद्वितीयमस्ति' इति श्रुतेः । यथा मत्तगजारूढः उन्मत्तं भूमिष्ठम् ' 'प्रतिगजारूढोऽहं गजं वाहय मां प्रति' इति ब्रुवाण- मपि तं प्रति न वाहयत्यविरोधबुद्धया, तद्वत् । ततः परमा- र्थतो ब्रह्मविदात्मैव द्वैतिनाम् । तेनायं हेतुना अस्मत्पक्षो न विरुध्यते तैः ॥ मायया भिद्यते ह्येतन्नान्यथाजं कथंचन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ । द्वैतमद्वैतभेद इत्युक्ते द्वैतमप्यद्वैतवत्परमार्थसदिति खा- त्कस्यचिदाशङ्केत्यत आह- यत्परमार्थसदद्वैतम् मायया भिद्यते ह्येतत् तैमिरिकानेकचन्द्रवत् रज्जुः सर्पधारादिभिर्भे- दैरिव; न परमार्थतः, निरवयवत्वादात्मनः । सावयवं ह्यवयवान्यथात्वेन भिद्यते, यथा मृत् घटादिभेदैः । तस्मान्नि- रवयवमजं नान्यथा कथंचन, केनचिदपि प्रकारेण न भिद्यत इत्यभिप्रायः । तत्त्वतो भिद्यमानं हि अमृतमजमद्वयं स्वभावतः सत् मर्त्यतां व्रजेत् यथा अग्निः शीतताम् । तच्चानिष्टं स्वभा- ववैपरीत्यगमनम्, सर्वप्रमाणविरोधात् । अजमद्वयमात्म- तत्त्वं माययैत्र भिद्यते, न परमार्थतः । तस्मान्न परमार्थ- सद्वैतम् ॥ " अद्वैतप्रकरणम् । अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥ ये तु पुनः केचिदुपनिषव्याख्यातारो ब्रह्मवादिनो बादू- का: अजातस्यैव आत्मतत्त्वस्यामृतस्य स्वभावतो जातिम् उ- त्पत्तिम इच्छन्ति परमार्थत एव तेषां जातं चेत्, तदेव मर्त्य- तामेष्यत्यवश्यम् । स च अजातो ह्यमृतो भाव: स्वभावत: सन्नात्मा कथं मर्त्यतामेष्यति ? न कथंचन मर्त्यत्वं स्वभाव- वैपरीत्यमेष्यतीत्यर्थः ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ २१ ॥ यस्मान्न भवति अमृतं मर्त्यं लोके नापि मर्त्यममृतं तथा, ततः प्रकृतेः स्वभावस्य अन्यथाभावः स्वतः प्रच्युतिः न कथंचिद्भविष्यति, अग्नेरिवौष्ण्यस्य ॥ ' स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥ यस्य पुनर्वादिनः स्वभावेन अमृतो भावः मर्त्यतां गच्छ- ति परमार्थतो जायते, तस्य प्रागुत्पत्तेः स भावः स्वभावतो- s. r. I. 11 माण्डूक्योपनिषत्कारिकाभाष्ये Sमृत इति प्रतिज्ञा मृषैव । कथं तर्हि ? कृतकेनामृत: तस्य स्वभावः । कृतकेनामृतः स कथं स्थास्यति निश्चल: ? अमृत- स्वभावतया न कथंचित्स्थास्यति । आत्मजातिवादिनः सर्वथा अजं नाम नास्त्येव । सर्वमेतन्मर्त्यम् ; अतः अनिर्मोक्षप्रसङ्ग इत्यभिप्राय: ॥ भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥ नन्वजातिवादिनः सृष्टिप्रतिपादिका श्रुतिर्न संगच्छ- ते । बाढम् ; विद्यते सृष्टिप्रतिपादिका श्रुतिः; सा त्व- न्यपरा, ' उपायः सोऽवतारय' इत्यवोचाम । इदानीमु- केsपि परिहारे पुनश्चोद्यपरिहारौ विवक्षितार्थं प्रति सृष्टि- श्रुत्यक्षराणामानुलोम्यविरोधशङ्कामात्रपरिहारार्थौ । भूततः परमार्थतः सृज्यमाने वस्तुनि, अभूततः मायया वा माया- विनेव सृज्यमाने वस्तुनि समा तुल्या सृष्टिश्रुतिः । ननु गौ- णमुख्ययोर्मुख्ये शब्दार्थप्रतिपत्तिर्युक्ता ; न, अन्यथासृष्टेरप्र- सिद्धत्वान्निष्प्रयोजनत्वाच्च इत्यवोचाम । अविद्यासृष्टिविषयैव सर्वा गौणी मुख्या च सृष्टि:, न परमार्थत:, न्तरो ह्यज:' इति श्रुतेः । तस्मात् श्रुत्या निश्चितं यत् एक- मेवाद्वितीयमजममृतमिति, युक्तियुक्तं च युक्त्या च संपन्नम्, ८ सबाह्याभ्य- अद्वैतप्रकरणम् । तदेवेत्यवोचाम पूर्वैर्ग्रन्थैः; तदेव श्रुत्यर्थो भवति, नेतरत्क- दाचिदपि कचिदपि ॥ नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि । अजायमानो बहुधा जायते मायया तु सः ॥ २४ ॥ कथं श्रुतिनिश्चय इत्याह-यदि हि भूतत एव सृष्टि: स्यात्, ततः सत्यमेव नानावस्त्विति तद्भावप्रदर्शनार्थ आ- नायो न स्यात्; अस्ति च ' नेह नानास्ति किंचन' इत्या- नायो द्वैतभावप्रतिषेधार्थः; तस्मादात्मैकत्वप्रतिपत्त्यर्था क- ल्पिता सृष्टिरभूतैव प्राणसंवादवत् । ' इन्द्रो मायाभि:' इ- त्यभूतार्थप्रतिपादकेन मायाशब्देन व्यपदेशात् । ननु प्रज्ञाव- चनो मायाशब्दः; सत्यम्, इन्द्रियप्रज्ञाया अविद्यामयत्वेन मायात्वाभ्युपगमाददोषः । मायाभिः इन्द्रियप्रज्ञाभिरविद्यारू- पाभिरित्यर्थः । ' अजायमानो बहुधा त्रिजायते' इति श्रुतेः । तस्मात् जायते मायया तु सः; तु शब्दोऽवधारणार्थ : माय- यैवेति । न ह्यजायमानत्वं बहुधाजन्म च एकत्र संभवति, अग्नाविव शैत्यमौष्ण्यं च । फलवत्त्वाच्चात्मैकत्वदर्शनमेव श्रुति- निश्चितोऽर्थ:, ' तत्र को मोहः कः शोक एकत्वमनुपश्यतः ' इत्यादिमन्त्रवर्णात् 'मृत्योः स मृत्युमाप्नोति' इति निन्दित- माण्डूक्योपनिषत्कारिकाभाप्ये त्वाञ्च सृष्ट्यादिभेददृष्टेः ॥ संभूतेरपवादाच्च संभवः प्रतिषिध्यते । को वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥ ' अन्धं तमः प्रविशन्ति ये संभूतिमुपासते' इति संभूतेरुपास्यत्वापवादात्संभवः प्रतिषिध्यते ; न हि परमा- सद्भूतायां संभूतौ तदपवाद उपपद्यते । ननु विना- शेन संभूतेः समुच्चयविधानार्थः संभूत्यपवाद:, यथा 'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते' इति । सत्यमेव, देवताद- र्शनस्य संभूतिविषयस्य विनाशशब्दवाच्यस्य च कर्मणः समु- चयविधानार्थः संभूत्यपवाद: ; तथापि विनाशाख्यस्य कर्मणः स्वाभाविकाज्ञानप्रवृत्तिरूपस्य मृत्योरतितरणार्थत्ववत् देवताद- र्शनकर्मसमुच्चयस्य पुरुषसंस्कारार्थस्य कर्मफलरागप्रवृत्तिरूपस्य साध्यसाधनैषणाद्वयलक्षणस्य मृत्योरतितरणार्थत्वम् । एवं ह्येष- णाद्वयरूपान्मृत्योरशुद्धेर्वियुक्तः पुरुषः संस्कृत: स्थान । अतो मृत्योरतितरणार्थी देवतादर्शनकर्मसमुच्चयलक्षणा ह्यविद्या । ए- वमेव एषणाद्वयलक्षणाविद्याया मृत्योरतितीर्णस्य विरक्तस्योप- निषच्च्छास्त्रार्थालोचनपरस्य नान्तरीयिका परमात्मैकत्वविधो- त्पत्तिरिति पूर्वभाविनीमविद्यामपेक्ष्य पश्चाद्भाविनी ब्रह्मवि- अद्वैतप्रकरणम् । । या अमृतत्वसाधना एकेन पुरुषेण संबध्यमाना अविद्यया समुच्चीयत इत्युच्यते । अतः अन्यार्थत्वादमृतत्वसाधनं ब्रह्म- विद्यामपेक्ष्य, निन्दार्थ एव भवति संभूत्यपवादः यद्यप्यशु- द्धिबियोगहेतुः अतन्निष्ठत्वात् । अत एव संभूतेरपवादात्संभू- तेरापेश्चिकमेव सत्त्वमिति परमार्थसदात्मैकत्वमपेक्ष्य अमृ- ताख्य: संभवः प्रतिषिध्यते । एवं मायानिर्मितस्यैव जीवस्य अविद्यया प्रत्युपस्थापितस्य अविद्यानाशे स्वभावरूपत्वात्पर- मार्थतः को न्वेनं जनयेत् ? न हि रज्ज्वामविद्याध्यारोपितं सर्प पुनर्विवेकतो नष्टं जनयेत्कश्चित्; तथा न कश्विदेनं जन- येदिति । को न्वित्याक्षेपार्थत्वात्कारणं प्रतिषिध्यते । अविद्यो- द्भूतस्य नष्टस्य जनयितृ कारणं न किंचिदस्तीत्यभिप्रायः 5 'नायं कुतश्चिन्न वभूव कश्चित्' इति श्रुतेः ॥ स एष नेति नेतीति व्याख्यातं निहते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥ सर्वविशेषप्रतिषेधेन 'अथात आदेशो नेति नेति' इति प्रतिपादितस्यात्मनो दुर्योधत्वं मन्यमाना श्रुति: पुन: पुन- रुपायान्तरत्वेन तस्यैव प्रतिपिपादयिषया यद्यद्वयाख्यातं तत्सर्वं निह्नुते । ग्राह्यं जनिमद्बुद्धिविषयमपलपत्यर्थात् ' स एष माण्डूक्योपनिषत्कारिकाभाष्ये नेति नेति' इत्यात्मनोऽदृश्यतां दर्शयन्ती श्रुतिः । उपायस्यो- पेयनिष्ठतामजानत उपायत्वेन व्याख्यातस्य उपेयवग्राह्यता मा भूदिति अग्राह्यभावेन हेतुना कारणेन निहृत इत्यर्थः । ततश्चैवमुपायस्योपेयनिष्ठतामेव जानत उपेयख च नित्यै- करूपत्वमिति तस्य सबाह्याभ्यन्तरमजमात्मतत्त्वं प्रकाशते स्वयमेव ॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्तो जायते यस्य जातं तस्य हि जायते ॥ २७ ॥ एवं हि श्रुतिवाक्यशतैः सवाह्याभ्यन्तरमजमात्मतत्त्वम- द्वयं न ततोऽन्यदस्तीति निश्चितमेतत् । युक्त्या चाधुनैत- देव पुनर्निर्धार्यत इत्याह — तत्रैतत्स्यात् सदा अग्राह्यमेव चे- दसदेवात्मतत्त्वमिति; तन्न, कार्यग्रहणात् । यथा सतो मायाविनः मायया जन्म कार्यम्, एवं जगतो जन्म कार्य गृह्यमाणं मायाविनमिव परमार्थसन्तमात्मानं जगज्जन्म मा- यास्पदमेव गमयति । यस्मात् सतो हि विद्यमानात्कारणान् मायानिर्मितस्य हस्त्यादिकार्यस्येव जगज्जन्म युज्यते, ना- सतः कारणात् । न तु तत्त्वत एव आत्मनो जन्म युज्यते । अथवा, सतः विद्यमानस्य वस्तुनो रज्ज्वादेः सर्पादिवत् मा- यया जन्म युज्यते न तु तत्त्वतो यथा तथा अग्राह्यस्यापि अद्वैतप्रकरणम् । सत एवात्मनो रज्जुसर्पवज्जगद्रूपेण मायया जन्म युज्यते । न तु तत्त्वत एवाजस्यात्मनो जन्म । यस्य पुनः परमार्थ- सदजमात्मतत्त्वं जगद्रूपेण जायते वादिनः, न हि तस्य अजं जायत इति शक्यं वक्तुम्, विरोधात् । ततः तस्या- र्थाज्जातं जायत इत्यापन्नम् । ततश्चानवस्थापाताज्जायमानत्वं न । तस्मादजमेकमेवात्मतत्त्वमिति सिद्धम् ॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥ असद्वादिनाम् असतो भावस्य मायया तत्त्वतो वा न कथंचन जन्म युज्यते, अदृष्टत्वात् । न हि वन्ध्यापुत्रो मायया तत्त्वतो वा जायते । तस्मादत्रासद्वादो दूरत एवा- नुपपन्न इत्यर्थः ॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्याभासं स्पन्दते मायया मनः ॥ २९ ॥ कथं पुनः सतो माययैव जन्मेत्युच्यते - यथा रज्ज्वां विकल्पितः सर्पो रज्जुरूपेणावेक्ष्यमाणः सन् एवं मनः पर- मात्मविज्ञप्त्यात्मरूपेणावेक्ष्यमाणं सन् ग्राह्यग्राहकरूपेण द्वया- भासं स्पन्दते स्वप्ने मायया रज्ज्वामिव सर्प:; तथा तद्व- माण्डूक्योपनिषत्कारिकाभाप्ये देव जाग्रत् जागरिते स्पन्दते मायया मनः, स्पन्दत इवेत्यर्थः ॥ अद्वयं च द्वयाभासं मनः स्वमे न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥ रज्जुरूपेण सर्प इव परमार्थत आमरूपेण अद्वयं सत द्व- याभासं मनः स्वप्ने, न संशयः । न हि स्वप्ने हस्त्यादि ग्राह्यं तग्राहकं वा चक्षुरादि, द्वयं विज्ञानव्यतिरेकेणास्ति ; जाग्रदपि तथैवेत्यर्थः ; परमार्थसद्विज्ञानमात्राविशेषात् ॥ ;; मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥ रज्जुसर्पवद्विकल्पनारूपं द्वैतरूपेण मन एवेत्युक्तम् । तत्र किं प्रमाणमिति, अन्वयव्यतिरेकलक्षणमनुमानमाह । कथम् ? तेन हि मनसा विकल्प्यमानेन दृश्यं मनोदृश्यम् इदं द्वैतं सर्व मन इति प्रतिज्ञा, तद्भावे भावात् तदभावे चाभावात् । मनसो हि अमनीभावे निरुद्धे विवेकदर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्ते द्वैतं नैवोपलभ्यत इति अभावात्सिद्धं द्वैतस्यासत्त्वमित्यर्थः ॥ आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥ अद्वैतप्रकरणम् । कथं पुनरयममनीभाव इत्युच्यते-- आत्मैव सत्यमा- त्मसत्यम्, मृत्तिकावत्, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः । तम्य शास्त्राचार्योपदेश- मन्त्रवबोध आत्मसत्यानुबोधः । तेन संकल्प्याभावात्तन्न संकल्पयते दाह्याभावे ज्वलनमिवाग्नेः यदा यस्मिन्काले, तदा तस्मिन्काले अमनस्ताम् अमनोभावं याति; ग्राह्या- भावे तत् मनः अग्रहं ग्रहणविकल्पनावर्जितमित्यर्थः ॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । , ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥ यद्यदिदं द्वैतम् केन समञ्जसमात्मतत्त्वं विबुध्यत इति, उच्यते — अकल्पकं सर्वकल्पनावर्जितम्, अत एव अजं ज्ञानं ज्ञप्तिमात्रं ज्ञेयेन परमार्थसता ब्रह्मणा अभिन्नं प्रचक्षते कथयन्ति ब्रह्मविदः । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते' अग्न्युष्णवत्, 'विज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञान- मनन्तं ब्रह्म' इत्यादिश्रुतिभ्यः । तस्यैव विशेषणम् — ब्रह्म ज्ञेयं यस्य, स्वस्थं तदिदं ब्रह्म ज्ञेयम् औष्ण्यस्येवाभिवदभिन्नम, तेन आत्मस्वरूपेण अजेन ज्ञानेन अजं ज्ञेयमात्मतत्त्वं स्वय- मेव विबुध्यते अवगच्छति । नित्यप्रकाशस्वरूप इव सविता नित्यविज्ञानैकरसघनत्वान्न ज्ञानान्तरमपेक्षत इत्यर्थः ॥ माण्डूक्योपनिषत्कारिकाभाष्ये निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥३४॥ आत्मसत्यानुबोधेन संकल्पमकुर्वत वाह्यविषयाभावे नि- रिन्धनाग्निवत्प्रशान्तं सत् निगृहीतं निरुद्धं मनो भवतीत्युक्तम् । एवं च मनसो ह्यमनीभावे द्वैताभावश्वोक्तः । तस्यैवं निगृ- हीतस्य निरुद्धस्य मनसः निर्विकल्पस्य सर्वकल्पनावर्जितस्य धीमतः विवेकवतः प्रचरणं प्रचारो यः, स तु प्रचारः विशेषेण ज्ञेयो विज्ञेयो योगिभिः । ननु सर्वप्रत्ययाभावे यादृशः सुषुप्ति- स्थस्य मनसः प्रचार:, तादृश एव निरुद्धस्यापि प्रत्ययाभा- वाविशेषात्; किं तत्र विज्ञेयमिति । अत्रोच्यते — नैवम, यस्मात्सुषुप्ते अन्यः प्रचारोऽविद्यामोहतमोग्रस्तस्य अन्त- लीनानेका नर्थप्रवृत्तिबीजवासनावतो मनसः आत्मसत्यानु- बोधहुताशविप्लुष्टा विद्याद्यनर्थप्रवृत्तिबीजस्य निरुद्धस्य अन्य एव प्रशान्तसर्वक्लेशरजसः स्वतन्त्रः प्रचारः । अतो न तत्समः । तस्माद्युक्तः स विज्ञातुमित्यभिप्राय: ॥ लीयते हि सुषुप्तौ तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५ ॥ प्रचारभेदे हेतुमाह — लीयते सुषुप्तौ हि यस्मात्सर्वाभिर- अद्वैतप्रकरणम् । विद्यादिप्रत्ययबीजवासनाभिः सह तमोरूपम अविशेषरूपं बीजभावमापद्यते तद्विवेकविज्ञानपूर्वकं निगृहीतं निरुद्धं सत् न लीयते तमोबीजभावं नापद्यते । तस्माद्युक्तः प्रचारभेदः सुषुप्तस्य समाहितस्य मनसः यदा ग्राह्यग्राहकाविद्याकृतम- लद्वयवर्जितम्, तदा परमद्वयं त्रह्मैव तत्संवृत्तमित्यतः तदेव निर्भयम, द्वैतग्रहणस्य भयनिमित्तस्याभावात् । शान्तमभयं त्रह्म यद्विद्वान्न बिभेति कुतश्चन । तदेव विशेष्यते— ज्ञप्तिर्ज्ञानम् आत्मस्वभावचैतन्यम्, तदेव ज्ञानमालोकः प्रकाशो यस्य, तद्ब्रह्म ज्ञानालोकं विज्ञानैकरसघनमित्यर्थः । समन्ततः समन्तात्; सर्वतो व्योमवन्नैरन्तर्येण व्यापक- मित्यर्थः ॥ अजमनिंद्रमस्वममनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ ३६ ॥ जन्मनिमित्ताभावात्सवाह्याभ्यन्तरम् अजम्; अविद्यानि- मित्तं हि जन्म रज्जुसर्पवदित्यवोचाम । सा चाविद्या आत्मस- त्यानुबोधेन निरुद्धा यत:, अत: अजम्, अत एव अनिद्रम अविद्यालक्षणानादिर्मायानिद्रास्वापात्प्रबुद्धम अद्वयस्वरूपे- णात्मना ; अत: अस्वप्नम् । अप्रबोधकृते ह्यस्य नामरूपे ; प्रबोधाच ते रज्जुसर्पवद्विनष्टे । न नाम्नाभिधीयते ब्रह्म, रूप्य- माण्डूक्योपनिषत्कारिकाभाष्ये ते वा न केनचित्प्रकारेण इति अनामकम् अरूपकं च तत्, 'यतो वाचो निवर्तन्ते' इत्यादिश्रुतेः । किंच, सकृद्विभातं सदैव विभातं सदा भारूपम्, अग्रहणान्यथाग्रहणाविर्भावति- रोभाववर्जितत्वात् । ग्रहणाग्रहणे हि रात्र्यहनी; तमश्चावि- द्यालक्षणं सदा अप्रभातत्वे कारणम् ; तदभावान्नित्यचैतन्य- भारूपत्वाच्च युक्तं सकृद्विभातमिति । अत एव सर्वे च तन् ज्ञप्तिस्वरूपं चेति सर्वज्ञम् । नेह ब्रह्मण्येवंविधे उपचरणमुप- चारः कर्तव्यः, यथा अन्येषामात्मस्वरूपव्यतिरेकेण समाधा- नाद्युपचारः । नित्यशुद्धबुद्धमुक्तस्वभावत्वाद्ब्रह्मणः कथंचन न कथंचिदपि कर्तव्यसंभवः अविद्यानाशे इत्यर्थः ॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ अनामकत्वायुक्तार्थसिद्धये हेतुमाह--अभिलप्यते अनेने- ति अभिलापः वाक्करणं सर्वप्रकारस्याभिधानस्य तस्माद्विग- तः ; वागत्रोपलक्षणार्थी, सर्वबाह्यकरणवर्जित इत्येतत् । तथा, सर्वचिन्तासमुत्थित:, चिन्त्यते अनयेति चिन्ता बुद्धि:, तस्या: समुत्थित:, अन्तःकरणविवर्जित इत्यर्थः, 'अप्राणो ह्यमनाः शुभ्रः' 'अक्षरात्परतः परः' इत्यादिश्रुतेः । यस्मात्सर्वविषयव- र्जित:, अत: सुप्रशान्तः । सकृज्ज्योतिः सदैव ज्योति: आ- अद्वैतप्रकरणम । त्मचैतन्य स्वरूपेण । समाधिः समाधिनिमित्तप्रज्ञावगम्यत्वा- न्; समाधीयते अस्मिन्निति वा समाधिः । अचल: अवि- क्रियः । अत एव अभयः विक्रियाभावात् ॥ ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८ ॥ यस्माद्ब्रह्मैव 'समाधिरचलोऽभयः' इत्युक्तम्, अतः न तत्र तस्मिन्त्रह्मणि ग्रहः ग्रहणमुपादानम्, न उत्सर्ग: उत्स- जनं हानं वा विद्यते । यत्र हि विक्रिया तद्विषयत्वं वा, तत्र हानोपादाने स्याताम् ; न तद्दुयमिह ब्रह्मणि संभवति, विकारहेतोरन्यस्याभावान्निरवयवत्वाच्च ; अतो न तत्र हानो- पादाने संभवतः । चिन्ता यत्र न विद्यते, सर्वप्रकारैव चिन्ता न संभवति यत्र अमनस्त्वात्, कुतस्तत्र हानोपादाने इत्यर्थः । यदैव आत्मसत्यानुबोधो जातः, तदैव आत्मसंस्थं विषया- भावादग्न्युष्णवदात्मन्येव स्थितं ज्ञानम्, अजाति जातिव- जिंतम, समतां गतम् परं साम्यमापन्नं भवति । यदादौ प्रतिज्ञातम् ' अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ' इति इदं तदुपपत्तित: शास्त्रतत्रोक्तमुपसंह्नियते— अजाति समतां गतमिति । एतस्मादात्मसत्यानुबोधात्कार्पण्यविषय- मन्यत्, यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रेति : माण्डूक्योपनिषत्कारिकाभाप्ये स कृपण:' इति श्रुतेः । प्राप्यैतत्सर्वः कृतकृत्यो ब्राह्मणो भवतीत्यभिप्राय: ॥ अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिणाम् । योगिनो विभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९ ॥ यद्यपीदमित्थं परमार्थतत्त्वम्, अस्पर्शयोगो नाम अयं सर्व संबन्धाख्यस्पर्शर्वजितत्वात् अम्पर्शयोगो नाम वै स्मर्यते प्रसिद्ध उपनिषत्सु । दुःखेन दृश्यत इति दुर्दर्श: सर्वयोगि- णाम् वेदान्तविज्ञानरहितानाम; आत्मसत्यानुवोधायासलभ्य एवेत्यर्थः । योगिनः विभ्यति हि अस्मात्सर्वभयवर्जितादपि आत्मनाशरूपमिमं योगं मन्यमाना भयं कुर्वन्ति, अभये अस्मिन भयदर्शिनः भयनिमित्तात्मनाशदर्शनशीलाः अवि- वेकिनः इत्यर्थः ॥ मनसो निग्रहायत्तमभयं सर्वयोगिणाम् । दुःखक्षयः प्रवोधश्चाप्यक्षया शान्तिरेव च ॥ ४० ॥ येषां पुनर्ब्रह्मस्वरूपव्यतिरेकेण रज्जुसर्पवत्कल्पितमेव मन इन्द्रियादि च न परमार्थतो विद्यते, तेषां त्रह्मस्वरूपाणाम- भयं मोक्षाख्या च अक्षया शान्तिः स्वभावत एव सिद्धा, नान्यायत्ता, 'नोपचारः कथंचन' इत्युक्तेः ; ये त्वतोऽन्ये अद्वैतप्रकरणम् । योगिनो मार्गगा हीनमध्यमदृष्टयो मनोऽन्यदात्मव्यतिरिक्त- मात्मसंबन्धि पश्यन्ति तेषामात्मसत्यानुबोधरहितानां म- नसो निग्रहायत्तमभयं सर्वेषां योगिनाम् । किंच, दुःखक्ष- योऽपि । न ह्यात्मसंबन्धिनि मनसि प्रचलिते दुःखक्षयो- ऽस्त्यविवेकिनाम् । किंच, आत्मप्रबोधोऽपि मनोनिग्रहायत्त एव । तथा, अक्षयापि मोक्षाख्या शान्तिस्तेषां मनोनि- महायत्तैव ॥ उत्सेक उदधेर्यद्वत्कुशाग्रेणैकविन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१ ॥ मनोनिग्रहोऽपि तेषाम् उदधेः कुशाग्रेण एकबिन्दुना उत्सेचनेन शोषणव्यवसायवत् व्यवसायवतामनवसन्नान्त:- करणानामनिर्वेदात् अपरिखेदतः भवतीत्यर्थः ॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२ ॥ किमपरिखिन्नव्यवसायमात्रमेव मनोनिग्रहे उपायः ? ने- त्युच्यते ; अपरिखिन्नव्यवसायवान्सन, वक्ष्यमाणेनोपायेन कामभोगविषयेषु विक्षिप्तं मनो निगृह्णीयात् निरुन्ध्यादास- न्येवेत्यर्थः । किंच, लीयतेऽस्मिन्निति सुषुप्तो लयः; तस्मिन् माण्डूक्योपनिषत्कारिकाभाप्ये ' लये च सुप्रसन्नम आयासवर्जितमपीत्येतत् निगृह्णीयादि- त्यनुवर्तते । सुप्रसन्नं चेत्कस्मान्निगृह्यत इति उच्यते; यस्मात् यथा काम: अनर्थहेतु:, तथा लयोऽपि ; अतः कामविषयस्य मनसो निग्रहवल्लयादपि निरोद्धव्यत्वमिन्यर्थः ॥ दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥ कः स उपाय इति, उच्यते-- सर्व द्वैतमविद्याविज़- म्भितं दुःखमेव इत्यनुस्मृत्य कामभोगात् कामनिमित्तो भांग: इच्छाविषयः तस्मात् विप्रसृतं मनो निवर्तयेत् वैराग्यभावन- येत्यर्थः । अजं ब्रह्म सर्वम् इत्येतच्छास्त्राचार्योपदेशत: अनु- स्मृत्य तद्विपरीतं द्वैतजातं नैव तु पश्यति अभावात् ॥ लये संवोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४ ॥ एवमनेन ज्ञानाभ्यासवैराग्यद्वयोपायेन लये सुषुप्रे लीनं संबोधयेत् मनः आत्मविवेकदर्शनेन योजयेत् । चित्तं मन इत्यनर्थान्तरम् । विक्षिप्तं च कामभोगेषु शमयेत्पुनः । एवं पुनः पुनरभ्यासतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितम्, नापि साम्यापन्नमन्तरालावस्थं सकषायं सरागं वीजसंयुक्तं अद्वैतप्रकरणम् । मन इति विजानीयात् । ततोऽपि यत्नतः साम्यमापादयेत् । यदा तु समप्राप्तं भवति, समप्राप्त्यभिमुखीभवतीत्यर्थः ; ततः तत् न चालयेत्, विषयाभिमुखं न कुर्यादित्यर्थः ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरञ्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ४५ ॥ समाधित्सतो योगिनो यत्सुखं जायते तन् नास्वादयेत् तत्र न रज्येतेत्यर्थः । कथं तर्हि ? निःसङ्गः निःस्पृहः प्रज्ञया विवेकबुद्धया यदुपलभ्यते सुखम, तदविद्यापरिकल्पितं मृषै- वेति विभावयेत्; ततोऽपि सुखरागान्निगृह्णीयादित्यर्थः । यदा पुनः सुखरागान्निवृत्तं निश्चलखभावं सन् निश्वरत बहिर्निर्गच्छद्भवति चित्तम, ततस्ततो नियम्य उक्तोपायेन आत्मन्येव एकीकुर्यात् प्रयत्नतः । चित्स्वरूपसत्तामात्रमेवापा- दयेदित्यर्थः ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥ यथोक्तेनोपायेन निगृहीतं चित्तं यदा सुषुप्रे न लीयते, न च पुनर्विषयेषु विक्षिप्यते ; अनिङ्गनम् अचलं निवातप्रदी- S. U. 11. 12 माण्डूक्योपनिषत्कारिकाभाप्ये पकल्पम्, अनाभासं न केनचित्कल्पितेन विषयभावेनावभा- सते इति ; यदा एवंलक्षणं चित्तम्, तदा निष्पन्नं ब्रह्म ; ब्रह्मस्वरूपेण निष्पन्नं चित्तं भवतीत्यर्थः ॥ . स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ॥ ; यथोक्तं परमार्थसुखमात्मसत्यानुबोधलक्षणं स्वस्थं स्वा- त्मनि स्थितम् ; शान्तं सर्वानर्थोपशमरूपम; सनिर्वाणम, निर्वृतिर्निर्वाणं कैवल्यम्, सह निर्वाणेन वर्तते तच अक- ध्यं न शक्यते कथयितुम, अत्यन्तासाधारणविषयत्वात् ; सुखमुत्तमं निरतिशयं हि तद्योगिप्रत्यक्षमेव न जातमिति अजम, यथा विषयविषयम; अजेन अनुत्पन्नेन ज्ञेयेन अव्य- तिरिक्तं सत् स्वेन सर्वज्ञरूपेण सर्वज्ञं ब्रह्मैव सुखं परिचक्षते कथयन्ति ब्रह्मविदः ॥ ; न कश्विजायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ४८ ॥ सर्वोऽप्ययं मनोनिग्रहादि: मृलोहादिवत्सृष्टिरुपासना च उक्ता परमार्थस्वरूपप्रतिपत्त्युपायत्वेन, न परमार्थसत्येति । परमार्थसत्यं तु न कश्चिज्जायते जीवः कर्ता भोक्ता च नोत्प- अद्वैतप्रकरणम् । ते केनचिदपि प्रकारेण । अतः स्वभावतः अजस्य अस्म एकस्यात्मनः संभव: कारणं न विद्यते नास्ति । यस्मान्न वि- ग्रतेऽस्य कारणम्, तस्मान्न कचिज्जायते जीव इत्येतत् । पू- पायत्वेनोक्तानां सत्यानाम् एतत् उत्तमं सत्यं यस्मिन्स- त्यस्वरूपे ब्रह्मणि अणुमात्रमपि किंचिन्न जायते इति ॥ इति तृतीयमद्वैतप्रकरणं संपूर्णम् ॥ अलातशान्तिप्रकरणम् ॥ ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥ ओंकारनिर्णयद्वारेण आगमतः प्रतिज्ञातस्याद्वैतस्य बाह्य- विषयभेदवैतध्याच सिद्धस्य पुनरद्वैते शास्त्रयुक्तिभ्यां साक्षा- निर्धारितस्य एतदुत्तमं सत्यमित्युपसंहारः कृतोऽन्ते । तस्यै- तस्यागमार्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूता द्वैतिनो वैनाशि- काश्च । तेषां चान्योन्यविरोधाद्रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम्, क्लेशानास्पदत्वात्सम्यग्दर्शनमित्य- द्वैतदर्शनस्तुतये । तदिह विस्तरेणान्योन्यविरुद्धतया असम्यग्द- र्शनत्वं प्रदर्श्य तत्प्रतिषेधेना द्वैतदर्शनसिद्धिरुपसंहर्तव्या आवी- तन्यायेनेत्यलातशान्तिप्रकरणमारभ्यते । तत्राद्वैतदर्शनसंप्रदा- यकर्तुरद्वैतस्वरूपेणैव नमस्कारार्थोऽयमाद्यश्लोकः । आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थेष्यते शास्त्रारम्भे । आकाशेन ईषद- समाप्तमाकाशकल्पमाकाशतुल्यमित्येतत् । तेन आकाशकल्पेन ज्ञानेन । किम् ? धर्मानात्मनः । किंविशिष्टान् ? गगनोपमान् अलातशान्तिप्रकरणम् । गगनमुपमा येषां ते गगनोपमाः, तानात्मनो धर्मान् । ज्ञानस्यैव पुनर्विशेषणम् — ज्ञेयैर्धर्मैरात्मभिरभिन्नम् अग्न्युष्णवत् सवि- तृप्रकाशवश्च यत् ज्ञानम्, तेन ज्ञेयाभिन्नेन ज्ञानेन आकाश- कल्पेन ज्ञेयात्मस्वरूपाव्यतिरिक्तेन, गगनोपमान्धर्मान्यः सं- बुद्ध: संबुद्धवान्नित्यमेव ईश्वरो यो नारायणाख्यः, तं बन्दे अभिवादये । द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानम्, पुरुषोत्तममित्यभिप्रायः । उपदेष्टृनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रति- पिपादयिषितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धच देशितस्तं नमाम्यहम् ॥ २ । अधुना अद्वैतदर्शनयोगस्य नमस्कारः तत्स्तुतये —स्पर्शनं स्पर्शः संबन्धो न विद्यते यस्य योगस्य केनचित्कदाचिदपि, सः अस्पर्शयोगः ब्रह्मस्वभाव एव वै नामेति ; ब्रह्मविदा- मस्पर्शयोग इत्येवं प्रसिद्ध इत्यर्थः । स च सर्वसत्त्वसुखो भवति । कश्चिदत्यन्तसुखसाधनविशिष्टोऽपि दुःखस्वरूप:, यथा तपः । अयं तु न तथा । किं तर्हि ? सर्वसत्त्वानां सुखः । तथा इह भवति कश्चिद्विषयोपभोगः सुखो न हित: ; अयं तु सुखो हितश्च नित्यमप्रचलितस्वभावत्वात् । माण्डूक्योपनिषत्कारिकाभाष्ये किं च अविवादः, विरुद्धं वदनं विवादः पक्षप्रतिपक्षपरिग्र- हेण यस्मिन्न विद्यते सः अविवादः । कस्मान् ? यतः अवि- रुद्धश्च ; य ईदृशो योग: देशितः उपदिष्टः शास्त्रेण, तं नमा- म्यहं प्रणमामीत्यर्थः ॥ भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३ ॥ उच्यते— भूतस्य कथं द्वैतिनः परस्परं विरुध्यन्त इति, विद्यमानस्य वस्तुनः जातिम् उत्पत्तिम् इच्छन्ति वादिनः केचिदेव हि सांख्या: ; न सर्व एव द्वैतिनः । यस्मात् अभू- तस्य अविद्यमानस्य अपरे वैशेषिका नैयायिकाच धीराः धीमन्त:, प्राज्ञाभिमानिन इत्यर्थः । विवदन्तः विरुद्धं वद- न्तो हि अन्योन्यमिच्छन्ति जेतुमित्यभिप्राय: ॥ भूतं न जायते किंचिदभूतं नैव जायते । विवदन्तोऽद्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४ ॥ तैरेवं विरुद्धवदनेन अन्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीति, उच्यते-- भूतं विद्यमानं वस्तु न जायते किंचिद्विद्यमानत्वादेव आत्मवत् इत्येवं वदन असद्वादी सांख्यपक्षं प्रतिषेधति सज्जन्म । तथा अभूतम् अविद्यमा- अलातशान्तिप्रकरणम् । नम् अविद्यमानत्वान्नैव जायते शशविषाणवत् इत्येवं वदन्सां - ख्योऽपि अमद्वादिपश्मसज्जन्म प्रतिषेधति । विवदन्तः वि- रुद्धं वदन्तः अद्वयाः अद्वैतिनो ह्येते अन्योन्यस्य पक्षौ सद- सतोर्जन्मनी प्रतिपेधन्तः अजातिम् अनुत्पत्तिमर्थात्ख्याप- यन्ति प्रकाशयन्ति ते ॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ ५ ॥ तैरेवं ख्यप्यमानामजातिम एवमस्तु इति अनुमोदामहे केवलम्, न तैः सार्धं विवदामः पश्नप्रतिपक्षपरिग्रहेण ; यथा ते अन्योन्यमित्यभिप्रायः । अतः तम् अविवादं विवादर- हितं परमार्थदर्शनमनुज्ञातमस्माभिः निबोधत हे शिष्याः ॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६॥ सदसद्वादिनः सर्वे । अयं तु पुरस्तात्कृतभाष्यः श्लोकः ॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ ७ ॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यतात् । माण्डूक्योपनिषत्कारिकाभाष्ये कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८ ॥ उक्तार्थानां श्लोकानामिहोपन्यासः परवादिपक्षाणामन्यो- न्यविरोधख्यापितानुत्पत्त्यामोदन प्रदर्शनार्थः ॥ सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥ यस्माल्लौकिक्यपि प्रकृतिर्न विपर्येति, कासावित्याह- सम्यक्सिद्धिः संसिद्धि:, तत्र भवा सांसिद्धिकी; यथा योगिनां सिद्धानामणिमाद्यैश्वर्यप्राप्तिः प्रकृतिः, सा भूतभविष्यत्कालयो- रपि योगिनां न विपर्येति । तथैव सा । स्वाभाविकी द्रव्य- स्वभावत एव सिद्धा, यथा अग्न्यादीनामुष्णप्रकाशादिलक्षणा । सापि न कालान्तरे व्यभिचरति देशान्तरे वा, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्यादीनामाकाशगमनादिल- क्षणां । अन्यापि या काचित् अकृता केनचिन्न कृता, यथा अपां निम्नदेशगमनादिलक्षणा । अन्यापि या काचित्स्वभावं न जहाति सा सर्वा प्रकृतिरिति विज्ञेया लोके । मिध्या- कल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिर्नान्यथा भवति ; कि- मुत अजस्वभावेषु परमार्थवस्तुषु ? अमृतत्वलक्षणा प्रकृतिर्ना - न्यथा भवेदित्यभिप्रायः ॥ " अलातशान्तिप्रकरणम् । जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥ किंविषया पुनः सा प्रकृतिः, यथा अन्यथाभावो वादिभिः कल्प्यते ? कल्पनायां वा को दोष इत्याह — जरामरण- निर्मुक्ता: जरामरणादिसर्वविक्रियावर्जिता इत्यर्थः । के ? सर्वे धर्माः सर्वे आत्मान इत्येतत् । स्वभावत: प्रकृतित एव । अत एवंस्वभावाः सन्तो धर्मा जरामरणमिच्छन्त इवे- च्छन्तः रज्ज्वामिव सर्पमात्मनि कल्पयन्तः च्यवन्ते, स्वभा- वतश्चलन्तीत्यर्थः । तन्मनीषया जरामरणचिन्तयां तद्भावभा- वितत्वदोषेणेत्यर्थः ॥ कारणं यस्य वै कार्य कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ कथं सज्जातिवादिभिः सांख्यैरनुपपन्नमुच्यते इति, आह वैशेषिक :—— कारणं मृद्वदुपादानलक्षणं यस्य वादिनः वै का- र्यम्, कारणमेव कार्याकारेण परिणमते यस्य वादिन इत्य- र्थः । तस्य अजमेव सत् प्रधानादि कारणं महदादिकार्यरू- पेण जायत इत्यर्थ: । महदाद्याकारेण चेज्जायमानं प्रधानम्, कथमजमुच्यते तैः ? 'विप्रतिषिद्धं चेदम्--जायते अजं चेति । माण्डूक्योपनिषत्कारिकाभाष्ये . नित्यं च तैरुच्यते । प्रधानं भिन्नं विदीर्णम; स्फुटितमेकदेशेन सत् कथं नित्यं भवेदित्यर्थः । न हि सावयवं घटादि एक- देशेन स्फुटनधर्मि नित्यं दृष्टं लोके इत्यर्थः । विदीर्ण च स्यादे- कदेशेनाजं नित्यं चेत्येतत् विप्रतिषिद्धं तैरभिधीयत इत्य- भिप्राय: ॥ कारणाद्यद्यनन्यत्वमतः कार्यमजं तत्र । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥ उक्तस्यैवार्थस्य स्पष्टीकरणार्थमाह- कारणान् अजान कार्यस्य यदि अनन्यत्वमिष्टं त्वया, ततः कार्यमप्यजमिति प्रा- तम् । इदं चान्यद्विप्रतिषिद्धं कार्यमजं चेति तत्र । किंचान्य- नू, कार्यकारणयोरनन्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यन्नित्यं ध्रुवं च ते कथं भवेत् ? न हि कुक्कुट्या एक- देश: पच्यते, एकदेशः प्रसवाय कल्प्यते ॥ अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥ किंचान्यत्, यत् अजात् अनुत्पन्नाद्वस्तुनः जायते यस्य वादिनः कार्यम्, दृष्टान्तः तस्य नास्ति वै; दृष्टान्ताभावे अ- र्थादजान्न किंचिज्जायते इति सिद्धं भवतीत्यर्थः । यदा पुनः अलातशान्तिप्रकरणम् । जातान् जायमानस्य वस्तुनः अभ्युपगमः, तदपि अन्यम्मा- जातात्तदृप्यन्यस्मादिति न व्यवस्था प्रसज्यते । अनवस्था स्यादित्यर्थः ॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥ ; 'यत्र त्वस्य सर्वमात्मैवाभूत' इति परमार्थतो द्वैताभावः श्रुत्योक्तः ; तमाश्रित्याह- हेतोः धर्मादेः आदिः कारणं देहादिसंघातः फलं येषां वादिनाम; तथा आदि: कारणं हे- तुर्धर्मादिः फलस्य च देहादिसंघातम्य; एवं हेतुफलयोरित- रेतरकार्यकारणत्वेन आदिमत्त्वं ब्रुवद्भिः एवं हेतोः फलस्य च अनादित्वं कथं तैरुपवर्ण्यते विप्रतिषिद्धमित्यर्थः । न हि नित्यम्य कूटस्थस्यात्मनो हेतुफलात्मकता संभवति ॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ । कथं तैर्विरुद्धमभ्युपगम्यत इति उच्यते-- हेतुजन्यादेव फलान् हेतोर्जन्माभ्युपगच्छतां तेषामीदृशो विरोध उक्तो भवति, यथा पुत्राज्जन्म पितुः ॥ माण्डूक्योपनिषत्कारिकाभाष्ये संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्संभवे यस्मादसंवन्धो विषाणवत् ॥ १६ ॥ यथोक्तो विरोधो न युक्तोऽभ्युपगन्तुमिति चेन्मन्यसे, संभवे उत्पत्तौ हेतुफलयोः क्रमः एषितव्यः अन्वेष्टव्यः त्वया- हेतु: पूर्व पश्चात्फलं चेति । इतश्च युगपत्संभवे यस्माद्धेतुफल- योः कार्यकारणत्वेन असंबन्ध:, यथा युगपत्संभवतोः सव्ये- तरगोविषाणयोः ॥ फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥ कथमसंबन्ध इत्याह-- जन्यात्स्वतोऽलब्धात्मकात् फलात् उत्पद्यमानः सन् शशविषाणादेरिवासतो न हेतु: प्रसिध्यति जन्म न लभते । अलब्धात्मकः अप्रसिद्धः सन शशविषा- णादिकल्पः तव स कथं फलमुत्पादयिष्यति ? न हि इतरेतरा - पेक्षसिद्धयोः शशविषाणकल्पयोः कार्यकारणभावेन संबन्धः क्वचिद्दृष्टः अन्यथा वेत्यभिप्रायः ॥ यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८ ॥ अलातशान्तिप्रकरणम् । असंबन्धतादोषेणापाकृतेऽपि हेतुफलयोः कार्यकारणभावे, यदि हेतुफलयोरन्योन्यसिद्धिरभ्युपगम्यत एव त्वया, कत- रत्पूर्वनिष्पन्नं हेतुफलयोः ? यख पञ्चाद्भाविनः सिद्धिः स्यात्पू- र्वसिद्धापेक्षया, तद्रूहीत्यर्थः ॥ अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९ ॥ अथ एतन्न शक्यते वक्तुमिति मन्यसे, सेयमशक्तिः अपरिज्ञानं तत्त्वाविवेकः, मूढतेत्यर्थः । अथ वा, योऽयं त्वयोक्तः क्रमः हेतोः फलस्य सिद्धि: फलाच्च हेतो: सिद्धि- रिति इतरेतरानन्तर्यलक्षणः, तस्य कोपः विपर्यासोऽन्यथा- भावः स्यादित्यभिप्रायः । एवं हेतुफलयोः कार्यकारणभावा- नुपपत्तेः अजातिः सर्वस्यानुत्पत्तिः परिदीपिता प्रकाशिता अन्योन्यपक्षदोषं ब्रुवद्भिर्वादिभिः बुद्धैः पण्डितैरित्यर्थः ॥ वीजाङ्कराख्यो दृष्टान्तः सदा साध्यसमो हि सः । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ ननु हेतुफलयोः कार्यकारणभाव इत्यस्माभिरुक्तं शब्द- मात्रमाश्रित्य छलमिदं त्वयोक्तम्- 'पुत्राज्जन्म पितुर्यथा' माण्डूक्योपनिषत्कारिकाभाप्ये I 'विषाणवचासंबन्ध:' इत्यादि । न ह्यस्माभिः असिद्धाद्धेतोः फलसिद्धि:, असिद्धाद्वा फलाद्धेतुसिद्धिरभ्युपगता । किं तर्हि ? बीजाङ्कुरवत्कार्यकारणभावोऽभ्युपगम्यत इति । अत्रोच्यते-- बीजाङ्कराख्यो दृष्टान्तो यः, स साध्येन समः तुल्यो ममेत्यभि- प्राय: । ननु प्रत्यक्षः कार्यकारणभावो वीजाङ्कुरयोरनादिः ; न, पूर्वस्य पूर्वस्य अपरभावादादिमत्त्वाभ्युपगमात् । यथा इदा- नीमुत्पन्नोऽपरोऽङ्कुरो वीजादादिमान् वीजं चापरमन्यस्माद- ङ्कुरादिति क्रमेणोत्पन्नत्वादादिमत् । एवं पूर्वः पूर्वोऽङ्कुरो बीजं च पूर्व पूर्वमादिमदेवेति प्रत्येकं सर्वस्य वीजाङ्करजा- तस्यादिमत्त्वात्कस्यचिदप्यनादित्वानुपपत्तिः । एवं हेतुफल- यो: । अथ बीजाङ्कुरसंततेतरनादिमत्त्वमिति चेत्; न, एक- त्वानुपपत्तेः; न हि बीजाङ्कुरव्यतिरेकेण बीजाङ्कुर संततिर्नामै- का अभ्युपगम्यते हेतुफलसंततिर्वा तदनादित्ववादिभिः । तस्मात्सूक्तम् ' हेतो: फलस्य चानादिः कथं तैरुपवर्ण्यते इति । तथा च अन्यदप्यनुपपत्तेर्न च्छलमित्यभिप्रायः । न च लोके साध्यसमो हेतुः साध्यस्य सिद्धौ सिद्धिनिमित्तं युज्यते प्रयुज्यते प्रमाणकुशलैरित्यर्थः । हेतुरिति दृष्टान्तोऽत्रा- भिप्रेतः, गमकत्वात्; प्रकृतो हि दृष्टान्तः, न हेतुरिति ॥ पूर्वापरापरिज्ञानमजातेः परिदीपकम् । अलातशान्तिप्रकरणम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१ ॥ कथं बुद्धैरजातिः परिदीपितेति, आह— यदेतत् हेतु- फलयोः पूर्वापरापरिज्ञानम्, तच्चैतन् अजातेः परिदीपकम् अवबोधकमित्यर्थः । जायमानो हि चेद्धर्मो गृह्यते, कथं तस्मात्पूर्वं कारणं न गृह्यते ? अवश्यं हि जायमानस्य ग्रहीत्रा तज्जनकं ग्रहीतव्यम्, जन्यजनकयोः संबन्धस्यान- पेतत्वान्; तस्मादजातिपरिदीपकं तदित्यर्थः ॥ स्वतो वापरतो वापि न किंचिद्वस्तु जायते । सदसत्सदसद्वापि न किंचिद्वस्तु जायते ॥ २२ ॥ इतश्च न जायते किंचित् यज्जायमानं वस्तु स्वतः परतः उभयतो वा सत् असत् सदसद्वा न जायते, न तस्य केन- चिदपि प्रकारेण जन्म संभवति । न तावत्स्वयमेवापरि- निष्पन्नात्स्वत: स्वरूपात्स्वयमेव जायते, यथा घटस्तस्मादेव घटान् । नापि परतः अन्यस्मादन्यः, यथा घटात्पट: तथा नोभयतः, विरोधात् यथा घटपटाभ्यां घटः पटो वा न जायते । ननु मृदो घटो जायते पितुश्च पुत्रः ; अस्ति जायत इति प्रत्ययः शब्दश्च मूढानाम् । तावेव तु शब्दप्रत्ययौ विवेकिभिः परीक्ष्येते -- किं सत्यमेव सत्यम्, " माण्डूक्योपनिषत्कारिकाभाष्ये तौ, उत मृषा इति ; यावता परीक्ष्यमाणे शब्दप्रत्ययविषयं वस्तु घटपुत्रादिलक्षणं शब्दमात्रमेत्र तत्, 'वाचारम्भणम्' इति श्रुतेः । सच्चेत् न जायते, सत्त्वात्, मृत्पित्रादिवत् । यद्य- सत्, तथापि न जायते, असत्त्वादेव, शशविषाणादिवत् । अथ सदसत्, तथापि न जायते विरुद्धम्यैकस्यासंभवात् । अतो न किंचिद्वस्तु जायत इति सिद्धम् । येषां पुनर्जनिरेव जायत इति क्रियाकारक फलैकत्वमभ्युपगम्यते क्षणिकत्वं च वस्तुनः, ते दूरत एव न्यायापेताः । इदमित्थमित्यवधारणश्न- णान्तरानवस्थानात्, अननुभूतस्य स्मृत्यनुपपत्तेश्च ॥ हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥ किंच, हेतुफलयोरनादित्वमभ्युपगच्छता त्वया बलाद्धे- तुफलयो रजन्मैवाभ्युपगतं स्यात् । कथम् ? अनादेः आदि- रहितात्फलात् हेतुः न जायते । न ह्यनुत्पन्नादनादेः फलाद्धेतो- जन्मेष्यते त्वया, फलं चापि आदिरहितादनादेर्हेतोरजात्स्वभा- वत एव निर्निमित्तं जायत इति नाभ्युपगम्यते । तस्मादनादि- त्वमभ्युपगच्छता त्वया हेतुफलयोरजन्मैवाभ्युपगम्यते । य- स्मात् आदिः कारणं न विद्यते यस्य लोके, तस्य ह्यादि: अलातशान्तिप्रकरणम् । पूर्वोक्ता जातिर्न विद्यते । कारणवत एव ह्यादिरभ्युपगम्यते, न अकारणवतः ॥ प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्र्यनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥ उक्तस्यैवार्थस्य दृढीकरणचिकीर्षया पुनराक्षिपति — प्र- ज्ञानं प्रज्ञप्तिः शब्दादिप्रतीतिः, तस्याः सनिमित्तत्वम्, नि- मित्तं कारणं विषय इत्येतत्; सनिमित्तत्वं सविषयत्वं स्वात्मव्यतिरिक्तविषयतेत्येतत्, प्रतिजानीमहे । न हि निर्विषया प्रज्ञप्तिः शब्दादिप्रतीतिः स्यात्, तस्याः सनिमित्तत्वात् । अन्यथा निर्विषयत्वे शब्दस्पर्शनीलपीतलोहितादिप्रत्ययवैचि- त्र्यस्य द्वयस्य नाशत: नाशोऽभावः प्रसज्येतेत्यर्थः । न च प्रत्ययवैचित्र्यस्य द्वयस्याभावोऽस्ति, प्रत्यक्षत्वात् अतः प्रत्ययवैचित्र्यस्य द्वयस्य दर्शनात् परेषां तन्त्रं परतन्त्रमित्य- न्यशास्त्रम्, तस्य परतन्त्रस्य परतन्त्राश्रयस्य वाह्यार्थस्य प्रज्ञानव्यतिरिक्तस्य अस्तिता मता अभिप्रेता । न हि प्रज्ञप्तेः प्रकाशमात्रस्वरूपाया नीलपीतादिवाह्यालम्वनवैचित्र्यमन्तरेण स्वभावभेदेनैतद्वैचित्र्यं संभवति । स्फटिकस्येव नीलाशु- पाध्याश्रयैर्विना वैचित्र्यं न घटत इत्यभिप्रायः । इतश्च परतन्त्राश्रयस्य वाह्यार्थस्य ज्ञानव्यतिरिक्तस्यास्तिता । संक्कु- S. U. 11. 13 " माण्डूक्योपनिषत्कारिकाभाप्ये शनं संक्केशः, दुःखमित्यर्थः । उपलभ्यते हि अग्निदाहादि - निमित्तं दुःखम । यद्यग्न्यादिवाह्यं दाहादिनिमित्तं विज्ञानत्र्य- ततो दाहादिदुःखं नोपलभ्येत । उपलभ्य- तिरिक्तं न स्यात्, ते तु । अतः तेन मन्यामहे अस्ति वाह्योऽर्थ इति । न हि विज्ञानमात्रे संक्लेशो युक्त:, अन्यत्रादर्शनादित्यभिप्राय: ॥ प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५ । अवोच्यते — बाढमेवं प्रज्ञप्तेः सनिमित्तत्वं द्वयसंक्लेशो- पलब्धियुक्तिदर्शनादिष्यते त्वया । स्थिरीभव तावत्त्वं युक्ति- दर्शनं वस्तुनस्तथात्वाभ्युगमे कारणमित्यत्र । ब्रूहि किं तत इति । उच्यते— निमित्तस्य प्रज्ञप्त्यालम्बनाभिमतस्य तत्र घटा- देरनिमित्तत्वमनालम्बनत्वं वैचित्र्याहेतुत्वमिष्यतेऽस्माभिः । कथम ? भूतदर्शनात् परमार्थदर्शनादित्येतत । न हि घटो यथा- भूतमृद्रुपदर्शने सति तद्वयतिरेकेणास्ति, यथा अश्वान्महिषः, पटो वा तन्तुव्यतिरेकेण तन्तवश्चांशुव्यतिरेकेण इत्येवमुत्तरोत्त- रभूतदर्शन आ शब्दप्रत्यय निरोधान्नैव निमित्तमुपलभामहे इत्य-- र्थः । अथ वा, अभूतदर्शनाद्वाह्यार्थस्य अनिमित्तत्वमिष्यते र- ज्ज्वादाविव सर्पादेरित्यर्थः । भ्रान्तिदर्शनविषयत्वाच्च निमि-' अलातशान्तिप्रकरणम् । त्तम्यानिमित्तत्वं भवेत; तदभावे अभानान् । न हि सुषुप्त- समाहितमुक्तानां भ्रान्तिदर्शनाभावे आत्मव्यतिरिक्तो बाह्यो- ऽर्थ उपलभ्यते । न ह्युन्मत्तावगतं वस्त्वनुन्मत्तैरपि तथाभूतं गम्यते । एतेन द्वयदर्शनं संक्लेशोपलब्धिश्च प्रत्युक्ता ॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥ . यस्मान्नास्ति बाह्यं निमित्तम्, अतः चित्तं न स्पृशत्यर्थ बाह्यालम्बनविषयम्, नाप्यर्थाभासम्, चित्तत्वात् स्वप्नचि- तवत । अभूतो हि जागरितेऽपि स्वप्नार्थवदेव बाह्यः शब्दा- वर्थो यतः उक्तहेतुत्वाच । नाप्यर्थाभासश्चित्तात्पृथक् । चित्त- मेव हि घटाद्यर्थवदवभासते यथा स्वप्ने ॥ निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥ ननु विपर्यासस्तर्हि असति घटादौ घटाद्याभासता चि- त्तस्य ; तथा च सति अविपर्यासः कचिद्वक्तव्य इति ; अत्रोच्यते — निमित्तं विषयम् अतीतानागतवर्तमानाध्वसु त्रिष्वपि सदा चित्तं न संस्पृशेदेव हि । यदि हि क्वचित्सं- स्पृशेत्, सः अविपर्यासः परमार्थ इत्यतस्तदपेक्षया असति .१९६ माण्डूक्योपनिषत्कारिकाभाष्ये घटे घटाभासता विपर्यासः स्यात्; न तु तदस्ति कदाचि- दपि चित्तस्यार्थ संस्पर्शनम् । तस्मात् अनिमित्त: विपर्यास: कथं तस्य चित्तस्य भविष्यति ? न कथंचिद्विपर्यासोऽस्ती- त्यभिप्राय: । अयमेव हि स्वभावश्चित्तस्य, यदुत असति निमित्ते घटादौ तद्वदवभासनम् ॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ ' प्रज्ञप्तेः सनिमित्तत्वम्' इत्यादि एतदन्तं विज्ञानवादिनो बौद्धस्य वचनं वाह्यार्थवादिपक्षप्रतिषेधपरम् आचार्येणानुमोदि- तम् । तदेव हेतुं कृत्वा तत्पक्षप्रतिषेधाय तदिदमुच्यते- तस्मादित्यादि । यस्मादसत्येव घटादौ घटाद्याभासता चित्तस्य विज्ञानवादिना अभ्युपगता, तदनुमोदितमस्माभिरपि भूतद- र्शनात्; तस्मात्तस्यापि चित्तस्य जायमानावभासता अस- त्येव जन्मनि युक्ता भवितुमिति अतो न जायते चित्तम् । यथा चित्तदृश्यं न जायते अतस्तस्य चित्तस्य ये जाति पश्यन्ति विज्ञानवादिनः क्षणिकत्वदुःखित्वशून्यत्वानात्म- त्वादि च ; तेनैव चित्तेन चित्तस्वरूपं द्रष्टुमशक्यं पश्यन्तः खे वै पश्यन्ति ते पदं पक्ष्यादीनाम् । अत इतरेभ्योऽपि द्वैतिभ्योऽत्यन्तसाहसिका इत्यर्थः । येऽपि शून्यवादिनः अलातशान्तिप्रकरणम् । पश्यन्त एव सर्वशून्यतां स्वदर्शनस्यापि शून्यतां प्रतिजानते, ते ततोऽपि साहसिकतराः खं मुष्टिनापि जिघृक्षन्ति ॥ अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ २९ ॥ - - उक्तैर्हेतुभिरजमेकं ब्रह्मेति सिद्धम्, यत्पुनरादौ प्रतिज्ञा- तम, तत्फलोपसंहारार्थोऽयं श्लोकः अजातं यचित्तं ब्रह्मैव जायत इति वादिभिः परिकल्प्यते, तत् अजातं जायते य- स्मात् अजातिः प्रकृतिः तस्य ; ततः तस्मात् अजातरूपाया: प्रकृतेरन्यथाभावो जन्म न कथंचिद्भविष्यति ॥ अनादेरन्तवच्वं च संसारस्य न सेत्स्यति । अनन्तता चादिमतो मोक्षस्य न भविष्यति ॥ ३० ॥ अयं चापर आत्मन: संसारमोक्षयोः परमार्थसद्भाववादि- नां दोष उच्यते - अनादेः अतीतकोटिरहितस्य संसारस्य.' अन्तवत्त्वं समाप्तिः न सेत्स्यति युक्तितः सिद्धिं नोपयास्यति । न ह्यनादिः सन् अन्तवान्कश्चित्पदार्थो दृष्टो लोके । बीजा- ङ्कुरसंबन्धनैरन्तर्यविच्छेदों दृष्ट इति चेत्; न, एकवस्त्वभा- वेनापोदितत्वात् । तथा अनन्ततापि विज्ञानप्राप्तिकालंप्रभव- स्य मोस्य आदिमतो न भविष्यति, घटादिष्वदर्शनात् । · १.९८ माण्डूक्योपनिषत्कारिकाभाष्ये . घटादिविनाशवदवस्तुत्वाददोष इति चेत तथा च मोक्षस्य परमार्थसद्भावप्रतिज्ञाहानिः ; असत्त्वादेव शशविषाणस्येव आदिमत्त्वाभावश्च ! आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥ वैतध्ये कृतव्याख्यानौ श्लोकाविह संसारमोक्षाभावप्रसङ्गेन पठितौ ॥ सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् । संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३ ॥ — निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात्' इत्ययमर्थः प्रपञ्च्यते एतैः श्लोकैः ॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४ ॥ ... जागरिते गत्यागमनकालौ नियतौ, देश: प्रमाणतो यः, तस्य अनियमात् नियमस्याभावात् स्वप्ने न देशान्तरगमन- : अलातशान्तिप्रकरणम् । मित्यर्थः ॥ मित्राद्यैः सह संमन्त्र्य संबुद्धो न प्रपद्यते । गृहीतं चापि यत्किचित्प्रतिबुद्धो न पश्यति ॥ ३५ ॥ मित्राद्यैः सह संमन्त्र्य तदेव मन्त्रणं प्रतिबुद्धो न प्रपद्यते, गृहीतं च यत्किंचिद्धिरण्यादि न प्राप्नोति ; ततश्च न देशान्तरं गच्छति स्वप्ने ॥ स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्व चित्तदृश्यमवस्तुकम् ॥ ३६ ॥ स्वप्ने च अटन्दृश्यते यः कायः, सः अवस्तुकः ततो- Sन्यस्य स्वापदेशस्थस्य पृथक्कायान्तरस्य दर्शनान यथा स्वप्नदृश्यः कायः असन, तथा सर्वे चित्तदृश्यम् अवस्तुकं जागरितेऽपि चित्तदृश्यत्वादित्यर्थः । स्वप्रसमत्वादसज्जाग- रितमपीति प्रकरणार्थः ॥ ग्रहणाज्जागरितवत्तद्धेतुः स्वम इष्यते । तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७ ॥ इतच असत्त्वं जाग्रद्वस्तुन: जागरितवत् जागरितस्येव ग्रहणान् ग्राह्यग्राहकरूपेण स्वप्नस्य, तज्जागरितं हेतुः अस्य स्व- . माण्डूक्योपनिषत्कारिकाभाष्ये प्रस्य स स्वप्नः तद्धेतुः जागरितकार्यम इष्यते । तद्धेतुत्वात जागरितकार्यत्वात् तस्यैव स्वप्नदृश एव सज्जागरितम्, न त्वन्येषाम; यथा स्वप्न इत्यभिप्रायः । यथा स्वप्नः स्वप्नदृश एव सन साधारणविद्यमानवस्तुवदव भासते, तथा तत्कारण- त्वात्साधारणविद्यमानवस्तुवदवभासनम, न तु साधारणं वि- द्यमानवस्तु स्वप्नवदेवेत्यभिप्राय: ॥ उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य संभवोऽस्ति कथंचन ॥ ३८ ॥ ननु स्वप्नकारणत्वेऽपि जागरितवस्तुनो न स्वप्नवदवस्तु- त्वम् । अत्यन्तचलो हि स्वप्न: जागरितं तु स्थिरं लक्ष्यते । सत्यमेवमविवेकिनां स्यात् । विवेकिनां तु न कस्यचिद्वस्तुन उत्पाद: प्रसिद्धः । अतः अप्रसिद्धत्वात् उत्पादस्य आत्मैव सर्वमिति अजं सर्वम् उदाहृतं वेदान्तेषु ' सबाह्याभ्यन्तरो ह्यज:' इति । यदपि मन्यसे जागरितात्सतः असन्स्वप्नो जायत इति, तदसत् । न भूतात् विद्यमानात अभूतस्य असत: संभवोऽस्ति लोके । न ह्यसतः शशविषाणादे: सं- भवो दृष्टः कथंचिदपि ॥ असज्जागरिते दृष्ट्वा स्वझे पश्यति तन्मयः । अलातशान्तिप्रकरणम् । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ननु उक्तं त्वयैव स्वप्नो जागरितकार्यमिति ; तत्कथमुत्पा- दोऽप्रसिद्ध इति उच्यते ? शृणु तत्र यथा कार्यकारणभावो- ऽस्माभिरभिप्रेत इति। असत् अविद्यमानं रज्जुसर्पवद्विकल्पितं वस्तु जागरिते दृष्ट्वा तद्भावभावितस्तन्मय: स्वप्नेऽपि जाग- रितवत् ग्राह्यग्राहकरूपेण विकल्पयन्पश्यति, तथा असत्स्व- प्रेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति अविकल्पयन, च-श- दान् । तथा जागरितेऽपि दृष्ट्वा स्वप्ने न पश्यति कदाचि- दित्यर्थः । तस्माज्जागरितं स्वप्नहेतुरित्युच्यते, न तु परमार्थ- सदिति कृत्वा ॥ नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४० ॥ परमार्थतस्तु न कस्यचित्केनचिदपि प्रकारेण कार्यकार- भाव उपपद्यते । कथम ? नास्ति असद्धेतुकम असत शश- विषाणादि हेतुः कारणं यस्य असत एव खपुष्पादेः तन असद्धेतुकम असत न विद्यते । तथा सदपि घटादिवस्तु असद्धेतुकम् शशविषाणादिकार्यं नास्ति । तथा सच विद्य- मानं घटादि वस्त्वन्तरकार्य नास्ति । सत्कार्यम् असत् कुत . • २.०२ माण्डूक्योपनिषत्कारिकाभाष्ये एव संभवति ? न चान्यः कार्यकारणभावः संभवति शक्यो वा कल्पयितुम् । अतो विवेकिनामसिद्ध एव कार्यकारणभाव: कस्यचिदित्यभिप्राय: ॥ विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति ॥ ४१ ॥ पुनरपि जाग्रत्स्वप्रयोरसतोरपि कार्यकारणभावाशङ्काम- पनयन्नाह - विपर्यासात् अविवेकतः यथा जाग्रत जाग- रिते अचिन्त्यान्भावान अशक्यचिन्तनान रज्जुसर्पादीन भूतवत् परमार्थवत् स्पृशेत्; स्पृशन्निव विकल्पयेदित्यर्थः, कश्चिद्यथा, तथा स्वप्ने विपर्यासात हस्त्यादीन्पश्यन्निव विक ल्पयति । तत्रैव पश्यति, न तु जागरितादुत्पद्यमानानि- त्यर्थः ॥ उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैरजातेनसतां सदा ॥ ४२ ॥ यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्टा पलम्भनमुपलम्भ:, तस्मात् उपलब्धेरित्यर्थः । समाचारात् वर्णाश्रमादिधर्मसमाचरणाच्च ताभ्यां हेतुभ्याम् अस्तिवस्तुत्व - : वादिनाम् अस्ति वस्तुभाव इत्येवंवदनशीलानां दृढाग्रहवतां i 'अलातशान्तिप्रकरणम् । श्रद्दधानां मन्दविवेकिनामर्थोपायत्वेन सा देशिता जाति: । तां गृह्णन्तु तावत् । वेदान्ताभ्यासिनां तु स्वयमेव अजाद्व- यात्मविषयो विवेको भविष्यतीति ; न तु परमार्थबुद्धया । ते हि श्रोत्रियाः स्थूलबुद्धित्वात् अजातेः अजातिवस्तुनः सदा वस्यन्ति आत्मनाशं मन्यमाना अविवेकिन इत्यर्थः । उपा- यः सोऽवताराय ' इत्युक्तम् ॥ अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ये च एवमुपलम्भात्समाचाराच अजाते: अजातिवस्तुनः त्रसन्तः अस्ति वस्त्विति अद्वयादात्मनः, वियन्ति विरुद्धं यन्ति द्वैतं प्रतिपद्यन्त इत्यर्थः । तेषाम् अजातेः त्रसतां श्रद्द- धानानां सन्मार्गावलम्बिनां जातिदोषाः जात्युपलम्भकृता दोषाः न सेत्स्यन्ति सिद्धिं नोपयास्यन्ति, विवेकमार्गप्रवृत्त- त्वात् । यद्यपि कश्चिद्दोषः स्यात, सोऽप्यल्प एव भवि- ष्यति, सम्यग्दर्शनाप्रतिपत्तिहेतुक इत्यर्थः । उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥ ननु उपलम्भसमाचारयोः प्रमाणत्वादस्त्येव द्वैतं वस्त्वि- . " माण्डूक्योपनिषत्कारिकाभाप्ये ति ; न, उपलम्भसमाचारयोर्व्यभिचारात् । कथं व्यभि- चार इति उच्यते - उपलभ्यते हि मायाहस्ती हस्तीव हस्तिनमिवात्र समाचरन्ति बन्धनारोहणादिहस्तिसंबन्धि- भिर्धर्मै:, हस्तीति चोच्यते असन्नपि यथा, तथैव उपलम्भा- त्समाचारात् द्वैतं भेदरूपं अस्ति वस्तु इत्युच्यते । तस्मा- नोपलम्भसमाचारौ द्वैतवस्तुसद्भावे हेतू भवत इत्यभिप्राय: ॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥ . किं पुनः परमार्थसद्वस्तु, यदास्पदा जात्याद्यसमुद्धय इत्याह- अजाति सत् जातिवदवभासत इति जात्या- भासम्, तद्यथा देवदत्तो जायत इति । चलाभासं चल- मिवाभासत इति, यथा स एव देवदत्तो गच्छतीति । वस्त्वाभासं वस्तु द्रव्यं धर्मि, तद्वदवभासत इति वस्त्वाभा सम्, यथा स एव देवदत्तो गौरो दीर्घ इति । जायते देव- दत्तः स्पन्दते दीर्घो गौर इत्येवमवभासते । परमार्थतस्तु अजमचलमवस्तुत्व मद्रव्यं च । किं तदेवंप्रकारम् ? विज्ञानं विज्ञप्ति:, जात्यादिरहितत्वाच्छान्तम् अत एव अद्वयं च वदित्यर्थः ॥ .. अलातशान्तिप्रकरणम् । एवं न जायते चित्तमेत्रं धर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यये ॥ ४६ ॥ एवं यथोक्तेभ्यो हेतुभ्यः न जायते चित्तम् । एवं धर्माः आत्मान: अजा: स्मृता: ब्रह्मविद्भिः । धर्मा इति बहुवचनं देहभेदानुविधायित्वादद्वयस्यैव उपचारत: । एवमेव यथोक्तं विज्ञानं जात्यादिरहितमद्वयमात्मतत्त्वं विजानन्तः त्यक्त- वायैषणा: पुनर्न पतन्ति अविद्याध्वान्तसागरे विपर्यय ; ' तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इत्यादिम- न्त्रवर्णात् ॥ ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७ ॥ यथोक्तं परमार्थदर्शनं प्रपञ्चयिष्यन्नाह — यथा हि लोके ऋजुवक्रादिप्रकाराभासम् अलातस्पन्दितम् उल्का चलनम् . तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः । किं तत् ? विज्ञानस्पन्दितं स्पन्दितमिव स्पन्दितमविद्यया । न ह्यचलस्य विज्ञानस्य स्पन्दनमस्ति, 'अजाचलम्' इति ह्युक्तम् ॥ अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४८ ॥ माण्डूक्योपनिषत्कारिकाभाष्ये अस्पन्दमानं स्पन्दनवर्जितं तदेव अलातम् ऋज्वाद्याका रेणाजायमानम् अनाभासम अजं यथा, तथा अविद्यया स्पन्दमानम अविद्योपरमें अस्पन्दमानं जात्याद्याकारेण अना- भासम अजम अचलं भविष्यतीत्यर्थः ॥ अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निःस्पन्दान्नाला तं प्रविशन्ति ते ॥ किं च, तस्मिन्नेव अलाते स्पन्दमाने ऋजुत्रक्राद्याभासाः अलातादन्यतः कुतश्चिदागत्यालाते नैव भवन्तीति नान्यतो- भुवः । न च तस्मान्निःस्पन्दादलातादन्यत्र निर्गताः । न च निःस्पन्दमलातमेव प्रविशन्ति ते ॥ न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः ॥ ५० ॥ किं च, न निर्गता अलातात् ते आभासाः गृहादिव, द्रव्य- त्वाभावयोगतः, द्रव्यस्य भावो द्रव्यत्वम्, तदभावः द्रव्यत्वा- भावः, द्रव्यत्वाभावयोगतः द्रव्यत्वाभावयुक्तेः वस्तुत्वाभावा- दित्यर्थः । वस्तुनो हि प्रवेशादि संभवति, नावस्तुन: । विज्ञा- नेऽपि जात्याद्याभासाः तथैव आभासस्य अविशेषत: तुल्यत्वान् ॥ स्युः, अलातशान्तिप्रकरणम् । विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः । न ततोऽन्यत्र निःस्पन्दान विज्ञानं विशन्ति ते ॥ न निर्गतास्ते विज्ञानाद्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२॥ कथं तुल्यश्वमित्याह — अलातेन समानं सर्व विज्ञानस्य ; सदा अचलत्वं तु विज्ञानस्य विशेषः । जात्याद्याभासा विज्ञाने अचले किंकृता इत्याह- कार्यकारणताभावात् जन्यजनकत्वानुपपत्तेरभावरूपत्वान् अचिन्त्याः ते यतः स- दैव । यथा असत्सु ऋज्वायाभासेषु ऋज्वादिबुद्धिर्दृष्टा अलातमात्रे, तथा असत्स्वेव जात्यादिषु विज्ञानमात्रे जात्या- दिबुद्धिर्मृषैवेति समुदायार्थः ॥ द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३ ॥ अजमेकमात्मतत्त्वमिति स्थितम् । तत्र यैरपि कार्यका- रणभावः कल्प्यते, तेषां द्रव्यं द्रव्यस्यान्यस्यान्यत हेतु: कारणं स्यात्, न तु तस्यैव तत । नाप्यद्रव्यं कस्यचित्का- रणं स्वतन्त्रं दृष्टं लोके । न च द्रव्यत्वं धर्माणाम आत्म- नाम उपपद्यते अन्यत्वं वा कुतश्चित, येन अन्यस्य कारण- माण्डूक्योपनिषत्कारिकाभाष्ये त्वं कार्यत्वं वा प्रतिपद्येत । अतः अद्रव्यत्वादनन्यत्वाच्च न कस्यचित्कार्यं कारणं वा आत्मेत्यर्थः ॥ एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४ ॥ एवं यथोक्तेभ्यो हेतुभ्यः आत्मविज्ञानस्वरूपमेव चित्त- मिति, न चित्तजाः बाह्यधर्माः, नापि बाह्यधर्मजं चित्तम, विज्ञानस्वरूपाभासमात्रत्वात्सर्वधर्माणाम् । एवं न हेतोः फलं जायते, नापि फलाद्धेतुरिति हेतुफलयोरजाति हेतुफला- जातिं प्रविशन्ति अध्यवस्यन्ति । आत्मनि हेतुफलयोरभाव- मेव प्रतिपद्यन्ते ब्रह्मविद इत्यर्थः ॥ ! यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५ ॥ ये पुनर्हेतुफलयोरभिनिविष्टाः, तेषां किं स्यादिति, उ- कयते — धर्माधर्माख्यस्य हेतोः अहं कर्ता मम धर्माधर्मौ तत्फलं कालान्तरे कचित्प्राणिनिकाये जातो भोक्ष्ये इति यावद्धेतुफलयोरावेशः हेतुफलाग्रह आत्मन्यध्यारोपणम्, त- ञ्चित्ततेत्यर्थ: ; तावद्धेतुफलयोरुद्भवः धर्माधर्मयोस्तत्फलस्य चा- अलातशान्तिप्रकरणम् । नुच्छेदेन प्रवृत्तिरित्यर्थः । यदा पुनर्मन्त्रौषधिवीर्येणेव ग्रहावे- शो यथोक्ताद्वैतदर्शनेन अविद्योद्भूतहेतुफला वेशोपनीतो भवति, तदा तस्मिन्क्षीणे नास्ति हेतुफलोद्भवः ॥ यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६ ॥ यदि हेतुफलोद्भवः, तदा को दोष इति उच्यते — यावत् सम्यग्दर्शनेन हेतुफलावेश: न निवर्तते, अक्षीणः संसार: तावत् आयातः दीर्घो भवतीत्यर्थः । क्षीणे पुनः हेतुफला- वेशे संसारं न प्रपद्यते, कारणाभावात् ॥ संवृत्या जायते सर्व शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७ ॥ ननु अजादात्मनोऽन्यन्नास्त्येव ; तत्कथं हेतुफलयोः संसारस्य च उत्पत्तिविनाशावुच्येते त्वया ? शृणु; संवृत्या संवरणं संवृतिः अविद्याविषयो लौकिकव्यवहारः ; तया संवृत्या जायते सर्वम् । तेन अविद्याविषये शाश्वतं नित्यं नास्ति वै । अत: उत्पत्तिविनाशलक्षणः संसारः आयत इत्युच्यते । परमार्थसद्भावेन तु अजं सर्वम् आत्मैव य- स्मात्; अतो जात्यभावात् उच्छेदः तेन नास्ति वै कस्य- S. U. I. 14 २१०. माण्डूक्योपनिषत्कारिकाभाष्ये चिद्धेतुफलादेरित्यर्थः ॥ धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८ ॥ येऽप्यात्मानोऽन्ये च धर्मा जायन्त इति कल्प्यन्ते, इति एवंप्रकारा यथोक्ता संवृतिर्निर्दिश्यत इति संवृत्यैव धर्मा जायन्ते । न ते तत्त्वतः परमार्थतः जायन्ते । यत्पुन- स्तत्संवृत्या जन्म तेषां धर्माणां यथोक्तानां यथा मायया जन्म तथा तत् मायोपमं प्रत्येतव्यम् । माया नाम वस्तु तार्ह ; नैवम्, सा च माया न विद्यते । मायेत्यविद्यमानस्या- ख्येत्यभिप्रायः ॥ यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना ॥ ५९ ॥ कथं मायोपमं तेषां धर्माणां जन्मेति, आह— यथा मायामयात् आम्रादिवीजात् जायते तन्मयः मायामयः अङ्कुरः, नासावङ्कुरो नित्यः, न च उच्छेदी विनाशी वा । अभूतत्वादेव धर्मेषु जन्मनाशादियोजना युक्ति:, न तु पर- मार्थतो धर्माणां जन्म नाशो वा युज्यत इत्यर्थः ॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । अलातशान्तिप्रकरणम् । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६० ॥ परमार्थतस्त्वात्मस्वजेषु नित्यैकरसविज्ञप्तिमात्र सत्ताकेषु शाश्वतः अशाश्वतः इति वा न अभिधा, नाभिधानं प्रवर्तत इत्यर्थः । यत्र येषु वर्ण्यन्ते यैरर्थाः, ते वर्णाः शब्दा न वर्तन्ते अभिधातुं प्रकाशयितुं न प्रवर्तन्त इत्यर्थः । इदमेवमिति विवेक : विविक्तता तत्र नित्योऽनित्य इति नोच्यते, 'यतो वाचो निवर्तन्ते' इति श्रुतेः ॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्याभासं चित्तं चलति मायया ॥ ६१॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ६२ ॥ यत्पुनर्वाग्गोचरत्वं परमार्थतः अद्वयस्य विज्ञानमात्रस्य, तन्मनसः स्पन्दनमात्रम्, न परमार्थतः इत्युक्तार्थौ श्लोकौ ॥ स्वचरन् दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ इतश्च वाग्गोचरस्याभावो द्वैतस्य — स्वप्नान्पश्यतीति स्वप्न- दृक् प्रचरन् पर्यटन्स्वप्ने स्वप्नस्थाने दिक्षु वै दशसु स्थितान् माण्डूक्योपनिषत्कारिकाभाप्ये वर्तमानान् जीवान्प्राणिनः अण्डजान्स्वेदजान्वा यान सदा पश्यतीति ॥ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥ यद्येवम्, ततः किम् ? उच्यते-- स्वप्नदृशश्चित्तं स्वप्नह क्चित्तम्, तेन दृश्याः ते जीवाः ; ततः तस्मात् स्वप्नदृ- क्चित्तात् पृथक् न विद्यन्ते न सन्तीत्यर्थः । चित्तमेव ने- कजीवादिभेदाकारेण विकल्प्यते । तथा तदपि स्वप्नदृक्चि- त्तमिदं तद्दृश्यमेव, तेन स्वप्नदृशा दृश्यं तद्दृश्यम् । अतः स्वप्नदृग्व्यतिरेकेण चित्तं नाम नास्तीत्यर्थः ॥ चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ जाग्रचित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥ जाग्रतो दृश्या जीवाः तच्चित्ताव्यतिरिक्ताः, चित्तेक्षणीय- त्वात्, स्वप्नदृक्चित्तेक्षणीयजीववत् । तच जीवेक्षणात्मकं चित्तं द्रष्टुव्यतिरिक्तं द्रष्टृश्यत्वान् स्वप्नचित्तवत् । उक्ता- र्थमन्यत् ॥ अलातशान्तिप्रकरणम् । उभे धन्योन्यदृश्ये ते किं तदस्तीति चोच्यते । लक्षणाशून्यमुभयं तन्मते नैव गृह्यते ॥ ६७ ॥ जीवचित्ते उभे चित्तचैत्ये ते अन्योन्यदृश्ये इतरेतरग- म्ये । जीवादिविषयापेक्षं हि चित्तं नाम भवति । चित्तापेक्षं हि जीवादि दृश्यम् । अतस्ते अन्योन्यदृश्ये । तस्मान्न किं- चिदस्तीति चोच्यते चित्तं वा चित्तेक्षणीयं वा । किं तदस्ती- ति विवेकिनोच्यते । न हि स्वप्ने हस्ती हस्तिचित्तं वा वि- यते ; तथा इहापि विवेकिनामित्यभिप्रायः । कथम् ? लक्षणा- शून्यं लक्ष्यते अनयेति लक्षणा प्रमाणम् ; प्रमाणशून्यमुभयं चित्तं चैत्त्यं द्वयं यतः, तन्मतेनैव तच्चित्ततयैव तत् गृह्यते । न हि घटमतिं प्रत्याख्याय घटो गृह्यते, नापि घटं प्रत्याख्याय घटमतिः । न हि तत्र प्रमाणप्रमेयभेदः शक्यते कल्पयितुमि- त्यभिप्रायः ॥ यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥ यथा निर्मितको जीवो जायते म्रियतेऽपि च । माण्डूक्योपनिषत्कारिकाभाष्ये तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥७०॥ मायामयः मायाविना यः कृतो निर्मितक: मन्त्रौषध्या- दिभिर्निष्पादितः । स्वप्नमायानिर्मितका अण्डजादयो जीवा यथा जायन्ते म्रियन्ते च, तथा मनुष्यादिलक्षणा अविद्य- माना एव चित्तविकल्पनामात्रा इत्यर्थः ॥ 2 न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ७१ ॥ व्यवहारसत्यविषये जीवानां जन्ममरणादिः स्वप्नादि- जीववदित्युक्तम् । उत्तमं तु परमार्थसत्यं न कश्चिज्जायते जीव इति । उक्तार्थमन्यत् ॥ चित्तस्पन्दितमेवेदं ग्राह्यग्राहकववयम् ! चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२ ॥ सर्वं प्राह्यग्राहकवञ्चित्तस्पन्दितमेव द्वयम् । चित्तं परमार्थत आत्मैवेति निर्विषयम् । तेन निर्विषयत्वेन नित्यम् असङ्गं कीर्तितम् । 'असङ्गो ह्ययं पुरुष:' इति श्रुतेः । सविषयस्य हि विषये सङ्गः । निर्विषयत्वाच्चित्तमसङ्गमित्यर्थः । योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३ ॥ अलातशान्तिप्रकरणम् । ननु निर्विषयत्वेन चेदसङ्गत्वम्, चित्तस्य न निःसङ्गता भवति, यस्मात् शास्ता शास्त्रं शिष्यश्चेत्येवमादेर्विषयस्य विद्यमानत्वात् ; नैष दोषः । कस्मात् ? यः पदार्थः शास्त्रा- दिर्विद्यते स कल्पितसंवृत्या । कल्पिता च सा परमार्थप्र- तिपत्त्युपायत्वेन संवृतिश्च सा तया योऽस्ति परमार्थेन, नात्यसौ न विद्यते । ' ज्ञाते द्वैतं न विद्यते' इत्युक्तम् । यश्च परतन्त्राभिसंवृत्या परशास्त्रव्यवहारेण स्यात्पदार्थः, स परमार्थतो निरूप्यमाणो नास्त्येव । तेन युक्तमुक्तम् 'असङ्ग तेन कीर्तितम्' इति ॥ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥ ७४ ॥ ननुं शास्त्रादीनां संवृतित्वे अज इतीयमपि कल्पना संवृतिः स्यात् । सत्यमेवम् ; शास्त्रादिकल्पितसंवृत्यैव अज इत्युच्यते । परमार्थेन नाप्यजः यस्मात् परतन्त्राभिनि- 'पत्त्या परशास्त्रसिद्धिमपेक्ष्य यः अज इत्युक्तः, स संवृत्या जायते । अत: अज इतीयमपि कल्पना परमार्थविषये नैव क्रमत इत्यर्थः ॥ अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । ... द्वयाभावं स बुद्धैव निर्निमित्तो न जायते ॥ ७५ ॥ माण्डूक्योपनिषत्कारिकाभाष्ये यस्मादसद्विषयः, तस्मात् असत्यभूते द्वैते अभिनिवेशोऽस्ति केवलम् । अभिनिवेशः आग्रहमात्रम् । द्वयं तत्र न विद्यते मिध्याभिनिवेशमात्वं च जन्मनः कारणं यस्मात् तस्मात् द्वयाभावं बुद्धा निर्निमित्तः निवृत्तमिथ्याद्वयाभिनिवेशः यः, सः न जायते ॥ यदा न लभते हेतूनुत्तमाधममध्यमान् । " तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६ ॥ जात्याश्रमविहिता आशीर्वर्जितैरनुष्ठीयमाना धर्मा देव- त्वादिप्राप्तिहेतव उत्तमाः केवलाश्च । धर्माः अधर्मव्यामिश्रा मनुष्यत्वादिप्राप्त्यर्था मध्यमाः । तिर्यगादिप्राप्तिनिमित्ता अधर्मलक्षणा: प्रवृत्तिविशेषाश्चाधमाः । तानुत्तममध्यमाधमा- नविद्यापरिकल्पितान् यदा एकमेवाद्वितीयमात्मतत्त्वं सर्व- कल्पनावर्जितं जानन् न लभते न पश्यति, यथा बालैई- श्यमानं गगने मलं विवेकी न पश्यति, तद्वत्, तदा न जायते नोत्पद्यते चित्तं देवाद्याकारैः उत्तमाधममध्यमफल- रूपेण । न ह्यसति हेतौ फलमुत्पद्यते बीजाद्यभाव इव सस्यादि ॥ अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥ अलातशान्तिप्रकरणम् । हेत्वभावे चित्तं नोत्पद्यत इति हि उक्तम् । सा पुनरनु- त्पत्तिश्चित्तस्य कीदृशीत्युच्यते— परमार्थदर्शनेन निरस्तध- र्माधर्माख्योत्पत्तिनिमित्तस्य अनिमित्तस्य चित्तस्येति या मोनाख्या अनुत्पत्तिः, सा सर्वदा सर्वावस्थासु समा निर्वि शेषा अद्वया च ; पूर्वमपि अजातस्यैव अनुत्पन्नस्य चित्तस्य सर्वस्याद्वयस्येत्यर्थः । यस्मात्प्रागपि विज्ञानात् चित्तं दृश्यं तहूयं जन्म च तस्मादजातस्य सर्वस्य सर्वदा चित्तस्य समा अद्वयैव अनुत्पत्तिः न पुनः कदाचिद्भवति, कदाचिद्वा न भवति । सर्वदा एकरूपैवेत्यर्थः ॥ बुद्धानिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥ यथोक्तेन न्यायेन जन्मनिमित्तस्य द्वयस्य अभावादनि- मित्ततां च सत्यां परमार्थरूपां बुद्धा हेतुं धर्मादिकारणं देवादियोनिप्राप्तये पृथगनाप्नुवन् अनुपाददानः त्यक्तवाहयै- षणः सन् कामशोकादिवर्जितम् अविद्यादिरहितम् अभयं पदम् अश्नुते, पुनर्न जायत इत्यर्थः ॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स त्रुद्धैव निःसङ्गं विनिवर्तते ॥ ७९ ॥ माण्डूक्योपनिषत्कारिकाभाप्ये यस्मात् अभूताभिनिवेशान् असति द्वये द्वयास्तित्व- निश्चयः अभूताभिनिवेशः, तस्मात् अविद्याव्यामोहरूपाद्धि सदृशे तदनुरूपे तत् चित्तं प्रवर्तते । तस्य द्वयस्य वस्तुन: अभावं यदा बुद्धवान्, तदा तस्मात् निःसङ्गं निरपेक्षं सत् विनिवर्तते अभूताभिनिवेशविषयात् ॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥ निवृत्तस्य द्वैत विषयात् विषयान्तरे च अप्रवृत्तस्य अंभा- वदर्शनेन चित्तस्य निश्चला चलनवर्जिता ब्रह्मस्वरूपैव तदा स्थिति:, यैषा ब्रह्मस्वरूपा स्थितिः चित्तस्य अद्वयविज्ञानैकरस- घनलक्षणा । स हि यस्मात् विषयः गोचर: परमार्थद- शिनां बुद्धानाम्; तस्मात् तत्साम्यं परं निर्विशेषमजमद्वयं च ॥ ॥ अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१ ॥ पुनरपि कीदृशश्चासौ बुद्धानां विषय इत्याह-- स्वयमेव तत् प्रभातं भवति न आदित्याद्यपेक्षम् ; स्वयं ज्योति; स्वभाव- मित्यर्थः । सकृद्विभातः सदैव विभात इत्येतत् । एषः । एवं- अलातशान्तिप्रकरणम् । लक्षण: आत्माख्यो धर्मः धातुस्वभावतः वस्तुस्वभावत इत्यर्थः ॥ सुखमात्रियते नित्यं दुःखं वित्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥ एवं बहुश उच्यमानमपि परमार्थतत्त्वं कस्माल्लौकिकैर्न गृहात इत्युच्यते यस्मात् यस्य कस्यचित् द्वयवस्तुनो धर्मस्य ग्रहेण ग्रहणावेशेन मिध्याभिनिविष्टतया सुखमात्रियते अना- यासेन आच्छाद्यत इत्यर्थः । द्वयोपलब्धिनिमित्तं हि तत्रा- वरणं न यत्नान्तरमपेक्षते । दुःखं च वित्रियते प्रकटीक्रियते, परमार्थज्ञानस्य दुर्लभत्वात् । भगवानसौ आत्माद्वयो देव इत्यर्थः । अतो वेदान्तैराचार्यैश्च बहुश उच्यमानोऽपि नैव ज्ञातुं शक्य इत्यर्थः, 'आश्चर्यो वक्ता कुशलोऽख लब्धा ' इति श्रुतेः ॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । 'चलस्थिरोभयाभावैरावृणोत्येव वालिशः ॥ ८३ ॥ अस्ति नास्तीत्यादि सूक्ष्मविषया अपि पण्डितानां ग्रहाः भगवत: परमात्मन आवरणा एवं; किमुत मूढजनानां बुद्धि- लक्षणा इत्येवमर्थे प्रदर्शयन्नाह — अस्तीति । अस्त्यात्मेति माण्डूक्योपनिषत्कारिकाभाष्ये कश्चिद्वादी प्रतिपद्यते । नास्तीत्यपरो वैनाशिकः । अस्ति नास्तीत्यपरोऽर्धवैनाशिकः सदसद्वादी दिग्वासाः । नास्ति नास्तीत्यत्यन्तशून्यवादी । तत्रास्तिभावश्चलः घटाद्यनित्यवि- लक्षणत्वात् । नास्तिभावः स्थिरः, सदाविशेषत्वात् । उभयं चलस्थिरविषयत्वात् सदसद्भावः । अभावोऽत्यन्ताभावः । प्रकारचतुष्टयस्यापि तैरेतैश्चलस्थिरोभयाभावैः सदसदादि- वादी सर्वोऽपि भगवन्तमावृणोत्येव बालिशोऽविवेकी । यद्यपि पण्डितो बालिश एव परमार्थतत्त्वानवबोधात् किमु स्वभा- मूढो जन इत्यभिप्राय: ॥ " कोय्यश्वतत्र एतास्तु ग्रहैर्यासां सदाहृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४ ॥ कीदृक्पुनः परमार्थतत्त्वम्, यदवबोधादबालिशः पण्डितो भवतीत्याह — कोट्यः प्रावादुकशास्त्रनिर्णयान्ताः एताः उक्ता अस्ति नास्तीत्याद्याः चतस्रः, यासां कोटीनां ग्रहैः ग्रहणैः उपलब्धिनिश्चयैः सदा सर्वदा आवृतः आच्छादितः तेषामेव प्रावादुकानां यः, स भगवान् आभिः अस्ति ना- स्तीत्यादिकोटिभिः चतसृभिरपि अस्पृष्टः अस्त्यादिविकल्प- नावर्जित इत्येतत् । येन मुनिना दृष्टो ज्ञातः वेदान्तेष्वीप- निषदः पुरुषः, स सर्वदृक् सर्वज्ञः; परमार्थपण्डित इत्यर्थः ॥ अलातशान्तिप्रकरणम् । प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५ ॥ ' ' प्राप्य एतां यथोक्तां कृत्स्नां समस्तां सर्वज्ञतां ब्राह्मण्यं पद- म्' स ब्राह्मण: एप नित्यो महिमा ब्राह्मणस्य' इति श्रुतेः । अनापन्नादिमध्यान्तम् आदिमध्यान्ताः उत्पत्तिस्थितिलया: अनापन्ना अप्राप्ता यस्य अद्वयस्य पदस्य न विद्यन्ते, तत् अनापन्नादिमध्यान्तं ब्राह्मण्यं पदम् । तदेव प्राप्य लब्ध्वा किमतः परमस्मादात्मलाभादूर्ध्वम् ईहते चेष्टते, निष्प्रयोजन- मित्यर्थ: । 'नैव तस्य कृतेनार्थ:' इत्यादिस्मृतेः ॥ विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ८६ ॥ विप्राणां ब्राह्मणानां विनयः विनीतत्वं स्वाभाविकं यदे- तदात्मस्वरूपेणावस्थानम् । एष विनयः शमोऽप्येष एव प्रा- कृतः स्वाभाविकः अकृतकः उच्यते । दमोऽप्येष एव प्रकृ- तिदान्तत्वात् स्वभावत एव चोपशान्तरूपत्वाद्ब्रह्मणः । एवं यथोक्तं स्वभावोपशान्तं ब्रह्म विद्वान् शमम् उपशान्ति स्वा- भाविकीं ब्रह्मस्वरूपां व्रजेत् ब्रह्मस्वरूपेणावतिष्ठत इत्यर्थः ॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । माण्डूक्योपनिषत्कारिकाभाष्ये -- अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७ ॥ एवमन्योन्यविरुद्धत्वात्. संसारकारणरागद्वेषदोषास्पदानि प्रावादुकानां दर्शनानि । अतो मिध्यादर्शनानि तानी- ति तद्युक्तिभिरेव दर्शयित्वा चतुष्कोटिवर्जितत्वात् रागादि- दोषानास्पदं स्वभावशान्तमद्वैतदर्शनमेव सम्यग्दर्शनमित्यु- पसंहृतम् । अथेदानीं स्वप्रक्रियाप्रदर्शनार्थ आरम्भ:- सवस्तु संवृतिसता वस्तुना सह वर्तत इति सवस्तु, तथा च उपलब्धिरुपलम्भ:, तेन सह वर्तत इति सोपलम्भं च शास्त्रादिसर्वव्यवहारास्पदं ग्राह्यग्रहणलक्षणं द्वयं लोका- दनपेतं लौकिकं जागरितमित्येतत् । एवंलक्षणं जागरि- तमिष्यते वेदान्तेषु । अवस्तु संवृतेरप्यभावात् । सो- पलम्भं वस्तुवदुपलम्भनमुपलम्भ: असत्यपि वस्तुनि, तेन सह वर्तत इति सोपलम्भं च । शुद्धं केवलं प्रविभक्तं जाग- रितात्स्थूलाल्लौकिकं सर्वप्राणिसाधारणत्वात् इष्यते स्वप्न इत्यर्थः ॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८ ॥ अवस्त्वनुपलम्भं च ग्राह्यग्रहणवर्जितमित्येतत् ; लोकोत्तरम्, अत एव लोकातीतम् । ग्राह्यग्रहणविषयो हि लोकः, तदभा- अलातशान्तिप्रकरणम् । वात् सर्वप्रवृत्तिबीजं सुषुप्तमित्येतत् । एवं स्मृतं सोपायं परमार्थ- तत्त्वं लौकिकं शुद्धलौकिकं लोकोत्तरं च क्रमेण येन ज्ञानेन ज्ञा- यते, तत् ज्ञानं ज्ञेयम् एतान्येव त्रीणि, एतद्वयतिरेकेण ज्ञेया- नुपपत्तेः । सर्वप्रावादुककल्पितवस्तुनोऽत्रैवान्तर्भावात् विज्ञेयं यत्परमार्थसत्यं तुर्याख्यमद्वयमजमात्मतत्त्वमित्यर्थः ; सदा सर्वदैव, लौकिकादि विज्ञेयान्तं बुद्धैः परमार्थदर्शिभिर्ब्रह्मवि- द्भिः प्रकीर्तितम् ॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥ ज्ञाने च लौकिकादिविषये ज्ञेये च लौकिकादौ त्रिविधे, पूर्वं लौकिकं स्थूलम् ; तदभावेन पश्चाच्छुद्धं लौकिकम्, तद- भावेन लोकोत्तरमित्येवं क्रमेण स्थानत्रयाभावेन परमा- र्थसत्ये तुर्ये अद्वये अजे अभये विदिते, स्वयमेव आत्मस्वरूप- मेव सर्वज्ञता सर्वश्रासौ ज्ञश्च सर्वज्ञः, तद्भावः सर्वज्ञता इह अस्मिन् लोके भवति महाधिय: महाबुद्धेः । सर्वलोकाति- शयवस्तुविषयबुद्धित्वादेवंविदः सर्वत्र सर्वदा भवति । सकृ- द्विदिते स्वरूपे व्यभिचाराभावादित्यर्थः । न हि परमा- र्थविदो ज्ञानिनः ज्ञानोद्भवाभिभवौ स्तः, यथा अन्येषां प्रावा- दुकानाम् ॥ माण्डूक्योपनिषत्कारिकाभाष्ये यज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः । - तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९० ॥ लौकिकादीनां क्रमेण ज्ञेयत्वेन निर्देशादस्तित्वाशङ्का पर- मार्थतो मा भूदित्याह — हेयानि च लौकिकादीनि त्रीणि जागरितस्वप्नसुषुप्तानि आत्मन्यसत्त्वेन रज्ज्वां सर्पवद्धात- व्यानीत्यर्थः । ज्ञेयमिह चतुष्कोटिवर्जितं परमार्थतत्त्वम् । आप्यानि आप्तव्यानि त्यक्तवाह्येषणात्रयेण भिक्षुणा पाण्डि त्यबाल्यमानाख्यानि साधनानि । पाक्यानि रागद्वेषमोहादयो दोषाः कषायाख्यानि पक्तव्यानि । सर्वाण्येतानि हेयज्ञेया- प्यपाक्यानि विज्ञेयानि भिक्षुणा उपायत्वेनेत्यर्थः । अग्रया- णतः प्रथमतः । तेषां हेयादीनामन्यत्र विज्ञेयात्परमार्थसत्यं विज्ञेयं ब्रह्मैकं वर्जयित्वा । उपलम्भनमुपलम्भ: अविद्याक- ल्पनामात्रम् । हेयाप्यपाक्येषु त्रिष्वपि स्मृतो ब्रह्मविद्भिः न परमार्थसत्यता त्रयाणामित्यर्थः ॥ प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किंचन ॥ ९९ ॥ परमार्थतस्तु प्रकृत्या स्वभावत: आकाशवत् आकाश- तुल्याः सूक्ष्मनिरञ्जनसर्वगतत्वैः सर्वे धर्मा आत्मानो ज्ञेया अलातशान्तिप्रकरणम् । मुमुक्षुभि: अनादय: नित्याः । बहुवचनकृतभेदाशङ्कां निरा- राकुर्वन्नाह — कचन क्वचिदपि किंचन किंचित अणुमात्रमपि तेषां न विद्यते नानात्वमिति ॥ आदिबुद्धाः प्रकृत्यैव सर्व धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥ ज्ञेयतापि धर्माणां संवृत्यैव, न परमार्थत इत्याह- यस्मात् आदौ बुद्धाः आदिबुद्धाः प्रकृत्यैव स्वभावत एव यथा नित्यप्रकाशस्वरूपः सविता, एवं नित्यबोधस्वरूपा इत्यर्थः । सर्वे धर्माः सर्व आत्मानः । न च तेषां निश्चयः कर्तव्य: नित्यनिश्चितस्वरूपा इत्यर्थः । न संदिह्यमानस्व- रूपा एवं नैवं वेति यस्य मुमुक्षोः एवं यथोक्तप्रकारेण सर्वदा बोधनिश्चयनिरपेक्षता आत्मार्थ परार्थ वा । यथा सविता नित्यं प्रकाशान्तरनिरपेक्षः स्वार्थ परार्थं वेत्येवं भवति क्षान्ति: बोधकर्तव्यतानिरपेक्षता सर्वदा स्वात्मनि, सः अमृतत्वाय अमृतभावाय कल्पते, मोक्षाय समर्थो भव- तीत्यर्थः ॥ आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ s. U. 11. 15 माण्डुक्योपनिषत्कारिकाभाप्ये तथा नापि शान्तिकर्तव्यता आत्मनीत्याह — यस्मात् आदिशान्ता: नित्यमेव शान्ता: अनुत्पन्ना अजाश्च प्रकृत्यैव सुनिर्वृताः सुष्टुपरतस्वभावाः नित्यमुक्तम्वभावा इत्यर्थः । सर्वे धर्माः समाश्च अभिन्नात्र समाभिन्ना: अजं साम्यं विशारदं विशुद्धमात्मतत्त्वं यस्मात, तस्मान शान्तिर्मोक्षो वा नाम्ति कर्तव्य इत्यर्थः । न हि नित्यैकस्वभावस्य कृतं किंचिदर्थ- वत्स्यात् ॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्तं कृपणाः स्मृताः ॥ ये यथोक्तं परमार्थतत्त्वं प्रतिपन्नाः, ते एव अकृपणा लोके ; कृपणात्स्वन्ये इत्याह- यस्मात् भेदनिम्नाः भे- दानुयायिनः संसारानुगा इत्यर्थः । के ! प्रथग्वादा: पृथकू नाना वस्तु इत्येवं वदनं येषां ते पृथग्वादा: द्वैतिन इत्यर्थः । तस्मात्ते कृपणा: क्षुद्रा: स्मृता: यम्मात् वैशारद्यं विशुद्धि: तन्नास्ति तेषां भेदे विचरतां द्वैतमार्गे अविद्यापरिकल्पिते सर्वदा वर्तमानानामित्यर्थः । अतो युक्तमेव तेषां कार्पण्य- मित्यभिप्रायः ॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाइते ॥ २५ ॥ : अलातशान्तिप्रकरणम् । यदिदं परमार्थतत्त्वम, अमहात्मभिरपण्डितैर्वेदान्तबहि:- ठैः क्षुद्रैरल्पप्रज्ञैरनवगाह्यमित्याह — अजे साम्यं परमार्थतत्त्वे एवमेवेति ये केचित् स्यादयोऽपि सुनिश्चिता भविष्यन्ति चेन, त एव हि लोके महाज्ञाना: निरतिशयतत्त्वविषयज्ञाना इत्यर्थः । तत्र तेषां वर्त्म तेषां विदितं परमार्थतत्त्वं सामान्यवु- द्धिरन्यो लोको न गाहते नावतरति न विषयीकरोतीत्यर्थः । 'सर्वभूतात्मभूतस्य समैकार्थी प्रपश्यतः । देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणः । शकुनीनामिवाकाशे गतिर्नैवोप- लभ्यते ' इत्यादिस्मरणात् ॥ अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६ ॥ कथं महाज्ञानत्वमित्याह — अजेषु अनुत्पन्नेषु अचलेपु धर्मेषु आत्मसु अजमचलं च ज्ञानमिष्यते सवितरीव औ- ष्ण्यं प्रकाशश्च यतः, तस्मात असंक्रान्तम् अर्थान्तरं ज्ञान- मजमिष्यते । यस्मान्न क्रमते अर्थान्तरे ज्ञानम, तेन कारणेन असङ्गं तन कीर्तितम आकाशकल्पमित्युक्तम ॥ अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुतावरणच्युतिः ॥ ९७ ॥ माण्डूक्योपनिषत्कारिकाभाप्ये इतोऽन्येषां वादिनाम् अणुमात्रे अल्पेऽपि वैधर्म्ये वस्तुनि बहिरन्त जायमाने उत्पद्यमाने अविपश्चितः अविवेकिनः असङ्गता असङ्गत्वं सदा नास्ति ; किमुत वक्तव्यम् आवरण- च्युतिः बन्धनाशो नास्तीति ॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ तेषामावरणच्युतिर्नास्तीति ब्रुवतां स्वसिद्धान्ते अभ्युप- गतं तर्हि धर्माणामावरणम् । नेत्युच्यते— अलब्धावरणा: अलब्धमप्राप्तमावरणम् अविद्यादिवन्धनं येषां ते धर्माः अल- ब्धावरणाः बन्धनरहिता इत्यर्थः । प्रकृतिनिर्मला : स्वभावशु- द्धा: आदौ बुद्धाः तथा मुक्ताः, यस्मात् नित्यशुद्धबुद्धमुक्तस्व- भावाः । यद्येवं कथं तर्हि वुध्यन्त इत्युच्यते-- नायकाः स्वामिनः समर्थाः बोद्धुं बोधशक्तिमत्स्वभावा इत्यर्थः । यथा नित्यप्रकाशस्वरूपोऽपि सन सविता प्रकाशत इत्युच्यते, यथा वा नित्यनिवृत्तगतयोऽपि नित्यमेव शैलास्तिष्ठन्तीत्यु- च्यते, तद्वत् ॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९ ॥ अलातशान्तिप्रकरणम् । यस्मात् न हि क्रमते बुद्धस्य परमार्थदर्शिनो ज्ञानं विष- यान्तरेषु धर्मेषु धर्मसंस्थं सवितरीव प्रभा । तायिनः तायो- Sस्यास्तीति तायी, संतानवतो निरन्तरस्य आकाशकल्पस्ये- त्यर्थः ; पूजावतो वा प्रज्ञावतो वा सर्वे धर्मा आत्मानोऽपि तथा ज्ञानवदेव आकाशकल्पत्वान्न क्रमन्ते कचिदप्यर्थान्तर इत्यर्थः । यदादावुपन्यस्तम् ' ज्ञानेनाकाशकल्पेन' इत्यादि, तदिदमाकाशकल्पस्य तायिनो बुद्धस्य तदनन्यत्वादाकाशक- ल्पं ज्ञानं न क्रमते कचिदप्यर्थान्तरे । तथा धर्मा इति आ- काशमिव अचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमह- श्यमग्राह्यमशनायाद्यतीतं ब्रह्मात्मतत्त्वम्, 'न हि द्रष्टुईटेि परिलोपो विद्यते' इति श्रुतेः । ज्ञानज्ञेयज्ञातृभेदरहितं पर- मार्थतत्त्वमद्वयमेतन्न बुद्धेन भाषितम् । यद्यपि बाह्यार्थनिरा- करणं ज्ञानमात्र कल्पना च अद्वयवस्तुसामध्यमुक्तम् । इदं तु परमार्थतत्त्वमद्वैतं वेदान्तेष्वेव विज्ञेयमित्यर्थः ॥ दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १०० ॥ शास्त्रसमाप्तौ परमार्थतत्त्वस्तुत्यर्थं नमस्कार उच्यते- दुर्दर्श दुःखेन दर्शनमस्येति दुर्दर्शम् । अस्ति नास्तीति च- तुष्कोटिवर्जितत्वाद्दुर्विज्ञेयमित्यर्थः । अत एव अतिगम्भीरं माण्डूक्योपनिषत्कारिकाभाष्ये दुष्प्रवेशं महासमुद्रवदकृतप्रज्ञैः । अजं साम्यं विशारदम् । ई- दृक् पदम अनानात्वं नानात्ववर्जितं बुढा अवगम्य तद्भूताः सन्तः नमस्कुर्मः तस्मै पदाय । अव्यवहार्यमपि व्यवहार- गोचरतामापाद्य यथावलं यथाशक्तीत्यर्थः ॥ अजमपि जनियोगं प्रापदैश्वर्ययोगा- दगति च गतिमत्तां प्रापदेकं ह्यनेकम् । विविधविषयधर्मग्राहि मुग्धेक्षणानां प्रणत भयविहन्तु ब्रह्म यत्तन्नतोऽस्मि ॥ १ ॥ प्रज्ञां वैशाखवेधक्षुभितजलनिधेर्वेदनाम्नोऽन्तरस्थं भूतान्यालोक्य मग्नान्यविरतजननग्राहघोरे समुद्रे । कारुण्यादुद्दधारामृतमिदममरैर्दुर्लभं भूतहेतो- र्यस्तं पूज्याभिपूज्यं परमगुरुममुं पादपातैर्नतोऽस्मि ॥ २ ॥ यत्प्रज्ञालोकभासा प्रतिहतिमगमत्स्वान्तमोहान्धकारो मज्जोन्मज्जच्च घोरे ह्यसकृदुपजनोदन्वति त्रासने मे । यत्पादावाश्रितानां श्रुतिशमविनयप्राप्तिरग्या ह्यमोघा तत्पादौ पावनीयौ भवभयविनुदौ सर्वभावैर्नमस्ये ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ माण्डूक्योपनिषत्कारिकाभाष्यं संपूर्णम् ॥ 口口 ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्य- जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ- सस्तनूभिः । व्यशेम देव- हितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति न- स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ ऐतरेयोपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमा- विरावीर्म एधि । वेदस्य म आणीस्थः श्रुतं मे मा प्रहा- सीः । अनेनाधीतेनाहोरात्रा- संदधाम्यृतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामव- तु । तद्वक्तारमवतु अवतु मा- मवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ऐतरेयोपनिषद्भाष्यम् प्रथमोऽध्यायः ॥ ऐतरेयोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । प रिसमाप्तं कर्म सहापरब्रह्म- विषयविज्ञानेन । सैषा कर्मणो ज्ञान- सहितस्य परा गतिरुक्थविज्ञानद्वा- रेणोपसंहृता । एतत्सत्यं ब्रह्म प्राणा- ख्यम् । एष एको देवः । एतस्यैव प्राणस्य सर्वे देवा विभूतयः । एतस्य प्राणस्यात्मभावं गच्छन देवता अप्येति इत्युक्तम । सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः । एष मोक्षः । स चायं यथो- ऐतरेयोपनिषद्भाष्ये क्तेन ज्ञानकर्मसमुच्चयेन साधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः । तान्निराचिकीर्षुरुत्तरं केवलात्मज्ञानविधानार्थम् " ' आत्मा वा इदम् इत्याद्याह । कथं पुनरकर्मसंबन्धिकेव- लात्मविज्ञानविधानार्थ उत्तरो ग्रन्थ इति गम्यते ? अन्यार्था - नवगमात् । तथा च पूर्वोक्तानां देवतानामग्न्यादीनां संसा- रित्वं दर्शयिष्यत्यशनायादिदोपवत्त्वेन तमशनायापिपासा- भ्यामन्ववार्जत्' इत्यादिना । अशनायादिमत्सर्वे संसार एव, परस्य तु ब्रह्मणोऽशनायाद्यत्ययश्रुतेः । भवत्वेवं केवलात्म- ज्ञानं मोक्षसाधनम्, न त्वत्राकर्म्येवाधिक्रियते ; विशेषाश्रव- णान् । अकर्मिण आश्रम्यन्तरस्येहाश्रवणात् । कर्म च बृहती- सहस्रलक्षणं प्रस्तुत्य अनन्तरमेवात्मज्ञानं प्रारभ्यते । तस्मा- त्कर्म्येवाधिक्रियते । न च कर्मासंवन्ध्यात्मविज्ञानम्, पूर्वव- इन्ते उपसंहारात् । यथा कर्मसंवन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादिसर्वप्राण्यात्मत्वमुक्तं त्राह्मणेन मन्त्रेण च 'सू- र्य आत्मा' इत्यादिना, तथैव 'एष ब्रह्मैष इन्द्रः' इत्याद्युप- क्रम्य सर्वप्राण्यात्मत्वम् । ' यच्च स्थावरम्, सर्वं तत्प्रज्ञानेत्र- म्' इत्युपसंहरिष्यति । तथा च संहितोपनिषत् - ' एतं ह्येव बहूचा महत्युक्थे मीमांसन्ते' इत्यादिना कर्मसंबन्धित्वमु- क्त्वा 'सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते' इत्युपसंहरति । " प्रथमः खण्डः । तथा तस्यैव 'योऽयमशरीरः प्रज्ञात्मा' इत्युक्तस्य 'यश्वासा- वादित्य एकमेव तदिति विद्यात्' इत्येकत्वमुक्तम् । इहापि ' कोऽयमात्मा' इत्युपक्रम्य प्रज्ञात्मत्वमेव ' प्रज्ञानं ब्रह्म' इति दर्शयिष्यति । तस्मान्नाकर्मसंबन्ध्यात्मज्ञानम् । पुनरु- क्त्यानर्थक्यमिति चेत् — 'प्राणो वा अहमस्म्यषे' इत्यादि- ब्राह्मणेन 'सूर्य आत्मा' इति च मन्त्रेण निर्धारितस्यात्मनः 'आत्मा वा इदम्' इत्यादिब्राह्मणेन 'कोऽयमात्मा' इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तमनर्थकमिति चेत्, न; तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वान्न पुनरुक्ततादोषः । कथम् ? तस्यैव कर्मसंबन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनि- र्धारणार्थत्वात् केवलोपास्त्यर्थत्वाद्वा ; अथवा, आत्मेत्यादिः परो ग्रन्थसन्दर्भः आत्मनः कर्मिणः कर्मणोऽन्यत्रोपासनाप्राप्तौ कर्मप्रस्तावेऽविहितत्वाद्वा केवलोऽप्यात्मोपास्य इत्येवमर्थः । भेदाभेदोपास्यत्वाच्च 'एक एवात्मा' कर्मविषये भेददृष्टिभाक् । स एवाकर्मकाले अभेदेनाप्युपास्य इत्येवमपुनरुक्तता ॥ 'विद्यां चाविद्यां च यस्तद्वेदोभय‍ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छत५ समा:' इति च वाजिनाम् । न च वर्ष- शतात्परमायुर्मर्त्यानाम्, येन कर्मपरित्यागेन आत्मानमुपा- S. U. II. 16 । ऐतरेयोपनिषद्धाप्ये सीत । दर्शितं च ' तावन्ति पुरुषायुषोऽह्नां सहस्राणि भव- न्ति' इति । वर्षशतं चायुः कर्मणैव व्याप्तम् । दर्शितश्च म न्त्र: ' कुर्वन्नेवेह कर्माणि' इत्यादिः ; तथा 'यावज्जीवमग्निहोत्रं जुहोति' ' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' इत्याद्याश्च ; 'तं यज्ञपात्रैर्दहन्ति' इति च । ऋणत्रयश्रुतेश्च । तत्र हि पारि व्राज्यादिशास्त्रम् ' व्युत्थायाथ भिक्षाचर्यं चरन्ति' इत्यात्मज्ञा- नस्तुतिपरोऽर्थवादोऽनधिकृतार्थो वा । न, परमार्थात्मविज्ञाने फलादर्शने क्रियानुपपत्तेः- यदुक्तं कर्मिण एव चात्मज्ञानं कर्मसंवन्धि चेत्यादि, तन्न ; परं ह्याप्तकामं सर्वसंसारदोष- वर्जितं ब्रह्माहमस्मीत्यात्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनमात्मनो ऽपश्यतः फलादर्शने क्रिया नोपपद्यते । फलादर्शनेऽपि नियुक्तत्वात्करोतीति चेत्, न; नियोगाविष- यात्मदर्शनात् । इष्टयोगमनिष्टवियोगं वात्मन: प्रयोजनं पश्यं- स्तदुपायार्थी यो भवति, स नियोगस्य विषयो दृष्टो लोके, न तु तद्विपरीतनियोगाविषयब्रह्मात्मत्वदर्शी । ब्रह्मात्मत्वद- पि संश्चेन्नियुज्येत, नियोगाविषयोऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्राप्नोति । तच्चानिष्टम् । न च स नियोक्तुं शक्यते केनचित् । आम्नायस्यापि तत्प्र- भवत्वात् । न हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते । प्रथमः खण्डः । नापि बहुवित्स्वामी अविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वातन्त्र्यात्सर्वान्प्रति नियोक्तृत्वसामर्थ्यमिति चेत्, न; उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्तव्यमित्युक्तो दोषोऽप्यपरिहार्य एव । तदपि शास्त्रेणैव विधीयत इति चेत् — यथा कर्मकर्तव्यता शास्त्रेण कृता, तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत्, न ; विरुद्धार्थबोधकत्वानुपपत्तेः । न ह्येकस्मिन्कृता- कृतसंवन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम् । शीतो- ष्णत्वमिवाग्नेः । न चेष्टयोगचिकीर्षा आत्मनोऽनिष्टवियोगचि- कीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत्, तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात्तेषाम् । यद्धि स्वतोऽप्राप्तम्, तच्छास्त्रेण बोधयितव्यम् । तच्चेत्कृतकर्त- व्यताविरोध्यात्मज्ञानं शास्त्रेण कृतम्, कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेत् शीततामिवानौ, तम इव च भानौ ? न बोधयत्येवेति चेत्, न ; ' स म आत्मेति विद्यात्प्रज्ञानं ब्रह्म' इति चोपसंहारात् । ' तदात्मानमे- वावेत्तत्त्वमसि' इत्येवमादिवाक्यानां तत्परत्वात्। उत्प- न्नस्य च ब्रह्मात्मविज्ञानस्यावाध्यमानत्वान्नानुत्पन्नं भ्रान्तं वा इति शक्यं वक्तुम् । त्यागेऽपि प्रयोजनाभावस्य तुल्य- ऐतरेयोपनिषद्भाष्ये त्वमिति चेत् 'नाकृतेनेह कश्चन' इति स्मृते:- ; -- य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति, तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेत्, न ; अक्रियामात्र- त्वाद्व्युत्थानस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावः, न वस्तुधर्मः, सर्वप्राणिनां तद्दर्शनात्, प्रयोजनतृष्णया च प्रे- र्यमाणस्य वाङ्मनः कायैः प्रवृत्तिदर्शनात्, 'सोऽकामयत जाया मे स्यात्' इत्यादिना पुत्रवित्तादि पाङ्कलक्षणं काम्यमे- वेत्युभे ह्येते साध्यसाधनलक्षणे एषणे एवेति वाजसनेयित्रा- ह्मणेऽवधारणात् । अविद्याकामदोषनिमित्ताया वाङ्मन: का- यप्रवृत्तेः पाङ्कलक्षणाया विदुषोऽविद्यादिदोपाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम्, न तु यागादिवदनुष्ठेयरूपं भा- वात्मकम् । तच्च विद्यावत्पुरुषधर्म इति न प्रयोजनमन्वेष्ट- व्यम् । न हि तमसि प्रवृत्तस्य उदित आलोके यदर्तपङ्क- कण्टकाद्यपतनम्, तत्किं प्रयोजनमिति प्रश्नार्हम् । व्युत्थानं तर्ह्यर्थप्राप्तत्वान्न चोदनार्थ इति । गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातम्, तत्रैवास्त्वकुर्वत आसनं न ततोऽन्यत्व गमनमिति चेत्, न; कामप्रयुक्तत्वाद्गार्हस्थ्यस्य । 