THE WORKS ד Sri Sankaracharya SRI VANI VILAS EDITION. परिग्रहण सं. 103.65 לי ग्रन्थालय, के. उ. ति. शि. संस्थान सारनाथ, वाराणसी G THE WORKS OF SRI SANKARACHARYA VOLUME 3 MAAAAAAAAAAAAAA SRI VANI VILAS PRESS SRIRANGAM www CONTENTS. PAGE. BRAHMASUTRA-BHASHYA. CHAPTER III. PADA 2. PADA 3. PADA 4. CHAPTER IV. 559-760 559 615 715 761-862 PADA 1. 763 PADA 2. 797 PADA 3. 819 PADA 4. 845 विषयाः पृष्ठम् ... ५५९ – ७६० ब्रह्मसूत्रभाष्यम् अध्यायः ३. द्वितीयः पादः तृतीयः पादः चतुर्थः पादः अध्यायः ४. प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः ... : : : ७६१-८६२ BRAHMASUTRA 3 3 BHASHYA × × Volume ब्रह्मसूत्रभाष्यम् तृतीयो भागः ॥ eft: ॥ ॥ विषयानुक्रमणिका । तृतीयोऽध्यायः पृष्ठम् द्वितीयः पादः -- तत्त्वं- पदार्थविवेकः ५६१-६१४ १. संध्याधिकरणम् " ५६१-५६९ संगतिप्रदर्शनपूर्वकम् उद्देश्यं त्वं पदार्थ विवेच- यितुम्, 'अथ रथान् - इति श्रुतिमवष्टभ्य तथ्यरूपां स्वप्नसृष्टिमुदाहृत्य मिथ्याप्रत्ययाः स- र्वेऽपि सम्यञ्च इति प्रतिजानानां पूर्ववादिनां पक्षस्य उद्भावनम् ... ' य एष सुप्तेषु - ' इत्यादिकाठकश्रुतिमवलम्ब्य प्राज्ञकर्तृकत्वं हेतुकृत्य स्वप्नसृष्टेः पारमार्थिकत्व- साधनम् व्यापकविरुद्धोपन्यासेन वस्तुत्वं व्यावर्त्य माया- मात्रत्वसिद्धान्तः शुभाशुभफलान्वयव्यतिरेकाभ्यां शास्त्रेण च वि- रोधस्य परिहार: S. W. III. ( [ २ ] स्वयंज्योतिष्टविवेचनानुगुणं रथाद्यभाववचनमेव श्रुत्या व्याख्येयम्, रथादिसृष्टिवचनं तु भक्त्या --- इति विविच्य परोक्तनिरसनम् प्राज्ञकर्तृकत्वस्य पराभिमतहेतोः असिद्धिबाधा- भ्यामाभासीकरणम् स्वप्ने रथादिसृष्टिः- परमात्मांशस्य जीवस्य सत्यसंकल्पस्य सांकल्पिकी - इति शङ्कायाः, जीवस्य ज्ञानैश्वर्यतिरोधानमुपपाद्य परिहार: २. तदभावाधिकरणम सुषुप्तिपरीक्षार्थं विषयोपन्यासः ... ५७०-५७६ नाडीपुरीतत्परमात्मनां सुषुप्तस्थानतया श्रूयमाणा- नाम् एकार्थानां विकल्पे ब्रह्मभावानियमात् कर्मणैवापवर्गे संभावयतां पूर्ववादिनां मतस्य उद्भावनम् समुच्चयेन नाड्यादीनि स्वापाय उपसर्पतीति सिद्धान्तः एकविभक्तिनिर्देशस्य अनैकान्तिकत्वप्रदर्शनम्... ५७१ सापेक्षश्रुत्यनुरोधेन निरपेक्षश्रुतिं नीत्वा समुच्चय- बानिरसनम् ... जीवस्याधेयत्वमभ्युपगतं परित्यज्य — ब्रह्मात्मत्व- --- मेव जीवस्य सुषु ब्रह्माधारत्वम्, तदुपाधिक- [ ३ ] रणमात्राधारतया तु जीवस्य सुषुप्तारम्भाय ना- डीपुरीतदाधारत्वम् — इति अतुल्यार्थतानिरू- पणेन विकल्पविघटनम असत्यवादे जीवस्यौत्सर्गिकं ब्रह्मतादात्म्यं न सुते अन्यथयितुं शक्यम् - - इति विकल्पायोगे युक्त्यन्तरम् .... परमात्मातिरिक्तेषु स्थानेषु विशेषविज्ञानस्यावश्य- कतया सुतेरनुपपत्तिः गुणप्रधानभावेन समुच्चयः, न समप्रधानतयेति निष्कर्ष: आत्मनः प्रबोधापादानतां स्वापाधिकारे शिष्य- माणामुपन्यस्य सिद्धान्तंदृढीकरणम् ३. कर्मानुस्मृतिशब्दविध्यधिकरणम् ५.७४ ... ५७५ ५७६-५७९ जलबिन्दुन्यायेन सुप्त एव प्रतिबुध्यत इति न नि- यन्तुं शक्यते - इति पूर्वपक्ष: कर्मशेषानुष्ठानदर्शनम् अनुस्मृतिं श्रुतिं कर्मविद्या- विध्यनुपपत्तिं चोपन्यस्य सुप्तस्यैव पुनरुत्थान- मिति नियमस्य समर्थनम् उत्सूत्रं सिद्धान्तयुक्तिविशेषाणामुपन्यासः विवेकहेतोः कर्मणोऽविद्यायाश्व सद्भावात् जीवस्य ब्रह्माभेदाच्च जलबिन्दुन्यायस्य विघटनम् ५७९ ... ४. मुग्धाधिकरणम [ ४ ] प्रसिद्धावस्थानां मूर्छा अन्यतमेति पूर्वपक्ष: ५७९-५८१ देहधारणाभावात् विषयमात्रानुपलब्धेश्च मुग्धस्य जाग्रतो वैलक्षण्यसमर्थनम् निःसंज्ञकत्वात् प्राणोष्मणोर्भावाच्च स्वप्नमृतिभ्यां मूर्छाया भेदस्य प्रतिपादनम् सुषुमोहयोः प्रयोजनकारणलक्षणभेदेभ्यो भेदस्य समर्थनम् : अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम्, अर्धेन अवस्थान्तरपक्षस्य इति सिद्धान्तः ५. उभयलिङ्गाधिकरणम् तत्पदार्थनिरूपणारम्भे प्रतिज्ञा ५८२–५९६ उभयलिङ्गश्रुत्युपन्यासेन संशयबीजोद्घाटनम् .. ५८२ स्वत उपाधितो वा परस्य ब्रह्मणः उभयलिङ्गत्वानु- पपत्तेर्निर्विशेषमेव प्रतिपत्तव्यम् - इति सिद्धान्त: ५८३ भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शङ्कायाः- भेदस्य उपासनार्थत्वात् अभेदे तात्पर्यात् नेति निरसनम् तत्प्रधानत्वं विनिगमकमाश्रित्य अनाकारब्रह्माव- धारणम् ... प्रकाशदृष्टान्तेन औपाधिकमाकारयोगभनाकारे- [ ५ ] Sप्युपासनार्थं समर्थ्य आकारवद्विषयाणामपि श्रुतीनां गतिप्रदर्शनम् निर्विशेषत्वानुकूलतया अन्यापोहमुखेन ब्रह्म दर्श- यन्तीनां श्रुतिस्मृतीनाम् उपन्यासः जलसूर्यकादिशास्त्रीयदृष्टान्तस्य प्रकृतानुकूलतया उपन्यासः उक्तदृष्टान्तवैपम्यशङ्का, तत्प्रतिविधानं च अनुप्रवेशश्रुत्युपन्यासेन उक्तदृष्टान्तदृढीकरणम् निष्प्रपञ्चत्वपरतया सन्मानत्वपरतया च अधिक- रणद्वयं कल्पयतां स्वयूथ्यानां मतस्योद्भावनम् ५८९ एवमधिकरणान्तरारम्भस्य सर्वथा वैयर्थ्यमिति तन्निरसनम् आकारश्रुतीनामपि तदितराकारप्रविलयो गति- रिति मतमनूद्य ब्रह्मोपासनावाक्यानां पार्थगर्थ्य- समर्थनेन तन्निरसनम् एक नियोगप्रतीतेः ब्रह्मोपासनावाक्यानामेकवाक्य- तेत्यभिमानस्य — अचोदनातन्त्रत्वाद्ब्रह्मविज्ञानं प्रपञ्चप्रविलयं च अशक्यत्वात् अनुपपत्तेः अन्यथासिद्धत्वाच्च नियोगगोचरादपनीय शिथि- लीकरणम् प्रपञ्चपक्षे उच्छेदात्, ब्रह्मपक्ष अनियोज्यत्वात् जीवस्य नियोज्यताविघटनेन नियोगवार्ताया वार्तीकरणम् [ ६ ] नियोगाभ्युपगमेऽपि साध्यानुबन्धभेदादेकनियोग- त्वमसिद्धमिति निगमनम् ६. प्रकृतैतावत्त्वाधिकरणम् .... ५९६-६०५ नेति नेतीति प्रतिषेधे संशयमुपन्यस्य, ब्रह्मापि ब्रह्मैव वा प्रतिषेध्यम् इति पक्षयोः सहेतुकमुपन्यास: न ह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम्; न च ब्रह्मपरे शब्दे ब्रह्मणि प्रमाणे सति तत्प्रतिषेधोऽपि प्रमाणवान् ; नापि वेदान्ता ब्रह्म प्रतिषेधायैव महता प्रयत्नेन प्रतिपादयन्ति - इति तयोः पक्षयोर्निरसम् 'प्रकृतैतावत्त्वं हि प्रतिषेधतीति सूत्रावयवविभजनम् ५९८ मूर्तीमूर्तविषयतया भूतराशिवासनाराशिविषयतया कृत्स्नविषयप्रतिषेधपर्यवसायिवीप्सारूपतया च प्रतिषेधद्वयस्य नयनम् ... 'न ह्येतस्मादिति नेत्यन्यत्परमस्ति ' इति वाक्यं ए- तस्मादित्यस्य आदिष्टादेशनपरामर्शितया वाक्य- भेदेन वाक्यैक्येन च द्विधा योजयित्वा, तदनु- रोधेन ' ततो ब्रवीति च भूयः' इत्यस्य अन्यत्प- मस्तीत्येतद्विषयतया अथ नामधेयमित्येतद्विषय- तया च विभजनम् अभावो न ब्रह्माभावे क्रमते अयोग्यत्वादित्यत्र ין श्रुतिस्मृतिभ्यां हेतोः साधनम् די [ ७ ] श्रुतिस्मृतिभ्यां ब्रह्मण: संराधनग्राह्यताप्रदर्शनम् ६०१ संराध्यसंराधकभावे जीवप्राज्ञयोरहिकुण्डलवत् प्र- काशाश्रयवच्च भेदाभेदयोर्भाविकयोरेवाविरोधं मतान्तरं निरस्य चिदात्मन औपाधिकभेदभाने- ऽपि स्वत एकरसत्वमेवेति अद्वैतनिष्कर्षेण निगमनम् ७. पराधिकरणम् सेतून्मानसंबन्धभेदव्यपदेशानां व्याख्यानपुरःसरं ब्रह्मणोऽन्यत्तत्वमस्तीति पूर्वपक्षस्योद्भावनम्... ६०५ सेतुव्यपदेशस्य विधारकत्वसामान्यपरतया परिहारः ६०७ उन्मानव्यपदेशस्य आध्यानार्थतया परिहार: ६०८ संबन्धभेदव्यपदेशयोरौपाधिकतया परिहारः ६०९ अन्यप्रतिषेधसमाश्रयण एवं सर्वगतत्वमन्यात्मनः प्रामाणिकमुपपद्यते — इति उपसंहारः ८. फलाधिकरणम् ... ... उपपत्तेः श्रुतेश्च ईश्वर एव फलहेतुरिति सिद्धा- न्तेनोपक्रमः ... कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्व नाम कल्प्यमानं विधिविषयस्य यागस्य फलोत्पादकत्वमुपपादयतीति जैमिनि- मतस्योद्भावनम् ... ६ १३ [ ८ ] अपूर्वाग्रहं विहाय ईश्वरप्रसादोऽनुरुभ्यताम् ; क- र्मापेक्षादपूर्वापेक्षाद्वा ईश्वरात् फलमिति सुविश- दं भवेत् इति बादरायणनिष्कर्ष: तृतीयः : पाद: -- गुणोपसंहारः १. सर्ववेदान्तप्रत्ययाधिकरणम ६१७-७१४ निरुपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वानस्य भेदा- भेदचिन्तावताराक्षेपः सोपाधिकब्रह्मप्राणादिविषयासु उपासनासु भेदा- भेदविमर्श उपपन्न इति परिहार : नामरूपधर्मविशेषपुनरुक्तिप्रभृतीनां भेदहेतूनामु- पलम्भात् प्रतिवेदान्तं विज्ञानभेद इति पूर्व - पक्षः संयोगरूपचोदनाख्याविशेषात् विज्ञानानां सर्ववे- दान्तप्रत्ययत्वमिति सिद्धान्त: पञ्चाग्निविद्याप्राणसंवादादिषु उत्पत्तिगत एव गु- भेदो वैश्वदेववत् कथं न भिन्द्यात् इति शिरोव्रतस्य स्वाध्यायधर्मत्वोपपादनेन विद्याभे- विशेषाशङ्कायाः परिहारः दकत्वविघटनम् प्रायदर्शनन्यायेन उपासनानामपि सर्ववेदान्तप्र- त्ययत्वसिद्धिः -- इत्युपसंहारः [९] २. उपसंहाराधिकरणम् ६२३-६२४ सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानां गुणोपसंहारः फलमिति निर्णय: ३. अन्यथात्वाधिकरणम ६२४-६२८ वेद्यभेदनिरूपणेन वाजिनां छन्दोगानां च उद्गी- विद्या अर्थवादसंज्ञासाम्येऽपि भिन्ना - इति निष्कर्ष: ४. व्याप्त्यधिकरणम ६२८-६३१ ओमित्येतदक्षरमित्यत्र सामानाधिकरण्ये अध्यासा- पवादैकत्वविशेषणपक्षाणां निरूपणम् गौण्या लक्षणातो दुर्बलत्वात् निष्फलत्वात् पदा- न्तरवैयर्थ्याच्च अध्यासापवादैकत्वपक्षान् निरस्य विशेषणपक्षेण सिद्धान्तः ५. सर्वाभेदाधिकरणम ... ६३१-६३३ प्राणसंवादे वसिष्ठत्वादिगुणानामनुक्तानामपि एक- प्रधानसंबद्धानां कोषीतकिब्राह्मणगतेन एवं- शब्देन पराम्रष्टुं योग्यत्वादुपसंहार इति निर्णयः ६३१ ६. आनन्दाद्यधिकरणम ६३३—६३५ वास्तवानां विधेयानां च गुणानां वस्तुधर्मतया च [१०] 'अनुष्ठेयतया च अव्यवस्थाव्यवस्थे व्यवतिष्ठेते - इति विवेचनम् יד ७. आध्यानाधिकरणम् ६३५—६३७ 'इन्द्रियेभ्यः परा ह्यर्था:' इत्यादि काठक श्रुतौ सर्वे- षामेव अर्थादीनां परत्वं प्रतिपिपादयिषितम्- इति पूर्वपक्ष: दृष्टप्रयोजनत्वात् आदरातिशयाच्च पुरुषपरत्वप्रति- पादनार्थोऽयं संदर्भ इति सिद्धान्त: ८. आत्मगृहीत्यधिकरणम् 1 " ' ... ६३७–६४३ आत्मा वा इदमेक एव' इत्यादितैत्तिरीयकश्रुतौ लोकसृष्टिवचनात् सूत्रात्मैवाभिलप्यते इति पूर्वपक्ष: ... आकाशपूर्विकायां सृष्टौ यथा क्वचित्तेजः पूर्वि - कायाः सृष्टेरभिधानं तथा महाभूतसृष्टयनभिधा- नेन लोकसृष्ट्यभिधानं न विरुध्यते, परमात्म- ग्रहण एव प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसम- वकल्पते - इति परमात्मैवाभिलप्यते - इति 'सिद्धान्तः सदुपक्रमस्य छान्दोग्यगतस्य संदर्भस्य आत्मोप- .... क्रमस्य च वाजसनेयकगतस्य किमकार्थ्यम्, [ ११ ] आहोस्विदर्थभेद इति संशयोपन्यासेन कल्पा- न्तरारम्भः 000 आम्नानतन्त्रत्वादर्थपरिग्रहस्य उपक्रमतन्त्रत्वादु- पसंहारस्य अर्थभेद एवोचितः, तादात्म्योप देशश्व संपत्तिपरतया नेय इति पूर्वपक्ष: 'सदेव ' ' एकमेव ' इत्याद्यवधारणं तादात्म्यप्र- तिपादनायामेवावकल्पते, न तादात्म्यसंपादना- याम् ; पेण विरुध्यते ; सच्छब्दार्थोऽपि न मुख्यादा- सामान्योपक्रमश्च न वाक्यशेषगतेन विशे- त्मनोऽन्यः संभवति इति प्रतिपाद्याभेद इति सिद्धान्त: ९. कार्याख्यानाधिकरणम् ૬૪૧ ६४३-६४६ छन्दोगानां वाजसनेयिनां च प्राणविद्याप्रकरणे यत् अशिशिषताम् अशितवतां च उभयत आच- मनम् अनग्नताचिन्तनं च प्रतीयते, तदुभयमपि विधीयते अपूर्वत्वात्, विस्पष्टविधिविभक्तिक- त्वाद्वा आचमनमेव विधीयते इति पक्षयोरु- द्भावनम् स्मार्तस्य आचमनस्य व्यापकत्वात्, ' दृष्टिसाहचर्या - तू, समिधो यजतीत्यादिवत् वर्तमानापदेश- स्यापि विधिक्षमत्वात्, 'जर्तिलयवाग्वा वा जुहु - [ १२ ] यात्' इत्यादिवत् विधिविभक्तेरपि अविवक्षित- त्वसंभवाच्च वासोविज्ञानमेव विधीयते नाचम- नम्--- इति सिद्धान्तः १०. समानाधिकरणम ... ૬૪૪ ६४६–६४८ अग्निरहस्यबृहदारण्यकयोः शाण्डिल्यविद्या अ- भ्यासाधिकरणन्यायेन भिन्नेति पूर्वपक्ष: ... समानगुणपुनः श्रवणस्य विप्रकृष्टविद्याप्रत्यभिज्ञा- पकत्वेनान्यपरत्वसंभवादभ्यासाधिकरणन्यायाप्र- वृत्तेः विद्यैकत्वमिति सिद्धान्तः ११. संबन्धाधिकरणम् ६४८—–६५१ बृहदारण्यके सत्यविद्यायामादिश्यमानयोरुपनि- दोः संकर इति स्वरूपमात्रप्राधान्याभिप्रायेण · पूर्वपक्ष: सविशेषणस्यैव प्रधानत्वात् अतिदेशलिङ्गाच्च तयो- र्व्यवस्थेति सिद्धान्तः ... ६५१-६५२ १२. संभृत्यधिकरणम् संभृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोड- शकलादिविद्यासु च प्रत्यभिज्ञासंभवादुपसंहार इति पूर्वपक्ष: असाधारणधर्माणामप्रत्यभिज्ञानादनुपसंहारः. इति सिद्धान्तः [१३] १३. पुरुषविद्याधिकरणम् ६५२-६५४ तैत्तिरीयकताण्डिनोः पुरुषविद्या पुरुषयज्ञत्वमर- णावभृथत्वादिसाम्यादेकैव इति पूर्वपक्ष: ... ६५२ भूयोवैलक्षण्यान्न विद्येक्यमिति सिद्धान्तः १४. वेधाद्यधिकरणम् ... ६५४–६५७ विद्यासं निधिपठितानां प्रविध्यादिमन्त्राणां प्रवर्ग्या- दिकर्मणां च अन्यत्र विनियुक्तानामपि संनि- धिसामर्थ्यात् विद्यार्थत्वेनापि प्रतिपत्तिः, बृह- स्पति सवदृष्टान्तेन खादिरत्वादिदृष्टान्तेन वा-- इति पूर्वपक्ष: ' प्रबलैः श्रुत्यादिभिरन्यत्र विनियुक्तानाम् अवि- रोधेऽपि दुर्बलसंनिधिमात्रेण न संभवति वि- द्यासु विनियोग:- इति सिद्धान्तः १५. हान्यधिकरणम् - ६५८-६६२ यत्र हानमात्रं सुकृतदुष्कृतयोः श्रूयते, तत्र अश्रू- यमाणं विद्यान्तरगोचरशाखान्तरीयश्रवणविषय- मप्युपायनमवश्यं भावि न संनिपतेत् — इति पूर्वपक्ष: एकविंशादिवादवत् अर्थवादान्तरापेक्षार्थवादान्त- रप्रवृत्तेः संभवात्, अष्टदोषदुष्टविकल्पप्रसङ्गभ- येन कुशादिवत् वाक्यान्तरस्य वाक्यान्तरशेष- [ १४ ] त्वस्य औचित्याच्च, हानशब्दशेष उपायनशब्द उपायनमनुवर्तयति केवलहानश्रवणेऽपि स्तुति- प्रकर्षाय - इति सिद्धान्तः विधूननश्रुतौ विधूननं चालनमेवेति प्राप्ते, वा- क्यशेषे उपायनश्रवणबलात् हानमेवेति निर्णयः - इति वर्णकान्तरम् १६. सांपरायाधिकरणम् ६६२—६६३ यथाश्रुति अर्धपथ एव सुकृतदुष्कृतविमोकः प्रति पत्तव्यः, पूर्वपक्ष: एवं च न पर्यङ्कविद्यातस्तत्प्रक्षय इति पाठक्रमाद्बलीयांसौ श्रूत्यर्थावनुरुध्य समर्थस्य क्षेपा- योगात् मरणात् प्रागेव सुकृतदुष्कृतक्षय इति सिद्धान्त: १७. गतेरर्थवत्त्वाधिकरणम् ६६४—–—६६५ उपास्तिवत् बोधोऽपि गतिमान् — इति पूर्वपक्ष: ६६४ प्राप्तिफलकस्योपासनस्य गतिमत्त्वेऽपि स्वास्थ्य- फले बोधे व्यर्था गतिर्न संनिपतेत् — इति - सिद्धान्तः १८. अनियमाधिकरणम् ६६५-६६७ यासु विद्यासु पन्थाः श्रूयते तास्वेव प्रकरणबलात् स नियम्येत—इति पूर्वपक्ष: ... [१५] 'ये चेमे' 'शुक्लकृष्णे' इत्यादि श्रुतिस्मृतिभ्यां प्रकरणस्य बाधात् सर्वासामेव सगुणविद्यानां पन्थाः - इति सिद्धान्तः १९. यावदधिकाराधिकरणम् ... अपान्तरतमः प्रभृतीनां देहान्तरोत्पत्तिदर्शनात् ब्र- ह्मविद्याया: पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा--- इति पूर्वपक्ष: यावदधिकारमाधिकारिका अवतिष्ठन्ते, तदवसाने च अपवृज्यन्ते— इत्युपपन्नत्वात् विदुषः कै- वयसिद्धिरैकान्तिकी इति सिद्धान्तः २०. अक्षरध्यधिकरणम् ६७१–६७३ . प्रधानतन्त्राणामङ्गानामिव अक्षरतन्त्राणां प्रतिपेध- रूपाणां विशेषणानामपि यत्र क्वचिदप्युत्पन्नानां सर्वत्राक्षरेणाभिसंबन्ध: -- इति आनन्दादयः प्रधानस्येत्यस्य प्रपञ्चः ... २१. इयधिकरणम् ६७३–६७४ छत्रिन्यायवाक्यशेषन्याययोः मुख्यार्थसंभवेनानव- तारात्, द्वा सुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च वेद्यभेदेन विद्याभेद इति पूर्वपक्ष: उपक्रमोपसंहारानुरोधेन मध्यस्यापि नेयत्वात् ऐकविद्यम् इति सिद्धान्तः ... [ १६ ] अस्य योगस्य गुहाधिकरणप्रपञ्चत्वप्रदर्शनम् २२. अन्तरत्वाधिकरणम् ... ६७४-६७६ उषस्तकहोलप्रश्नयोरभ्याससामर्थ्याद्विद्याभेदे शङ्कि- ते — शतकृत्वोऽपि हि पथ्यं वदन्त्याप्ता इति न्या- येन वस्तुस्वरूपं पुनःपुनरुच्यमानमपि न दोष- अत एव ताण्डिनां षष्ठे नवकृत्वो Sप्युपदेशे न विद्याभेद: ; सर्वान्तरत्वविरोधश्च मावहति ; विद्यादपक्षे स्फुट एव इति विकत्वनिर्णयः ६७४ २३. व्यतिहाराधिकरणम् ६७६–६७८ ऐतरेयणां जाबालानां च व्यतिहाराम्नाने निकृष्टे जीवे उत्कृष्टरूपाभेदचिन्तनमेकरूपमेवेति प्राप्ते, व्यतिहारेण द्विरूपा मतिः कर्तव्या, वचनप्रा- माण्यात् : अन्वाचयशिष्टं तु तादात्म्यदा भ वनोपेक्षामहे - इति सिद्धान्त: २४. सत्याद्यधिकरणम् ६७८-६८० वाजसनेयक सत्यविद्यायां यक्षादित्यवाक्ययोः फल- संयोगभेदात् नित्यकाम्यदर्शपूर्णमासवत् द्वे सत्य- विद्ये इति पूर्वपक्षे – प्रधानफलसत्त्वे अने फल- श्रुतेरर्थवादत्वात् प्रधानविधौ च प्रकृते कमि- पदाभावेन रात्रिसत्रन्यायेन आर्थवादिकफल- कल्पनायां जातेष्टिवत् अगृह्यमाणविशेषतया , [ १७ ] संवलिताधिकारकल्पनाया औचित्यात्, प्रत्यभि- ज्ञाबलाच्च एकैव सत्यविद्या - इति सिद्धान्तः .. ६७८ वाजसनेयके छान्दोग्ये च अक्ष्यादित्यपुरुपविपया विद्या एकैवेति वाजसनेयिभ्यः सत्यादिगुणोपसं- हारं मन्यमानानां केपांचित् व्याख्यानमुद्भाव्य, छान्दोग्यविद्यायाः कर्माङ्गावबद्धाया अनुबन्धाभे- देsपि साध्यभेदात् भेद एवेति निरूपणेन तस्य निरसनम् २५. कामाद्यधिकरणम् ... .... ६८० - ६८१ दहरहार्दविद्ययोः सगुणनिर्गुणत्वेन भेदेऽपि, उभ- यत्र आत्मन एकत्वात्, सगुणविद्यासंबन्धिनां सत्यकामत्वादिगुणानाम् अन्यत्र स्तुत्यर्थमुपसंहारः; निर्गुणविद्यासंबन्धिनां वशित्वादिगुणानामितरत्र सत्यकामत्वादिनान्तरीयकतया प्राप्तिं द्रढयितुम् उपसंहारः - इति व्यवस्था २६. आदराधिकरणम् ६८१–६८४ वैश्वानर विद्यागतप्राणाग्निहोत्रस्य विषयत्वेनोपन्यासः ६८२ पदकमप्रयोजकं नयनस्य परार्थत्वात् ' इति न्यायेन भोजनप्रयुक्तभक्तागमनसंयोगेन श्रूयमाणा प्राणाहुति: भोजनाभावे न भक्तं प्रयोजयितुमीष्टे - इति पूर्वपक्षाभावशङ्काया उत्थापनम् s. Ww. III. 00 ... [१८] अतिथिभोजनस्य प्राथम्यनिन्दापूर्वकं स्वामिभोजनं समयादपकृष्य अतिथिभोजनस्य पुरस्ताद्विदधती जाबालश्रुतिः प्राथम्यलोपमप्य सहमाना नतरां धर्मिलोपं सहेत ; तद्यद्भक्तमित्यादिवाक्यं च भो- जनागत भक्तद्रव्यतागुणविशेषमुपदिशति ; पत्नी- संयाजवत् एकदेशद्रव्यसाधनस्यापि प्रयोजकत्वं संगच्छते ; अतश्च आधाने पवमानेष्टिषु अग्निहो- हवणीपेऽपि हविर्निर्वापालोपवत् भोजनलोपे- ऽपि न प्राणाग्निहोत्रलोप इति उक्तशङ्कानि- रसनपूर्वकं पूर्वपक्षस्योद्भावनम् ' तद्यद्भक्तम्' इत्यादिवाक्यं सिद्धवद्भक्तोपनिपात- परामर्शेन भोजनार्थद्रव्यसाध्यतां प्राणाहुतीनां वि- दधाति, न तु चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यम्, अग्निहोत्राङ्गानां सांपादिकत्वविरोधात्; अत 'उ- तरार्धात् स्विष्टकृते समवद्यति' इतिवदप्रयोजक- लक्षणापन्नानां प्राणाहुतीनाम्, ऋतुप्रयुक्तान्प्रणय- नाश्रितस्य गोदोहनस्य क्रतुलोपे लोपवत्, आमि- क्षार्थदध्यानयनलेोपे वाजिनलोपवच्च, भोजनलोपे लोप एवेति सिद्धान्त: २७. तन्निर्धारणाधिकरणम् *** ६८४–६८७ कर्माङ्गव्यपाश्रयाणाम् अनारम्याधीतानाम् उद्गी- थादिविज्ञानानां ' द्रव्यसंस्कारकर्मसु परार्थत्वात्फ- [१९] लश्रुतिरर्थवादः स्यात् ' इति न्यायेन रात्रिसत्र- न्यायगोचरादपनीयमानानां पर्णमयीत्वादिवत् नि- त्यता --- इति पूर्वपक्ष: ' उभौ कुरुत:' इति वचनम् अनित्यत्वं गमयति ; विद्वदविद्वत्प्रयोगयोः पृथक्करणेन कर्मणः पृथगेव विज्ञानस्य फलश्रवणम् नार्थवादमात्रं युक्तं प्रति- पत्तुम् ; अतः व्यापारात्मक विज्ञानानां पर्णतावै- लक्ष्ण्यात्, अनङ्गस्य ओंकारस्य उपासनं न सं- स्कार इति अञ्जनादिवैलक्षण्याच, गोदोहनादिव- दनित्यता- इति सिद्धान्तः २८. प्रदानाधिकरणम् ६८७—–६९० तत्तच्छ्रुत्यर्थी लोचनया वायुप्राणयोः स्वरूपाभेदे सि- , तद्विप्रयोपासनाया अप्यभेदः ; उत्पन्नाशिष्टश्च गुणो न