THE WOR Sri Sankaracharya ALAM N THE WORKS OF SRI SANKARACHARYA VOLUME 4 SRI VANI VILAS PRESS W W W W WOW WOWOWOWOWOWAY WWW CONTENTS. ISAVASYOPANISHAD-BHASHYA. KENOPANISHAD PADA BHASHYA VAKYA BHASHYA KATHOPANISHAD-BHASHYA CHAPTER 1. CHAPTER 2. PRASNOPANISHAD-BHASHYA PAGE. 1 29 79 127 187 233 विषयाः ईशावास्योपनिषद्भाष्यम् केनोपनिषत्पदभाष्यम् केनोपनिषद्वाक्यभाष्यम् कठोपनिषद्भाष्यम् अध्याय: १. अध्यायः २. प्रश्नोपनिषद्भाष्यम् : : : पृष्ठम् THE UPANISHAD-BHASHYA ཡ་་་ VOL. 1. ISA, KENA, KATHA & PRASNA. 4444 BEE ॥ श्रीः ॥ उपनिषद्भाष्यम् श्रीमच्छंकरभगवत्पूज्यपादैः विरचितम् । प्रथमो भागः ॥ ईशकेनकठप्रश्नाः ॥ ॥ >ft: ॥ ॥ विषयाक्रमणिका ॥ नावास्योपनिषद्भाष्यम् १ - २८ ईशेत्यादीनां मन्त्राणां कर्मशेषत्वशङ्काव्युदसनपूर्वकं व्या- ख्येयत्वोपयोग्यनुबन्धप्रदर्शनम् सर्वमीश्वरात्मकमेवेति आत्मज्ञानेन सर्वमाच्छादनीयमिति च तत्त्वोपदेशः एवं विचारादिप्रयत्नवतः सर्वकर्मसंन्यासविधिः समुच्चयवादिनां शङ्कोद्भावनम् समुच्चयवादिखण्डनम् आत्मतत्त्वस्वरूपप्रतिपादनम् मातरिश्वपदस्य लक्ष्यार्थमादाय तात्पर्यप्रदर्शनम् आत्मज्ञानिनः शोकमोहासंभव प्रदर्शनपुरःसरं फलप्रति - पादनम् पूर्वप्रतिपादितार्थदृढीकरणायाक्षेपसमाधानपूर्वकं निगम- नन् ... विद्याकर्मणोः समुच्चयकारणत्वेनावान्तरफलभेदोपन्यासः S. U. O [ २ ] व्याकृताव्याकृतोपासनाविधिफलप्रदर्शनम् उपासकस्य मार्गयाचनाप्रदर्शनम् विचारबीजोपन्यासपूर्वकं संक्षेपतो विचारः केनोपनिषद्भाष्यम् प्रथमः खण्डः . २९–१२२ ३३- ४९, ८३ - ९६ ... ... ... नित्यकर्मणां ज्ञानोपयोगित्वकथनम् वैराग्यार्थे काम्यप्रतिषिद्धकर्मणां फलप्रदर्शनम् कर्मकाण्डस्यान्यफलकत्वप्रदर्शनद्वारा तत्खण्डनम् प्रश्नप्रतिवचनरूपेण प्रतिपादनस्य तात्पर्यवर्णनम् इषितप्रेषितपदार्थयोः पृथक्फलवत्त्वप्रदर्शनाय शङ्कासमा- धाने श्रोत्रस्य श्रोत्रमित्यादिपदार्थवर्णनम् अविषयमपि ब्रह्मागमेन प्रत्याययितुं शक्यमित्यागमप्रद- र्शनम् लौकिकतार्किकमीमांसाप्रतिपत्तिविरोधमाशङ्कय तत्परि- ૪. हार: द्वितीयः खण्डः ५०-६०; ९७–१०४ विपरीतबुद्धिव्यपोहनाय शिष्यं प्रति गुरोर्वचनम् ... तृतीयः खण्डः ६१-६७ १०५-११६ आख्यायिकारूपेण प्रवृत्तायाः श्रुतेस्तात्पर्यवर्णनम् ... [3] चतुर्थः खण्डः गुणोपासनं तत्फलं च ६८-७६; ११७-१२१ उपनिषदं भो ब्रूहीति प्रष्टुः शिष्यस्याभिप्रायकथनम्.. उपनिषत्प्राप्त्युपायभूततपआदिप्रदर्शनम् ठोपनिषद्भाष्यम् थमोऽध्यायः ...१२३–२३२ प्रथमा वल्ली उपनिषच्छब्दार्थनिरुक्तिः नचिकेतसं प्रति वरत्रयप्रदानम् प्रथमवरत्वेन मृत्युं प्रति पितृसौमनस्यप्रार्थनम् स्वर्गस्वरूपप्रदर्शनम् स्वर्गसाधनाग्निविषयकद्वितीयप्रश्नः ... १२७ -१८६ १२९ - १५१ ... वरत्रयव्यतिरेकेणान्यवरप्रदानम् निःश्रेयससाधनात्मज्ञानविषयकस्तृतीयः प्रश्नः ... वैराग्यीकरणाय प्रलोभनम् ... द्वितीया वल्ली १५२-१७१ अभ्युदयनिःश्रेयसविभागप्रदर्शनपूर्वकं तयोरन्यतरस्यैव परमपुरुषार्थोपयोगित्वकथनम् ... अन्यत्र धर्मादित्यादिना पृष्टस्य वक्तव्यस्य चात्मनः स्व- रूपप्रदर्शनम् ... निर्गुण ब्रह्मण्युपसंहारः [ 8 ] ... तृतीया वल्ली प्राप्तृप्राप्तव्यादिविवेकाय द्वयोरात्मनोरुपन्यासः प्रतिपत्तिसौकर्याय रथादिरूपककल्पना अधिगन्तव्यपदप्रदर्शनम् १७२ - १८६ ... ... ... ... इन्द्रियमनोबुद्धिपरत्वेन सर्वस्य प्रत्यगात्मत्वप्रदर्शनम् आत्मतत्त्वप्रतिपत्त्युपायप्रदर्शनम् द्वितीयोऽध्यायः चतुर्थी बल्ली १८७-२३१ १८९ - २०१ अङ्गुष्ठपरिमाणस्य जीवस्य ब्रह्मरूपत्वप्रत्यायनपरश्रुतिवि- वरणम् पञ्चमी वल्ली ... २०२-२१४ उपायान्तरेण ब्रह्मज्ञापनाय शरीरस्य ब्रह्मपुरत्वेन कल्प- नम् चेतनशेषत्वाच्छरीरस्य तद्विलक्षणः शेष्यन्यः सिद्ध इत्या- त्मास्तित्वनिरूपणम् प्राणापानादीनां जीवनाहेतुत्वप्रदर्शनम् परमानन्दे प्रमाणत्वेन विद्वदनुभव प्रदर्शनम् .. ब्रह्मणो दुःखाभावप्रदर्शनम् षष्ठी वल्ली [ 4 ] २१५-२३१ आत्मतत्त्वबोधनाप्रकारस्तत्प्रयोजनं च बुद्ध्यादीनामात्मालिङ्गत्वप्रदर्शनम् ... अलिङ्गस्यापि ब्रह्मणो मननव्यापारेण दर्शनसमर्थनम् २२२ प्रतिबन्धकान्तरापनयनायोपायान्तरप्रदर्शनम् निर्विशेषब्रह्मविदां गत्यभावं प्रदर्श्य मन्दाधिकारिणां गतिप्रदर्शनम् विद्यास्तुत्यर्थाख्यायिकार्थोपसंहारः प्रश्नोपनिषद्भाष्यम् प्रथमः प्रश्नः ब्राह्मणेन पुनरुक्तस्य प्रयोजनकथनम् . २३३-३०७ २३७-२५० गुरुप्रतिवचनस्यानुद्धतत्वप्रदर्शनपरतया तात्पर्यवर्णनम् २३९ रयिप्राणयोः प्रजापतित्वार्थ सर्वात्मत्वप्रदर्शनम् इष्टापूर्तादिकारिणां दक्षिणायनोपलक्षितचन्द्र प्राप्तिप्रदर्श- नम् विद्यावतां समुच्चयवतां चोत्तरायणोपलक्षितादित्यप्राप्ति- प्रदर्शनम् द्वितीयः प्रश्नः कुतो ह वेत्यादिना पृष्टस्य प्रतिवचनम् कार्यकरणलक्षणानां देवानां स्वमाहात्म्यप्रकटनम् ... २५१-२५९ ... ૨૪૮ ... [ ६ ] मुख्यस्य प्राणस्य प्रतिवचनम् मुख्यप्राणस्य श्रैष्ठ्यप्रतिपादनम् प्राणमाहात्म्यदर्शनेन प्रीतानां देवानां स्तुतिप्रदर्शनम् तृतीयः प्रश्नः दृष्टान्तपूर्वकं प्राणोत्पत्तिकथनम् आत्मानं वा प्रविभज्येत्यस्य सदृष्टान्तमुत्तरम् पायूपस्थादिष्वात्मविभागप्रदर्शनम् कथं बाह्यमभिधत्ते इत्यादिना पृष्टस्योत्तरम् चतुर्थः प्रश्नः प्राणस्वरूपं निर्धार्य तदुपासनविधानं फलप्रदर्शनं च परविद्यापरतया प्रश्नत्रयतात्पर्यवर्णनम् कानि स्वपन्तीत्यस्य प्रश्नस्योत्तरप्रदर्शनम् कानि जाग्रतीत्यस्योत्तरम्, प्राणादीनामग्निसादृश्य- कल्पनं च समानस्य होतृत्वेन, उदानमनसोरिष्टफलयजमानत्वेन च व्यपदेश: **** २६०-२६७ २६८-२८१ ... विद्वत्तास्तुतिरिति तात्पर्यवर्णनपूर्वकं कतर एष इत्य- स्योत्तरम् शङ्का परिहारौ कस्यैतत्सुखं भवतीत्यस्योत्तरप्रदर्शनम् मन्नु सर्वे इत्यादिना पृष्टस्योत्तरम् ... ... एकत्वविदः फलनिरूपणम् पञ्चमः प्रश्नः [ ७ ] मन्दाधिकारिणामुपासनां विधातुं प्रश्नारम्भः ... ... २८२-२८८ परापरोभयप्राप्तिसाधनतया ओंकारोपासनाप्रदर्शनम्... केवलैकमात्रोपासकस्य मनुष्यलोकप्राप्तिकथनम् केवलद्विमात्रोपासकस्य सोमलोकप्राप्तिकथनम् वृत्त्यभावकथनं च षष्ठः प्रश्नः .. ... ... २८५. परब्रह्मविषयोंकारोपासनाविधानम्, उपासकस्य पुनरा- कलाभिरात्मप्रदर्शनस्य तात्पर्यवर्णनम् २८९–३०६ ... २९.१ प्रसङ्गान्नैयायिकमतमुपन्यस्य तत्खण्डनम् ज्ञानस्याव्यभिचारित्वोपपादनम् चैतन्यस्य नित्यत्वं प्रसाध्यारोपाधिष्ठानत्वसंभवप्रदर्श- नम् सांख्यानां शङ्काविष्करणम् स्वतोऽकर्तुरपि औपाधिककर्तृत्वमादायेक्षितृत्वसमर्थ - नम् सदृष्टान्तं कलाप्रदर्शनम २९.४ ॥ 30 ॥ ईशावा योपनिषद्भाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । S. U. 1 पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ AA ॥ ईशावास्योपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । शा वास्यम्' इत्यादयो मन्त्राः कर्मस्व- विनियुक्ताः तेषामकर्मशेषस्यात्मनो याथा- त्म्यप्रकाशकत्वात् । याथात्म्यं चात्मनः शु- द्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्व सर्वगत- त्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्य वा कर्तृभो- रूपं वा, येन कर्मशेषता स्यात्; सर्वासामुपनिषदामात्म- याथात्म्यनिरूपणेनैवोपक्षयात्, गीतानां मोक्षधर्माणां चैवं- ईशावास्योपनिषद्भाष्यम् । परत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्ध- त्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहि- तानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुणित्वाद्यनधिकारप्रयो- जकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति धि- कारविदो वदन्ति । तस्मादेते मत्रा आत्मनो याथात्म्यप्रका- शनेन आत्मविषयं स्वाभाविक कर्मविज्ञानं निवर्तयन्तः शोक- मोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पाद- यन्तीति । एवमुक्ताधिकार्यभिधेयसंबन्धप्रयोजनान्मत्रान्सं- क्षेपतो व्याख्यास्यामः- -- ईशा वास्यमिद‍ सर्व यत्किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥ ईशा ई इति ईट् तेन ईशा । ईशिता परमेश्वरः पर- मात्मा सर्वस्य । स हि सर्वमीष्टे सर्वजन्तूनामात्मा सन् प्रत्यगात्मतया । तेन स्वेन रूपेणात्मना ईशा वास्यम् आच्छा- दनीयम् । किम् ? इदं सर्वं यत्किं च यत्किंचित् जगत्यां ईशावास्योपनिषद्भाष्यम् । पृथिव्यां जगत् तत्सर्वम् । स्वेनात्मना ईशेन प्रत्यगात्मतया अहमेवेदं सर्वमिति परमार्थसत्यरूपेणानृतमिदं सर्व चराचर- माच्छादनीयं परमात्मना । यथा चन्दनागर्वादेरुदकादि- संबन्धजक्केदादिजमौपाधिकं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेना- च्छाद्यते स्वेन पारमार्थिकेन गन्धेन, तद्वदेव हि स्वात्मन्य- ध्यस्तं स्वाभाविकं कर्तृत्वभोक्तृत्वादिलक्षणं जगद्वैतरूपं पृथि- व्याम् जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमी - श्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यासे एवाधिकारः, न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थः । न हि त्यक्तो मृतः पुत्रो भृत्यो वा आत्मसंबन्धिताभावादात्मानं पालय- ति । अतस्त्यागेनेत्ययमेवार्थः । भुञ्जीथाः पालयेथाः । एवं त्यक्तैषणस्त्वं मा गृधः गृधिम् आकाङ्क्षां मा कार्षीः धनविष- याम् । कस्य स्वित् कस्यचित् परस्य स्वस्य वा धनं मा काङ्क्षीरित्यर्थः । स्विदित्यनर्थको निपातः । अथवा, मा गृधः । कस्मात् ? कस्य स्विद्धनम् इत्याक्षेपार्थः । न कस्य- चिद्धनमस्ति यनुध्येत । आत्मैवेदं सर्वमितीश्वरभावनया सर्वे त्यक्तम् । अत आत्मन एवेदं सर्वम्, आत्मैव च सर्वम् । अतो मिथ्याविषयां गृधिं मा कार्षीरित्यर्थः ॥ ' एवमात्मविदः ईशावास्योपनिषद्भाष्यम् । पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अनात्मज्ञतया - त्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः--- कुर्वशेवेह कर्माणि जिजीविषेच्छतः समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥ कुर्वन्नेव निर्वर्तयन्नेव इह कर्माणि अग्निहोत्रादीनि जिजी- विषेत् जीवितुमिच्छेत् शतं शतसंख्याकाः समाः संवत्सरा- न् । तावद्धि पुरुषस्य परमायुर्निरूपितम् । तथा च प्राप्तानु- वादेन यज्जिजीविषेच्छतं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्वि- धोयते । एवम् एवंप्रकारे त्वयि जिजीविषति नरे नरमात्रा - भिमानिनि इत: एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो वर्त- मानात्प्रकारात् अन्यथा प्रकारान्तरं नास्ति, येन प्रकारेणाशु- भं कर्म न लिप्यते ; कर्मणा न लिप्यस इत्यर्थः । अतः शा- स्त्रविहितानि कर्माण्यग्निहोत्रादीनि कुर्वन्नेव जिजीविषेत् ॥ कथं पुनरिदमवगम्यते-- पूर्वेण मन्त्रेण संन्यासिनो ज्ञान- निष्ठोक्ता, द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ? उच्यते-- 4 ईशावास्योपनिषद्भाष्यम् । ज्ञानकर्मणोर्विरोधं पर्वतवदकम्प्यं यथोक्तं न स्मरसि किम् ? इहाप्युक्तम्- यो हि जिजीविषेत्स कर्माणि कुर्वन्नेव इति ; ' ईशा वास्यमिदं सर्वम्', 'तेन त्यक्तेन भुञ्जीथा: मा गृधः कस्य स्विद्धनम्' इति च । 'न जीविते मरणे वा गृधि कुर्वीतारण्यमियात् इति पदं ततो न पुनरेयात्' इति च संन्यासशासनात् । उभयोः फलभेदं च वक्ष्यति । 'इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुर- स्तात्संन्यासश्च'; तयोः संन्यास एवातिरेचयति- 'न्यास एवात्यरेचयत्' इति तैत्तिरीयके । 'द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तिश्च विभा- षितः' इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचा- र्येण भगवता । विभागं चानयोः प्रदर्शयिष्यामः ॥ अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते-- असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥ असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुराः । ईशावास्योपनिषद्भाष्यम् । तेषां च स्वभूता लोका असुर्या : नाम । नामशब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि । अन्धेन अदर्शनात्मकेनाज्ञानेन तमसा आवृताः आच्छादिताः । तान् स्थावरान्तान्, प्रेत्य त्यक्त्वेमं देहम् अभिगच्छन्ति यथाकर्म यथाश्रुतम् । ये के च आत्महन: आत्मानं घ्नन्तीत्यात्महनः । के ? ते जनाः ये- विद्वांसः । कथं ते आत्मानं नित्यं हिंसन्ति ? अविद्यादोषेण विद्यमानस्यात्मनस्तिरस्करणात् । विद्यमानस्यात्मनो यत्कार्य फलमजरामरत्वादिसंवेदनादिलक्षणम्, तत् हतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जना आत्महन इत्युच्यन्ते । तेन ह्यात्महननदोषेण संसरन्ति ते ॥ यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण वि- द्वांसो मुच्यन्तेऽनात्महनः, तत्कीदृशमात्मतत्त्वमित्युच्यते-- अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्भावतोऽन्यानत्येति तिष्ट- तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ अनेजत् न एजत् । ' एजृ कम्पने', कम्पनं चलनं स्वा- ईशावास्योपनिषद्भाष्यम् । वस्थाप्रच्युतिः, तद्वर्जितम्, सर्वदा एकरूपमित्यर्थः । तच्च एकं सर्वभूतेषु । मनसः संकल्पादिलक्षणात् जवीयो जववत्तरम् । कथं विरुद्धमुच्यते-- ध्रुवं निश्चलमिदम्, मनसो जवीय इति च ? नैष दोषः, निरुपाध्युपाधिमत्त्वेनोपपत्तेः । तत्र निरुपाधिकेन स्वेन रूपेणोच्यते - अनेजदेकम् इति । मन- सः अन्तःकरणस्य संकल्पविकल्पलक्षणस्योपाधेरनुवर्तनात् । इह देहस्थस्य मनसो ब्रह्मलोकादिदूरस्थसंकल्पनं क्षणमा - त्राद्भवतीत्यतो मनसो जविष्ठत्वं लोकप्रसिद्धम् । तस्मिन्म- नसि ब्रह्मलोकादीन् द्रुतं गच्छति सति, प्रथमप्राप्त इवात्मचे- तन्याभासो गृह्यते । अतः मनसो जवीय: इत्याह । नैन- देवाः, द्योतनाद्देवाः चक्षुरादीनीन्द्रियाणि, एनत् प्रकृतमात्म- तत्त्वं नाप्नुवन् न प्राप्तवन्तः । तेभ्यो मनो जवीयः । मनोव्यापा- व्यवहितत्वादाभासमात्रमव्यात्मनो नैव देवानां विषयी - भवति ; यस्माज्जवनान्मनसोऽपि पूर्वमर्षत् पूर्वमेव गतम्, व्योमवद्व्यापित्वात् । सर्वव्यापि तदात्मतत्त्वं सर्वसंसारधर्मव- जितं स्वेन निरुपाधिकेन स्वरूपेणाविक्रियमेव सत्, उपाधि - कृताः सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानाम- नेकमिव च प्रतिदेहं प्रत्यवभासत इत्येतदाह - तत् धावतः द्रुतं गच्छतः अन्यान् आत्मविलक्षणान्मनोवागिन्द्रियप्रभृ- , ईशावास्योपनिषद्भाष्यम् । तीन् अत्येति अतीत्य गच्छतीव । इवार्थ स्वयमेव दर्शयति- तिष्ठदिति, स्वयमविक्रियमेव सदित्यर्थः । तस्मिन् आत्म- वत्त्वे सति नित्यचैतन्यस्वभावे, मातरिश्वा मातरि अन्तरिक्ष श्वयति गच्छतीति मातरिश्वा वायुः सर्वप्राणभृत्क्रियात्मकः, यदाश्रयाणि कार्यकरणजातानि यस्मिन्नोतानि प्रोतानि च, यत्सूत्रसंज्ञकं सर्वस्य जगतो विधारयितृ, स मातरिश्वा अपः कर्माणि प्राणिनां चेष्टालक्षणानि अग्न्यादित्यपर्जन्यादी- नां ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि, दधाति विभज- तीत्यर्थः, धारयतीति वा ; ' भीषास्माद्वातः पवते' इत्यादि - श्रुतिभ्यः । सर्वा हि कार्यकरणविक्रिया नित्यचैतन्यात्मस्व- रूपे सर्वास्पदभूते सत्येव भवन्तीत्यर्थः ॥ न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह - तदेजति तन्नैजति तद्दूरे तदन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥ तत् आत्मतत्त्वं यत्प्रकृतम् एजति चलति तदेव च नैजति स्वतो नैव चलति, स्वत: अचलमेव सत् चलतीवे- ईशावास्योपनिषद्भाष्यम् । त्यर्थः । किंच, तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर इव । तदु अन्तिके समीपे अत्यन्तमेव विदुषाम्, आ- त्मत्वात् न केवलं दूरे, अन्तिके च । तत् अन्तः अभ्यन्तरे अस्य सर्वस्य, 'य आत्मा सर्वान्तर:' इति श्रुतेः अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य । तत् उ सर्वस्य अस्य बाह्यत: ; व्यापित्वादाकाशवन्निरतिशय सूक्ष्मत्वादन्तः ; 'प्रज्ञा- नघन एव' इति शासनान्निरन्तरं च ॥ यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥ " यस्तु परिव्राट् मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति, आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु तेष्वेव च आत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन — यथास्य देहस्य कार्यकरण- संघातस्यात्मा अहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता केवलों निर्गुणोऽनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवा- लेति सर्वभूतेषु चात्मानं निर्विशेषं यस्त्वनुपश्यति, सः ततः ईशावास्योपनिषद्भाष्यम् । तस्मादेव दर्शनात् न विजुगुप्सते विजुगुप्सां घृणां न करोति । प्राप्तस्यैवानुवादोऽयम् । सर्वा हि घृणा आत्मनो- ऽन्यद्दुष्टं पश्यतो भवति ; आत्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्तरमस्तीति प्राप्तमेव - ततो न विजुगुप्सत इति ॥ इममेवार्थमन्योऽपि मन्त्र आह- यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यत्तः ॥ ७ ॥ यस्मिन्सर्वाणि भूतानि यस्मिन् काले यथोक्तात्मनि वा, तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनात् आत्मैवाभूत् आत्मैव संवृत्तः परमार्थवस्तु विजानतः, तत्र तस्मिन्काले तन्त्रात्मनि वा, को मोहः कः शोकः । शोकश्च मोहश्च का - मकर्मबीजमजानतो भवति, न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्याकार्य- यो राक्षेपेणासंभव प्रकाशनात् सकारणस्य संसारस्यात्यन्तमे - वोच्छेदः प्रदर्शितो भवति ॥ ईशावास्योपनिषद्भाष्यम् । योऽयमतीतैर्मन्त्रैरुक्त आत्मा, स स्वेन रूपेण किंलक्षण इत्याह अयं मन्त्रः — स पर्यगाच्छुक्रमकायमत्रण- मस्नाविर‍ शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतो- ऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥ स पर्यगात्, सः यथोक्त आत्मा पर्यगात् परि समन्तात् अगात् गतवान्, आकाशवव्यापीत्यर्थः । शुक्रं शुभ्रं ज्योति- मत् दीप्तिमानित्यर्थः । अकायम् अशरीरं लिङ्गशरीरवर्जित इत्यर्थः । अत्रणम् अक्षतम् । अस्नाविरम् स्नावा: सिरा यस्मिन्न विद्यन्त इत्यस्नाविरम् । अव्रणमस्नाविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कार- णशरीरप्रतिषेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शु- क्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि, स पर्यगात् इत्युपक्रम्य कविर्मनीषी इत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः क्रान्तदर्शी सर्वदृक्, ' नान्योऽतोऽस्ति द्रष्टा' इत्या- दिश्रुतेः । मनीषी मनस ईषिता, सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां परि उपरि भवतीति परिभूः । स्वयंभूः ईशावास्योपनिषद्भाष्यम् । स्वयमेव भवतीति, येषामुपरि भवति यश्चोपरि भवति स सर्वः स्वयमेव भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरः याथातथ्यतः सर्वज्ञत्वात् यथातथाभावो याथातथ्यं तस्मात् यथाभूतकर्मफलसाधनतः अर्थान् कर्तव्यपदार्थान् व्यधात् विहितवान् यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यः नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्य इत्यर्थः ॥ अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः 'ईशावास्यमिदं सर्वम् ' ' मा गृधः कस्य स्विद्धनम्' इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठासंभवे ' कुर्वन्नेवेह कर्माणि जिजीविषेत्' इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः अनयोश्च निष्ठयोर्विभागो मन्त्रद्वयप्रदर्शितयोबृहदारण्यके ऽपि दर्शितः - 'सोऽकामयत जाया मे स्यात्' इत्यादिना अज्ञस्य कामिन: कर्माणीति । 'मन एवास्यात्मा वाग्जाया' इत्यादिव- चनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् । जायाद्येषणात्रय संन्यासेन चात्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता - ' किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः' इत्यादिना । ये तु ज्ञाननिष्ठाः संन्या- सिनस्तेभ्य: ' असुर्या नाम ते' इत्यादिना अविद्वन्निन्दाद्वारे- 1 ईशावास्योपनिषद्भाष्यम् । - णात्मनो याथात्म्यम् 'स पर्यगात्' इत्येतदन्तैर्मन्त्रैरुपदिष्ट- म् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतरा- णां मन्त्रोपनिषदि - ' अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्' इत्यादि विभज्योक्तम् । ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्य- ते— ' अन्धं तमः' इत्यादि । कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ? उच्यते —— अकामिनः साध्यसाधनभेदोपमर्देन 'यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति यत् आत्मैकत्ववि - ज्ञानम्, तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चि - चीषति । इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः संभवति न्यायतः शास्त्रतो वा तदिहोच्यते । तद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसंबन्धित्वे- नोपन्यस्तं न परमात्मज्ञानम्, 'विद्यया देवलोक : ' इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहेकै कानुष्ठाननिन्दा स- मुश्चिचीषया, न निन्दापरैव एकैकस्य, पृथक्फलश्रवणात्- 'विद्यया तदारोहन्ति' ' विद्यया देवलोक : ' 'न तत्र दक्षि णा यान्ति ' ' कर्मणा पितृलोक : ' इति । न हि शास्त्रविहितं किंचिदकर्तव्यतामियात् । तब- S. U. 2 1 ईशावास्योपनिषद्भाष्यम् । अन्धं तमः प्रविशन्ति ये अविद्यामुपासते । ततो भूय इव ते तमो यउ विद्याया रताः ॥ ९ ॥ अन्धं तमः अदर्शनात्मकं तमः प्रविशन्ति । के ? ये अवि- द्याम्, विद्याया अन्या अविद्या कर्मेत्यर्थः, कर्मणो विद्याविरो- धित्वात्, तामविद्यामग्निहोत्रादिलक्षणामेव केवलाम उपासते तत्पराः सन्तोऽनुतिष्ठन्तीत्यभिप्रायः । ततः तस्मादन्धात्म- कात्तमसः भूय इव बहुतरमेव ते तमः प्रविशन्ति । के ? कर्म हित्वा ये तु विद्यायामेव देवताज्ञाने एव रताः अभिरताः ॥ तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवद्फलवतो: संनिहितयोरङ्गाङ्गितया जामितैव स्यादिति- अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचक्षिरे ॥ १० ॥ ईशावास्योपनिषद्भाष्यम् । अन्यत् पृथगेव विद्यया क्रियते फलमिति आहुः वदन्ति, अन्यदाहुरविद्यया कर्मणा क्रियते फलमिति । तथोक्तम्- 'कर्मणा पितृलोकः, विद्यया देवलोक:' इति । इति एवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमतां वचनम् । ये आचार्या नः अस्मभ्यं तत् कर्म च ज्ञानं च विचचक्षिरे व्याख्या- तवन्तः, तेषामयमागमः पारम्पर्यागत इत्यर्थः ॥ यत एवमत: — विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥ विद्यां च अविद्यां च देवताज्ञानं कर्म चेत्यर्थः । यस्तत् एतदुभयं सह एकेन पुरुषेण अनुष्ठेयं वेद तस्यैवं समुच्चय- कारिण एकैकपुरुषार्थसंबन्धः क्रमेण स्यादित्युच्यते - अवि- या कर्मणा अग्निहोत्रादिना मृत्युम्, स्वाभाविकं कर्म ज्ञानं च मृत्युशब्दवाच्यम्, तदुभयं तीर्त्वा अतिक्रम्य विद्यया देव- ताज्ञानेन अमृतं देवतात्मभावम् अश्नुते प्राप्नोति । तद्धयमृत- मुच्यते, यद्देवतात्मगमनम् ॥ ईशावास्योपनिषद्भाष्यम् । अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते- अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्या रताः ॥ १२ ॥ अन्धं तमः प्रविशन्ति ये असंभूतिम्, संभवनं संभूतिः सा यस्य कार्यस्य सा संभूति: तस्था अन्या असंभूति: प्रकृतिः कारणम् अव्याकृताख्यम्, तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकाम् उपासते ये ते तदनुरूपमेवान्धं तमः अदर्शनात्मकं प्रविशन्ति । ततः तस्मादपि भूयो बहुतरमिव तमः ते प्रविशन्ति ये उ संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ॥ अधुना उभयोरुपासनयोः समुच्चयकारणमवयवफलभेद- माह- ging अन्यदेवाहुः संभवा- दन्यदाहुरसंभवात् । ईशावास्योपनिषद्भाष्यम् । इति शुश्रुम धीराणां ये नस्तद्विचक्षिरे ॥ १३ ॥ अन्यदेव पृथगेव आहुः फलं संभवात् संभूतेः कार्य- ब्रह्मोपासनात् अणिमाद्यैश्वर्यलक्षणम् आख्यातवन्त इत्यर्थः । तथा च अन्यदाहुरसंभवात् असंभूतेः अव्याकृतात् अव्या- कृतोपासनात् यदुक्तम् ' अन्धं तमः प्रविशन्ति' इति, प्रकृ- तिलय इति च पौराणिकैरुच्यते । इति एवं शुश्रुम धीराणां वचनं ये नस्तद्विचचक्षिरे व्याकृताव्याकृतोपासनफलं व्या- ख्यातवन्त इत्यर्थः ॥ यत एवम्, अतः समुच्चयः संभूत्यसंभूत्युपासनयोर्युक्तः एकैकपुरुषार्थत्वाच्चेत्याह- संभूतिं च विनाशं च यस्तद्वेदोभयः सह । विनाशेन मृत्युं तीर्त्वा - संभूत्यामृतमश्नुते ॥ १४ ॥ संभूतिं च विनाशं च यस्तद्वेदोभयं सह, विनाशेन, विनाश धर्मो यस्य कार्यस्य स तेन धर्मिणा अभेदेनोच्यते , ईशावास्योपनिषद्भाष्यम् । 'विनाश:' इति । तेन तदुपासनेनानैश्वर्यमधर्मकामादिदोष- जातं च मृत्युं तीर्त्वा, हिरण्यगर्भोपासनेन ह्यणिमादिप्राप्तिः फलम् तेनानैश्वर्यादिमृत्युमतीत्य, असंभूत्या अव्याकृतोपा- सनया अमृतं प्रकृतिलयलक्षणम् अश्नुते । 'संभूतिं च विनाशं च' इत्यत्नावर्णलोपेन निर्देशो द्रष्टव्यः, प्रकृतिलयफ- लश्रुत्यनुरोधात् ॥ मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् 'आत्मैवाभूद्वि. जानत:' इति सर्वात्मभाव एव सर्वेषणासंन्यासज्ञाननिष्ठा- फलम् । एवं द्विप्रकार: प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्ष- णस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृ- त्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् । तत्र निषे- कादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापर- ब्रह्मविषयया, तदुक्तम् — 'विद्यां चाविद्यां च यस्तद्वेदो- भय५ सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते' इति, तत्व सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते- 'तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष: ' एतदुभयं सत्यं ब्रह्मोपासीनः - ईशावास्योपनिषद्भाष्यम् । यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते- हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम्, ज्योतिर्मय- मित्येतत्, तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदित्यमण्ड - लस्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम् ; तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्यो - पासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् ; अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये ॥ पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याण- तमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ ईशावास्योपनिषद्भाष्यम् । हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्य: हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेज: तावकं ज्योति: । यत् ते तव रूपं कल्याणतमम् अत्यन्तशो- भनम्, तत् ते तवात्मनः प्रसादात् पश्यामि । किंच, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्य - वयवः पुरुषः पुरुषाकारत्वात्, पूर्ण वानेन प्राणबुद्धधात्मना जगत्समस्तमिति पुरुषः; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥ वायुराने लममृत मथेदं भस्मान्तर शरीरम् । ॐ ऋतो स्मर कृत‍ स्मर क्रतो स्मर कृतः स्मर ॥ १७ ॥ अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रा- त्मानं प्रतिपद्यतामिति वाक्यशेषः । लिङ्गं चेदं ज्ञानकर्मसं- स्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् । अथ ईशावास्योपनिषद्भाष्यम् । । इदं शरीरमनौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनम् अप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्मा- भेदेनोच्यते । हे ऋतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तञ्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥ पुनरन्येन मन्त्रेण मार्ग याचते- अग्ने नय सुपथा राये अस्मा- विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥ हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन; अतो याचे त्वां पुनः पुनः गमना- गमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफल- भोगायेत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किंच, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः ईशावास्योपनिषद्भाष्यम् । जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किंतु वय - दानीं ते न शक्नुमः परिचर्यं कर्तुम्; भूयिष्ठां बहुतरां तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥ 'अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ' ' विनाशेन . मृत्युं तीर्त्वा असंभूत्यामृतमश्नुते' इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निर्धारणार्थं संक्षेपतो विचारणां करिष्यामः । तत्र तावत्किनिमित्त: संशय इति, उच्यते - विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् ; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम्, तथा त- द्विरोधाविरोधावपि । यथा च 'न हिंस्यात्सर्वा भूतानि ' इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ' अध्वरे पशुं हिंस्यात् ' इति, एवं विद्याविद्ययोरपि स्यात् ; विद्याकर्मणोश्च समुच्चयः । न; 'दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता' इति श्रुते: । 'विद्यां चाविद्यां च' इति वचनादविरोध इति चेत्, न ; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोध- ईशावास्योपनिषद्भाष्यम् । योर्विकल्पासंभवात् समुच्चयविधानादविरोध एवेति चेत्, न; सहसंभवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्, नं; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः ; न हि अग्नि- रुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः । नापि संशय: अज्ञानं वा, ' यस्मिन्सर्वाणि भूतानि आत्मैवा- भूद्विजानत: । तत्र को मोहः कः शोक एकत्वमनुपश्यतः इति शोकमोहाद्यसंभवश्रुतेः । अविद्यासंभवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । 'अमृतमश्नुते' इत्यापेक्षिकममृ- तम् ; विद्याशब्देन परमात्मविद्याग्रहणे 'हिरण्मयेन' इत्यादि- ना द्वारमार्गयाच्चनमनुपपन्नं स्यात् । तस्मात् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥ ; इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कृतौ ईशावास्योपनिषद्भाष्यम् संपूर्णम् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते በ ॐ शान्तिः शान्तिः शान्तिः ॥ ale ॥ 300 ॥ केनोपनिषत्पदभाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो ब- लमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म नि- राकरोदनिराकरणमस्त्वनि - राकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ - ॥ केनोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन पदभाष्येण सहिता । नेषितम्' इत्याद्योपनिष- 'के नेषितम् ' त्परब्रह्मविषया वक्तव्येति नवम- स्याध्यायस्यारम्भः । प्रागेतस्मात्क- मण्यशेषतः परिसमापितानि, स- मस्तकर्माश्रयभूतस्य च प्राणस्योपा- सनान्युक्तानि कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं त्रंशान्तमुक्तं कार्यम् । सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्य- S. U. 3 ' केनोपनिषत्पदभाष्ये गनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्धयर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वादिस्थावरान्ता अधोगतिः स्यात् । 'अथैतयोः पथोर्न कसरेणचन तानीमानि क्षुद्राण्यसंकृदा- वर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीय ५ स्थानम् ' इति श्रुते: ; 'प्रजा ह तिस्रोऽत्यायमीयुः' इति च मन्त्रवर्णात् । विशुद्धसत्त्वस्य तु निष्कामस्यैव बाह्यादनित्यात्साध्यसाधन- संबन्धादिह कृतात्पूर्वकृताद्वा संस्कारविशेषोद्भवाद्विरक्तस्य प्र- त्यगात्मविषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नप्रतिवचन- लक्षणया श्रुत्या प्रदर्श्यते ' केनेषितम्' इत्याद्यया । काठके चोक्तम् ' पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्व- मिच्छन्' इत्यादि । 'परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो नि-. र्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छे- त्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्याद्याथर्वणे च । एवं हि विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सा- मर्थ्यमुपपद्यते, नान्यथा । एतस्माच्च प्रत्यगात्मब्रह्मविज्ञानात्सं- सारबीजमज्ञानं कामकर्मप्रवृत्तिकारणमशेषतो निवर्तते, 'तत्र · प्रथमः खण्डः । को मोहः कः शोक एकत्वमनुपश्यतः' इति मन्त्रवर्णात् ' तरति शोकमात्मवित्' ' भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व- संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इत्यादि- श्रुतिभ्यश्च । कर्मसहितादपि ज्ञानादेतत्सिध्यतीति चेत्, न; वाजसनेयके तस्यान्यकारणत्ववचनात् । 'जाया मे स्यात् ' इति प्रस्तुत्य ' पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोक : ' इत्यात्मनोऽन्यस्य लोकत्र - यस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारिव्राज्य - विधाने हेतुरुक्त: 'किं प्रजया करिष्यामो येषां नोऽयमा- स्मायं लोक:' इति । तत्रायं हेत्वर्थ:- प्रजाकर्मतत्संयु- क्तविद्याभिर्मनुष्य पितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्ति- कारणैः किं करिष्यामः । न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टम्, येषामस्माकं स्वाभाविकोऽजोऽजरोऽमृ- तोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः । स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्य साधननिष्पाद्यः । तस्मात्प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वैषणासंन्यास एव क- र्तव्य इति । कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञा- नस्य । न ह्युपात्तकारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमि- तसर्वभेददर्शनस्य प्रत्यगात्मब्रह्मविषयस्य सहभावित्वमुपपद्यते, केनोपनिषत्पदभाष्ये वस्तुप्राधान्ये सति अपुरुषतत्रत्वाद्ब्रह्मविज्ञानस्य । तस्माद्दृष्टा- दृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासेयम् 'केनेषितम्' इत्यादिश्रुत्या प्रदर्श्यते । शि- ष्याचार्यप्रश्नप्रतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वा- त्सुखप्रतिपत्तिकारणं भवति । केवलतर्कागम्यत्वं च दर्शितं भवति ॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥ ' आचा- 'नैषा तर्केण मतिरापनेया' इति श्रुतेश्च । र्यवान्पुरुषो वेद' ' आचार्याद्वैव विद्या विदिता साधिष्ठ प्रापदिति ' ' तद्विद्धि प्रणिपातेन' इत्यादिश्रुतिस्मृतिनियमाच्च कश्चिद्गुरुं ब्रह्मनिष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन्नभयं नित्यं शिवमचलमिच्छन्पप्रच्छेति कल्प्य - ते— केनेषितमित्यादि । केन इषितं केन कर्त्रा इषितम् इष्टमभिप्रेतं सत् मनः पतति गच्छति स्वविषयं प्रतीति सं- वध्यते । इषेराभीक्ष्ण्यार्थस्य गत्यर्थस्य चेहासंभवादिच्छार्थ- I प्रथमः खण्डः । स्यैवैतद्रूपमिति गम्यते । इषितमिति इट्प्रयोगस्तु च्छान्दसः । तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत् । तत्र प्रेषितमित्येवो- क्ते प्रेषयितृप्रेषणविशेषविषयाकाहा स्यात् केन प्रेषयितृविशे- पेण कीदृशं वा प्रेषणमिति । इषितमिति तु विशेषणे सति तदु- भयं निवर्तते, कस्येच्छामात्रेण प्रेषितमित्यर्थ विशेषनिर्धारणात् । यद्येषोऽर्थोऽभिप्रेतः स्यात्, केनेषितमित्येतावतैव सिद्धत्वात्रे- षितमिति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्त- मिति इच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवग- न्तुं युक्तः । न, प्रश्नसामर्थ्यात् ; देहादिसंघातादनित्यात्कर्मका- र्याद्विरक्तः अतोऽन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथा इच्छावाक्कर्मभिर्देहादिसंघातस्य प्रे- रयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थक एव स्यात् । एवमपि प्रेषि - तशब्दस्यार्थो न प्रदर्शित एव । न; संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते । किं यथाप्रसिद्धमेव कार्य- करणसंघातस्य प्रेषयितृत्वम् किं वा संघातव्यतिरिक्तस्य स्वतत्रस्येच्छामात्रेणैव मनआदिप्रेषयितृत्वम् इत्यस्यार्थस्य प्रदर्शनार्थं केनेषितं पतति प्रेषितं मन इति विशेषणद्वयमुप- पद्यते । ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् ; तत्र कथं प्रश्न उपपद्यते इति, उच्यते-- यदि स्वतन्त्रं मनः ' ' केनोपनिषत्पदभाष्ये " प्रवृत्तिनिवृत्तिविषये स्यात् तर्हि सर्वस्यानिष्टचिन्तनं न स्यात् । अनर्थे च जानन्संकल्पयति । अभ्यग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः । तस्माद्युक्त एव केनेषितमि - त्यादिप्रश्नः । केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्वव्यापारं प्रति । प्रथम इति प्राणविशेषणं स्यात्, तत्पूर्वकत्वात्सर्वेन्द्रियप्रवृत्तीनाम् । केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोतं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते प्रेरयति ॥ श्रोतस्य श्रोत्रं मनसो मनो य- द्वाचो ह वाच स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ । एवं पृष्टवते योग्यायाह गुरुः । शृणु यत् त्वं पृच्छसि, मनआदिकरणजातस्य को देवः स्वविषयं प्रति प्रेरयिता कथं वा प्रेरयतीति । श्रोत्रस्य श्रोत्रं शृणोत्यनेनेति श्रोत्रम्, शब्दस्य श्रवणं प्रति करणं शब्दाभिव्यञ्जकं श्रोत्रमिन्द्रियम्, तस्य श्रोत्रं सः यस्त्वया पृष्ट: 'चक्षुः श्रोत्रं क उ देवो युनक्ति' इति । असावेवंविशिष्टः श्रोत्रादीनि नियुङ्ग इति वक्तव्ये, नन्वे- ' प्रथमः खण्डः । तदननुरूपं प्रतिवचनं श्रोत्रस्य श्रोत्रमिति । नैष दोष:, तस्या- न्यथा विशेषानवगमात् । यदि हि श्रोत्रादिव्यापारव्यति- रिक्तेन स्वव्यापारेण विशिष्टः श्रोत्रादिनियोक्ता अवगम्येत दानादिप्रयोक्तृवत्, तदेदमननुरूपं प्रतिवचनं स्यात् । न त्विह श्रोत्रादीनां प्रयोक्ता स्वव्यापारविशिष्टो लवित्रादिवद- धिगम्यते । श्रोत्रादीनामेव तु संहतानां व्यापारेणालोचनसं- कल्पाध्यवसायलक्षणेन फलावसानलिङ्गेनावगम्यते —— अस्ति हि श्रोत्रादिभिरसंहतः, यत्प्रयोजनप्रयुक्तः श्रोत्रादिकलापः गृ- हादिवदिति । संहतानां परार्थत्वादवगम्यते श्रोत्रादीनां प्रयो- ता । तस्मादनुरूपमेवेदं प्रतिवचनं श्रोत्रस्य श्रोत्रमित्यादि । कः पुनरत्र पदार्थः श्रोत्रस्य श्रोत्रमित्यादे: ? न ह्यत्र श्रोत्रस्य श्रोत्रान्तरेणार्थः, यथा प्रकाशस्य प्रकाशान्तरेण । नैष दोषः । अयमन्त्र पदार्थ:-- श्रोत्रं तावत्स्वविषयव्यञ्जनसमर्थं दृष्टम् । तत्तु स्वविषयव्यञ्जनसामर्थ्य श्रोत्रस्य चैतन्ये ह्यात्मज्योतिषि नित्येऽसंहते सर्वान्तरे सति भवति, न असति इति । अत: श्रोत्र- स्य श्रोत्रमित्याद्युपपद्यते । तथा च श्रुत्यन्तराणि -- 'आत्मनैवा- यं ज्योतिषास्ते' 'तस्य भासा सर्वमिदं विभाति ' ' येन सूर्य- स्तपति तेजसेद्ध:' इत्यादीनि । 'यदादित्यगतं तेजो जगद्भासयते- Sखिलम् । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत' इति च केनोपनिषत्पदभाष्ये J गीतासु । काठके च ' नित्यो नित्यानां चेतनश्चेतनानाम् ' इति । श्रोत्राद्येव सर्वस्यात्मभूतं चेतनमिति प्रसिद्धम् ; तदिह निवर्त्यते । अस्ति किमपि विद्बुद्धिगम्यं सर्वान्तरतमं कूट- स्थमजमजरममृतमभयं श्रोत्रादेरपि श्रोत्रादि तत्सामर्थ्यनिमि - तम् इति प्रतिवचनं शब्दार्थ चोपपद्यत एव । तथा मनसः अन्तःकरणस्य मनः । न ह्यन्तःकरणम् अन्तरेण चैतन्यज्योतिषो दीधितिं स्वविषयसंकल्पाध्यवसायादिसमर्थ स्यात् । तस्मान्म- नसोऽपि मन इति । इह बुद्धिमनसी एकीकृत्य निर्देशो मन- स इति । यद्वाचो ह वाचम् ; यच्छब्दो यस्मादर्थे श्रोत्रादि- भिः सर्वैः संबध्यते यस्माच्छ्रोत्रस्य श्रोत्रम्, यस्मान्मनसो मन इत्येवम् । वाचो ह वाचमिति द्वितीया प्रथमात्वेन विपरिणम्यते, प्राणस्य प्राण इति दर्शनात् । वाचो ह वाचमित्येतदनुरोधेन प्राणस्य प्राणमिति कस्माद्वितीयैव न क्रियते ? न; बहूनामनुरोधस्य युक्तत्वात् । वाचमित्यस्य वागित्येतावद्वक्तव्यं स उ प्राणस्य प्राण इति शब्दद्वया- नुरोधेन; एवं हि बहूनामनुरोधो युक्तः कृतः स्यात् । पृष्टं च वस्तु प्रथमयैव निर्देष्टुं युक्तम् । स यस्त्वया पृष्टः प्राणस्य प्राणाख्यवृत्तिविशेषस्य प्राणः, तत्कृतं हि प्राणस्य प्राणनसामर्थ्यम् । न ह्यात्मनानधिष्ठितस्य प्राणनमुपपद्यते, प्रथमः खण्डः । . ४१ 'को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् ' 'ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति' इत्यादिश्रुतिभ्यः । इहापि च वक्ष्यते ' येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि' इति । श्रोबादीन्द्रियप्रस्तावे घ्राणस्येव प्राणस्य न तु युक्तं ग्रहणम् । सत्यमेवम् । प्राणग्रहणेनैव तु प्राणस्य ग्रहणं कृतमेव मन्यते श्रुतिः । सर्वस्यैव करणकलापस्य यद- र्थप्रयुक्ता प्रवृत्तिः, तद्ब्रह्मेति प्रकरणार्थो विवक्षितः । तथा चक्षुषश्चक्षुः रूपप्रकाशकस्य चक्षुषो यद्रूपग्रहणसामर्थ्य तदा- त्मचैतन्याधिष्ठितस्यैव । अतश्चक्षुषश्चक्षुः । प्रष्टुः पृष्टस्यार्थस्य . ज्ञातुमिष्टत्वात् श्रोत्रादेः श्रोत्रादिलक्षणं यथोक्तं ब्रह्म 'ज्ञात्वा ' इत्यध्याह्नियते; अमृता भवन्ति इति फलश्रुतेश्च । ज्ञाना- यमृतत्वं प्राप्यते । ज्ञात्वा अतिमुच्य इति सामर्थ्यात् श्रोत्रादिकरणकलापमुज्झित्वा -- श्रोत्रादौ ह्यात्मभावं कृत्वा, तदुपाधि: सन्, तदात्मना जायते म्रियते संसरति च । अत: श्रोत्रादेः श्रोत्रादिलक्षणं ब्रह्मात्मेति विदित्वा, अतिमुच्य श्रो- त्राद्यात्मभावं परित्यज्य -- ये श्रोत्राद्यात्मभावं परित्यजन्ति, ते धीराः धीमन्तः । न हि विशिष्टधीमत्त्वमन्तरेण श्रो- त्राद्यात्मभावः शक्यः परित्युक्तम् । प्रेत्य व्यावृत्य अस्मात् लोकात् पुत्रमित्रकलत्रबन्धुषु ममाहंभाव संव्यवहारलक्षणात्, केनोपनिषत्पद भाष्ये त्यक्तसर्वैषणा भूत्वेत्यर्थः । अमृताः अमरणधर्माण: भवन्ति 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः 'पराश्चि खानि व्यतृणत्... आवृत्तचक्षुरमृतत्वमिच्छन् यदा सर्वे प्रमुच्यन्ते... अत्र ब्रह्म समश्नुते' इत्यादि. श्रुतिभ्यः । अथवा, अतिमुच्येत्यनेनैवैषणात्यागस्य सिद्धत्वात अस्माल्लोकात्प्रेत्य अस्माच्छरीरादपेत्य मृत्वेत्यर्थः ॥ न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥ यस्माच्छ्रोत्रादेरपि श्रोत्राद्यात्मभूतं ब्रह्म, अतः न तत्र तस्मिन्ब्रह्मणि चक्षुः गच्छति, स्वात्मनि गमनासंभवात् । तथा न वाक् गच्छति । वाचा हि शब्द उच्चार्यमाणोऽभिधेयं प्रका- शयति यदा तदाभिधेयं प्रति वाग्गच्छतीत्युच्यते । तस्य च शब्दस्य तन्निर्वर्तकस्य च करणस्यात्मा ब्रह्म । अतो न वाग्गच्छ- ति । यथाग्निर्दाहकः प्रकाशकश्चापि सन् न ह्यात्मानं प्रकाश- यति दहति वा, तद्वत् । नो मनः मनश्चान्यस्य संकल्पयितृ अ- ध्यवसातृ च सत् नात्मानं संकल्पयत्यध्यवस्यति च, तस्यापि प्रथमः खण्डः । ब्रह्मात्मेति । इन्द्रियमनोभ्यां हि वस्तुनो विज्ञानम् । तद्गोचर- त्वात् न विद्मः तद्ब्रह्म ईदृशमिति । अतो न विजानीमः यथा येन प्रकारेण एतत् ब्रह्म अनुशिष्यात् उपदिशेच्छिष्यायेत्यभि- प्रायः । यद्धि करणगोचरः, तदन्यस्मै उपदेष्टुं शक्यं जातिगु- णक्रियाविशेषणैः । न तज्जात्यादिविशेषणवद्ब्रह्म । तस्माद्विषमं शिष्यानुपदेशेन प्रत्याययितुमिति उपदेशे तदर्थग्रहणे च यत्नातिशयकर्तव्यतां दर्शयति ॥ न अन्यदेव तद्विदिता- दो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्वद्याचचक्षिरे ॥ ४ ॥ विद्मो न विजानीमो यथैतदनुशिष्यात्' इति अत्य- न्तमेवोपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थ- मागममाह— अन्यदेव तद्विदितादथो अविदितादधीति । अन्यदेव पृथगेव तत् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमवि- षयश्च तेषाम् । तत् विदितात् अन्यदेव हि । विदितं नाम केनोपनिषत्पदभाष्ये यद्विदिक्रिययातिशयेनातं विदिक्रियाकर्मभूतम् । क्वचित्किंचि- त्कस्यचिद्विदितं स्यादिति सर्वमेव व्याकृतं विदितमेव ; तस्मादन्यदेवेत्यर्थः । अविदितमज्ञातं तर्हीति प्राप्ते आह-- अथो अपि अविदितात् विदितविपरीतादव्याकृतादविद्या- लक्षणाद्व्याकृतबीजात् । अधि इति उपर्यर्थे; लक्षणया अ- न्यदित्यर्थः । यद्धि यस्मादधि उपरि भवति, तत्तस्मादन्यदिति प्रसिद्धम् । यद्विदितं तदल्पं मर्त्य दुःखात्मकं चेति हेयम् । तस्माद्विदितादन्यद्ब्रह्मेत्युक्ते त्वहेयत्वमुक्तं स्यात् । तथा अ- विदितादधीत्युक्तेऽनुपादेयत्वमुक्तं स्यात् । कार्यार्थं हि का- रणमन्यदन्येनोपादीयते । अतश्च न वेदितुरन्यस्मै प्रयोजना - यान्यदुपादेयं भवतीत्येवं विदिताविदिताभ्यामन्यदिति यो- पादेयप्रतिषेधेन स्वात्मनोऽनन्यत्वात् ब्रह्मविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदितावि- दिताभ्यामन्यत्वं वस्तुनः संभवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः ; • अयमात्मा ब्रह्म 'य आत्मापहतपाप्मा ' ' यत्साक्षादपरो- क्षाद्ब्रह्म' 'य आत्मा सर्वान्तर:' इत्यादिश्रुत्यन्तरेभ्यश्चेति । एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्रह्मत्वप्रति- पादकस्य वाक्यार्थस्याचार्योपदेशपरम्परया प्राप्तत्वमाह- इति शुश्रुमेत्यादि । ब्रह्म चैवमाचार्योपदेशपरम्परयैवाधि- , प्रथमः खण्डः । गन्तव्यं न तर्कतः प्रवचनमेधा बहुश्रुततपोयज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम् ; ये आचार्याः नः अस्मभ्यं तत् ब्रह्म व्याचचक्षिरे व्याख्या- तवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः ॥ यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥ 'अन्यदेव तद्विदितादथो अविदितादधि' इत्यनेन वाक्येन आत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता — कथं न्वात्मा ब्रह्म । आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्ग वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्र: प्रा- णो वा ब्रह्म भवितुमर्हति, न त्वात्मा; लोकप्रत्ययविरोधात् । यथान्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते, तथा कर्मिणो- Sमुं यजामुं यजेत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत्, ततोऽन्य उपासक इति । तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह—मैवं करणम्, केनोपनिषत्पदभाष्ये शङ्किष्ठाः । यत् चैतन्यमात्रसत्ताकम्, वाचा - वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं वर्णाश्चार्थसंकेत परिच्छिन्ना एतावन्त एवंक्रमप्रयुक्ता इति; एवं तदभिव्यङ्गयः शब्दः पदं वागित्युच्यते ; 'अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बही नाना- रूपा भवति' इति श्रुतेः । मितममितं स्वरः सत्यानृते एष विकारो यस्या: तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या— अनभ्युदितम् अप्रकाशितमनभ्युक्तम् । येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् । यत् ' वाचो ह वाक्' इत्युक्तम्, वदन्वाक् ' ' यो वाचमन्तरो यमयति' इत्यादि च वाजस- नेयके । ' या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मण:' इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् ' सा वाग्यया स्वप्ने भाषते' इति । सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्यज्योतिः- स्वरूपा, 'न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते' इति श्रुतेः । तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि विजानीहि त्वम् । यैर्वागाद्युपाधिभिः ' वाचो ह वाक्' 'चक्षुषश्चक्षुः ' ' श्रोत्रस्य श्रोत्रं मनसो मनः' 'कर्ता भोक्ता वि- ज्ञाता नियन्ता प्रशासिता ' ' विज्ञानमानन्दं ब्रह्म' इत्येवमादयः ' प्रथमः खण्डः । संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एवशब्दार्थः । नेदं ब्रह्म यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते ध्यायन्ति । तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धि- परिसंख्यानार्थं वा ॥ यन्मनसा न मनुते येनाहुतो. मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यन्मनसा न मनुते । मन इत्यन्तः करणं बुद्धिमनसोरेक- त्वेन गृह्यते । मनुतेऽनेनेति मनः सर्वकरणसाधारणम्, सर्व- 6 विषयव्यापकत्वात् । काम: संकल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्हीर्धी भरित्येतत्सर्वं मन एव' इति श्रुतेः कामादि- वृत्तिमन्मनः । तेन मनसा यत् चैतन्यज्योतिर्मनसोऽवभासकं न मनुते न संकल्पयति नापि निश्चिनोति लोकः, मनसोऽव- भासकत्वेन नियन्तृत्वात् । सर्वविषयं प्रति प्रत्यगेवेति स्वात्म- नि न प्रवर्ततेऽन्तः :करणम् । अन्तःस्थेन हि चैतन्यज्योतिषा- वभासितस्य मनसो मननसामर्थ्यम् ; तेन सवृत्तिकं मनः येन केनोपनिषत्पदभाष्ये ब्रह्मणा मतं विषयीकृतं व्याप्तम् आहुः कथयन्ति ब्रह्मविदः : तस्मात् तदेव मनस आत्मानं प्रत्यक्चेतयितारं ब्रह्मविद्धि नेदमित्यादि पूर्ववत् ॥ यच्चक्षुषा न पश्यति येनं चक्षूषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ 1 यत् चक्षुषा न पश्यति न विषयीकरोति अन्तःकरणवृ- त्रिसंयुक्तेन लोकः, येन चक्षूंषि अन्तःकरणवृत्तिभेदभिन्नाश्चक्षु- वृत्ती: पश्यति चैतन्यात्मज्योतिषा विषयीकरोति व्याप्नोति । तदेवेत्यादि पूर्ववत् ॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदँ श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥ यत् श्रोत्रेण न शृणोति दिग्देवताधिष्ठितेन आकाश कार्येण मनोवृत्तिसंयुक्तेन न विषयीकरोति लोकः, येन श्रोत्रम् इदं प्रथमः खण्डः । श्रुतं यत्प्रसिद्धं चैतन्यात्मज्योतिषा विषयीकृतम् । तदेवेत्यादि पूर्ववत् ॥ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥ इति प्रथमः खण्डः ॥ यत् प्राणेन घ्राणेन पार्थिवेन नासिकापुटान्तरवस्थिते- नान्तःकरणप्राणवृत्तिभ्यां सहितेन यन्न प्राणिति गन्धवन्न विषयीकरोति, येन चैतन्यात्मज्योतिषावभास्यत्वेन स्वविषयं प्रति प्राणः प्रणीयते तदेवेत्यादि सर्वे समानम् ॥ इति प्रथमः खण्डः ॥ S. U. 4 द्वितीयः खण्डः ॥ यदि मन्यसे सु वेदेति भ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यद्स्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदि- तम् ॥ १ ॥ एवं हेयोपादेयविपरीतस्त्वमात्मा ब्रह्मेति प्रत्यायितः शिष्य : अहमेव ब्रह्मेति सुष्ठु वेदाहमिति मा गृह्णीयादित्याश- यादाहाचार्यः शिष्यबुद्धिविचालनार्थम् – यदीत्यादि । नन्वि - ध्रुव सुवेदाहम् इति निश्चिता प्रतिपत्तिः । सत्यम्, इष्टा निश्चित प्रतिपत्तिः ; न हि सु वेदाहमिति । यद्धि वेद्यं वस्तु विषयीभव - ति, तत्सुष्ठु वेदितुं शक्यम्, दाह्यमिव दग्धुम् अग्नेर्दग्धुः न त्वग्नेः स्वरूपमेव । सर्वस्य हि वेदितुः स्वात्मा ब्रह्मेति सर्ववेदा- न्तानां सुनिश्चितोऽर्थः । इह च तदेव प्रतिपादितं प्रश्नप्रतिवच- नोक्त्या ' श्रोत्रस्य श्रोत्रम्' इत्याद्यया । ' यद्वाचानभ्युदितम्' इति च विशेषतोऽवधारितम् । ब्रह्मवित्संप्रदायनिश्चयश्वोक्तः 'अन्यदेव तद्विदितादथो अविदितादधि' इति । उपन्यस्तमुप- द्वितीयः ः खण्डः । संहरिष्यति च 'अविज्ञातं विजानतां विज्ञातमविजानताम्' इति । तस्माद्युक्तमेव शिष्यस्य सु वेदेति बुद्धिं निराकर्तुम् । न हि वेदिता वेदितुर्वेदितुं शक्यः, अग्निर्दग्धुरिव दग्धुमग्नेः । न चान्यो वेदिता ब्रह्मणोऽस्ति यस्य वेद्यमन्यत्स्याद्ब्रह्म । 'नान्यद- तोऽस्ति विज्ञातृ' इत्यन्यो विज्ञाता प्रतिषिध्यते । तस्मात् सुष्ठु वेदाहं ब्रह्मेति प्रतिपत्तिर्मिध्यैव । तस्माद्युक्तमेवाहाचार्यों यदी- त्यादि । यदि कदाचित् मन्यसे सु वेदेति सुष्ठु वेदाहं ब्रह्मेति । कदाचिद्यथाश्रुतं दुर्विज्ञेयमपि क्षीणदोषः सुमेधाः कश्चि- त्प्रतिपद्यते कश्विन्नेति साशङ्कमाह यदीत्यादि । दृष्टं च ' य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतद- मृतमभयमेतद्ब्रह्म' इत्युक्ते प्राजापत्यः पण्डितोऽप्यसुरराडिरो- चन: स्वभावदोषवशादनुपपद्यमानमपि विपरीतमर्थ शरीर- मात्मेति प्रतिपन्नः । तथेन्द्रो देवराट् सकृद्विनिरुक्तं चाप्र- तिपद्यमानः स्वभावदोषक्षयमपेक्ष्य चतुर्थे पर्याये प्रथमोक्त- मेव ब्रह्म प्रतिपन्नवान् । लोकेऽपि एकस्माद्गुरोः शृण्वतां कश्चिद्यथावत्प्रतिपद्यते कश्चिदयथावत् कश्चिद्विपरीतं कश्चिन्न प्रतिपद्यते । किमु वक्तव्यमतीन्द्रियमात्मतत्त्वम् । अत्र हि विप्रतिपन्नाः सदसद्वादिनस्तार्किकाः सर्वे । तस्माद्विदितं ब्रह्मेति सुनिश्चितोक्तमपि विषमप्रतिपत्तित्वात् यदि मन्यसे केनोपनिषत्पदभाष्ये " इत्यादि साशङ्कं वचनं युक्तमेवाचार्यस्य । दभ्रम् अल्पमेवापि नूनं त्वं वेत्थ जानीषे ब्रह्मणो रूपम् । किमनेकानि ब्रह्मणो रूपाणि महान्त्यर्भकाणि च येनाह दभ्रमेवेत्यादि ? बाढम् । अनेकानि हि नामरूपोपाधिकृतानि ब्रह्मणो रूपाणि न स्वतः । स्वतस्तु 'अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्य- मगन्धवच्च यत्' इति शब्दादिभिः संह रूपाणि प्रतिषिध्य- न्ते । ननु येनैव धर्मेण यद्रूप्यते तदेव तस्य स्वरूपमिति ब्रह्मणोऽपि येन विशेषेण निरूपणं तदेव तस्य स्वरूपं स्यात् । अत उच्यते-- चैतन्यम् पृथिव्यादीनामन्यतमस्य सर्वेषां विपरिणतानां वा धर्मो न भवति, तथा श्रोत्रादीनामन्तःकर- णस्य च धर्मो न भवतीति ब्रह्मणो रूपमिति ब्रह्म रूप्यते चैतन्येन । तथा चोक्तम् । 'विज्ञानमानन्दं ब्रह्म' ' विज्ञानघन एव ' ' सत्यं ज्ञानमनन्तं ब्रह्म' ' प्रज्ञानं ब्रह्म' इति च ब्रह्मणो रूपं निर्दिष्टं श्रुतिषु । सत्यमेवम् ; तथापि तदन्तःकरणदेहे- न्द्रियोपाधिद्वारेणैव विज्ञानादिशब्दैर्निर्दिश्यते, तदनुकारित्वा- द्देहादिवृद्धिसंकोचच्छेदादिषु नाशेषु च न स्वतः । स्वतस्तु 'अविज्ञातं विजानतां विज्ञातमविजानताम्' इति स्थितं भवि- ष्यति । ' यदस्य ब्रह्मणो रूपम्' इति पूर्वेण संबन्धः । न के- वलमध्यात्मोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं त्वमल्पं वेत्थ ; द्वितीयः खण्डः यदप्यधिदैवतोपाधिपरिच्छिन्नस्यास्य ब्रह्मणो रूपं देवेषु वेत्थ त्वम्, तदपि नूनं दभ्रमेव वेत्थ इति मन्येऽहम् । यदध्या- त्मं यदपि देवेषु तदपि चोपाधिपरिच्छिन्नत्वाद्दभ्रत्वान्न निवर्तते । यत्तु विध्वस्तसर्वोपाधिविशेषं शान्तमनन्तमेकमद्वैतं भूमाख्यं नित्यं ब्रह्म, न तत्सुवेद्यमित्यभिप्रायः । यत एवम् अथ नु तस्मात् मन्ये अद्यापि मीमांस्यं विचार्यमेव ते तव ब्रह्म । एवमाचार्योक्तः शिष्यः एकान्ते उपविष्टः समाहितः सन्, यथोक्तमाचार्येण आगममर्थतो विचार्य, तर्कता नि- धर्य, स्वानुभवं कृत्वा, आचार्यसकाशमुपगम्य, उवाच -- मन्येऽहमथेदानीं विदितं ब्रह्मेति ॥ नाहं मन्ये सु वेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥ कथमिति, शृणु —— न अह मन्ये सु वेदेति, नैवाहं मन्ये सुवेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्ते आह— नो न वेदेति वेद च । वेद चेति च शब्दात् न वेद च । ननु विप्रतिषिद्धं नाह मन्ये सु वेदेति, नो न वेदेति, वेद च इति । केनोपनिषत्पदभाष्ये यदि न मन्यसे सु वेदेति, कथं मन्यसे वेद चेति । अथ मन्यसे वेदैवेति, कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सु विज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्वत्रानर्थकरत्वेनैव प्रसिद्धौ । एवमाचार्येण विचाल्यमा नोऽपि शिष्यो न विचचाल, 'अन्यदेव तद्विदितादथो अ- विदितादधि' इत्याचार्योक्तागमसंप्रदायबलात् उपपस्यनुभव- जगर्जं च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः कथमित्युच्यते - यः यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद, सः तत् ब्रह्म वेद । किं पुनस्तद्वचनमित्यत आह— नो न वेदेति वेद च इति । यदेव 'अन्यदेव तद्विदितादथो अविदितादधि' इत्युक्तम्, तदेव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद च इत्यवोचत् आचार्यबुद्धिसंवादार्थ मन्द- बुद्धिग्रहणव्यपोहार्थं च । तथा च गर्जितमुपपन्नं भवति 'यो नस्तद्वेद तद्वेद' इति ॥ बलाच्च ; यस्यामतं तस्य मतं मतं यस्य न वेद सः । द्वितीयः खण्डः । अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥ शिष्याचार्यसंवादात्प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्त- संवादनिर्वृत्तमर्थमेव बोधयति - यस्यामतमित्यादिना । यस्य ब्र- ह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्मेति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग्ब्रह्मेत्यभिप्रायः । यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयः, न वेदैव सः न ब्रह्म विजानाति सः । विद्वदविदुषोर्यथोक्तौ पक्षाववधारयति - अवि- ज्ञातं विजानतामिति, अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतां सम्यग्विदितवतामित्येतत् । विज्ञातं विदितं ब्रह्म अविजानताम् असम्यग्दर्शिनाम्, इन्द्रियमनोबुद्धिष्वेवात्मद- शिनामित्यर्थः ; न त्वत्यन्तमेवाव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातमस्माभिर्ब्रह्मेति मतिर्भवति । इन्द्रियमनोबुद्धयुपाधि- ध्वात्मदर्शिनां तु ब्रह्मोपाधिविवेकानुपलम्भात्, बुद्धधाद्युपा- श्व विज्ञातत्वात् विदितं ब्रह्मेत्युपपद्यते भ्रान्तिरित्यत: अस- म्यग्दर्शनं पूर्वपक्षत्वेनोपन्यस्यते — विज्ञातमविजानतामिति । अथवा हेत्वर्थ उत्तरार्धोऽविज्ञातमित्यादिः ॥ प्रतिबोधविदितं मत- ममृतत्वं हि विन्दते । केनोपनिषत्पद भाष्ये आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् ॥ ४ ॥ , ' अविज्ञातं विजानताम्' इत्यवधृतम् । यदि ब्रह्मात्यन्त- मेवाविज्ञातम्, लौकिकानां ब्रह्मविदां चाविशेषः प्राप्तः । 'अ- विज्ञातं विजानताम्' इति च परस्परविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवमर्थमाह प्रतिबोधविदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । सर्वे प्रत्यया विषयीभवन्ति यस्य स आत्मा सर्वबोधान्प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्व- विशिष्टतया लक्ष्यते ; नान्यङ्कारमन्तरात्मनो विज्ञानाय । अतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा तदा तत् मतं तत्स- म्यग्दर्शनमित्यर्थः सर्वप्रत्ययदर्शित्वे चोपजननापायवर्जित- दृक्स्वरूपता नित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्विशेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत्, लक्षणभेदाभावाद्व्योम्न इव घट- गिरिगुहादिषु । विदिताविदिताभ्यामन्यद्ब्रह्मेत्यागमवाक्यार्थ एवं परिशुद्ध एवोपसंहृतो भवति । 'दृष्टेर्द्रष्टा श्रुतेः श्रोता मते- र्मन्ता विज्ञातेर्विज्ञाता' इति हि श्रुत्यन्तरम् । यदा पुनर्बोध- क्रियाकर्तेति बोधक्रियालक्षणेन तत्कर्तारं विजानातीति बोध- लक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते, यथा यो द्वितीयः खण्डः । वृक्षशाखाश्चालयति स वायुरिति तद्वत्; तदा बोधक्रियाश- क्तिमानात्मा द्रव्यम्, न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते, तदा बोधक्रियया स- विशेषः । यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमावं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्तुं शक्यन्ते । यदपि काणादानाम् आत्ममन:संयोगजो बोध आत्मनि समवैति ; अत आत्मनि बोद्धृत्वम्, न तु विक्रियात्मक आत्मा ; द्रव्यमात्रस्तु भवति घट इव रागसमवायी । अस्मिन्पक्षेऽप्यचेतनं द्रव्यमात्रं ब्रह्मेति 'विज्ञानमानन्दं ब्रह्म' ' प्रज्ञानं ब्रह्म' इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्य- संयुक्तत्वाश्च मनसः स्मृत्युत्पत्तिनियमानुपपत्तिरपरिहार्या स्या- त् । संसर्गधर्मित्वं चात्मनः श्रुतिस्मृतिन्यायविरुद्धं कल्पितं स्यात् । 'असङ्गो न हि सज्जते' 'असक्तं सर्वभृत्' इति हि श्रुतिस्मृती । न्यायश्च- गुणवद्गुणवत्ता संसृज्यते, -- नातुल्यजातीयम् । अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केन- चिदप्यतुल्यजातीयेन संसृज्यत इत्येतत् न्यायविरुद्धं भवेत् । तस्मात् नित्यालुप्तज्ञानस्वरूपज्योतिरात्मा ब्रह्मेत्ययमर्थः सर्व- बोधबोद्धृत्वे आत्मनः सिध्यति, नान्यथा । तस्मात् ' प्रतिबो- केनोपनिषत्पदभाष्ये धविदितं मतम्' इति यथाव्याख्यात एवार्थोऽस्माभिः । यत्पुन स्वसंवेद्यता प्रतिबोधविदितमित्यस्य वाक्यस्यार्थो वर्ण्यते, तत्र भवति सोपाधिकत्वे आत्मनो बुद्धधुपाधिस्वरूपत्वेन भेदं परिकल्प्यात्मनात्मानं वेत्तीति संव्यवहार:- 'आत्मन्येवात्मानं पश्यति' 'स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम' इति । न तु निरुपाधिकस्यात्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा संभवति । संवेदनस्वरूपत्वात्संवेदनान्तरापेक्षा च न संभव- ति, यथा प्रकाशस्य प्रकाशान्तरापेक्षाया न संभवः तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च वि- ज्ञानस्य स्यात् ; 'न' हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते- ऽविनाशित्वात् ' ' नित्यं विभुं सर्वगतम् ' ' स वा एष महान- ज आत्माजरोऽमरोऽमृतोऽभयः' इत्याद्याः श्रुतयो बाध्ये - रन् । यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोध: यथा सुप्तस्य इत्यर्थे परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोध इत्यपरे ; निर्निमित्त: सनिमित्तः सकृद्वासकृद्वा प्रतिबोध एव हि सः । अमृतत्वम् अमरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्मात् विन्दते लभते यथोक्तात्प्रतिबोधात्प्रतिबोधविदितात्म- कात्, तस्मात्प्रतिबोधविदितमेव मतमित्यभिप्रायः । बोधस्य हि प्रत्यगात्मविषयत्वं च मतममृतत्वे हेतुः । न ह्यात्मनो- 1 .. द्वितीयः खण्डः । ऽनात्मत्वममृतत्वं भवति । आत्मत्वादात्मनोऽमृतत्वं निर्निमि- तमेव । एवं मर्त्यत्वमात्मनो यदविद्यया अनात्मत्वप्रतिपत्तिः । कथं पुनर्यथोक्तयात्मविद्ययामृतत्वं विन्दत इत्यत आह- आत्मना स्वेन रूपेण विन्दते लभते वीर्य बलं सामर्थ्यम् । धनसहायमन्त्रौषधितपोयोगकृतं वीर्य मृत्युं न शक्नोत्यभिभ- वितुम्, अनित्यवस्तुकृतत्वात्; आत्मविद्याकृतं तु वीर्यमात्म- नैव विन्दते, नान्येनेत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्य मृत्युं शक्नोत्यभिभवितुम् । यत एवमात्मविद्याकृतं वीर्यमात्मनैव विन्दते, अत: विद्यया आत्मविषयया विन्दते- ऽमृतम् अमृतत्वम् । 'नायमात्मा बलहीनेन लभ्यः' इत्याथ- र्वणे । अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ॥ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टि: । भूतेषु भूतेषु विचित्य धीराः . प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥ इति द्वितीयः खण्डः ॥ कष्टा खलु सुरनरतिर्यक्प्रेतादिषु संसारदुःखबहुलेषु प्राणिनिकायेषु जन्मजरामरणरोगादिसंप्राप्तिरज्ञानात् । अतः केनोपनिषत्पदभाष्ये इह एव चेत् मनुष्योऽधिकृतः समर्थः सन् यदि अवेदीत् आत्मानं यथोक्तलक्षणं विदितवान् यथोक्तेन प्रकारेण, अथ तदा अस्ति सत्यं मनुष्यजन्मन्यस्मिन्नविनाशोऽर्थवत्ता वा स- द्भावो वा परमार्थता वा सत्यं विद्यते । न चेदिहावेदीदिति, न चेत् इह जीवंश्चेत् अधिकृतः अवेदीत् न विदितवान्, तदा महती दीर्घा अनन्ता विनष्टि: विनाशनं जन्मजरामर - णादिप्रबन्धाविच्छेदलक्षणा संसारगतिः । तस्मादेवं गुणदोषौ विजानन्वो ब्राह्मणाः भूतेषु भूतेषु सर्वभूतेषु स्थावरेषु चरेषु च एकमात्मतत्त्वं ब्रह्म विचित्य विज्ञाय साक्षात्कृत्य धीराः धीमन्तः प्रेत्य व्यावृत्य ममाहंभावलक्षणादविद्या रूपादस्माल्लो- कात् उपरम्य सर्वात्मैकभावमद्वैतमापन्नाः सन्तः अमृता भवन्ति ब्रह्मैव भवन्तीत्यर्थः । ' स . यो ह वै तत्परं ब्रह्म वेद ब्रह्मैव भवति' इति श्रुतेः ॥ इति द्वितीयः खण्डः ॥ तृतीयः खण्डः ॥ ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्ष- न्तास्माकमेवायं विजयोऽस्माकमेवायं म- हिमेति ॥ १ ॥ ब्रह्म देवेभ्यो विजिग्ये । 'अविज्ञातं विजानतां विज्ञा- तमविजानताम्' इत्यादिश्रवणात् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पमत्यन्तमेवासद्दृष्टम् । तथेदं ब्रह्माविज्ञातत्वादसदेवेति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते । तदेव हि ब्रह्म सर्व- प्रकारेण प्रशास्तृ देवानामपि परो देवः, ईश्वराणामपि परमे- श्वरः, दुर्विज्ञेयः, देवानां जयहेतु:, असुराणां पराजयहेतुः ; तत्कथं नास्तीत्येतस्यार्थस्यानुकूलानि ह्युत्तराणि वचांसि दृश्य- .न्ते । अथवा ब्रह्मविद्याया: स्तुतये । कथम् ? ब्रह्मविज्ञानाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः । ततोऽप्यतितरा- मिन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्मेत्येतत्प्रदर्श्यते— येना- केनोपनिषत्पदभाष्ये ग्न्यादयोऽतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति । वक्ष्यमाणोपनिषद्विधिपरं वास- । ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वाद्यभिमानो मिथ्येत्येतद्दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्यभि- मानस्तद्वदिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् देवानामसुराणां च संग्रामेऽसुराजित्वा जगदरातीनीश्वरसेतुभेत्तृन् देवेभ्यो जयं तत्फलं च प्रायच्छन- गतः स्थेम्ने । तस्य ह किल ब्रह्मणो विजये देवा: अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः । तदा आत्मसंस्थस्य प्रत्यगा- मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा चेत्य- जानन्तः ते देवा: ऐक्षन्त ईक्षितवन्तः अग्न्यादिस्वरूपपरि-' च्छिन्नात्मकृतः अस्माकमेवायं विजयः अस्माकमेवायं म- हिमा अग्निवाविन्द्रत्वादिलक्षणो जयफलभूतोऽस्माभिरनु- भूयते नास्मत्प्रत्यगात्मभूतेश्वरकृत इति ॥ तद्वैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥ एवं मिध्याभिमानेक्षणवतां तत् ह किल एषां मिध्येक्षणं तृतीयः खण्डः । विजज्ञौ विज्ञातवद्ब्रह्म । सर्वेक्षितृ हि तत् सर्वभूतकरणप्रयो- क्तृत्वात् देवानां च मिथ्याज्ञानमुपलभ्य मैवासुरवद्देवा मि- ध्याभिमानात्पराभवेयुरिति तदनुकम्पया देवान्मिथ्याभिमा- नापनोदनेनानुगृह्णीयामिति तेभ्यः देवेभ्यः ह किल अर्थाय प्रादुर्बभूव स्वयोगमाहात्म्यनिर्मितेनात्यद्भुतेन विस्मापनीयेन रूपेण देवानामिन्द्रियगोचरे प्रादुर्बभूव प्रादुर्भूतवत् । तत् प्रादुर्भूतं ब्रह्म न व्यजानत नैव विज्ञातवन्तः देवा: किमिदं यक्षं पूज्यं महद्भूतमिति ॥ तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ३ ॥ तद्भ्यद्रवत्तमभ्यवदत् कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मी- ति ॥ ४ ॥ तस्मि स्त्वयि किं वीर्यमित्यपीद सर्व दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव केनोपनिषत्पदभाष्ये निववृते नैतदशकं विज्ञातुं यदेतद्यक्ष- मिति ॥ ६ ॥ ते तदजानन्तो देवाः सान्तर्भयास्तद्विजिज्ञासवः अग्निम् अग्रगामिनं जातवेदसं सर्वज्ञकल्पम् अब्रुवन् उक्तवन्तः । हे जातवेदः एतत् अस्मद्गोचरस्थं यक्षं विजानीहि विशेषतो बुध्यस्व त्वं नस्तेजस्वी किमेतद्यक्षमिति । तथा अस्तु इति तत् यक्षम् अभि अद्रवत् तत्प्रति गतवानग्निः । तं च गतवन्तं पिपृच्छिषुं तत्समीपेऽप्रगल्भत्वात्तूष्णींभूतं तद्यक्षम् अभ्यवदत् अग्निं प्रति अभाषत कोऽसीति । एवं ब्रह्मणा पृष्टोऽग्निः अब्रवीत् अग्निर्वै अग्निर्नामाहं प्रसिद्धो . जात- वेदा इति च नामद्वयेन प्रसिद्धतयात्मानं श्लाघयन्निति । एव- मुक्तवन्तं ब्रह्मावोचत् तस्मिन् एवं प्रसिद्धगुणनामवति त्वयि किं वीर्यं सामर्थ्यम् इति । सोऽब्रवीत् इदं जगत् सर्व दहेयं भस्मीकुर्यां यत् इदं स्थावरादि पृथिव्याम् इति । पृथिव्या- मित्युपलक्षणार्थम्, यतोऽन्तरिक्षस्थमपि दह्यत एवाग्निना । तस्मै एवमभिमानवते ब्रह्म तृणं निदधौ पुरोऽग्नेः स्थापित- वत् । ब्रह्मणा ' एतत् तृणमात्रं ममाग्रतः दह ; न चेदसि दग्धुं समर्थः, मुश्च दग्धृत्वाभिमानं सर्वत्र' इत्युक्तः तत् तृणम् उपप्रेयाय तृणसमीपं गतवान् सर्वजवेन सर्वोत्साहकृतेन तृतीयः खण्डः वेगेन । गत्वा तत् न शशाक नाशकत् दग्धुम् । सः जात- वेदाः तृणं दग्धुमशक्तो ब्रीडितो हतप्रतिज्ञः तत एव यक्षादेव तूष्णीं देवान्प्रति निववृते निवृत्तः प्रतिगतवान् न एतत् य- क्षम् अशकं शक्तवानहं विज्ञातुं विशेषतः यदेतद्यक्षमिति ॥ अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥ तदद्भ्यद्रवत्तमभ्यवदत्कोऽसीति वायु- र्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अह- मस्मीति ॥ ८ ॥ तस्मित्वयि किं वीर्यमित्यपीद‍ सर्व- माददीय यदिदं पृथिव्यामिति ॥ ९ ॥ तस्मै तृणं निदधावेतदादत्खेति तदुप- प्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदे- तद्यक्षमिति ॥ १० ॥ अथ अनन्तरं वायुमब्रुवन् हे वायो एतद्विजानीहीत्यादि S. U. 5 केनोपनिषत्पदभाष्ये समानार्थे पूर्वेण । वानाद्गमनाद्गन्धनाद्वा वायुः । मातर्यन्त- रिक्षे श्वयतीति मातरिश्वा । इदं सर्वमपि आददीय गृही- याम् । यदिदं पृथिव्यामित्यादि समानमेव ॥ अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि कि- मेतद्यक्षमिति तथेति तद्भ्यद्रवत्तस्मान्ति- रोदधे ॥ ११ ॥ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं ताँ होवाच किमेतद्यक्षमिति ॥ १२ ॥ इति तृतीयः खण्डः ॥ अथेन्द्रमब्रुवन्मघवन्ने तद्विजानीहीत्यादि पूर्ववत् । इन्द्रः परमेश्वरो मघवा बलवत्त्वात् तथेति तद्भ्यद्रवत् । तस्मात् इन्द्रादात्मसमीपं गतात् तद्ब्रह्म तिरोदधे तिरोभूतम् । इन्द्रस्ये- न्द्रत्वाभिमानोऽतितरां निराकर्तव्य इत्यतः संवादमात्रमपि नादान्द्राय । तद्यक्षं यस्मिन्नाकाशे आकाशप्रदेशे आत्मानं दर्शयित्वा तिरोभूतमिन्द्रश्च ब्रह्मणस्तिरोधानकाले यस्मिन्ना- काशे आसीत्, सः इन्द्रः तस्मिन्नेव आकाशे तस्थौ किं } तृतीयः खण्डः । तद्यक्षमिति ध्यायन् न निववृतेऽग्न्यादिवत् । तस्येन्द्रस्य यक्षे भक्ति बुद्धा विधा उमारूपिणी प्रादुरभूत्स्त्रीरूपा । सः इन्द्रः ताम् उमां बहु शोभमानाम्; सर्वेषां हि शोभमानानां शोभनतमा विद्या । तदा बहु शोभमानेति विशेषणमुपपन्नं भवति । हैमवतीं हेमकृताभरणवतीमिव बहु शोभमानामि- त्यर्थः । अथवा उमै हिमवतो दुहिता हैमवती नित्यमेव सर्वज्ञेनेश्वरेण सह वर्तत इति ज्ञातुं समर्थेति कृत्वा तामुप- जगांम । इन्द्रः तां ह उमां किल उवाच पप्रच्छ ब्रूहि किमे- तद्दर्शयित्वा तिरोभूतं यक्षमिति ॥ 1 इति तृतीयः खण्डः ॥ चतुर्थः खण्डः ॥ सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति ॥ १ ॥ सा ब्रह्मेति होवाच ह किल ब्रह्मणः वै ईश्वरस्यैव विजये – ईश्वरेणैव जिता असुराः । यूयं तत्र निमित्तमात्रम् । - तस्यैव विजये - यूयं महीयध्वं महिमानं प्राप्नुथ । एतदिति क्रियाविशेषणार्थम् । मिथ्याभिमानस्तु युष्माकम् — अस्मा- कमेवायं विजयोऽस्माकमेवायं महिमेति । ततः तस्मादुमावा- क्यात् ह एव विदांचकार ब्रह्मेति इन्द्रः ; अवधारणात् ततो हैव इति, न स्वातन्त्र्येण ॥ तस्माद्वा एते देवा अतितरामिवान्या- न्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्प- शुस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ यस्मादग्निवाविन्द्रा एते देवा ब्रह्मणः संवाददर्शनादिना सामीप्यमुपगताः, तस्मात् स्वैर्गुणैः अतितरामिव शक्ति- चतुर्थः : खण्ड: । गुणादिमहाभाग्यैः अन्यान् देवान् अतितराम् अतिशेरत sa एते देवाः । इवशब्दोऽनर्थकोऽवधारणर्थो वा । यत् अग्निः वायुः इन्द्रः ते हि देवा यस्मात् एनत् ब्रह्म नेदिष्ठम् अन्तिकतमं प्रियतमं पस्पर्शः स्पृष्टवन्तो यथोक्तै- ह्मण: संवादादिप्रकारैः, ते हि यस्माच्च हेतोः एनत् ब्रह्म प्रथमः प्रथमाः प्रधानाः सन्त इत्येतत् विदांचकार विदां- चक्रुरित्येतत्, ब्रह्मेति । तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवा- न्स ह्येनन्नेदिष्टं पस्पर्श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ ३ ॥ यस्मादग्निवायू अपि इन्द्रवाक्यादेव विदांचक्रतुः इन्द्रेण हि उमावाक्यात्प्रथमं श्रुतं ब्रह्मेति ; तस्माद्वै इन्द्रः अति- तरामिव अतिशेत इव अन्यान् देवान् । स ह्येनन्नेदिष्ठं पस्पर्श यस्मात् स ह्येनत्प्रथमो विदांचकार ब्रह्मेत्युक्तार्थ वाक्यम् ॥ तस्यैष आदेशो यदेतद्विद्युतो व्यद्यु- इतीन्नथमीमिषदा ३ इत्यधिदैव- तदा३ तम् ॥ ४ ॥ I केनोपनिषत्पद भाष्ये तस्य प्रकृतस्य ब्रह्मणः एषः आदेश: उपमोपदेशः । निरुपमस्य ब्रह्मणो येनोपमानेनोपदेशः सोऽयमादेश इत्यु- च्यते । किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतः व्यद्युतत् विद्योतनं कृतवदित्येतदनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते । आ३ इत्युपमार्थः । विद्युतो विद्योतनमिवेत्यर्थः, 'यथा सकृद्विद्युतम्' इति श्रुत्यन्तरे च दर्शनात् । विद्युदिव हि. सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा वि- द्युतः 'तेज:' इत्यध्याहार्यम् । व्यद्युतत् विद्योतितवत् आ३ इव । विद्युतस्तेजः सकृद्विद्योतितवदिवेत्यभिप्रायः । इतिशब्द आदे- शप्रतिनिर्देशार्थ : -- इत्ययमादेश इति । इच्छन्दः समुच्चयार्थः । अयं चापरस्तस्यादेशः । कोऽसौ ? न्यमीमिषत् यथा चक्षुः । न्यमीमिषत् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥ अथाध्यात्मं यदेतद्गच्छतीव च मनो- ऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः ॥ ५ ॥ अथ अनन्तरम् अध्यात्मं प्रत्यगात्मविषय आदेश उच्यते । यदेतत् गच्छतीव च मनः । एतद्ब्रह्म ढौकत इव विषयीकरो- तीव । यच्च अनेन मनसा एतत् ब्रह्म उपस्मरति समीपतः चतुर्थः खण्डः । स्मरति साधक: अभीक्ष्णं भृशम् । संकल्पश्च मनसो ब्रह्म- विषयः । मनउपाधिकत्वाद्धि मनसः संकल्पस्मृत्यादिप्रत्ययै- रभिव्यज्यते ब्रह्म, विषयीक्रियमाणमिव । अतः स एष ब्रह्मणोऽध्यात्ममादेशः । विद्युन्निमेषणवदधिदैवतं द्रुतप्रका- शनधर्मि, अध्यात्मं च मनः प्रत्ययसमकालाभिव्यक्तिधर्मि, इत्येष आदेशः । एवमादिश्यमानं हि ब्रह्म मन्दबुद्धिगम्यं भवतीति ब्रह्मण आदेश उपदेशः । न हि निरुपाधिकमेव ब्रह्म मन्दबुद्धिभिराकलयितुं शक्यम् ॥ तद्ध तद्वनं नाम तदनमित्तु पासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भू-. तानि संवाञ्छन्ति ॥ ६ ॥ किंच, तत् ब्रह्म ह किल तद्वनं नाम तस्य वनं तद्वनं तस्य प्राणिजातस्य प्रत्यगात्मभूतत्वाद्वनं वननीयं संभजनीयम् । अतः तद्वनं नाम ; प्रख्यातं ब्रह्म तद्वनमिति यतः, तस्मात् तद्वन- मिति अनेनैव गुणाभिधानेन उपासितव्यं चिन्तनीयम् । अनेन नाम्नोपासनस्य फलमाह- - स यः कश्चित् एतत् यथोक्तं ब्रह्म एवं यथोक्तगुणं वेद् उपास्ते अभि ह एनम् उपासकं सर्वाणि भूतानि अभि संवाञ्छन्ति ह प्रार्थयन्त एव यथा ब्रह्म ॥ केनोपनिषत्पदभाष्ये उपनिषदं भो ब्रूहीत्युक्ता त उपनिष- ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥ एवमनुशिष्टः शिष्य आचार्यमुवाच - उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचा- र्य :——— उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह- ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम्, परमात्मविषयत्वा- दतीतविज्ञानस्य, वाव एव ते उपनिषदमब्रूमेति उक्तामेव परमा- त्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम् । परमात्मविष- यामुपनिषदं श्रुतवत: उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः? यदि तावच्छ्रुतस्यार्थस्य प्रश्नः कृतः, ततः पि- ष्टपेषणवत्पुनरुक्तोऽनर्थकः प्रश्नः स्यात् । अथ सावशेषोक्तो- पनिषत्स्यात्, ततस्तस्याः फलवचनेनोपसंहारो न युक्त: ' प्रे- त्यास्माल्लोकादमृता भवन्ति' इति । तस्मादुक्तोपनिषच्छेष- विषयोऽपि प्रश्नोऽनुपपन्न एव, अनवशेषितत्वात् । कस्त- र्ह्यभिप्रायः प्रष्टुरिति । उच्यते । किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा, अथ निरपेक्षैव ? सापेक्षा चेद- पेक्षितविषयामुपनिषदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्येवमभिप्रायः । एतदुपपन्नमाचार्य- स्यावधारणवचनम् ' उक्ता त उपनिषत्' इति । ननु नावधा- चतुर्थः खण्डः । रणमिदम्, यतोऽन्यद्वक्तव्यमाह ' तस्यै तपो दमः ' इत्यादि । सत्यम्, वक्तव्यमुच्यते आचार्येण । न तूक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा ; किंतु ब्रह्मविद्याप्राप्त्यु- पायाभिप्रायेण वेदैस्तदङ्गैश्व सहपाठेन समीकरणात्तपः प्रभृती- नाम् । न हि वेदानां शिक्षायङ्गानां च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा संभवति । सहपठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेत्; यथा सूक्तवाकानुमन्त्रण- मन्त्राणां यथादैवतं विभागः, तथा तपोदमकर्मसत्यादीनामपि ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्ययं विभागो युज्यते अर्थसंबन्धोपपत्तिसामर्थ्यादिति चेत्, न; अयुक्तेः । न ह्ययं विभागो घटनां प्राश्वति । न हि सर्वक्रि- याकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारि साधनसंबन्धो वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगा- त्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायास्तत्फलस्य च निःश्रेयसस्य । 'मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् तस्मात्कर्मणां सहका- रित्वं कर्मशेषापेक्षा वा न ज्ञानस्योपपद्यते । ततोऽसदेव सूक्तवाकानुमन्त्रणवद्यथायोगं विभाग इति । तस्मादवधा- केनोपनिषत्पदभाष्ये रणार्थतैव प्रश्नप्रतिवचनस्योपपद्यते । एतावत्येवेयमुपनिष- दुक्तान्यनिरपेक्षा अमृतत्वाय ॥ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ॥ ८ ॥ यामिमां ब्राह्मीमुपनिषदं तवाग्रेऽब्रूमेति तस्यै तस्या उक्ता- या उपनिषदः प्राप्त्युपायभूतानि तपआदीनि । तपः काये- न्द्रियमनसां समाधानम् । दमः उपशमः । कर्म अग्निहोत्रादि । एतैर्हि संस्कृतस्य सत्त्वशुद्धिद्वारा तत्त्वज्ञानोत्पत्तिर्दृष्टा । दृष्टा ह्यमृदितकल्मषस्योऽपि ब्रह्मण्यप्रतिपत्तिर्विपरीतप्रतिपत्तिश्च, यथेन्द्रविरोचनप्रभृतीनाम् । तस्मादिह वातीतेषु वा बहुषु जन्मान्तरेषु तपआदिभिः कृतसत्त्वशुद्धेर्ज्ञानं समुत्पद्यते यथा- श्रुतम् ' यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः' इति मन्त्रव- र्णात् । 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण: ' इति स्मृतेश्च । इतिशब्दः उपलक्षणत्वप्रदर्शनार्थः । इति एवमाद्यन्य- दपि ज्ञानोत्पत्तेरुपकारकम् ' अमानित्वमदम्भित्वम्' इत्याद्यु- पदर्शितं भवति । प्रतिष्ठा पादौ पादाविवास्या : ; तेषु हि सत्सु प्रतितिष्ठति ब्रह्मविद्या प्रवर्तते, पद्भयामिव पुरुषः । वेदाश्चत्वारः सर्वाणि चाङ्गानि शिक्षादीनि षट् कर्म- चतुर्थः खण्डः । ज्ञानप्रकाशकत्वाद्वेदानां तद्रक्षणार्थत्वादङ्गानां प्रतिष्ठात्वम् । अथवा, प्रतिष्ठाशब्दस्य पादरूपकल्पनार्थत्वाद्वेदास्त्वितराणि सर्वाङ्गानि शिरआदीनि । अस्मिन्पक्षे शिक्षादीनां वेदग्रहणे- नैव ग्रहणं कृतं प्रत्येतव्यम् । अङ्गिनि हि गृहीतेऽङ्गानि गृहीता- न्येव भवन्ति, तदायत्तत्वादङ्गानाम् । सत्यम् आयतनं यत्र तिष्ठत्युपनिषत् तदायतनम् । सत्यमिति अमायिता अकौटिल्यं वाङ्मनः कायानाम् । तेषु ह्याश्रयति विद्या ये अमायाविन: साधवः, नासुरप्रकृतिषु मायाविषु; 'न येषु जिह्ममनृतं न माया च' इति श्रुतेः । तस्मात्सत्यमायतनमिति कल्प्यते । तप- आदिष्वेव प्रतिष्ठात्वेन प्राप्तस्य सत्यस्य पुनरायतनत्वेन ग्रहणं साधनातिशयत्वज्ञापनार्थम् । 'अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते ' इति स्मृतेः ॥ . यो वा एतामेवं वेदापहत्य पाप्मानम- नन्ते खर्गे लोके ज्येये प्रतितिष्ठति प्रति- तिष्ठति ॥ ९ ॥ इति चतुर्थः खण्डः ॥ यो वैतां ब्रह्मविद्याम् ' केनेषितम्' इत्यादिना यथोक्ताम् एवं महाभागाम् ' ब्रह्म ह देवेभ्यः' इत्यादिना स्तुतां सर्वविद्या- केनोपनिषत्पदभाष्ये प्रतिष्ठां वेद । 'अमृतत्वं हि विन्दते' इत्युक्तमपि ब्रह्मविद्या- फलमन्ते निगमयति-- अपहत्य पाप्मानम् अविद्याकामकर्म- लक्षणं संसारबीजं विधूय अनन्ते अपर्यन्ते स्वर्गे लोके सुखा- त्मके ब्रह्मणीत्येतत् । अनन्ते इति विशेषणान्न त्रिविष्टपे अन- न्तशब्द औपचारिकोऽपि स्यादित्यत आह- ज्येये इति । ज्येये ज्यायसि सर्व महत्तरे स्वात्मनि मुख्ये एव प्रतिति - ष्ठति । न पुनः संसारमापद्यत इत्यभिप्राय: ॥ I इति चतुर्थः खण्डः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ केनोपनिषत्पदभाष्यम् संपूर्णम् ॥ आप्यारन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो ब- लमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म नि- राकरोदनिराकरणमस्त्वनि - राकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ 11 केनोपनिषद्वाक्यभाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । आप्यायन्तु ममाङ्कानि वाक्प्राणश्चक्षुः श्रोत्रमथो ब- लमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म नि- राकरोदनिराकरणमस्त्वनि - राकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ S. U. 6 00:ৰ- ॥ केनोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचिते. वाक्यभाष्येण सहिता । समाप्तं कर्मात्मभूतप्राणविषयं विज्ञानं कर्म चानेकप्रकारम्, ययो- र्विकल्पसमुच्चयानुष्ठानाद्दक्षिणोत्तराभ्यां सृतिभ्यामावृत्त्यनावृत्ती भवतः । अत ऊर्ध्व फलंनिरपेक्षज्ञानकर्मसमुच्चयानु- ष्ठानात्कृतात्मसंस्कारस्य उच्छिन्नात्म- ज्ञानप्रतिबन्धकस्य द्वैतविषयदोषदर्शिनः निर्ज्ञाताशेषबाह्य विषयत्वात् संसारबीजमज्ञानमुञ्चिच्छित्सत; प्रत्यगात्मविषयजिज्ञासो: ' केनेषितम् .... ' इत्यात्मस्वरूपत- केनोपनिषद्वाक्यभाष्ये स्वविज्ञानाय अयमध्याय आरभ्यते । तेन च मृत्युपदमज्ञान- मुच्छेत्तव्यम् ; तत्तन्त्रो हि संसारो यतः । अनधिगतत्वादात्मनो युक्ता तदधिगमाय तद्विषया जिज्ञासा । कर्मविषये चानुक्ति- स्तद्विरोधित्वात् । अस्य विजिज्ञासितव्यस्यात्मतत्त्वस्य कर्म- विषयेऽवचनं कस्मादिति चेत्, आत्मनो हि यथावद्विज्ञानं कर्मणा विरुध्यते । निरतिशयब्रह्मस्वरूपो ह्यात्मा विजिज्ञाप- यिषितः, ' तदेव ब्रह्म त्वं विद्धि नेदं यदिदम्' इत्यादिश्रुतेः । न हि स्वाराज्येऽभिषिक्तो ब्रह्मत्वं गमितः कंचन नमितु- मिच्छति । अतो ब्रह्मास्मीति संबुद्धौ न कर्म कारयितुं शक्यते । न ह्यात्मानमवाप्तार्थं ब्रह्म मन्यमानः प्रवृत्ति प्रयो- जनवतीं पश्यति । न च निष्प्रयोजना प्रवृत्तिः । अतो विरुध्यत एव कर्मणा ज्ञानम् । अतः कर्मविषयेऽनुक्तिः । विज्ञानविशेषविषयैव जिज्ञासा । कर्मानारम्भ इति चेत्, न; निष्कामस्य संस्कारार्थत्वात् । यदि ह्यात्मविज्ञानेन आत्मा- विद्याविषयत्वात्परितित्याजयिषितं कर्म, तत: ' प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इत्यनारम्भ एव कर्मणः श्रेयान् अल्पफलत्वात् आयासबहुलत्वात् तत्त्वज्ञानादेवं च श्रेय:- प्राप्तेः इति चेत्, सत्यम् एतदविद्याविषयं कर्म अल्पफल- त्वादिदोषवद्बन्धरूपं च सकामस्य ; 'कामान्य: कामयते ' प्रथमः खण्डः । ' ' इति नु कामयमान:' इत्यादिश्रुतिभ्यः । न निष्कामस्य । तस्य तु संस्कारार्थान्येव कर्माणि भवन्ति तन्निर्वर्तक- प्राणविज्ञानसहितानि । 'देवयाजी श्रेयानात्मयाजी वा इत्युपक्रम्य आत्मयाजी तु करोतीं मेऽनेनाङ्गं संस्क्रियते ' इति संस्कारार्थमेव कर्माणीति वाजसनेयके ; 'महायज्ञैश्च यज्ञैश्व ब्राह्मीयं क्रियते तनुः । यज्ञो दानं तपञ्चैव पावनानि मनीषिणाम्' इत्यादिस्मृतेश्च । प्राणादिविज्ञानं च केवलं कर्मसमुञ्चितं वा सकामस्य प्राणात्मप्राप्त्यर्थमेव भवति । निष्कामस्य त्वात्मज्ञानप्रतिबन्धकनिर्मृष्टथै भवत्यादर्श निर्मार्ज- नवत् । उत्पन्नात्मविद्यस्य त्वनारम्भः, निरर्थकत्वात् । 'कर्म- णा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्व- न्ति यतयः पारदर्शिनः' इति, क्रियापथश्चैव पुरस्तात्संन्या- सश्च तयोः संन्यास एवात्यरेचयत् इति, 'त्यागेनैके ' ' नान्यः पन्था विद्यते' इत्यादिश्रुतिभ्यश्च । न्यायाच्च । उपायभूतानि हि कर्माणि संस्कारद्वारेण ज्ञानस्य । ज्ञानेन त्वमृतत्वप्राप्तिः 'अमृतत्वं हि विन्दते ' ' विद्यया विन्दतेऽमृतम्' इत्यादिश्रुति- स्मृतिभ्यश्च । न हि नद्याः पारगो नावं न मुवति यथेष्टदेश- गमनं प्रति स्वातन्त्र्ये सति । न हि स्वभावसिद्धं वस्तु सि- षाधयिषति साधनैः । स्वभावसिद्धश्वात्मा । तथा नापिपयि- ' केनोपनिषद्वाक्यभाष्ये षितः, आत्मत्वे सति नित्याप्तत्वात् । नापि विचिकारयि - तः, आत्मत्वे सति नित्यत्वादविकारित्वादविषयत्वादमूर्तत्वा- च; श्रुतेश्च 'न वर्धते कर्मणा' इत्यादि; स्मृतेश्व ' अविका- र्योऽयमुच्यते ' इति । न च संचिस्कीर्षितः, 'शुद्धमपापविद्ध- म्' इत्यादिश्रुतिभ्यः । अनन्यत्वाच्च । अन्येनान्यत्संस्क्रियते । न चात्मनोऽन्यभूता क्रियास्ति । न च स्वेनैवात्मना स्वमा- त्मानं संचिकीर्षेत् । न च वस्त्वन्तराधानं नित्यप्राप्तिर्वा वस्त्व- न्तरस्य नित्या । नित्यत्वं चेष्टं मोक्षस्य । अत उत्पन्नविद्यस्य कर्मारम्भोऽनुपपन्नः । अतो व्यावृत्तबाह्यबुद्धेरात्मविज्ञानाय केनेषितम्' इत्याद्यारम्भः ॥ " केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥ प्रवृत्तिलिङ्गाद्विशेषार्थः प्रश्न उपपन्नः । रथादीनां हि चेतनावदधिष्ठितानां प्रवृत्तिर्दृष्टा, न अनधिष्ठितानाम् । मन- आदीनां च अचेतनानां प्रवृत्तिर्दृश्यते ; तद्धि लिङ्गं चेतना- वतोऽधिष्ठातुरस्तित्वे । करणानि हि मनआदीनि नियमेन . प्रथमः खण्डः । प्रवर्तन्ते; तन्नासति चेतनावत्यधिष्ठातर्युपपद्यते । तद्विशेषस्य चानधिगमाच्चेतनावत्यधिष्ठातृसामान्ये चाधिगते विशेषार्थः प्रश्न उपपद्यते । केनेषितं केनेष्टं कस्येच्छामात्रेण मनः पतति गच्छति, स्वविषये नियमेन व्याप्रियत इत्यर्थः । मनुतेऽनेनेति विज्ञाननिमित्तमन्तःकरणं मनः । प्रेषितमिवेत्युपमार्थः । न त्विषित प्रेषितशब्दयोरर्थाविह संभवत: । न हि शिष्यानिव मनआदीनि विषयेभ्यः प्रेषयत्यात्मा । विविक्तनित्यचि- त्स्वरूपतया तु निमित्तमात्रं प्रवृत्तौ नित्यचिकित्साधिष्ठातृवत् । प्राण इति नासिकाभवः प्रकरणात् । प्रथमत्वं च क्रियायाः प्राणनिमित्तत्वात् । स्वतो विषयावभासमात्रं करणानां प्रवृत्तिः । चलिक्रिया तु प्राणस्यैव मनआदिषु । तस्मात्प्राथम्यं प्राणस्य । प्रैति गच्छति । युक्तः प्रयुक्त इत्येतत् । वाचो वचनं किंनि- मित्तं प्राणिनाम् । चक्षुः श्रोत्रयोश्च को देवः प्रयोक्ता । करणानामधिष्ठाता चेतनावान्यः, स किंविशेषण इत्यर्थः ॥ श्रोत्रस्य श्रोत्रं मनसो मनो य- द्वाचो ह वाच स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ ' श्रोत्रस्य श्रोत्रम्' इत्यादिप्रतिवचनं निर्विशेषस्य निमि- केनोपनिषद्वाक्यभाष्ये तत्वार्थम् । विक्रियादिविशेषरहितस्यात्मनो मन आदिप्रवृत्तौ निमित्तत्वमित्येतत् ' श्रोत्रस्य श्रोत्रम्' इत्यादिप्रतिवचन- स्यार्थः, अनुगमात् । अनुगतानि ह्यस्मिन्नर्थेऽक्षराणि । कथम् ? शृणोत्यनेनेति श्रोत्रम् । तस्य शब्दावभासकत्वं श्रोत्र- त्वम् । शब्दोपलब्धृरूपतयावभासकत्वं न स्वत: श्रोत्रस्य ; अचिद्रूपत्वात्, आत्मनश्च चिद्रूपत्वात् । यच्छ्रोत्रस्योपलब्धृ- त्वेनावभासकत्वं तदात्मनिमित्तत्वाच्छ्रोत्रस्य श्रोत्रमित्युच्यते । यथा क्षत्रस्य क्षत्रम्, यथा वा उदकस्यौष्ण्यमग्निनिमित्त- मिति दग्धुरप्युदकस्य दग्धाभिरुच्यते उदकमपि ह्यग्निसंयो- गादभिरुच्यते, तद्वदनित्यं यत्संयोगादुपलब्धृत्वं तत्करणं श्रोत्रादि । उदकस्येव दग्धृत्वमनित्यं हि तत्र तत् । यत्र तु नित्यमुपलब्धृत्वमग्नाविवौष्ण्यं स नित्योपलब्धिस्वरूपत्वात् दग्धेोपलब्धोच्यते । श्रोत्रादिषु श्रोतृत्वाद्युपलब्धिरनित्या, नित्या चात्मनि । अत: श्रोत्रस्य श्रोत्रमित्याद्यक्षराणामर्थानु- गमादुपपद्यते निर्विशेषस्योपलब्धिस्वरूपस्यात्मनो मनआ- दिप्रवृत्तिनिमित्तत्वमिति । मनआदिष्वेवं यथोक्तम् । वाचो ह वाचं प्राणस्य प्राण इति विभक्तिद्वयम् । सर्वत्रैवं हि द्रष्टव्यम् । कथम् ? पृष्टत्वात् स्वरूपनिर्देशः । प्रथमयैव च निर्देशः । तस्य च ज्ञेयत्वात्कर्मत्वमिति द्वितीया । अतो वाचो ह वाचं प्रथमः खण्डः । e प्राणस्य प्राण इत्यस्मात्सर्वत्रैव विभक्तिद्वयम् । यदेतच्छ्रोत्रा- द्युपलब्धिनिमित्तं श्रोत्रस्य श्रोत्रमित्यादिलक्षणं तत् नित्यो- पलब्धिस्वरूपं निर्विशेषमात्मतत्त्वं बुद्धा अतिमुच्य अनवबो- धनिमित्ताध्यारोपिताद्बुद्ध्यादिलक्षणात्संसारान्मोक्षणं कृत्वा धीराः धीमन्तः प्रेत्य अस्मात् लोकात् शरीरात् प्रेत्य वियुज्य अन्यस्मिन्नप्रतिसंधीयमाने निर्निमित्तत्वादमृता भवन्ति । सति ज्ञाने कर्माणि शरीरान्तरं प्रतिसंदधते । आत्माव- बोधे तु सर्वकर्मारम्भनिमित्ताज्ञानविपरीतविद्यानिविप्लुष्टत्वा- तु त्कर्मणामिति अनारम्भेऽमृता एव भवन्ति । शरीरादिसंताना- विच्छेदप्रतिसंधानाद्यपेक्षया अध्यारोपितमृत्युवियोगात्पूर्वम- यमृताः सन्तो नित्यात्मस्वरूपत्वादमृता भवन्तीत्युपचर्यते ॥ न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३ ॥ . न तत्र चक्षुर्गच्छतीत्युक्तेऽपि पर्यनुयोगे हेतुरप्रतिपत्तेः । 'श्रोत्रस्य श्रोत्रम्' इत्येवमादिनोक्तेऽप्यात्मतत्त्वे अप्रतिपन्न- त्वात्सूक्ष्मत्वहेतोर्वस्तुन: पुन: पुन: पर्यनुयुयुक्षाकारणमाह- केनोपनिषद्वाक्यभाष्ये न तत्र चक्षुर्गच्छतीति । तत्र श्रोत्राद्यात्मभूते चक्षुरादीनि, वाक्चक्षुषोः सर्वेन्द्रियोपलक्षणार्थत्वात्, न विज्ञानमुत्पादय- न्ति । सुखादिवत्तर्हि गृह्येतान्तःकरणेन अत आह—नो मनः, न सुखादिवन्मनसो विषयस्तत्, इन्द्रियाविषयत्वात् । न वि- यो न विजानीमः अन्तःकरणेन, यथा एतत् ब्रह्म मनआदि- करणजातम् अनुशिष्यात् अनुशासनं कुर्यात् प्रवृत्तिनिमित्तं यथा भवेत्, तथा अविषयत्वान्न विद्मो न विजानीमः । अथवा श्रोत्रादीनां श्रोत्रादिलक्षणं ब्रह्म विशेषेण दर्शयेत्युक्त आचार्य - न शक्यते दर्शयितुम् । कस्मात् ? न तत्र चक्षुर्ग- च्छतीत्यादि पूर्ववत्सर्वम् । अत्र तु विशेषो यथैतदनुशिष्या- दिति । यथैतत् अनुशिष्यात् प्रतिपादयेत् अन्योऽपि शिष्या- नितोऽन्येन विधिनेत्यभिप्राय: ॥ आह अन्यदेव तद्विदिता- दो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तदाचचक्षिरे ॥ ४ ॥ सर्वथापि ब्रह्म बोधयेत्युक्त आचार्य आह ' अन्यदेव तद्विदितादथो अविदितादधि' इत्यागमम् । विदिताविदि- ताभ्यामन्यत् यो हि ज्ञाता स एव सः, सर्वात्मकत्वात् । प्रथमः खण्डः । i अतः सर्वात्मनो ज्ञातुर्ज्ञात्रन्तराभावाद्विदितादन्यत्वम् । 'स वेति वेद्यं न च तस्यास्ति वेत्ता' इति च मन्त्रवर्णात् । 'वि ज्ञातारमरे केन विजानीयात्' इति च वाजसनेयके । अपि च व्यक्तमेव विदितं तस्मादन्यदित्यभिप्रायः । यद्विदितं व्यक्तं तदन्यविषयत्वादल्पं सविरोधं ततोऽनित्यम् अत एवानेक- त्वादशुद्धम् अत एव तद्विलक्षणं ब्रह्मेति सिद्धम् । अस्तु त - विदितम् । न, विज्ञानानपेक्षत्वात् । यद्धयविदितं तद्विज्ञानापे- क्षम् । अविदितविज्ञानाय हि लोकप्रवृत्तिः । इदं तु विज्ञा- नानपेक्षम् । कस्मात् ? विज्ञानस्वरूपत्वात् । न हि यस्य यत्स्व- रूपं तत्तेनान्यतोऽपेक्ष्यते । न च स्वत एव वापेक्षा, अनपेक्षमेव सिद्धत्वात् । न हि प्रदीपः स्वरूपाभिव्यक्तौ प्रकाशान्तरमन्यतो- ऽपेक्षते, स्वतो वा । यद्धयनपेक्षं तत्स्वत एव सिद्धम्, प्रकाशात्म- कत्वात् । प्रदीपस्यान्योऽपेक्षितोऽप्यनर्थकः स्यात्, प्रकाशे विशेषाभावात् । न हि प्रदीपस्य स्वरूपाभिव्यक्तौ प्रदीपप्रका- शोऽर्थवान् । न चैवमात्मनोऽन्यत्र विज्ञानमस्ति, येन स्वरूप- विज्ञानेऽप्यपेक्ष्येत । विरोध इति चेत्, न; अन्यत्वात् । स्व- रूपविज्ञाने विज्ञानस्वरूपत्वाद्विज्ञानान्तरं नापेक्षत इत्येतदसत् । दृश्यते हि विपरीतज्ञानमात्मनि सम्यग्ज्ञानं च न जाना- म्यात्मानमिति च श्रुतेश्च । 'तत्त्वमसि' ' आलानमेवावेत्' केनोपनिषद्वाक्यभाष्ये ' एतं वै तमात्मानं विदित्वा' इति च सर्वत्र श्रुतिष्वात्मविज्ञाने विज्ञानान्तरापेक्षत्वं दृश्यते । तस्मात्प्रत्यक्ष श्रुतिविरोध इति चेत्, न । कस्मात् ? अन्यो हि स आत्मा बुद्ध्यादिकार्यकरण- संघातात्माभिमानसंतानाविच्छेदलक्षणोऽविवेकात्मको बुद्ध्या- द्यवभासप्रधानश्चक्षुरादिकरणो नित्यचित्स्वरूपात्मान्तः सारो यत्रानित्यं विज्ञानमवभासते । बौद्धप्रत्ययानामाविर्भावतिरो- भावधर्मकत्वात्तद्धर्मतयैव विलक्षणमपि चावभासते । अन्त:- करणस्य मनसोऽपि मनोऽन्तर्गतत्वात् सर्वान्तरश्रुतेः । अन्त- र्गतेन नित्यविज्ञानस्वरूपेण आकाशवदप्रचलितात्मना अन्त- गर्भभूतेन स बाह्यो बुद्धधात्मा तद्विलक्षणः, अनभिरिवाभिः अर्चिभिरिवाग्नेः प्रत्ययै राविर्भाव तिरोभावधर्म केर्विज्ञानाभासरू- पैरनित्यैः अनित्यविज्ञान आत्मा सुखी दुःखी इत्यभ्युपगतो लौकिकैः, अतोऽन्यो नित्यविज्ञानस्वरूपादात्मनः । तत्र हि विज्ञानापेक्षा विपरीतज्ञानत्वं चोपपद्यते, न पुनर्नित्यविज्ञाने 'तत्त्वमसि' इति बोधोपदेशो नोपपद्यत इति चेत्, त्मानमेवावेत्' इत्येवमादीनि च नित्यबोधात्मकत्वात् । न ह्यादित्योऽन्येन प्रकाश्यते; अतस्तदर्थबोधोपदेशोऽनर्थक ए- वेति चेत्, न लोकाध्यारोपापोहार्थत्वात् । सर्वात्मनि हि नित्य विज्ञाने बुद्धयाद्यनित्यधर्मा लोकैरध्यारोपिता आत्मा- ; 1 6 आ- : प्रथमः खण्डः । विवेकतः; तदपोद्दार्थो बोधोपदेशो बोधात्मनः । तत्र च बोधाबोधौ समञ्जसौ । अन्यनिमित्तत्वादुदक इवौष्ण्यमग्नि- श्रुतयः 1 निमित्तम् । रात्र्यहनी इवादित्यनिमित्ते लोके नित्यावौष्ण्यप्र- काशावग्न्यादित्ययोरन्यत्र भावाभावयोः सनिमित्तत्वादनि- त्याविवोपचर्येते । धक्ष्यत्यग्निः प्रकाशयिष्यति सविता इति तद्वत् । एवं च सुखदुःखबन्धमोक्षाद्यध्यारोपो लोकस्य तदपे- क्ष्य 'तत्त्वमसि' 'आत्मानमेवावेत्' इत्यात्मावबोधोपदेशिन्यः केवलमध्यारोपापोहार्थाः । यथा सवितासौ प्रकाशय- त्यात्मानम् इति तद्वत् बोधकर्तृत्वं च नित्यबोधात्मनि । तस्मादन्यदविदितात् । अधिशब्दश्चान्यार्थे । यद्वा यद्धि यस्याधि तत्ततोऽन्यत्सामर्थ्यात् यथाधि भृत्यादीनां राजा । अव्यक्तमेवाविदितं ततोऽन्यदित्यर्थः । विदितमविदितं च व्यक्ताव्यक्ते कार्यकारणत्वेन विकल्पिते, ताभ्यामन्यद्ब्रह्मवि- ज्ञानस्वरूपं सर्वविशेषंप्रत्यस्तमितमित्ययं समुदायार्थः । अत एवात्मत्वान्न हेय उपादेयो वा । अन्यद्धयन्येन हेयमुपादेयं वा; न तेनैव तद्यस्य कस्यचिद्धेयमुपादेयं वा भवति । आ- त्मा च ब्रह्म सर्वान्तरत्वादविषयः । अतोऽन्यस्यापि न. हेयमुपादेयं वा । अन्याभावाच्च । इति शुश्रुम पूर्वेषामित्या- गमोपदेशः । व्याचचक्षिरे इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थम् । ये केनोपनिषद्वाक्यभाष्ये नः तत् ब्रह्म उक्तवन्तः ते तमेवागमं ब्रह्मप्रतिपादकं व्या- ख्यातवन्तः, न पुनः स्वबुद्धिप्रभवेण तर्केणोक्तवन्त इति तस्यैव द्रढिम्ने आगमपारम्पर्याविच्छेदं दर्शयति विद्यास्तु- तये । तर्कस्त्वनवस्थितो भ्रान्तोऽपि भवतीति ॥ यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥ 1 यद्वाचेति मन्त्रानुवादो दृढप्रतीत्यै । 'अन्यदेव तद्विदि तात्' इति योऽयमागमार्थो ब्राह्मणोक्तः अस्यैव द्रढिने इमे मन्त्राः यद्वाचा इत्यादयः पठ्यन्ते । यत् ब्रह्म वाचा शब्देन अनभ्युदितम् अनभ्युक्तम्, अप्रकाशितमित्येतत् । येन बाग- । भ्युद्यत इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचो- ऽभिधानस्य अभिधेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च 'केनेषितां वाचमिमां वदन्ति ' ' यद्वाचो ह वाचम् ' • इति । तदेव ब्रह्म त्वं विद्धि इत्यविषयत्वेन ब्रह्मण आत्मन्य- वंस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं वाक्प्रकाशनिमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्ये- प्रथमः खण्डः । वावस्थापयत्याम्नायः तदेव ब्रह्म त्वं विद्धि इति ; यत्नत उपर- मयति नेदमित्युपास्यप्रतिषेधाश्च ॥ यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्चक्षुषा न पश्यति येन चक्षूषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदँ श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । ९.६ केनोपनिषद्वाक्यभाष्ये तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥ इति प्रथमः खण्डः यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणा- नामविषयस्तानि च सव्यापाराणि सविषयाणि नित्यविज्ञान- स्वरूपावभासतया येनावभास्यन्त इति श्लोकार्थः । ' क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत' इति स्मृतेः । ' तस्य' भासा' इति चाथर्वणे । येन प्राण इति क्रियाशक्तिरप्यात्म- विज्ञाननिमित्तेत्येतत् ॥ 1 इति प्रथमः खण्डः ॥ द्वितीयः खण्डः ॥ यदि मन्यसे सु वेदेति भ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्थ त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १॥ - यदि मन्यसे सु वेदेति शिष्यबुद्धिविचालना गृहीतस्थिर- तायै । विदिताविदिताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्मन्य- वस्थाप्य ' तदेव ब्रह्म त्वं विद्धि' इति स्वाराज्येऽभिषिच्य उपा- स्यप्रतिषेधेनाथास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्मतत्त्वमिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्व- मिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते-- पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवे - वपि सुवेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अविषयत्वात्कस्यचिद्ब्रह्मणः । अथ- वा अल्पमेवास्याध्यात्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति संबन्धः । अथ नु इति हेतुर्मीमां- S. U. 7 केनोपनिषद्वाक्यभाष्ये साया: । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ' अन्यदेव तद्विदितात्' इत्युक्तत्वात्, सु वेदेति च मन्यसे ; अत: अल्प- मेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्य- मेव अद्यापि ते तव ब्रह्म विचार्यमेव यावद्विदिताविदितप्रति- धागमार्थानुभव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमांसानन्तरोक्तिः प्रत्ययत्रयसंगतेः । सम्यग्वस्तुनिश्चयाय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्त: एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चित: सन्नाह आगमाचार्यात्मानुभवप्रत्ययत्रयस्यैकविषयत्वेन संग- त्यर्थम् । एवं हि ' सुपरिनिष्ठिता विद्या सफला स्यान्नानि - चिता' इति न्यायः प्रदर्शितो भवति मन्ये विदितमिति परिनिष्ठितनिश्चितविज्ञानप्रतिज्ञाहेतूक्तेः ॥ नाह मन्ये सु वेदेति 'नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद ; नो न वेदेति वेद च ॥ २ ॥ परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्मनिश्च- ययोस्तुल्यतायै यस्माद्धेतुमाह - नाह मन्ये सु वेदेति । अहे - द्वितीयः : खण्ड: । 1 त्यवधारणार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनि- ष्ठितं विज्ञानं तावत् सुवेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य य- थोक्तार्थमीमांसाफलभूतात्स्वात्मत्रात्वनिश्चयरूपात्सम्यक्प्रत्य- यात् । विरुद्धत्वादतों नाह मन्ये सु वेदेति । यस्माञ्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह— वेद च । च शब्दाद्वेद चन वेद च इत्यभिप्रायः, विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणः । त- स्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्व- रूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षान्तर- निरासार्थमान्नाय उक्तार्थानुवादात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्य:, उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इति उच्यते— उक्तानुवादात् । उक्तं धनुवदति नो न वेदेति वेद चेति ॥ यस्यामतं तत्र मतं मतं यस्य न वेद सः । । । केनोपनिषद्वाक्यभाष्ये अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥ यस्यामतमिति श्रौतमाख्यायिकार्थोपसंहारार्थम् । शिष्या- चार्योक्तिप्रत्युक्तिलक्षणया अनुभवयुक्तिप्रधानया आख्यायि- कया योऽर्थः सिद्धः स श्रौतेन वचनेनागमप्रधानेन निगम- नस्थानीयेन संक्षेपत उच्यते । यदुक्तं विदिताविदिताभ्या- मन्यद्वागादीनामगोचरत्वात् मीमांसितं चानुभवोपपत्तिभ्यां ब्रह्म, तत्तथैव ज्ञातव्यम् । कस्मात् ? यस्यामतं यस्य विवि- दिषाप्रयुक्तप्रवृत्तस्य साधकस्य अमतम् अविज्ञातम् अविदितं ब्रह्म इत्यात्मतत्त्वनिश्चयफलावसानावबोधतया विविदिषा नि- वृत्तेत्यभिप्रायः, तस्य मतं ज्ञातम् ; तेन विदितं ब्रह्म येनाविषय- त्वेन आत्मत्वेन प्रतिबुद्धमित्यर्थः । स सम्यग्दर्शी यस्य विज्ञा- नानन्तरमेव ब्रह्मात्मभावस्यावसितत्वात् सर्वतः कार्यभावो विपर्ययेण मिथ्याज्ञानो भवति । कथम् ? मतं विदितं ज्ञातं मया ब्रह्म इति यस्य विज्ञानम्, स मिध्यादर्शी विपरीतवि- ज्ञानो विदितादन्यत्वाद्ब्रह्मणो न वेद सः न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम्, अब्रह्मविष- यतया निन्दितत्वात् । तथा कपिलकणभुगादिसमवस्यापि तिब्रह्मविषयत्वात् अनवस्थिततर्कजन्यत्वाविदितविषयतया द्वितीयः खण्डः । विविदिषानिवृत्तेश्च मिध्यात्वमिति । स्मृतेश्व' या वेदबाह्याः स्मृतयो याच काच कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्तास्त- मनिष्ठा हि ता: स्मृता:' इति । ' अविज्ञातं विजानतां विज्ञा- तमविजानताम्' इति पूर्वहेतूक्ति: अनुवादस्यानर्थक्यात्— अनुवादमात्रेऽनर्थकं वचनमिति विपर्ययमिथ्याज्ञानयोर्नष्टत्वात् पूर्वोक्तयोः यस्यामतमित्यादिज्ञानाज्ञानयोर्हेत्वर्थत्वेनेदमुच्यते- अविज्ञातम् अविदितमात्मत्वेनाविषयतया ब्रह्म विजानतां यस्मात्, तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्त- मेव बुद्धयादिविषयं ब्रह्म अविजानतां विदिताविदितव्यावृ- तमात्मभूतं नित्यविज्ञानस्वरूपमात्मस्थमविक्रियममृतमजर- मभयमनन्यत्वादविषयमित्येवमविजानतां बुद्धधादिविषया- त्मतयैव नित्यं विज्ञातं ब्रह्म । तस्माद्विदिताविदितव्यक्ता- व्यक्तधर्माध्यारोपेण कार्यकारणभावेन सविकल्पमयथार्थवि- षयत्वात् । शुक्तिकादौ रजताद्यध्यारोपणज्ञानवन्मिथ्याज्ञानं तेषाम् ॥ प्रतिबोधविदितं मत- ममृतत्वं हि विन्दते । आत्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम् ॥ ४ ॥ केनोपनिषद्वाक्यभाष्ये प्रतिबोधविदितमिति वीप्साप्रत्ययानामात्मावबोधद्वार. त्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्वप्रत्ययव्याप्त्यर्था : बौद्धा हि सर्वे प्रत्ययास्तप्तलोहवन्नित्य विज्ञानस्वरूपात्म व्याप्त- त्वाद्विज्ञानस्वरूपावभासाः तदन्यावभासश्चात्मा तद्विलक्षणो- ऽग्निवदुपलभ्यत इति ते द्वारीभवन्त्यात्मोपलब्धौ । तस्मात्प्र- तिबोधावभासप्रत्यगात्मतया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्रत्यगात्मविज्ञानम्, न विषयविज्ञानम् । आत्म- त्वेन ' प्रत्यगात्मानमैक्षत्' इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विषयात्मविज्ञाने हि मृत्युः प्रारभते इत्यात्म विज्ञानममृतत्वनिमित्तमिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किममृतत्वमु- त्पाद्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्यात्म- स्वभावेनामृतत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्म- ज्ञानापेक्षम्। यदि हि विद्योत्पाद्यममृतत्वं स्यात्, अनित्यं भवे - त्कर्मकार्यवत् । अतो न विद्योत्पाद्यम् । यदि चात्मनैवामृतत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तनिवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्त- मिति कल्प्यते ; यत आह- वीर्य विद्यया विन्दते । वीर्य सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्य लक्षणं द्वितीयः : खण्ड: । " १०३. बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्य विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । नायमात्मा बलही - नेन लभ्यः' इति चाथर्वणे । लोकेऽपि विद्याजमेव बलम - भिभवति न शरीरादिसामर्थ्यम्, यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्त संस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोध: । तेन वा विदितं मतमिति । उभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति — 'सुप्तप्रतिबुद्धः ' ' गुरुणा प्रति- बोधित:' इति । पूर्व तु यथार्थम् ॥ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५ ॥ इति द्वितीयः खण्डः ॥ इह चेदवेदीदिति अवश्यकर्तव्यतोक्तिः विपर्यये विनाश- श्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य केनोपनिषद्वाक्यभाष्ये " इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफलमित्य- भिप्रायः । न चेदिहावेदीत् न विदितवान् वृथैव जन्म । अपि च महती विनष्टि: महान्विनाशो जन्ममरणप्रबन्धावि- च्छेदप्राप्तिलक्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते - भूतेषु भूतेषु चराच- रेषु सर्वेष्वित्यर्थः । विचित्य विचार्य पृथङ्निष्कृष्यैकमात्मतत्त्वं संसारधर्मैरस्पृष्टमात्मभावेनोपलभ्येत्यर्थः, अनेकार्थत्वाद्धातू- नाम् । न पुनश्चित्वेति संभवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनिवृत्तबाह्यविषयाभिलाषाः, प्रेत्य मृत्वा अ- स्मात् लोकात् शरीराद्यनात्मलक्षणात् व्यावृत्तममत्वाहंकाराः सन्त इत्यर्थः, अमृता: अमरणधर्माणो नित्यविज्ञानामृतत्व- स्वभावा एव भवन्ति ॥ इति द्वितीयः खण्डः ॥ तृतीयः खण्डः ॥ ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥ तद्वैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २ ॥ तेऽग्निमब्रुवन् जातवेद एतद्विजानीहि .. किमेतद्यक्षमिति तथेति ॥ ३ ॥ तद्भ्यद्रवत्तमभ्यवदत् कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मी- ति ॥ ४ ॥ तस्मि त्वयि किं वीर्यमित्यपीद सर्व दहेयं यदिदं पृथिव्यामिति ॥ ५ ॥ १०६. केनोपनिषद्वाक्यभाष्ये तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वज ेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतदक्ष- मिति ॥ ६ ॥ अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७ ॥ तद्भ्यद्रवत्तमभ्यवदत्कोऽसीति वायु- र्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अह- मस्मीति ॥ ८ ॥ तस्मि त्वयि किं वीर्यमित्यपीद सर्व- माददीय यदिदं पृथिव्यामिति ॥ ९ ॥ तस्मै तृणं निदधावेतदादत्खेति तदुप- प्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदे- तद्यक्षमिति ॥ १० ॥ अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि कि- तृतीयः खण्डः । मेतद्यक्षमिति तथेति तद्द्भ्यद्रवत्तस्मात्ति- रोदधे ॥ ११ ॥ स तस्मिन्नेवाकाशे स्त्रियमाजग म बहु . शोभमानामुमां हैमवतीं ताँ होवाच 'किमेतद्यक्षमिति ॥ १२ ॥ इति तृतीयः खण्डः ॥ ब्रह्म देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्त्राधिक्या- र्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वम- र्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नाय : अभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादा- नायः । न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादि- युक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिध्याप्रत्य- यग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसा- धनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ' नेदं यदिदमुपासते' इत्युपास्यत्वं ब्रह्मणो- ब्रह्मेति परः, केनोपनिषद्वाक्यभाष्ये ऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मण: सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ' तद्वनमित्युपासितव्यम्' इति हि वक्ष्यति । लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्य सर्वज्ञात्प- रिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ' तन्न शशाक दग्धुम्' इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरे- च्छया तु तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नि- यतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिर्नित्य सर्वविज्ञाने ईश्वरे सर्वा- त्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्ये- श्वरस्य सद्भावसिद्धिः कुतो भवतीति उच्यते । यदिदं जगद्देव- गन्धर्वयक्षरक्ष: पितृपिशाचादिलक्षणं युवियत्पृथिव्यादित्यच- न्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसंब- न्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्ता- नुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपू- र्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात्, गृहप्रासा- दरथशयनासनादिवत्, विपक्षे आत्मादिवत् । कर्मण एवेति चेत्, न; परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोग- वैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूप- , तृतीयः ः खण्डः । ' नियतप्रवृत्तिनिवृत्तिक्रमं च तन्न नित्य सर्वज्ञकर्तृकम्; किं तर्हि, कर्मण एव; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युप- गमाच्च । सति कर्मण: फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत्, न; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृ- तन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नो- परमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशे- षापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कतैव फलकाले प्रयोक्तेति चेत्, मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देशकालनि- मित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञ: सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात्, ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विक- रोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदा- ऋ भवति, प्रधानकर्तृ समवेतत्वात्कर्मणः । भूताश्रयमिति चेत्, न; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादि- वत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वा- . केनोपनिषद्वाक्यभाष्ये " • , त्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत्, न ; असि- द्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादे: स्वर्गकामो यजेत ' इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत्, न; दृष्टन्यायहा- नानुपपत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अन- न्तरफला गतिभुजिलक्षणा । कालान्तरंफला च कृषिसेवादि - लक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न चोभयन्यायव्यतिरेकेण स्वतन्तं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यायहानमुप- पद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलवि- भागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्व- भावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ' न लिप्यते लोकदुः- खेन बाह्य: ' ' जरां मृत्युमत्येति ' ' विजरो विमृत्यु: ' ' सत्य- कामः सत्यसंकल्पः ' ' एष सर्वेश्वरः पुण्यं कर्म कारयति तृतीयः खण्डः । 