'एतावान्वै काम : ' ' उभे ह्येते एषणे एव' इत्यवधारणात् कामनिमित्तपुत्र- वित्तादिसंबन्धनियमाभावमात्रम् ; न हि ततोऽन्यत्र गमनं प्रथम: खण्ड: । व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्वत आसनमुत्प- न्नविद्यस्य । एतेन गुरुशुश्रूषातपसोरप्यप्रतिपत्तिर्विदुषः सिद्धा । अत्र केचिद्गृहस्था भिक्षाटनादिभयात्परिभवाच्च त्रस्यमाना: सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः । भिक्षोरपि भिक्षाटनादि- नियमदर्शनाद्देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाध- नैषणोभयविनिर्मुक्तस्य देहमात्रधारणार्थमशनाच्छादनमात्रमु- पजीवतो गृह एवास्त्वासनमिति न स्वगृह विशेषपरिग्रहनि- यमस्य कामप्रयुक्तत्वादित्युक्तोत्तरमेतत् । स्वगृह विशेषपरि- ग्रहाभावे च शरीरधारणमात्रप्रयुक्ताशनाच्छादनार्थिनः स्वप- रिग्रहविशेषभावेऽर्थाद्भिक्षुकत्वमेव । शरीरधारणार्थायां भि- क्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदुषोऽकामिनोऽस्तु नित्यकर्मसु नियमेन प्रवृत्तिर्यावज्जीवादिश्रुतिनियुक्तत्वात्प्रत्यवाय परिहारायेति । ए- तन्नियोगाविषयत्वेन विदुषः प्रत्युक्तमशक्यनियोज्यत्वाच्चेति । यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत्, न; अवि- द्वद्विषयत्वेनार्थवत्त्वात् । यत्तु भिक्षोः शरीरधारणमा- त्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वम्, तत्प्रवृत्तेर्न प्रयोजकम् । आ- चमनप्रवृत्तस्य पिपासापगमवन्नान्यप्रयोजनार्थत्वमवगम्यते । न चाग्निहोत्रादीनां तद्वदर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः । अर्थ- ऐतरेयोपनिषद्भाष्ये प्राप्तप्रवृत्तिनियमोऽपि प्रयोजनाभावेऽनुपपन्न एवेति चेत्, न; तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात्तदतिक्रमे यत्नगौरवादर्थ- प्राप्तस्य व्युत्थानस्य पुनर्वचनाद्विदुषो मुमुक्षोः कर्तव्यत्वो- पपत्तिः। अविदुषापि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव ; तथा च 'शान्तो दान्त:' इत्यादिवचनं प्रमाणम् । शमदमादीनां चात्मदर्शनसाधनानामन्याश्रमेष्वनुपपत्तेः । ' अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्' इति च श्वेताश्वतरे विज्ञायते । 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृत- त्वमानशुः' इति च कैवल्यश्रुतिः । ज्ञात्वा नैष्कर्म्यमाच- रेत्' इति च स्मृतेः । ' ब्रह्माश्रमपदे वसेत्' इति च ब्रह्मच- र्यादिविद्यासाधनानां च साकल्येनात्याश्रमिपूपपत्तेर्गार्हस्थ्येऽसं- भवात्। न च असंपन्नं साधनं कस्यचिदर्थस्य साधनायालम् । यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि तेषां परम- फलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव परमात्मविज्ञानमभविष्यत् संसारविषयस्यैव फलस्यो- पसंहारो नोपापत्स्यत । अङ्गफलं तदिति चेत्; न तद्विरोध्या- त्मवस्तुविषयत्वादात्मविद्याया: । निराकृतसर्वनामरूपकर्म- परमार्थात्मवस्तुविषयमात्मज्ञानममृतत्वसाधनम् । गुणफल- संबन्धे हि निराकृतसर्वविशेषात्मवस्तुविषयत्वं ज्ञानस्य न " प्रमथः खण्डः 1. प्राप्नोति ; तच्चानिष्टम्, ' यत्र त्वस्य सर्वमात्मैवाभूत्' इत्यधिकृत्य. क्रियाकारकफलादिसर्वव्यवहारनिराकरणाद्विदुषः ; तद्विपरी- तस्याविदुष: 'यत्र हि द्वैतमिव भवति' इत्युक्त्वा क्रियाकार- कफलरूपस्य संसारस्य दर्शितत्वाच्च वाजसनेयित्राह्मणे। तथे- हापि देवताप्ययं संसारविषयं यत्फलमशनायादिमद्वस्त्वात्मकं तदुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानममृतत्वाय व- क्ष्यामीति प्रवर्तते । ऋणप्रतिवन्धश्वाविदुष एव मनुष्यपि - तृदेवलोकप्राप्तिं प्रति, न विदुषः ; 'सोऽयं मनुष्यलोकः पुत्रे- णैव' इत्यादिलोकत्रय साधननियमश्रुतेः । विदुषश्च ऋणप्रति- बन्धाभावो दर्शित आत्मलोकार्थिनः ' किं प्रजया करिष्यामः ' इत्यादिना । तथा 'एतद्ध स्म वै तद्विद्वांस आहुर्ऋषय: का- वषेया:' इत्यादि 'एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुह- वांचक्रुः' इति च कौषीतकिनाम् । अविदुपस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत्; न, प्राग्गार्हस्थ्यप्रतिपत्तेऋणि- त्वासंभवादधिकारानारूढोऽपि ऋणी चेत्स्यात्, सर्वस्य ऋणि- त्वमित्यनिष्टं प्रसज्येत । प्रतिपन्नगार्हस्थ्यस्यापि 'गृहाद्वनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेदृहाद्वा वनाद्वा' इत्या- त्मदर्शनसाधनोपायत्वेनेष्यत एव पारिव्राज्यम् । यावज्जीवादि- श्रुतीनाम विद्वदमुमुक्षुविषये कृतार्थता । छान्दोग्ये च केषां- ऐतरेयोपनिषद्भाष्ये चिद्वादशरात्रमग्निहोत्रं हुत्वा तत ऊर्ध्वं परित्यागः श्रूयते । यत्त्वनधिकृतानां पारिव्राज्यमिति, तन्न ; तेषां पृथगेव 'उत्स- न्नाग्निरनग्निको वा' इत्यादिश्रवणात्; सर्वस्मृतिषु च अविशेषेण आश्रमविकल्पः प्रसिद्ध:, समुच्चयश्च । यत्तु विदुषोऽर्थप्राप्तं व्युत्थानमित्यशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत् । व्युत्थानस्यैवार्थप्राप्तत्वान्नान्यत्रावस्थानं स्यात् । अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम ; तदभावमात्रं व्युत्थानमिति च । यथाकामित्वं तु विदुषोऽत्यन्तमप्राप्तम्, अत्यन्तमूढविषयत्वेनावगमात् । तथा शास्त्रचोदितमपि कर्मात्मविदोऽप्राप्तं गुरुभारतयावगम्यते किमुत अत्यन्ता- विवेकनिमित्तं यथाकामित्वम् ? न ह्युन्मादतिमिरदृष्टयुपलब्धं वस्तु तदपगमेऽपि तथैव स्यात्, उन्मादतिमिरदृष्टिनिमि- तत्वादेव तस्य । तस्मादात्मविदो व्युत्थानव्यतिरेकेण न यथाकामित्वम्, न चान्यत्कर्तव्यमित्येतत्सिद्धम् । यत्तु 'वि- यां चाविद्यां च यस्तद्वेदोभय सह ' इति न विद्यावतो वि- द्यया सहाविद्यापि वर्तत इत्ययमर्थः ; कस्तर्हि ? एकस्मिन्पुरुषे एतेन सह संबध्येयातामित्यर्थः ; यथा शुक्तिकायां रज- तशुक्तिकाज्ञाने एकस्य पुरुषस्य । 'दूरमेते विपरीते विपूची अविद्या या च विद्येति ज्ञाता' इति हि काठके । तस्मान्न प्रथमः खण्डः । विद्यायां सत्यामविद्याया: संभवोऽस्ति । 'तपसा त्रह्म विजिज्ञा- सस्व' इत्यादिश्रुतेः । तपआदि विद्योत्पत्तिसाधनं गुरूपास- नादि च कर्म अविद्यात्मकत्वादविद्योच्यते । तेन विद्यामु- त्पाद्य मृत्युं काममतितरति । ततो निष्कामस्त्यक्तैषणो ब्रह्म- विद्यया अमृतत्वमश्नुत इत्येतमर्थं दर्शयन्नाह- 'अवि- यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति । यत्तु पुरु- षायुः सर्वे कर्मणैव व्याप्तम् ' कुर्वन्नेवेह कर्माणि जिजीवि- षेच्छत समा:' इति, तदविद्वद्विषयत्वेन परिहृतम् इतरथा असंभवात् । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात्कर्मणा अविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मविषयतया " " प्रत्युक्तम्; उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवल- निष्क्रियब्रह्मात्मैकत्वविद्याप्रदर्शनार्थमुत्तरो ग्रन्थ आरभ्यते ॥ आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजा इति ॥ १ ॥ आत्मेति । आत्मा आप्नोतेरत्तेरततेर्वा पर: सर्वज्ञः सर्व- शक्तिरशनायादिसर्वसंसारधर्मवर्जितो नित्यशुद्धबुद्धमुक्तस्वभा- वोऽजोऽजरोऽमरोऽमृतोऽभयोऽद्वयो वै । इदं यदुक्तं नाम- ऐतरेयोपनिषद्भाष्ये रूपकर्मभेदभिन्नं जगत् आत्मैव एकः अग्रे जगतः सृष्टेः प्राक् आसीत् । किं नेदानीं स एवैकः ? न । कथं तर्हि आसीदित्युच्यते ? यद्यपीदानीं स एवैकः, तथाप्यस्ति विशेषः । प्रागुत्पत्तेः अव्याकृतनामरूपभेदमात्मभूतमात्मैक- शब्दप्रत्ययगोचरं जगत् इदानीं व्याकृतनामरूपभेदत्वादने- कशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचरं चेति विशेषः । यथा सलिलात्पृथक् फेननामरूपव्याकरणात्प्राक्सलिलैकश- व्दप्रत्ययगोचरमेव फेनम्, यदा सलिलात्पृथङ् नामरूपभेदेन व्याकृतं भवति, तदा सलिलं फेनं चेति अनेकशब्दप्रत्ययभाक् सलिलमेवेति चैकशब्दप्रत्ययभाक्च फेनं भवति, तद्वत् । न अन्यत्किंचन न किंचिदपि मिपत् निमिषव्यापारवदितरद्वा । यथा सांख्यानामनात्मपक्षपाति स्वतन्त्रं प्रधानम्, यथा च काणादानामणवः, न तद्वदिहान्यदात्मनः किंचिदपि वस्तु विद्यते । किं तर्हि ? आत्मैवैक आसीदित्यभिप्रायः । सः सर्वज्ञस्वाभाव्यात् आत्मा एक एव सन् ईक्षत । ननु प्रागुत्प- त्तेरकार्यकरणत्वात्कथमीक्षितवान् ? नायं दोष:, सर्वज्ञ- स्वाभाव्यात् । तथा च मन्त्रवर्णः - ' अपाणिपादो जवनो ग्रहीता' इत्यादिः । केनाभिप्रायेणेत्याह — लोकान् अम्भः प्रभृ- तीन्प्राणिकर्मफलोपभोगस्थानभूतान् नु सृजै सृजेऽहम् इति ॥ प्रथमः खण्डः । स इमाँल्लोकानसृजत । अम्भो मरीची- मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रति- ष्ठान्तरिक्षं मरीचयः । पृथिवी मरो या अधस्तात्ता आपः ॥ २ ॥ एवमीक्षित्वा आलोच्य सः आत्मा इमान् लोकान् असृ- जत सृष्टवान् । यथेह बुद्धिमांस्तक्षादिः एवंप्रकारान्प्रासादादी- सृजे इतीक्षित्वा ईक्षानन्तरं प्रासादादीन्सृजति, तद्वत् । ननु सोपादानस्तक्षादिः प्रासादादीन्सृजतीति युक्तम् ; निरु- पादानस्त्वात्मा कथं लोकान्सृजतीति ? नैष दोषः । सलिल- फेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मैकशब्दवा- च्ये व्याकृतफेनस्थानीयस्य जगतः उपादानभूते संभवतः । तस्मादात्मभूतनामरूपोपादानभूतः सन् सर्वज्ञो जगन्निर्मिमी- ते इत्यविरुद्धम् । अथवा, विज्ञानवान्यथा मायावी निरुपा - दान: आत्मानमेव आत्मान्तरत्वेन आकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्वशक्तिर्महामाय: आत्मा- नमेव आत्मान्तरत्वेन जगद्रूपेण निर्मिमीते इति युक्ततरम् । एवं च सति कार्यकारणोभयासद्वाद्यादिपक्षाश्च न प्रसज्जन्ते, सुनिराकृताश्च भवन्ति । कान् लोकानसृजतेत्याह- अम्भो ऐतरेयोपनिषद्भाष्ये मरीचीर्मरमापः इति । आकाशादिक्रमेण अण्डमुत्पाद्य अम्भःप्रभृतीन् लोकानसृजत । तत्र अम्भः प्रभृतीन्स्व- यमेव व्याचष्टे श्रुतिः । अदः तत् अम्भः शब्दवाच्यो लोकः, परेण दिवं द्युलोकात्परेण परस्तात्, सोऽम्भः शब्द- वाच्यः, अम्भोभरणात् । द्यौः प्रतिष्ठा आश्रयः तस्याम्भसो लोकस्य । द्युलोकादधस्तात् अन्तरिक्षं यत्, तत् मरीचयः । एकोऽपि अनेकस्थानभेदत्वाद्बहुवचनभाक् — मरीचय इति ; मरीचिभिर्वा रश्मिभिः संबन्धात् । पृथिवी मरः-- म्रियन्ते अस्मिन् भूतानीति । याः अधस्तात् पृथिव्याः, ताः आपः उच्यन्ते, आप्नोतेः, लोकाः । यद्यपि पश्चभूतात्मकत्वं लोका- नाम्, तथापि अच्बाहुल्यात् अन्नामभिरेव अम्भो मरी- चीर्मरमापः इत्युच्यन्ते ॥ स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति । सोऽद्भय एव पुरुषं समुद्धृ- त्यामूर्छयत् ॥ ३ ॥ सर्वप्राणिकर्मफलोपादानाधिष्ठानभूतांश्चतुरो लोकान्सृष्ट्वा सः ईश्वरः पुनरेव ईक्षत — इमे तु तु अम्भः प्रभृतयः मया सृष्टा लोका: परिपालयितृवर्जिता विनश्येयुः; तस्मादेषां प्रथमः खण्डः । " रक्षणार्थं लोकपालान् लोकानां पालयितून नु सृजै सृजेऽहम् इति । एवमीक्षित्वा सः अद्भथ एव अप्प्रधानेभ्य एव पञ्च- भूतेभ्यः, येभ्योऽम्भः प्रभृतीन्सृष्टवान् तेभ्य एवेत्यर्थः, पुरुषं पुरुषाकारं शिरः पाण्यादिमन्तं समुद्धृत्य अद्भयः समुपादाय, मृत्पिण्डमिव कुलाल: पृथिव्या:, अमूर्छयत् मू- र्छितवान्, संपिण्डितवान्स्यावयवसंयोजनेनेत्यर्थः ॥ तमभ्यतपत्तस्याभितप्तस्य मुखं निर- भिद्यत यथाण्डं मुखाद्वाग्वाचोऽग्निर्ना- सिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निर- भिद्यत त्वचो लोमानि लोमभ्य ओष- धिवनस्पतयो हृदयं निरभिद्यत हृदया- न्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निर- भिद्यत शिश्नाद्रेतो रेतस आपः ॥ ४ ॥ इति प्रथमः खण्डः ॥ ऐतरेयोपनिषद्भाष्ये तं पिण्डं पुरुषविधमुद्दिश्य अभ्यतपत्, तदभिध्यानं संक- ल्पं कृतवानित्यर्थः, 'यस्य ज्ञानमयं तपः' इत्यादिश्रुतेः । तस्य अभितप्तस्य ईश्वरसंकल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभियत मुखाकारं सुषिरमजायत; यथा पक्षिणः अण्डं निर्भिद्यते एवम् । तस्माच्च निर्भिण्णात् मुखात् वाक् करण- मिन्द्रियं निरवर्तत; तदधिष्ठाता अग्निः, ततो वाचः, लोक- पाल: । तथा नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः, प्राणाद्वायुः ; इति सर्वत्राधिष्ठानं करणं देवता च-त्रयं क्रमेण निर्भिण्णमिति । अक्षिणी, कर्णौ, त्वक्, हृदयमन्तः करणाधि- ष्ठानम्, मन: अन्तःकरणम् ; नाभिः सर्वप्राणबन्धनस्थानम् । अपानसंयुक्तत्वात् अपान इति पाय्विन्द्रियमुच्यते ; तस्मात् तस्याधिष्ठात्री देवता मृत्यु: । यथा अन्यत्र, तथा शिश्नं निरभिद्यत प्रजननेन्द्रियस्थानम् । इन्द्रियं रेतः रेतोविसर्गार्थ- त्वात्सह रेतसोच्यते । रेतस आपः इति ॥ इति प्रथमखण्डभाष्यम् ॥ द्वितीयः खण्डः ॥ ता एता देवताः सृष्टा अस्मिन्महत्य- र्णवे प्रापतंस्तमशनायापिपासाभ्यामन्व- वार्जत्ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥ १ ॥ ता एता अग्न्यादयो देवता: लोकपालत्वेन संकल्प्य सृ- ष्टा ईश्वरेण अस्मिन् संसारार्णवे संसारसमुद्रे महति अवि- द्याकामकर्मप्रभवदुःखोदके तीव्ररोगजरामृत्युमहाग्राहे अनादौ अनन्ते अपारे निरालम्बे विषयेन्द्रियजनितसुखलवलक्षणवि- श्रामे पञ्चेन्द्रियार्थतृण्मारुत विक्षोभोत्थितानर्थशतमहोम महा- रौरवाद्यनेकनिरयगतहाहेत्यादिकूजिताक्रोशनोद्भूतमहारवे स- त्यार्जवदानदयाहिंसाशमदमधृत्याद्यात्मगुणपाथेयपूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीरे एतस्मिन् महत्यर्णवे प्रापतन् पतितवत्यः । तस्मादग्न्यादिदेवताप्ययलक्षणापि या गति- र्व्याख्याता ज्ञानकर्मसमुच्चयानुष्ठानफलभूता, सापि नालं सं- सारदुःखोपशमायेत्ययं विवक्षितोऽर्थोऽत्र । यत एवम् त- - ऐतरेयोपनिषद्भाष्ये स्मादेवं विदित्वा परं ब्रह्म, आत्मा आत्मनः सर्वभूतानां च, यो वक्ष्यमाणविशेषणः प्रकृतश्च जगदुत्पत्तिस्थितिसंहारहेतु- त्वेन, स सर्वसंसारदुःखोपशमनाय वेदितव्यः । तस्मात् 'एष पन्था एतत्कर्मैतद्ब्रह्मैतत्सत्यम्' यदेतत्परब्रह्मात्मज्ञानम्, नान्यः पन्था विद्यतेऽयनाय' इति मन्त्रवर्णात् । तं स्थान- करणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मा- नम् अशनायापिपासाभ्याम् अन्ववार्जत् अनुगमितवान् सं- योजितवानित्यर्थः । तस्य कारणभूतस्य अशनायादिदोषव- त्वात् तत्कार्यभूतानामपि देवतानामशनायादिमत्त्वम् । ताः तत: अशनायापिपासाभ्यां पीड्यमानाः एनं पितामहं स्रष्टा- रम् अब्रुवन् उक्तवत्यः । आयतनम् अधिष्ठानं नः अस्मभ्यं प्रजानीहि विधत्स्व, यस्मिन् आयतने प्रतिष्ठिताः समर्थाः सत्य: अन्नम् अदाम भक्षयाम इति ॥ ताभ्यो गामानयत्ता अब्रुवन्न वै नो- ऽयमलमिति । ताभ्योऽश्वमानयत्ता अब्रु- वन्न वै नोऽयमलमिति ॥ २ ॥ एवमुक्त ईश्वरः ताभ्यः देवताभ्यः गां गवाकृतिविशिष्टं पिण्डं ताभ्य एवाद्भथः पूर्ववत्पिण्डं समुद्धृत्य मूर्छयित्वा आ- द्वितीयः खण्डः । नयत् दर्शितवान् । ताः पुनः गवाकृतिं दृष्ट्वा अब्रुवन् । न वै नः अस्मदर्थम् अधिष्ठाय अन्नमत्तुम् अयं पिण्डः अलं न 1 वै । अलं पर्याप्तः । अत्तुं न योग्य इत्यर्थः । गवि प्रत्याख्या- ते तथैव ताभ्यः अश्वम् आनयत् । ता अब्रुवन्- वै नो- ऽयमलमिति, पूर्ववत् ॥ - -न ताभ्यः पुरुषमानयत्ता अब्रुवन्सु कृतं बतेति पुरुषो वाव सुकृतम् । ता अब्रवी- द्यथायतनं प्रविशतेति ॥ ३ ॥ सर्वप्रत्याख्याने ताभ्य: पुरुषमानयत् स्वयोनिभूतम् । ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सु कृतं शोभनं कृतम् इदमधिष्ठानं बत इति अब्रुवन् । तस्मात्पुरुषो वाव पुरुष एव सुकृतम्, सर्वपुण्यकर्महेतुत्वात् ; स्वयं वा स्वेनैवा- त्मना स्वमायाभिः कृतत्वात्सुकृतमित्युच्यते । ताः देवताः ईश्वरः अब्रवीत् इष्टमासामिदमधिष्ठानमिति मत्वा सर्वे हि स्वयोनिषु रमन्ते; अतः यथायतनं यस्य यत् वदनादिक्रिया- योग्यमायतनम्, तत् प्रविशत इति ॥ अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्रा- णो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भू- S. U. II. 17 ऐतरेयोपनिषद्भाष्ये त्वाक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा क- र्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्रावि- शन् ॥ ४ ॥ तथास्त्वित्यनुज्ञां प्रतिलभ्येश्वरस्य नगर्यामिव वलाधिकृता- दयः अग्निः वागभिमानी वागेव भूत्वा स्वयोनिं मुखं प्रा- विशत् तथोक्तार्थमन्यत् । वायुर्नासिके, आदित्योऽक्षिणी, दि- शः कर्णौ, ओषधिवनस्पतयस्त्वचम्, चन्द्रमा हृदयम्, मृ- त्युर्नाभिम् आपः शिश्नम्, प्राविशन् ! " तमशनायापिपासे अब्रूतामावाभ्याम- भिप्रजानीहीति । ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करो- मीति । तस्माद्यस्यै कस्यै च देवतायै ह- विर्गृह्यते भागिन्यावेवास्यामशनायापि- पासे भवतः ॥ ५ ॥ इति द्वितीयः खण्डः ॥ द्वितीयः खण्डः । - - एवं लब्धाधिष्ठानासु देवतासु निरधिष्ठाने सत्यौ अशना- यापिपासे तम् ईश्वरम् अब्रूताम् उक्तवत्यौ — आवाभ्याम् अ- धिष्ठानम् अभिप्रजानीहि चिन्तय विधत्स्वेत्यर्थः । स ईश्व र एवमुक्तः ते अशनायापिपासे अब्रवीत् । न हि युवयो- र्भावरूपत्वाच्चेतनावद्वस्त्वनाश्रित्य अन्नात्तृत्वं संभवति । तस्मा- त् एतास्वेव अग्न्याद्यासु वां युवां देवतासु अध्यात्माधिदेव- तासु आभजामि वृत्तिसंविभागेनानुगृह्णामि । एतासु भागि- न्यौ यद्देवत्यो यो भागो हविरादिलक्षणः खात् तस्यास्तेनैव भागेन भागिन्यौ भागवत्यौ वां करोमीति । सृष्टपादावीश्वर एवं व्यदधाद्यस्मात्, तस्मात् इदानीमपि यस्यै कस्यै च देव- तायै देवताया अर्थाय हविर्गृह्यते चरुपुरोडाशादिलक्षणं भा- गिन्यौ एव भागवत्यावेव अस्यां देवतायाम् अशनायापिपासे भवतः ॥ इति द्वितीयखण्डभाष्यम् ॥ तृतीयः खण्डः ॥ स ईक्षतेमे नु लोकाश्च लोकपालाश्चा- नमेभ्यः सृजा इति ॥ १ ॥ सः एवमीश्वरः ईक्षत । कथम् ? इमे नु लोकाश्च लोक- पालाश्च मया सृष्टा:, अशनायापिपासाभ्यां च संयोजिताः । अतो नैषां स्थितिरन्नमन्तरेण । तस्मात् अन्नम् एभ्यः लोक- पालेभ्यः सृजै सृजे इति । एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु । तद्वन्महेश्वरस्यापि सर्वेश्वर- त्वात्सर्वान्प्रति निग्रहे अनुग्रहे च स्वातन्त्र्यमेव ॥ सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मू- तिरजायत । या वैसा मूर्तिरजायतान्नं वै तत् ॥ २ ॥ सः ईश्वरः अन्नं सिसृक्षुः ता एव पूर्वोक्ता अपः उद्दिश्य अभ्यतपत् । ताभ्यः अभितप्ताभ्यः उपादानभूताभ्यः मूर्तिः घनरूपं धारणसमर्थं चराचरलक्षणम् अजायत उत्पन्नम् । अन्नं वै तत् मूर्तिरूपं या वै सा मूर्तिरजायत ॥ तृतीयः खण्डः । तदेनदभिसृष्टं पराङत्यजिघांसत्तद्रा- चाजिघृक्षत्तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्वैनद्वाचाग्रहैष्यदभिव्याहृत्य हैवान्नम- त्रप्स्यत् ॥ ३ ॥ तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेन ग्र- हीतुम् । स यद्वैनत्प्राणेनाग्रहैष्यदभि- प्राण्य हैवान्नमत्रप्स्यत् ॥ ४ ॥ तच्चक्षुषाजिघृक्षत्तन्नाशक्नोच्चक्षुषा ग्र हीतुम् । स यद्धैनच्चक्षुषाग्रहष्यद्दृष्ट्वा है- वान्नमत्रप्स्यत् ॥ ५॥ तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेणाग्रहष्यच्छु- त्वा हैवान्नमत्रप्स्यत् ॥ ६ ॥ तत्त्वचाजिघृक्षत्तन्नाशक्नोत्त्वचा ग्रही- तुम् । स यद्वैनत्त्वचाग्रहैष्यत्स्पृष्ट्वा हैवा- न्नमत्रप्स्यत् ॥ ७ ॥ ऐतरेयोपनिषद्भाष्ये तन्मनसाजिघृक्षत्तन्नाशक्नोन्मनसा ग्र हीतुम् । स यद्वैनन्मनसाग्रहैष्यद्धया- त्वा हैवान्नमत्रप्स्यत् ॥ ८ ॥ तच्छिश्नेनाजिघृक्षत्तन्नाशक्नोच्छिनेन ग्रहीतुम् । स यद्वैनच्छिश्नेनाग्रहैष्यद्विमृ- ज्य हैवान्नमत्रप्स्यत् ॥ ९ ॥ तदपानेनाजिघृक्षत्तदावयत् । सैषोऽन्न- स्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ॥ । तदेनत् अन्नं लोकलोकपालान्नार्थ्याभिमुखे सृष्टं सत्, यथा मूषकादिर्मार्जारादिगोचरे सन् मम मृत्युरन्नाद इति मत्वा परागश्चतीति पराङ् पराक्सत् अत्तृन् अतीत्य अजिघांसत् अ- तिगन्तुमैच्छत्, पलायितुं प्रारभतेत्यर्थः । तमन्नाभिप्रायं मत्वा स लोकलोकपालसंघात कार्यकरणलक्षणः पिण्डः प्रथमज- त्वादन्यांश्चान्नादानपश्यन् तत् अन्नं वाचा वदनव्यापारेण अजिघृक्षत् ग्रहीतुमैच्छत् । तत् अन्नं नाशक्नोत् न समर्थोऽभ- वत् वाचा वदनक्रियया ग्रहीतुम् उपादातुम् । सः प्रथमजः शरीरी यत् यदि ह एनत् वाचा अग्रहैष्यत् गृहीतवान्स्यात् ' तृतीयः खण्डः । अन्नम्, सर्वोऽपि लोकः तत्कार्यभूतत्वात् अभिव्याहृत्य हैव अ- न्नम् अत्रप्स्यत् तृप्तोऽभविष्यत् । न चैतदस्ति । अतो नाशक्नोद्वा- चा ग्रहीतुमित्यवगच्छामः पूर्वजोऽपि । समानमुत्तरम् । तत्प्रा- णेन तञ्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिनेन तेन तेन करणव्यापारेण अन्नं ग्रहीतुमशक्नुवन्पश्चात् अपानेन वायुना मुखच्छिद्रेण तत् अन्नम् अजिघृक्षत्, तदावयत् तदन्न- मेवं जग्राह अशितवान् । तेन स एषः अपानवायुः अन्नस्य ग्रहः अन्नग्राहक इत्येतत् । यद्वायुः यो वायुरन्नायुः अन्नब- न्धनोऽन्नजीवनो वै प्रसिद्धः, स एष यो वायुः ॥ स ईक्षत कथं न्विदं महते स्यादिति स ईक्षत कतरेण प्रपद्या इति स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभि- प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ११ ॥ सः एवं लोकलोकपालसंघातस्थितिम् अन्ननिमित्तां कृत्वा पुरपौरतत्पालयितृस्थितिसमां स्वामीव ईक्षत — कथं नु केन - ऐतरेयोपनिषद्भाष्ये प्रकारेण नु इति वितर्कयन्, इदं मत् ऋते मामन्तरेण पुरस्वामि- नम् ; यदिदं कार्यकरणसंघातकार्यं वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात् परार्थं सत् । यदि वाचाभिव्याहृतमि- त्यादि केवलमेव वाग्व्यवहरणादि, तन्निरर्थकं न कथंचन भवेत् बलिस्तुत्यादिवत् । पौरबन्द्यादिभिः प्रयुज्यमानं स्वा- म्यर्थे सत्स्वामिनमन्तरेण असत्येव स्वामिनि, तद्वत् । तस्मान्मया परेण स्वामिना अधिष्ठात्रा कृताकृतफलसाक्षि- भूतेन भोक्त्रा भवितव्यं पुरस्येव राज्ञा । यदि नामैतत्संहत- कार्यस्य परार्थत्वम्, परार्थिनं मां चेतनं त्रातारमन्तरेण भवेत्, पुरपौरकार्यमिव तत्स्वामिनम् । अथ कोऽहं किंस्वरूपः कस्य वा स्वामी ? यद्यहं कार्यकरणसंघातमनुप्रविश्य वागाद्यभि- व्याहृतादिफलं नोपलभेय राजेव पुरमाविश्याधिकृतपुरुषकृ- ताकृतादिलक्षणम्, न कश्चिन्माम् अयं सन् एवंरूपश्च इत्यधिग- च्छेद्विचारयेत्। विपर्यये तु, योऽयं वागाद्यभिव्याहृतादीदमिति वेद, स सन् वेदनरूपश्च इत्यधिगन्तव्योऽहं स्याम्, यदर्थमिदं संहतानां वागादीनामभिव्याहृतादि । यथा स्तम्भकुड्यादीनां प्रासादादिसंहतानां स्वावयवैरसंहतपरार्थत्वम्, तद्वदिति । एवमीक्षित्वा अतः कतरेण प्रपद्या इति । प्रपदं च मूर्धा च अस्य संघातस्य प्रवेशमार्गौ; अनयो: कतरेण मार्गेणेदं तृतीयः : खण्ड: । कार्यकरणसंघातलक्षणं पुरं प्रपद्ये प्रपद्ये इति ॥ स एतमेव सीमानं विदार्येतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वास्तदेत- न्नान्दनम् । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमाव- सथ इति ॥ १२ ॥ एवमीक्षित्वा न तावन्मनृत्यस्य प्राणस्य मम सर्वार्थाधि- कृतस्य प्रवेशमार्गेण प्रपदाभ्यामधः प्रपद्ये । किं तर्हि, पारि- शेष्यादस्य मूर्धानं विदार्य प्रपद्ये इति लोक इव ईक्षित- कारी य स्रष्टेश्वरः, स एतमेव मूर्धसीमानं केशविभागावसानं विदार्य च्छिद्रं कृत्वा एतया द्वारा मार्गेण इमं कार्यका- रणसंघातं प्रापद्यत प्रविवेश । सेयं हि प्रसिद्धा द्वा:, मूर्ध्नि तैलादिधारणकाले अन्तस्तद्रसादिसंवेदनात् । सैषा विद्यतिः विदारितत्वाद्विदृतिर्नाम प्रसिद्धा द्वा: । इतराणि तु श्रोत्रा- दिद्वाराणि भृत्यादिस्थानीयसाधारणमार्गत्वान्न समृद्धीनि नानन्दहेतूनि । इदं तु द्वारं परमेश्वरस्यैव केवलस्येति । तदेतत् नान्दनं नन्दनमेव । नान्दनमिति दैर्घ्य छान्दसम् । . ऐतरेयोपनिषद्भाष्ये - नन्दत्यनेन द्वारेण गत्वा परस्मिन्ब्रह्मणीति । तस्यैवं सृष्ट्वा प्रविष्टस्यानेन जीवेनात्मना राज्ञ इव पुरम्, त्रय आवसथा:- जागरितकाले इन्द्रियस्थानं दक्षिणं चक्षुः, स्वप्नकाले अन्त- र्मन:, सुषुप्तिकाले हृदयाकाश इत्येते; वक्ष्यमाणा वा त्रय आवसथा: - • पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति । त्रयः स्वप्ना जाग्रत्स्वप्नसुषुप्त्याख्याः । ननु जागरितं प्रबोध- रूपत्वान्न स्वप्नः । नैवम् ; स्वप्न एव । कथम् ? परमार्थस्वात्म- 'प्रबोधाभावात् स्वप्रवद सद्वस्तुदर्शनाच्च । अयमेव आवसथश्च- क्षुर्दक्षिणं प्रथमः । मनोऽन्तरं द्वितीयः । हृदयाकाशस्तृतीयः । अयमावसथः इत्युक्तानुकीर्तनमेव । तेषु ह्ययमावसथेषु पर्या- येणात्मभावेन वर्तमानोऽविद्यया दीर्घकालं गाढं प्रसुप्तः स्वाभाविक्या, न प्रबुध्यते ऽनेकशतसहस्रानर्थसंनिपादजदुः- खमुद्गराभिघातानुभवैरपि ॥ स जातो भूतान्यभिव्यैख्यत्किमिहा- न्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती३ ॥ १३ ॥ स जातः शरीरे प्रविष्टो जीवात्मना भूतानि अभिव्यै- ख्यत् व्याकरोत् । स कदाचित्परमकारुणिकेन आचार्येणा- तृतीय: : खण्ड: । त्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहाभेर्या तत्कर्णमूळे ताड्यमानायाम्, एतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत् ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णमाकाशवत् प्रत्यबुध्यत अपश्यत् । कथम् ? इदं ब्रह्म मम आत्मनः स्वरूपमदर्श दृष्टवानस्मि । अहो इति । विचारणार्था प्लुतिः पूर्वम् ॥ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परो- क्षेण । परोक्षप्रिया इव हि देवाः परोक्ष- प्रिया इव हि देवाः ॥ १४ ॥ इति तृतीयः खण्डः ॥ यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत् न परोक्षेण, तस्मात् इदं पश्यतीति इदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोके ईश्वरः । तम् एवम् इदन्द्रं सन्तम् इन्द्र इति परोक्षेण परोक्षाभिधानेन आचक्षते ब्रह्म- विदः संव्यवहारार्थं पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् । ऐतरेयोपनिषद्भाष्ये तथा हि परोक्षप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्मात् देवाः । किमुत सर्वदेवानामपि देवो महेश्वरः । द्विर्व- चनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये प्रथमोऽध्यायः ॥ ऐतरेयोपनिषद्भाष्यम् द्वितीयोऽध्यायः अ द्वितीयोऽध्यायः ॥ ; - स्मिन्नध्याये एष वाक्यार्थः- जगदुत्पत्तिस्थितिप्रलयकृदसंसारी स- र्वज्ञः सर्वशक्तिः सर्ववित्सर्वमिदं ज- गत्स्वतोऽन्यद्वस्त्वन्तरमनुपादायैव आ- काशादिक्रमेण सृष्ट्वा स्वात्मप्रबोध- नार्थं सर्वाणि च प्राणादिमच्छरी- राणि स्वयं प्रविवेश प्रविश्य च स्वमात्मानं यथाभूतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत ; तस्मात्स एव सर्वशरीरेष्वेक एवात्मा, नान्य इति । अन्योऽपि ' स म आत्मा ब्रह्मास्मी- त्येवं विद्यात्' इति 'आत्मा वा इदमेक एवाग्र आसीत् ' " ब्रह्म ततमम् ' इति चोक्तम् । अन्यत्र च सर्वगतस्य सर्वा- त्मनो वालाप्रमात्रमप्यप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् ? नन्वत्यल्पमिदं चोद्यम् । बहु चात्र चोदयितव्यम् । अकरणः सन्नीक्षत । अनुपादाय किंचिल्लोकानसृजत । अद्भथः पुरुषं समुद्धृत्यामूर्छयत् । तस्या- ऐतरेयोपनिषद्भाष्ये भिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोक- पालाः । तेषां चाशनायादिसंयोजनं तदायतनप्रार्थनं तदर्थ गवादिप्रदर्शनं तेषां च यथायतनप्रवेशनं सृष्टस्यान्नस्य पला- यनं वागादिभिस्तज्जिघृक्षेति । एतत्सर्वं सीमाविदारणप्रवेश- सममेव ॥ अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्मावबोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा ; महा- मायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार सुखावबोधप्र- तिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्टयाख्यायिकादिपरिज्ञानात्किंचित्फलमिष्यते । ऐका- त्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ' इत्यादिना । ननु त्रय आत्मानो भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभो- गयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्र- प्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञान- वांस्तत्कर्ता तक्षादिवि ईश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते । ' यतो वाचो निवर्त- न्ते' 'नेति नेति' इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृ- चतुर्थः खण्डः । तीयः । एवमेते त्रय आत्मानोऽन्योन्यविलक्षणाः । तत्र कथ- मेक एवात्मा अद्वितीय: असंसारीति ज्ञातुं शक्यते ? तत्र जीव एव तावत्कथं ज्ञायते ? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टाघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेन अमतो मन्ता अविज्ञातो विज्ञाता इति च । तथा 'न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं वि- जानीया:' इत्यादि च । सत्यं विप्रतिषिद्धम्, यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते ' न मतेर्मन्ता- रम्' इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन ; तत्र कुतो वि- प्रतिषेध: ? ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते, यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दम्, तदा तस्य श्रवणक्रिययैव वर्त- मानत्वान्मननविज्ञानक्रिये न संभवत आत्मनि परत्र वा । त- था अन्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषये- ष्वेव । न हि मन्तव्यादन्यत्र मन्तुः मननक्रिया संभवति । ननु मनसः सर्वमेव मन्तव्यम् । सत्यमेवम्; तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात् ? इदमत्र स्यात् -- सर्वस्य योऽयं मन्ता, स मन्तैवेति न स मन्तव्य: स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स आत्मनैव मन्तव्यः, तदा येन च मन्तव्य आत्मा आत्मना,. S. U. II. 18 २७४. ऐतरेयोपनिषद्भाष्ये यश्च मन्तव्य आत्मा, तौ द्वौ प्रसज्येयाताम् । एक एव आत्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवत्, उभयथा- प्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुप- पत्तिः, समत्वात्, तद्वत् । न च मन्तुर्मन्तव्ये मननव्या- पारशून्य: कालेऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं मनुते मन्ता, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा, यश्व तस्य मन्ता, तौ द्वौ प्रसज्येयाताम् ; एक एव वा द्विधेति पूर्वोक्तो दोष: । न प्रत्यक्षेण, नाप्यनुमानेन ज्ञायते चेत्, कथमुच्यते ' स म आत्मेति विद्यात्' इति, कथं वा श्रोता मन्तेत्यादि ? ननु श्रोतृत्वादिधर्मवानात्मा, अश्रोतृत्वादि च प्रसिद्धमात्मनः ; किमत्र विषमं पश्यसि ? यद्यपि तव न विषमम् ; तथापि मम तु विषमं प्रतिभाति । कथम ? यदासौ श्रोता, तदा न मन्ता; यदा मन्ता, तदा न श्रोता । तत्रैवं सति, पक्षे श्रोता मन्ता, पक्षे न श्रोता नापि मन्ता । तथा अन्यत्रापि च । यदैवम्, तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृ- त्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् ? यदा देवदत्तो गच्छति, तदा न स्थाता, गन्तैव 1 यदा तिष्ठति, - न गन्ता, स्थातैव; तदास्य पक्ष एव गन्तृत्वं स्थातृत्वं च, न. नित्यं गन्तृत्वं स्थातृत्वं वा, तद्वत् । तथैवात्र काणा- चतुर्थः खण्डः । दादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् । संयोगजत्वमयौगपद्यं च ज्ञानस्य : ह्याचक्षते । दर्शयन्ति च अन्यत्रमना अभूवं नादर्शम् इत्यादि युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति च न्याय्य- म् । भवत्वेवं किं तवं नष्टं यद्येवं स्यात् ? अस्त्वेवं तवेष्टं चेत्; श्रुत्यर्थस्तु न संभवति । किं न श्रोता मन्तेत्यादिश्रुत्यर्थ: ? न, न श्रोता न मन्तेत्यादिवचना- त् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया ; न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात्, न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते' इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृत्वाद्य- भ्युपगमे, प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिः अज्ञानाभाव- श्चात्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभयदोषोपप- त्तिः, आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मि- णाम् । यथा अग्नेर्ज्वलनं तृणादिसंयोगजत्वात्, तद्वत् । न तु नित्यस्यामूर्तस्यासंयोगविभागधर्मिणः संयोगजदृष्टथाद्य- नित्यधर्मवत्त्वं संभवति । तथा च श्रुतिः 'न हि द्रष्टुष्टेवि परिलोपो विद्यते' इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनिं- त्या दृष्टिः, नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्रस्या: ऐतरेयोपनिषद्भाष्ये नित्या, नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बा- ह्याबह्ये । एवं ह्येव चेयं श्रुतिरुपपन्ना भवति - 'दृष्टेष्टा श्रुतेः श्रोता' इत्याद्या । लोकेऽपि प्रसिद्धं चक्षुषस्तिमिराग- मापाययोः नष्टा दृष्टिः जाता दृष्टिः इति चक्षुर्दृष्टेरनित्यत्वम् । तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्ध- मेव लोके । वदति ह्युद्धृतचक्षुः स्वप्नेऽद्य मया भ्राता दृष्ट इति । तथा अवगतबाधिर्यः स्वप्ने श्रुतो मन्त्रोऽद्येत्यादि । य- दि चक्षुः संयोगजैवात्मनो नित्या दृष्टिस्तन्नाशे नश्येत् तदा " उद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । ' न हि द्रष्टुर्दृष्टे : ' इत्याद्या च श्रुतिः अनुपपन्ना स्यात् । ' तच्चक्षुः पुरुषे येन स्वप्नं पश्यति' इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानि- त्यदृष्टेर्ग्राहिका । वाह्यदृष्टेश्च उपजनापायाद्यनित्यधर्मवत्त्वात् ग्राहिकाया आत्मदृष्ठेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनि- मित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तु- विषयदृष्टिरपि भ्रमतीव, तद्वत् । तथा च श्रुतिः ' ध्यायती- व लेलायतीव' इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यम- यौगपद्यं वा अस्तिं । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां च आगमसंप्रदायवर्जितत्वात् अनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना च चतुर्थः खण्डः । एतन्निमित्तैव । तथा अस्ति, नास्ति, इत्याद्याश्च यावन्तो वा- ङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेनिं- विशेषायाः । अस्ति नास्ति, एकं नाना, गुणवदगुणम्, जा- नाति न जानाति, क्रियावदक्रियम्, फलवदफलम्, सबीजं निर्बीजम्, सुखं दु:खम्, मध्यममध्यम्, शून्यमशून्यम्, प- रोऽहमन्यः, इति वा सर्ववाक्प्रत्ययागोचरे स्वरूपे यो विक- ल्पयितुमिच्छति, स नूनं खमपि चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुम् ; जले खे च मीनानां व- यसां च पदं दिदृक्षते; 'नेति नेति' ' यतो वाचो निवर्तन्ते ' इत्यादिश्रुतिभ्यः, ' को अद्धा वेद' इत्यादिमन्त्रवर्णात् । कथं तर्हि तस्य स म आत्मेति वेदनम् ; ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायि- कामाचक्षते— कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः क- स्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कंचिदुपेत्याह- ब्रवीतु भवान्कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वा आह- क्रमेण वोधयिष्यामीति । स्थावराद्यात्मभावम- पोह्य न त्वममनुष्य इत्युक्त्वोपरराम । स तं मुग्धः प्रत्याह — भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव, किं न .: ऐतरेयोपनिषद्भाष्ये , ' "यत्र बोधयतीति । तादृगेव तद्भवतो वचनम् । नास्यमनुष्य इत्यु- केsपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः, स कथं मनु- ध्योऽसीत्युक्तोऽपि मनुष्यत्वमात्मनः प्रतिपद्येत ? तस्माद्यथा- शास्त्रोपदेश एवात्मावबोधविधिः, नान्यः । न ह्यग्नेर्दा तृणादि अन्येन केनचिद्दग्धुं शक्यम् । अत एव शास्त्रमात्म- स्वरूपं बोधयितुं प्रवृत्तं सत् अमनुष्यत्वप्रतिषेधेनेव 'नेति नेति' इत्युक्त्वोपरराम । तथा ' अनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूः' इत्यनुशासनम् ; 'तत्त्वमसि' त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्येवमाद्यपि च । यावदयमेव यथोक्तमिममात्मानं न वेत्ति, तावदयं बाह्या- नित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मा- नात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः पुन- रावर्तमानः अविद्याकामकर्मवशात्संसरति । स एवं संस- रन् उपात्तदेहेन्द्रियसंघातं त्यजति । त्यक्त्वा अन्यमुपादत्ते । पुनः पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्त- मान: काभिरवस्थाभिर्वर्तते इत्येतमर्थं दर्शयन्त्याह श्रुतिः वैराग्यहेतो:- -- पुरुषे ह वा अयमादितो गर्भो भवति । यदेतदेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभू- `चतुर्थः खण्डः । तमात्मन्येवात्मानं बिभर्ति तद्यथा स्त्रि- यां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ १ ॥ - अयमेवाविद्याकामकर्माभिमानवान यज्ञादिकर्म कृत्वा अ- स्माल्लोकाद्धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्मा वृष्टया - दिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः । तस्मि न्पुरुषे ह वै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवतीति एतदाह — यदेतत्पुरुषे रेतः, तेन रूपेणेति । तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्य: अ- ङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेज: साररूपं शरीरस्य संभूतं परिनिष्पन्नं तत् पुरुषस्य आत्मभूतत्वादात्मा, तमा- त्मानं रेतोरूपेण गर्भीभूतम् आत्मन्येव स्वशरीर एव आ- त्मानं विभर्ति धारयति । तत् रेतः स्त्रियां सिञ्चति यदा, यदा यस्मिन्काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सि- चति उपगच्छन्, अथ तदा एनत् एतद्रेत: आत्मनो गर्भ- रूपं जनयति पिता । तत् अस्य पुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथ- मावस्थाभिव्यक्ति: । तदेतदुक्तं पुरस्तात् 'असावात्मा अमु- मात्मानम्' इत्यादिना ॥ ऐतरेयोपनिषद्भाष्ये तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सा- स्यैतमात्मानमत्र गतं भावयति ॥ २ ॥ तत् रेतः यस्यां स्त्रियां सिक्तं सत्तस्याः स्त्रियाः आत्मभूयम् आत्माव्यतिरेकतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि, तथा तद्वदेव । तस्माद्धेतोः एनां मातरं स गर्भो न हिनस्ति पिटकादिवत् । यस्मात्स्तनादि स्वाङ्गवदात्मभूयं गत- म्, तस्मान्न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वनी एतम् अस्य भर्तुरात्मानम् अत्र आत्मन उदरे गतं प्रविष्टं बुद्धा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादि- परिहारम् अनुकूलाशनाद्युपयोगं च कुर्वती ॥ सा भावयित्री भावयितव्या भवति तं स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भा- वयत्येषां लोकानां संतत्या एवं संतता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ३ ॥ चतुर्थः खण्डः । सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भाव- यितव्या वर्धयितव्या च भर्त्रा भवति । न ह्युपकारप्रत्युप- कारमन्तरेण लोके कस्यचित्केनचित्संबन्ध उपपद्यते । तं गर्भ स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्रा- ग्जन्मनः । सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः अधि ऊर्ध्व जन्मनः जातं कुमारं जातकर्मादिना पिता भाव- यति । सः पिता यत् यस्मात् कुमारं जन्मनः अधि ऊर्ध्व अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति, तत् आत्मान- मेव भावयति ; पितुरात्मैव हि पुत्ररूपेण जायते । तथा ह्युक्तम् 'पतिर्जायां प्रविशति' इत्यादि । तत्किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयतीति ? उच्यते — एषां लोकानां संतत्यै अविच्छेदायेत्यर्थः । विच्छिद्येरन्दीमे लोका: पुत्रो- त्पादनादि यदि न कुर्युः । एवं पुत्त्रोत्पादनादिकर्मा- विच्छेदेनैव संतताः प्रबन्धरूपेण वर्तन्ते हि यस्मात् इमे लोकाः, तस्मात्तदविच्छेदाय तत्कर्तव्यम् ; न मोक्षायेत्यर्थः । तत् अस्य संसारिण: कुमाररूपेण मातुरुदराद्यन्निर्गमनम्, तत् रेतरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥ सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायमितर आत्मा ऐतरेयोपनिषद्भाष्ये कृतकृत्यो वयोगतः प्रैति स इतः प्रय- न्नेव पुनर्जायते तद्स्य तृतीयं जन्म ॥ ४ ॥ अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः क- र्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्क - र्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च संप्रत्ति- विद्यायां वाजसनेयके ' पित्रानुशिष्टोऽहं ब्रह्माहं यज्ञ इत्यादि प्रतिपद्यते' इति । अथ अनन्तरं पुत्रे निवेश्यात्मनो भारम् अस्य पुत्रस्य इतरः अयं यः पित्रात्मा कृतकृत्य:, कर्तव्यात् ऋणत्रयात् विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतः गतवयाः जीर्णः सन् प्रैति म्रियते । सः इतः अस्मात् प्रयन्नेव शरीरं परित्यजन्नेव, तृणजलूकादिवत्, देहान्तरमुपाददानः कर्मचि - तम्, पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत्, तत् तृतीयं जन्म । ननु संसरत: पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म ; तस्यैव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम्; तस्यैव तृतीये जन्मनि वक्तव्ये, प्रयतस्तस्य पितुर्यज्जन्म, तत्तृतीयमिति कथ- मुच्यते ? नैष दोषः, पितापुत्रयोरेकात्मत्वस्य विवक्षितत्वात् । सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्नेव पुनर्जायते यथा पिता । तदन्यत्रोक्तमितरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः । पितापुत्रयोरेकात्मत्वात् ॥ चतुर्थः खण्डः । तदुक्तमृषिणा । गर्भे तु सन्नन्वेषामवे- दमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निर- दीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ ५॥ एवं संसरन्नवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वो लोकः संसारसमुद्रे निपतितः कथंचिद्यदा श्रुत्युक्तमा- त्मानं विजानाति यस्यां कस्यांचिदवस्थायाम्, तदैव मुक्तस- र्वसंसारबन्धनः कृतकृत्यो भवतीत्येतद्वस्तु, तत् ऋषिणा म- न्त्रेणापि उक्तमित्याह— गर्भे नु मातुर्गर्भाशय एव सन्, नु इति वितर्के । अनेकजन्मान्तरभावनापरिपाकवशात् एषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अन्ववेदम् अहम् अहो अनुबुद्धवानस्मीत्यर्थः । शतम् अनेकाः बह्वयः मा मां पुरः आयसी: आयस्यो लोहमय्य इवा- भेद्यानि शरीराणीत्यभिप्रायः । अरक्षन् रक्षितवत्यः संसार- पाशनिर्गमनात् अधः । अथ श्येन इव जालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ एव शयानो वामदेवः ऋषिः एवमुवाच एतत् ॥ 1 स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उ- ऐतरेयोपनिषद्भाष्ये त्क्रम्यामुष्मिन्खर्गे लोके सर्वान्कामाना- पत्वामृतः समभवत्समभवत् ॥ ६॥ इति चतुर्थः खण्डः ॥ सः वामदेवः ऋषिः यथोक्तमात्मानम् एवं विद्वान् अ- स्मात् शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवद- निर्भेद्यस्य जननमरणाद्यनेकानर्थशता विष्टशरीरप्रबन्धस्य पर- मात्मज्ञानामृतोपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीजा- विद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः पर- मात्मभूतः सन् अधोभवात्संसारात् उत्क्रम्य ज्ञानावद्योति- तामल सर्वात्मभावमापन्नः सन् अमुष्मिन् यथोक्ते अजरेऽमरे- ऽमृतेऽभये सर्वज्ञेऽपूर्वेऽनपरेऽनन्तरेऽबाह्ये प्रज्ञानामृतैकरसे स्वर्गे लोके स्वस्मिन्नात्मनि स्त्रे स्वरूपे अमृतः समभवत् आ- त्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वा इत्य- र्थः । द्विर्वचनं सफलस्य सोदाहरणस्य आमज्ञानस्य परि- समाप्तिप्रदर्शनार्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ऐतरेयोपनिषद्भाष्ये द्वितीयोऽध्यायः ॥ ऐतरेयोपनिषद्भाष्यम् तृतीयोऽध्यायः तृतीयोऽध्यायः ॥ ब्रह्मविद्यासाधनकृतसर्वात्मभा वफलावाप्तिं वामदेवाद्याचार्यपरम्परया पारम्पर्यश्रुत्यावद्योत्यमानां ब्रह्मवित्प- रिषद्यत्यन्तप्रसिद्धाम् उपलभमाना मु- मुक्षवो ब्राह्मणा अधुनातनाः ब्रह्म जिज्ञासवः अनित्यात्साध्यसाधनलक्ष- णात्संसारात् आ जीवभावाद्व्याविवृत्सवो विचारयन्तः अन्यो- - न्यं पृच्छन्ति । कथम् ?- कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति 'येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ १ ॥ यमात्मानम् अयमात्मा इति साक्षात् वयमुपास्महे कः स आत्मेति ; यं चात्मानमयमात्मेति साक्षादुपासीनो ऐतरेयोपनिषद्भाष्ये वामदेव: अमृतः समभवत्; तमेव वयमप्युपास्महे को नु खलु स आत्मेति एवं जिज्ञासापूर्वमन्योन्यं पृच्छताम् अतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत -- तम् 'प्रपदाभ्यां प्रापयत ब्रह्मेमं पुरुषम् ' ' स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत' एतमेव पुरुषं द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने -- इति । ते चास्य पिण्डस्यात्म- भूते । तयोरन्यतर आत्मोपास्यो भवितुमर्हति । योऽत्रो- पास्यः, कतर: स आत्मा इति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः । पुनस्तेषां विचारयतां विशेषविचा- रणास्पदविषया मतिरभूत् । कथम्? द्वे वस्तुनी अस्मि- न्पिण्डे उपलभ्येते -- अनेकभेदभिन्नेन करणेन येनोपल- भते, यश्चैक उपलभते, करणान्तरोपलब्धिविषयस्मृतिप्रति- संधानात् । तत्र न तावत् येनोपलभते, स आत्मा भवि- तुमर्हति । केन पुनरुपलभत इति, उच्यते-- येन वा चक्षु- र्भूतेन रूपं पश्यति, येन वा शृणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्ये- वमाद्याम्, साध्वसाध्विति च येन वा जिल्हाभूतेन स्वादु च अस्वादु च विजानातीति ॥ पञ्चमः खण्डः । यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नाम- धेयानि भवन्ति ॥ २ ॥ किं पुनस्तदेकमनेकधा भिन्नं करणमिति, उच्यते । यदुक्तं पुरस्तात् प्रजानां रेतो हृदयं हृदयस्य रेतो मनः मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः, तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा । एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति, श्रोत्रभूतेन शृणोति, ब्राणभूतेन जिघ्रति, वाग्भूतेन वदति, जिह्वाभूतेन रसयति, स्वेनैव विकल्पना- रूपेण मनसा संकल्पयति, हृदयरूपेणाध्यवस्यति । तस्मा- त्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुप- लब्धुः । तथा च कौषीतकिनाम् ' प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति' इत्यादि । वाजसनेयके च- " मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि विजानाति' इत्यादि । तस्माद्धृदयमनोवाच्यस्य सर्वोपलब्धि- करणत्वं प्रसिद्धम् । तदात्मकश्च प्राणः 'यो वै प्राणः, सा s. C. 11. 19 ऐतरेयोपनिषद्भाष्ये प्रज्ञा या वै प्रज्ञा स प्राण:' इति हि ब्राह्मणम् । करण संहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्मा- द्यत्पद्भयां प्रापद्यत, तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुण- भूतत्वान्नैव तद्वस्तु ब्रह्म उपास्य आत्मा भवितुमर्हति । पा- रिशेध्याद्यस्योपलब्धुरुपलब्ध्यर्था एतस्य हृदय मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः, स उपलब्धा उपास्य आत्मा नोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः । तदन्तःकरणो- पाधिस्थस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषया:, ता इमा उच्य- ते - संज्ञानं संज्ञप्तिः चेतनभावः ; आज्ञानम् आज्ञप्ति: ईश्वरभाव: ; विज्ञानं कलादिपरिज्ञानम्; प्रज्ञानं प्रज्ञप्तिः प्रज्ञता; मेधा ग्रन्थधारणसामर्थ्यम् दृष्टि: इन्द्रियद्वारा सर्वविषयोपलब्धिः; धृतिः धारणम् अवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति ; ' धृत्या शरीरमुद्वहन्ति' इति हि वदन्ति; मति: मननम् ; मनीषा तत्र स्वातन्त्र्यम्; जूति: चेतसो रुजादिदुःखित्वभावः; स्मृतिः स्मरणम् ; संकल्पः शुक्लकृष्णा- दिभावेन संकल्पनं रूपादीनाम्; ऋतुः अध्यवसायः ; असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः; कामः असंनिहितवि- षयाकाङ्क्षा तृष्णा ; वशः स्त्रीव्यतिकराद्यभिलाषः ; इत्येव- पञ्चमः खण्डः । माद्या अन्तःकरणवृत्तयः उपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञा- नरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि संज्ञानादीनि सर्वाण्येवैतानि प्रज्ञप्तिमात्रस्य प्रज्ञानस्य नामधे - यानि भवन्ति, न स्वतः साक्षात् । तथा चोक्तम् ' प्राणन्नेव प्राणो नाम भवति' इत्यादि ॥ एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमा- नि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरु- षा हस्तिनो यत्किंचेदं प्राणि जङ्गमं च प- तत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥ स एषः प्रज्ञानरूप आत्मा ब्रह्म अपरं सर्वशरीरस्थः प्रा- णः प्रज्ञात्मा अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेद्गतसू- ऐतरेयोपनिषद्भाष्ये र्यप्रतिबिम्बवत् हिरण्यगर्भः प्राणः प्रज्ञात्मा । एष एव इन्द्रः गुणात्, देवराजो वा । एष प्रजापतिः यः प्रथमजः शरीरी ; यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाता:, स प्रजापतिरेष एव । येऽपि एते अग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि म- हाभूतानि अन्नान्नादत्वलक्षणानि एतानि । किंच, इमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि, इवशब्दः अनर्थकः, सर्पा- दीनि । बीजानि कारणानि इतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि ? उच्यन्ते – अण्डजानि पक्ष्या- दीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजानि यूका- दीनि, उद्भिज्जानि च वृक्षादीनि । अश्वाः गाव: पुरुषाः हस्तिन: अन्यच्च यत्किंचेदं प्राणि । किं तत् ? जङ्गमं यच्चलति पद्भयां गच्छति ; यश्च पतत्रि आकाशेन पतनशीलम् ; यच्च स्थाव- रम् अचलम् ; सर्वे तत् अशेषत: प्रज्ञानेत्रम्, प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयतेऽनेनेति नेत्रम्, प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञाने - त्रम् ; प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम्, प्र- ज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् ; प्रज्ञाचक्षुर्वा सर्व एव लोक: 5: । प्रज्ञा प्रतिष्ठा सर्वस्य जगत: । तस्मात् प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सत् निरञ्जनं निर्म- पञ्चमः खण्डः । लं निष्क्रियं शान्तम् एकम् अद्वयं नेति नेतीति सर्वविशेषा- पोहसंवेद्यं सर्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधिसं- बन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नि- यन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगद्बीजभूतबु- द्धद्यात्माभिमानलक्षणं हिरण्यगर्भसंज्ञं भवति । तदेव अन्तर- ण्डोद्भूतप्रथमशरीरोपाधिमत् विराट्प्रजापतिसंज्ञं भवति । तदुद्भूताग्न्याद्युपाधिमत् देवतासंज्ञं भवति । तथा विशेष- शरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मण: । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्ता- र्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते च अनेकधा । ' एत- मेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणम- परे ब्रह्म शाश्वतम्' इत्याद्या स्मृतिः ॥ स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्र- म्यामुष्मिन्स्वर्गे लोके सर्वान्कामाना- प्त्वामृतः समभवत्समभवत् ॥ ४ ॥ इति पञ्चमः खण्डः ॥ स वामदेवोऽन्यो वा एवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना, येनैव प्रज्ञेन आत्मना पूर्वे विद्वांसोऽमृता अभूवन् तथा ऐतरेयोपनिषद्भाष्ये अयमपि विद्वान् एतेनैव प्रज्ञेन आत्मना अस्मात् लोकात् उत्क्रम्येत्यादि व्याख्यातम् । अस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्कामान् आप्त्वा अमृतः समभवत्समभव- दित्यमिति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ऐतरेयोपनिषद्भाष्यं संपूर्णम् ॥