भिन्द्यात् — इति प्रयोगस्याप्यैक्यम्- इति पूर्वपक्ष: सत्यपि विद्यैकत्वे राजादिगुणकेन्द्रप्रदानवत् अग्नि- होत्रा प्रयोगभेदो गुणभेदादाश्रयणीय एवेति सिद्धान्तः २९. लिङ्गभूयस्त्वाधिकरणम् ६९०-६९८ मनश्चिदादिसांपादिकानीनां यत्किंचित्करणेन सि- द्धि:- सदा सर्वैरनुष्ठेयता प्रसिद्ध संख्यातिरेकश्च-- [२०] इत्येवजातीयकैर्लिङ्गैः ः स्वातन्त्र्यम् - इति सिद्धा न्तप्रतिज्ञा मानसग्रहकल्पस्य दशरात्र संबन्धिनि द्वादशाह संव- न्धिनि वा दशमेऽहनि अङ्गत्ववत्, कियाप्रकर- णात्क्रियाशेषत्वमेवाग्निकल्पस्य ; लिङ्गत्वेनोपन्यस्तं च अन्यार्थदर्शनमात्रम् - इति पूर्वपक्ष: अतिदेशबलात् क्रियानुप्रवेशस्य दृढीकरणम् अवधारणश्रुतिः सातत्यदर्शनं लिङ्गम्, पुरुषसंबन्ध- परं वाक्यं च प्रकरणमपोद्य स्वातन्त्र्यमवगमयन्ति -- इति सिद्धान्तः मनोवृत्तिषु क्रियाङ्गानामनुबन्धस्य अन्यथानुपपत्त्या क्रत्वर्थत्वविघटनम् अङ्गावबद्धश्रुतितो वैरूप्यस्य समर्थनम् अतिदेशस्य विकल्पार्थत्वायोगात् क्रियानादरपर्य- वसायिनः अग्नित्वसामान्यमवलम्ब्य सिद्धान्तानुगु- समर्थनम् प्रकरणादुत्कर्षस्य उपष्टम्भकतया अवेष्टिन्यायस्य उपन्यास: मानसग्रहदृष्टान्तस्य विघटनम् पूर्वोत्तरभागयोः विद्याप्रधानत्वात् तन्मध्यपातिनो- ऽपि विद्याप्रधानत्वम् -- इति सिद्धान्तोपसंहारः ६९८ [ २१ ] ३०. शरीरे भावाधिकरणम् ६९८-७०२ देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् अधिकरणस्य तात्पर्यमुक्त्वा, अधस्तनतन्त्रोक्तेन सौत्रस्यास्य तद- स्तित्वस्य अपौनरुक्त्यं समर्थ्य, पूर्वोत्तरतन्त्रशे- .. पत्वं प्रतिपाद्य, पूर्वाधिकरणसंगतेश्च प्रदर्शनम् ६९८ देहात्मवादस्य सहेतुकमुद्भावनम् देहधर्मविलक्षणा ज्ञानादयः देहभावाभावित्वात् दे- हातिरिक्ताश्रयाः ; उपलब्धिरूपश्च आत्मा भूत- भौतिकातिरिक्त एव भवितुमर्हति - इति सिद्धान्तः ७०० ३१. अङ्गावबद्धाधिकरणम् ... ७०२-७०४ उद्गीथादिकर्माङ्गावबद्धा: प्रत्ययाः प्रतिवेदं स्वशा- खास्वेव व्यवतिष्ठेरन्, सांनिध्यात् — इति पूर्व- पक्षः उद्गश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् मन्त्रा- दिवत् सर्वशाखास्वनुवर्तेरन् - इति सिद्धान्तः ३२. भूमज्यायस्त्वाधिकरणम् ... ७०४-७०६ छान्दोग्ये वैश्वानरविद्यायां श्रुतयोः व्यस्तसमस्तो- पासनयोः उभयथाप्युपासनम् ; अगृह्यमाणविशे- प्रतया च न वैश्वानराधिकरणन्यायस्य अवकाशः इति पूर्वपक्ष: .... एकवाक्यतालाभाय वाक्यभेदपरिहाराय च सम- [ २२ ] स्तोपासनपरतैव संदर्भस्येति सिद्धान्तः ज्यायस्त्ववचनात् व्यस्तोपासनानुमतेः एकदेश्यभि- प्रेताया दूषणम् ... ३३. शब्दादिभेदाधिकरणम् ७०७-७०९ शाण्डिल्यदहरादिविद्यानां वस्तुनिष्ठताभ्रमेण अनुब- न्धभेदेऽप्यभेदं मन्यमानानाम् — विद्याकात्स्याय स्वपरशाखाविहितमेकवेद्यव्यपाश्रयं सर्वमपि गुण- जातमुपसंहर्तव्यमिति पक्षस्योद्भावनम् उपासनवाक्यानां कार्यनिष्ठतया शब्दादिभेदात् विद्याभेदे व्यवस्थिते, निरङ्कुशो गुणोपसंहारः अ- शक्यः अनुचितश्चेति सिद्धान्त: अस्याधिकरणस्य पादादावेव आर्थिकी संगतिरिति प्रतिपादनम् ३४. विकल्पाधिकरणम् ७०९-७१० समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव अ- ग्रहाणां याथाकाम्ये शङ्किते, उपास्यसाक्षात्कार- फलानामेतेषां विकल्प एव नियमवान् - इति निर्णयः ३५. काम्याधिकरणम् ७१०–७११ प्रतीकोपासनेषु याथाकाम्यनिर्णयः ... ३६. यथाश्रयभावाधिकरणम् ७११-७१४ अङ्गानां प्रयोगवचनेन समुच्चयनियमात् तदवब- [ २३ ] द्धानां पुरुषार्थानामपि समुच्चयनियम इति पूर्व - पक्षः प्रयोगविधिर्नानङ्गानामङ्गावबद्धोपासनानां संग्राहकः ; अङ्गतन्त्रत्वं चोपासनानां तदभावे अभाव एव, ननु तन्नियतसहभावः ; अतोऽङ्गावत्रद्धोपासनानां याथाकाम्यम् - इति सिद्धान्तः चतुर्थः पादः - अन्तरङ्गबहिरङ्ग- साधनविचारः १. परुषार्थाधिकरणम् सिद्धान्तेनोपक्रमः ... ... ७१७–७६० औपनिषदमात्मज्ञानमपवर्गसाधनतया पुरुषार्थमिति द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्या- दिति न्यायेन कर्तृसंस्कारद्वारा क्रत्वर्थमेवात्मज्ञा- नमिति जैमिनिमतेन पूर्वपक्ष: ब्रह्मविदां कर्माचारदर्शनस्य लिङ्गतया उपन्यासः ७१९ तृतीयाश्रुतेः, समन्वारम्भवचनस्य, वेदार्थज्ञान- वतः कर्मविधानस्य यावज्जीवं कर्मनियमस्य च उपन्यासः औपनिषदात्मज्ञानस्य ऋत्वनुष्ठानविरोधिनः क्रतुसं- बन्ध एव नास्ति - इति सिद्धान्तिनां प्रतिवि- धानम् [ २४ ] अकर्माङ्गत्वदर्शनस्य अनन्यथासिद्धस्य प्रतिपादनम् ७२३ तृतीयाश्रुतेः प्रकृतविद्यामात्राभिसंबन्धप्रदर्शनेन वि- घटनम् समन्वारम्भवचनं मुमुक्षुविषयमपि विभागेनावक- ल्पते, अविभागेनाप्यमुमुक्षुविषयमिति प्रति- पादनम् अध्ययनमात्रवत एव कर्मविधिः, न तु उपनिषद- ध्ययनवत इति लिङ्गान्तरस्य विघटनम् नियमश्रवणमविद्यावद्विषयम्, विद्वद्विषयमपि विद्या- स्तुत्यर्थे वा- इति परिहार: प्रत्यक्षीकृत विद्याफलानां स्वेच्छातः प्रजादित्यागलि- ङ्गात् अशेषक्रियादिविभागोपमर्दकत्वाच्च विद्याया: स्वातन्त्र्यमिति प्रतिपादनम् ऊर्ध्वरेतःसु चाश्रमेषु विद्याश्रवणात् मिथोव्यतिरे- किणोः विद्याकर्मणोर्नाङ्गाङ्गिभाव:- इति प्रति- पादनम् २. परामर्शाधिकरणम् ... ७२७–७३३ विध्यभावात् स्मृत्याचारप्रसिद्धेश्च प्रत्यक्षश्रुतिविरु- द्धाया अप्रमाणत्वात् नास्त्यूर्ध्वरेताः - इति प्र - . त्यक्षं जाबालानां पारिव्राज्यविधानमनपेक्ष्य आक्षेपः ७२७ सिद्धवत्परामर्शादपि शास्त्रान्तरविहितेन गार्हस्थ्येन तुल्यवदाश्रमान्तरमप्यभिदधतः आश्रमान्तरस्य [ २५ ] अनुष्ठेयता प्रत्येतुं शक्यते इति सिद्धान्तः ७२९ उपरिधारणवत् अपूर्वत्वात् आश्रमपरामर्शश्रुतिः विधिरेवेति प्रतिपादनम् परामर्शऽपि इतरेषामाश्रमाणां संस्तवसामर्थ्यात् ब्रह्मसंस्थता विधातव्या - इति पक्षान्तरम् चतुर्वाश्रमेषु यस्य कस्यचित् ब्रह्मसंस्थता -- इति पक्षमुद्भाव्य - यज्ञाद्यसाधारणधर्मद्वारा आश्रमा- न्तरवत् ब्रह्मसंस्थशब्देनैव ब्रहानिष्ठाप्रधानश्चतुर्थी- श्रम ते पृथग्व्यपदेशश्च ब्रह्मसंस्थं पूर्वोक्तेभ्य आश्रमिभ्यो भिन्नमवगमयति ; यौगिकोऽप्ययं ब्रह्मसंस्थशब्दः असंभवात् अप्रकृते वर्तयितव्यः- इति निष्कर्षः ३. स्तुतिमात्राधिकरणम ७३४-७३५ रसतमत्वादीनां कर्माङ्गसंस्तवार्थतामाशङ्क्य विध्य- र्थताया निर्णय: ४. पारिवाधिकरणम् ७३५–७३६ उपनिपदाख्यानानां ' सर्वाण्याख्यानानि पारिप्लवे ' इति सर्वश्रुतिलात् पारिप्लवार्थतामाशङ्कय, सर्व- शब्दस्य ' मनुर्वैवस्वतो राजा' इत्येवं पारिप्ल- वेन विशेषितान्येव आख्यानान्यपेक्ष्य प्रवृत्तत्वात् विद्यानिधिरप्रतिद्वन्दी विद्यैकवाक्यतां गमयतीति सिद्धान्तः S. W. III. 00a [ २६ ] ५. अग्नीन्धनाद्यधिकरणम् आश्रमकर्माणि विद्या स्वार्थसिद्धौ नापेक्षितव्या- नि- इत्याद्याधिकरणफलस्य उपसंहारः, न तु स्वसिद्धौ – इत्यधिकविवक्षया ६. सर्वापेक्षाधिकरणम् ... ७३७-७४० प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञान- स्य कर्मापेक्षेति पूर्वपक्ष: योग्यतावशेन उत्पत्तौ विद्यया कर्माण्यपेक्ष्यन्ते---- इति सिद्धान्तः महावाक्यैकवाक्यतावष्टब्धं वर्तमानापदेशाभिनिवेशं 'तस्मात्पूषा ' इत्यादाविव अपूर्वत्वादवान्तरवि- धानस्य समर्थनेन शिथिलीकृत्य, शमादीनां यज्ञादीनां च साधनभावस्य विद्याविविदिषासंयो- गभेदात् अन्तरङ्गबहिरङ्गतानिरूपणेन विवेचनम् ७३८ ७. सर्वान्नानुमत्यधिकरणम् ७४०-७४३ सर्वान्नाभ्यनुज्ञानं प्राणसंवादे श्रूयमाणं भक्ष्याभक्ष्य- विभागशास्त्रस्य सामान्यतः प्रवृत्तस्य बाधकं प्रवृ- त्तिविशेषकरतालाभेन विधीयमानमेवाश्रीयेत - इति पूर्वपक्ष: न हि कौलेयक मर्यादमन्नं मनुष्यजातिना युगपत् पर्यायेण वा शक्यमत्तुम् - इति प्राणान्नविज्ञान - ७४. [ २७ ] प्रशंसार्थ एवायमर्थवाद इति सिद्धान्तः आदि प्राणरक्षार्थमेव सर्वान्नाभ्यनुज्ञानमित्यत्र स्मृतेः श्रुतेश्च उपन्यासः ८. आश्रमकर्माधिकरणम् योगस्य निष्कर्ष: ७४३-७४५ संयोगपृथक्त्वन्यायेन आश्रमकर्मणां नित्यानित्यसं- प्रकरणान्तराधिकरणन्यायगोचरात् ' तमेतं वेदानुव चनेन... इत्यादिवाक्योपात्तकर्मणामपनयनम् ७५४ ९. विधुराधिकरणम् ७४५-७४७ दृष्टार्थाच विद्या प्रतिषेधाभावमात्रेणापि अर्थिनम- धिकरोति श्रवणादिपु — इति, रैक्कवाचक्नवीप्रभृ- तीनां निदर्शनेन आश्रमधर्माभावेऽपि वर्णधर्मवि- शेषाणामनुग्रहेण च विधुरादीनां विद्यायामधि- कारस्य समर्थनम् १०. तद्भूताधिकरणम् ७४७-७४८ आरोहवत्प्रत्यवरोहोऽपि कदाचित् उर्ध्वरेतसां स्यात् इति मन्दाशङ्कायाः आरोहनियमस्य तत्तुल्यता- भावस्य शिष्टाचाराभावस्य च व्याख्यानेन प्रत्या- ख्यानम् ११. आधिकारिकाधिकरणम ... ७४८-७४९ भ्रष्टोर्ध्वरेतसः प्रायश्चित्तमस्ति ; स्मार्त प्रायश्चित्ताद- [ २८ ] र्शनं तु यत्नगौरवार्थम् — इति प्रतिपादनम् .. ७४८ १२. बहिरधिकरणम् कृतनिर्णेजनस्याप्यारूढपतितस्य अव्यवहार्यतायाः प्रतिपादनम् १३. स्वाम्यधिकरणम् نه بای ७५१-७५२ उत्सर्गतः फलस्य यजमानगामित्वेऽपि परिक्रीते- नानुष्ठितं स्वामिनः फलायेत्युपपत्तेः अङ्गध्यानम् आर्त्विज्यमिति निष्कर्षः १४. सहकार्यन्तरविध्यधिकरणम् ' " ७५२-७५५ 'अथ मुनि: ' इत्यत्र मौनं ज्ञानातिशयरूपम् अनु- त्पन्नविद्यातिशयं संन्यासिनमधिकृत्य मा भूत् भेद- दर्शनोपरोध इति, विधिविभक्त्यश्रवणेऽपि विधी - यमानमास्थेयम् विधिमुख्ये सहकारितया समि- दादिर्विध्यन्त इव — इति निष्कर्षः छान्दोग्ये गार्हस्थ्येनोपसंहारः बहुलायाससाध्यकर्म - बहुलत्वात् आश्रमान्तरधर्मसमवायाच्च तस्य, न ... पुन: तेन समापनात् - इति प्रतिपादनम् ७५४ १५. अनाविष्काराधिकरणम् 6 ... ७५५-७५६ 'बाल्येन तिष्ठासेत्' इत्यत्र बाल्यं न कामचारवाद- भक्षणता यथोपपादमूत्रपुरीषत्वं चेति सकला बा- [ २९ ] लचर्या, प्रधानविरोधात्; किंतु अप्ररूढेन्द्रियत्वा- दिरान्तरो भावविशेषः- इति निष्कर्षः ... १६. ऐहिकाधिकरणम् ७५७-७५९ न हि कुम्भदिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरी- याय कुम्भदर्शनाय, किंतु तादात्विकाय; तथा च ऐहिकमेव विद्याजन्मेति पूर्वपक्ष: श्रवणादिद्वारेणापि विद्योत्पद्यमाना प्रतिबन्धक्षयापे- क्षयैव उत्पद्यत इति ऐहिकामुष्मिकं विद्याज- न्मति श्रुतिस्मृत्युपन्यासेन सिद्धान्तः १७. मुक्तिफलाधिकरणम ७५९–७६० विद्यात्वं सामान्यतो दृष्टमवलम्ब्य मुक्तावपि उत्क- पीपकप स्यातामिति प्राप्ते, आगमतत्प्रभवयु- तिवाधितत्वेन ब्रह्मरूपायां मुक्त्यवस्थायां न को- ऽप्यतिशयोऽवकाशं लभते - इति सिद्धान्तः ७५९ चतुर्थोऽध्यायः - फलाश्रयविचारः ७६१ -- ८६२ प्रथमः पादः -- जीवन्मुक्तिनिरूपणम् ७६३ - ७९६ अत्यन्तपरोक्षमुक्तिलक्षणफलार्थानि श्रवणादीनि या- १. आवृत्त्यधिकरणम् वद्विधानमेवानुष्ठेयानीति पूर्वपक्ष: टार्थानि भवन्ति - इति सिद्धान्तः दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि ह- [३०] उद्गीथध्यानावृत्तिलिङ्गेन सिद्धान्तस्य दृढीकरणम्... ७६७ साध्येऽनुभवे अर्थवत्यपि प्रत्ययावृत्तिः न तथा भवितुमर्हत्यसाध्ये निर्विशेषब्रह्मानुभवे – इत्याक्षेप: ७६७ वेदान्तार्थज्ञानाभ्यासाहितसंस्कारसचिवेन अन्त:- करणेन जीवस्य ब्रह्मस्वभाव: समीक्षितुमलम् - - इति परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वात्र- त्तिसिद्धिः इति समाधिः २. आत्मत्वोपासनाधिकरणम् ७७२-७७५ तत्त्वमसीत्याद्याः संसारिणः परमात्मनश्च विरुद्धध- संसर्गेण नानात्वविनिश्वयात् प्रतीकोपदेशा एवे- ति पूर्वपक्ष: नेदं प्रतीकदर्शनम्, आत्मत्वेनोपगमात् तथैवो- भेददृष्टयपवादाच्च — इति सिद्धान्तः पदेशात्, गौणत्वप्रसङ्गात् ३. प्रतीकाधिकरणम् - वाक्यवैरूप्यात्, ७७५–७७६ 'मनो ब्रह्म' इत्यादिषु सर्वत्र ' अहं मनः ' इत्या- दि द्रष्टव्यम्, ब्रह्मणो मुख्यमात्मत्वमिति ; उपपन्नं च मनः प्रभृतीनां ब्रह्मविकारत्वेन तादात्म्यम्- इति पूर्वपक्ष: ... 'यावद्वचनं वाचनिकम् ' इति न्यायात् उपासना- वाक्यानां तत्त्वमस्यादिसंदभैरेकवाक्यत्वाभावाच्च न प्रतीकेष्वात्मदृष्टिः - इति सिद्धान्तः [ ३१ ] ४. ब्रह्मदृष्ट्यधिकरणम् ७७६-७७९ ब्रह्मणः प्रधानस्य आदित्यादिदृष्टिभिः संस्कर्तव्य तैव शास्त्रार्थ इति पूर्वपक्ष: ... शब्दगत्यनुरोधेन प्राधान्यनिर्णये, शास्त्रार्थे च संदि- ग्धे लोकानुसारतोऽपि निर्धारणस्य संभवात्, इति परस्य ब्रह्मशब्दस्य प्रतीतिपरत्वाच्च ब्रह्मदृष्टि- रेव आदित्यादिषु स्यात् - इति सिद्धान्तः ५. आदित्यादिमत्यधिकरणम् ... ७७९–७८२ अङ्गावबद्धोपासनेषु उत्कर्षानवधारणादनियमः अ- थवा फलसंनिकर्षबलात् अनङ्गेष्वेव अङ्गमतिरिति पक्षावुद्भाव्य, आदित्यादि मतीनाम् उद्गीथादिषु संस्कारकत्वेन उपयोगोपपत्तेः अनङ्गबुद्धया अङ्गा- न्येव उपास्यानि - इति सिद्धान्तः ६. आसीनाधिकरणम् ... ७८२-७८४ मानसमुपासनं न प्रतीक्षते शरीरस्थितेर्नियमम्- इत्याक्षिप्य समानप्रत्ययप्रवाह करणविरुद्धत्वादास- नातिरिक्तशरीरस्थिते: आसीनकर्मैव उपासनमिति सिद्धान्तः ७. एकाग्रताधिकरणम् दिग्देशकालेषु अर्थलक्षण एव नियम इति सुहृ- द्भावेन उपदेश: [ ३२ ] ७८५-७८६ प्रतिपत्तव्यफलभावनात्मकेषु प्रत्ययेषु आप्रायणादा- ८. आप्रायणाधिकरणम् वृत्तिरिति निष्कर्षः ९. तदधिगमाधिकरणम् ७८६–७८९ शास्त्रव्याकोपप्रसङ्गात् मोक्षस्यापि देशकालनिमित्ता- पेक्षतयोपपत्तेः ब्रह्माधिगमेऽपि न दुरितनिवृत्तिः इति पूर्वपक्ष: 'नाभुक्तं कर्म क्षीयते ' इत्यादि शास्त्रमप्रतिबद्ध- सामर्थ्यकर्माभिप्रायम् — इति, ब्रह्माधिगमे उत्त- रपूर्वयोर्दुरितयोरनभिसंबन्धविनाशाविति सिद्धान्तः ७८७ १०. इतरासंश्लेषाधिकरणम् ७८९-७९० विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वात् न धर्मस्य ब्रह्मज्ञानेन उच्छेद इति संभावनायाम्, टेनैव अशेषविशेषप्रविलयद्वारेण ब्रह्मज्ञानमुच्छि- न्द्यात् सुकृतमपि, पाप्मश्रुत्या च पुण्यमपि ग्रहीत- व्यम् - इति निर्णयः ११. अनारब्धाधिकरणम् ७९०-७९१ आरब्धविपाकस्य कर्मजातस्य समुदाचरद्वृत्तितया इतरेभ्यः प्रसुप्तवृत्तिभ्यः बलवत्त्वात् चिरतानुवा- देन देहपाता धेरेव विधायकम् ' तस्य तावदेव चिरम्' इत्याद्यागममनुसृत्य प्रारब्धविपाकानां [ ३३ ] कर्मणा प्रक्षयाय तदीयसमस्तफलोपभोगः प्रती- क्ष्यत एव सत्यपि तत्त्वसाक्षात्कारे इति निर्णयः ७९० ब्रह्मविद्यासामर्थ्यादारादुपकारकाणां नित्यनैमित्तिकानां १२. अग्निहोत्राद्यधिकरणम् कर्मणां नोच्छेदः इति निष्कर्ष: १३. विद्याज्ञानसाधनत्वाधिकरणम् ७९३–७९५ विद्यारहितस्यापि कयापि मात्रया परविद्योत्पादोप- योगोऽस्त्वेति विद्यारहितमपि यज्ञादि परविद्यार्थि- नानुष्ठेयमिति निर्णय: १४. इतरक्षपणाधिकरणम् अनारब्धकार्य इत्यत्र नञः फलस्य भोगेनारब्धकर्म- निवृत्तेः स्फुटीकरणम् द्वितीयः पादः - उत्क्रान्तिक्रमः १. वागधिकरणम् ... ७९७–८१८ ७९९-८०१ 'वाङ्मनसि संपद्यते ' इत्यत श्रत्यनुग्रहाय वाच एव मनसि लय इति पूर्वपक्षस्य - परत्र अविभागवचनात् दृष्टानुसारेणागमस्य अंभेदोपचारपरत्वात् वाग्वृत्ति- रेव मनसि संपद्यते — इति समाधानम् उक्तयुक्त्या चक्षुरादीन्यपि वृत्तिद्वारैव मनसि संप- - द्यन्ते इति प्रतिपादनम् S. W. III. 000 २. मनोऽधिकरणम् 6 [ ३४ ] ८०१-८०२ ' मनः प्राणे : इत्यत्र अन्नमयं हि सोम्य मनः इत्यादिश्रुत्या प्रकृतिविकारभावसंभवात् मनस एव प्राणे लय इति पूर्वपक्षं प्रापय्य, सुषुप्स्वादौ मनो- वृत्तीनामेवोपशमदर्शनात् उक्तश्रुत्या च साक्षात्प्र- कृतिविकारभावाभानात् मनः वृत्तिद्वारैव प्राणे प्र- लीयत इति सिद्धान्तः ३. अध्यक्षाधिकरणम् ८०२ - ८०५ ' प्राणस्तेजसि ' इत्यत्र यथाश्रुति प्राणवृत्तेः भूतवि- शेषे लय इत्याशङ्कायाः - श्रुत्यन्तरगतस्यापि विशे- स्यापेक्षणीयत्वात् प्राणः विज्ञानात्मन्यवतिष्ठते तदु- पगमानुगमावस्थानश्रुतिभ्यः इति निरसनम् ८०२ ' प्राणस्तेजसि ' इत्यत्र प्राणसंपृक्ताध्यक्षस्यैव ग्रहण - मिति निर्णय: ... कार्यस्य शरीरस्यानेकात्मकत्वात् अनेकात्मकेनैव का- रणेनापि भाव्यमिति तेजः पदं तत्सहचरितसूक्ष्म- भूतपञ्चकोपलक्षणमिति निर्णयः ४. आमृत्युपक्रमाधिकरणम् .... ८०५-८०६ अपरब्रह्मविद्यावतस्तद्रहितस्य च समानैवैषा उत्क्रा- न्तिः, आ कार्यब्रह्मलोकप्राप्तेर्विद्योपक्रमात् अवि- शेषश्रवणाच्च इति निष्कर्षः [३५] ५. संसारव्यपदेशाधिकरणम् ८०७-८०८ मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विसं- सितुमर्हतीति परस्यां देवतायामियं संपत्तिः बीजभा- वावशेषैव - इति निर्णयः नाडी निष्क्रमणश्रवणादिना सूक्ष्मशरीरमेव प्रवसतो जीवस्य आश्रयभूतमिति निर्णय: ६. प्रतिषेधाधिकरणम् 5 ... आत्यन्तिकेऽप्यमृतत्वे ' न तस्मात् प्राणाः' इति शाखा- न्तरीयश्रुतिमवलम्ब्य अस्त्युत्क्रान्तिरिति पूर्वपक्ष: प्राप्तिपूर्वः प्रतिषेधो भवति अविदुषो हि देहादुत्क्रमणं दृष्टमिति तत्सामान्याद्विदुषोऽपि प्राप्ते उत्क्रमणे प्र- तिषेध उपपद्यते — इत्यतो नास्त्युत्क्रान्तिरात्यन्ति- कामृतत्वे इति सिद्धान्तः ७. वागादिलयाधिकरणम् RO. ... परब्रह्मविदः परस्मिन्नेवात्मनि प्राणादीनां प्रविलय इति प्रतिपादनम् ८. अविभागाधिकरणम् ... अविद्यानिमित्तानां कलानां न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिरिति उपदेश: ९. तदोकोऽधिकरणम् ८१३-८१४ विद्यासामर्थ्यात् मूर्धन्ययैव शताधिकया नाड्या वि- [ ३६ ] द्वान् निष्क्रामति, इतराभिरितरे इति निर्णय: १०. रश्म्यधिकरणम् ८१५-८१६ रात्रावहनि च म्रियमाणो विद्वानविशेषेण रश्म्यनुसारी सन् आदित्यमण्डलं प्राप्नोतीति सिद्धान्तप्रतिज्ञा ८१५ रात्रौ मृतस्य नाडीरश्मिसंबन्धाभावात् नास्ति रश्म्यनु- सारित्वमिति शङ्कामुद्भाव्य, यावद्देहभावित्वान्नाडीर- रिमसंबन्धस्य अविशेषेण वर्ण्यमानरश्म्यनुसारसार्थ- क्याय च रात्रिंदिवं रश्म्यनुसारित्वमिति तन्निरास: ११. दक्षिणायनाधिकरणम् ८१६—८१८ अपाक्षिकफलत्वाद्विद्याया अनियतकालत्वान्मृत्योः द- क्षिणायनेsपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफ- लम् - - इत्युपपादनम् 'यत्र काले ' इत्यादिस्मृत्या अहरादिकालविशेषनि- - यमशङ्काया:- श्रुतिस्मृत्योरातिवाहिककालप्राधा- न्यविषयभेदव्यवस्थया, प्रत्यभिज्ञाने च कालद्वारेण आतिवाहिक्य एव उक्ता इति उभयथाप्यविरोधः इति परिहार: तृतीयः पादः - अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयः १. अचिराद्यधिकरणम् ... ८१९--८४३ ८२१–८२३ नानाशाखास्वनेकधा श्रूयमाणा अर्चिरादिकाः सृतयः [३७] भिन्नप्रकरणस्थत्वात् भिन्नोपासनायोगाच्च मिथः अनपेक्षा इति पूर्वपक्ष: सर्वत्र गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च इतरेत- रविशेषणविशेष्यभावोपपत्तेः एकैव अर्चिरादिका सृ- ति: अनेकविशेषणा ब्रह्मलोकप्रपदनी - इति सिद्धान्तः ८२२ ८२३-८२५ यदा वै पुरुषोऽस्माल्लोकाद्यैति ' इत्यादिश्रुत्या अ- ब्दादित्ययोरन्तराले वायोर्निवेशः -- इत्यादिना ग तिविशेषणानां संनिवेशविशेषस्य सुहृद्भूत्वा उपदेशः ८२४ २. वाय्वधिकरणम् ३. तडिदधिकरणम् विद्युद्वरुणयोः संबन्धविशेषसत्त्वात् विद्युत उपरिष्टात् वरुणः संबद्धयते, 'आगन्तूनाम्' इति न्यायेन वरुणादधि इन्द्रप्रजापती- इत्युपदेशः ४. आतिवाहिकाधिकरणम् ४२६-४२९ अर्चिरादयः मार्गचिह्नसरूपत्वात् चिह्नान्येव ; अथ- ... वा लोकरूपत्वात् भोगभूमयः - इति पूर्वपक्ष: ८२६ ' तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति' इति लिङ्गात् संपिण्डितकरणानां सूक्ष्मदेहवतां गतौ स्वातन्त्र्याभावाच्च देवतात्मान: आतिवाहिका एव अचिरादयः इति सिद्धान्तः वरुणादयस्तु अप्रतिबन्धकरणादिना अनुग्राहका एव, तत्प्रभृति अमानव पुरुषेणैव वहनात् - इति निर्णयः ८२८ ५. कार्याधिकरणम् [३८] ८२९–८४१ ' स