'अनश्नन्नन्यो अभिचाकशीति' ' एतस्य वा अक्षरस्य प्रशा- सने' इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादा: शक्यन्ते कल्पयितुम्, अनन्ययोगित्वे सति विज्ञानोत्पाद- कत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्यभावादिति चेत्, न; उक्तत्वात् । न हिंस्यात्' इतिवत्प्राप्त्यभावात्प्रतिषेधो नार- भ्यत इति चेत्, न; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथ- वा अप्रतिषेधादिति कर्मण: फलदाने ईश्वरकालादीनां न प्र- तिषेधोऽस्ति । न च निमित्तान्तरनिरपेक्षं केवलेन कर्नैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु सं- स्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरा- त्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशते- नापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि का- लान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्र संस्कारपरिर- क्षाविज्ञानवत्कर्बपेक्ष फलं कृष्यादि, विज्ञानवत्सेव्य बुद्धिसंस्का- विज्ञानवत्सेव्यबुद्धिसंस्का- रापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कर्त्रपे- केनोपनिषद्वाक्यभाष्ये क्षफलत्वानुपपत्तौ कालान्तर फलत्वात्कर्म देश कालनिमित्तवि- पाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति, सेवादि - कर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्ध: सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्त- रात्मा । ' यत्साक्षादपरोक्षात् ' 'य आत्मा सर्वान्तर:' इति श्रुतेः । स एव चात्रात्मा जन्तूनाम्, 'नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता ' ' नान्यदतोऽस्ति विज्ञातृ ' इत्याद्या- त्मान्तरप्रतिषेधश्रुतेः 'तत्त्वमसि' इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकर्मोपा- स्योपासक शुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत्, न; भेददृष्टद्यपवादात्। यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभे- दात्, अश्वमहिषवत्। कथं लक्षणभेद इति, उच्यते ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसा- रिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्वरूपात्म सत्ता- मात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्त- दहनकर्मवत् राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम् ; विपरीतमितरस्य । ' उपासीत' इति वचनादु- तृतीयः खण्डः । पास्य ईश्वरो गुरुराजवत् । उपासक श्वेतरः शिष्य भृत्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । ' पुण्यो वै पुण्ये- न' इति वचनाद्विपरीत इतर : अत एव नित्य- मुक्त ईश्वरः । नित्याशुद्धियोगात्संसारीतरः । यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहि- षयोः । तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत्, न । कस्मात् ? ' अन्योऽसावन्योऽहमस्मीति न स वेद' 'ते क्षय्यलोका भवन्ति' ' मृत्योः स मृत्युमाप्नोति' इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो वि- द्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते । न, अन- भ्युपगमात् । बुद्धयादिभ्यो व्यतिरिक्ता विलक्षणाश्वेश्वराद्भि- नलक्षणां आत्मानो न सन्ति । एक एवेश्वरश्वात्मा सर्व- भूतानां नित्यमुक्तोऽभ्युपगम्यते । बाह्यश्च बुद्धयादिसमाहार- संतानाहंकारममत्वादिविपरीतप्रत्यय प्रबन्धाविच्छेदलक्षणो नि- यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भो नित्यविज्ञानावभासः चित्तचैत्यबीजबी जिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्ष- णविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्ष- प्रध्वंसो देवपितृमनुष्यादिलक्षणो भूतविशेषसमाहारो न S. U. 8 केनोपनिषद्वाक्यभाष्ये पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्धया- दिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रया- सिद्धो हेतु:, ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत् सुखदुःखादियोगश्च, न ; नि- मित्तत्वे सति लोकविपर्ययाध्यारोपणात्, सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनि- मित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृ- त्वाध्यारोपभाग्भवति, एवमीश्वरे नित्यविज्ञानशक्तिरूपे लोक- ज्ञानापोह सुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबु- . , याध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्व; न स्वतः । आत्मदृष्टयनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते स आत्मदृष्टयनुरूपमेवाध्य- स्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्याध्या- रोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ' मत्तः स्मृतिर्ज्ञानमपोहनं च ' ' नादत्ते कस्यचित्पापम्' इत्यादि । अतो नित्यमुक्त एकस्मिन्स- वितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम्; शास्त्रा- दिप्रामाण्यादभ्युपगतम संसारित्वमित्यविरोध इति । एतेन - तृतीयः खण्डः । प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्य- विशेषे च भेदहेत्वभावात् । विक्रियावन्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् अभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्ध- मेकत्वम् । तस्माच्छरीरेन्द्रियमनोबुद्धिविषयवेदना संतानस्या- इंकारसंबन्धादज्ञानवीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मत- त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजथ विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा; स्वरूपापेक्षत्वादुभयोः । ब्रह्म — ह इत्यैतिद्यार्थ:- पुरा किल देवासुरसंग्रामे जग- स्थितिपरिपिपालयिषया आत्मानुशासनानुवर्तिभ्यो देवेभ्यः अर्थिभ्योऽर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मण इच्छानि - मित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादिलोकस्थित्य पहारिष्वसुरेषु पराजि - तेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः । त ऐक्षन्तेति मिध्या- प्रत्ययत्वाद्धेयत्वख्यापनार्थ आम्नायः । ईश्वरनिमित्ते विजये स्व- सामर्थ्यनिमित्तोऽस्माकमेवायं विजयोऽस्माकमेवायं महिमे- त्यात्मनो जयादिश्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्या- णास्पदमीश्वरमेवात्मत्वेनाबुद्धा पिण्डमात्राभिमानाः सन्तो यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्य- केनोपनिषद्वाक्यभाष्ये यत्वात्सर्वात्मेश्वरयाथात्म्यावबोधेन हातव्यताख्यापनार्थः तद्वै- षामित्याद्याख्यायिकाम्नायः । तद्ब्रह्म ह किल एषां देवानाम- भिप्रायं मिथ्याहंकाररूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिध्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषा- मेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव महेश्वरशक्तिमायोपात्ते- नात्यन्ताद्भुतेन प्रादुर्भूतं किल केनचिद्रूपविशेषेण । तत्किलो- पलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति । तद्विज्ञानायाग्निमब्रुवन् । तृणनिधाने- ऽयमभिप्रायः — अत्यन्त संभावित योरग्निमारुतयोस्तृणदहना- दानाशक्त्या आत्मसंभावना शातिता भवेदिति । इन्द्र आ- दित्यो वज्रभृद्वा, अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्यस्यायमभिप्रायः--- इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य ; सोऽहमग्न्यादिभिः प्राप्तं वाक्संभाषणमात्रमप्यनेन न प्राप्तो- ऽस्मीत्यभिमानं कथं न नाम जह्यादिति । तदनुग्रहायैवान्त- र्हितं तद्ब्रह्म बभूव । स शान्ताभिमान इन्द्रः अत्यर्थं ब्रह्म विजिज्ञासुः यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीतिरोधानं च, तस्मिन्नेव स्त्रियमतिरूपिणीं विद्यामाजगाम । अभिप्रायो- द्बोधहेतुत्वाद्रुद्रपत्नी उमा हैमवतीव बहु शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥ इति तृतीयः खण्डः ॥ चतुर्थः खण्डः ॥ * ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति ॥ १ ॥ तस्माद्वा एते देवा अतितरामिवान्या- न्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्टं पस्प- शुस्ते ह्येनत्प्रथमो विदां ब्रह्मेति ॥ तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवा- न्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदांचकार ब्रह्मेति ॥ ३ ॥ तस्यैष आदेशो यदेतद्विद्युतो व्यद्यु- तदा३ इतीन्नयमीमिन्दा३ इत्यधिदैव- तम् ॥ ४ ॥ तां च पृष्ट्वा तस्या एव वचनात् विदांचकार विदित- केनोपनिषद्वाक्यभाष्ये वान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यैवोमा । ' विद्यासहायवा - नीश्वर:' इति स्मृतिः । यस्मादिन्द्रविज्ञानपूर्वकमग्निवारिव- न्द्रास्ते हि एनत् नेदिष्ठम् अतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पर्शः स्पृष्टवन्तः । ते हि एनत् प्रथमः प्रथमं विदांचकार विदांचक्रुरित्येतत् । तस्मात् अतितराम् अतीत्य अतिशयेन दीप्यन्तेऽन्यान् देवान् । ततोऽपी- न्द्रोऽतितरां दीप्यते, आदौ ब्रह्मविज्ञानात् । तस्यैष आ- देश: तस्य ब्रह्मण एष वक्ष्यमाणः आदेश: उपासनोप- देश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत्, तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् । आ इंत्युपमार्थ आ शब्दः । यथा घनान्ध- कारं विदार्य विद्युत्सर्वतः प्रकाशते, एवं तद्ब्रह्म देवानां पुरतः सर्वतः प्रकाशवद्वयक्तीभूतम् । अतो व्यद्युतदिवेत्युपास्यम् । 'यथा सकृद्विद्युतम्' इति च वाजसनेयके । यस्माश्ञ्चेन्द्रोपसर्पण- काले न्यमीमिषत् -- यथा कश्चिच्चक्षुर्निमेषणं कृतवानिति । इतीदित्यनर्थकौ निपातौ — निमिषितवदिव तिरोभूतमित्येवम- धिदैवतं देवताया अधि यद्दर्शनमधिदैवतं तत् ॥ अथाध्यात्मं यदेतद्गच्छतीव च मनो- ऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः ॥ ५ ॥ चतुर्थः खण्डः । अथ अनन्तरम् अध्यात्मम् आत्मनः अधि आत्मविषयम् अध्यात्मम् उच्यत इति वाक्यशेषः । यदेतत् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयीकरोतीवेत्यर्थः । न पुनर्वि षयीकरोति मनः, अविषयत्वाद्ब्रह्मणः । अतो मनो गच्छ- ति । 'येनाहुर्मनो मतम्' इति चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसैव तद्ब्रह्म विद्वान्यस्मात्, तस्माद्ब्रह्म गच्छतीवेत्युच्यते । अभीक्ष्णं पुन: पुन: । - संकल्पः ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसंकल्पादिभिर्लिङ्गैर्ब्रह्म मनआद्यात्मभूतमित्युपास्यमित्यभिप्राय: ॥ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भू- तानि संवाञ्छन्ति ॥ ६ ॥ तस्य चाध्यात्ममुपासने गुणो विधीयते तद्ध तद्वनं त- देतद्ब्रह्म तच तद्वनं च तत् परोक्षं वनं संभजनीयम् । वन- तेस्तत्कर्मणः । तस्मात्तद्वनं नाम । ब्रह्मणो गौणं हीदं नाम । तस्मादनेन गुणेन तद्वनमित्युपासितव्यम् । स यः कश्चिदेत- यथोक्तमेवं यथोक्तेन गुणेन वनमित्यनेन नाम्नाभिधेयं ब्रह्म केनोपनिषद्वाक्यभाष्ये वेद उपास्ते तस्यैतत्फलमुच्यते— सर्वाणि भूतानि एनम् उ- पासकम् अभिसंवाञ्छन्ति इहाभिसंभजन्ते सेवन्ते स्मेत्यर्थः यथागुणोपासनं हि फलम् । उपनिषदं भो ब्रूहीत्युक्ता त उपनिष- ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥ 1 उपनिषदं भो ब्रूहीत्युक्तायामुपनिषदि शिष्येणोक्त आचार्य आह——— उक्ता कथिता ते तुभ्यम् उपनिषदात्मोपासनम् । अधु- ना ब्राह्मीं वाव ते तुभ्यं ब्रह्मणो ब्राह्मणजातेः उपनिषदम् अब्रूम वक्ष्याम इत्यर्थः । वक्ष्यति हि । ब्राह्मी नोक्ता । उक्ता त्वात्मोपनिषत् । तस्मान्न भूताभिप्रायोऽब्रूमेत्ययं शब्दः ॥ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वासा ने सत्यमायतनम् ॥ ८ ॥ तस्यै तस्या वक्ष्यमाणाया उपनिषदः तपः ब्रह्मचर्यादि दमः उपशमः कर्म अग्निहोत्रादि इत्येतानि प्रतिष्ठा आश्रयः । एतेषु हि सत्सु ब्राह्मघुपनिषत्प्रतिष्ठिता भवति । वेदा: चत्वारः अङ्गानि च सर्वाणि । प्रतिष्ठेत्यनुवर्तते । ब्रह्माश्रया हि विद्या । सत्यं यथाभूतवचनमपीडाकरम् आयतनं निवासः । सत्यवत्सु हि सर्वे यथोक्तमायतन इवावस्थितम् ॥ चतुर्थः खण्डः । यो वा एतामेवं वेदापहत्य पाप्मानम- नन्ते खर्गे लोके ज्येये प्रतितिष्ठति प्रति- तिष्ठति ॥ ९ ॥ इति चतुर्थः खण्डः ॥ तामेतां तपआद्यङ्गां तत्प्रतिष्ठां ब्राह्मीमुपनिषदं सायतना- मात्मज्ञानहेतुभूताम् एवं यथावत् यो वेद अनुवर्तते अनुति- ष्ठति, तस्यैतत्फलमाह — अपहत्य पाप्मानम् अपक्षय्य धर्मा- धर्मावित्यर्थः । अनन्ते अपारे अविद्यमानान्ते स्वर्गे लोके सुखप्राये निर्दुःखात्मनि परे ब्रह्मणि ज्येये महति सर्वमहत्तरे प्रतितिष्ठति सर्ववेदान्तवेद्यं ब्रह्म आत्मत्वेनावगम्य तदेव ब्रह्म प्रतिपद्यत इत्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ केनोपनिषद्वाक्यभाष्यम् संपूर्णम् ॥ इति चतुर्थः खण्डः ॥ आप्यारन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो ब- लमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म नि- राकरोदनिराकरणमस्त्वनि - राकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ H ॥ 3º ॥ काठकोपनिषद्भाष्यम् श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । सह नाववतु । सह नौ भुनक्तु । सह वीर्यं कर- वावहै । तेजस्वि नावधीत - मस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ काठकोपनिषद्भाष्यम् प्रथमोऽध्यायः ॥ काठकोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता । ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मवि- द्याचार्याय नचिकेतसे च । अ " थ काठकोपनिषद्वल्लीनां सुखार्थप्रबोध- नार्थमपन्था वृत्तिरारभ्यते । सदे - र्धातोर्विशरणगत्यवसादनार्थस्योपनिपू- र्वस्य क्विप्प्रत्ययान्तस्य रूपमिदम् ' उप- निषत् ' इति । उपनिषच्छब्देन च व्या- चिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । केन S. U. 9 काठकोपनषिद्भाष्ये पुनरर्थयोगेनोपनिषच्छब्देन विद्योच्यत इति, उच्यते । ये मुमु- क्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्तः उपनिषच्छब्दवा- च्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया नि- श्चयेन शीलयन्ति, तेषामविद्यादेः संसारबीजस्य विशरणाद्धि- सनाद्विनाशनादित्यनेनार्थयोगेन विद्योपनिषदित्युच्यते । तथा च वक्ष्यति 'निचाय्य तं मृत्युमुखात्प्रमुच्यते' इति । पूर्वो- क्तविशेषणान्वा मुमुक्षून्परं ब्रह्म गमयतीति च ब्रह्मगमयितृत्वेन योगाद्ब्रह्मविद्या उपनिषत् । तथा च वक्ष्यति ' ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु : ' इति । लोकादिर्ब्रह्मजज्ञो योऽग्निः, तद्वि- याया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलो- कफलप्राप्तिहेतुत्वेन गर्भवासजन्मजराद्युपद्रववृन्दस्य लोका- न्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापाद- नेन धात्वर्थयोगादग्निविद्यापि उपनिषदित्युच्यते । तथा च वक्ष्यति 'स्वर्गलोका अमृतत्वं भजन्ते' इत्यादि । ननु चो- पनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलपन्ति - उपनिषदमधी महे उपनिषदमध्यापयाम इति च । नैष दोष:, अवि- द्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमावेऽसंभवा- द्विद्यायां च संभवात् प्रन्थस्यापि तादर्थ्येन तच्छब्दत्वोपपत्तेः 6 आयुर्वै घृतम्' इत्यादिवत् । तस्माद्विद्यायां मुख्यया वृत्त्या प्रथमा वल्ली । उपनिषच्छब्दो वर्तते, ग्रन्थे तु भक्त्येति । एवमुपनिषन्निर्व- नैव विशिष्टोऽधिकारी विद्यायाम् उक्तः । विषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्मभूतम् । प्रयोजनं चास्या आत्यन्तिकी संसारनिवृत्तिर्ब्रह्मप्राप्तिलक्षणा । संबन्धश्चैवंभूत- प्रयोजनेनोक्तः । अतो यथोक्ताधिकारिविषयप्रयोजनसंबन्धाया विद्यायाः करतलन्यस्तामलकवत्प्रकाशकत्वेन विशिष्टाधिका- रिविषयप्रयोजनसंबन्धा एता वल्लयो भवन्तीति । अतस्ता यथाप्रतिभानं व्याचक्ष्महे ॥ उशन्ह वै वाजश्रवसः वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥ तन्त्राख्यायिका विद्यास्तुत्यर्था । उशन् कामयमानः । ह वै इति वृत्तार्थस्मरणार्थौ निपातौ । वाजम् अन्नम्, तद्दानादिनि- मित्तं श्रवो यशो यस्य सः वाजश्रवाः, रूढितो वा ; तस्या- पत्यं वाजश्रवसः । सः वाजश्रवसः किल विश्वजिता सर्वमेधेनेजे तत्फलं कामयमानः । सः तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् । तस्य यजमानस्य ह नचिकेता नाम पुत्र: किल आस बभूव ॥ काठकोपनिषद्भाष्ये तँह कुमार‍ सन्तं दक्षिणासु नीय- मानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥ तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तम् अप्राप्तप्रजनन- शक्तिं बालमेव श्रद्धा आस्तिक्यबुद्धिः पितुर्हितकामप्रयुक्ता आविवेश प्रविष्टवती । कस्मिन्काले इति, आह— ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु नीयमानासु विभागेनोपनीयमानासु दक्षिणार्थासु गोषु, सः आविष्टश्रद्धो नचिकेताः अमन्यत ॥ पीतोदका जग्धतॄणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोका- स्तान्स गच्छति ता ददत् ॥ ३ ॥ 1 कथमिति, उच्यते— पीतोदका इत्यादिना दक्षिणार्थी गावो विशेष्यन्ते । पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोह: क्षीराख्यो यासां ताः दुग्धदोहा: । निरिन्द्रियाः प्रजननासमर्था: जीर्णाः, निष्फला गाव इत्यर्थः । यास्ताः एवंभूताः गाः ऋत्विग्भ्यो दक्षिणाबुच्या ददत् प्रयच्छन् अनन्दाः अनानन्दाः असुखा नामेत्येतत् । ये ते लोकाः, तान् सः यजमानः गच्छति ॥ प्रथमा वल्ली । स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं त‍ होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥ तदेवं ऋत्वसंपत्तिनिमित्तं पितुरनिष्टं फलं पुत्रेण सता निवा- रणीयं मया आत्मप्रदानेनापि क्रतुसंपत्तिं कृत्वेत्येवं मन्यमानः पितरमुपगम्य स होवाच पितरम् — हे तत तात कस्मै ऋत्विग्विशेषाय दक्षिणार्थं मां दास्यसीति प्रयच्छसीत्येतत् । स एवमुक्तेन पित्रा उपेक्ष्यमाणोऽपि द्वितीयं तृतीयमपि उवाच -- कस्मै मां दास्यसि कस्मै मां दास्यसीति । नायं कुमारस्वभाव इति क्रुद्धः सन् पिता तं ह पुत्रं किल उवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥ बहूनामेमि प्रथमो बहूनामेमि मध्यमः । कि स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥ स एवमुक्तः पुत्रः एकान्ते परिदेवयांचकार । कथमिति, उच्यते-- बहूनां शिष्याणां पुत्राणां वा एमि गच्छामि काठकोपनिषद्भाष्ये प्रथमः सन् मुख्यया शिष्यादिवृत्त्येत्यर्थः । मध्यमानां च बहूनां मध्यमः मध्यमयैव वृत्त्या एमि । नाधमया कदाचि - दपि । तमेवं विशिष्टगुणमपि पुत्रं मामू 'मृत्यवे त्वा ददामि ' इत्युक्तवान् पिता । सः किंस्वित् यमस्य कर्तव्यं प्रयोजनं मया प्रदत्तेन करिष्यति यत्कर्तव्यम् अद्य ? नूनं प्रयोजन- मनपेक्ष्यैव क्रोधवशादुक्तवान् पिता । तथापि तत्पितुर्वचो मृषा मा भूदिति ॥ अनुपश्य यथा पूर्वे प्रतिपश्य तथा परे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥ - एवं मत्वा परिदेवनापूर्वकमाह पितरं शोकाविष्टं किं मयोक्तमिति- अनुपश्य आलोचय विभावयानुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वे अतिक्रान्ताः पितृपितामहादयस्तव । तान्दृष्ट्वा च तेषां वृत्तमास्थातुमर्हसि । वर्तमानाश्च अपरे साधवो यथा वर्तन्ते तांश्च तथा प्रतिपश्य आलोचय । न च तेषां मृषाकरणं वृत्तं वर्तमानं वा अस्ति । तद्विपरीतमसतां च वृत्तं मृषाकरणम् । न च मृषाभूतं कृत्वा कश्चिदजरामरो प्रथमा वल्ली । } भवति ; यतः सस्यमिव मर्त्यः मनुष्यः पच्यते जीर्णो म्रियते, मृत्वा च सस्यमिव आजायते आविर्भवति पुनः ; एव- मनित्ये जीवलोके किं मृषाकरणेन ? पालयात्मनः सत्यम् । प्रेषय मां यमायेत्यभिप्रायः ॥ वैश्वानरः प्रविशति अतिथिर्ब्राह्मणो गृहान् । तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥ स एवमुक्तः पिता आत्मनः सत्यतायै प्रेषयामास । स च यमभवनं गत्वा तिस्रो रात्रीरुवास यमे प्रोषिते । प्रोष्या- गतं यमम् अमात्या भार्या वा ऊचुर्बोधयन्त:- वैश्वानरः - 1 अग्निरेव साक्षात् प्रविशति अतिथिः सन् ब्राह्मणः गृहान् दहन्निव । तस्य दाहं शमयन्त इवाग्नेः एतां पाद्यासनादि- दानलक्षणां शान्तिं कुर्वन्ति सन्तोऽतिथेर्यतः, अतः हर आहर हे वैवस्वत, उदकं नचिकेतसे पाद्यार्थम् ॥ आशाप्रतीक्षे संगत सूनृतां च इष्टापूर्ते पुत्रपशूश्च सर्वान् । १३६: कठकोपनिषद्भाष्ये एतदृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्रह्मणो गृहे ॥ ८ ॥ यतश्चाकरणे प्रत्यवायः श्रूयते - आशाप्रतीक्षे, अनि- ज्ञतप्राप्येष्टार्थप्रार्थना आशा, निर्ज्ञातंप्राप्यार्थप्रतीक्षणं प्रतीक्षा, ते आशाप्रतीक्षे ; संगतं सत्संयोगजं फलम्, सूनृतां च सूनृ ता हि प्रिया वाक् तन्निमित्तं च इष्टापूर्ते इष्टं यागजं फलं पूर्तम् आरामादिक्रियाजं फलम्, पुत्रपशूंश्च पुत्रांश्च पशूंश्च सर्वान् एतत् सर्वं यथोक्तं वृङ्के वर्जयति विनाशयतीत्ये- तत् । पुरुषस्य अल्पमेधसः अल्पप्रज्ञस्य, यस्य अनश्नन् अभुञ्जानः ब्राह्मणः गृहे वसति । तस्मादनुपेक्षणीयः सर्वा - वस्थास्वप्यतिथिरित्यर्थः ॥ तिस्रो रातीर्यवात्सीगृहे मे अनश्नन्ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९ ॥ एवमुक्तो मृत्युरुवाच नचिकेतसमुपगम्य पूजापुरःसरम्- तिस्रः रात्रीः यत् यस्मात् अवात्सीः उषितवानसि गृहे मे मम अनश्नन् हे ब्रह्मन् अतिथिः सन् नमस्यः नमस्कारार्हश्च, प्रथमा वल्ली १३.७ तस्मात् नमः ते तुभ्यम् अस्तु भवतु । हे ब्रह्मन् स्वस्ति भद्रं मे अस्तु । तस्मात् भवतोऽनशनेन मद्गृहवासनिमित्ताद्दो- वात् । तत्प्राप्युपशमेन यद्यपि भवदनुग्रहेण सर्वे मम स्वस्ति स्यात्., तथापि त्वदधिकसंप्रसादनार्थमनशनेनोषितामेकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्व अभिप्रेतार्थविषयान्प्रार्थयस्व मन्तः ॥ शान्त संकल्पः सुमना यथा स्या- द्वीतमन्युगौतमो माभिमृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥ ' नचिकेतास्त्वाह-यदि दित्सुर्वरान् शान्तसंकल्प: उप- शान्तः संकल्पो यस्य मां प्रति ' यमं प्राप्य किं नु करिष्य- ति मम पुत्र:' इति, स: शान्तंसंकल्पः सुमनाः प्रसन्नचित्तश्च यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पिता मा अभि मां प्रति हे मृत्यो; किंच, त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतः लब्धस्मृतिः, 'स एवायं पुत्रो ममागतः' इत्येवं प्रत्यभिजानन्नित्यर्थः । एतत्प्रयो- जनं त्वयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् ॥ १.३८ यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः । सुखँ रात्रीः शयिता वीतमन्यु- स्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥११॥ मृत्युरुवाच --- यथा बुद्धि: त्वयि पुरस्तात् पूर्वम् आसी- स्नेहसमन्विता पितुस्तव, भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतः प्रतीतवान्सन् । औद्दालकिः उद्दालक एव औद्दालकिः अरुणस्यापत्यम् आरुणि: व्यामुष्यायणो वा मत्प्रसृष्टः मयानुज्ञातः सन् उत्तरा अपि रात्रीः सुखं प्रसन्न - मनाः शयिता स्वप्ना वीतमन्युः विगतमन्युश्च भविता स्यात्, त्वां पुत्रं ददृशिवान् दृष्टवान् सन् मृत्युमुखात् मृत्युगोचरात् प्रमुक्तं सन्तम् ॥ स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥ नचिकेता उवाच -- स्वर्गे लोके रोगादिनिमित्तं भयं प्रथमा वल्ली । किंचन किंचिदपि नास्ति । न च तव त्वं मृत्यो सहसा प्रभवसि, अतो जरया युक्त इह लोक इव त्वत्तो न बिभेति कश्चित्तत्र । किं च उभे अशनायापिपासे तीर्त्वा अतिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि ॥ स त्वमग्निर् स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त‍ श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्दितीयेन वृणे वरेण ॥ १३ ॥ एवंगुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्य स त्वं मृत्युः अध्येषि स्मरसि, जानासीत्यर्थः । हे मृत्यो, यतः तं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गा- थिने । येनाग्निना चितेन स्वर्गलोकाः स्वर्गे लोको येषां ते स्वर्गलोका: यजमाना: अमृतत्वम् अमरणतां देवत्वं भजन्ते प्राप्नुवन्ति, तत् एतत् अग्निविज्ञानं द्वितीयेन वरेण वृणे ॥ प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् । १४० काटकोपनिषद्भाष्ये । अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥ यत्त्वया मृत्योः प्रतिज्ञेयम् — ते तुभ्यं प्रब्रवीमि प्रार्थितं तत् उ मे मम वचसः निबोध बुध्यस्व एकाग्रमनाः सन् । स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानन् विज्ञातवान्सन्नहमित्यर्थः । प्रब्रवीमि तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् । अधुनाग्निं स्तौति - अनन्त- लोकाप्तिं स्वर्गलोक फलप्राप्तिसाधनमित्येतत् अथो अपि प्रति- ष्ठाम् आश्रयं जगतो विराट्स्वरूपेण, तम् एतम् अग्निं मयो- च्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायाम् । विदुषां बुद्धौ निविष्टमित्यर्थः ॥ लोकादिमग्निं तमुवाच तस्मै " या इष्टका यावतीर्वा यथा वा । स चापि तत्प्रत्यवद्यथोक्त- मथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥ इदं श्रुतेर्वचनम् - लोकादि लोकानामादिं प्रथमशरीरि- त्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवा- न्मृत्युः तस्मै नचिकेतसे । किंच, याः इष्टकाः चेतव्याः प्रथमा वल्ली । स्वरूपेण यावतीर्वा संख्यया यथा वा चीयतेऽग्निर्येन प्रकारेण सर्वमेतदुक्तवानित्यर्थः । स चापि नचिकेताः तत् मृत्युनोक्तं प्रत्यवदत् यथावत्प्रत्ययेनावदत् प्रत्युच्चारितवान् । अथ अस् प्रत्युच्चारणेन तुष्टः सन् मृत्युः पुनरेवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः ॥ तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाय ददामि भूयः । तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ कथम् ? तं नचिकेतसम् अब्रवीत् प्रीयमाणः शिष्यस्य योग्यतां पश्यन्प्रीयमाणः प्रीतिमनुभवन् महात्मा अक्षुद्रबुद्धि: बरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि । तवैव नचिकेतसः नाम्ना अभिधानेन प्रसिद्धः भविता मयोच्यमानः अयम् अग्निः । किंच, सृङ्कां शब्दवतीं रत्नमयीं मालाम् इमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु । यद्वा, सृङ्काम् अकुत्सितां गतिं कर्ममयीं गृहाण ।. अन्यदपि कर्मविज्ञानमनेकफलहेतुत्वात्स्वी कुर्वित्यर्थः ॥ काठकोपनिषद्भाष्ये । त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मज्ञं देवमीड्यं विदित्वा निचाय्य मा शान्तिमत्यन्तमेति ॥ पुनरपि कर्मस्तुतिमेवाह — त्रिणाचिकेतः त्रिः कृत्वा ना- चिकेतोऽनिश्चितो येन सः त्रिणाचिकेतः; तद्विज्ञानवान्वा । त्रिभिः मातृपित्त्राचार्यैः एत्य प्राप्य संधि संधानं संबन्धम्, मात्राद्यनुशासनं यथावत्प्राप्येत्येतत् । तद्धि प्रामाण्य कारणं श्रुत्यन्तरादवगम्यते यथा मातृमान्पितृमान्' इत्यादेः । वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमैर्वा । तेभ्यो हि विशुद्धि: प्रत्यक्षा । त्रिकर्मकृत् इज्याध्ययनदानानां कर्ता तरति अति- क्रामति जन्ममृत्यू । किंच, ब्रह्मजज्ञम् ब्रह्मणो हिरण्य- गर्भाज्जातो ब्रह्मजः ब्रह्मजश्वासौ ज्ञश्वेति ब्रह्मज्ञः । सर्वज्ञो ह्यसौ । तं देवं द्योतनाज्ज्ञानादिगुणवन्तम्, ईड्यं स्तुत्यं वि- दित्वा शास्त्रतः, निचाय्य दृष्ट्वा चात्मभावेन इमां स्वबुद्धि- प्रत्यक्षां शान्तिम् उपरतिम् अत्यन्तम् एति अतिशयेनैति । वैराजं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः ॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा " य एवं विद्वाश्चिनुते नाचिकेतम् । प्रथमा वल्ली । स मृत्पुपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥ इदानीमग्निविज्ञानचयनफलमुपसंहरति, प्रकरणं च- त्रिणाचिकेतः त्रयं यथोक्तम् ' या इष्टका यावतीर्वा यथा वा ' इति । एतत् विदित्वा अवगम्य यश्च एवम् आत्मस्वरूपेण अनं विद्वान् चिनुते निर्वर्तयति नाचिकेतमप्रिं क्रतुम्, सः मृत्युपाशान् अधर्माज्ञानरागद्वेषादिलक्षणान् पुरतः अग्रतः, पूर्वमेव शरीरपातादित्यर्थः, प्रणोद्य अपहाय, शोकातिगः मानसैर्दुः खैर्विगत इत्येतत्, मोदते स्वर्गलोके वैराजे विरा डात्मस्वरूपप्रतिपत्त्या ॥ एष तेऽग्निर्नचिकेतः खग्र्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्ष्यन्ति जनास- स्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥ एषः ते तुभ्यम् अग्निः वरः हे नचिकेतः, स्वर्ग्यः स्वर्ग- साधनः, यम् अग्निं वरम् अवृणीथाः वृतवान् प्रार्थितवानसि द्वितीयेन वरेण, सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः । किंच, एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासः जना इत्येतत् । -१-४४ कठकोपनिषद्भाष्ये । एष वरो दत्तो मया चतुर्थस्तुष्टेन । तृतीयं वरं नचिकेतः वृणीष्व । तस्मिन्ह्यदत्ते ऋणवानेवाहमित्यभिप्राय: ॥ येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥ एतावद्धयतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनाव- गन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यवि- ज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारक- फलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफला- ध्यारोपणशून्यमात्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्युत्तरो ग्रन्थ आरभ्यते । तमेतमर्थे द्वितीयवरप्राध्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्च I यतः पूर्वस्मात्कर्मगोचरात्साध्यसाधनलक्षणादनित्याद्विरक्त- स्यात्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलो- भनं क्रियते । नचिकेता उवाच 'तृतीयं वरं नचिकेतो वृणीष्व' इत्युक्तः सन् — येयं विचिकित्सा संशयः प्रेते प्रथमा वल्ली । सृते मनुष्ये, अस्ति इत्येके अस्ति शरीरेन्द्रियमनोबुद्धिव्यति- रिक्तो देहान्तरसंबन्ध्यात्मा इत्येके मन्यन्ते, नायमस्ति इति चैके नायमेवंविधोऽस्तीति चैके । अत्र चास्माकं न प्रत्यक्षेण नाप्यनुमानेन निर्णयविज्ञानम् । एतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यतः एतत् विद्यां विजानीयाम् अहम् अनुशिष्टः ज्ञापितः त्वया । वराणामेष वरस्तृतीयोऽवशिष्टः ॥ देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥२१॥ किमयमेकान्ततो निःश्रेयससाधनात्मज्ञानार्हो न वेत्येतत्प- रीक्षणार्थमाह — देवैरपि अत्र एतस्मिन्वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् । न हि सुविज्ञेयं सुष्ठु विज्ञेयम् असकृ- च्छ्रुतमपि प्राकृतैर्जनैः, यतः अणुः सूक्ष्मः एषः आत्माख्यः धर्मः । अतः अन्यम् असंदिग्धफलं वरं नचिकेतः, वृणीष्व । मा मां मा उपरोत्सीः उपरोधं मा कार्षीः अधमर्णमिवोत्त- मर्ण: । अतिसृज विमुञ्च एनं वरं मा मां प्रति ॥ S. U. 10 कठकोपनिषद्भाष्ये देवा विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥ एवमुक्तो नचिकेता आह— देवैरत्रापि विचिकित्सितं किलेति भवत एव नः श्रुतम् । त्वं च मृत्यो, यत् यस्मात् न सुज्ञेयम् आत्मतत्त्वम् आत्थ कथयसि । अतः पण्डि - तैरप्यवेदनीयत्वात् वक्ता च अस्य धर्मस्य त्वादृक् त्वत्तुल्यः अन्य: पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि । अयं तु वरो निःश्रेयसप्राप्तिहेतुः । अतः न अन्यः वरः तुल्यः सदृशः अस्ति एतस्य कश्चिदपि । अनित्यफलत्वादन्यस्य सर्वस्यैवेत्य- भिप्राय: ॥ शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्यु: - शतायुषः प्रथमा वल्ली । ' शतं वर्षाणि आयूंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व । किंच, गवादिलक्षणान् बहून् पशून् हस्तिहिरण्यम्, हस्ती च हिरण्यं च हस्तिहिरण्यम् अश्वांश्च । किंच, भूमेः पृथिव्याः महत् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व । किंच, सर्वमप्येतदनर्थकं स्वयं चेदल्पायुरित्यत आह- स्वयं च त्वं जीव धारय शरीरं समयेन्द्रियकलापं शरद: वर्षाणि यावत् इच्छसि जीवितुम् ॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥२४॥ एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरम्, तमपि वृणीष्व । किंच, वित्तं प्रभूतं हिरण्य- रत्नादि चिरजीविकां च सह वित्तेन वृणीष्वेत्येतत् । किं बहु- ना ? महाभूमौ महत्यां भूमौ राजा नचिकेतः त्वम् एधि भव । किंचान्यत् कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामाहं करोमि, सत्यसंकल्प हं देवः ॥ " काठकोपनिषद्भाष्ये । ये ये कामा दुलर्भा मर्त्यलोके सर्वान्कामा इछन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः ॥ २५ ॥ ये ये कामाः प्रार्थनीयाः दुर्लभाश्च मर्त्यलोके, सर्वान् तान् कामान् छन्दत: इच्छातः प्रार्थयस्व । किंच, इमा: दिव्या अप्सरसः, रमयन्ति पुरुषानिति रामाः, सह रथै- र्वर्तन्त इति सरथाः, सतूर्याः सवादित्वाः, ताश्च न हि लम्भ- नीया: प्रापणीयाः ईदृशाः एवंविधा: मनुष्यैः मर्त्यैः अस्म- दादिप्रसादमन्तरेण । आभिः मत्प्रत्ताभिः मया प्रदत्ताभिः परिचारिकाभिः परिचारयस्व आत्मानम्, पादप्रक्षालना- दिशुश्रूषां कारयात्मन इत्यर्थः । हे नचिकेतः, मरणं मरणसं- बद्धं प्रश्नं प्रेत्यास्ति नास्तीति काकदन्तपरीक्षारूपं मा अनु- प्राक्षीः मैवं प्रष्टुमर्हसि । श्वोभावा मर्त्यस्य यदन्तकैत- त्सर्वेन्द्रियाणां जरयन्ति तेजः । प्रथमा वल्ली । अपि सर्व जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥ मृत्युना एवं प्रलोभ्यमानोऽपि नचिकेता महाहृदवदक्षोभ्य आह- वो भविष्यन्ति न वेति संदिह्यमान एव येषां भावो भवनं त्वयोपन्यस्तानां भोगानां ते श्वोभावाः । किंच, मर्त्यस्य मनुष्यस्य अन्तक हे मृत्यो, यत् एतत् सर्वेन्द्रियाणां तेजः तत् जरयन्ति अपक्षपयन्ति । अप्सरः प्रभृतयो भोगा अनर्थायैवैते, धर्मवीर्यप्रज्ञातेजोयशः प्रभृतीनां क्षपयितृत्वात् । यां चापि दीर्घजीविकां त्वं दित्ससि तवापि शृणु । सर्व यद्ब्रह्मणोऽपि जीवितम् आयु: अल्पमेव, किमुतास्मदा दिदीर्घ- जीविका । अतः तवैव तिष्ठन्तु वाहाः रथादय:, तथा तव नृत्यगीते च ॥ न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मेयरः स एव ॥ २७ ॥ किंच, न प्रभूतेन वित्तेन तर्पणीयो मनुष्यः । न हि लोके वित्तलाभः कस्यचित्तृप्तिकरो दृष्टः । यदि नामा- काठकोपनिषद्भाष्ये स्माकं वित्ततृष्णा स्यात्, लप्स्यामहे प्राप्स्यामहे वित्तम्, अद्राक्ष्म दृष्टवन्तो वयं चेत् त्वा त्वाम् । जीवितमपि तथैव---- जीविष्यामः यावत् याम्ये पदे त्वम् ईशिष्यसि ईशि- ध्यसे प्रभुः स्याः । कथं हि मर्त्यस्त्वया समेत्याल्पधनायु- भवेत् ? वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ॥ अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः कषःस्थः प्रजानन् । अभिध्यायन्वर्णरतिप्रमोदा- नतिदीर्घे जीविते को रमेत ॥ २८ ॥ यतश्च अजीर्यतां वयोहानिमप्राप्नुवताम् अमृतानां सका- शम् उपेत्य उपगम्य आत्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन् उपलभमानः स्वयं तु जीर्यन् मर्त्यः जराम- रणवान् कधःस्थः कुः पृथिवी अधश्चासावन्तरिक्षा दिलोका- पेक्षया तस्यां तिष्ठतीति कधःस्थः सन् कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवित्ताद्यस्थिरं वृणीते । ' क्व तदास्थ:' इति वा पाठान्तरम् । अस्मिन्पक्षे चैवमक्षरयोजना — तेषु पुत्रादिषु आस्था आस्थिति: तात्पर्येण वर्तनं यस्य स तदा- स्थः । ततोऽधिकतरं पुरुषार्थ दुष्प्रापमपि अभिप्रेप्सुः क तदास्थो भवेत् ? न कश्चित्तदसारज्ञस्तदर्थी स्यादित्यर्थः । : प्रथमा वल्लं । सर्वो ह्युपर्युपर्येव बुभूषति लोकः । तस्मान्न पुत्रवित्तादि- लोभैः प्रलोभ्योऽहम् । किंच, अप्सरः प्रमुखान् वर्णरतिप्र- मोदान् अनवस्थितरूपतया अभिध्यायन् निरूपयन् यथा- वत् अतिदीर्घे जीविते कः विवेकी रमेत ॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥ इति प्रथमा वल्ली ॥ , अतो विहायानित्यैः कामैः प्रलोभनम् यन्मया प्रार्थितं य- स्मिन् प्रेते इदं विचिकित्सनं विचिकित्सन्ति अस्ति नास्ती- त्येवंप्रकारं हे मृत्यो, सांपराये परलोकविषये महति महत्प्र योजननिमित्ते आत्मनो निर्णयविज्ञानं यत्, तत् ब्रूहि कथय नः अस्मभ्यम् । किं बहुना, योऽयं प्रकृत आत्मविषयः वरः गूढं गहनं दुर्विवेचनं प्राप्तः अनुप्रविष्टः तस्मात् वरात् अ- न्यम् अविवेकिभिः प्रार्थनीयमनित्यविषयं वरं नचिकेता: न वृणीते मनसापि इति श्रुतेर्वचनमिति ॥ " इति प्रथमवल्लीभाष्यम् ॥ द्वितीया वल्ली ॥ अन्यच्छ्रेयोऽन्यदुतैव प्रेय- स्ते उभे नानार्थे पुरुष सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह- अन्यत् पृथगेव श्रेयः निःश्रेयसं तथा अन्यत् उतैव अपि च प्रेयः प्रियतरमपि ते श्रेय: प्रेयसी उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतः बनीतः । ताभ्यां विद्याविद्याभ्यामात्मकर्तव्यतया प्रयुज्यते सर्वः पुरु- षः । प्रेयः श्रेयसोर्हि अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयः प्रेयः प्रयोजनकर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुषः । ते यद्यप्येकैकपुरुषार्थसंबन्धिनी विद्यावि- थारूपत्वाद्विरुद्धे इत्यन्यतरापरित्यागेनैकेन पुरुषेण सहानुष्ठा- तुमशक्यत्वात्तयोः हित्वा अविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्य उपादानं कुवर्तः साधु शोभनं शिवं भवति । द्वितीया वल्ली । यस्त्वदूरदर्शी विमूढो हीयते वियुज्यते अर्थात् पुरुषार्थात्पा- रमार्थिकात्प्रयोजनान्नित्यात् प्रच्यवत इत्यर्थः । कोऽसौ ? य उ प्रेयः वृणीते उपादत्ते इत्येतत् ॥ श्रेयश्च प्रेयश्च मनुष्यमेत- स्तौ संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमावृणीते ॥ २ ॥ । यद्युभे अपि कर्तुं 'स्वायत्ते पुरुषेण, किमर्थ प्रेय एवादन्ते बाहुल्येन लोक इति, उच्यते । सत्यं स्वायत्ते ; तथापि साधनत: फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यं पुरुषम् आ इतः एतः प्राप्नुतः श्रेयश्व प्रेयश्च । अतो हंस इवाम्भसः पयः, तौ श्रेयः प्रेयः पदार्थों संपरीत्य सम्य- क्परिगम्य मनसा आलोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरः धीमान् । विविच्य च श्रेयो हि श्रेय एव अभिवृणीते प्रेयसोऽभ्यर्हितत्वाच्छ्रेयसः । कोऽसौ ? धीरः । यस्तु मन्दः अल्पबुद्धिः सः सदसद्विवेकासामर्थ्यात् योगक्षेमात् योगक्षेम- निमित्तं शरीराद्यपचयरक्षणनिमित्तमित्येतत् । प्रेयः पशुपुत्रा- दिलक्षणं वृणीते ॥ काठकोपनिषद्भाष्ये स त्वं प्रियान्प्रियरूपाश्च कामा- नभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैता सृङ्कां वित्तमयीमवासो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥ स त्वं पुनः पुनः मया प्रलोभ्यमानोऽपि प्रियान् पुत्रा- दीन् प्रियरूपांश्च अप्सरः प्रभृतिलक्षणान् कामान् अभिध्या- यन् चिन्तयन् तेषामनित्यत्वा सारत्वादिदोषान् हे नचि- केत:, अत्यस्राक्षीः अतिसृष्टवान् परित्यक्तवानसि ; अहो. बुद्धिमत्ता तव । न एताम् अवाप्तवानसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम् ; यस्यां सृतौ मज्जन्ति सीदन्ति बहवः अनेके मूढा मनुष्याः ॥ दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न वा कामा बहवोऽलोलुपन्त ॥ ४ ॥ ' तयोः श्रेय आददानस्य सांधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते' इति ह्युक्तम् ; तत्कस्मात् ? यतः दूरं दूरेण मह- द्वितीया वल्ली । तान्तरेण एते विपरीते अन्योन्यव्यावृत्तरूपे विवेकाविवे- -कात्मकत्वात् तमः प्रकाशाविव विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्येतत् । के ते इति उच्यते । या च अविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्माता अवगता पण्डितैः । तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये । कस्मात् ? यस्मादविद्वद्वृद्धिप्रलो- भिनः कामा: अप्सरः प्रभृतयः बहवोऽपि त्वा त्वां न अलोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गादात्मोपभोगा- भिवाञ्छासंपादनेन । अतो विद्यार्थिनं श्रेयो भाजनं मन्ये इत्यभिप्राय: ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥ ये तु संसारभाजो जनाः, अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसिं वर्तमानाः वेष्टयमानाः पुत्रपश्वादि- तृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्र- कुशलाश्चेति मन्यमाना: ते दन्द्रम्यमाणा: अत्यर्थ कुटिला- कठकोपनिषद्भाष्ये मनेकरूपां गतिं गच्छन्तः जरामरणरोगादिदुः खैः परियन्ति परिगच्छन्ति मूढाः अविवेकिनः अन्धेनैव दृष्टिविकलेनैव नीयमानाः विषमे पथि यथा बहवः अन्धा : महान्तमनर्थ- मृच्छन्ति, तद्वत् ॥ न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशम पद्यते मे ॥ ६ ॥ अत एव मूढत्वात् न सांपराय: प्रतिभाति । संपरेयत इति संपरायः परलोकः, तत्प्राप्तिप्रयोजनः साधनविशेष: शास्त्रीय: सांपराय: । स च बालम् अविवेकिनं प्रति न प्रति- भाति न प्रकाशते नोपतिष्ठत इत्येतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्वासक्तमनसं तथा वित्तमोहेन वित्त- निमित्तेनाविवेकेन मूढं तमसाच्छन्नम् । स तु अयमेव लोक: योऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टः नास्ति परः अदृष्टो लोकः इत्येवं मननशील: मानी पुनः पुनः जनित्वा वशम् अधीनताम् आपद्यते मे मृत्योर्मम । जननमरणादि- लक्षणदुःखप्रबन्धारूढ एव भवतीत्यर्थः ॥ द्वितीया वल्ली । श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥ प्रायेण ह्येवंविध एव लोकः । यस्तु श्रेयोर्थी स सहस्रेषु कश्विदेवात्मविद्भवति त्वद्विधः यस्मात् श्रवणायापि श्रवणार्थ प्रोतुमपि यः न लभ्यः आत्मा बहुभिः अनेकैः, शृण्वन्तोऽपि बहवः अनेके अन्ये यम् आत्मानं न विद्युः न विदन्ति अभागिन: असंस्कृतात्मानो न विजानीयुः । किंच, अस्य प्रक्तापि आश्चर्य: अद्भुतवदेव, अनेकेषु कश्चिदेव भवति । तथा श्रुत्वापि अस्य आत्मन: कुंशल: निपुण एवानेकेषु लब्धा कश्विदेव भवति । यस्मात् आश्रर्यः ज्ञाता कश्चिदेव कुशला- नुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः सन् ॥ न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥ कस्मात् ? न हि नरेण मनुष्येण अवरेण प्रोक्तः अवरेण काठकोपनिषद्भाष्ये हीनेन प्राकृतबुद्धिनेत्येतत् । उक्तः एषः आत्मा यं त्वं मां पृच्छ- सि । न हि सुष्ठु सम्यक् विज्ञेयः विज्ञातुं शक्यः यस्मात् बहु- धा अस्ति नास्ति कर्ताकर्ता शुद्धोऽशुद्ध इत्याद्यनेकधा चिन्त्य - मानः वादिभिः । कथं पुनः सुविज्ञेय इति, उच्यते- -अनन्य- प्रोक्ते अनन्येन अपृथग्दर्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्ते उक्ते आत्मनि गतिः, अनेकधा अस्तिनास्तीत्यादिलक्षणा चिन्ता गतिः, अत्र अस्मिन्नात्मनि नास्ति न विद्यते सर्वविक- ल्पगतिप्रत्यस्तमितरूपत्वादात्मनः । अथवा स्वात्मभूते अनन्य- स्मिन् आत्मनि प्रोक्ते अनन्यप्रोक्ते गतिः अत्र अन्यावगति- र्नास्ति ज्ञेयस्यान्यस्याभावात् । ज्ञानस्य ह्येषा परा निष्ठा यदात्मैकत्वविज्ञानम् । अतः गन्तव्याभावान्न गतिरत्राव- शिष्यते संसारगतिर्वात्र नास्त्यनन्य आत्मनि प्रोक्ते नान्तरी- यकत्वात्तद्विज्ञानफलस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्म- भूतेनाचार्येण अनन्यतया प्रोक्ते आत्मनि अगति: अनवबो- धोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुस्त- दनन्योऽहमित्याचार्यस्येवेत्यर्थः । एवं सुविज्ञेय आत्मा आग- मवताचार्येणानन्यतया प्रोक्तः । इतरथा अणीयान् अणुतरः अणुप्रमाणादपि संपद्यत आत्मा । अतर्क्यम अतर्क्यः, अणु- प्रमाणो न तर्क्य : स्वबुद्धयभ्यूहेन केवलेन तर्केण । तर्क्य - द्वितीया वल्ली । माणेऽणुपरिमाणे केनचित्स्थापिते आत्मनि ततोऽणुतरमन्यो- ऽभ्यूहति ततोऽप्यन्योऽणुतरमिति । न हि तर्कस्य निष्ठा कचिद्विद्यते ॥ नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥ अतोऽनन्यप्रोक्त आत्मन्युत्पन्ना येयमागमप्रभवा मतिः, नैषा तर्केण स्वबुद्धभ्यूहमात्रेण आपनेया नापनीया न प्रापणी- येत्यर्थः ; नापनेतव्या वा ; नोपहन्तव्या । तार्किको ह्यनागम- ज्ञः स्वबुद्धिपरिकल्पितं यत्किंचिदेव कल्पयति । अत एव च येयमागमप्रभूता मतिः अन्येनैव आगमाभिज्ञेनाचार्येणैव तार्किकात्, प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिः इति, उच्यते —— यां त्वं मति मद्वरप्रदानेन आपः प्राप्तवानसि । सत्या अवितथविषया धृति- र्यस्य तव स त्वं सत्यधृतिः । बतासीत्यनुकम्पयन्नाह मृत्युर्न - चिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक् त्वत्तुल्यः नः अ- स्मभ्यं भूयात् भवतात् । भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥ काठकोपनषिद्भाष्ये जानाम्यह‍ शेवधिरित्यनित्यं न ध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितोऽग्नि- रनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ पुनरपि तुष्ट आह- जानाम्यहं शेवधिः निधिः कर्म- फललक्षण: निधिरिव प्रार्थ्यत इति । असौ अनित्यम् अनित्य इति जानामि । न हि यस्मात् अनित्यैः अधुरैः // यत् नित्यं ध्रुवम् तत् प्राप्यते परमात्माख्यः शेवधि: यस्त्वनित्यसुखात्मक: शेवधिः, स एवानित्यैर्द्रव्यैः प्राप्यते हि यतः, ततः तस्मात् मया जानतापि नित्यमनित्यसाधनैः प्राप्यत इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वा-- दिभिः स्वर्गसुखसाधनभूतोऽग्निः निर्वर्तित इत्यर्थः । तेनाह- मधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥ कामस्याप्तिं जगतः प्रतिष्ठां ऋतोरनन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥११॥ द्वितीया वल्ली । त्वं तु कामस्य आप्तिं समाप्तिम्, अब हि सर्वे कामा: परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्वात्, क्रतोः उपासनायाः फलं हैरण्यगर्भ पदम्, अनन्त्यम् आनन्त्यम् ; अभयस्य च पारं परां निष्ठाम्, स्तोमं स्तुत्यं महत् अणिमाद्यैश्वर्याद्यनेकगुणसंहतम्, स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत्, उरुगायं विस्तीर्णी गतिम्, प्रतिष्ठां स्थितिमात्मनोऽनुत्तमामपि दृष्ट्वा धृत्या धैर्येण धीरः नचिकेतः, धीमान् बुद्धिमान्सन् अत्यस्राक्षीः परमेवा- काङ्क्षन्नतिसृष्टवानसि सर्वमेतत्संसारभोगजातम् । अहो बता- नुत्तमगुणोऽसि ॥ तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥ यं त्वं ज्ञातुमिच्छस्यात्मानं तं दुर्दर्श दुःखेन दर्शनमस्येति दुर्दर्श: अतिसूक्ष्मत्वात् तम्, गूढं गहनम्, अनुप्रविष्टं प्राकृत- विषयविज्ञानैः प्रच्छन्नमित्येतत् । गुहाहितं गुहायां बुद्धौ हितं निहितं स्थितं तत्रोपलभ्यमानत्वात् । गह्वरेष्ठं गहरे विषमे S. U. 11 काठकोपनिषद्भाष्ये अनेकानर्थसंकटे तिष्ठतीति गहरेष्ठम् । यत एवं गूढमनुप्रविष्टो गुहाहितश्च, अतोऽसौ गह्वरेष्ठ: ; अतो दुर्दर्शः । तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानमध्यात्मयोगः तस्याधिगमः प्राप्तिः तेन मत्वा देवम् आत्मानं धीरः हर्षशोकौ आत्मन उत्कर्षापक- योरभावात् जहाति ॥ एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीय‍ हि लब्ध्वा विवृतः सद्म नचिकेतसं मन्ये ॥ १३ ॥ किंच, एतदात्मतत्त्वं यदहं वक्ष्यामि तच्छ्रुत्वा आचार्य- सकाशात् सम्यगात्मभावेन परिगृह्य उपादाय मर्त्यः मरण- धर्मा धर्मादनपेतं धर्म्यं प्रवृह्य उद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य सः मर्त्यः विद्वान् मोदते मोदनीयं हि हर्षणीयमात्मानं लब्ध्वा । तदेतदेवं- विधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्ह त्वां मन्ये इत्यभि- प्रायः ॥ द्वितीया वल्ली । अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥ ----- " एतच्छ्रुत्वा नचिकेताः पुनराह — यद्यहं योग्यः, प्रसन्न - श्वासि भगवन्, मां प्रति अन्यत्र धर्मात् शास्त्रीयाद्धर्मानुष्ठा- नात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः । तथा अन्यत्र अधर्मात् विहिताकरणरूपात् पापात् तथा अन्यत्रास्मा- त्कृताकृतात्, कृतं कार्यमकृतं कारणमस्मादन्यत्र । किंच, अन्यत्र भूताश्च्च अतिक्रान्तात्कालात् भव्याश्च भविष्यतश्च तथा अन्यत्र वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यत इत्यर्थ: । यदीदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद् मह्यम् ॥ सर्वे वेदा यत्पदमामनन्ति तपाँसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पद संग्रहेण ब्रवीम्योमित्येतत् ॥ काठकोपनिषद्भाष्ये इत्येवं पृष्टवते मृत्युरुवाच, पृष्टं वस्तु विशेषणान्तरं च वि- वक्षन् । सर्वे वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अ- विरोधेन आमनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद्वद- न्ति यत्प्रात्यर्थानीत्यर्थः । यदिच्छन्तो ब्रह्मचर्ये गुरुकुलवासल- क्षणमन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज्ज्ञातु- मिच्छसि संग्रहेण संक्षेपतः ब्रवीमि ॐ इत्येतत् । तदेतत्पदं यहुभुत्सितं त्वया तदेतदोमिति अशब्दवाच्यमोंशब्दप्रतीकं च ॥ एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ अतः एतद्ध्येवाक्षरं ब्रह्म अपरम् एतद्ध्येवाक्षरं परं च । तयोर्हि प्रतीकमेतदक्षरम् । एतद्ध्येवाक्षरं ज्ञात्वा उपास्य ब्रह्मे- ति यो यदिच्छति परमपरं वा तस्य तत् भवति । परं चेत् ज्ञातव्यम्, अपरं चेत् प्राप्तव्यम् ॥ एतदालम्बन श्रेष्ठ- मेतदालम्बनं परम् । द्वितीया वल्ली । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ यत एवम्, अत एव एतत् ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्र- शस्यतमम् । एतदालम्बनं परम् अपरं च परापरब्रह्मविषय- त्वात् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मि- न्ब्रह्मण्य परस्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः ॥ न जायते म्रियते वा विपश्चि- नायं कुतश्चिन्न बभ्रुव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥ अन्यत्र धर्मादित्यादिना पृष्टस्यात्मनोऽशेषविशेषरहित- स्यालम्बनत्वेन प्रतीकत्वेन चोंकारो निर्दिष्टः, अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तन्प्रति । अथेदानीं तस्योंकाराल- म्बनस्यात्मनः साक्षात्स्वरूप निर्दिधारयिषयेदमुच्यते । न जा- यते नोत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतो वस्तुनो- ऽनित्यस्यानेका विक्रियाः, तासामाद्यन्ते जन्मविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषे- धार्थे न जायते म्रियते वेति । विपश्चित् मेधावी अपरिलु- काठकोपनिषद्भाष्ये , प्तचैतन्यस्वभावत्वात् । किंच, नायमात्मा कुतश्चित् कार- णान्तरात् बभूव न प्रभूतः । अस्माञ्चात्मनो न बभूव कश्चि- दर्थान्तरभूतः । अतोऽयमात्मा अजो नित्यः शाश्वतः अप- क्षयविवर्जितः । यो ह्यशाश्वतः सोऽपक्षीयते ; अयं तु शाश्व- तः अत एव पुराणः पुरापि नव एवेति । यो ह्यवयवोपचय- द्वारेणाभिनिर्वर्त्यते स इदानीं नवः, यथा कुड्यादिः ; तद्वि- परीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः । यत एवम्, अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे ; तत्स्थोऽप्याकाशवदेव ॥ ' हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९ ॥ एवंभूतमप्यात्मानं शरीरमात्रात्मदृष्टिः हन्ता चेत् यदि मन्यते चिन्तयति इच्छति हन्तुं हनिष्याम्येनमिति यो- ऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमिति उभावपि तौ न विजानीतः स्वमात्मानम् ; यत: नायं हन्ति अ- विक्रियत्वादात्मनः, तथा न हन्यते आकाशवदविक्रियत्वादेव । द्वितीया वल्ली । अतोऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारः नात्मज्ञ- स्य, श्रुतिप्रामाण्यान्यायाच्च धर्माधर्माद्यनुपपत्तेः ॥ अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धाप्रसादान्महिमानमात्मनः ॥ २० ॥ कथं पुनरात्मानं जानातीति, उच्यते- अणो: सूक्ष्मात् अणीयान् श्यामाकादेरणुतरः । महतो महत्परिमाणात् मही- यान् महत्तरः पृथिव्यादेः; अणु महद्वा यदस्ति लोके वस्तु, त- तेनैवात्मना नित्येनात्मवत्संभवति । तदात्मना विनिर्मुक्तमस- त्संपद्यते । तस्मादसावेवात्मा अणोरणीयान्महतो महीयान् सर्वनामरूपत्रस्तूपाधिकत्वात् । स च आत्मा अस्य जन्तो: ब्रह्मा- दिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित: आत्म- भूतः स्थित इत्यर्थः । तम् आत्मानं दर्शनश्रवणमननविज्ञानलि- ङ्गम् अक्रतुः अकाम:, दृष्टादृष्टबाह्यविषयेभ्य उपरतबुद्धिरि- त्यर्थः । यदा चैवं तदा मनआदीनि करणानि धातवः शरी - रस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यति अयमहमस्मीति साक्षा- काठकोपनिषद्भाष्ये द्विजानाति ; ततो विगतशोको भवति ॥ आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैर्य- स्मात् आसीनः अवस्थितोऽचल एव सन् दूरं व्रजति शयानः याति सर्वतः, एवमसावात्मा देवो मदामदः समदो- Sमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽशक्यत्वाज्ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयोऽयमात्मा स्थितिगतिनित्यानित्यादिविरुद्धा- नेकधर्मोपाधिकत्वाद्विरुद्धधर्मवान् विश्वरूप इव चिन्तामणि- वत्कस्यचिदवभासते । अतो दुर्विज्ञेयत्वं दर्शयति-— कस्तं मदन्यो ज्ञातुमर्हतीति । करणानामुपशमः शयनं करणज- नितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवलसामान्यविज्ञानत्वात्सर्वतो यातीव यदा विशेषविज्ञा- नस्थः स्वेन रूपेण स्थित एव सन् मनआदिगतिषु तदुपाधि- कत्वाद्दूरं व्रजतीव । स चेहैव वर्तते ॥ द्वितीया वल्ली । अशरीर‍ शरीरेषु अनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥ तद्विज्ञानाश्च शोकात्यय इत्यपि दर्शयति —— अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनु- ध्यादिशरीरेषु अनवस्थेषु अवस्थिति रहितेष्वनित्येषु अवस्थि- तं नित्यम् अविकृतमित्येतत् । महान्तम् । महत्त्वस्यापेक्षिकत्व- शङ्कायामाह — विभुं व्यापिनम् आत्मानम् ; आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यः तमीदृशमात्मानं मत्वा अयमहमिति, धीरः धीमान् न शोचति । न ह्येवंविधस्वात्मविदः शोकोपपत्तिः ॥ - नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनू ँ खाम् ॥ यद्यपि दुर्विज्ञेयोऽयमात्मा तथाप्युपायेन सुविज्ञेय एवे - त्याह- काठकोपनिषद्भाष्ये नायमात्मा प्रवचनेन अनेकवेदस्वीकरणेन लभ्य: ज्ञेय: ; नापि मेधया प्रन्थार्थधारणशक्त्या ; न बहुना श्रुतेन न बाहुश्रुत्येन केवलेन । केन तर्हि लभ्य इति उच्यते- यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते, तेनैवा- त्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत् । निष्का- मश्वात्मानमेव प्रार्थयते । आत्मनैवात्मा लभ्यत इत्यर्थः । कथं लभ्यत इति, उच्यते — तस्यात्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकी स्वां तनूं स्वकीयं याथा- त्म्यमित्यर्थः ॥ नाविरतो दुश्चरिता- नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥ किंश्चान्यत् । न दुश्चरितात् प्रतिषिद्धाच्छ्रतिस्मृत्यविहिता- त्पापकर्मणः अविरतः अनुपरत: । नापि इन्द्रियलौल्यात् अ- शान्त: अनुपरतः । नापि असमाहित: अनेकाग्रमनाः विक्षिप्त- चित्तः । समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानस: व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेन एनं द्वितीया वल्ली । प्रकृतमात्मानम् आप्नुयात्, यस्तु दुश्चरिताद्विरत इन्द्रियलौ- ल्याच्च, समाहितचित्तः समाधानफलादप्युपशान्तमानसश्चा- चार्यवान् प्रज्ञानेन एनं यथोक्तमात्मानं प्राप्नोतीत्यर्थः ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥ इति द्वितीया वल्ली ॥ यस्त्वनेवंभूतः यस्य आत्मनः ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे ओदनः अशनं भवत: स्याताम्, सर्वहरोऽपि मृत्युः यस्य उपसेचनमिवौ- दनस्य, अशनत्वेऽप्यपर्याप्तः तं प्राकृतबुद्धिर्यथोक्तसाधनानभि- युक्तः सन् कः इत्था इत्थमेवं यथोक्तसाधनवानिवेत्यर्थः, वेद विजानाति यत्र सः आत्मेति ॥ , इति द्वितीयवल्लीभाष्यम् ॥ तृतीया वल्ली ॥ ऋतं पिवन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥ ऋतं पिबन्तावित्यस्या वल्ल्याः संबन्ध: - विद्याविद्ये नाना विरुद्धफले इत्युपन्यस्ते, न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथरूपककल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थं रथरूपकद्वारा द्वावा- त्मानावुपन्यस्येते — ऋतं सत्यम् अवश्यंभावित्वात्कर्मफलं पिबन्तौ; एकस्तत्र कर्मफलं पिबति भुङ्क्ते नेतरः, तथापि पातृसंबन्धात्पिबन्तावित्युच्येते च्छत्रिन्यायेन । सुकृतस्य स्वयं- कृतस्यं कर्मणः ऋतमिति पूर्वेण संबन्ध: । लोके अस्मि - शरीरे, गुहां गुहायां बुद्धौ प्रविष्टौ, परमे, बाह्यपुरुषाकाश- संस्थानापेक्षया परमम्, परार्धे परस्य ब्रह्मणोऽर्ध स्थानं परार्ध हार्दाकाशम् । तस्मिन्हि परं ब्रह्मोपलभ्यते । ततः तृतीया वल्ली । तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः । तौ च च्छा- यातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति । न केवलमकर्मिण एव वदन्ति । पश्चाग्नयो गृह- स्थाः । ये च त्रिणाचिकेताः त्रिः कृत्वो नाचिकेतोऽनिश्चितो यैस्ते त्रिणाचिकेताः ॥ यः सेतुरीजानाना- मक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेत शकेमहि ॥ २ ॥ यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम्, दुःखसंतरणार्थत्वात् । नाचिकेतं नाचिकेतोऽग्निः तम्, वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः । किंच, यश्च अभयं भयशू- न्यं संसारस्य पारं तितीर्षतां तरितुमिच्छतां ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म, तच्च ज्ञातुं शकेमहि । परापरे ब्रह्मणी कर्मिब्रह्मविदाश्रये वेदितव्ये इति वाक्यार्थः तयोरेव ह्युपन्यासः कृतः ' ऋतं पिबन्तौ ' इति ॥ आत्मानँ रथिनं विद्धि शरीर रथमेव तु । काठकोपनिषद्भाष्ये बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥ " तत्र य: उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च तस्य तदुभयगमने साधनो रथः कल्प्यते— तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानीहि ; शरीरं रथम् एव तु रथबद्ध- हयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु अध्य- वसायलक्षणां सारथिं विद्धि; बुद्धिनेतृप्रधानत्वाच्छरीरस्य, सारथिनेतृप्रधान इव रथः । सर्वे हि देहगतं कार्य बुद्धि- कर्तव्यमेव प्रायेण । मनः संकल्पविकल्पादिलक्षणं प्रग्रह- मेव च रशनामेव विद्धि । मनसा हि प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥ इन्द्रियाणि हयानाहु- विषयास्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥ इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, तृतीया वल्ली । शरीररथाकर्षणसामान्यात् । तेषु इन्द्रियेषु इयत्वेन परिक- ल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान् विद्धि । आत्मे- न्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतमात्मानं भो- क्तेति संसारीति आहुः मनीषिणः विवेकिनः । न हि केवलस्या- त्मनो भोक्तृत्वमस्ति ; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृ- त्वम् । तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति- ' ध्यायतीव लेलायतीव' इत्यादि । एवं च सति वक्ष्यमाण- रथकल्पनया वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते, नान्यथा, स्वभावानतिक्रमात् ॥ यस्त्वविज्ञानवान्भव- त्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥ तत्रैवं सति यस्तु बुद्धयाख्यः सारथिः अविज्ञानवान् अनिपुणोऽविवेकी प्रवृत्तौ च निवृत्तौ च भवति यथेतरो रथचर्यायाम् अयुक्तेन अप्रगृहीतेन असमाहितेन मनसा प्रग्रह- स्थानीयेन सदा युक्तो भवति, तस्य अकुशलस्य बुद्धिसारथेः इन्द्रियाणि अश्वस्थानीयानि अवश्यानि अशक्यनिवारणानि काठकोपनिषद्भाष्ये दुष्टाश्वाः अदान्ताश्वाः इव इतरसारथेः भवन्ति ॥ यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ यस्तु पुनः पूर्वोक्तविपरीतसारथिर्भवति तस्य फलमाह- यस्तु विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसा प्रगृही- तमनाः समाहितचित्तः सदा, तस्य अश्वस्थानीयानीन्द्रि- याणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथेः ॥ यस्त्वविज्ञानवान्भव- त्यमनस्कः सदाशुचिः । न स तत्पदमाप्नोति सँसारं चाधिगच्छति ॥ ७ ॥ तत्र पूर्वोक्तस्याविज्ञानवतो बुद्धिसारथेरिदं फलमाह - यस्त्वविज्ञानवान्भवति । अमनस्कः अप्रगृहीतमनस्कः सः तत एव अशुचिः सदैव । न सः रथी तत् पूर्वोक्तमक्षरं तृतीया वल्ली । यत्परं पदम् आप्नोति तेन सारथिना । न केवलं तन्नाप्नोति, संसारं च जन्ममरणलक्षणम् अधिगच्छति ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥ यस्तु द्वितीयो विज्ञानवान् भवति विज्ञानवत्सारध्युपेतो रथी, विद्वानित्येतत् । युक्तमनाः समनस्कः सः तत एव सदा शुचिः । स तु तत्पदमाप्नोति यस्मादाप्तात्पदादप्रच्युतः सन भूयः पुनः न जायते संसारे ॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोsध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥ किं तत्पदमित्याह -- विज्ञानसारथिः यस्तु यो विवेकबुद्धि- सारथिः पूर्वोक्त: मनः प्रग्रहवान् प्रगृहीतमना: समाहितचित्तः S. U. 12 ' काठकोपनिषद्भाष्ये सन् शुचिर्नरो विद्वान्, सः अध्वनः संसारगतेः पारं परमेव, अधिगन्तव्यमित्येतत् आप्नोति, मुच्यते सर्वसंसारबन्धनैः । तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनो वासुदेवा- ख्यस्य परमं प्रकृष्टं पदं स्थानम्, सतत्त्वमित्येतत्, यत् असा- वाप्नोति विद्वान् ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धि- बुद्धेरात्मा महान्परः ॥ १० ॥ " अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सू- क्ष्मतारतम्यक्रमेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्येवमर्थमि- दमारभ्यते । स्थूलानि तावदिन्द्रियाणि तानि यैः परैरर्थैरा- त्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थाः सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च । तेभ्योऽपि अर्थेभ्यश्च परं सूक्ष्मतरं महत्प्रत्यगात्मभूतं च मनः । मनःश- ब्दवाच्यं मनस आरम्भकं भूतसूक्ष्मम्, संकल्पविकल्पाद्यार- म्भकत्वात् । मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धि:, बुद्धिशब्दवाच्य मध्यवसायाद्यारम्भकं भूतसूक्ष्मम् । तृतीया वल्ली । बुद्धेरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वादात्मा महान् सर्वमहत्त्वात् अव्यक्ताद्यत्प्रथमं जातं हैरण्यगर्भ तत्त्वं बोधा- बोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥ महतः परमव्यक्त- मव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचि- त्सा काष्ठा सा परा गतिः ॥ ११ ॥ महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अ- व्यक्तं सर्वस्य जगतो बीजभूतमव्याकृतनामरूपं सतत्त्वं सर्व- कार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृताकाशा- दिनामवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वटकण - कायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात् परः सूक्ष्मतर: सर्वकारणकारणत्वात्प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुष: सर्वपूरणात् । ततोऽन्यस्य परस्य प्रसङ्गं निवारयन्नाह - पुरुषान्न परं किंचिदिति । यस्मान्नास्ति पुरुषाञ्चिन्मात्रघनात्परं किंचिदपि वस्त्वन्तरम्, तस्मात्सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां मा काष्ठा निष्ठा पर्यवसानम् । अत्र हि इन्द्रियेभ्य आरभ्य सूक्ष्मत्वादि परिसमाप्तम् । अत एव च गन्तॄणां सर्वगति-- काठकोपनिषद्भाष्ये मतां संसारिणां सा परा प्रकृष्टा गतिः, 'यद्गत्वा न निव- र्तन्ते' इति स्मृतेः ॥ एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते । दृश्यते त्वग्यया बुद्धधा सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥ " ननु गतिश्वेदागत्यापि भवितव्यम् कथम् 'यस्माद्भूयो न जायते ' इति ? नैष दोषः । सर्वस्य प्रत्यगात्मत्वादवगति- रेव गतिरित्युपचर्यते । प्रत्यगात्मत्वं च दर्शितम् इन्द्रियम- नोबुद्धिपरत्वेन । यो हि गन्ता सोऽयमप्रत्यग्रूपं पुरुषं गच्छति अनात्मभूतं न विन्दति स्वरूपेण । तथा च श्रुतिः 'अनध्वगा अध्वसु पारयिष्णवः' इत्याद्या । तथा च दर्श- यति प्रत्यगात्मत्वं सर्वस्य - एष पुरुषः सर्वेषु ब्रह्मादिस्त - म्बपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्मा अविद्या- मायाच्छन्नः अत एंव आत्मा न प्रकाशते आत्मत्वेन कस्य- चित् । अहो अतिगम्भीरा दुरवगाह्या विचित्रा चेयं माया, यदयं सर्वो जन्तुः परमार्थतः परमार्थसतत्त्वोऽप्येवं बोध्य- मानोऽहं परमात्मेति न गृह्णाति, अनात्मानं देहेन्द्रियादिसं तृतीया वल्ली । घातमात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्यैव मायया मोमुह्यमानः सर्वो लोकोऽयं बंभ्रमीति । तथा च स्मरणम् -- 'नाहं प्रका- शः सर्वस्य योगमायासमावृतः ' इत्यादि । ननु विरुद्धमिदमु- - मत्वा धीरो न शोचति न प्रकाशत इति च । नैतदेवम् । असंस्कृतबुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतया अग्र्यया, अग्रमिवाग्र्या तया, एकाग्रतयो - पेतयेत्येतत् ; सूक्ष्मया सूक्ष्मवस्तुनिरूपणपरया । कै: ? सूक्ष्म- दर्शिभि: 'इन्द्रियेभ्यः परा ह्यर्था:' इत्यादिप्रकारेण सूक्ष्मता- पारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिन: तैः सूक्ष्मदर्शिभिः पण्डितैरित्येतत् ॥ " यच्छेद्वाङ्मनसी प्राज्ञ- स्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छे- त्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥ , तत्प्रतिपत्त्युपायमाह्— यच्छेत् नियच्छेदुपसंहरेत् प्राज्ञ: विवेकी । किम् ? वाक् वाचम्; वागत्रोपलक्षणार्था सर्वेषामि- न्द्रियाणाम्। क्क? मनसी मनसि । छान्दसं दैर्घ्यम् । तच्च मन: काठकोपनिषद्भाष्ये यच्छेत् ज्ञाने प्रकाशस्वरूपे बुद्धावात्मनि । बुद्धिर्हि मनआ- दिकरणान्याप्नोतीत्यात्मा प्रत्यक् च तेषाम् । ज्ञानं बुद्धिम् आ- त्मनि महति प्रथमजे नियच्छेत् । प्रथमजवत्स्वच्छस्वभावक- मात्मनो विज्ञानमापादयेदित्यर्थः । तं च महान्तमात्मानं यच्छेत् शान्ते सर्वविशेषप्रत्यस्तमितरूपे अविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्ये आत्मनि ॥ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गे पथस्तत्कवयो वदन्ति ॥ १४ ॥ एवं पुरुष आत्मनि सर्व प्रविलाप्य नामरूपकर्मत्रयं यन्मि- थ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्य- ज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्त्र- रूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यत:, अतस्तद्द- र्शनार्थमनाद्यविद्याप्रसुप्ता: उत्तिष्ठत हे जन्तवः, आत्मज्ञानाभि- मुखा भवत; जाग्रत अज्ञाननिद्राया घोररूपाया: सर्वानर्थबी- जभूतायाः क्षयं कुरुत । कथम् ? प्राप्य उपगम्य वरान् प्रकृ- ष्टानाचार्यस्तत्त्वविदः, तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति तृतीया वल्ली । निबोधत अवगच्छत; न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत्, अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य । किमिव सूक्ष्मबुद्धिरिति, उच्यते-- क्षुरस्य धारा अग्रं निशिता ती - क्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्धयां दुर्गमनीया तथा दुर्गे दुःसंपाद्यमित्येतत् ; पथः पन्थानं तत् तं ज्ञानलक्षणं मार्ग कवयः मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वद- न्तीत्यभिप्रायः ॥ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । उपाधनन्तं महतः परं ध्रुवं नेचास्य तं मृत्युमुखायभुच्यते ॥ १५॥ तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येति, उच्यते । स्थूला ताव- दियं मेदिनी शब्दस्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषय- भूता तथा शरीरम् । तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्म- त्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यं दृष्टमबादिषु याव- दाकाशमिति । ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ताः यत्र न सन्ति किमु तस्य सूक्ष्मत्वादिनिरतिश- ' काठकोपनिषद्भाष्ये यत्वं वक्तव्यमित्येतद्दर्शयति श्रुतिः -- अशब्दमस्पर्शमरूपम- रसमगन्धवच्च यत्, एतद्व्याख्यातं ब्रह्म । अव्ययम्, याद्ध शब्दादिमत्, तद्व्येति; इदं त्वशब्दादिमत्त्वादव्ययं न व्येति न श्रीयते ; अत एव च नित्यम्; यद्धि व्येति, तदनित्यम् ; इदं तु न व्येति ; अतो नित्यम् । इतश्च नित्यम् - अनादि अविद्यमानः आदिः कारणमस्य तदिदमनादि । यच्चादिमत्, तत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि; इदं तु सर्वकारणत्वादकार्यम्, अकार्यत्वान्नित्यम् ; न तस्य कारणमस्ति यस्मिन्प्रलीयेत । तथा अनन्तम् अविद्यमानोऽन्तः कार्यमस्य तदनन्तम् । यथा कदल्यादेः फलादिकार्योत्पादनेनाप्यनि- त्यत्वं दृष्टम्, न च तथाप्यन्तवत्त्वं ब्रह्मणः ; अर्तोऽपि नित्यम् । महतः महत्तत्त्वाद्बुद्धयाख्यात् परं विलक्षणं नित्यविज्ञप्तिस्व- रूपत्वात्; सर्वसाक्षि हि सर्वभूतात्मत्वाद्ब्रह्म । उक्तं हि एष सर्वेषु भूतेषु' इत्यादि । ध्रुवं च कूटस्थं नित्यं न पृथिव्यादि- वदापेक्षिकं नित्यत्वम् । तत् एवंभूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचरादविद्याका- मकर्मलक्षणात् प्रमुच्यते वियुज्यते ॥ नाचिकेतमुपाख्यानं मृत्युप्रोक्त ँ सनातनम् । तृतीया वल्ली । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥ प्रस्तुतविज्ञानस्तुत्यर्थमाह श्रुतिः - नाचिकेतं नचिकेतसा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदमाख्यानमुपा- ख्यानं वल्लीत्रयलक्षणं सनातनं चिरंतनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः : श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोको ब्रह्म- लोकः तस्मिन् ब्रह्मलोके महीयते आत्मभूत उपास्यो भव- तीत्यभिप्रायः ॥ य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ॥ तदानन्त्याय कल्पत इति ॥ १७ ॥ इति तृतीया वल्ली ॥ इति काठकोपनिषदि प्रथमोऽध्यायः ॥ यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेत् ग्रन्थतोऽर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचि- ૨૮૬ काठकोपनिषद्भाष्ये र्भूत्वा श्राद्धकाले वा श्रावयेत् भुञ्जानान्, तत् श्राद्धम् अस्य आनन्त्याय अनन्तफलाय कल्पते समर्थ्यते । द्विर्वचनम- ध्यायपरिसमाप्त्यर्थम् । इति तृतीयवल्लीभाष्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमोऽध्यायः ॥ काठकोपनिषद्भाष्यम द्वितीयोऽध्यायः द्वितीयोऽध्यायः ॥ ष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते ' दृश्यते त्वग्र्यया बुद्धया' इत्युक्तम् । कः पुनः प्रतिबन्धोऽय्याया बुद्धेः, येन तदभा- वादात्मा न दृश्यत इति तददर्शनकारणप्रद- र्शनार्था वल्ली आरभ्यते ; विज्ञाते हि श्रेयः प्रतिबन्धकारणे तदुपनयनाय यत्न आरब्धुं शक्यते, नान्यथेति — पराश्चि खानि व्यतृणत्स्वयंभू- स्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्विद्वीरः प्रत्यगात्मानमैक्ष- दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥ पराचि परागश्चन्ति गच्छन्तीति, खानि खोपलक्षि- तानि श्रोत्रादीनीन्द्रियाणि खानीत्युच्यन्ते । तानि परा- ञ्येव शब्दादिविषयप्रकाशनाय प्रवर्तन्ते । यस्मादेवंस्वभा वकानि तानि व्यतृणत् हिंसितवान् हननं कृतवानित्यर्थः । काठकोपनिषद्भाष्ये कोऽसौ ? स्वयंभूः परमेश्वरः स्वयमेव स्वतन्वो भवति सर्वदा न परतन्त्र इति । तस्मात् पराङ् पराग्रूपाननात्मभूताञ्शब्दा- दीन् पश्यति उपलभते उपलब्धा नान्तरात्मन् नान्तरात्मा- नमित्यर्थः । एवंस्वभावेऽपि सति लोकस्य कश्चित् नद्याः प्रतिस्रोत: प्रवर्तनमिव धीरः धीमान्विवेकी प्रत्यगात्मानं प्रत्यक् चासावात्मा चेति प्रत्यगात्मा । प्रतीच्येवात्मशब्दो रूढो लोके, नान्यत्र । व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो व- र्तते ; ' यच्चाप्नोति यदादन्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति कीर्त्यते' इत्यात्मशब्दव्युत्पत्ति- स्मरणात् । तं प्रत्यगात्मानं स्वस्वभावम् ऐक्षत् अपश्यत् पश्यतीत्यर्थः, छन्दसि कालानियमात् । कथं पश्यतीति, उच्यते— आवृत्तचक्षुः आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिक- मिन्द्रियजातमशेषविषयात् यस्य स आवृत्तचक्षुः । स एवं संस्कृतः प्रत्यगात्मानं पश्यति । न हि बाह्यविषयालोचन- परत्वं प्रत्यगात्मेक्षणं चैकस्य संभवति । किमिच्छन्पुनरित्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगा- त्मानं पश्यतीति, उच्यते । अमृतत्वम् अमरणधर्मत्वं नित्य- स्वभावताम् इच्छन् अत्मन इत्यर्थः ॥ - चतुर्थी बल्ली । पराचः कामाननुयन्ति बाला- स्मृत्योर्यन्ति विततस्य पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते ॥ २ ॥ यत्तावत्स्वाभाविकं परागेवानात्मदर्शनं तदात्मदर्शनस्य प्र- तिबन्धकारणमविद्या तत्प्रतिकूलत्वाद्या च परागेवाविद्योपप्रद- शितेषु दृष्टादृष्टेषु भोगेषु तृष्णा ताभ्यामविद्यातृष्णाभ्यां प्रति- बद्धात्मदर्शनाः पराचः बहिर्गतानेव कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बाला: अल्पप्रज्ञाः ते तेन कारणेन मृत्योः अविद्याकामकर्मसमुदायस्य यन्ति गच्छन्ति विततस्य विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते येन तं पाशं देहेन्द्रियादिसंयोगवियोगलक्षणम् । अनवरतं जन्ममरण- जरारोगाद्यनेकानर्थव्रातं प्रतिपद्यन्त इत्यर्थः । यत एवम् अथ तस्मात् धीराः विवेकिनः प्रत्यगात्मस्वरूपावस्थानलक्षणम् अमृ- तत्वं ध्रुवं विदित्वा । देवाद्यमृतत्वं ह्यध्रुवम् इदं तु प्रत्यगात्म- स्वरूपावस्थानलक्षणं ध्रुवम्, 'न कर्मणा वर्धते नो कनीयान् ' इति श्रुतेः । तदेवंभूतं कूटस्थमविचाल्यममृतत्वं विदित्वा अध्रुवेषु सर्वपदार्थेषु अनित्येषु निर्धार्य, ब्राह्मणा इह संसारे " काठकोपनिषद्धाये । ऽनर्थप्राये न प्रार्थयन्ते किंचिदपि प्रत्यगात्मदर्शनप्रतिकूलत्वात् । पुत्रवित्तलोकैषणाभ्यो व्युत्तिष्ठन्त्येवेत्यभिप्रायः ॥ येन रूपं रसं गन्धं शब्दान्स्पर्शाश्व मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥ यद्विज्ञानान्न किंचिदन्यत्प्रार्थयन्ते ब्राह्मणाः, .कथं तदधि- गम इति, उच्यते येन विज्ञानस्वभावेनात्मना रूपं रसं गन्धं शब्दान् स्पर्शाश्च मैथुनान मैथुननिमित्तान्सुखप्रत्ययान् विजानाति विस्पष्टं जानाति सर्वो लोकः । ननु नैवं प्रसिद्धि- लोकस्य आत्मना देहादिविलक्षणेनाहं विजानामीति । देहा- दिसंघातोऽहं विजानामीति तु सर्वो लोकोऽवगच्छति । ननु देहादिसंघातस्यापि शब्दादिस्वरूपत्वाविशेषाद्विज्ञेयत्वाविशेषा- च न युक्तं विज्ञातृत्वम् । यदि हि देहादिसंघातो रूपाद्यात्मकः सन् रूपादीन्विजानीयात्, तर्हि बाह्या अपि रूपादयोऽन्योन्यं स्वं स्वं रूपं च विजानीयुः । न चैतदस्ति । तस्माद्देहादिल- क्षणांश्च रूपादीन् एतेनैव देहादिव्यतिरिक्तेनैव विज्ञानस्वभावे - नात्मना विजानाति लोकः । यथा येन लोहो दहति सो - चतुर्थी वल्ली । ऽग्निरिति तद्वत् आत्मनोऽविज्ञेयम् । किम् अत्र अस्मिँल्लोके परिशिष्यते न किंचित्परिशिष्यते सर्वमेव त्वात्मना विज्ञेयम्, यस्यात्मनोऽविज्ञेयं न किंचित्परिशिष्यते स आत्मा सर्वज्ञः । एतद्वै तत् । किं तत् यन्नचिकेतसा पृष्टं देवादिभिरपि विचि- कित्सितं धर्मादिभ्योऽन्यत् विष्णोः परमं पदं यस्मात्परं नास्ति तद्वै एतत् अधिगतमित्यर्थः ॥ स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥ अतिसूक्ष्मत्वाद्दुर्विज्ञेयमिति मत्वैतमेवार्थे पुनः पुनराह - स्वप्नान्तं स्वप्नमध्यं स्वप्नविज्ञेयमित्येतत् । तथा जागरितान्तं जागरितमध्यं जागरितविज्ञेयं च । उभौ स्वप्नजागरितान्तौ येन आत्मना अनुपश्यति लोकः इति सर्व पूर्ववत् । तं महान्तं विभुमात्मानं मत्वा अवगम्यात्मभावेन साक्षादहमस्मि परमा- त्मेति धीरः न शोचति ॥ य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । S. U. 13 काठकोपनिषद्भाष्ये ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५ ॥ किंच, यः कश्चित् इमं मध्वदं कर्मफलभुजं जीवं प्राणा- दिकलापस्य धारयितारमात्मानं वेद विजानाति अन्तिकात् अन्तिके समीपे ईशानम् ईशितारं भूतभव्यस्य कालत्रयस्य, ततः तद्विज्ञानादूर्ध्वमात्मानं न विजुगुप्सते न गोपायितु- मिच्छति, अभयप्राप्तत्वात् । यावद्धि भयमध्यस्थोऽनित्यमा- त्मानं मन्यते तावद्गोपायितुमिच्छत्यात्मानम् । यदा तु नित्यम- द्वैतमात्मानं विजानाति, तदा कः किं कुतो वा गोपायितु- मिच्छेत् । एतद्वै तदिति पूर्ववत् ॥ यः पूर्वं तपसो जात- मद्भयः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥६॥ यः प्रत्यगात्मेश्वरभावेन निर्दिष्टः, स सर्वात्मेत्येतद्दर्श- यति——यः कश्चिन्मुमुक्षुः पूर्व प्रथमं तपसः ज्ञानादिलक्षणा- द्ब्रह्मण इत्येतत् ; जातम् उत्पन्नं हिरण्यगर्भम् । किमपेक्ष्य पूर्व - मिति, आह--अद्भयः पूर्वम अप्सहितेभ्यः पञ्चभूतेभ्यः, न चतुर्थी वल्ली । केवलाभ्योऽद्भय इत्यभिप्रायः । अजायत उत्पन्नः यस्तं प्रथ- मजं देवादिशरीराण्युत्पाद्य सर्वप्राणिगुहां हृदयाकाशं प्रविश्य तिष्ठन्तं शब्दादीनुपलभमानं भूतेभिः भूतैः कार्यकरणल- क्षणैः सह तिष्ठन्तं यो व्यपश्यत यः पश्यतीत्येतत्; य एवं पश्यति, स एतदेव पश्यति यत्तत्प्रकृतं ब्रह्म ॥ या प्राणेन संभवति अदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥७॥ किंच, या सर्वदेवतामयी सर्वदेवतात्मिका प्राणेन हिर- ण्यगर्भरूपेण परस्माद्ब्रह्मणः संभवति शब्दादीनामदनात् अदितिः तां पूर्ववहां प्रविश्य तिष्ठन्तीम् अदितिम् । तामेव विशिनष्टि- - या भूतेभिः भूतैः समन्विता व्यजायत उत्पन्ने- त्येतत् ॥ अरण्योर्निर्हितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भि- हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ काठकोपनिषद्भाष्ये किंच, यः अधियज्ञम् उत्तराधरारण्योर्निहितः स्थितः जात- वेदा अभिः पुनः सर्वहविषां भोक्ता अध्यात्मं च योगिभिः, गर्भ इव गर्भिणीभिः अन्तर्वत्नीभिरगर्हितान्न भोजनादिना यथा गर्भः सुभृतः सुष्ठु सम्यग्भृतो लोके, इत्थमेव ऋत्वि- भिर्योगिभिश्च सुभृत इत्येतत् । किंच, दिवे दिवे अहन्य- हनि ईड्यः स्तुत्यो वन्द्यश्च कर्मिभिर्योगिभिश्चाध्वरे हृदये च जागृवद्भिः जागरणशीलैः अप्रमत्तैरित्येतत् । हविष्मद्भिः आ- ज्यादिमद्भिः ध्यानभावनावद्भिश्च मनुष्येभिः मनुष्यैः अग्निः ; एतद्वै तत् तदेव प्रकृतं ब्रह्म ॥ यतश्वोदेति सूर्यः अस्तं यत्र च गच्छति । तं देवाः सर्वे अर्पिता- स्तदु नात्येति कश्चन । एतद्वै तत् ॥ किंच, यतश्च यस्मात्प्राणात् उदेति उत्तिष्ठति सूर्य:, अस्तं निम्लोचनं तिरोधानं यत्र यस्मिन्नेव च प्राणे अहन्यहनि गच्छति, तं प्राणमात्मानं देवाः सर्वे अग्न्यादयः अधिदैवं वागादयश्चाध्यात्मं सर्वे विश्वे अरा इव रथनाभौ अर्पिता: संप्रवेशिताः स्थितिकाले । सोऽपि ब्रह्मैव । तत् एतत्सर्वा - चतुर्थी बल्ली । त्मकं ब्रह्म, उ नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छ- ति, कश्चन कश्चिदपि एतद्वै तत् ॥ यदेवेह तदमुल यद्मुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥ यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वादब्रह्मवदव- भासमानं संसार्यन्यत्परस्माद्ब्रह्मण इति मा भूत्कस्यचिदाश- तीदमाह — यदेवेह कार्यकारणोपाधिसमन्वितं संसारधर्म- वदवभासमानमविवेकिनाम्, तदेव स्वात्मस्थम् अमुत्र नित्य- विज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म । यश्च अमुत्र अ- मुष्मिन्नात्मनि स्थितम्, तदनु इह तदेव इह कार्यकरणनामरू- पोपाधिम् अनु विभाव्यमानं नान्यत् । तत्रैवं सति उपाधि- स्वभावभेद दृष्टिलक्षणया अविद्यया मोहितः सन् य इह ब्रह्मण्यनानाभूते परस्मादन्योऽहं मत्तोऽन्यत्परं ब्रह्मेति नानेव भिन्नमिव पश्यति उपलभते, स मृत्योर्मरणात् मृत्युं मरणं पुनः पुन: जननमरणभावमाप्नोति प्रतिपद्यते । तस्मात्तथा न पश्येत् । विज्ञानैकरसं नैरन्तर्येणाकाशवत्परिपूर्ण ब्रह्मवाहम- स्मीति पश्येदिति वाक्यार्थः ॥ काठकोपनिषद्भाष्ये मनसैवेदमाप्तव्यं नेह नानास्ति किंचन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥ रसम् आप्तव्यम् प्रागेकत्वविज्ञानादाचार्यागमसंस्कृतेन मनसैव इदं ब्रह्मैक - आत्मैव नान्यदस्तीति । आप्ते च नानात्वप्र- त्युपस्थापिकाया अविद्याया निवृत्तत्वात् इह ब्रह्मणि नाना नास्ति किंचन अणुमात्रमपि । यस्तु पुनरविद्यातिमिरदृष्टिं न मुवति इह ब्रह्मणि नानेव पश्यति, स मृत्योर्मृत्युं गच्छत्येव स्वल्पमपि भेदमध्यारोपयन्नित्यर्थः ॥ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ पुनरपि तदेव प्रकृतं ब्रह्माह- अङ्गुष्ठमात्रः अङ्गुष्ठपरिमा- णः । अङ्गुष्ठपरिमाणं हृदयपुण्डरीकं तच्छिद्रवर्त्यन्तःकरणो- पाधिरङ्गुष्ठमात्रः अङ्गुष्ठमात्रवंशपर्वमध्यवर्त्यम्बरवत् । पुरुषः चतुर्थी वल्ली । पूर्णमनेन सर्वमिति । मध्ये आत्मनि शरीरे तिष्ठति यः तम् आत्मानम् ईशानं भूतभव्यस्य विदित्वा न तत इत्यादि पूर्ववत् ॥ अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ किंच, अङ्गुष्ठमात्रः पुरुषः ज्योतिरिव अधूमकः, अधूमक- मिति युक्तं ज्योतिः परत्वात् । 'यस्त्वेवं लक्षितो योगिभिर्हृदये ई- शान: भूतभव्यस्य स एव नित्यः कूटस्थः अद्य इदानीं प्राणिषु वर्तमानः स उ श्वोऽपि वर्तिष्यते, नान्यस्तत्समोऽन्यश्च जनि- tra इत्यर्थः । अनेन 'नायमस्तीति चैके' इत्ययं पक्षो न्यायतोऽप्राप्तोऽपि स्ववचनेन श्रुत्या प्रत्युक्तः, तथा क्षण- भङ्गवादश्व । यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । काठकोपनिषद्भाष्ये एवं धर्मान्पृथक्पश्यं- स्तानेवानुविधावति ॥ १४ ॥ पुनरपि भेददर्शनापवादं ब्रह्मण आह— यथा उदकं दुर्गे दुर्गमे देशे उच्छ्रिते वृष्टं सिक्तं पर्वतेषु पर्ववत्सु निम्नप्रद- शेषु विधावति विकीर्ण सद्विनश्यति, एवं धर्मान् आत्मनो- ऽभिन्नान् पृथक् पश्यन् पृथगेव प्रतिशरीरं पश्यन् तानेव शरीरभेदानुवर्तिनः अनुविधावति । शरीरभेदमेव पृथक् पुनः पुनः प्रतिपद्यत इत्यर्थः ॥ यथोदकं शुद्धे शुद्ध- मासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥ इति चतुर्थी वल्ली । अस्य पुनर्विद्यावतो विध्वस्तोपाधिकृतभेद दर्शनस्य विशु- द्धविज्ञानघनैकरसमद्वयमात्मानं पश्यतो विजानतो मुनेर्मनन- शीलस्यात्मस्वरूपं कथं संभवतीति, उच्यते-- यथा उदकं शुद्धे प्रसन्ने शुद्धं प्रसन्नम् आसिक्तं प्रक्षिप्तम् एकरसमेव चतुर्थी वल्ली । नान्यथा, तादृगेव भवति अत्माप्येवमेव भवति एकत्वं विजा- नतो मुनेः मननशीलस्य हे गौतम । तस्मात्कुतार्किकभेददृष्टिं नास्तिककुदृष्टिं चोज्झित्वा मातृपितृसहस्रेभ्योऽपि हितैषिणा वेदेनोपदिष्टमात्मैकत्वदर्शनं शान्तदुद्वैरादरणीयमित्यर्थः ॥ इति चतुर्थवल्लीभाष्यम् ॥ पञ्चमी वल्ली । पुरमेकादशद्वार- मजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १ ॥ पुनरपि प्रकारान्तरेण ब्रह्मतत्त्वनिर्धारणार्थोऽयमारम्भ:, दुर्विज्ञेयत्वाद्ब्रह्मण: -- पुरं पुरमिव पुरम् । द्वारद्वारपालाधि- ष्टात्त्राद्यनेकपुरोपकरणसंपत्तिदर्शनात् शरीरं पुरम् । पुरं च सोपकरणं स्वात्मना असंहतस्वतन्त्रस्वाम्यर्थे दृष्टम् । तथेदं पुरसामान्यादनेकोपकरणसंहतं शरीरं स्वात्मना असं- इतराजस्थानीयस्वाम्यर्थं भवितुमर्हति । तचेदं शरीराख्यं पुरम् एकादशद्वारम्; एकादश द्वाराण्यस्य - सप्त शीर्षण्यानि, नाभ्या सहार्वाश्चि त्रीणि, शिरस्येकम्, तैरेकादशद्वारं पुरम् । कस्य ? अजस्य जन्मादिविक्रियारहितस्यात्मनो राजस्थानीयस्य पुरधर्मविलक्षणस्य । अवक्रचेतसः अवक्रम् अकुटिलमादित्य- प्रकाशवन्नित्यमेवावस्थितमेकरूपं चेतो विज्ञानमस्येति अव- पञ्चमी वल्ली । क्रचेताः तस्यावक्रचेतसः राजस्थानीयस्य ब्रह्मण: यस्येदं पुरं तं परमेश्वरं पुरस्वामिनम् अनुष्ठाय ध्यात्वा । ध्यानं हि तस्या- नुष्ठानं सम्यग्विज्ञानपूर्वकम् । तं सर्वैषणाविनिर्मुक्त: सन्समं सर्वभूतस्थं ध्यात्वा न शोचति । तद्विज्ञानाद्भयप्राप्तेः शोका- वसराभावात्कुतो भयेक्षा । इहैवाविद्याकृतकामकर्मबन्धनै- विमुक्तो भवति । विमुक्तश्च सन्विमुच्यते ; पुनः शरीरं न गृह्णातीत्यर्थः ॥ ह ँसः शुचिषद्वसुरन्तरिक्षस- द्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्योमस- दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥ स तु नैकपुरवावात्मा किं तर्हि सर्वपुरवर्ती। कथम् ! हंसः हन्ति गच्छतीति । शुचिषत् शुचौ दिवि आदित्यात्मना सीद- तीति । वसुः वासयति सर्वानिति । वाय्वात्मना अन्तरिक्षे सी- दतीति अन्तरिक्षसत् । होता अग्निः, 'अग्निर्वै होता' इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत्, ' इयं वेदिः परो- ऽन्तः पृथिव्या:' इति मन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे काठकोपनिषद्भाष्ये कलशे सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरो- णेषु गृहेषु सीदतीति दुरोणसत् । नृषत् नृषु मनुष्येषु सीद- तीति नृषत् । वरसत् वरेषु देवेषु सीदतीति वरसत् । ऋतसत् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति ऋतसत् । व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत् । अब्जा: अप्सु शङ्ख- शुक्तिमकरादिरूपेण जायत इति अब्जा: । गोजा : गवि पृथि - व्यां व्रीहियवादिरूपेण जायत इति गोजा: । ऋतजाः यज्ञा- ङ्गरूपेण जायत इति ऋतजाः । अद्रिजाः पर्वतेभ्यो नद्यादिरू- पेण जायत इति अद्रिजा: । सर्वात्मापि सन् ऋतम् अवितथ- स्वभाव एव । बृहत् महान् सर्वकारणत्वात् । यदाप्यादित्य एव मन्त्रेणोच्यते तदाप्यात्मस्वरूपत्वमादित्यस्याङ्गीकृतमिति ब्रह्मणि व्याख्यानेऽप्यविरोधः । सर्वथाप्येक एवात्मा जगत:, नात्मभेद इति मन्त्रार्थः ॥ ' ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते-- ऊर्ध्वं हृदयात् प्राणं ! पञ्चमी वल्ली । प्राणवृत्तिं वायुम् उन्नयति ऊर्ध्वं गमयति । तथा अपानं प्रत्यक् अधः अस्यति क्षिपति यः इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाशे आसीनं बुद्धावभिव्यक्तं विज्ञानप्रकाशनं वामनं वननीयं संभजनीयं विश्वे सर्वे देवा: चक्षुरादयः प्राणाः रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानम् उपासते तादर्थ्येनानुपरतव्यापारा भवन्तीत्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः सोऽन्यः सिद्ध इति वाक्यार्थः T: 11 अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥ किंच, अस्य शरीरस्थस्य आत्मनः विस्रंसमानस्य - शमानस्य देहिनो देहवतः । विस्रंसनशब्दार्थमाह — देहाद्वि- मुच्यमानस्येति । किमत्र परिशिष्यते प्राणादिकलापे न किंचन परिशिष्यते ; अब देहे पुरस्वामिविद्रवण इव पुरवा - सिनां यस्यात्मनोऽपगमे क्षणमात्रात्कार्यकरणकलापरूपं सर्व- मिदं हतबलं विध्वस्तं भवति विनष्टं भवति, सोऽन्यः सिद्ध आत्मा ॥ काठकोपनिषद्भाष्ये न प्राणेन नापानेन मत्यों जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥ स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं भवति न तु व्यतिरिक्तात्मापगमात्, प्राणादिभिरेवेह मर्त्यो जीवतीति ; नैतदस्ति न प्राणेन नापानेन चक्षुरादिना वा मर्त्यः मनु- यो देहवान् कश्चन जीवति न कोऽपि जीवति । न ह्येषां परा- र्थानां संहत्यकारित्वाज्जीवनहेतुत्वमुपपद्यते । स्वार्थेनासंहतेन परेण संहतानामवस्थानं न दृष्टं केनचिदप्रयुक्तं यथा गृहादीनां लोके ; तथा प्राणादीनामपि संहतत्वाद्भवितुमर्हति । अत इतरेण तु इतरेणैव संहतप्राणादिविलक्षणेन तु सर्वे संहता: सन्त: जी- वन्ति प्राणान्धारयन्ति । यस्मिन् संहतविलक्षणे आत्मनि सति परस्मिन् एतौ प्राणापानौ चक्षुरादिभिः संहतौ उपाश्रितौ यस्यासंहतस्यार्थे प्राणापानादिः सर्व व्यापारं कुर्वन्वर्तते संहतः सन् स ततोऽन्य: सिद्ध इत्यभिप्रायः ॥ हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । पञ्चमी वल्ली । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥ हन्तेदानीं पुनरपि ते तुभ्यम् इदं गुह्यं गोप्यं ब्रह्म सना- तनं चिरंतनं प्रवक्ष्यामि । यद्विज्ञानात्सर्वसंसारोपरमो भवति, अविज्ञानाच्च यस्य मरणं प्राप्य यथा च आत्मा भवति यथा आत्मा संसरति तथा शृणु हे गौतम ॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥ योनिं योनिद्वारं शुक्रबीजसमन्विताः सन्तः अन्ये केचिद- विद्यावन्तो मूढाः प्रपद्यन्ते शरीरत्वाय शरीरग्रहणार्थी देहिनः देहवन्त: योनिं प्रविशन्तीत्यर्थः । स्थाणुं वृक्षादिस्थावरभावम् अन्ये अत्यन्ताधमा मरणं प्राप्य अनुसंयन्ति अनुगच्छन्ति । यथाकर्म यद्यस्य कर्म तद्यथाकर्म यैर्यादृशं कर्म इह जन्मनि कृतं तद्वशेनेत्येतत् । तथा यथाश्रुतं यादृशं च विज्ञानमुपार्जितं तदनुरूपमेव शरीरं प्रतिपद्यन्त इत्यर्थः ; ' यथाप्रज्ञं हि सं- भवा:' इति श्रुत्यन्तरात् ॥ काठकोपनिषद्भाष्ये य एष सुतेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८ ॥ यत्प्रतिज्ञातं गुह्यं ब्रह्म प्रवक्ष्यामीति तदाह - य एष सुप्तेषु प्राणादिषु जागर्ति न स्वपिति ; कथम् ? कामं कामं तं तमभि- प्रेतं स्याद्यर्थमविद्यया निर्मिमाणः निष्पादयन्, जागर्ति पुरुष: यः, तदेव शुक्रं शुभ्रं शुद्धं तद्ब्रह्म नान्यद्गुह्यं ब्रह्मास्ति । तदेव अमृतम् अविनाशि उच्यते सर्वशास्त्रेषु । किंश्च पृथिव्यादयो लोकास्तस्मिन्नेव सर्वे ब्रह्मणि श्रिता: आश्रिताः, सर्वलोककार- णत्वात्तस्य । तदु नात्येति कश्चनेत्यादि पूर्ववदेव । अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा " रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥ पञ्चमी वल्ली । अत: कुतार्किकपाषण्डबुद्धिविचालितान्तःकरणानां प्र- माणोपपन्नमप्यात्मैकत्वविज्ञानमसकृदुच्यमानमप्यनृजुबुद्धीनां -- ब्राह्मणानां चेतसि नाधीयत इति तत्प्रतिपादने आदरवती पुन: पुनराह श्रुति:- अग्निः यथा एक एव प्रकाशात्मा सन् भुवनम्, भत्रन्त्यस्मिन्भूतानीति भुवनम्, अयं लोकः, तमिमं प्रविष्ट: अनुप्रविष्टः, रूपं रूपं प्रति, दार्वादिदाह्यभेदं प्रतीत्यर्थः, प्रतिरूपः तत्र तत्र प्रतिरूपवान् दाह्यभेदेन बहु- विधो बभूव ; एक एव तथा सर्वभूतान्तरात्मा रूपं रूपं स- र्वेषां भूतानामभ्यन्तर आत्मा अतिसूक्ष्मत्वाद्दार्वादिष्विव स- वंदेहं प्रति प्रविष्टत्वात् प्रतिरूपो बभूव बहिश्च स्वेनाविकृते- न रूपेण आकाशवत् ॥ वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥ तथान्यो दृष्टान्तः— वायुर्यथैक इत्यादि । प्राणात्मना देहेष्वनुप्रविष्टः । रूपं रूपं प्रतिरूपो बभूवेत्यादि समा- नम् ॥ S. U. 14 काठकोपनिषद्भाष्ये सूर्यो यथा सर्वलोकस्य चक्षु- र्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥ एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव स्यादिति प्राप्त, इदमुच्यते— सूर्यः यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्रपु- रीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षुः अपि सन् न लिप्यते चाक्षुषैः अशुच्यादिदर्शननिमित्तैराध्यात्मिकैः पाप- दोषैः बाह्यैश्च अशुच्यादिसंसर्गदोषैः एकः सन् तथा सर्व- भूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्य: । लोको - द्यया स्वात्मन्यध्यस्तया कामकर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि स- न्ति, संसर्गिणि विपरीतबुद्धयध्यासनिमित्तात्तु तद्दोषवद्विभा व्यन्ते ; न तद्दोषैस्तेषां लेपः, विपरीतबुद्धयध्यासबाह्या हि ते ; तथा आत्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पा- दिस्थानीयं विपरीतमध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनु- भवति ; न त्वात्मा सर्वलोकात्मापि सन् विपरीताध्यारोपनि- मित्तेन लिप्यते लोकदुःखेन । कुतः ? बाह्यः रज्ज्वादिवदेव पञ्चमो वल्ली । विपरीतबुद्ध्यध्यासबाह्यो हि स इति ॥ " एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ किंच, स हि परमेश्वरः सर्वगतः स्वतन्त्रः एकः, न तत्स- मोऽभ्यधिको वान्योऽस्ति । वशी, सर्वे ह्यस्य जगद्वशे वर्तते । कुत: ? सर्वभूतान्तरात्मा । यत एकमेव सदैकरसमात्मानं विशुद्धविज्ञानघनरूपं नामरूपाद्यशुद्धोपाधिभेदवशेन बहुधा अनेकप्रकारेण यः करोति स्वात्मसत्तामात्रेण अचिन्त्यशक्ति- त्वात् तम् आत्मस्थं स्वशरीरहृदयाकाशे बुद्धौ चैतन्याका- रेणाभिव्यक्तमित्येतत् — न हि शरीरस्याधारत्वमात्मनः, आकाशवदमूर्तत्वात्; आदर्शस्थं मुखमिति यद्वत् — तमेत- मीश्वरमात्मानं ये निवृत्तबाह्यवृत्तयः अनुपश्यन्ति आचार्या - गमोपदेशमनु साक्षादनुभवन्ति धीराः विवेकिनः, तेषां परमे- वरभूतानां शाश्वतं नित्यं सुखम् आत्मानन्दलक्षणं भवति, नेतरेषां बाह्यासक्तबुद्धीनामविवेकिनां स्वात्मभूतमपि, अवि- द्याव्यवधानात् ॥ काठकोपनिषद्भाष्ये नित्यो नित्यानां चेतनश्चेतनाना- मेको बहूनां यो विद्धाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ किंच, नित्य: अविनाशी नित्यानाम् अविनाशिनाम् । चेतनः चेतनानां चेतयितृणां ब्रह्मादीनां प्राणिनाम् । अग्निनि- मित्तमिव दाहकत्वमनग्नीनामुदकादीनामात्म चैतन्यनिमित्तमेव चेतयितृत्वमन्येषाम् । किंच, स सर्वज्ञः सर्वेश्वरः कामिनां सं- सारिणां कर्मानुरूपं कामान् कर्मफलानि स्वानुग्रहनिमित्तांश्च कमान् यः एको बहूनाम् अनेकेषाम् अनायासेन विदधाति प्रयच्छतीत्येतत् । तम् आत्मस्थं ये अनुपश्यन्ति धीराः, तेषां शान्तिः उपरतिः शाश्वती नित्या स्वात्मभूतैव स्यात् । न इतरेषाम् अनेवंविधानाम् ॥ तदेतदिति मन्यन्ते- निर्देश्यं परमं सुखम् । कथं न तद्विजानीयां नु किमु भाति विभाति वा ॥ १४ ॥ पञ्चमी वल्ली । यत्तदात्मविज्ञानसुखम् अनिर्देश्यं निर्देष्टुमशक्यं परमं प्रकृष्टं प्राकृतपुरुषवाङ्मनसयोरगोचरमपि सन्निवृत्तैषणा ये ब्राह्मणास्ते तदेतत्प्रत्यक्षमेवेति मन्यन्ते, कथं नु केन प्रका- रेण तत्सुखमहं विजानीयाम् इदमित्यात्मबुद्धिविषयमापा- दयेयं यथा निवृत्तविषयैषणा यतयः । किमु तत् भाति दीप्यते प्रकाशात्मकं तत् यतोऽस्मद्बुद्धिगोचरत्वेन विभाति विस्पष्टं दृश्यते किंवा नेति ॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ १५ ॥ इति पञ्चमी ली। नेमा अत्रोत्तरमिदम् -- भाति च विभाति चेति । कथम् ? न तत्र तस्मिन्स्वात्मभूते ब्रह्मणि सर्वावभासकोऽपि सूर्यः भाति तद्ब्रह्म न प्रकाशयतीत्यर्थः । तथा न चन्द्रतारकम्, विद्युतो भान्ति कुतः अयम् अस्मदृष्टिगोचरः अग्निः । किं बहुना ! यदिदमादित्यादिकं भाति तत् तमेव परमेश्वरं भान्तं , दीप्यमानम् अनुभाति अनुदीप्यते । यथा जलोल्मुकादि अग्नि- काठकोपनिषद्भाष्ये संयोगादग्निं दहन्तमनुदहति न स्वतः, तद्वत् । तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि विभाति । यत् एवं तदेव ब्रह्म भाति च विभाति च । कार्यगतेन विविधेन भासा तस्य ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम्, घटादीनामन्यावभासकत्वाद- र्शनात् भारूपाणां च आदित्यादीनां तद्दर्शनात् ॥ इति पञ्चमवल्लीभाष्यम् ॥ षष्ठी वल्ली । ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १ ॥ । 1 तूलावधारणेनैव मूलावधारणं वृक्षस्य यथा क्रियते लोके, एवं संसारकार्यवृक्षावधारणेन तन्मूलस्य ब्रह्मण: स्वरूपावदि- धारयिषया इयं षष्ठी वल्ली आरभ्यते । ऊर्ध्वमूलः ऊर्ध्वं मूलं यत् तद्विष्णोः परमं पदमस्येति सोऽयमव्यक्तादिस्थावरान्तः संसारवृक्षः ऊर्ध्वमूलः । वृक्षश्च ब्रश्वनात् विनश्वरत्वात् । अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणम- न्यथास्वभावः मायामरीच्युदक गन्धर्बनगरादिवदृष्टनष्टस्वरूप- त्वादवसाने च वृक्षवदभावात्मकः कदलीस्तम्भवन्निःसार: अ- नेकशतपाषण्डबुद्धिविकल्पास्पदः तत्त्वविजिज्ञासुभिरनिर्धारि- काठकोपनिषद्भाष्ये तेदतत्त्वः वेदान्तनिर्धारितपरब्रह्ममूलसारः अविद्याकाम- कर्माव्यक्तबीजप्रभवः अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहि- रण्यगर्भाङ्कुरः सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भू- तदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुतिस्मृतिन्यायविद्योपदे- शपलाशः यज्ञदानतपआद्यनेकक्रियासुपुष्पः सुखदुःखवेद- नानेकरसः प्राण्युपजीव्यानन्तफलः तत्तृष्णासलिलाव सेकप्ररू- ढजटिलीकृतदृढबद्धमूलः सत्यनामादिसप्तलोक ब्रह्मादिभूतप- क्षिकृतनीडः प्राणिसुखदुःखोद्भूतहर्षशोकजातनृत्यगीतवादित्र- क्ष्वेलितास्फोटितहसितानुष्टरुदितहाहामुञ्चमुश्चेत्याद्यनेकशब्द- कृततुमुलीभूतमहारवः वेदान्तविहित ब्रह्मात्मदर्शनासङ्गशस्त्रकृ- तोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत्कामकर्मवातेरि- तनित्यप्रचलितस्वभावः । स्वर्गनरकतिर्यक्प्रेतादिभिः शखाभिः अवाक्शाखः, अवाञ्च: शाखा यस्य सः, सनातनः अनादि- त्वाश्चिरप्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिः स्वभावं तदेव ब्रह्म सर्व- महत्त्वात् । तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात् । वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्य- म् । तस्मिन् परमार्थसत्ये ब्रह्मणि लोका: गन्धर्वनगरमरी- न्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिता: आ- षष्ठी वल्ली । श्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु । तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्य कश्चन कश्चिदपि वि- कारः । एतद्वै तत् ॥ यदिदं किंच जगत्सर्व प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ यद्विज्ञानादमृता भवन्तीत्युच्यते, जगतो मूलं तदेव नास्ति ब्रह्म ; असत एवेदं निःसृतमिति, तन्न — यदिदं किंच यत्किं - - चेदं जगत्सर्वं प्राणे परस्मिन्ब्रह्मणि सति एजति कम्पते, तत एव निःसृतं निर्गतं सत् प्रचलति नियमेन चेष्टते । यदेवं जग- दुत्पत्त्यादिकारणं ब्रह्म तत् महद्भयम्, महच्च तत् भयं च बिभे- त्यस्मादिति महद्भयम्, वज्रमुद्यतम् उद्यतमिव वज्रम् ; यथा वज्रोद्यतकरं स्वामिनम् अभिमुखीभूतं दृष्ट्वा भृत्या नियमेन तच्छासने वर्तन्ते, तथेदं चन्द्रादित्यप्रहनक्षत्रतारकादिलक्षणं जगत्सेश्वरं नियमेन क्षणमप्यविश्रान्तं वर्तत इत्युक्तं भवति । ये एतत् विदुः स्वात्मप्रवृत्तिसाक्षिभूतमेकं ब्रह्म अमृता : अम- रणधर्माण: ते भवन्ति ॥ 7 काठकोपनिषद्भाष्ये भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥ कथं तद्भयाज्जगद्वर्तत इति, आह— भयात् भीत्या अस्य परमेश्वरस्य अग्निः तपति भयात्तपति सूर्यः, भयादिन्द्रश्व वायुश्च मृत्युर्धावति पञ्चमः । न हि, ईश्वराणां लोकपालानां समर्थानां सतां नियन्ता चेद्वस्रोद्यतकरवन्न स्यात्, मिभयभीतानामिव भृत्यानां नियता प्रवृत्तिरुपपद्यते ॥ इह चेदशकद्वोद्धुं प्राक्शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥ स्वा- तच्च इह जीवन्नेव चेत् यद्यशकत् शक्तः सन् जानातीत्ये- तत्, भयकारणं ब्रह्म बोद्धुम् अवगन्तुम्, प्राक् पूर्वे शरीरस्थ विस्रसः अवस्रंसनात्पतनात् संसारबन्धनाद्विमुच्यते । न चेद- शकद्बोद्धुम् ततः अनवबोधात् सर्गेषु, सृज्यन्ते येषु स्रष्ट- व्याः प्राणिन इति सर्गाः पृथिव्यादयो लोकाः तेषु सर्गेषु, षष्ठी वल्ली । 9 लोकेषु शरीरत्वाय शरीरभावाय कल्पते समर्थो भवति शरीरं गृह्णातीत्यर्थः । तस्माच्छरीरविस्रंसनात्प्रागात्मावबोधाय यत्र आस्थेयः यस्मादिहैवात्मनो दर्शनमादर्शस्थस्यैव मुखय स्पष्टमुपपद्यते, न लोकान्तरेषु ब्रह्मलोकादन्यत्र । स च दुष्प्रापः ॥ यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव ददृशे तथा गन्धर्वलोके च्छायातपयोरिव ब्रह्मलोके ॥ ५ ॥ कथमिति, उच्यते - यथा आदर्शे प्रतिबिम्बभूतमात्मानं प- श्यति लोक : अत्यन्तविविक्तम्, तथा इह आत्मनि स्वबुद्धावा- दर्शवन्निर्मलीभूतायां विविक्तमात्मनो दर्शनं भवतीत्यर्थः । यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतम्, तथा पितृलोके अविविक्त- मेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् । यथा च अप्सु अविविक्तावयवमात्मस्वरूपं परीव ददृशे परिदृश्यत इव, तथा गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः । एवं च लोकान्तरे- ष्वपि शास्त्रप्रामाण्यादवगम्यते । छायातपयोरिव अत्यन्तवि- काठकोपनिषद्भाष्ये विक्तं ब्रह्मलोक एवैकस्मिन् । स च दुष्प्राप:, अत्यन्तविशि- म्रुकर्मज्ञानसाध्यत्वात् । तस्मादात्मदर्शनाय इहैव यत्नः कर्त- व्य इत्यभिप्रायः ॥ इन्द्रियाणां पृथग्भाव- मुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥ कथमसौ बोद्धव्यः, किं वा तदवबोधे प्रयोजनमिति, उच्यते-- इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्य आकाशादिभ्यः प्रथगुत्पद्यमानानाम् अत्यन्त - विशुद्धात्केवलाच्चिन्मात्रात्मस्वरूपात् पृथग्भावं स्वभावविलक्ष- णात्मकताम्, तथा तेषामेवेन्द्रियाणाम् उदयास्तमयौ च उत्प- त्तिप्रलयौ जाग्रत्स्वप्नावस्थाप्रतिपत्त्या नात्मन इति मत्वा ज्ञा- त्वा विवेकतो धीरः धीमान् न शोचति, आत्मनो नित्यैकस्व- भावत्वाव्यभिचाराच्छोककारणत्वानुपपत्तेः । तथा च श्रुत्य- न्तरम् ' तरति शोकमात्मवित्' इति ॥ इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । षष्ठी वल्ली । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥ यस्मादात्मनः इन्द्रियाणां पृथग्भाव उक्तो नासौ बाहिर - धिगन्तव्यः यस्मात्प्रत्यगात्मा स सर्वस्य ; तत्कथमिति, उच्य - ते — इन्द्रियेभ्यः परं मन इत्यादि अर्थानामिहेन्द्रियसमान- जातीयत्वादिन्द्रियग्रहणेनैव ग्रहणम् । पूर्ववदन्यत् । सत्त्वश- ब्दाद्बुद्धिरिहोच्यते ॥ 1 अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तु- रमृतत्वं च गच्छति ॥ ८ ॥ अव्यक्तात्तु परः पुरुषः व्यापकः, व्यापकस्याप्याकाशादे: सर्वस्य कारणत्वात् । अलिङ्गः लिङ्गयते गम्यते येन तल्लिङ्गं बुद्धयादि, तदविद्यमानं यस्य सोऽयमलिङ्गः एव च ; सर्वसं- सारधर्मवर्जित इत्येतत् । यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिर्जीवन्नेव पतितेऽपि शरीरे अमृतत्वं च गच्छति । सोऽलिङ्गः परोऽव्यक्तात्पुरुष इति पूर्वेणैव संबन्ध: ॥ ; काठकोपनिषद्भाष्ये न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो " य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥ कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपपद्यत इति, उच्यते-- न संदृशे संदर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् । अतः न चक्षुषा सर्वेन्द्रियेण चक्षुर्प्रहणस्योपलक्षणार्थत्वात्, पश्यति नोपलभते कश्चन कश्चिदपि एनं प्रकृतमात्मानम् । कथं तर्हि तं पश्येदिति, उच्यते-- हृदा हृत्स्थया बुद्धया, मनीषा मनसः संकल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति मन तया मनीषा विकल्पवर्जितया बुद्धया । मनसा मनन- रूपेण सम्यग्दर्शनेन अभिक्लमः अभिसमर्थित: अभिप्र- काशित इत्येतत् । आत्मा ज्ञातुं शक्य इति वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्व न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥ षष्ठी वल्ली । साहृन्मनीट् कथं प्राप्यत इति तदर्थो योग उच्यते- यदा यस्मिन्काले स्वविषयेभ्यो निवर्तितानि आत्मन्येव पञ्च ज्ञा- नानि - ज्ञानार्थत्वाच्छ्रोत्रादीनीन्द्रियाणि ज्ञानान्युच्यन्ते- अवतिष्ठन्ते सह मनसा यदनुगतानि तेन संकल्पादिव्यावृत्ते- नान्त:करणेन । बुद्धिश्च अध्यवसायलक्षणा न विचेष्टति स्व- व्यापारेषु न विचेष्टते न व्याप्रियते, तामाहुः परमां गतिम् ॥ , तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥ ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्त- म् । सर्वानर्थसंयोगवियोगलक्षणा हीयमवस्था योगिनः । ए- तस्यां ह्यवस्थायाम् अविद्याध्यारोपणवर्जितस्वरूपप्रतिष्ठ आत्मा स्थिरामिन्द्रियधारणां स्थिरामचलामिन्द्रियधारणां बाह्यान्त:- करणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन्काले, यदैव प्रवृत्तयोगो भवतीति सामर्थ्यादवगम्यते । न हि बुद्धयादिचेष्टाभावे प्र- मादसंभवोऽस्ति । तस्मात्प्रागेव बुद्ध्यादिचेष्ट्रोपरमात् अप्रमादो काठकोपनिषद्भाष्ये विधीयते । अथवा, यदैव इन्द्रियाणां स्थिरा धारणा, तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयते अप्रमत्तस्तदा भवतीति । कुत: ? योगो हि यस्मात् प्रभवाप्ययौ उपजनापायधर्मक इत्य- र्थः। अत: अपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्राय: ॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥ बुद्धयादिचेष्टाविषयं चेद्रह्म इदं तदिति विशेषतो गृह्येत,. बुद्ध्याद्युपरमे च ग्रहणकारणाभावादनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चा- सदिति । अतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्तीत्युप- लब्धव्यं ब्रह्मेत्येवं प्राप्ते, इदमुच्यते । सत्यम् । नैव वाचा न मनसा न चक्षुषा नान्यैरपीन्द्रियैः प्राप्तुं शक्यते इत्यर्थः । तथापि सर्वविशेषरहितोऽपि जगतो मूलमित्यवगतत्वादस्त्येव, कार्य- प्रविलापनस्यास्तित्वनिष्ठत्वात् । तथा हीदं कार्य सौक्ष्म्यतार- तम्यपारम्पर्येणानुगम्यमानं सद्बुद्धिनिष्ठ । मेवावगमयति । यदा- पि. विषय प्रविलापनेन प्रविलाप्यमाना बुद्धि:, तदापि सा षष्ठी वल्ली । सत्प्रत्ययगर्भेव विलीयते । बुद्धिर्हि नः प्रमाणं सदसतोर्याथा- त्म्यावगमे । मूलं चेज्जगतो न स्यादसदन्वितमेवेदं कार्यमस- दसदित्येव गृह्येत, न त्वेतदस्ति ; सत्सदित्येव तु गृह्यते ; यथा मृदादिकार्य घटादि मृदाद्यन्वितम् । तस्माज्जगतो मूलमात्मा अस्तीत्येवोपलब्धव्यः । कस्मात् ? अस्तीति ब्रुवत: अस्तित्ववा- दिन आगमार्थानुसारिणः श्रद्दधानादन्यत्र नास्तिकवादिनि ना- स्ति जगतो मूलमात्मा निरन्वयमेवेदं कार्यमभावान्तं प्रवि- लीयत इति मन्यमाने विपरीतदर्शिनि, कथं तद्ब्रह्म तत्त्वत उपलभ्यते न कथंचनोपलभ्यत इत्यर्थः ॥ अस्तीत्येवोपलब्धव्य- स्तत्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥ तस्मादपोह्यासद्वादिपक्षमासुरम् अस्तीत्येव आत्मा उप- लब्धव्यः सत्कार्यबुद्ध्याद्युपाधिभिः । यदा तु तद्रहितोऽविक्रिय आत्मा कार्ये च कारणव्यतिरेकेण नास्ति 'वाचारम्भणं वि- कारो नामधेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः, तदा तस्य निरु- पाधिकस्यालिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्यात्मनस्त- S. U. 15 - काठकोपनिषद्भाष्ये स्वभावो भवति । तेन च रूपेणात्मोपलब्धव्य इत्यनुवर्तते । तत्राप्युभयोः सोपाधिकनिरुपाधिकयोरस्तित्वतत्वभावयोः- निर्धारणार्था षष्ठी पूर्वमस्तीत्येवोपलब्धस्यात्मनः सत्कार्यो- पाधिकृतास्तित्वप्रत्ययेनोपलब्धस्येत्यर्थः । पश्चात्प्रत्यस्तमितस- वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्यामन्योऽद्व- यस्वभावः नेति नेतीत्यस्थूलमनण्वस्त्रमदृश्ये ऽनात्म्ये निरु- क्तेऽनिलयन इत्यादिश्रुतिनिर्दिष्टः प्रसीदति अभिमुखीभवति । आत्मप्रकाशनाय पूर्वमस्तीत्युपलब्धवत इत्येतत् ॥ यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भव- त्यत्र ब्रह्म समश्नुते ॥ १४ ॥ एवं परमार्थात्मदर्शिनो यदा यस्मिन्काले सर्वे कामा: कामयितव्यस्यान्यस्याभावात् प्रमुच्यन्ते विशीर्यन्ते ; ये अस्य प्राक्प्रतिबोधाद्विदुषो हृदि बुद्धौ श्रिताः आश्रिताः ; बुद्धिर्हि कामानामाश्रयः नात्मा, 'कामः संकल्प:' इत्यादिश्रु- -त्यन्तराश्च ; अथ तदा मर्त्यः प्राक्प्रबोधादासीत् स प्रबोधोत्त- रकालमविद्याकामकर्मलक्षणस्य मृत्योर्विनाशात् अमृतो भवति षष्ठी वल्ली । गमनप्रयोजकस्य मृत्योर्विनाशाद्गमनानुपपत्तेः । अत्र इहैव प्रदीपनिर्वाणवत्सर्वबन्धनोपशमात् ब्रह्म समश्नुते ब्रह्मैव भवतीत्यर्थः ॥ यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भव- त्येतावद्ध्यनुशासनम् ॥ १५ ॥ " कदा पुनः कामानां मूलतो विनाश इति उच्यते यदा सर्वे प्रभिद्यन्ते भेदमुपयान्ति विनश्यन्ति हृदयस्य बुद्धेरिह जीवत एव ग्रन्थयो ग्रन्थिवद्दृढबन्धनरूपा अविद्याप्रत्यया इत्यर्थः । अहमिदं शरीरं ममेदं धनं सुखी दुःखी चाहमि - त्येवमादिलक्षणा: तद्विपरीतात् ब्रह्मात्मप्रत्ययोपजनात् ब्रह्म- वाहमस्म्यसंसारीति विनष्टेष्वविद्याग्रन्थिषु तन्निमित्ता: कामा मूलतो विनश्यन्ति । अथ मर्त्योऽमृतो भवति एतावद्धि एता - वदेवैतावन्मात्रं नाधिकमस्तीत्याशङ्का कर्तव्या । अनुशासनम् अनुशिष्टि: उपदेश: सर्ववेदान्तानामिति वाक्यशेषः ॥ शतं चैका च हृदयस्य नाड्य- स्तासां मूर्धानमभिनिःसृतैका । कठोपनिषद्भाष्ये तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥ निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ता- विद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते, ' अत्र ब्रह्म समश्नुते' इत्युक्तत्वात् ' नं तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुत्यन्तराच्च । ये पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाज: ये च तद्विपरीता: संसार- भाज:, तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्या फल- स्तुतये । किंचान्यत्, अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र—— शतं च शतसंख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनि:- सृताः नाड्यः सिराः; तासां मध्ये मूर्धानं भित्त्वा अभिनि:- सृता निर्गता एका सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वमा- पेक्षिकम् —'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ' इति स्मृते:-- ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ् नाना- गतयः अन्या नाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति षष्ठी वल्ली । संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥ अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहे- न्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥ - इदानीं सर्ववल्ल्यर्थोपसंहारार्थमाह — अङ्गुष्ठमात्रः पुरुषः अन्तरात्मा सदा जनानां संबन्धिनि हृदये संनिविष्टः यथा- व्याख्यातः; तं स्वात् आत्मीयात् शरीरात् प्रवृहत् उद्यच्छेत् निष्कर्षेत् पृथक्कुर्यादित्यर्थः । किमिवेति, उच्यते —— मुखादिवे- षीकाम अन्तःस्थां धैर्येण अप्रमादेन । तं शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् विजानीयात् शुक्रं शुद्धम अमृतं यथोक्तं ब्रह्मेति । द्विर्वचनमुपनिषत्परिसमाप्त्यर्थम् इतिशब्दश्च ॥ मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । कठकोपनिषद्भाष्ये ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु- रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥ विद्यास्तुत्यर्थोऽयमाख्यायिकार्थोपसंहारः अधुनोच्यते- मृत्युप्रोक्ताम् एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलमित्येतत् । नचिकेताः अथ वरप्रदाना- न्मृत्योः लब्ध्वा प्राप्येत्यर्थः । किम् ? ब्रह्म प्राप्तोऽभूत् मुक्तो- ऽभवदित्यर्थः । कथम् ? विद्याप्रात्या विरजः विगतरजा: विग- तधर्माधर्मः विमृत्युः विगतकामाविद्यश्च सन् पूर्वमित्यर्थः । न केवलं नचिकेता एव, अन्योऽपि य एवं नचिकेतोवदात्मवित् अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्यतत्त्वमेवेत्यभि- प्रायः । नान्यद्रूपमप्रत्यग्रूपम् । तदेवमध्यात्मम् एवम् उक्तेन प्रकारेण वेद विजानातीति एवंवित्, सोऽपि विरजाः सन् ब्रह्म प्राप्य विमृत्युर्भवतीति वाक्यशेषः ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ १९ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति षष्ठी वल्ली ॥ षष्ठी वल्ली । अथ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपा- दननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते-- सह नौ आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः ? स एव परमेश्वर: उपनिषत्प्रकाशितः । किंच, सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैव आवां विद्याकृतं वीर्य सामर्थ्यं करवावहै निष्पादयावहै । किंच, तेजखिनौ तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतमस्तु । अथवा, तेजस्वि नौ आवाभ्यां यत् अ- धीतं तदतीव तेजस्वि वीर्यवदस्त्वित्यर्थः । मा विद्विषावहै शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनि- मित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति विर्वचनं सर्वदोषोपशमनार्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कृतौ काठकोपनिषद्भाष्यम् संपूर्णम् ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं कर- वावहै । तेजस्वि नावधीत - मस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ :: 300 ॥ 11 प्रश्नोपनिषद्भाष्यम् ॥ श्रीमच्छंकर भगवत्पूज्यपादैः विरचितम् । भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्य- जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ - सस्तनूभिः । व्यशेम देव- हितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः । पूषा विश्ववेदाः । स्वस्ति न- स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ प्रश्नोपनिषत् ॥ श्रीमच्छंकरभगवत्पादविरचितेन भाष्येण सहिता न्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते । ऋषिप्रश्नप्रतिवच- नाख्यायिका तु विद्यास्तुतये । एवं सं- वत्सरब्रह्मचर्यसंवासादितपोयुक्तैर्माह्या, पिप्पलादवत्सर्वज्ञकल्पैराचार्यै: वक्त- व्या च, न येन केनचिदिति विद्यां स्तौति । ब्रह्मचर्यादि- साधनसूचनाञ्च तत्कर्तव्यता ता स्यात्-- प्रश्नोपनिषद्भाष्ये सुकेशा च भारद्वाजः शैब्यश्च सत्य- कामः सौर्यायणी च गार्ग्यः कौसल्यश्चा- श्वलायनो भार्गवो वैदर्भिः कबन्धी का- त्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्य- तीति ते ह समित्पाणयो भगवन्तं पि- प्पलादमुपसन्नाः ॥ १ ॥ सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजः । शैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सौर्यायणी सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणि:; छान्दसं सौर्याय- णीति ; गार्ग्य: गर्गगोत्रोत्पन्नः । कौसल्यश्च नामतः, अश्वल- स्यापत्यमाश्वलायनः । भार्गवः भृगोर्गोवापत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः । कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः; वि- यमानः प्रपितामहो यस्य सः; युवप्रत्ययः । ते ह एते ब्रह्मपराः अपरं ब्रह्म परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्रात्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः । कथम् ? ह प्रथमः प्रश्नः । समित्पाणयः समिद्धारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्पलादमाचार्यम् उपसन्नाः उपजग्मुः ॥ तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्व ह वो वक्ष्याम इति ॥ २ ॥ तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुन- रेव यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रिय- संयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्धया आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग् गुरुशुश्रूषापराः सन्तो वत्स्यथ । ततः यथाकामं यो यस्य कामस्तमन- तिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छत । यदि तद्युष्मत्पृष्टं विज्ञास्यामः । अनुद्धतत्वप्रदर्शनार्थो यदि- शब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्व ह व: पृष्टार्थं वक्ष्याम इति ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ३ ॥ वो प्रश्नोपनिषद्भाष्ये अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् हे भगवन्, कुतः कस्मात् ह वै - ' इमा: ब्रा- ह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति । अपरविद्याकर्मणोः समुचितयोर्यत्कार्य या गतिस्तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः ॥ तस्मै स होवाच प्रजाकामो वै प्रजा- पतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ ४ ॥ तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह- प्रजाकामः प्रजाः आत्मन: सिसृक्षुः वै प्रजापतिः सर्वा - त्मा सन् जगत्स्रक्ष्यामीत्येवं विज्ञानवान्यथोक्तकारी तद्भा- वभावितः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन्, जन्मान्तरभावितं ज्ञानं श्रुति प्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत । अथ तु सः एवं तपः तप्त्वा श्रौतं ज्ञानमन्वालोच्य, सृष्टिसा- धनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् रथिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ अन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं संचिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत् ॥ प्रथमः प्रश्नः । आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रथिर्वा एतत्सर्वं यन्मूर्त चामूर्त च त- स्मान्मूर्तिरेव रयिः ॥ ५ ॥ तत्र आदित्यः ह वै प्राण: अत्ता अग्निः । रयिरेव चन्द्रमाः । रयिरेवान्नं सोम एव । तदेतदेकमत्ता अग्निश्वान्नं च प्रजापति- रेकं तु मिथुनम् ; गुणप्रधानकृतो भेदः । कथम् ? रयिर्वै अन्न- मेव एतत् सर्वम् । किं तत् ? यत् मूर्ते च स्थूलं च अमूर्त च सूक्ष्मं च । मूर्तामूर्ते अत्रन्नरूपे अपि रथिरेव । तस्मात् प्रवि- भक्तादमूर्तात् यदन्यन्मूर्तरूपं मूर्तिः, सैव रथिः अन्नम् अमू- र्तेन अत्रा अद्यमानत्वात् ॥ अथादित्य उदयन्यत्प्राचीं दिशं प्रवि- शति तेन प्राच्यान्प्राणान्रश्मिषु संनि- धत्ते । यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यो यदूर्ध्वं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान्प्राणान् रश्मिषु सं- निधत्ते ॥ ६ ॥ तथा अमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाद्यम् । कथम् ? S. U. 16 प्रश्नोपनिषद्भाष्ये अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षुर्गोचरमाग- च्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशतिः व्याप्नोति, तेन स्वात्मव्यात्या सर्वान्तःस्थान् प्राणान् प्राच्यानन्नभूतान् रश्मि- षु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनि- धत्ते संनिवेशयति आत्मभूतान्करोतीत्यर्थः । तथैव यत्प्र- विशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत्प्रविशति यच्च अन्तरा दिशः कोणदिशोऽवान्तरदिशः यच्चान्यत् सर्व प्रकाशयति, तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु संनिधत्ते ॥ स एष वैश्वानरो विश्वरूपः प्राणो- ऽग्निरुदयते । तदेतदृचाभ्युक्तम् ॥ ७ ॥ स एष: अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वा- त्मत्वाच्च प्राण: अग्निश्च स एवात्ता उदयते उद्गच्छति प्रत्यहं सर्वा दिशः आत्मसात्कुर्वन् । तदेतत् उक्तं वस्तु ऋचा मन्त्रे- णापि अभ्युक्तम् ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । प्रथमः प्रश्नः । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥ विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्र- ज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्य वेज्ञातवन्तो ब्रह्मविदः । कोऽसौ यं विज्ञातवन्तः ? सहस्र- रश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः त्राणः प्रजानाम् उदयति एष: सूर्य: ॥ संवत्सरो वै प्रजापतिस्तस्यायने दक्षि- णं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृत- मित्युपासते ते चान्द्रमसमेव लोकमभि- जयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥ यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्तादित्यस्तदे- तदेकं मिथुनं सर्व कथं प्रजाः करिष्यत इति उच्यते तदेव कालः संवत्सरो वै प्रजापतिः, तन्निर्वर्त्यत्वात्संवत्सरस्य । - प्रश्नोपनिषद्भाष्ये चन्द्रादित्यनिर्वर्त्यतिभ्यहोरात्रसमुदायो हि संवत्सरः तदन- न्यत्वाद्रयिप्राणैतन्मिथुनात्मक एवेत्युच्यते । तत्कथम् ? तस्य संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं चोत्तरं च । प्रसिद्धे ह्यवने षण्मासलक्षणे, याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान्विदधत् । कथम्? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तदुपासत इति । क्रियाविशेषणो द्वितीयस्तच्छब्दः । इष्टुं च पूर्त च इष्टापूर्ते इत्यादि कृतमेवोपासते नाकृतं नित्यम्, ते चान्द्र- मसमेव चन्द्रमसि भवं प्रजापतेर्मिथुनात्मकस्यांशं रयिमन्न- भूतं लोक अभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य । ते एव च कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति ह्युक्तम् । यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्त - यन्ति चन्द्रमिष्टापूर्तकर्मणा प्रजाकामा: प्रजार्थिनः एते ऋषयः स्वर्गद्रष्टारः गृहस्था:, तस्मात्स्वकृतमेव दक्षिणं दक्षि- णायनोपलक्षितं चन्द्रं प्रतिपद्यन्ते । एष ह वै रयिः अन्नम्, यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमे- प्रथमः प्रश्नः । तत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ॥ १० ॥ अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदि- त्यम् अभिजयन्ते 1 केन ? तपसा इन्द्रियजयेन । विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं प्राणं सूर्य जगत: तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति । एतद्वै आयतनं सर्वप्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अवि- नाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत्यवृद्धि- भयवत्; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञान- बताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अवि- द्वांसः । नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति । स हि संवत्सरः कालात्मा अविदुषां निरोधः । तत् तत्रा- स्मिन्नर्थे एषः श्लोकः मन्त्रः ॥ पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । । प्रश्नोपनिषद्भाष्ये अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥ " पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते । हेमन्त शिशिरावे- कीकृत्येयं कल्पना । पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य ; द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अव- यविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम् दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः ; पुरीषिणं पुरीष- वन्तम् उदकवन्तम् आहुः कालविदः । अथ तमेवान्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे संततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति -- अर्पितम् अरा इव रथनाभौ निविष्टमिति । यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्र: षडर : सर्वथापि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्य- लक्षणो जगतः कारणम् ॥ मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १२ ॥ . प्रथमः प्रश्नः । यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते । मासो वै प्रजापतिः यथोक्तलक्षण एवं मिथुनात्मकः । तस्य मासात्मन: प्रजापते- रेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमा: अपरो भाग: शुक्लः शुक्लपक्षः प्राणः आदित्योऽत्ताग्निर्यस्माच्छुक्कूपक्षात्मानं प्राणं सर्वमेव पश्यन्ति, तस्मात्प्राणदर्शिन एते ऋषयः कृष्ण- पक्षेऽपीष्टं यागं कुर्वन्त: शुक्लपक्ष एव कुर्वन्ति । प्राणव्यति- रेकेण कृष्णपश्नस्तैर्न दृश्यते यस्मात्; इतरे तु प्राणं न पश्य- न्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति । इतरे इतरस्मि- कृष्णपक्ष एव कुर्वन्ति शुक्ले. कुर्वन्तोऽपि ॥ अहोरात्रो वै प्रजापतिस्तस्याहरेव प्रा- णो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्द- न्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥ सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमा- प्यते । अहोरात्रो वै प्रजापतिः पूर्ववत् । तस्यापि अहरेव प्राण: अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव । प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छि- प्रश्नोपनिषद्भाष्ये द्यापनयन्ति । के? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः । यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः । यत् सत्रौ सं- युज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तदिति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः । अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्त- स्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥ प्रकृतं तूयते सोऽहोरात्रात्मकः प्रजापतिर्ब्रीहियवाद्यन्नात्म- ना व्यवस्थितः एवं क्रमेण परिणम्य । तत् अन्नं वै प्रजापतिः । कथम् ? ततः तस्मात् ह वै रेतः नृबीजं तत्प्रजाकारणं तस्मात् योषिति सिक्तात् इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति । तदेवं चन्द्रादित्य- मिथुनादिक्रमेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति निर्णीतम् ॥ तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठि- तम् ॥ १५ ॥ प्रथमः प्रश्नः । तत् तत्रैवं सति ये गृहस्था: । ह वै इति प्रसिद्धस्मरणार्थौ निपातौ । तत् प्रजापतेर्व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम् । किम् ? ते मिथुनं पुत्रं दुहितरं च उत्पादयन्ते । अदृष्टं च फलमिष्टापूर्तदत्तकारिणां तेषामेव एषः यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुनासमा- चरणं येषु च सत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचा- रितया वर्तते नित्यमेव ॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥ इति प्रथमः प्रश्नः ॥ यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो वि- रजः शुद्धो न चन्द्रब्रह्मलोकवद्रजस्वलो वृद्धिक्षयादियुक्तः असौ तेषाम्, केषामिति, उच्यते — यथा गृहस्थानामनेकविरुद्धसं- व्यवहारप्रयोजनवत्त्वात् जिह्मं कौटिल्यं वक्रभावोऽवश्यंभावि तथा न येषु जिह्मम्, यथा च गृहस्थानां क्रीडादिनिमित्तमनृ- तमवर्जनीयं तथा न येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते । माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव प्रश्नोपनिषद्भाष्ये कार्य करोति, सा माया मिथ्याचाररूपा । मायेत्येवमादयो दोषा येष्वेकाकिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभा- वान्न, विद्यन्ते, तत्साधनानुरूप्येणैव तेषामसौ विरजो ब्रह्मलो- क इत्येषा ज्ञानयुक्तकर्मवतां गतिः । पूर्वोक्तस्तु ब्रह्मलोक: केवलकर्मिणां चन्द्रलक्षण इति ॥ इति प्रथमप्रश्नभाष्यम् ॥ द्वितीयः प्रश्नः ॥ अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते क- तर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥ - प्राणोऽत्ता प्रजापतिरित्युक्तम् । तस्य प्रजापतित्वमत्तृत्वं चास्मिञ्शरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते । अथ अनन्तरं ह किल एनं भार्गवः वैदर्भिः पप्रच्छ – हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते । कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमा- हात्म्यप्रख्यापनं प्रकाशयन्ते । कः असौ पुनः एषां वरिष्ठ: प्रधान: कार्यकरणलक्षणानामिति ॥ तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेत- प्रश्नोपनिषद्भाष्ये द्वाणमवष्टभ्य विधारयामः ॥ २ ॥ एवं पृष्टवते तस्मै स ह उवाच - आकाशः ह वै एषः देव: वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबु- द्धीन्द्रियाणि च । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्याभिवदन्ति स्पर्धमाना अहं श्रेष्ठतायै । कथं वदन्ति ? वयमेतत् बाणं कार्यकरणसंघातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टुं धारयामः । मयैवैकेनायं संघातो प्रियत इत्येकैक- स्याभिप्रायः ॥ तान्वरिष्ठः प्राण उवाच मा मोहमा - ः पद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैत- द्वाणमवष्टभ्य विधारयामीति तेऽश्रद्दधा- ना बभूवुः ॥ ३ । तान् एवमभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच उक्तवान्- मा मैवं मोहम् आपद्यथ अविवेकितयाभिमानं - मा कुरुत ; यस्मात् अहमेव एतद्वाणम् अवष्टभ्य विधारयामि पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा द्वितीयः प्रश्न. । विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्र- त्ययवन्तः बभूवुः- कथमेतदेवमिति ॥ - सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मि- नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते त स्मिँश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिश्च प्रतिष्ठ- माने सर्वा एव प्रातिष्ठन्त एवं वाङ्मन- चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्व- न्ति ॥ ४ ॥ स च प्राणः तेषामश्रद्दधानतामालक्ष्य अभिमानात् उर्ध्वम् उत्क्रामत इव उत्क्रामतीव उत्क्रान्तवानिव स रोषान्निर- पेक्षः । तस्मिन्नुत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति — तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्व एव प्राणाश्चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः । तस्मिंश्च प्राण प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति, सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूवुः । तत् यथा लोके मक्षिकाः ' प्रश्नोपनिषद्भाष्ये . मधुकरी: स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति । यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं चेत्यादयः ते उत्सृज्याश्रद्दधानतां बुड्ढा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः । एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥ कथम् ? एषः प्राणः अग्निः सन् तपति ज्वलति । तथा एष: सूर्य: : सन् प्रकाशते । तथा एषः पर्जन्यः सन् वर्षति । किंच मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसत्यसुररक्षांसि । किंच, एषः वायुः आवहप्रवाहादिभेदः । किंच, एषः पृथिवी रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्त च अमृतं च यत् देवानां स्थितिकारणम् ॥ अरा इव रथनाभौ प्राणे सर्व प्रतिष्ठितम् । द्वितीयः प्रश्नः । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥ किं बहुना ? अरा इव रथनाभौ श्रद्धादि नामान्तं सर्व स्थितिकाले प्राणे एव प्रतिष्ठितम् । तथा ऋच: यजूंषि सामानि इति विविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्रं च सर्वस्य. पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं च एष एव प्राणः सर्वम् ॥ प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्तित्वमा बलि हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥ " किंच, य: प्रजापतिरपि स त्वमेव गर्भे चरसि पितुर्मा- तुश्च प्रतिरूपः सन् प्रतिजायसे; प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वम् ; सर्वदेहदेह्या कृतिच्छन्नः एकः प्राणः सर्वा-' त्मासीत्यर्थः । तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति यः त्वं प्राणै: चक्षुरा- दिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतस्तुभ्यं बलिं . २५६ प्रश्नोपनिषद्भाष्ये हरन्तीति युक्तम् । भोक्तासि यतस्त्वं तवैवान्यत्सर्वं भो- ज्यम् ॥ देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्य- मथर्वाङ्गिरसामसि ॥ ८ ॥ किंच, देवानाम् इन्द्रादीनाम् असि भवसि त्वं वह्नि- तम: हविषां प्रापयितृतमः । पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधा अन्नं सा देवप्रदानमपेक्ष्य प्रथमा भवति । तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः । किंच, ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसाम् अङ्गिरसंभूतानामथर्वणाम्— 'तेषामेव प्राणों वाथर्वा ' इति श्रुतेः- चरितं चेष्टितं सत्यम् अवितथं देहधारणाद्युपकारल- क्षणं त्वमेवासि ॥ इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । द्वितीयः प्रश्नः । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥ किंच, इन्द्रः परमेश्वरः त्वं हे प्राण, तेजसा वीर्येण . रुद्रोऽसि संहरन् जगत् । स्थितौ च परि समन्तात् रक्षिता पालयिता; परिरक्षिता त्वमेव जगतः सौम्येन रूपेण । अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वमेव च सर्वेषां ज्योतिषां पतिः ॥ यदा त्वमभिवर्षस अथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥ यदा पर्जन्यो भूत्वा अभिवर्ष त्वम्, अथ तदा अन्नं प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः । अथवा, हे प्राण, ते तव इमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वद- भिवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति । कामाय इच्छातः अन्नं भविष्यति इत्येवम- भिप्राय: ॥ S. u. 17 प्रश्नोपनिषद्भाष्ये व्रात्यस्त्वं प्राणैकर्षि रक्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥ किंच, प्रथमजत्वादन्यस्य संस्कर्तुरभावादसंस्कृतो वात्य: त्वम्, स्वभावत एव शुद्ध इत्यभिप्रायः । हे प्राण, एकर्षि: त्वम् आथर्वणानां प्रसिद्ध एकर्षिनामा अग्निः सन् अत्ता सर्वहविषाम् । त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पति: ; साधुर्वा पतिः सत्पति: । वयं पुनः आद्यस्य तव अदनीयस्य हविषो दातारः । त्वं पिता मात- रिश्व हे मातरिश्वन् नः अस्माकम् अथवा, मातरिश्वनः वायोः पिता त्वम् । अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् । " या ते तनूर्वाचि प्रतिष्ठिता या श्रोते या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥ द्वितीयः प्रश्नः । किं बहुना ? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृ- त्वेन वदनचेष्टां कुर्वती, या श्रोत्रे या च चक्षुषि या च मन- सि संकल्पादिव्यापारेण संतता समनुगता तनूः, तां शिवां शान्तां कुरु; मा उत्क्रमीः उत्क्रमणेनाशिवां मा कार्षी- रित्यर्थः ॥ प्राणस्येदं वशे सर्व त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान्रक्षख श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥ किं बहुना । अस्मिँल्लोके प्राणस्यैव वशे सर्वमिदं यत्कि - चिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता । अतो मातेव पुत्रान् अस्मान् रक्षस्व पालयस्व । त्वन्निमित्ता हि ब्रा- ह्नयः क्षात्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थि- तिनिमित्तां विधेहि नः विधत्स्वेत्यर्थः । इत्येवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेवे- त्यवधृतम् ॥ इति द्वितीयः प्रश्नः ॥ तृतीयः प्रश्नः ॥ -8. अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन्कुत एष प्राणो जायते कथमाया- त्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यम- भिधत्ते कथमध्यात्ममिति ॥ १ ॥ अथ हैनं कौसल्यश्वाश्वलायन: प्रपच्छ । प्राणैर्ह्येवं निर्धारि- ततत्त्वः उपलब्धमहिमापि संहतत्वात्स्यादस्य कार्यत्वम् ; अतः पृच्छामि । हे भगवन्, कुतः कस्मात्कारणात् एषः यथावधृ- तः प्राणः जायते । जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे; किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः । प्रवि- ष्टश्व शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति । केन वा वृत्तिविशेषेणास्मा- च्छरीरात् उत्क्रमते उत्क्रामति । कथं बाह्यम् अधिभूतमधि- दैवतं च अभिधत्ते धारयति ; कथमध्यात्ममिति, धारयतीति शेषः ॥ तृतीयः प्रश्नः । तस्मै स होवाचातिप्रश्रात्मजादि ब्र ह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ २ ॥ एवं पृष्टः तस्मै स होवाचाचार्य: । प्राण एव तावद्दुर्विज्ञे- यत्वाद्विषमप्रभाः तस्यापि जन्मादि त्वं पृच्छसि अतः अतिप्रश्नान्पृच्छसि । ब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित्, अतस्तुष्टोऽहम्, तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु ॥ 1 पु- आत्मन एष प्राणो जायते । यथैषा रुषे च्छायैतस्मिन्नेतदाततं मनोकृतेनाया- त्यस्मिञ्शरीरे ॥ ३॥ आत्मनः परस्मात्पुरुषादक्षरात्सत्यात् एषः उक्तः प्राणः जायते । कथमित्यत्र दृष्टान्तः । यथा लोके एषा पुरुषे शि- रः पाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मण्येतत्प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितमित्येतत् । छायेव देहे मनोकृतेन मनः कृतेन मनः संकल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत् । व- क्ष्यति हि पुण्येन पुण्यमित्यादि । ' तदेव सक्तः सह कर्मणैति ' इति श्रुत्यन्तरात् । आयाति आगच्छत्यस्मिञ्शरीरे । प्रश्नोपनिषद्भाष्ये यथा सम्राडेवाधिकृतान्विनियुक्त ए- तान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनि- धन्ते ॥ ४ ॥ यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिष्वधिकृ- तान्विनियुङ्क्ते । कथम् ? एतान्यामानेतान्प्रामानधितिष्ठस्वेति । एवमेव यथायं दृष्टान्तः । एषः मुख्यः प्राणः इतरान् प्राणान् चक्षुरादीनात्मभेदांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते वि- नियुङ्क्ते ॥ पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासि- काभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ५ ॥ तत्र विभाग: । पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं तस्मिन् । अपानम् आत्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वन् संनि- धत्ते तिष्ठति । तथा चक्षुः श्रोत्रे चक्षुश्च श्रोत्रं च चक्षुः श्रोत्रं तस्मिंश्चक्षुः श्रोत्रे । मुखनासिकाभ्यां मुखं च नासिका च मुख- तृतीयः प्रश्नः । । नासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्रा- स्थानीय: प्रातिष्ठते प्रतितिष्ठति । मध्ये तु प्राणापानयोः स्थानयोः नाभ्याम्, समानः अशितं पीतं च समं नयतीति समानः । एषः हि यस्मात् यदेतत् हुतं भुक्तं पीतं चात्मानौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशितपीतेन्धनादभेरौदर्या- हृदयदेशं प्राप्तात् एताः सप्तसंख्याका अर्चिषः दीप्तयो निर्ग- च्छन्त्यो भवन्ति । शीर्षण्यप्राणद्वारा दर्शनश्रवणादिलक्षणरूपा- दिविषयप्रकाश इत्यभिप्रायः ॥ हृदि ह्येष आत्मा । अवैतदेकशतं ना- डीनां तासां शतं शतमेकैकस्या द्वास- सतिद्वसप्ततिः प्रतिशाखानाडीसहस्रा- णि भवन्त्यासु व्यानश्चरति ॥ ६ ॥ हृदि ह्येषः पुण्डरीकाकार मांसपिण्डपरिच्छिन्ने हृदयाकाशे एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा, जीवात्मेत्यर्थः ; अत्र अस्मिन्हृदये एतत् एकशतम् एकोत्तरशतं संख्यया प्रधाननाडीनां भवति । तासां शतं शतम् एकैकस्याः प्रधान- नाड्या भेदा: ; पुनरपि द्वासप्ततिद्वसप्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि सहस्राणां द्वासप्ततिः, प्रतिशाखानाडी- 1 प्रश्नोपनिषद्भाष्ये सहस्राणि प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्रा - णि भवन्ति । आसु नाडीषु व्यानो वायुश्चरति । व्यानो व्यापनात् । आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभि- र्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते । संधिस्कन्धमर्म- देशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिर्वीर्यवत्क- कर्ता भवति ॥ अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्य- लोकम् ॥ ७ ॥ अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्ना- ख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतल- मस्तकवृत्तिः संचरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति । पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम् । उभाभ्यां समप्रधा- नाभ्यां पुण्यपापाभ्यामेव मनुष्यलोकं नयतीत्यनुवर्तते ॥ आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्या- तृतीयः प्रश्नः । न्तरा यदाकाशः स समानो वायु- यनः ॥ ८ ॥ आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति । एष हि एनम् आध्यात्मिकं चक्षुषि भवं चा- क्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कु- र्वन्नित्यर्थः । तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशी- कृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः । अन्यथा शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत् । यदेतत् अन्तरा मध्ये द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, म- श्चस्थवत् । स समानः समानमनुगृह्णानो वर्तत इत्यर्थः । समानस्यान्तराकाशस्थत्वसामान्यात् । सामान्येन च यो बाह्य वायु: स व्याप्तिसामान्यात् व्यानः व्यानमनुगृहानो वर्तत इत्यभिप्राय: ॥ तेजो ह वाव उदानस्तस्मादुपशान्तते- जाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥ यद्वाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदान: उ- दानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः । यस्मात्तेज:- स्वभावो बाह्यतेजोनुगृहीत उत्क्रान्तिकर्ता तस्मात् यदा लौकि- प्रश्नोपनिषद्भाष्ये कः पुरुषः उपशान्ततेजाः भवति, उपशान्तं स्वाभाविकं ते- जो यस्य सः । तदा तं क्षीणायुषं मुमूर्षु विद्यात् । सः पुनः भवं शरीरान्तरं प्रतिपद्यते । कथम् ? सह इन्द्रियैः मनसि संपद्यमानैः प्रविशद्भिर्वागादिभिः ॥ चित्तस्तेनैष प्राणमायाति प्राणस्तेज- सा युक्तः । सहात्मना यथासंकल्पितं लोकं नयति ॥ १० ॥ मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन संक- ल्पेनेन्द्रियैः सह प्राणं मुख्य प्राणवृत्तिमायाति । मरणकाले क्षी- णेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः । तदा हि वदन्ति ज्ञातय उच्छुसिति जीवतीति । स च प्राण: तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोका स एव- मुदान उदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशात् यथासंकल्पितं यथाभिप्रेतं लोकं नयति प्रापयति ॥ य एवंविद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥ ११ ॥ यः कश्चित् एवं विद्वान् यथोक्तविशेषणैर्विशिष्टमुत्पत्यादि- भि: प्राणं वेद जानाति तस्येदं फलमैहिकमा मुष्मिकं चोच्यते । तृतीयः प्रश्नः । न ह अस्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते च्छिद्यते । पतिते च शरीरे प्राणसायुज्यतया अमृत: अमरण- धर्मा भवति ; तत् एतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोक: मन्त्रो भवति ॥ उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ इति तृतीयः प्रश्नः ॥ उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृते- नास्मि शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यमेव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनम् । बाह्यमादित्यादिरूपेणाध्यात्मं चैव चक्षुराद्याकारेणावस्थानं विज्ञाय एवं प्राणम् अमृतमश्नुते इति । विज्ञायामृतश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम ॥ इति तृतीयप्रश्नभाष्यम् ॥ 8-- चतुर्थः प्रश्नः ॥ -8. अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्य- स्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्य- ति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥ १ ॥ अथ ह एनं सौर्यायणी गार्ग्य: पप्रच्छ प्रश्नत्रयेणापरविद्या- गोचरं सर्व परिसमाप्य संसारं व्याकृतविषयं साध्यसाधन- लक्षणमनित्यम् । अथेदानीं साध्यसाधनविलक्षणमप्राणममनो- गोचरमतीन्द्रियमविषयं शिवं शान्तमविकृतमक्षरं सत्यं पर- विद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते । तत्र सुदीप्तादिवाग्नेर्यस्मात्परस्मादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके ; ते सर्वे भावा अक्षराद्विस्फुलिङ्गा इव विभज्यन्ते । कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति । किंलक्षणं वा तदक्षर- मिति । एतद्विवक्षया अधुना प्रश्नानुद्भावयति — भगवन्, एत- चतुर्थः प्रश्नः । स्मिन् पुरुषे शिरः पाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते; कानि च अस्मिन् जाग्रति जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति । कतर: कार्यकरण- लक्षणयोः एष देवः स्वप्नान्पश्यति । स्वप्नो नाम जाग्रद्दर्शना- निवृत्तस्य जाग्रद्वदन्तः शरीरे यद्दर्शनम् । तत्किं कार्यलक्षणेन देवेन निर्वर्त्यते, किंवा करणलक्षणेन केनचिदित्यभिप्रायः । उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमना- बाधं सुखं कस्य एतत् भवति । तस्मिन्काले जाग्रत्स्वप्नव्यापा- रादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः संप्रतिष्ठिताः । मधुनि रसवत्समुद्रप्रविष्टनद्यादिवश्च विवेकानर्हाः प्रतिष्ठिता भवन्ति संगताः संप्रतिष्ठिता भवन्तीत्यर्थः । ननु न्यस्तदा- त्रादिकरणवत्स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यव - तिष्ठन्त इत्येतद्युक्तम् ; कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्काया: प्रष्टुः ? युक्तैव त्वाशङ्का; यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्र- द्विषये ; तस्मात्स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चि- त्संगतिर्न्याय्येति; तस्मादाशङ्कानुरूप एव प्रश्नोऽयम् । अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः, तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति ॥ प्रश्नोपनिषद्भाष्ये तस्मै स होवाच यथा गार्ग्य मरीच- योऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्ते- जोमण्डल एकीभवन्ति ताः पुनः पुन- रुदयतः प्रचरन्त्येवं ह वै तत्सर्व परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रस- यते न स्पृशते नाभिवदते नादत्ते नान- न्दयते न विसृजते नेयायते स्वपितीत्या- चक्षते ॥ २ ॥ तस्मै स ह उवाच आचार्य: । शृणु हे गार्ग्य, यत्त्वया पृष्टम् । यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अद- र्शनं गच्छतः सर्वाः अशेषत: एतस्मिन् तेजोमण्डले तेजोराशि- रूपे एकीभवन्ति विवेकानईत्वमविशेषतां गच्छन्ति, ताः मरी- चयस्तस्यैवार्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथायं दृष्टान्तः । एवं ह वै तत् सर्व विषयेन्द्रिया- दिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मन:, तस्मिन्स्वप्नकाले एकीभवति मण्डले मरीचिवद विशेषतां गच्छति । जिजागरिषोश्च र- चतुर्थः प्रश्नः । श्मिवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मन- स्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात् तर्हि तस्मिन्स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति - इति आचक्षते लौकिकाः ॥ प्राणानय एवैतस्मिन्पुरे जाग्रति । गा- पत्यो ह वा एषोऽपानो व्यानोऽन्वाहा- पचनो गार्हपत्यात्प्रणीयते प्रणयना- दाहवनीयः प्राणः ॥ ३ ॥ सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणा- ग्नयः प्राणा एव पञ्च वायवोऽमय इवाग्नयः जाग्रति । अग्नि- सामान्यं हि आह— गार्हपत्यो ह वा एषोऽपानः । कथमि- ति, आह । यस्मात् गार्हपत्यात् अग्नेरग्निहोत्रकाले इतरोऽभि- राहवनीयः प्रणीयते प्रणयनात्, प्रणीयते अस्मादिति प्रणयनो गार्हपत्योऽग्निः, तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां संचरति अत आहवनीयस्थानीयः प्राणः । प्रश्नोपनिषद्भाष्ये व्यानस्तु हृदयाद्दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्संबन्धात् अन्वाहार्यपचन: दक्षिणाभिः ॥ यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यज- मानमहरहर्ब्रह्म गमयति ॥ ४ ॥ अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्रासनिः- श्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयोऽपि होता चाहुत्योर्नेतृत्वात् । कोऽसौ ? स समान: । अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव । तस्मा- द्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः । सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके । अव हि जाग्रत्सु प्राणाग्निषूपसंहृत्य बाह्यकरणानि विषयां- श्रग्निहोत्रफलमिव स्वर्गे ब्रह्म जिगमिषुः मनो ह वाव यज- मान: जागर्ति । यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहा- स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते । इष्टफलं यागफलमेव उदान वायुः । उदाननिमित्तत्वादिष्टफ- चतुर्थः ः प्रश्नः । लप्राप्तेः ः । कथम् ? सः उदानः एनं मनआख्यं यजमानं स्वप्न- वृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति । अतो यागफलस्थानीयः उदानः ॥ अत्रैष देवः खमे महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनु- शृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्व पश्यति सर्वः पश्यति ॥ ५ ॥ एवं विदुषः श्रोत्राद्युपरम कालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वया गफलानुभव एव, नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते । न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्यो वा जाग्रति । जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभव- दहरहः सुषुतं वा प्रतिपद्यते । समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तगमनम् ; अतो विद्वत्तास्तुतिरेवेयमुप- पद्यते । यत्पृष्टं कतर एष देव: स्वप्नान्पश्यतीति ; तदाह- अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिव- s. C. 18 प्रश्नोपनिषद्भाष्ये त्स्वात्मनि संहृतश्रोत्रादिकरण: स्वप्ने महिमानं विभूतिं विषय- विषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते । ननु महिमानुभवने करणं मनोऽनुभवितुः ; तत्कथं स्वातन्त्र्येणानु- भवतीत्युच्यते ? स्वतन्त्रो हि क्षेत्रज्ञः । नैष दोषः । क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वात् । न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा । मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च । उक्तं वाजसनेयके ' सधीः स्वप्नो भूत्वा ध्यायतीव लेलायतीव' इत्यादि । तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यव- चनं न्याय्यमेव । मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयंज्योतिष्ट्वं बाध्येत इति केचित् । तन्न । श्रुत्यर्थापरिज्ञान- कृता भ्रान्तिस्तेषाम् । यस्मात्स्वयंज्योतिष्ट्वा दिव्यवहारोऽप्या- मोक्षान्त: सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनित: ; ' यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गरत्वस्य भवति' 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्या- दिश्रुतिभ्यः । अतो मन्दब्रह्मविदामेवेयमाशङ्का, न त्वेकात्मवि- दाम् । नन्वेवं सति 'अत्रायं पुरुष: स्वयंज्योति: ' इति विशेष- णमनर्थकं भवति । अत्रोच्यते । अत्यल्पमिदमुच्यते ' य एषो - ऽन्तर्हृदय आकाशस्तस्मिञ्शेते' इति अन्तर्हृदयपरिच्छेदकर- णे सुतरां स्वयंज्योतिष्वं बाध्येत । सत्यमेवम्; अयं दोषो यद्यपि चतुर्थः प्रश्नः । स्यात्स्व केवलतया स्वयंज्योतिष्वेनार्धं तावदपनीतं भारस्येति चेत्, न; तत्रापि 'पुरीतति नाडीषु शेते' इति श्रुतेः पुरीतन्ना- डीसंबन्धादत्रापि पुरुषस्य स्वयंज्योतिट्वेनार्धभारापनयाभिप्रा- यो मृषैव । कथं तर्हि ' अत्रायं पुरुषः स्वयंज्योति: ' इति ? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत्, न; अर्थैकत्वस्ये- वात् । एको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च । तस्माद्युक्ता स्वप्न आत्मनः स्वयंज्योतिष्ट्वोपपत्तिर्व- क्तुम्, श्रुतेर्यथार्थतत्वप्रकाशकत्वात् । एवं तर्हि शृणु श्रुत्यर्थ हित्वा सर्वमभिमानम् ; न ह्यभिमानेन वर्षशतेनापि श्रत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः । यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वयंज्योतिष्टुं न बाध्यते । एवं मन- स्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयंज्यो- तिथं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते ? तस्मा- त्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनो- मय: स्वप्नान्पश्यतीति । कथं महिमानमनुभवतीति उच्यते । यन्मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादि- प्रश्नोपनिषद्भाष्ये `वासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यतीत्येवं मन्यते । शृणोति तथा श्रुतमर्थे तद्वासनयानु शृणोतीव । देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनस्तत्प्रत्यनुभवतीव अविद्यया । तथा दृष्टं चास्मिञ्जन्मन्यदृष्टुं च जन्मान्तरदृष्ट- मित्यर्थः । अत्यन्तादृष्टे वासनानुपपत्तेः । एवं श्रुतं चाश्रुतं चानुभूतं चास्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः । सञ्च परमार्थोदकादि । असच मरीच्युदकादि । किं बहुना, उक्तानुक्तं सर्वे पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेव: स्वप्नान्पश्यति ॥ स यदा तेजसाभिभूतो भवति । अ- वैष देव: स्वप्नान्न पश्यत्यथैतदस्मिञ्श- रीरे एतत्सुखं भवति ॥ ६ ॥ सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासना- द्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भ- वन्ति । यदा मनो दार्वग्भिवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते, तदा सुषुप्तो भवति । अत्र एतस्मिन्काले एष: मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वा- चतुर्थः प्रश्नः । तेजसा । अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्वि- ज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः ॥ स यथा सोम्य वयांसि वासोवृक्षं सं- प्रतिष्ठन्त एवं ह वै तत्सर्वं पर आत्म- नि संप्रतिष्ठते ॥ ७ ॥ एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति । तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृ- थिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह-स दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति संप्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वे परे आत्मनि अक्षरे संप्रतिष्ठते ॥ पृथिवी च पृथिवीमात्रा चापश्चापोमा- त्रा च तेजश्च तेजोमात्रा च वायुश्च वा- रमात्र। चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च प्रश्नोपनिषद्भाष्ये घातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च ह- स्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च ग- न्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयित- व्यं च प्राणश्च विधारयितव्यं च ॥ ८॥ किं तत्सर्वम् ? पृथिवी च स्थूला पञ्चगुणा तत्कारणं च पृथिवीमात्रा गन्धतन्मात्रा, तथा आपश्च आपोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाका- शमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः । तथा चक्षुश्च इन्द्रियं रूपं च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितत्र्यं च त्वक्च स्पर्शयितव्यं च. वाक्च वक्तव्यं च, हस्तौ च आदातव्यं च, उपस्थश्च आनन्द- यितव्यं च, पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च ; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तदर्थाश्वोक्ताः । मनश्च पूर्वो- क्तम् । मन्तव्यं च तद्विषय: । बुद्धिश्च निश्चयात्मिका । बो- चतुर्थः ः प्रश्नः । द्धव्यं च तद्विषय: । अहंकारश्च अभिमानलक्षणमन्तःकरणम् । अहंकर्तव्यं च तद्विषय: । चित्तं च चेतनावदन्तःकरणम् । चेतयितव्यं च तद्विषयः । तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रका- शविशिष्टा या त्वक् । तया निर्भास्यो विषयो विद्योतयितव्यम् । प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं संग्रथनीयम् । सर्व हि कार्यकरणजातं पारार्थेन संहतं नामरूपात्मकमेता- वदेव ॥ एष हि द्रष्टा स्प्रष्टा श्रोता घाता रस- यिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ अतः परं यदात्मस्वरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेने- हानुप्रविष्टम्, एषः हि द्रष्टा स्पष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा, विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्धयादि, इदं तु विजानातीति विज्ञानं कर्तृका - रकरूपम्, तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः । पुरुषः कार्यकरणसंघातोक्तोपाधिपूरणात्पुरुषः । स च जलसूर्यका- दिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जलाद्याधारशोषे परे अक्षरे आत्मनि संप्रतिष्ठते ॥ प्रश्नोपनिषद्भाष्ये परमेवाक्षरं प्रतिपद्यते स यो ह वै त - दच्छायमशरीरमलोहितं शुभ्रमक्षरं वेद- यते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १० ॥ - प्रतिपद्यते इति । एतदुच्यते स यो ह वै , तदेकत्वविदः : फलमाह — परमेव अक्षरं वक्ष्यमाणविशेषणं ह वै तत् सर्वैषणाविनि- र्मुक्त: अच्छायं तमोवर्जितम्, अशरीरं नामरूपसर्वोपाधिशरी- वर्जितम्, अलोहितं लोहितादिसर्वगुणवर्जितम्, यत एव- मतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वादक्षरम् सत्यं पुरु- षाख्यमप्राणममनोगोचरं शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं किंचित्संभवति । पूर्वमविद्यया असर्वज्ञ आसीत् । पुनर्विद्यया अविद्यापनये सर्वः भवति । तत् अस्मि - न्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसंग्राहकः ॥ विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । चतुथः प्रश्नः । तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥ इति चतुर्थः प्रश्नः ॥ विज्ञानात्मा, सह देवैश्व अग्न्यादिभिः प्राणाः चक्षुरा- दयः भूतानि पृथिव्यादीनि संप्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे, तत् अक्षरं वेदयते यस्तु हे सोम्य प्रियदर्शन, स सर्वज्ञः सर्वमेव आविवेश आविशतीत्यर्थः ॥ इति चतुर्थप्रश्नभाष्यम् ॥ पश्चमः प्रश्चः ॥ अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्त- मोंकारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥ अथ ह एनं शैब्यः सत्यकामः पप्रच्छ । अथेदानीं परा- परब्रह्मप्राप्तिसाधनत्वेन ॐकारस्योपासनविधित्सया प्रश्न आ- रभ्यते । सः यः कश्चित् ह वै भगवन्, मनुष्येषु मनु- ष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं यावज्जीव- मित्येतत्; ॐकारम् अभिध्यायीत आभिमुख्येन चिन्तयेत् । बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशि ब्रह्मभावे ॐकारे आत्मप्रत्ययसंतानाविच्छेदो भिन्नजा- तीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमोऽभिध्या- नशब्दार्थः । सत्यब्रह्मचर्याहिंसापरिग्रहत्यागसंन्यासशौचसं- तोषामायावित्वाद्यनेकयमनियमानुगृहीतः सः एवं यावज्जी- वव्रतधारणः कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या " पञ्चमः प्रश्नः । लोकास्तिष्ठन्ति ; तेषु तेन ॐकाराभिध्यानेन कतमं सः लोकं जयतीति ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्वि- द्वानेतेनैवायतनेनैकतरमन्वेति ॥ २ ॥ पृष्ठवते तस्मै स ह उवाच पिप्पलाद :- एतद्वै स - त्यकाम 1 एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत् तदोंकार एव ॐकारात्मकम् ॐकारप्रतीकत्वात् । परं हि ब्रह्म शब्दाद्युपलक्षणानहं सर्वधर्मविशेषवर्जितम्, अतो न श- क्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम् । ॐकारे विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां त- त्प्रसीदतीत्यवगम्यते शास्त्रप्रामाण्यात् । तथा परं च ब्रह्म । तस्मात्परं चापरं च ब्रह्म यदोंकार इत्युपचर्यते । तस्मादेवं विद्वान एतेनैव आत्मप्राप्तिसाधनेनैव ॐकाराभिध्यानेन एक- तरं परमपरं वा अन्वेति ब्रह्मानुगच्छति ; नेदिष्ठं ह्यालम्बन- मोंकारो ब्रह्मणः ॥ प्रश्नोपनिषद्भाष्ये स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तु र्णमेव जगत्यामभिसंपद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महि- मानमनुभवति ॥ ३ ॥ स यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति, तथाप्योंकाराभिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति ; एत- देकदेशज्ञानवैगुण्यतयोंकारशरणः कर्मज्ञानोभयभ्रष्टो न दु- गतिं गच्छति ; किं तर्हि, यदि एवमोंकारमेव एकमात्राविभागज्ञ एव केवल: अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव एकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदित: संबोधित: तूर्ण क्षिप्रमेव जगत्यां पृथिव्याम् अभिसंपद्यते । किम् ? मनुष्य- लोकम् । अनेकानि हि जन्मानि जगत्यां संभवन्ति । तत्र तं साधकं जगत्यां मनुष्यलोकमेव उपनयन्ते उप निगमयन्ति ऋचः । ऋग्वेदरूपा ह्योंकारस्य प्रथमा एक- मात्रा । तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धया च संपन्न: महिमानं विभूतिम् अनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति ; योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति ॥ पञ्चमः प्रश्नः । अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनराव- र्तते ॥ ४ ॥ अथ पुनः यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमों- कारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सौम- दैवत्ये संपद्यते एकाग्रतयात्मभावं गच्छति, स एवं संपन्नो मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीय- मात्रारूपैरेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्म प्रापयन्ति तं यजूंषीत्यर्थः । स तत्र विभूतिमनुभूय सोम- लोके मनुष्यलोकं प्रति पुनरावर्तते ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्ष- रेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनि- मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्मा- जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ॥ ५ ॥ प्रश्नोपनिषद्भाष्ये यः पुनः एतम् ॐकारं त्रिमात्रेण त्रिमात्राविषयविज्ञान- विशिष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकत्वेन अभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्याल - म्बनत्वं प्रकृतमोंकारस्य परं चापरं च ब्रह्मेति अभेदश्रुतेः, ॐकारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा । यद्यपि तृतीयाभिधानत्वेन करणत्वमुपपद्यते, तथापि प्रकृतानुरो- धात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया ' त्यजेदेकं कुलस्यार्थे' इति न्यायेन । सः तृतीयमात्रारूपे तेजसि सूर्ये संपन्नो भवति ध्यायमानः, मृतोऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते ; किंतु सूर्ये संपन्नमात्र एव । यथा पादोदरः सर्पः त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति । एवं ह वै एष यथा दृष्टान्त: स पाप्मना सर्पत्वक्स्थानीये- नाशुद्धिरूपेण विनिर्मुक्तः सः सामभिः तृतीयमानारूपैः ऊर्ध्व- मुन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम् । सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः । स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम् । तस्मिन् हि लिङ्गा- त्मनि संहताः सर्वे जीवाः । तस्मात्स जीवघनः स विद्वां- विमाकाराभिज्ञः एतस्माज्जीवधनात् हिरण्यगर्भात्परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति : ध्यायमानः पञ्चमः प्रश्नः । । तत् एतौ अस्मिन्यथोक्तार्थप्रकाशको श्लो- कौ मन्त्रौ भवतः ॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ६ ॥ तिस्रः त्रिसंख्याका अकारोकारमकाराख्याः ॐकारस्य मृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्यु- गोचरादनतिक्रान्ताः मृत्युगोचरा एवेत्यर्थः । ता आत्मनो ध्यानक्रियासु प्रयुक्ताः । किंच, अन्योन्यसक्ताः इतरेतरसंब- द्धा: । अनविप्रयुक्ताः विशेषेणैकैकविषय एव प्रयुक्ता विप्रयु- मात्रा: क्ताः, न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनवि- प्रयुक्ताः । किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रिया- सु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्या- नलक्षणासु योगक्रियासु युक्तासु सम्यक्प्रयुक्तासु सम्यग्ध्या- नकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्त- विभागज्ञः ॐकारस्येत्यर्थः । न तस्यैवंविदश्चलनमुपपद्यते । य- स्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेणोंकारात्म- रूपेण दृष्टाः ; स ह्येवं विद्वान्सर्वात्मभूत ॐकारमयः कुतो वा चलेत्कस्मिन्वा ॥ प्रश्नोपनिषद्भाष्ये ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते । तमोंकारेणैवायतनेनान्वेति विद्वा- न्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ इति पञ्चमः प्रश्नः ॥ - सर्वार्थसंग्रहार्थो द्वितीयो मन्त्रः- - ऋग्भिः एतं लोकं मनुष्योपलक्षितम् । यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम् । सा- मभिः यत् तद्ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्या- वन्त एव नाविद्वांसः वेदयन्ते । तं त्रिविधं लोकमोंकारेण साधनेनापरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान् । तेनै- । वकारेण यत्तत्परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्त- जाग्रत्स्वप्नसुषुप्तादिविशेषं सर्वप्रपञ्चविवर्जितम्, अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितमत एव । यस्माज्जरादिविक्रि- यारहितमतः अभयम् । यस्मादेवाभयं तस्मात् परं निरति- शयम् । तदप्योंकारेणैवायतनेन गमनसाधनेनान्वेतीत्यर्थः । इतिशब्दो वाक्यपरिसमाप्त्यर्थः ॥ इति पञ्चमप्रश्नभाष्यम् ॥ षष्ठः प्रश्नः ॥ अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भा- रद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति, समूलो वा एष परिशु ष्यति योऽनृतमभिवदति तस्मान्नार्हाम्य- नृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रव- बाज । नं त्वा पृच्छामि कासौ पुरुष इति ॥ १ ॥ अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्य- कारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले संप्रतिष्ठत इत्युक्तम् । तत्सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे संप्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति । न 119 प्रश्नोपनिषद्भाष्ये ' ह्यकारणे कार्यस्य संप्रतिष्ठानमुपपद्यते । उक्तं च आत्मन एष प्राणो जायते' इति । जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः । अनन्तरं चोक्तम् ' स सर्वज्ञः सर्वो भवति' इति । वक्तव्यं च क्व तर्हि तदक्षरं सत्यं 1 पुरुषाख्यं विज्ञेयमिति ; तदर्थोऽयं प्रश्न आरभ्यते । वृत्तान्वा- ख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम् । हे भगवन्, हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छत । षोडशकलं षोडशसंख्याकाः कला अवयवा इवात्मन्य विद्याध्यारोपित- रूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः ; तं षोडशकलं हे भार- द्वाज, पुरुषं वेत्थ त्वं विजानासि । तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रुवम् उक्तवानस्मि -- नाहमिमं वेद यं त्वं पृच्छ- सीति । एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने का रणमवादिषम् -- यदि कथंचित् अहम् इमं त्वया पृष्टं पुरुषम अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवतेऽर्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः । भूयोऽप्यप्र- त्ययमेवालक्ष्य प्रत्याययितुमत्रम् — समूलः सह मूलेन बै एषः अन्यथा सन्तमात्मानमन्यथा कुर्वन् यः अनृतम् अयथा- , षष्ठः प्रश्नः । भूतार्थम् अभिवदति स परिशुष्यति शोषमुपैति इहलोकपर- लोकाभ्यां विच्छिद्यते विनश्यति । यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत् । स राजपुत्रः एवं प्रत्या- यितः तूष्णीं व्रीडितः रथम् आरुह्य प्रववाज प्रगतवान् यथा- गतमेव । अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैव; अनृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति । तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम्, क्व असौ वर्तते विज्ञेयः पुरुष इति । तस्मै स होवाचेहैवान्तः शरीरे सो- म्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ २॥ तस्मै स होवाच । इहैव अन्तःशरीरे हृदयपुण्डरीकाकाश- मध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः । यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशभिः कलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते प्राणादीनाम् । अत्यन्तनिर्विशेषे ह्यद्वये विशुद्धे तवे न शक्यो- * प्रश्नोपनिषद्भाष्ये ऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति क लानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाः । चैतन्याव्य- तिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । अत एव भ्रान्ताः केचित् - अग्निसंयोगाद्धृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति । तन्नि- रोधे शून्यमेव सर्वमिति अपरे । घटादिविषयं चैतन्यं चेत- यितुर्नित्यखात्मनोऽनित्यं जायते विनश्यतीत्यपरे । चैतन्यं भू- तधर्म इति लौकायतिकाः । अनपायोपजनधर्मक चैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ' सत्यं ज्ञानमनन्तं ब्रह्म' 'प्रज्ञानं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' ' विज्ञानघन एव' इत्या- दिश्रुतिभ्यः । स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभि- चाराद्यथा यथा यो यः पदार्थों ज्ञायते, तथा तथा ज्ञायमान- त्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम् । वस्तुतत्त्वं भव- ति किंचित्, न ज्ञायत इति चानुपपन्नम् ; रूपं च दृश्यते, न चास्ति चक्षुरिति यथा । व्यभिचरति तु ज्ञेयम्; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम्, ज्ञेयाभावेऽपि ज्ञेयान्तरे भावा- ज्ञानस्य । न हि ज्ञानेऽसति ज्ञेयं नाम भवति कखचित् ; सुषुमेऽदर्शनात् -- ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूप- स्य व्यभिचार इति चेत्, न ; ज्ञेयावभासकस्य ज्ञानस्यालोकव- षष्ठः प्रश्नः । ज्ज्ञेयाभिव्यक्त्यर्थत्वात्स्वव्ययाभावे आलोकाभावानुपपत्ति- वत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञानाभावानुपपत्तेः । न ह्यन्ध- कारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितु- वैनाशिकेन । वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत्, येन तदभावं कल्पयेत्तस्याभाव: केन कल्प्यत इति वक्तव्यं वैनाशिकेन तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तद- नुपपत्तेः । ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत्, न; अभावस्यापि ज्ञेयत्वाभ्युपगमात् -- अभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च । तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात् । तदभावस्य च ज्ञानात्मकत्वादभावत्वं च वाङ्मात्रमेव ; न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य । न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किंचिन्नरिछ- नम् । अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत्, न तर्हि ज्ञेयाभावे ज्ञानाभावः । ज्ञेयं ज्ञानव्यतिरिक्तम् ; न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन, न; शब्दमालत्वाद्विशेषानुप- पत्तेः । ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यतिरि- क्तम्, न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् - वह्निरग्निव्यतिरिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत्- अभ्युपगम्यम् । ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभा- प्रश्नोपनिषद्भाष्ये - वानुपपत्तिः सिद्धा । ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेत्, न; सुषुप्रे ज्ञप्त्यभ्युपगमात् -- वैनाशिकैरभ्युपगम्यते हि सुषुप्तेsपि विज्ञानास्तित्वम् । तत्रापि ज्ञेयत्वमभ्युपग- म्यते ज्ञानस्य स्वेनैवेति चेत्, न भेदस्य सिद्धत्वात् — सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञे- यज्ञानयोरन्यत्वम् । न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुन- रन्यथा कर्तुं शक्यते वैनाशिकशतैरपि । ज्ञानस्य स्वाज्ञे- यत्वे तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेत्, न; तद्विभागोपपत्तेः सर्वस्य — यदा हि सर्व ज्ञेयं कस्य - चित्, तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो वि- भाग एवाभ्युपगम्यते ऽवैनाशिकैः । न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः । ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्व- हानिरिति चेत्, सोऽपि दोषस्तस्यैवास्तु ; किं तन्निबर्हणेना- स्माकम् ? अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात्- अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम् । स्वात्मना चाविज्ञे- यत्वेनानवस्था अनिवार्या । समान एवायं दोष इति चेत्, ज्ञानस्यैकत्वोपपत्तेः—सर्वदेशकालपुरुषाद्यवस्थास्वेकमेव ज्ञानं नामरूपाद्यनेको पाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवदनेक- धावभासत इति । नासौ दोषः । तथा चेहेदमुच्यते । ननु न ; षष्ठः प्रश्नः । श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न; प्राणादिकलाकारणत्वात् — न हि शरीरमात्र परिच्छिन्नः प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात् । कलाकार्यत्वाच्च शरीरस्य — न हि पुरुषकार्याणां कलानां कार्य सच्छरीरं कारणकारणं स्वस्थ पुरुषं कुण्डबदरमिवा- भ्यन्तरीकुर्यात् । बीजवृक्षादिवत्स्यादिति चेत् — यथा बीज - कार्य वृक्षस्तत्कार्य च फलं स्वकारणकारणं बीजमभ्यन्तरी- करोत्याम्रादि, तद्वत्पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणका- रणमपीति चेत्, न; अन्यत्वात्सावयवत्वाच्च दृष्टान्ते कार- णाद्बीजाद्वृक्ष फलसंवृत्तान्यन्यान्येव बीजानि ; दाष्टन्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते । बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वम् ; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च । एतेना- काशस्यापि शरीराधारत्वमनुपपन्नम् ; किमुताकाशकारणस्य पुरुषस्य ? तस्मादसमानो दृष्टान्तः । किं दृष्टान्तेन ? वचना- न हि वचनं त्स्यादिति चेत्, न वचनस्याकारकत्वात्- वस्तुनोऽन्यथाकरणे व्याप्रियते; किं तर्हि, यथाभूतार्थाव- द्योतने । तस्मादन्तःशरीर इत्येतद्वचनम् ' अण्डस्यान्तव्यम' इतिवद्द्रष्टव्यम् । उपलब्धिनिमित्तत्वाच्च - दर्शनश्रवणमनन- प्रश्नोपनिषद्भाष्ये विज्ञानादिलिङ्गैरन्तः शरीरे परिच्छिन्न इव द्युपलभ्यते पुरुष उपलभ्यते चात्र । अत उच्यते-- अन्तः शरीरे सोम्य स पुरुष इति । न पुनराकाशकारणभूतः सन्कुण्डबदरवच्छरीर- परिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि ; किमुत प्रमाणभूता श्रुतिः ॥ स ईक्षांचक्रे कस्मिन्नहमुत्क्रान्त उत्क्रा- न्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥ यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणा- र्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते । चेतनपूर्विका च सृष्टिरित्येवमर्थं च । स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षांचक्रे ई- णं दर्शनं चक्रे - कृतवानित्यर्थ:- सृष्टिफलक्रमादिविषयम् । - कथमिति, उच्यते कस्मिन् कर्तृविशेषे देहादुत्क्रान्ते उत्क्रान्तो भविष्यामि अहमेव ; कस्मिन्वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठा- स्यामि प्रतिष्ठितः स्यामित्यर्थः । नन्वात्मा अकर्ता प्रधानं कर्तृ ; अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्या- कारेण; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्वव- षष्ठः प्रश्नः । चनम्, सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि ' सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च । न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् । तस्मात्पुरुषार्थेन प्रयोजनेनेापूर्वकमिव नियतक्रमेण प्रवर्त- मानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षांचक्रे इ- त्यादि: : यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत् । न ; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः — यथा सांख्यस्य चि- न्मात्रस्यापरिणामिनो ऽप्यात्मनो भोक्तृत्वम्, तद्वद्वेदवादिना - मीक्षा पूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात् । तत्त्वान्तरप- रिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरू- पविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूप- विक्रिया न दोषाय । भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत्, न; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपा- धिकृतविशेषाभ्युपगमात् । अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्य- वहाराय । परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमु- पादेयं सर्वतार्किकबुद्धधनवगम्यं ह्यजमभयं शिवमिष्यते । न प्रश्नोपनिषद्भाष्ये तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वा- त्सर्वभावानाम् । सांख्यास्त्वविद्याध्यारोपितमेव पुरुषे क- र्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पु- नस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति । तत्त्वान्तरं च प्रधानं पुरुषाद्वाह्यं परमार्थवस्तुभूतमेव कल्पय- न्तोऽन्य तार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते । तथेतरे तार्किकाः सांख्यै: ; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषा- र्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थत- त्वाद्दूरमेवापकृ॑ष्यन्ते । अतस्तम्मतमनादृत्य वेदान्तार्थतत्त्वमे- कत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमत दोष- प्रदर्शनं किंचिदुच्यतेऽस्माभिः ; न तु तार्किकवत्तात्पर्येण । तथैतदत्रोक्तम् — विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम् । तै: संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित् ॥ किंच, भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः । का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता ; प्रधानं तु कर्चेव न भोक्तृ इति । ननु उक्तं पुरुषश्चिन्मात्र एव; स च स्वात्मस्थो भुञ्जानः, न तत्त्वान्तरपरिणामेन । प्रधानं तु त- वान्तरपरिणामेन विक्रियते ; अतो नैकमशुद्धमचेतनं चेत्या - षष्ठः प्रश्नः । दिधर्मवत् । तद्विपरीतः पुरुषः । नासौ विशेष:, वाड्यात्रत्वात् । प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेतु जायते, निवृत्ते च भोगे पुनस्त- द्विशेषादपेतश्चिन्मात्र एव भवतीति चेत्; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधान- पुरुषयोर्विशिष्टविक्रिया कल्प्यते । अथ भोगकालेऽपि चिन्मात्र " एव प्राग्वत्पुरुष इति चेत्, न तर्हि परमार्थतो भोगः पुरुषस्य । अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोग: पुरुषस्येति चेत्, न; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्धो- क्तृत्वप्रसङ्गः । चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत्, औ- याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः । प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत्, न; प्रधानस्य पा- रायनुपपत्तेः न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उप- पद्यते प्रकाशयोरिवेतरेतरप्रकाशने । भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्य प्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भो- क्तृत्वमिति चेत्, न पुरुषस्य विशेषाभावे भोक्तृत्व कल्पनान- र्थक्यात् । भोगरूपश्वेदनर्थ: पुरुषस्य नास्ति सदा निर्विशेष- त्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते ? अ- प्रश्नोपनिषद्भाष्ये विद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्, पर- मार्थतः पुरुषो भोक्तैव, न कर्ता ; प्रधानं कर्तेव न भोक्तृ पर- मार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्था निर्हेतुका च इति नादर्तव्या मुमुक्षुभिः । एकत्वेऽपि शास्त्र- णयनाद्यानर्थक्यभिंति चेत्, न ; अभावात् — सत्सु हि शास्त्र- प्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति विकल्पना स्यात् । न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति ; तदभावे एवं विकल्पनैवानुपपन्ना । अभ्युपगते आत्मै- कत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छ- ता । तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम् ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादि; शास्त्रप्रणयनाद्युप- पत्ति चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये 'यत्र हि द्वैतमिव भवति' इत्यादि विस्तरतो वाजसनेयके । अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य । अतो न तार्किक वादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मै- कत्वविषये इति । एतेनाविद्याकृत नामरूपाद्युपाधिकृतानेक- शक्तिसाधनकृतभेदवत्वाद्ब्रह्मणः सृष्टयादिकर्तृत्वे साधनाय भावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थ कर्तृत्वा- दिदोषश्च । यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये • षष्ठः प्रश्नः । उपचारो राजा कर्तेति, सोsवानुपपन्नः ; ' स ईक्षांच' इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः । तत्र हि गौणी कल्पना शब्दस्य, यंत्र मुख्यार्थो न संभवति । इह त्वचेतनस्य मुक्त- बद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते ; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना । ईश्वरेणैव सर्वाधि- कारी प्राणः पुरुषेण सृज्यते ॥ स प्राणमसृजत प्राणाच्छ्रद्धा खं वायु- ज्योतिरापः पृथिवीन्द्रियं मनः । अन्नम- नावीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥ ४ ॥ कथम ? सः पुरुषः उक्तप्रकारेणेक्षित्वा सर्वप्राणं हिरण्य- गर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानम् असृजत सृष्टवान । ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम् ; ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि असृजत- खं शब्दगुणकम्, वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुण:, तथा ज्योतिः स्वेन रूपेण पूर्व गुणाभ्यां विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणम्, तथा आपो रसगुणेना- प्रश्नोपनिषद्भाष्ये साधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः, तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पश्चगुणा पृथिवी, तथा तैरेव भूतैरार- ब्धम् इन्द्रियं द्विप्रकारं बुद्धयर्थं कर्मार्थे च दशसंख्याकम्, तस्य श्वरमन्तःस्थं संशयविकल्पादिलक्षणं मनः । एवं प्राणिनां कार्य करणं च सृष्ट्वा तत्स्थित्यर्थं त्रीहियवादिलक्षणम् अन्नम्, ततश्च अन्नात् अद्यमानात् वीर्ये सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसा- धनम्, तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं संकीर्यमा - णानाम्, मन्त्राः तपोविशुद्धान्तर्बहिः करणेभ्यः कर्मसाधनभूता ऋग्यजुःसामाथर्वाङ्गिरसः; ततः कर्म अग्निहोत्रादिलक्षणम्, ततो लोकाः कर्मणां फलम् तेषु च लोकेषु सृष्टानां प्राणि- नां नाम च देवदत्तो यज्ञदत्त इत्यादि । एवमेताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा ' द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदा- र्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिवि- भागम् ॥ स यथेमा नद्यः स्यन्दमानाः समुद्राय- णाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः षष्ठः प्रश्नः । पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रो- च्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥ कथम् ? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमाना: स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरू- पतिरस्कारं गच्छन्ति ; तासां चास्तं गतानां भिद्येते विनश्ये- ते नामरूपे गङ्गा यमुनेत्यादिलक्षणे ; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम् ; एवं यथायं दृष्टान्तः उक्तलक्षण- स्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्ताद्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य । यथा अर्क: स्वात्मप्रकाशस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदी- नामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं ग- च्छन्ति । भिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम् । भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुष: इत्ये- वं प्रोच्यते ब्रह्मविद्भिः । य एवं विद्वान्गुरुणा प्रदर्शित कलाप्र- प्रश्नोपनिषद्भाष्ये लयमार्गः, स एष: विद्यया प्रविलापितास्वविद्याकामकर्मज- नितासु प्राणादिकलासु अकल: अविद्याकृतकलानिमित्तो हि मृत्युः ; तदपगमेऽकलत्वादेव अमृतः भवति । तदेतस्मिन्नर्थे एषः श्लोकः ॥ अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद कला: यथा मा. वो मृत्युः परिव्यथा इति ॥ अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः । प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलय कालेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानाति यथा हे शिष्याः, मा वः युष्मान मृत्युः परिव्यथाः मा परिव्यथयतु । न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ । अतस्त- न्माभूद्युष्माकमित्यभिप्राय: ॥ तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥ ७ ॥ षष्ठः प्रश्नः । तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलाद : किल एतावदेव वेद्यं परं ब्रह्म वेद विजानाम्यहमेतत् । न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इत्येवमुक्तवान् शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजन- नार्थं च ॥ ते तमर्चयन्तस्त्वं हि नः पिता यो- ऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ इति षष्ठः प्रश्नः समाप्तः ॥ - ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो वि- द्यानिष्क्रयमन्यदपश्यन्तः किं कृतवन्त इत्युच्यते —— अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा । किमूचुरित्याह — त्वं हि नः अस्माकं पिता ब्रह्मश- रीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरणस्याभयस्य । यः त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानाज्जन्मजरामरणरो- गदुःखादिग्राहादपाराद्विद्यामहोदधेर्विद्याप्लवेन परम् अपुनरा वृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः S. U. 20 प्रश्नोपनिषद्भाष्ये पितृत्वं तवास्मान्प्रत्युपपन्नमितरस्मात् । इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके; किमु वक्त- व्यमात्यन्तिकाभयदातुरित्यभिप्रायः । नमः परमऋषिभ्यः ब्रह्मविद्यासंप्रदाय कर्तृभ्यः । नमः परमऋषिभ्य इति द्विर्व- चनमादरार्थम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रश्नोपनिषद्भाष्यं संपूर्णम् ॥ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्य- जत्राः । स्थिरैरङ्गैस्तुष्टुवाँ- सस्तनूभिः । व्यशेम देव- हितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति न- स्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ उपनिषन्यन्त्राणां वर्णानुक्रमणिका 11 eft: 11 उपनिषन्मन्त्राणां ॥ वर्णानुक्रमणिका ॥ पृष्ठम् पृष्ठम् अ अथ हैनं सुकेशा अग्निर्यथैको भुवनं अग्ने नय सुपथा राये अथ हैनं सौर्यायणी अथादित्य उदयन् अङ्गुष्ठमात्रः पुरुषो अथाध्यात्मं यदेत ० ७०, ११८ अङ्गुष्ठमात्रः पुरुषो अथेन्द्रमब्रुवन्मघवन् ६६, १०६ अङ्गुष्ठमात्रः पुरुषो १९८ अथैकयोर्ध्व अजीर्यताममृताना ० अथोत्तरेण तपसा अणोरणीयान्महतो अनुपश्य यथा पूर्वे अष देवः स्वप्नं अनेजदेकं मनसो अथ कवन्धी का अथ यदि द्विमात्रेण अन्धं तमः प्रविशन्ति अन्धं तमः प्रविशन्ति अथ वायुमब्रुवन् ६५, १०६ अन्नं वै प्रजापतिः अथ हैनं कौसल्य० अन्यच्छ्रेयोऽन्यदु० अथ हैनं भार्गवो अन्यत्र धर्मादन्यत्रा ० अथ हैनं शैब्यः २८२ अन्यदेव तद्विदितात् ८३,९० उपनिषन्मन्त्राणां पृष्ठम् पृष्ठम् अन्यदेवाहुः संभवात् इन्द्रस्त्वं प्राण तेजसा अन्यदेवाहुर्विद्यया इन्द्रियाणां पृथग्भाव० अरण्योर्निहितो इन्द्रियाणि हयानाहुः अरा इव रथनाभ इन्द्रियेभ्यः परं मनो अरा इव रथनाभौ इन्द्रियेभ्यः परा ह्यर्था अविद्यायामन्तरे इह चेदवेदीदथ ५९,१०३ अव्यक्तात्तु परः पुरुषो इह चेदशकद्बोद्धुं अशब्दमस्पर्शमरूपम् ई अशरीरः शरीरेषु ईशावास्यमिद असुर्या नाम ते लोकाः उ अस्तीत्येवोपलब्धव्यः उत्तिष्ठत जाग्रत अस्य विसमानस्य उत्पत्तिमायतिं अहोरात्र उपनिषदं भो ब्रूहि ७२,१२० आ उशन्ह वै वाजश्रवसः आत्मन एष प्राणो ऊ आत्मानं रथिनं विद्धि ऊर्ध्व प्राणमुन्नयति आदित्यो वै प्राण ह ऊर्ध्वमूलोऽवाक्शास्त्र: आदित्य ह बाह्य: ऋ आशाप्रतीक्षे संगत १३५ ऋग्भिरेतं यजुर्भि G आमीनो दूरं व्रजति ऋतं पिवन्तौ सुकृतस्य इ ए वर्णानुक्रमणिका । पृष्ठम् पृष्ठम् एको वशी सर्व तजति तन्नैजति एतच्छ्रुत्वा संपरिगृह्य तदेतदिति मन्यन्ते एतत्तुल्यं यदि मन्यसे तद्ध तद्वनं नाम ७१, ११९ एतदालम्बनं श्रेष्ठं तद्धैषां विजज्ञौ ६२, १०५ एतद्ध्येवाक्षरं ब्रह्म तद्येह वै तत्प्रजा एष तेऽग्निर्नन्त्रिकेतः १४३. तमब्रवीत्प्रीयमाणो एष सर्वेषु भूतेषु तस्माद्वा इन्द्रो ६९,११७ एप सुप्तेषु जागर्ति तस्माद्वा एते देवा ६८, ११७ एव हि द्रष्टा स्पष्टा एषोऽग्निस्तपत्येष तस्मिंस्त्वयि किं ६५,१०६ तस्मिंस्त्वयि किं ६३,१०५ क तस्मै तपो दमः ७४, १२० कामस्याप्तिं जगतः तस्मै तृणं निद • ६३,१०६ कुर्वन्नेवेह कर्माणि तस्मै तृणं निद० ६५, १०६ केनेषितं पतति ३६,८६ तस्मै स होवाच यथा ज तस्मै स होवाच जानाम्यह : शेवधि • तस्मै स होवाच प्रजा त तस्मै स होवाचा ० तं दुर्दशं गूढमनु तस्मै स होवाचे तरह कुमार सन्तं तस्मै स होवाच तदभ्यद्रवत्तमभ्य ० ६५,१०६ तस्यैष आदेशो ६९,११७ तदभ्यद्रवत्तमभ्य: ६३,१०५ तां योगमिति मन्यन्ते ३ १४ उपनिषन्मन्त्रणां पृष्टम् पृष्ठम् तान्वरिष्ठः प्राण २५२ न प्राणेन नापनेन तान्ह स ऋषि ० तान्होवाचैताव • न वित्तेन तर्पणीयो न संदृशे तिष्ठति तिस्रो मात्रा मृत्यु • न सांपरायः प्रतिभाति तिस्रो रात्रीर्यदवा ० नाचिकेतमुपाख्यानं तेऽग्निमब्रुवन् .६३, १०५ नायमात्मा प्रवचनेन तेजो ह वाव उदा० नाविरतो दुश्चरितात् ते तमर्चयन्तस्त्वं हि नाह मन्ये सुवेदेति ५३,९८ तेषामसौ विरजो नित्यो नित्यानां त्रिणाचिकेतस्त्रयमे ० नैव वाचा न मनसा त्रिणाचिकेत स्त्रिभि० नैषा तर्केण मति ० द प दूरमे विपरी पञ्चपादं पितरं देवानामसि वह्नितमः परमेवाक्षरं प्रति ० देवैरत्रापि विचिकि० देवैरत्रापि विचिकि० पराचः कामाननुयन्ति पराचि खानि व्यतृ० न पायूपस्थेऽपानं न जायते म्रियते पीतोदका जग्धतृणा न तत्र चक्षुर्गच्छति ४२,८९ पुरमेकादशद्वार 2 न तत्र सूर्यो भाति - २१३ पूषन्नकर्षे यम न नरेणावरेण पृथिवी च पृथिवी० वर्णानुक्रमणिका । पृष्ठम् पृष्ठम् प्रजापतिश्वरसि २५५ यः पुनरेतं त्रि० प्रतिबोधविदितं ५५, १०१ यः पूर्वतपसो Я ते ब्रवीमि तदु यः सेतुरीजानाना० प्राणस्येदं वशे यच्चक्षुषा न पश्यति ४८, ९५ प्राणामय एवैत ब बहूनामेमि प्रथमो 0 यच्चित्तस्तेनैष यच्छेदानसी यच्छ्रोत्रेण न शृणोति ४८,९५ ब्रह्म देवेभ्यो ६१, १०५ यतश्वोदेति सूर्यः ब्रह्मेति होवाच भयादस्याग्निस्तपति मनसैवेदमाप्तव्यं म ६८, ११७ यमाणेन न प्राणिति ४९,९५ भ यथादर्शे तथात्मनि यथा पुरस्ताद्भविता यथा सम्राडेवाधि० यथोदकं दुर्गे महतः परमव्यक्त. यथोदकं शुद्धे मासो वै प्रजापतिः यदा त्वमभिवर्ष मृत्युप्रोक्तां नचिके यदा पञ्चावतिष्ठन्ते य यदा सर्वे प्रभिद्यन्ते य इमं परमं गुह्यं य इमं मध्वदं वेद यदा सर्वे प्रमुच्यन्ते यदिदं किंच जगत् य एवं विद्वान्प्राणं यत्रु सुतेषु जागर्ति यदि मन्यसे सुवेदेति ५०,९७ यदुच्छासनिःश्वा० ३१६. उपनिषन्मन्त्राणां पृष्ठम् पृष्ठम् यदेवेह तदमुल यद्वाचानभ्युदितं १९७ वायुर्यथैको भुवनं ४५,९४ विज्ञानसारथिर्यस्तु यन्मनसा न मनुते ४७, ९५ विज्ञानात्मा सह यस्तु विज्ञानवान्भ० १७६, १७७ . विद्यां चाविद्यां च यस्तु सर्वाणि भूतानि विश्वरूपं हरिणं ૨૪૨ यस्त्वविज्ञानवान् वैश्वानरः प्रविशति यस्त्वविज्ञानवान् व्रात्यस्त्वं प्राणैकर्षि० २५८. यस्मिन्निदं विचि ० श यस्मिन्सर्वाणि भूतानि शतं चैका च हृदयस्य यस्य ब्रह्म च क्षत्रं शतायुषः पुत्रपौत्रान् यस्यामतं तस्य मतं ५४,९९ शान्तसंकल्पः सुमना या ते तनूर्वाचि श्रवणायापि बहुभिर्यो या प्राणेन संभवति श्रेयश्च प्रेयश्च येन रूपं रसं श्रोत्रस्य श्रोत्रं ३८,८७ येयं प्रेते विचिकित्सा वोभावा मर्त्यस्य १४८. ये ये कामा दुर्लभा १.४८ स योनिमन्ये प्रपद्यन्ते ईक्षांच यो वा एतामेवं ७५, १२१ स एष वैश्वानरो ल संभूतिं च विनाशं च लोकादिमि वायुरनिलममृतं संवत्सरो वै प्रजा ० २४३. स तस्मिन्नेवाकाशे ६६, १०७ वर्णानुक्रमणिका । ३ १७ १ पृष्ठम् पृष्ठम् स त्वं प्रियान्प्रियरू ० सुकेशा च भारद्वाजः स त्वमग्निं स्वर्ग्य ० सूर्यो यथा सर्व • स पर्यागाच्छुक्रमका ० सोऽभिमानादूर्ध्व ० स प्राणमसृजत स्वप्नान्तं जागरिता ० स यथा सोम्य स्वर्गे लोके न भयं स यथेमा नद्यः ह स यदा तेजसा ह ँस: शुचिषद्वसु० स यद्येकमात्रम ० हन्त त इदं प्रव सर्वे वेदा यत्पद० हन्ता चेन्मन्यते हन्तु सह नाववतु हिरण्मयेन पात्रेण स होवाच पितरं हृदि ह्येष आत्मा