एनान्ब्रह्म गमयति' इत्यत्र किं कार्यमपरं ब्रह्म गमयति, आहोस्वित् परमेव मुख्यं ब्रह्म - इति वि- चिकित्सायां अप्राप्तप्रापणी गतिः न नित्यप्राप्तं परं ब्रह्म गमयितुमीष्टे, अपि तु अप्राप्तपूर्वत्वात् कार्य- मपरमेव- इति तत्त्वदर्शी बादरिर्ददर्श- इति अर्थक्रमानुसारेण सिद्धान्तः परब्रह्मसामीप्यात् अपरब्रह्मणि ब्रह्मशब्दोपपत्ति:- इति कथनम् ... कार्यब्रह्मलोकं गतस्य अनावृत्त्यादिश्रुत्यभिधानेभ्यः क्रममुक्तिः प्रत्येतव्या - इति प्रदर्शनम् ब्रह्म-शब्दस्य परब्रह्मणि मुख्यत्वात्, अमृतत्वफलदर्श- नात्, परप्रकरण एव प्रजापतिसद्मप्रतिपत्त्यादिश्र- वणाच्च परब्रह्मविषया गतिश्रुतयः --- इति जैमिन्य- भिमतः पूर्वपक्ष: ... पूर्वत्वात् पूर्वाणि पूर्वपक्षसूत्राणि ---इति केचिन्मतसि- द्धान्तानुवादः ... ' निष्कलं निष्क्रियम् ' इत्यादिना प्रतिषिद्धसर्ववि- शेषस्य ब्रह्मणः गन्तव्यत्वानुपपत्तिप्रदर्शनम् जगदुत्पत्त्यादिहेतुत्वश्रुत्या ब्रह्मणः अनेकशक्तित्वम्- इति शङ्कायाः सफलानन्यपरविशेषनिराकरण श्रुत्यनु- रोधेन अफलान्यपरोत्पत्त्यादिश्रुतेः तच्छेषत्वात् न तद- [ ३९ ] नुरोधेनानेकशक्तियोगो ब्रह्मणः - इति समाधानम्... ८३४ गतेर्विचारासहत्वादपि अनुपपत्तिप्रदर्शनम् अयल सिद्धो मोक्ष इति कर्मिणां मतमुपन्यस्य तस्य शास्त्रप्रमाणकत्वाभावात् स्वमनीषाकल्पितत्वात् उ पपत्तिरहितत्वाच्च अनुपादेयत्वोपपादनम् सर्वव्यवहाराणां प्राक्प्रबोधात् उपपत्त्युपन्यासः स्वमतोपन्यासोपसंहारः गतिश्रुतीनां सगुणविद्याविषयत्वप्रपञ्चनम् ६. अप्रतीकालम्बनाधिकरणम् ... ... ८४२–८४३ ... विकारालम्बनेषु मध्ये प्रतीकालम्बनान्वर्जयित्वा सर्वा नपि अमानवः पुरुषः ब्रह्म गमयति- इति निर्णय: ८४२ फलविशेषदर्शनाच्च न प्रतीकालम्बनानाम् इतरैस्तु- ल्यफलत्वम् - इति निरूपणम् चतुर्थः पादः - ज्ञानोपासनयोः फल- निर्णयः १. संपद्याविर्भावाधिकरणम् ८४५-८६२ ' एवमेवैष : ... स्वेन रूपेणाभिनिष्पद्यते ' इत्यत्र स्वेन इति विशेषणस्यावैयर्थ्याय केवलेनैवात्मरूपेण अ- भिनिष्पद्यते - इति निर्णयः जाग्रदाद्यवस्थात्रये तुरीयावस्थायां च बद्धत्वमुक्तत्व- कृतविशेषप्रतिपादनम् [ ४० ] ' परं ज्योतिरुपसंपद्य ' इत्यत्र ज्योतिः शब्दस्य भौ- तिकपरत्वमाशङ्कय, प्रकरणात् तस्य आत्मपरत्वव्य- वस्थापनम् २. अविभागाधिकरणम् ... स्वेन रूपेणाभिनिष्पद्यते यः स परेणात्मना अविभ- " क्त एवावतिष्ठते, 'तत्त्वमसि' इत्यादिवाक्यैः तथा दृष्टत्वात् इति समर्थनम् ३. ब्राह्माधिकरणम् ... ८५१ - ८५२ 'स्वेन रूपेण ' इत्यत्र अपहतपाप्मत्वादिना स्वेन ब्राह्मेण रूपेण अभिनिष्पद्यते, 'य आत्मा' इत्या- द्युपन्यासादिभ्यः — इति जैमिन्याचार्यमतोपन्यासः ८५१ निरस्ताशेषप्रपञ्चेन अव्यपदेश्येन चैतन्यमात्रात्मना अभिनिष्पद्यमानस्य मुक्तात्मनः अर्थशून्यैरेव अप- हतपाप्मादिशब्दैः व्यपदेश: - इति औडुलोम्याचा- तोपन्यासः ... सत्यकामत्वादीनाम् औपाधिकत्वेऽपि तच्छ्रुतीनां व्या- वहारिकं प्रामाण्यमपेक्षणीयमिति बादरायणाचार्या- भिप्रेतः सिद्धान्तः ८५३-८५४ ४. संकल्पाधिकरणम् 'संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ' इत्यादी एव- कारश्रवणात्, प्राकृतसंकल्पविलक्षणत्वाच्च मुक्तसं- [ ४ ] कल्पस्थ, संकल्पादेव केवलम विवादसमन्धानम्- इति निर्णय: ५. अभावाधिकरणम् " : ... ८५४-८५६ संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यत्र विदुषः संकल्पसाधनमनसः सत्त्वेऽपि किं शरीरेन्द्रियाणि सन्ति, न वा सन्तीति समीक्षायाम् एवकारेण मन- सा इति विशेषणाच देहेन्द्रियाणां अभावो विदुषः - इति बादरिमतप्रदर्शनम् स एकधा भवति' इत्यादिना अनेकविधता न विना शरीरभेदेन आञ्जसी — इति सेन्द्रियस्य श- रस्य सद्भावो जैमिन्यभिमत इति प्रदर्शनम् ... बादरायणस्त्वाचार्यः उभयलिङ्गश्रुतिदर्शनात् उभ- बघत्वं साधु मन्यते —— इति सिद्धान्तः ६. प्रदीपाधिकरणम् ८५.४ ८५६-८५७ विदुषः सशरीरत्वपक्षे त्रिधाभावादिषु अनेकशरीर सर्गे किं निरात्मकानि शरीराणि सृज्यन्ते, किं वा सात्म- कानि इति विशये ' त्रिधा भवति पञ्चधा भवति ' इत्यादिश्रुत्या एकोऽपि सन् विद्वान् ऐश्वर्ययोगात् प्रदीपवदनेकभावमापद्य सर्वशरीराण्याविशतीति सा- त्मकानि सर्वशरीराणि इति निष्कर्षः विशेषविज्ञानाभाववचनानि सुषुप्तमुक्तान्यतरावस्थामपे- S. W. III. 0000 क्ष्य, [ ४२ ] न तु सगुणविद्याविपाकस्थानमवस्थान्तरम् - इति प्रदर्शनम् ७. जगद्व्यापाराधिकरणम् ... ८५८—–८६२ तत्रभवन्तं परमेश्वरं प्रकृत्यैव जगत्स्रष्टृत्वादिश्रुतीनां प्रवृत्तेः, समप्रधानानां नियमेनैकमत्यादर्शनाच्च ज- गद्वयापारं विहाय अन्यदणिमाद्यैश्वर्य परमेश्वरायत्तं सगुणोपासकानाम् ईश्वरसायुज्यं व्रजतां विदुषाम्- इति निर्णयः 'तावानस्य महिमा' इत्यादिश्रुत्या द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य यथा सगुण एवावतिष्ठन्ते वि- द्वांसः, एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सा- वग्रह एव अवतिष्ठन्ते --- इति प्रतिपादनम् एवं सति सातिशयैश्वर्यस्यान्तवत्त्वात् सत्संपन्नानाम् आवृत्तिप्रसक्तिरिति शङ्कायाम् — ये नाडीरश्मिसं- बन्धपूर्वकमर्चिरादिपर्वणा देवयानेन पथा ब्रह्मलोकं गच्छन्ति, तेषां ' न च पुनरावर्तते' इत्यादिश्रु- तिभ्यः न पुनरावृत्तिः - इति समाधानम् सम्यग्दर्शनविध्वस्ततमसां तु सिद्धैव अनावृत्तिरिति प्रतिपादनम् ... 1 श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ S. W. III. 1 तृतीयाध्याये द्वितीयः पादः द्वितीयः पादः ॥ Sourishunker Gancriwala. अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य JOBOL जीवस्य संसारगतिप्रभेदः प्रपश्चितः ; इ- दानीं तस्यैवावस्थाभेदः प्रपञ्च्यते । इ- दमामनन्ति - ' स यत्र " इत्युपक्रम्य ' न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते ' इत्यादि । तत्र संशयः- किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टि:, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपद्यते- - संध्ये सृष्टिराह हि ॥ १ ॥ संध्ये सृष्टिरिति ; संध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् - 'संध्यं तृतीय‍ स्वप्नस्थानम्' इति ; द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयो- १. संध्याधि- करणम् । र्वा संधौ भवतीति संध्यम्; तस्मिन्संध्ये स्थाने, तथ्यरूपैव सृष्टिर्भवितुमर्हति ; कुत: ? यतः प्रमाण- भूता श्रुतिरेवमाह-- ' अथ रथान्रथयोगान्पथः सृजते ' सूत्रभाष्ये [ पा. २. इत्यादि ; ' स हि कर्ता' इति च उपसंहारात् एवमेवाव- गम्यते ॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ अपि च एके शाखिनः अस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति - ' य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:' इति पुत्रादयश्च तत्र कामा अ- भिप्रेयन्ते - काम्यन्त इति । ननु कामशब्देनेच्छाविशेषा एवो- च्येरन् ; न, ' शतायुषः पुत्रपौत्रान्वृणीष्व ' इति प्रकृत्य अ- न्ते 'कामानां त्वा कामभाजं करोमि' इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् । प्राज्ञं चैनं निर्मातारं प्र- करणवाक्यशेषाभ्यां प्रतीम:- - प्राज्ञस्य हीदं प्रकरणम् -' अ- न्यत्र धर्मादन्यत्राधर्मात्' इत्यादि; तद्विषय एव च वाक्य - शेषोऽपि - ' तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोका: श्रिताः सर्वे तदु नात्येति कश्चन' इति । प्राज्ञकर्तृका च सृ- ष्टिस्तथ्यरूपा समधिगता जागरिताश्रया, तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ; तथा च श्रुतिः - ' अथो खल्वाहुर्जागरि- तदेश एवास्यैष इति यान्येव जाग्रत्पश्यति तानि सुप्तः' इति स्वप्नजागरितयोः समानन्यायतां श्रावयति । तस्मात्तथ्यरूपैव संध्ये सृष्टिरिति ॥ सू. ३.] तृतीयोऽध्यायः । एवं प्राप्ते, प्रत्याह- मायामात्रं तु कात्स्न्येनानभिव्यक्त- स्वरूपत्वात् ॥ ३ ॥ - तु-शब्द: पक्षं व्यावर्तयति । नैतदस्ति यदुक्तम्, सं- ध्ये सृष्टिः पारमार्थिकीति ; मायैव संध्ये सृष्टिः, न परमार्थ- गन्धोऽप्यस्ति कुतः ? कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् न हि कात्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः ; किं पुनरत्र कास्यमभिप्रेतम् ? देशकालनिमित्तसंपत्ति: अ- बाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने संभाव्यन्ते— न तावत्स्व रथादीनामुचितो देशः संभवति ; न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन्; स्यादेतत् - बहि- देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात्; दर्शयति च श्रुति: बहिर्देहात्स्वप्नम् — 'बहिष्कुलायादमृतश्चरित्वा । स ईयते ऽमृतो यत्र कामम्' इति ; स्थितिगतिप्रत्ययभेदश्च न अनि- ष्क्रान्ते जन्ती सामञ्जस्यमश्नुवीत - इति । नेत्युच्यते न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्य संभाव्यते; कचित्र प्रत्या- ." ' सूत्रभाष्ये [ पा. २. गमनवर्जितं स्वप्नं श्रावयति - कुरुष्वहमद्य शयानो निद्रया- भिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च - इति ; देहाश्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत; तानसावभिगत इति; कुरुष्वेव तु प्रतिबुध्यते येन च अयं देहेन देशान्त- रमनुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्य- न्ति ; यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति; परिधावंश्चेत्पश्येत्, जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम्— ' स यन्त्रैतत्स्वप्न्यया चरति' इत्युपक्रम्य 'स्वेश- रीरे यथाकामं परिवर्तते ' इति । अतश्च श्रुत्युपपत्तिविरोधा- द्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृतश्चरित्वेति-यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थितिगतिप्र- त्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥ i कालविसंवादोऽपि च स्वप्ने भवति-— रजन्यां सुप्तो वासरं भारते वर्षे मन्यते ; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते ; करणो- पसंहाराद्धि नास्य अश्वरथादिग्रहणाय चक्षुरादीनि सन्ति ; सू. ४.] तृतीयोऽध्यायः । रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा । बाध्यन्ते चैते रथाश्वादय: स्वप्नदृष्टाः प्रबोधे ; स्वप्न एव च एते सुलभावाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनातू- रथोऽयमिति हि कदाचित्स्वने निर्धारितः क्षणेन मनुष्यः संपद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् - --pond 'न तत्र रथा न रथ योगा न पन्थानो भवन्ति' इत्यादि । तस्मान्माया- मात्रं स्वप्रदर्शनम् ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदुः ॥ ४ ॥ 6 मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति- नेत्युच्यते - सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्व- साधुनोः ; तथाहि श्रूयते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्रनिदर्शने ' इति ; तथा ' पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति' इत्येवमादिभि: स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ; आचक्षते च स्वप्नाध्यायविदः - 'कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि ' इति मन्त्रदेवताद्रव्यवि- शेषनिमित्ताश्च केचित्स्वप्ना: सत्यार्थगन्धिनो भवन्तीति सूत्रभाष्ये [पा. २. मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्य- त्वम् ; सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम्, बाध्यमान- त्वादित्यभिप्राय: । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ " यदुक्तम्- 'आह हि ' इति तदेवं सति भाक्तं व्याख्या- तव्यम् —— यथा ' लाङ्गलं गवादीनुद्वहति' इति निमित्तमात्र- त्वादेवमुच्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति; एवं निमित्तमात्रत्वात् - सुप्तो रथादीन्सृजते 'स हि कर्ता' - इति च उच्यते ; न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति । निमि- तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्नि- मित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् । अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच आत्मनः स्वयंज्योतिष्टुं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उप- न्यस्त:; तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयं- ज्योतिष्टुं न निर्णीतं स्यात्; तस्माद्रथाद्यभाववचनं श्रुत्या, र- थादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् । एतेन निर्माणश्रवणं व्याख्यातम् । यदप्युक्तम्- प्राज्ञमेनं निर्मातारमामनन्ति इति, तदप्यसत् श्रुत्यन्तरे ' स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति' इति जीवव्यापारश्रवणात् ; इहापि ' य एष सुप्तेषु जागर्ति' इति प्रसिद्धानुवादाज्जीव " - ' " तृतीयोऽध्यायः । सू. ५.] एवायं कामानां निर्माता संकीर्त्यते; तस्य तु वाक्यशेषेण ' तदेव शुक्रं तद्ब्रह्म' इति जीवभावं व्यावर्त्य ब्रह्मभाव उप- दिश्यते- 'तत्त्वमसि' इत्यादिवत् - इति न ब्रह्मप्रकरणं विरुध्यते । न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषि- ध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः ; पारमार्थिकस्तु नायं संध्याश्रयः सर्गः वियदादिसर्गवत्- इत्येतावत्प्रतिपाद्यते ; न च वियदादिसर्गस्याप्यात्यन्तिकं स- त्यत्वमस्ति ; प्रतिपादितं हि ' तदनन्यत्वमारम्भणशब्दादि- भ्यः' इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ; संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते इत्यतो वैशेषिक- मिदं संध्यस्य मायामात्रत्वमुदितम् ॥ , पराभिध्यानान्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ अथापि स्यात् — परस्यैव तावदात्मनोंऽश: जीव: - अग्ने - fra विस्फुलिङ्गः; तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञा- नैश्वर्यशक्ती; ततश्च जीवस्य ज्ञानैश्वर्यवशात् सांकल्पिकी स्व- सूत्रभाष्ये [ पा. २. रथादिष्टिर्भविष्यतीति । अलोच्यते — सत्यपि जीवेश्वर- योरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ? न नास्त्येव ; विद्य- मानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् । तत्पुनस्ति- रोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूत- ध्वान्तस्य - तिमिरतिरस्कृतेव दृक्शक्ति: औषधवीर्यात्-ईश्वर- प्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव सर्वेषां जन्तूनाम् ; कुतः ? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य बन्धमोक्षौ भवतः - ईश्वरस्वरूपापरिज्ञानात् बन्ध:, तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः -- ' ज्ञा- त्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणि: । त- स्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्य केवल आप्तकाम : ' इत्येवमाद्या ॥ देहयोगाद्वा सोऽपि ॥ ६ ॥ कस्मात्पुनर्जीव: परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम्, विस्फुलिङ्ग- स्येव दहनप्रकाशनयोः इति । उच्यते सत्यमेवैतत् ; सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभाव:, देहयोगात् देहेन्द्रिय- मनोबुद्धिविषयवेदनादियोगात् भवति । अस्ति च अत्रोपमा- ------ सू. ६ . ] तृतीयोऽध्यायः । अतः यथा अर्दहनप्रकाशनसंपन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्माच्छन्नस्य - एवमविद्याप्रत्यु- पम्थापितनामरूपकृतदेहानुपाधियोगात् तदविवेक भ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः । वा-शब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः । नन्वन्य एव जीव: ईश्वरादस्तु, तिरस्कृतज्ञानैश्वर्यत्वात्; किं देहयोगकल्पनया ? नेत्युच्यते - न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते 'सेयं देवतैक्षत ' इत्युपक्रम्य 'अनेन जीवेनात्मनानुप्रविश्य' इत्यात्मशब्देन जीवस्य परामर्शात्; ' तत्सत्यं स आत्मा तत्त्वमसि श्वेत- केतो' इति च जीवाय उपदिशति ईश्वरात्मत्वम् अनन्य एव ईश्वराज्जीवः सन देहयोगात्तिरोहितज्ञानैश्वर्यो भवति । अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घ- टते; यदि च सांकल्पिकी स्वप्ने स्थादिसृष्टिः स्यात्, नैवा- निष्टं कश्चित्स्वप्नं पश्येत्, न हि कश्चिदनिष्टं संकल्पयते । यत्पुनरुक्तम् - जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापय- तीति न तत्साम्यवचनं सत्यत्वाभिप्रायम्, स्वयंज्योतिष्ववि- रोधात् श्रुत्यैवं च स्वप्ने रथाद्यभावस्य दर्शितत्वात्; जाग- रितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रा- यं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ " " सूत्रभाष्ये [पा. २. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥ स्वप्नावस्था परीक्षिता; सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रै- ताः सुषुप्तविषयाः श्रुतयो भवन्ति ; कचिच्छ्रय ते-' तद्यत्रै- २. तदभावा- तत्सुप्तः समस्त: संप्रसन्नः स्वप्नं न वि- धिकरणम् । जानात्यासु तदा नाडीषु सृप्तो भवति ' इति ; अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ' ताभिः प्रत्यव - सृप्य पुरीतति शेते' इति ; तथान्यत्र नाडीरेवानुक्रम्य- " तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथा- स्मिन्प्राण एवैकधा भवति' इति ; तथान्यत्र- " य एषो- ऽन्तर्हृदय आकाशस्तस्मिञ्शेते' इति ; तथान्यत्र - सोम्य तदा संपन्नो भवति स्वमपीतो भवति' इति ; तथा-- 'प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम' इति च ॥ 6 सता तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्ष- तया भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षतया एकं सुषुप्तिस्थानमिति । किं तावत्प्राप्तम् ? भिन्नानीति; कुत: ? एकार्थत्वात् न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् ; नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते, ' नाडीषु सृप्तो भवति ' ' पुरीतति शेते' इति च तत्र तत्र सू. ७.] तृतीयोऽध्यायः । .' अ- प्राण- सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते- 'सता सोम्य तदा संपन्नो भवति' इति ; नैष दोष:, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् - वाक्यशेषो हि तत्र आयतनैषी जीव: सत् उपसर्पतीत्याह- न्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते ' इति ; शब्देन तत्र प्रकृतस्य सत उपादानात्; आयतनं च सप्तम्य- र्थः, सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते-- ' सति संपद्य न विदुः सति संपद्यामहे ' इति । सर्वत्र च विशे- षविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते । तस्मादेकार्थत्वात् नाड्यादीनां विकल्पेन कदाचित् किंचित्स्थानं स्वापायोप- सर्पति — इति ॥ - - एवं प्राप्ते, प्रतिपाद्यते तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतम्य स्वप्नदर्शनस्य अभाव: सुषुप्तमि- त्यर्थः ; नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति, न विकल्पेन - इत्यर्थः ; कुत: ? तच्छ्रुतेः ; तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते ; तच्च समुच्चये संगृहीतं भवति ; विकल्पे ह्येषाम्, पक्षे बाधः स्यात् । ननु एकार्थत्वाद्विकल्पो नाड्यादीनां त्रीहिय- वादिवत् - इत्युक्तम् ; नेत्युच्यते न हि एकविभक्तिनिर्देशमा- सूत्रभाष्ये [पा. २. त्रेण एकार्थत्वं विकल्पश्च आपतति, नानार्थत्वसमुच्चययो- रप्येकविभक्तिनिर्देशदर्शनात् - प्रासादे शेते पर्यङ्के शेते इत्ये- वमादिषु तथा इहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीति उपपद्यते समुच्चय: ; तथा च श्रुतिः - wwwwww. 6 तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एकवाक्योपादानात् ; प्राणस्य च ब्रह्मत्वं समधिगतम्- ' प्राणस्तथानुगमात्' इत्यत्र । यत्रापि निरपेक्षा इव नाडी : सुषुप्तिस्थानत्वेन श्रावयति — ' आसु तदा नाडीषु सृप्तो भवति' इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रति- षेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते ; न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीभिरपि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति - यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति । भवति च अत्र रश्मिनाडी- द्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थ सृप्तिसंकीर्तनम् —' नाडीषु सृप्तो भवति' इत्युक्त्वा तं न कश्चन पाप्मा स्पृशति' इति ब्रुवन् नाडी: प्रशंसति ; ब्रवीति च पाप्मस्पर्शाभावे हेतुम् ' तेजसा हि तदा संपन्नो भवति' इति - तेजसा नाड़ीगतेन पित्ताख्येन अभिव्याप्तक- 1 . सू. ७.] तृतीयोऽध्यायः । रणो न बाह्यान् विषयानीक्षत इत्यर्थः ; अथवा तेजसेति ब्रह्मण एवायं निर्देश:, श्रुत्यन्तरे 'ब्रह्मैव तेज एव' इति तेजः शब्दस्य ब्रह्मणि प्रयुक्तत्वात्; ब्रह्मणा हि तदा संपन्नो भवति नाडी- द्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः - ब्रह्मसंपत्तिश्व पाप्मस्पर्शाभावे हेतुः समधिगतः 'सर्वे पाप्मानोऽतो निव- र्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोक:' इत्यादिश्रुतिभ्य: ; एवं च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततोऽपि ब्रह्मप्रक्रियायां संकीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं ज्ञायते - य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते' इति हृदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते— 'पुरीतति शेते' इति ; पुरीतदिति हृदयपरिवेष्टनमुच्यते ; तदन्तर्व- तिन्यपि हृदयाकाशे शयानः शक्यते ' पुरीतति शेते' इति वक्तुम् - प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमान: प्राकारे वर्तत इत्युच्यते ; हृदयाकाशम्य च ब्रह्मत्वं समधिगतम् ' दहर उत्तरेभ्य:' इत्यत्र । तथा नाडीपुरीतत्समुच्चयोऽपि ताभि: प्रत्यवसृप्य पुरीतति शेते' इत्येकवाक्योपादानात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि - नाड्यः पुरीतत् ब्रह्म चेति; सूत्रभाष्ये [ पा. २. 6 सता तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् । अपि च नाड्यः पुरीतद्रा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति; न हि उपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधार: कश्चित्संभवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । त्र- ह्याधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्य- ते, कथं तर्हि ? तादात्म्याभिप्रायेण; यत आह- सोम्य तदा संपन्नो भवति स्वमपीतो भवति' इति - स्वश- ब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः अपि च न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति, स्वरूपस्या- नपायित्वात्; स्वप्नजागरितयोस्तूपाधिसंपर्कवशात् पररूपा- पत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्विवक्ष्यते- ' स्वमपीतो भवति' इति ; अतश्च सुप्तावस्थायां कदाचित्सता संपद्यते, कदाचिन्न संपद्यते इत्ययुक्तम् । अपि स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं ताव- त्सुषुनं न कचिद्विशिष्यते ; तत्र सति संपन्नस्तावत् एक- त्वात् न विजानातीति युक्तम्, 'तत्केन कं विजानीयात् ' इति श्रुतेः ; नाडीषु पुरीतति च शयानस्य न किंचित् अवि- ज्ञाने कारणं शक्यं विज्ञातुम्, भेदविषयत्वात् 'यत्र वा - " च सू. ८.] तृतीयोऽध्यायः । अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्' इति श्रुतेः । ननु भेदवि - षयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्; बाढमेवं स्यात्, यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत --- यथा विष्णुमित्रः प्रवासी स्वगृहान न पश्यतीति ; न तु जीवस्योपाधिव्यतिरे- केण परिच्छेदो विद्यते ; उपाधिगतमेवातिदूरादिकारणम अ विज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव संपन्नः न विजानातीति युक्तम । न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः ; न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किंचित्प्रयोजनमस्ति न ह्येत- द्विज्ञानप्रतिबद्धं किंचित्फलं श्रूयते ; नाप्येतद्विज्ञानं फलवत: कस्यचिदङ्गमुपदिश्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् - इत्येतत्प्रतिपादयाम: ; तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तम्मादात्मैव सुप्तिस्थानम ॥ अतः प्रबोधोऽस्मात् ॥ ८ ॥ यस्माच्च आत्मैव सुप्तिस्थानम्, अत एव च कारणात् नि- त्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, ' कुत एतदागात्' इत्यस्य प्रश्नस्य प्रतिवचनावसरे - ' यथाग्नेः क्षु- द्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणा: ' S. W. III. 2 सूत्रभाष्ये । " [पा. २. इत्यादिना, सत आगम्य न विदुः सत आगच्छामहे ... इति च । विकल्प्यमानेषु तु सुषुप्तिस्थानेषु कदाचिन्नाडी- भ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मन: - इत्यशा- सिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ " तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सत्सं- पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति ३. कर्मानुस्मृति - चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति; शब्दविध्य कुत: ? यदा हि जलराशौ कश्विज्जलबिन्दु: धिकरणम्। प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति - इति दुःसंपादम् तद्वत् सुप्तः परेणैकत्वमापन्नः संप्रसीदतीति न स एव पुनरुत्थातुमर्हति तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥ - एवं प्राप्ते, इदमाह - स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्य: ; कस्मात् ? कर्मानुस्मृतिशब्दवि- धिभ्यः ; विभज्य हेतुं दर्शयिष्यामि कर्मशेषानुष्ठानदर्शना- तावत्स एवोत्थातुमर्हति नान्य: ; तथा हि- पूर्वेद्युरनुष्ठितस्य सू. ९.] तृतीयोऽध्यायः । कर्मण: अपरेद्युः शेषमनुतिष्ठन्दृश्यते; न चान्येन सामिक- तस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रस- ङ्गात् ; तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मण: कर्तेति गम्यते । इतश्च स एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्यो - त्थाने नोपपद्यते ; न ह्यन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति ; सो- ऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते । शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ; तथा हि- 'पुनः प्रति- न्यायं प्रतियोन्याद्रवति बुद्धान्तायैव' 'इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति' ' त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा देशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति' इत्येवमादयः शब्दा: स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सा- मञ्जस्यम् ईयुः । कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ; अन्य- था हि कर्मविद्याविधयोऽनर्थकाः स्युः; अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत; एवं चेत्स्यात्, वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् । अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत्, तत्रत्यव्यवहारलोपप्रसङ्गः स्यात्; अथ तत्र सुप्त सूत्रभाष्ये [पा. २. उत्तिष्ठेत्, कल्पनानर्थक्यं स्यात्- यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्यां कल्पनायां लाभः स्यात् ? अथ मुक्त उत्तिष्ठेत्, अन्तवान्मोक्ष आपद्येत; निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् ; एतेन ईश्वरस्योत्थानं प्रत्युक्तम्, नित्यनिवृत्ताविद्यत्वात् । अकृताभ्यागमकृतविप्रणाशौ च दु- निवारावन्योत्थानपक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति । यत्पुनरुक्तम्- यथा जलराशौ प्रक्षिप्तो जलबि- दुद्धर्तुं शक्यते, एवं सति संपन्नो जीवो नोत्पतितुमर्ह- तीति तत्परिहियते युक्तं तत्र विवेककारणाभावात् जल- बिन्दोरनुद्धरणम्, इह तु विद्यते विवेककारणम् - कर्म च अविद्या च इति वैषम्यम् ; दृश्यते च दुर्विवेचयोरप्यस्म- ज्जातीयैः क्षीरोदकयोः संसृष्टयो: हंसेन विवेचनम् । अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते, यो जलबि- न्दुरिव जलराशेः सतो विविच्येत ; सदेव तु उपाधिसंप- कजीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् ; एवं सति याव- देकोपाधिगता बन्धानुवृत्तिः, तावदेकजीवव्यवहारः; उपा- ध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः; स एवा- यमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन — इत्यतः स " सू. १०.] तृतीयोऽध्यायः । ५७९ एव जीवः प्रतिबुध्यत इति युक्तम् ॥ मुग्धेऽर्धसंपत्तिः परिशेषात् ॥ १० ॥ अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति ; स तु किमवस्थ इति परीक्षायाम्, उच्यते - तिस्रस्तावद - वस्था: शरीरस्थस्य जीवस्य प्रसिद्धा: - जा- ४. मुग्धाधि- करणम् । गरितं स्वप्नः सुषुप्तमिति ; चतुर्थी शरीराद- पसृप्तिः ; न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति; तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा - इति ॥ - एवं प्राप्ते, ब्रूमः न तावन्मुग्धो जागरितावस्थो भवि- तुमर्हति ; न ह्ययमिन्द्रियैर्विषयानीक्षते । स्यादेतत् — इषुकार- न्यायेन मुग्धो भविष्यति- - यथा इषुकारो जाग्रदपि इष्वासक्त- मनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसंपातादिज- नितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति ; न, अचेतयमानत्वात्; इषुकारो हि व्याप्रतमना ब्रवीति- इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु ल- ब्धसंज्ञो ब्रवीति - अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभू- वम्, न किंचिन्मया चेतितमिति । जाग्रतश्चैकविषयविषक्तचे- सोऽपि देहो विधियते ; मुग्धस्य तु देहो धरण्यां पतति । सूत्रभाष्ये । , [पा. २. तस्मान्न जागर्ति । नापि स्वप्नान्पश्यति, निःसंज्ञकत्वात् । नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयाना:, ऊष्मास्ति नास्तीति हृदय- देशमालभन्ते, निश्चयार्थम्, प्राणोऽस्ति नास्तीति च नासि- कादेशम् ; यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृ- तोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति ; अथ तु प्राण- मूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञा- लाभाय भिषज्यन्ति ; पुनरुत्थानाच्च न दिष्टं गतः ; न हि यमं गतः यमराष्ट्रात्प्रत्यागच्छति । अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात, अमृतत्वाच्च ; न, वैलक्षण्यात् — मुग्धः कदाचिञ्चिरमपि नो- च्छूसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम्, विस्फारिते नेत्रे ; सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुन- रुच्छ्रसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते; पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः -- मु- सलसंपातादिनिमित्तत्वान्मोहस्य, श्रमनिमित्तत्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धि: मुग्धः सुप्त इति । परिशेषाद- र्घसंपत्तिर्मुग्धतेत्यवगच्छाम: --- निः संज्ञत्वात् संपन्न:, इतर- स्माच्च वैलक्षण्यादसंपन्न : इति ॥ सू. १०.] तृतीयोऽध्यायः । कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम् ? यावता सुप्तं प्रति तावदुक्तं श्रुत्या- ' सता सोम्य तदा संपन्नो भवति' इति, ' अत्र स्तेनोऽस्तेनो भवति ' ' नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्' इत्यादि ; जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पा- दनेन भवति ; न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते ; मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते; तस्मात् उपाध्यु - पशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसंपत्तिरेव भवितुमर्हति, नार्धसंपत्तिरिति । अत्रोच्यतेन ब्रूमः - मुग्धेऽर्धसंपत्ति- र्जीवस्य ब्रह्मणा भवतीति किं तर्हि, अर्धेन सुषुप्तपक्षस्य ; भवति मुग्धत्वम्, अर्धेनावस्थान्तरपक्षस्य – इति ब्रूमः ; दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतत् मरणस्य ; यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः ; यदा तु निरवशेषं कर्म भवति, तदा प्राणो- ष्माणावपगच्छतः । तस्मादर्धसंपत्तिं ब्रह्मविद इच्छन्ति । यत्तूक्तम् - न पञ्चमी काचिदवस्था प्रसिद्धास्तीति नैष दोषः ; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् । प्रसिद्धा चैषा लोकायुर्वेदयोः । अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ ५. व्यम्, सूत्रभाष्ये न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ॥ ११ ॥ " [पा. २. येन ब्रह्मणा सुषुत्यादिषु जीव उपाध्युपशमात्संपद्यते, तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते । सन्त्युभयलिङ्गाः 'सर्वकर्मा सर्व- उभयलिङ्गा- श्रुतयो ब्रह्मविषया:- धिकरणम् । कामः सर्वगन्धः सर्वरस:' इत्येवमाद्याः सविशेषलिङ्गा:; 'अस्थूलमनण्व हस्वमदीर्घम्' इत्येवमाद्याश्च निर्विशेषलिङ्गाः । किमासु श्रुतिषु उभयलिङ्गं ब्रह्म प्रतिपत्त - उतान्यतरलिङ्गम्; यदाप्यन्यतरलिङ्गम, तदापि सविशेषम् उत निर्विशेषम् — इति मीमांस्यते । तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते, ब्रूम:- न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपप- द्यते ; न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम्, विरोधात् । अस्तु तर्हि स्थानतः, पृथिव्याद्युपाधियोगादिति तदपि नोपपद्यते— न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृश: स्वभाव: संभवति ; न हि स्वच्छ ः सन् स्फटिक: अलक्तकाद्युपाधि- योगादस्वच्छो भवति, भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ; उपाधीनां च अविद्या प्रत्युपस्थापितत्वात् । अतश्व अन्यतर- ; सू. १२.] तृतीयोऽध्यायः । ; लिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम्, न तद्विपरीतम् सर्वत्र हि ब्रह्मस्वरूपप्रतिपा- दनपरेषु वाक्येषु ' अशब्दमस्पर्शमरूपमव्ययम्' इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते ॥ न भेदादिति चेन्न प्रत्येकमत - चनात् ॥ १२ ॥ अथापि स्यात् यदुक्तम, निर्विकल्प मे कलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते ; कस्मात् ? भेदात् ; भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उप- दिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वामनीत्वादिलक्ष- णं ब्रह्म, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म, इत्येवंजातीय- का: ; तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मण: संभवतीति; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदय; अन्यथा हि निर्विषयमेव भेद- शास्त्रं प्रसज्येत — इति चेत्, नेति ब्रूमः ; कस्मात् ? प्रत्येक- मतद्वचनात् ; प्रत्युपाधिभेदं हि अभेदमेव ब्रह्मणः श्रावयति शास्त्रम् -' यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्वायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स - सूत्रभाष्ये [पा. २. योऽयमात्मा' इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम्, भेदस्य उपासनार्थत्वात्, अभेदे तात्पर्यात् ॥ अपि चैवमेके ॥ १३ ॥ अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति - ' मनसैवेदमाप्तव्यं नेह नानास्ति किंचन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति ; तथान्येऽपि —' भोक्ता भोग्यं प्रेरितारं च मत्वा सर्व प्रोक्तं त्रिविधं ब्रह्म मे तत्' इति समस्तस्य भोग्यभोक्तृनि- यन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् ? इत्यत उत्तरं पठति -- अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ रूपाद्याकाररहितमेव हि ब्रह्म अवधारयितव्यम्, न रूपा- दिमत्; कस्मात् ? तत्प्रधानत्वात्; 'अस्थूलमनण्वह्रस्वम- दीर्घम् ' ' अशब्दम स्पर्शमरूपमव्ययम्' 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' ' दिव्यो ह्यमूर्त: सू. १५.] तृतीयोऽध्यायः । पुरुष: सबाह्याभ्यन्तरो ह्यज: ' ' तदेतद्ब्रह्मापूर्वमनपरमनन्त- रमबाह्यमयमात्मा ब्रह्म सर्वानुभूः' इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि न अर्थान्तरप्रधानानि - इत्ये तत्प्रतिष्ठापितम् ' तत्तु समन्वयात्' इत्यत्र; तस्मादेवंजाती- यकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्म अवधारयित- व्यम् । इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि; उपासनाविधिप्रधानानि हि तानि; तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम्; सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति - इत्येष विनिगमनायां हेतु:, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ का तर्ह्यकारवद्विषयाणां श्रुतीनां गतिः ? इत्यत आह- प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठ- मान: अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रति- पद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपा- धिसंबन्धात् तदाकारतामिव प्रतिपद्यते ; तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते; एवम् अवै- सूत्रभाष्ये [ पा. २. यर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति ; न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम्, प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्ता- त्प्रतिज्ञातम् - नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते ; नेति ब्रूमः - उपाधिनिमित्तस्य वस्तुधर्मत्वानु- पपत्तेः; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ - आह च तन्मात्रम् ॥ १६ ॥ आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं नि- विशेषं ब्रह्म- स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो - 6 रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्न: प्रज्ञा- नधन एव ' इति । एतदुक्तं भवति नास्य आत्मनोऽन्त - हि चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्व- रूपम - यथा सैन्धवघनस्यान्तर्बहिश्व लवणरस एव निरन्तरो भवति, न रसान्तरम्, तथैवेति दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥ दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म - निर्विशेष- सू. १८. ] तृतीयोऽध्यायः । त्वात्- ' अथात आदेशो नेति नेति' ' अन्यदेव तद्वि- दितादथो अविदितादधि' ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्येवमाद्या । बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्रह्म प्रोवाचेति श्रूयते— 'स हो- वाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा' इति । तथा स्मृतिष्वपि परप्रतिषेधे- नैवोपदिश्यते—' ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नास दुच्यते' इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते-- 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणै- युक्तं नैवं मां ज्ञातुमर्हसि ' इति ॥ अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ , यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मन- सातीतः परप्रतिषेधोपदेश्य:, अत एव च अस्योपाधिनिमि- तामपारमार्थिक विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्यु- पमा उपादीयते मोक्षशास्त्रेषु — 'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा' इति । ' एक एव सूत्रभाष्ये [पा. २. हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति चैवमादिषु ॥ अत्र प्रत्यवस्थीयते—- अम्बुवद्ग्रहणात्तु न तथात्वम् ॥ १९ ॥ न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् ; सूर्या- दिभ्यो हि मूर्तेभ्य: पृथग्भूतं विप्रकृष्टदेशं मूर्त जलं गृह्यते; तत्र युक्तः सूर्यादिप्रतिबिम्बोदय: ; न तु आत्मा मूर्त:, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वा- नन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ अत्र प्रतिविधीयते - वृद्धिहासभाक्त्वमन्तर्भावादुभय- सामञ्जस्यादेवम् ॥ २० ॥ युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसंभवात् ; न हि दृष्टान्तदाष्टन्तिकयोः कचित् कंचित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते; सर्वसारूप्ये हि दृष्टान्तदाष्टन्तिकभावोच्छेद एव स्यात्; न चेदं स्वमनी - या जलसूर्यकादिदृष्टान्तप्रणयनम् ; शास्त्रप्रणीतस्य तु अस्य सू. २१.] तृतीयोऽध्यायः । प्रयोजनमात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते— वृद्धिहासभाक्त्वमिति । जलगतं हि सूर्यप्रति - बिम्बं जलवृद्ध वर्धते, जलहासे हसति, जलचलने चलति, जलभेदे भिद्यते- इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति ; एवं परमार्थतोऽविकृत- मेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपा - धिधर्मान्वृद्धिहासादीन् । एवमुभयोर्दृष्टान्तदाष्टन्तिकयोः सा- मञ्जस्यादविरोधः ॥ दर्शनाच्च ॥ २१ ॥ दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिपूपाधिष्वन्त- रनुप्रवेशम - 'पुरचक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्' इति ; 'अनेन जीवेना- त्मनानुप्रविश्य' इति च । तस्माद्युक्तमेतत् ' अत एव चोपमा सूर्यकादिवत्' इति । तस्मात् निर्विकल्पकै कलिङ्ग- मेव ब्रह्म, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम् ॥ अत्र केचित् द्वे अधिकरणे कल्पयन्ति -- प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म, उत प्रपञ्चवदने- काकारोपेत मिति; द्वितीयं तु प्रत्यस्तमितप्रपञ्चत्वे किं सल्ल- सूत्रभाष्ये [पा. २. क्षणं ब्रह्म, उत बोधलक्षणम, उत उभयलक्षणमिति । अत्र वयं वदामः सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ; यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयास:, तत पूर्वेणैव 'न स्थानतोऽपि' इत्यनेनाधिकरणेन निराकृत- मिति, उत्तरमधिकरणम् ' प्रकाशवच्च' इत्येतद्व्यर्थमेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् - इति शक्यं वक्तुम, ' विज्ञानघन एव' इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ? नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् - इति शक्यं वक्तुम्, 'अस्तीत्येवोपलब्धव्यः' इत्यादिश्रुतिवैयर्थ्यप्रस- ङ्गात्; कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्म - इति शक्यं वक्तुम्, पूर्वाभ्युपगम- विरोधप्रसङ्गात् ; सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्मप्रतिजानानस्य तदेव पूर्वाधिकरणप्रति- षिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत्, न, एकस्य अनेकस्वभावत्वानुपपत्तेः । अथ सत्चैव बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम्, उतोभयलक्ष- णम् - इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वे- सू. २१.] तृतीयोऽध्यायः । काधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रु तिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु, अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः; तादर्थेन 'प्रकाशवच्च' इत्यादीनि सूत्राण्यर्थवत्तराणि संप- द्यन्ते ॥ यदप्याहु:- आकारवादिन्योऽपि श्रुतयः प्रपञ्चप्रविलयमु- खेन अनाकारप्रतिपत्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते ; कथम् ? ये हि परविद्याधिकारे के- चित्प्रपञ्चा उच्यन्ते, यथा--' युक्ता ह्यस्य हरयः शता दशे- ति, अयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्ता- नि च' इत्येवमादयः - ते भवन्तु प्रविलयार्थाः ; ' तदेतद्ब- ह्मापूर्वमनपरमनन्तरमबाह्यम्' इत्युपसंहारात् । ये पुनरुपा- सनाविधानाधिकारे प्रपञ्चा उच्यन्ते, यथा-' मनोमय: प्रा- णशरीरो भारूप:' इत्येवमादय:- :- न तेषां प्रविलयार्थत्वं न्या- य्यम्; ' स क्रतुं कुर्वीत' इत्येवंजातीयकेन प्रकृतेनैव उपास- नविधिना तेषां संबन्धात् । श्रुत्या च एवंजातीयकानां गुणा- नामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमव- कल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति 'अरूपव- देव हि तत्प्रधानत्वात्' इति विनिगमनकारणवचनम् अनव- s. w. III. 3 सूत्रभाष्ये [पा. २. काशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, कचि- दैश्वर्यप्राप्तिः, कचित्क्रममुक्तिरित्यवगम्यत एव - इत्यतः पार्थ- गर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम, न एकवाक्यत्वम् ॥ कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् -- एकनि- योगप्रतीतेः, प्रयाजदर्शपूर्णमासवाक्यवदिति चेत्, न, ब्रह्म- वाक्येषु नियोगाभावात् - वस्तुमात्रपर्यवसायीनि हि ब्रह्मवा- क्यानि, न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम् ' तत्तु समन्वयात्' इत्यत्र । किंविषयश्चात्र नियोगोऽभिप्रेय- त इति वक्तव्यम् ; पुरुषो हि नियुज्यमान: ' कुरु' इति स्व- व्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चप्रविलयो नियो- गविषयो भविष्यति — अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मत- वावबोधो न भवतीत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो है- तप्रपञ्चः प्रविलाप्यः—यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चप्रविलय: ; यथा च त- मसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीक- भूतं तमः प्रविलाप्यते, एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्र- त्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः - ब्रह्मस्वभावो हि प्रप- ञ्चः, न प्रपञ्चस्वभावं ब्रह्म ; तेन नामरूपप्रपञ्चप्रविलापनेन सू. २१.] तृतीयोऽध्यायः । ब्रह्मतत्त्वावबोधो भवति — इति । अत्र वयं पृच्छाम:- कोऽयं प्रपञ्चप्रविलयो नाम ? - किमग्निप्रतापसंपर्कात् घृतका - ठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः, आहोस्विदेक- स्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः - इति । तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथिव्यादिलक्षण: प्रविलापयितव्य इत्युच्येत, स पुरुषमात्रे - णाशक्य: प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात्; एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगद्भविष्यत् । अथ अविद्या- यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात्, ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेद- यितव्यम् - 'एकमेवाद्वितीयं ब्रह्म' ' तत्सत्यं स आत्मा तत्त्व- मसि' इति तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते ; तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूप- प्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते - अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च' इति शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायेत । नन्वावेदिते ब्र- ह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः सूत्रभाष्ये [पा. २. स्यात् न, निष्प्रपश्यब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः -रज्जु- स्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानम् अविद्याध्यस्त सर्पा- दिप्रपञ्चप्रविलयश्च भवति ; न च कृतमेव पुनः क्रियते ॥ नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात्, ब्रह्मपक्षस्यैव वा प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादि- वत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चविलये नियोग उच्येत ? कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम, जी- वत्वं तु, अविद्याकृतमेव इति प्रतिपादिते ब्रह्मणि नियोज्या- भावात् नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्या- धिकारपठिता: तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोध- विधिप्रधाना भवन्ति; लोकेऽपि - इदं पश्य, इदमाकर्णयेति च एवजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुवित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति; ज्ञेयाभिमुखस्यापि ज्ञानं कदाचि- ज्जायते, कदाचिन्न जायते; तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ; तस्मिन्दर्शिते स्वयमेव यथा- विषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ; न च प्रमाणान्तरेण अन्यथा प्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते; यदि सू. २१.] तृतीयोऽध्यायः । पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात्, न तु तत् ज्ञानम्, किं तर्हि, मानसी सा क्रिया; स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च; न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशते- नापि वारयितुं शक्यते ; न हि तत् पुरुषतन्त्रम्, वस्तुतन्त्रमेव हि तत्; अतोऽपि नियोगाभावः ; किंचान्यत् — नियोगनिष्ठ- तयैव पर्यवस्य त्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जी- वस्य, तत् अप्रमाणकमेव स्यात्; अथ शास्त्रमेव अनियोज्यत्र- ह्मात्मत्वमाचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्म- शास्त्रस्यैकस्य व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च श्रुतहानि: अश्रुतकल्पना कर्मफलवन्मो- क्षस्यादृष्टफलत्वम् अनित्यत्वं च- इत्येवमादयो दोषा न केन - चित्परिहर्तुं शक्या: । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्व एकनियोगप्रतीतेरेकवाक्यतेत्य- युक्तम् ॥ अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदे- कत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् ; न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् ; प्रयाजदर्शपूर्णमासवाक्येषु सूत्रभाष्ये [ पा. २. तु अधिकारांशेनाभेदात् युक्तमेकत्वम् ; न त्विह सगुणनि- गुणचोदनासु कश्चिदेकत्वकरोंशोऽस्ति न हि भारूपत्वा- दयो गुणा: प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात्; न हि कृत्स्न- प्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभाग: आकारवदनाकारोपदेशानां युक्ततर इति ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥ ' द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्त च' इत्युपक्रम्य, पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य, अमूर्तरसस्य च पुरु- शब्दोदितस्य माहारजनादीनि रूपाणि ६. प्रकृतैता- वत्त्वाधि- दर्शयित्वा पुन: पठ्यते - ' अथात आ- करणम् । देशो नेति नेति न ह्येतस्मादिति नेत्य- न्यत्परमस्ति' इति । तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे ; न ह्यत्र इदं तदिति विशेषितं किंचित्प्रतिषेध्य- मुपलभ्यते ; इति शब्देन तु अत्र प्रतिषेध्यं किमपि समर्प्यते, 'नेति नेति' इति इति परत्वात् न प्रयोगस्य ; इति-शब्द- वायं संनिहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो सू. २२.] तृतीयोऽध्यायः । दृश्यते - ' इति ह स्मोपाध्यायः कथयति' इत्येवमादिषु ; संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः, तच्च ब्रह्म, यस्य ते द्वे रूपे । तत्र नः संशय उपजायते- किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहो- स्विदेकतरम् ; यदाप्येकतरम्, तदापि किं ब्रह्म प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशि- नष्टि - इति ॥ तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे- द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात् ; तयोरेकेन सप्र- पञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म- इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते ; तद्धि वाङ्मन- सातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् ; न तु रूप- प्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः ; अभ्यासस्त्वाद- रार्थः इत्येवं प्राप्ते -- ब्रूमः - - न तावदुभयप्रतिषेध उपपद्यते, शून्यवादप्रसङ्गात्- कंचिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादय: ; तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे अवकल्पते; कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत ? अपरिशिष्यमाणे चान्यस्मिन् य इतरः प्रतिषेद्धुमारभ्यते " सूत्रभाष्ये [पा. २. प्रतिषेद्धुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुप- पत्तिः । नापि ब्रह्मप्रतिषेध उपपद्यते - ' ब्रह्म ते ब्रवाणि ' इत्याद्युपक्रमविरोधात्, 'असन्नेव स भवति । असद्बह्मेति वेद चेत्' इत्यादिनिन्दाविरोधात्, 'अस्तीत्येवोपलब्धव्यः ' इत्याद्यवधारणविरोधात् सर्ववेदान्तव्या कोपप्रसङ्गाच्च । वाङ्म- नसातीतत्वमपि ब्रह्मणो न अभावाभिप्रायेणाभिधीयते ; न हि महता परिकरबन्धेन ' ब्रह्मविदाप्नोति परम्' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्येवमादिना वेदान्तेषु ब्रह्म प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येत ; ' प्रक्षालनाद्धि पङ्कस्य दूरा- दस्पर्शनं वरम्' इति हि न्याय: । प्रतिपादनप्रक्रिया तु एषा - 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ' इति; एतदुक्तं भवति — वाङ्मनसातीतमविषयान्तः पाति प्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति । तस्माद्र- ह्मणो रूपप्रपञ्चं प्रतिषेधति, परिशिनष्टि ब्रह्म- व्यम् ॥ - -इत्यवगन्त- तदेतदुच्यते - प्रकृतैतावत्त्वं हि प्रतिषेधतीति । प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तीमूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति । तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्प्रन्थे 1 अधिदैवतमध्यात्मं च । तज्जनितमेव च वासनालक्षणमपरं सू. २२.] तृतीयोऽध्यायः । रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं मा- हारजनाद्युपमाभिर्दर्शितम् - अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्य- रूपयोगित्वानुपपत्तेः । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं संनि- हितालम्बनेन इति - करणेन प्रतिषेधकं नवं प्रति उपनी- यत इति गम्यते । ब्रह्म तु रूपविशेषणत्वेन षष्ठया निर्दिष्टं पूर्वस्मिन्प्रन्थे, न स्वप्रधानत्वेन । प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपका- न्तम् — ' अथात आदेशो नेति नेति' इति । तत्र कल्पि - तरूपप्रत्याख्यानेन ब्रह्मण: स्वरूपावेदनमिति निर्णीयते । तदास्पदं हि इदं समस्तं कार्यम् ' नेति नेति' इति प्रतिषिद्धम् । युक्तं च कार्यस्थ, वाचारम्भणशब्दादिभ्यो- saमिति, नेति नेतीति प्रतिषेधनम् ; न तु ब्रह्मणः सर्वकल्पनामूलत्वात् । न च अत्र इयमाशङ्का कर्तव्या- कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा स्वयमेव पुनः प्रतिषेधति - 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति - यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रति- बेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च इति निरवद्यम् । द्वौ च एतौ प्रतिषेधो यथासंख्यन्यायेन द्वे अपि मूर्त मूर्ते प्रति- । - " सूत्रभाष्ये [पा. २. वेधत: ; यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति, उत्तरो वासनाराशिम् । अथवा ' नेति नेति' इति वीप्सा इयम्- 'इति' इति यावत्किचित उत्प्रेक्ष्यते, तत्सर्वं न भवतीत्य- र्थः परिगणितप्रतिषेधे हि क्रियमाणे, यदि नैतद्ब्रह्म, कि- मन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात्; वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्म- ति, जिज्ञासा निवर्तते । तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति, परिशिनष्टि ब्रह्म- इति निर्णय: ॥ - इतश्व एष एव निर्णय:, यतः -- ततः प्रपञ्च प्रतिषेधात्, भूयो ब्रह्म ब्रवीति - 'अन्यत्परमस्ति' इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् । ब्रूयात् । तत्रैषा अक्षरयोजना - 'नेति नेति' इति ब्रह्म आदिश्य, तमेव आदेशं पुनर्निर्वक्ति- 'नेति नेति' इत्यस्य कोऽर्थ : ? न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यत: 'नेति नेति' इत्युच्यते, न पुनः स्वयमेव नास्ति इत्यर्थः ; तच्च दर्शयति - अन्य - त्परम् अप्रतिषिद्धं ब्रह्म अस्तीति । यदा पुनरेवमक्षराणि यो- ज्यन्ते- -न हि, एतस्मात् ' इति न ' ' इति न' इति प्रपञ्चप्र- तिषेधरूपात् आदेशनात्, अन्यत्परमादेशनं ब्रह्मण: अस्तीति- ' ततो ब्रवीति च भूय:' इत्येतत् नामधेयविषयं यो- तदा, सू. २४.] 6 तृतीयोऽध्यायः । जयितव्यम्- अथ नामधेय सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्' इति हि ब्रवीति -- इति । तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति ; अभावावसाने तु प्रतिषेधे, किम् ' सत्यस्य सत्यम्' इत्युच्येत ? तस्माद्ब्रह्मावसानः इत्यध्यवस्यामः ॥ अयं प्रतिषेधः, नाभावावसानः- A तदव्यक्तमाह हि ॥ २३ ॥ यत्तत् प्रतिषिद्धात्प्रपञ्चजातादन्यत् परं ब्रह्म, तदस्ति चेत्, कस्मान्न गृह्यत इति, उच्यते - तत् अव्यक्तमनिन्द्रि- यग्राह्यम्, सर्वदृश्यसाक्षित्वात् । आह हि एवं श्रुतिः -- 'न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा' 'स एष नेति नेत्यात्मागृह्यो न हि गृह्यते ' ' यत्तददेश्यमग्राह्यम्' 'यदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्येऽनिरुक्तेऽनिलयने' इत्या- द्या ; या स्मृतिरपि IT ; - च्यते ' इत्याद्या ॥ 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमु- अपि च संराधने प्रत्यक्षानुमा- नाभ्याम् ॥ २४ ॥ अपि च एनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधन- काले पश्यन्ति योगिनः; संराधनं च भक्तिध्यानप्रणिधानाद्य- सूत्रभाष्ये [पा. २. नुष्ठानम् । कथं पुनरवगम्यते - संराधनकाले पश्यन्तीति ? प्रत्यक्षानुमानाभ्याम्, श्रुतिस्मृतिभ्यामित्यर्थः । तथा हि श्रुतिः - 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्व- मिच्छन्' इति, 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमान:' इति चैवमाद्या । स्मृतिरपि - " ये विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः । ज्योतिः पश्य- न्ति युञ्जानास्तस्मै योगात्मने नमः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्' इति चैवमाद्या ॥ ननु संराध्य संराधकभावाभ्युपगमात्परापरात्मनोरन्यत्वं स्यादिति ; नेत्युच्यते-- प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृ- तिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते न च स्वाभाविकीमविशेषात्मतां जहति ; एवमुपाधिनिमित्त एवाय- मात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्या- सेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ सू. २७.] तृतीयोऽध्यायः । अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥ अतश्च स्वाभाविकत्वादभेदस्य, अविद्याकृतत्वाच्च भेदस्य, विद्यया अविद्यां विधूय जीवः परेण अनन्तेन प्राज्ञेन आत्म- G ना एकतां गच्छति । तथा हि लिङ्गम् —' स यो ह वै त - त्परमं ब्रह्म वेद ब्रह्मैव भवति' 'ब्रह्मैव सन्ब्रह्माप्येति' इत्यादि ॥ 6 उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥ तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति, स्व- मतविशुद्धये । कचित् जीवप्राज्ञयोर्भेदो व्यपदिश्यते— ' ततस्तु तं पश्यते निष्कलं ध्यायमान: ' इति ध्यातृध्यात - व्यत्वेन द्रष्टृद्रष्टव्यत्वेन च; 'परात्परं पुरुषमुपैति दिव्यम्' इति गन्तृगन्तव्यत्वेन ; 'यः सर्वाणि भूतान्यन्तरो यमयति ' इति नियन्तृनियन्तव्यत्वेन च । कचित्तु तयोरेवाभेदो व्यप- दिश्यते— 'तत्त्वमसि' ' अहं ब्रह्मास्मि ' एष त आत्मा सर्वान्तर: ' ' एष त आत्मान्तर्याम्यमृत:' इति । तत्रैव- मुभयव्यपदेशे सति यद्यभेद एव एकान्ततो गृह्यते, भेदव्य- पदेशो निरालम्बन एव स्यात् । अत उभयव्यपदेशदर्शनात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति - यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादीनीति च भेद:, एवमिहापीति ॥ सूत्रभाष्ये प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ [पा. २. अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् - यथा प्रकाश : सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेज- स्त्वाविशेषात् ; अथ च भेदव्यपदेशभाजौ भवतः - एव- मिहापीति ॥ 1 पूर्ववद्वा ॥ २९ ॥ यथा वा पूर्वमुपन्यस्तम् -' प्रकाशादिवच्चावैशेष्यम्' इति, तथैव एतद्भवितुमर्हति ; तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मन: संस्थानभूतः, प्रकाशाश्रय- न्यायेन च एकदेशभूतोऽभ्युपगम्येत; ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति ; अभे- दमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानु- वदति अर्थान्तरविवक्षया । तस्मात्प्रकाशादिवच्चा वैशेष्यमित्येष एव सिद्धान्तः ॥ प्रतिषेधाच्च ॥ ३० ॥ इतश्च एष एव सिद्धान्तः, यत्कारणं परस्मादात्मनोऽन्यं सू. ३१.] तृतीयोऽध्यायः । चेतनं प्रतिषेधति शास्त्रम्- 'नान्योऽतोऽस्ति द्रष्टा' इत्येव- मादि । 'अथात आदेशो नेति नेति' ' तदेतद्ब्रह्मा पूर्वमनपर- मनन्तरमबाह्यम्' इति च ब्रह्मव्यतिरिक्तप्रपञ्च निराकरणात् ब्रह्ममात्र परिशेषाच एष एव सिद्धान्त इति गम्यते ॥ यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम्, अस्मा- त्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्म- णोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव; तेषां हि परिहा- रमभिधातुमयमुपक्रमः क्रियते - परमतः सेतृन्मानसंबन्धभेदव्यप- देशेभ्यः ॥ ३१ ॥ परम् अतो ब्रह्मण: अन्यत्तत्त्वं भवितुमर्हति ; कुत: ? सेतुव्यपदेशात् उन्मानव्यपदेशात् संबन्धव्यपदेशात् भेद- व्यपदेशाच्च । सेतुव्यपदेशस्तावत् - ' अथ य आत्मा स सेतुर्विधृति:' इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं संकीर्त- यति ; सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृदाव- दिप्रचये प्रसिद्धः ; इह च सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति ; - सूत्रभाष्ये 6 , [पा. २. 'सेतुं तीर्त्वा' इति च तरतिशब्दप्रयोगात् यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते । उन्मानव्यपदेशश्च भवति तदेतद्ब्रह्म चतुष्पात् अष्टाशकं षोडशकलमिति ; यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षाप - णादि, ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम् ; तथा ब्रह्मणोऽप्युन्मा- नात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते । तथा संबन्धव्यपदेशो भवति — ' सता सोम्य तदा संपन्नो भवति' इति, शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्त: ' इति च ; मितानां च मितेन संबन्धो दृष्टः, यथा नराणां नगरेण; जीवानां च ब्रह्मणा संबन्धं व्यपदिशति सुषुप्तौ ; अतः ततः परमन्यदमितमस्तीति गम्यते । भेदव्यपदेशश्च नमर्थं गमयति ; तथा हि- 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादित्याधारमीश्वरं व्यपदिश्य, ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति - ' अथ य एषो- ऽक्षिणि पुरुषो दृश्यते' इति ; अतिदेशं च अस्य अमुना रूपादिषु करोति - ' तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम' इति ; सावधिकं च ईश्वरत्वमुभयोर्व्यपदिशति - ' ये चामुष्मात्पराचो लो- सू. ३२.] तृतीयोऽध्यायः । कास्तेषां चेष्टे देवकामानां च' इत्येकस्य, 'ये चैतस्माद- र्वाचो लोकास्तेषां चेष्टे मनुष्यकामानां च' इत्येकस्य, यथा इदं मागधस्य राज्यम इदं वैदेहस्येति । एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीति ॥ , एवं प्राप्ते, प्रतिपाद्यते - सामान्यान्तु ॥ ३२ ॥ तु शब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किंचिद्भवितुमहाते, प्रमाणाभावात् न ह्यन्यस्यास्तित्वे किंचि- त्प्रमाणमुपलभामहे; सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम्, अनन्यत्वं च कारणात कार्यस्य ; न च ब्रह्मव्यतिरिक्तं किंचित् अजं संभवति, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम' इत्य- , वधारणात्; एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते । ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् ; नेत्युच्यते - सेतु - व्यपदेशस्तावत् न ब्रह्मणो वाह्यस्य सद्भावं प्रतिपादयितुं क्षमते; सेतुरात्मेति हि आह, न अतः परमस्तीति ; तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ; न चैतत् न्याय्यम; हठो हि अप्रसिद्ध कल्पना ; s. W. III. 4 सूत्रभाष्ये [पा. २. अपि च सेतुव्यपदेशादात्मनो लौकिक सेतुनिदर्शनेन सबाह्य- वस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्ख्यत ; न चैतन्न्या- य्यम्, अजत्वादिश्रुतिविरोधात्; सेतुसामान्यात्तु सेतुश- द आत्मनि प्रयुक्त इति श्लिष्यते ; जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मन: ; अतः सेतुरिव सेतुः - इति प्रकृत आत्मा स्तूयते । ' सेतुं तीर्त्वा' इत्यपि तरति : अतिक्रमासंभवात् प्राप्नोत्यर्थ एव वर्तते -- यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ d बुद्ध्यर्थः पादवत् ॥ ३३ ॥ यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्रा- भिधीयते— उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्ति- त्वप्रतिपत्त्यर्थः; किमर्थस्तर्हि ? बुद्धयर्थः, उपासनार्थ इति यावत् चतुष्पादष्टाशर्फ षोडशकलमित्येवंरूपा बुद्धि: कथं नु नाम ब्रह्मणि स्थिरा स्यादिति -- विकारद्वारेण ब्रह्मण उन्मान कल्पनैव क्रियते ; न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुद्धि: स्थापयितुम्, मन्दमध्यमोत्तमबुद्धि- त्वात् पुंसामिति । पादद्वत्- यथा मन आकाशयोरध्यात्म- मधिदैवतं च ब्रह्मप्रतीकयोरानातयोः, चत्वारो वागादयो मन: संबन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आ- । सू. ३५ ] तृतीयोऽध्यायः । काशसंबन्धिनः- आध्यानाय - तद्वत् । अथवा पादव - दिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते - न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् - तद्वदित्यर्थः ॥ स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥ FE सूत्रे द्वयोरपि संबन्धभेदव्यपदेशयोः परिहारोऽभि- धीयते । यदप्युक्तम् - संबन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशे- षापेक्षया एतौ व्यपदेशावुपपद्येते । संबन्धव्यपदेशे तावद- यमर्थ:- बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशे- षविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना संब- न्धः - इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया । तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् - - यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुप- जातविशेषस्य उपाध्युपशमात्संबन्धव्यपदेशो भवति, उपा- धिभेदाच्च भेदव्यपदेश: ; यथा वा सूचीपाशाकाशादिषूपा- ध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतः - तद्वत् ॥ उपपत्तेश्च ॥ ३५ ॥ सूत्रभाष्ये [पा. २. उपपद्यते च अत्र ईदृश एव संबन्ध:, नान्यादृश:- ' स्वमपीतो भवति' इति हि स्वरूपसंबन्धमेनमामनन्ति ; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन संबन्धो घटते; उपाधिकृत स्वरूपतिरोभावात्तु ' स्वमपीतो भवति' इत्युप- पद्यते । तथा भेदोऽपि नान्यादृशः संभवति, बहुतरश्रुति- प्रसिद्धैकेश्वरत्वविरोधात् ; तथा च श्रुतिरेकस्याप्याकाशम्य स्थानकृतं भेदव्यपदेशमुपपादयति — 'योऽयं बहिर्धा पुरु- षादाकाश: ' ' योऽयमन्त: पुरुष आकाश: 'योऽयमन्त- हृदय आकाश:' इति ॥ , तथान्यप्रतिषेधात् ॥ ३६ ॥ " एवं सेत्वादिव्यपदेशान् परपक्ष हेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वन्तरेणोपसंहरति । तथान्यप्रतिषेधादपि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते ; तथा हि- ' स एवाधस्तात्... अहमेवाधस्तात् ' 'आत्मैवाधस्तात् ' ' सर्व तं परादाद्योऽन्य- त्रात्मन: सर्व वेद 'ब्रह्मैवेदं सर्वम् ' ' आत्मैवेदं सर्वम् 'नेह नानास्ति किंचन' ' यस्मात्परं नापरमस्ति किंचित्' ' तदेतद्ब्रह्मा पूर्वमनपरमनन्तरमबाह्यम्' इत्येवमादीनि वाक्या- नि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्म- व्यतिरिक्तं वस्त्वन्तरं वारयन्ति । सर्वान्तरश्रुतेश्च न पर- सू. ३८. ] तृतीयोऽध्यायः । मात्मनोऽन्यः अन्तरात्मा अस्तीत्यवगम्यते ॥ . अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥ अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्र- यणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति; अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रिय- माणेषु परिच्छेद आत्मन: प्रसज्येत, सेत्वादीनामेवमात्म- कत्वात् ; तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तरा- व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत । सर्वगतत्वं च अस्य आयामशब्दादिभ्योऽवगम्यते; आयामशब्द: व्या- प्तिवचनः शब्दः ; यावान्वा अयमाकाशस्तावानेषोऽन्त- हृदय आकाशः ' आकाशवत्सर्वगतश्च नित्यः ' ' ज्याया- ज्यायानाकाशात्' ' नित्यः सर्वगतः स्थाणु- न्दिवः ' 6 , रचलोऽयं सनातनः' इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति ॥ फलमत उपपत्तेः ॥ ३८ ॥ तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागा- वस्थायाम्, अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्ट- व्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रि- ८. फलाधि- करणम् । विधं प्रसिद्धं जन्तूनाम्, किमेतत् कर्मणो सूत्रभाष्ये [ पा. २. भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र ताव- त्प्रतिपाद्यते— फलम् अतः ईश्वरात् भवितुमर्हति ; कुत: ? उपपत्तेः ; स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान वि. दधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं संपा- दयतीत्युपपद्यते ; कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम्, अभावाद्भावानुत्पत्तेः । स्यादेतत्- कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्य- ति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ; तदपि न परि- शुध्यति, प्राग्भोक्तृसंबन्धात् फलत्वानुपपत्ते:- यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् ; न हि असंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत - मा भूत्कर्मानन्तरं फलो- त्पाद:, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृ- त्त्यनुपपत्तेः, तदस्तित्वे एव प्रमाणाभावात्; अर्थापत्तिः प्रमाणमिति चेत्, न ईश्वर सिद्धेरर्थापत्तिक्षयात् ॥ श्रुतत्वाच्च ॥ ३९ ॥ न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः, किं तर्हि श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे, तथा च श्रुतिर्भवति सू. ४१.] तृतीयोऽध्यायः । " स वा एष महान आत्मान्नादो वसुदान:' इत्येवं- जातीयका ॥ धर्म जैमिनिरत एव ॥ ४० ॥ जैमिनिस्त्वाचार्यो धर्म फलस्य दातारं मन्यते, अत एव हेतोः श्रुतेः उपपत्तेश्च । श्रयते तावदयमर्थः ' स्वर्ग- कामो यजेत' इत्येवमादिषु वाक्येषु तत्र च विधिश्रुतेर्विष- यभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते ; 3T- न्यथा हि अननुष्ठातृको याग आपद्येत; तत्र अस्य उपदे- शवैयर्थ्यं स्यात् । ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोष:, श्रुतिप्रा- माण्यात् — श्रुतिश्चेत् प्रमाणम्, यथायं कर्मफलसंबन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः ; न च अनुत्पाद्य किमप्यपूर्व कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति; अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्व नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम्, अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात्, तद- नुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥ सूत्रभाष्ये [पा. २. बादरायणस्त्वाचार्य: पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मण: अपूर्वाद्वा केवलान फलमित्ययं पक्ष: तु- शब्देन व्यावर्त्यते । कर्मापेक्षात अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः; कुत: ? हेतुव्यपदेशात्; धर्मा- धर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन - ' एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कार - यति तं यमधो निनीषते' इति ; स्मर्यते च अयमर्थो भग- वद्गीतासु – 'यो यो यां यां तनुं भक्तः श्रद्धयाचितुमि- च्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान् मयैव विहितान्हितान्' इति । सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते ; तदेव च ईश्वरस्य फलहेतुत्वम, यत् स्वकर्मानुरूपाः प्रजाः सृजति । विचित्रकार्यानुपपत्त्या - दयोsपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ तृतीयाध्याये तृतीयः पादः तृतीयः पादः ॥ " व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम्; इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वापरा- दिभेदरहितम् एकरसं सैन्धवघनवत् अव- धारितम् ; तत्र कुतो विज्ञानभेदाभेदचिन्ता- वसर : ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वम- पिवेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ब्रह्मण ए- कत्वात् एकरूपत्वाच्च ; न च एकरूपे ब्रह्मणि अनेकरूपाणि वि- ज्ञानानि संभवन्ति ; न हि - अन्यथा अर्थ: अन्यथा ज्ञानम् - इत्यभ्रान्तं भवति यदि पुन: एकस्मिन्ब्रह्मणि बहूनि विज्ञा- नानि वेदान्तेषु प्रतिपिपादयिषितानि तेषाम् एकमभ्रान्तम्, भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु ; तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते । नाप्य- स्य चोदनाद्यविशेषादभेद उच्येत, ब्रह्मविज्ञानस्य अचोदना- लक्षणत्वात्; अविधिप्रधानैर्हि वस्तुपर्यवसायिभि: ब्रह्मवाक्यैः ; सूत्रभाष्ये [पा. ३. ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्य : ' तत्तु समन्वयात् ' इत्यत्र । तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥ तदुच्यते— सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ संभवतः ; कर्मवदेव च उपासनानि दृष्टफलानि अष्टफलानि च उच्यन्ते क्रममुक्तिफलानि च कानिचित् सम्यग्दर्शनोत्पत्तिद्वारेण । तेषु एषा चिन्ता संभवति किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥ ' तत्र पूर्वपक्षतस्तावदुपन्यस्यन्ते - नाम्नस्तावत् भेदप्रति- पत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु ; अस्ति च अत्र वेदान्तान्तर- विहितेषु विज्ञानेषु अन्यदन्यत् नाम- तैत्तिरीयकं वाजस- नेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्ध: - ' वैश्वदेव्या- मिक्षा, वाजिभ्यो वाजिनम्' इत्येवमादिषु ; अस्ति च अत्र रूपभेद: ; तद्यथा - केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठ- मपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति ; तथा प्राण- संवादादिषु केचित् ऊनान्वागादीनामनन्ति केचिदधि- कान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आश- ङ्कितः कार्यादिषु ; अस्ति च अत्र धर्मविशेष: ; यथा आथ- सू. १-] तृतीयोऽध्यायः । र्वणिकानां शिरोव्रतमिति । एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासंभवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः - सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥ सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति; कुत: ? चोदनाद्यविशेषात ; आदिग्रहणेन शाखान्तराधिकरणसिद्धान्त- सूत्रोदिता अभेदहेतव इहाकृष्यन्ते - संयो- गरूपचोदनाख्याविशेषादित्यर्थः । यथा ए- १. सर्ववेदान्त प्रत्ययाधि- करणम् । कस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते- जुहुयादिति, एवम 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद' इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना । प्रयोजनसं- योगोऽप्यविशिष्ट एव - ' ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति' इति । रूपमप्युभयत्र तदेव विज्ञानस्य, यदुत ज्येष्ठश्रेष्ठादिविशेषणा- न्वितं प्राणतत्त्वम् - यथा च द्रव्यदेवते यागस्य रूपम, एवं विज्ञेयं रूपं विज्ञानस्य ; तेन हि तत् रूप्यते । समाख्यापि सैव - प्राणविद्येति । तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञाना- नाम् । एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्ये- वमादिष्वपि योजयितव्यम । ये तु नामरूपादयो भेदद्दे- सूत्रभाष्ये [पा. ३. त्वाभासाः, ते प्रथम एव काण्डे 'न नाम्ना स्यादचोदना- भिधानत्वात्' इत्यारभ्य परिहृताः ॥ इहापि कंचिद्विशेषमाशङ्कय परिहरति- भेदान्नेति चेन्नैकखामपि ॥ २ ॥ स्यादेतत्- सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान् नोपपद्यते ; तथा हि- वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति - ' तस्याभिरेवानिर्भवति' इत्यादिना ; छन्दोगास्तु तं न आमनन्ति, पञ्चसंख्ययैव च ते उपसंह- रन्ति- 'अथ ह य एतानेवं पञ्चाग्नीन्वेद' इति ; येषां च सगुणोऽस्ति, येषां च नास्ति, कथमुभयेषामेका विद्योप- पद्येत ? न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम, पञ्चसं- ख्याविरोधात् । तथा प्राणसंवादे श्रेष्ठात् अन्यान चतुरः प्राणान् वाक्चक्षुः श्रोत्रमनांसि छन्दोगा आमनन्ति ; वाज- सनेयिनस्तु पञ्चममप्यामनन्ति -- ' रेतो वै प्रजापतिः प्रजा- ते ह प्रजया पशुभिर्य एवं वेद' इति ; आवापोद्वापभेदाच वेद्यभेदो भवति, वेद्यभेदाच्च विद्याभेदः, द्रव्यदेवताभेदादिव यागस्येति चेत् — नैष दोषः ; यत एकस्यामपि विद्याया - मेवजातीयको गुणभेद उपपद्यते ; यद्यपि षष्ठस्यामेरुपसंहारो सू. ३.] तृतीयोऽध्यायः । न संभवति, तथापि प्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति ; न हि षोड- शिग्रहणाग्रहणयोरतिरात्रो भिद्यते । पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगे:- 'तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति' इति ; वाजसनेयिनस्तु सांपादिकेषु पश्चस्वग्निषु अनुवृत्ताया: समि- मादिकल्पनाया निवृत्तये 'तस्याग्निरेवाग्निर्भवति समित्स- मित' इत्यादि समामनन्ति स नित्यानुवादः; अथाप्युपास- नार्थ एष वादः, तथापि स गुणः शक्यते छन्दोगैरप्युप- संहर्तुम् । न च अत्र पञ्चसंख्याविरोध आशङ्कय: ; सांपादि- काग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता, नवि- धिसमवायिनी - इत्यदोषः । एवं प्राणसंवादादिष्वपि अधि- कस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते । न च आवापो- द्वापभेदाद्यभेदो विद्याभेदश्व आशङ्कयः, कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् । तस्मा- दैकविद्यमेव ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि- काराच्च सववच्च तन्नियमः ॥ ३ ॥ यदयुक्तम्-आथर्वणिकानां विद्यां प्रति शिरोत्रताद्यपेक्ष- अन्येषां च तदनपेक्षणात् विद्याभेद इति, तत्प्रत्यु - णात् सू. ५. ] तृतीयोऽध्यायः । बहूचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महात्रते छन्दोगा:' इति च । तथा ' महद्भयं वज्रमुद्यतम् इति का- ठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्श - ननिन्दायै परामर्शो दृश्यते—'यदा ह्येवैष एतस्मिन्नुदरम- न्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदु- षोऽमन्वानस्य' इति । तथा वाजसनेयके प्रादेशमात्र संपा- दितस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् -'यस्त्वेत- मेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' इति । तथा सर्ववेदान्तप्रत्ययत्वेन अन्यत्र विहितानामुक्थादीनाम- न्यत्रोपासनविधानाय उपादानात् प्रायदर्शनन्यायेन उपास- नानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः ॥ उपसंहारोऽर्थाभेदाद्विधिशेषव- त्समाने च ॥ ५ ॥ इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्व- विज्ञानानाम्, अन्यत्रोदितानां विज्ञानगुणानाम्, अन्यत्रापि २. उपसंहारा- समाने विज्ञाने उपसंहारो भवति ; अर्था- धिकरणम् । भेदात् य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि ; उभय- त्रापि हि तदेवैकं विज्ञानम्; तस्मादुपसंहारः । विधिशेषवत् S. W. III. 5 सूत्रभाष्ये [ पा. ३. - यथा विधिशेषाणामग्निहोत्रादिधर्माणाम, तदेव एकम- ग्रिहोत्रादि कर्म सर्वत्रेति, अर्थाभेदान उपसंहरणम् एव- मिहापि । यदि हि विज्ञानभेदो भवेत, ततो विज्ञानान्तर- निबद्धत्वाद्गुणानाम, प्रकृतिविकृतिभावाभावाच्च न स्यादुपसं- हारः ; विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसु- त्रस्य प्रपञ्चः ' सर्वाभेदान' इत्यारभ्य भविष्यति ॥ अन्यथात्वं शब्दादिति चेन्ना- विशेषात् ॥ ६ ॥ वाजसनेयक ' ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेना- त्ययामेति' 'ते ह वाचमूचुस्त्वं न उद्गाय' इति प्रक्रम्य, ३. अन्यथा- वागादीन्प्राणान असुरपाप्मविद्धत्वेन नि- वाधिक न्दित्वा, मुख्यप्राणपरिग्रहः पठ्यते-- ' अथ रणम् । हेममासन्यं प्राणमूचुस्त्वं न उगायेति तथे- ति तेभ्य एष प्राण उदगायन' इति । तथा छान्दोग्येऽपि ' तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम:' इति प्रक्र- म्य, इतरान्प्राणान असुरपाप्मविद्धत्वेन निन्दित्वा, तथैव मुख्यप्राणपरिग्रहः पठ्यते - 'अथ ह य एवायं मुख्य: प्राण- स्तमुद्गीथमुपासांचक्रिरे' इति । उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते । तत्र संशयः- ------ किमत्र विद्या- सू. ७.] तृतीयोऽध्यायः । भेदः स्यात्, आहोस्वित् विद्यैकत्वमिति । किं तावत्प्राप्तम् ? पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न युक्तं विद्येकत्वम्, प्रक्रमभेदात्; अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगा:- ' त्वं न उद्वाय' इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन 'तमुद्गीथमु- पासांचक्रिरे ' इति तत्कथं विद्यैकत्वं स्यादिति चेत् — नैष दोष: ; न हि एतावता विशेषेण विद्यैकत्वम अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् ; तथा हि- देवा- सुरसंग्रामोपक्रमत्वम्, असुरात्ययाभिप्रायः, उद्गीथोपन्यासः, वागादिसंकीर्तनम्, तन्निन्दया मुख्यप्राणव्यपाश्रयः, तद्वी- र्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन - इत्येवं बहवो - ऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते । वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम- ' एष उ वा उद्गीथ : ' इति । तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् । तस्माच्च विद्यैकत्वमिति ॥ न वा प्रकरणभेदात्परोवरीय- स्त्वादिवत् ॥ ७ ॥ न वा विद्यैकत्वमत्र न्याय्यम्; विद्याभेद एव अब न्याय्यः ; कस्मात् ? प्रकरणभेदात्, प्रक्रमभेदादित्यर्थः ; तथा " सूत्रभाष्ये [ पा. ३. हि se प्रक्रमभेदो दृश्यते—छान्दोग्ये तावत्- 'ओमि- त्येतदक्षरमुद्गीथमुपासीत' इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य, रसतमत्वादिगुणोपव्याख्यानं तव कृत्वा, अथ 'खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति' इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवर्त्य, देवासुराख्यायिकाद्वारेण तम् ' प्राणमुद्गीथमुपासांचक्रिरे ' इत्याह ; तत्र यदि उद्गीथ- शब्देन सकला भक्तिरभिप्रेयेत, तस्याश्च कर्ता उद्गाता ऋत्विक् तत उपक्रमचोपरुध्येत लक्षणा च प्रस- ज्येत ; उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवित- व्यम् ; तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टि- रुपदिश्यते - वाजसनेयके तु उद्रीयशब्देन अवयवग्रहणे का- रणाभावात् सकलैव भक्तिरावेद्यते ; ' त्वं न उद्गाय' इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति - प्रस्थानान्तरम् । यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रति- पादनार्थमिति न विद्यैकत्वमावहति । सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् । न च प्राणस्योद्गातृ- त्वम् असंभवेन हेतुना परित्यज्यते, उद्गीथभाववत् उद्गातृभा- वस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् प्राणवीर्येणैव सु. ८. ] तृतीयोऽध्यायः । च उदाता औद्वात्रं करोतीति नास्त्यसंभव: ; तथा च तत्रैव श्रावितम् - ' वाचा च ह्येव स प्राणेन चोदगायत्' इति । न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम्; तथा हि--अभ्युदयवाक्ये पशुकामवाक्ये च ' त्रेधा तण्डुलान्विभजेये मध्यमाः स्युस्ता- नग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्' इत्यादिनिर्देशसा- म्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसि तः, पशुकामवाक्ये तु यागविधिः- तथा इहापि उपक्रमभेदात् विद्याभेद: । परोवरीयस्त्वादिवत्- 6 ----- यथा परमात्मदृष्टय- ध्याससाम्येऽपि, ' आकाशो ह्येवैभ्यो ज्यायानाकाशः पराय- णम्' ' स एष परोवरीयानुद्गीथः स एषोऽनन्तः' इति परो- वरीयस्त्वगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यादिगतहि- रण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम् ; न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् - तद्वत् शाखा- न्तरस्थेष्वपि एवं जातीयकेषु उपासनेष्विति ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥ अथोच्येत — संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम्, उद्गीथविद्येत्युभयत्रापि एका संज्ञेति, तदपि नोपपद्यते ; उक्तं ह्येतत् - ' न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्' इति ; सूत्रभाष्ये [पा. ३. तदेव च अत्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत् संज्ञेकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमानयोगात् लौकिकै व्यवहर्तृभि- रुपचर्यते । अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोव- रीयस्त्वाद्युपासनेषु - उद्गीथविद्येति ; तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकै कग्रन्थपरिपठितानां काठ- कसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति । यत्र तु नाम्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात वियै- कत्वम् - यथा संवर्गविद्यादिषु ॥ व्यासेश्च समञ्जसम् ॥ ९ ॥ 'ओमित्येतदक्षरमुद्गीथमुपासीत' इत्यत्र अक्षरोद्गीथश- ब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशे- ४. व्यायधि- षणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षो करणम् । न्याय्यः स्यादिति विचारः । तत्र अध्यासो नाम --- द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यत- रबुद्धिरध्यस्यते ; यस्मिन इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्यस्तेतरबुद्धावपि - यथा नाम्नि ब्रह्मबु- द्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धि:, न ब्रह्मबु- द्धा निवर्तते यथा वा प्रतिमादिषु विष्ण्वादिबुद्धयध्यासः एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्येत, उद्गीथे वा अक्ष- सू. ९.] तृतीयोऽध्यायः । " बुद्धिरिति । अपवादो नाम -- यत्र कस्मिंश्चिद्वस्तुनि पूर्व- निविष्टायां मिथ्याबुद्धौ निश्चितायाम्, पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति —यथा देहेन्द्रियसंघाते आत्मबुद्धि:, आत्मन्येव आत्मबुद्धया पञ्चाद्भाविन्या 'तत्त्वमसि' इत्यनया यथार्थबुद्धया निवर्त्यते- यथा वा दिग्भ्रान्तिबुद्धि: दिग्याथात्म्यबुद्धया निवर्त्यते- एवमिहापि अक्षरबुद्धया उद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्धधा वा अक्षरबुद्धिरिति । एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरि- तार्थवृत्तित्वम् - यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति । विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्र- सङ्गे औद्गात्रविशेषस्य समर्पणम - यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति । एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति; तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारण- प्राप्तौ - इदमुच्यते - व्याप्तेश्च समञ्जसमिति । च शब्दोऽयं तु- शब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन: । तदिह त्रयः पक्षा: सावद्या इति पर्युदस्यन्ते ; विशेषणपक्ष एवैको निरवद्य इत्युपादीयते । तत्राध्यासे तावत्- या बुद्धि: इतरल अ- " सूत्रभाष्ये [पा. ३. ध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत, तत्फलं च कल्प्येत ; श्रूयत एव फलम, 'आपयिता ह वै कामानां भ- वति' इत्यादि, इति चेत् - तन्न, तस्य अन्यफलत्वात् ; आत्या- दिदृष्टिफलं हि तत्, नोद्गीथाध्यासफलम । अपवादेऽपि स- मान: फलाभाव: ; मिथ्याज्ञाननिवृत्तिः फलमिति चेत्, न; पुरुषार्थोपयोगानवगमात् न च कदाचिदपि ओंकारात ओं- कारबुद्धिर्निवर्तेत, उद्गीथाद्वा उद्गीथबुद्धिः ; न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम, उपासनाविधिपरत्वात् । नापि एकत्वपक्षः संगच्छते ; निष्प्रयोजनं हि तदा शब्दद्वयोचारणं स्थान, एकेनैव विवक्षितार्थसमर्पणात् । न च हौवविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसि द्धिरस्ति, नापि सकलायाम सानो द्वितीयायां भक्तौ उद्गीथ- शब्दवाच्यायाम ओंकारशब्दप्रसिद्धिः, येनानतिरिक्तार्थता स्यात् । परिशेषाद्विशेषणपक्षः परिगृह्यते, व्याप्तेः सर्ववेद- साधारण्यात्; सर्वव्याप्यक्षर मिह मा प्रसजि - इत्यत उद्गी- थशब्देन अक्षरं विशेष्यते - कथं नाम उद्गीथावयवभूत ओंकारो गृह्येति । नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्; सत्यमेवमेतत् ; लक्ष- णायामपि तु संनिकर्षविप्रकर्षो भवत एव; अध्यासपक्षे हि सू. १०. ] तृतीयोऽध्यायः । अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयव : समर्प्यत इति संनिकृष्टा; समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तमाना दृष्टा: पटग्रामादिषु । अतश्च व्याप्तेर्हेतो: 'ओमित्ये- तदक्षरम्' इत्येतस्य ' उद्गीथम्' इत्येतद्विशेषणमिति समञ्ज- समेतत् निरवद्यमित्यर्थः ॥ , सर्वाभेदादन्यमे ॥ १० ॥ वाजिनां छन्दोगानां च प्राणसंवादे श्रष्टयगुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम; वागादयोऽपि हि तत्र वसिष्ठत्वादि- गुणान्विता उक्ता: ; तेच गुणाः प्राणे ५. सर्वाभेदा- धिकरणम् । 6 पुन: प्रत्यर्पिता :- यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि' इत्यादिना । अन्येषामपि तु शाखिनां कोषीत किप्रभृतीनां प्राणसंवादेषु 'अथातो निःश्रेयसादान- मेता ह वै देवता अहंश्रेयसे विवदमाना:' इत्येवंजातीयकेषु प्राणस्य त्रैष्ठयमुक्तम्, न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ता: । तत्र संशय:- किमिमे वसिष्ठत्वादयो गुणाः कचि - दुक्ता अन्यत्रापि अस्येरन्, उत नास्येरन्निति । तत्र प्राप्त तावत् — नास्येरन्निति ; कुत: ? एवं शब्दसंयोगात्; 'अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा' इति हि तत्र तत्र सूत्रभाष्ये [ पा. ३. एवं शब्देन वेद्यं वस्तु निवेद्यते; एवं शब्दश्व संनिहिताव - लम्बनः न शाखान्तरपरिपठितम् एवजातीयकं गुणजातं शक्नोति निवेदयितुम् ; तस्मात् स्वप्रकरणस्यैरेव गुणैर्निराका- ङ्खत्वमित्येवं प्राप्ते- - - प्रत्याह- अस्येरन इमे गुणाः क्वचिदुक्ता वसिष्ठत्वा- दय: अन्यत्रापि ; कुतः ? सर्वाभेदान - सर्वत्रैव तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूण्यात ; अभेदे च विज्ञानस्य कथम् इमे गुणाः कचिदुक्ता अन्यत्र न अस्येरन् । ननु एवं शब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम; अन्रोच्यते — यद्यपि कौषीतकिब्राह्मणगतेन एवं शब्देन वाजसनेयिब्राह्मणगतं गु- णजातम असंशब्दितम् असंनिहितत्वात् तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवं शब्देन तत् संशब्दित मि- ति-न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्व- शाखागताद्विशिष्यते ; न चैवं सति श्रुतानिः अश्रुतकल्पना वा भवति ; एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्व भवन्ति, गुणवतो भेदाभावात ; न हि देवदत्तः शौ- र्यादिगुणत्वेन स्वदेशे प्रसिद्ध : देशान्तरं गतः तद्देश्यैरविभा- वितशौर्यादिगुणोऽपि तद्गुणो भवति ; यथा च तत्र परिचय- सू. ११.] तृतीयोऽध्यायः । विशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अ- भियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्य- स्येरन । तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्व- त्रैव उपसंहर्तव्या इति ॥ आनन्दादयः प्रधानस्य ॥ ११ ॥ ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञा- नघनत्वं सर्वगतत्वं सर्वात्मत्वंमित्येवंजातीयका ब्रह्मणो धर्मा: क्वचित् केचित् श्रूयन्ते । तेषु संशय:- ६. आनन्दाद्य- धिकरणम् । किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति । तत्र यथा श्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम्, इदमुच्यते-- आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिप- त्तव्याः ; कस्मात् ? सर्वाभेदादेव - सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते; तम्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम- तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनि- दर्शनेन ॥ ननु एवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र संकीर्येरन् तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते तस्य प्रियमेव शिरः । मोदो दक्षिणः G - सूत्रभाष्ये [पा. ३. पक्षः । प्रमोद उत्तर: पक्ष: । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा' इति । अत उत्तरं पठति---- प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥ प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् - प्रियं मोदः प्रमोद आनन्द इत्येते- परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते ; उपचयापचय च सति भेदे संभवत: ; निर्भेदं तु ब्रह्म 'एकमेवाद्वितीयम' इत्यादिश्रुतिभ्यः । न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः ; कोशधर्मास्तु एते इत्युपदि- टमस्माभिः 'आनन्दमयोऽभ्यासान् ' इत्यत्र । अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्य न्ते, न द्रष्टव्यत्वेन; एवमपि सुतरामन्यत्राप्राप्तिः प्रियशि- रस्त्वादीनाम् । ब्रह्मधर्मास्तु एतान्कृत्वा न्यायमात्रमिदम आचार्येण प्रदर्शितम्- प्रियशिरस्त्वाद्यप्राप्तिरिति स च न्याय: अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमा- नेषु नेतव्य:- संयद्वामत्वादिषु सत्यकामत्वादिषु च तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे, प्रक्रमभेदादुपासना- भेदे सति, न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः ; यथा ; सू. १४.] तृतीयोऽध्यायः । च द्वे नार्यौ एकं नृपतिमुपासाते - छत्रेण अन्या चामरेण अन्या - तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति - एवमिहापीति । उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते, न निर्गुणे परस्मिन्त्र- ह्मणि । अतो न सत्यकामत्वादीनां धर्माणां कचिच्छ्रतानां सर्वत्र प्राप्तिरित्यर्थः ॥ इतरे त्वर्थसामान्यात् ॥ १३ ॥ इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एक- त्वात् सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् — प्रतिपत्तिमात्रप्र- योजना हि ते इति ॥ 5 आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ काठके हि पठ्यते--' इन्द्रियेभ्यः परा ह्यर्था अर्थ- भ्यश्च परं मनः । मनसस्तु परा बुद्धि:' इत्यारभ्य ' पुरु- ७. आध्याना- पान्न परं किंचित्सा काष्ठा सा परा धिकरणम् । गति:' इति । तत्र संशय: किमिमे सर्व एव अर्थादयः ततस्ततः परत्वेन प्रतिपाद्यन्ते, उत पुरुष एव एभ्यः सर्वेभ्य: परः प्रतिपाद्यत इति । तत्र सूत्रभाष्ये ,, [पा. ३. तावन् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः ; तथा हि श्रूयते—इदमस्मात्परम् इदमस्मात्परमिति । ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्थान; नैष दोष:, वाक्यबहुत्वोपपत्तेः ; बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान परत्वोपेतान प्रतिपादयितुम । तस्मान प्रत्येकमेषां परत्वप्रतिपादनमित्येवं प्राप्ते- ब्रूमः - पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम, न प्रत्येकमेषां परत्वप्रतिपादनम; कस्मान् ? प्रयोजनाभावात् न हि इतरेषु परत्वेन प्रतिपन्नेषु किंचि- त्प्रयोजनं दृश्यते, श्रूयते वा ; पुरुषे तु इन्द्रियादिभ्यः पर- स्मिन सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम, मोक्ष- सिद्धि: ; तथा च श्रुतिः - ' निचाय्य तन्मृत्युमुखात्प्रमु- च्यते ' इति । अपि च परप्रतिषेधेन काष्टाशब्देन च पुरु- षविषयमादरं दर्शयन पुरुषप्रतिपत्त्यर्थेव पूर्वापरप्रवाहोक्ति- रिति दर्शयति । आध्यानायेति - आध्यानपूर्वकाय सम्यग्द- शनायेत्यर्थः सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदि- श्यते, न तु आध्यानमेव स्वप्रधानम् ॥ आत्मशब्दाच्च ॥ १५ ॥ इतश्च पुरुषप्रतिपत्त्यर्थेव इयमिन्द्रियादिप्रवाहोक्तिः, य- सू. १६.] तृतीयोऽध्यायः । त्कारणम 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभि:' इति प्रकृतं पुरुषम आत्मेत्याह ; अतश्च अनात्मत्वमितरेषां विवक्षितमिति गम्य- ते; तस्यैव च दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति ; तद्विज्ञानायैव च – ' यच्छेद्वाङ्मनसी प्राज्ञ:' इति आध्यानं विदधाति । तत् व्याख्यातम 'आनुमानिकमध्येकेषाम् ' इत्यत्र । एवम् अनेकप्रकार आशयातिशय: श्रुतेः पुरुषे ल- क्ष्यते, नेतरेषु । अपि च ' सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' इत्युक्त, किं तत् अध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् इन्द्रियाद्यनुक्रमणात् परमपदप्रति- पत्त्यर्थ एवायम् आम्नाय इत्यवसीयते ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥ ऐतरेयके श्रूयते - ' आत्मा वा इदमेक एवाग्र आसी- न्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति ' ' स इमाँ- ८. आत्मगृहीत्य - ल्लोकानसृजताम्भो मरीचीर्मरमाप: ' इत्या- धिकरणम् । दि । तत्र संशयः - किं पर एवात्मा इह आत्मशब्देनाभिलप्यते, उत अन्य: कश्चिदिति । किं ताव- त्प्राप्तम् ? न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्ह- तीति; कस्मात् ? वाक्यान्वयदर्शनात् । ननु वाक्यान्वय: ६३.८ सूत्रभाष्ये [पा. ३. 6 सुतरां परमात्मविषयो दृश्यते, प्रागुत्पत्तेः आत्मैकत्वावधार- णात्, ईक्षणपूर्वकस्रष्टृत्ववचनाच्च; नेत्युच्यते, लोकसृष्टिव- चनात् - परमात्मनि हि स्रष्टरि परिगृह्यमाणे, महाभूतसृष्टि: आदौ वक्तव्या: लोकसृष्टिस्तु इह आदावुच्यते ; लोकाश्च महा- भूतसंनिवेशविशेषा:; तथा च अम्भःप्रभृतीन लोकत्वेनैव नि- ब्रवीति अदोऽम्भः परेण दिवम्' इत्यादिना । लोकसृ- टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते ; तथा हि श्रुतिर्भवति — 'आ- त्मैवेदमग्र आसीत्पुरुषविध:' इत्याद्या ; स्मृतिरपि — 'सवै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत इति ; ऐतरेयिणोऽपि ' अथातो रेतस: सृष्टिः प्रजापते रेतो देवा:' इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापति- कर्तृकां विचित्रां सृष्टिमामनन्ति; आत्मशब्दोऽपि तस्मिन्प्र- युज्यमानो दृश्यते— 'आत्मैवेदमग्र आसीत्पुरुषविधः ' इत्यत्र । एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपप- द्यते ; ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् । अपि च ' ताभ्यो गामानयत् ' ' ताभ्योऽश्वमानयत् ' ' ताभ्यः पुरु- षमानयत् ' ' ता अब्रुवन्' इत्येवंजातीयको भूयान व्यापार- विशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्ध: इहानुग- , सू. १७.] तृतीयोऽध्यायः । म्यते । तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते- ब्रूमः- पर एव आत्मा इह आत्मशब्देन गृह्यते ; इतर- वत् - यथा इतरेषु सृष्टिश्रवणेषु ' तस्माद्वा एतस्मादात्मन आकाश : संभूतः ' इत्येवमादिषु परस्यात्मनो ग्रहणम्, यथा च इतरस्मिन लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आ- त्मशब्देन गृह्यते - तथा इहापि भवितुमर्हति । यत्र तु 'आ- त्मैवेदमग्र आसीत्' इत्येवमादौ ' पुरुषविध:' इत्येवमादि विशेषणान्तरं श्रूयते भवेत् तत्र विशेषवत आत्मनो ग्रहणम ; अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमपि उत्तरम् उप- लभ्यते—— स ईक्षत लोकान्नु सृजा इति स इमाल्लोकान- सृजत इत्येवमादि; तस्मात् तस्यैव ग्रहणमिति न्याय्यम् ॥ " , ' अन्वयादिति चेत्यादवधार- णात् ॥ १७ ॥ वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम्, तत्परिहर्तव्यमिति - अत्रोच्यते यादवधारणादिति । भवेदुप- पनं परमात्मनो ग्रहणम्; कस्मात् ? अवधारणात्; परमा- त्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमा असमवकल्पते; अन्यथा हि अनाञ्जसं तत्परिकल्प्येत । लोकसृष्टिवचनं तु s. w. III. 6 सूत्रभाष्ये [पा. ३. श्रुत्यन्तरप्रसिद्ध महाभूतसृष्टयनन्तरमिति योजयिष्यामि ; य- था ' तत्तेजोऽसृजत' इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्टय- नन्तरमिति अयूयुजम, एवमिहापि श्रुत्यन्तरप्रसिद्धो ह समानविषयो विशेष: श्रुत्यन्तरेषु उपसंहर्तव्यो भवति । यो- Sपि अयं व्यापारविशेषानुगमः ' ताभ्यो गामानयत्' इत्ये- वमादि:, सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्य: ; न ह्ययं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम, तत्प्रतिपत्तौ पुरुषार्थाभावात्; ब्रह्मात्मत्वं तु इह विवक्षितम् ; तथा हि- अम्भः प्रभृतीनां लोकानां लोकपालानां चाग्न्या- दीनां सृष्टि शिष्टा करणानि करणायतनं च शरीरमुपदिश्य, स एव स्रष्टा ' कथं न्विदं मदृते स्यात' इति वीक्ष्य, इदं शरीरं प्रविवेशेति दर्शयति- ' स एतमेव सीमानं विदार्येतया द्वारा प्रापद्यत इति ; पुनश्च 'यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्' इत्येवमादिना करणव्यापारविवेचनपूर्व- कम् ' अथ क्रोऽहम् ' इति वीक्ष्य, ' स एतमेव पुरुषं ब्रह्म ततममपश्यत्' इति ब्रह्मात्सत्वदर्शनमवधारयति ; तथोपरि- ष्टात् - ' एष ब्रह्मैष इन्द्र:' इत्यादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य, 'सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञाने - वो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति ब्रह्मात्मत्वदर्श- , सू. १७.] तृतीयोऽध्यायः । नमेव अवधारयति । तस्मात् इह आत्मगृहीतिरित्यनप- वादम् ॥ अपरा योजना - आत्मगृहीतिरितरवदुत्तरात् । वाज- सनेयके 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य - न्तर्ज्योति: पुरुष:' इत्यात्मशब्देनोपक्रम्य, तस्यैव सर्वस- ङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रह्मात्मतामवधारयति ; तथा हि उपसंहरति- 'स वा एष महानज आत्माजरोऽमरोऽमृतो- भयो ब्रह्म' इति । छान्दोग्ये तु 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्के 'स आत्मा तत्त्वमसि' इति तादात्म्यमुपदिशति । तत्र संशयः -- तुल्यार्थत्वं किमनयोरान्नानयोः स्यात्, अतु- ल्यार्थत्वं वेति । अतुल्यार्थत्वमिति तावत् प्राप्तम्, अतुल्य- त्वादान्नानयोः न हि आन्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम्, आम्नानतन्त्रत्वादर्थपरिग्रहस्य ; वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते ; छा- न्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः । ननु छन्दो- गानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम् ; सत्यमुक्तम्, उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सा इति म न्यते । तथा प्राप्ते, अभिधीयते - आत्मगृहीति: 'सदेव सो- " ---- सूत्रभाष्ये [पा. ३. म्येदमग्र आसीत्' इत्यत्र छन्दोगानामपि भवितुमर्हति ; इतरवत् - यथा 'कतम आत्मा' इत्यत्र वाजसनेयिनामात्म- गृहीति:, तथैव कम्मात ? उत्तरात तादात्म्योपदेशात । अन्वयादिति चेत्स्यादवधारणात् — यदुक्तम, उपक्रमा- न्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीति- रिति, तस्य कः परिहार इति चेत सोऽभिधीयते - म्याद - वधारणादिति । भवेदुपपन्ना इह आत्मगृहीति, अवधार- णात् तथा हि - ' येनाश्रुतं श्रुतं भवत्यमतं मतम- विज्ञातं विज्ञातम' इत्येकविज्ञानेन सर्वविज्ञानमवधार्य, तत्संपिपादयिषया 'सदेव' इत्याह तच्च आत्मगृहीतौ सत्यां संपद्यते; अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं संपद्येत । तथा प्रागुत्पत्तेः एकत्वावधारणम्, जीवस्य च आत्मशब्देन परा- मर्शः, स्वापावस्थायां च तत्स्वभावसंपत्तिकथनम्, परिचो दनापूर्वकं च पुनः पुनः 'तत्त्वमसि' इत्यवधारणम्- इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते, न तादा- त्म्यसंपादनायाम् । न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्या- य्यः; न हि उपक्रमे आत्मत्वसंकीर्तनम् अनात्मत्वसंकीर्तनं वा अस्ति; सामान्योपक्रमच न वाक्यशेषगतेन विशेषेण सू. १८.] तृतीयोऽध्यायः । विरुध्यते, विशेषाकङ्क्षित्वात्सामान्यस्य । सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः संभवति, अतो- ऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः । आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, आहर पात्रम' ' पात्रमाहर' इत्येवमादिषु अर्थसाम्येऽपि तद्दर्श- नात् । तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभे- देsपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ कार्याख्यानादपूर्वम् ॥ १८ ॥ ; छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय, तस्यैव आपो वास आमनन्ति ; अनन्तरं च ९. कार्याख्याना- च्छन्दोगा आमनन्ति -- ' तस्माद्वा एत- धिकरणम् । दशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परि- दधति' इति वाजसनेयिनश्चामनन्ति - 'तद्विद्वांसः श्रो- त्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्त्येतमेव तदन- मननं कुर्वन्तो मन्यन्ते ' ' तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमननं कुरुते' इति । तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते ; तत्किमुभयमपि विधी - यते, उत आचमनमेव, उत अनग्नताचिन्तनमेवेति विचा- र्यते । किं तावत्प्राप्तम् ? उभयमपि विधीयत इति ; कुत: ? 1 सूत्रभाष्ये [पा. ३. उभयस्याप्यवगम्यमानत्वात् ; उभयमपि च एतत् अपूर्वत्वा- तू विध्यर्हम् । अथवा आचमनमेव विधीयते ; विस्पष्टा हि तस्मिन्विधिविभक्तिः — 'तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत्' इति तस्यैव स्तुत्यर्थम् अननतासंकीर्तनमित्येवं प्राप्ते- ; ब्रूमः - न आचमनस्य विधेयत्वमुपपद्यते, कार्याख्या- नात - प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थ स्मृति- प्रसिद्धम् अन्वाख्यायते । ननु इयं श्रुतिः तस्या: स्मृते- मूलं स्यात्; नेत्युच्यते, विषयनानात्वात्; सामान्यविषया हि स्मृतिः पुरुषमात्र संबद्धं प्रायत्यार्थमाचमनं प्रापयति ; श्रु- तिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदध- ती विदध्यात् ; न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभा- वोsवकल्पते ; न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाच- मनं विधास्यतीति शक्यमाश्रयितुम्, पूर्वस्यैव पुरुषमात्र सं- योगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात्; अत एव च नोभयविधानम् ; उभयविधाने च वाक्यं भिद्येत; तस्मात प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनू- ' एतमेव तदनमनमं कुर्वन्तो मन्यन्ते' इति प्राणस्य अनग्नताकरणसंकल्पः अनेन वाक्येन आचमनीयास्वप्सु द्य, . सू. १८. ] तृतीयोऽध्यायः । प्राणविद्या संबन्धित्वेन अपूर्व उपदिश्यते । न च अयमनग्न- तावाद : आचमनस्तुत्यर्थ इति न्याय्यम, आचमनस्याविधे- यत्वात् । स्वयं च अनग्नतासंकल्पस्य विधेयत्वप्रतीतेः । न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भ- वति - प्रायत्यार्थता परिधानार्थता चेति क्रियान्तरत्वाभ्युप- गमात् — क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थ पुरु- षस्य अभ्युपगम्यते ; तदीयासु तु अप्सु वास: नः संकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् । अपि च ' यदिदं किंवा श्वभ्य आ कृमिभ्य आ कीटपतंगे - भ्यस्तत्तेऽन्नम्' इत्यत्र तावत् न सर्वान्नाभ्यवहारचोद्यत इति शक्यं वक्तुम्, अशब्दत्वादशक्यत्वाच्च ; सर्वे तु प्राणस्यान्न- मिति इयमन्नदृष्टिश्चोद्यते; तत्साहचर्याच्च 'आपो वास: ' इत्यत्रापि न अपामाचमनं चोद्यते ; प्रसिद्धास्वेव तु आ- चमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम ; न हि अर्धवैशसं संभवति । अपि च आचामन्तीति वर्तमानापदेशि - त्वात् नायं शब्दो विधिक्षम: । ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्; सत्यमेव तत्; अवश्यविधेये तु अन्य- तरस्मिन् वास: कार्याख्यानात् अपां वासः संकल्पनमेव अपूर्व विधीयते ; न आचमनम् ; पूर्ववद्धि तत् — इत्युपपादितम् । सूत्रभाष्ये [पा. ३. यदप्युक्तम् - विस्पष्टा च आचमने विधिविभक्तिरिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् अत एव आचमनम्या- विधित्सितत्वात् ' एतमेव तदनमनमं कुर्वन्तो मन्यन्ते ' इत्य- चैव काण्वाः पर्यवस्यन्ति, न आमनन्ति 'तस्मादेवंवित ' इत्यादि; तस्मात् माध्यंदिनानामपि पाठ आचमनानुवादेन एवं वित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्त - व्यम । योऽप्ययमभ्युपगमः कचिदाचमनं विधीयताम, क्वचिद्वासोविज्ञानमिति - सोऽपि न साधुः, ' आपो वासः ' इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् । तस्मात् वासो- विज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम ॥ समान एवं चाभेदात् ॥ १९ ॥ । वाजसनेयिशाखायाम अम्मिरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता ; तत्र च गुणाः श्रूयन्ते - 'स आत्मान- १०. समानाधि- मुपासीत मनोमयं प्राणशरीरं भारूपम ' करणम् । इत्येवमादय: ; तस्यामेव शाखायां बृहदा - रण्यके पुन: पठ्यते— 'मनोमयोऽयं पुरुषो भाः सत्यस्त- स्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशान : सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच' इति । तत्र संशयः - किमियम एका विद्या अनिरहस्य बृहदारण्य- सू. १९] तृतीयोऽध्यायः । कयो: गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणानुपसंहारश्चेति । किं तावत्प्राप्तम् ? विद्याभेद: गुणव्यवस्था चेति ; कुत: ? पौनरुक्त्यप्रसङ्गात् — भिन्नासु हि शाखासु अध्येतृवेदितृभे- दात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एक- त्रातिरिक्ता गुणा इतरत्रोपसंहियन्ते प्राणसंवादादिषु - इत्यु- क्तम् ; एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकष्टदेशस्था एका विद्या भ वितुमर्हति । न च अत्र एकमानानं विद्याविधानार्थम्, अपरं गुणविधानार्थम् इति विभागः संभवति तदा हि अति- रिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन्, न समाना: ; समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः । तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते- ब्रूमहे - यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहा- रच भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्या- भेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमः ; उपास्यं च रूपं विद्याया:; न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुम: ; नापि विद्याभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः ; नेत्युच्यते, अर्थविभागोपपत्तेः एकं सूत्रभाष्ये [पा. ३. हि आम्नानं विद्याविधानार्थम् अपरं गुणविधानार्थम् - , 6 इति न किंचिनोपपद्यते । ननु एवं सति यदपठितमग्निरह- स्ये, तदेव बृहदारण्यके पठितव्यम् - स एष सर्वस्येशान : ' इत्यादि ; यत्तु पठितमेव ' मनोमय:' इत्यादि, तन्न पठित- व्यम् - नैष दोष:, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभि- ज्ञानात् ; समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते; अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते । अपि च अप्राप्तांशो- पदेशेन अर्थवति वाक्ये संजाते, प्राप्तांशपरामर्शस्य नित्यानु- वादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणो- पसंहारश्चेत्युपपन्नम् ॥ ' संबन्धादेवमन्यत्रापि ॥ २० ॥ ११. संबन्धा- बृहदारण्यके 'सत्यं ब्रह्म' इत्युपक्रम्य, तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे- Sक्षन्पुरुष:' इति तस्यैव सत्यस्य ब्रह्मणः धिकरणम् । अधिदैवतमध्यात्मं च आयतनविशेषमुप- दिश्य, व्याहृतिशरीरत्वं च संपाद्य, द्वे उपनिषदावादिश्ये- ——' तस्योपनिषदह: ' इति - अधिदैवतम् ' तस्योपनिषद- सू. २१.] तृतीयोऽध्यायः । , हम्' इति - अध्यात्मम् । तत्र संशयः -- क्रिमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसंधातव्ये, उत विभागेन - एका अधिदैवतम्, एका अध्यात्ममिति । तत्र सूत्रेणैवोपक्रमते- यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति एक- विद्याभिसंबन्धात् - एका हि इयं सत्यविद्या अधिदैवतम् अ- ध्यात्मं च अधीता, उपक्रमाभेदात् व्यतिषक्तपाठाश्च ; कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् । यो ह्याचार्ये कश्चि- दनुगमनादिराचारचोदितः, स ग्रामगतेऽरण्यगते च तुल्य- वदेव भवति । तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्ति- रिति ॥ एवं प्राप्ते, प्रतिविधत्ते- -- न वा विशेषात् ॥ २१ ॥ नैव उभयोः उभयत्र प्राप्तिः ; कस्मात् ? विशेषात्, उपा- सनस्थानविशेषोपनिबन्धादित्यर्थः । कथं स्थानविशेषोपनिब- न्ध इति, उच्यते— 'य एष एतस्मिन्मण्डले पुरुष:' इति हि आधिदैविकं पुरुषं प्रकृत्य, ' तस्योपनिषदह : ? इति श्राव- यति ; ' योऽयं दक्षिणेऽक्षन्पुरुष:' इति च आध्यात्मिकं पुरुषं प्रकृत्य, 'तस्योपनिषदहम्' इति ; तस्येति च एतत् संनिहि- सूत्रभाष्ये [पा. ३. तावलम्बनं सर्वनाम; तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते; कुत उभयोरुभयत्र प्राप्तिः । ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् सत्यमेवमेतत् एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति ; अस्ति चायं दृष्टान्तः- सत्यपि आचार्य- स्वरूपानपाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम, न तत् तिष्ठतो भवति ; यच्च तिष्ठत उक्तम, न तदासीनस्ये- ति । ग्रामाण्ययोस्तु आचार्यस्वरूपानपायात तत्स्वरूपानुब- द्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्य- वद्भाव इति अदृष्टान्तः सः । तस्मात् व्यवस्था अनयोरुप- निषदोः ॥ दर्शयति च ॥ २२ ॥ अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति- ' तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम' इति । कथमस्य लिङ्गत्व- मिति, तदुच्यते— अक्ष्यादित्यस्थानभेदभिन्नान् धर्मान् अन्योन्यस्मिन्ननुपसंहार्यान् पश्यन इह अतिदेशेन आदित्य- पुरुषगतान्रूपादीन अक्षिपुरुषे उपसंहरति- 'तस्यैतस्य सू. २३ . ] तृतीयोऽध्यायः । तदेव रूपम्' इत्यादिना । तस्माद्व्यवतिष्ठेते एव एते उपनि- पदाविति निर्णय: ॥ संभृतिद्युत्र्याप्त्यपि चातः ॥ २३ ॥ 'ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठ दिवमाततान' इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयां १२. संभृत्यवि - ब्रह्मणो विभूतयः पठ्यन्ते; तेषामेव च 6 करणम् । उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मवि- द्या: पठ्यन्ते ; तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उ- पहियेरन्, न वेति विचारणायाम, ब्रह्मसंबन्धादुपसं- हारप्राप्तौ एवं पठति । संभृतिद्युव्याप्तिप्रभृतयो विभू- तयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात् । तथा हि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम- ' एष म आत्मान्तर्हृदये ' इति; तद्वदेव दहरविद्यायामपि -- ' दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश:' इति ; उपकोसलविद्यायां तु अ- क्ष्यायतनत्वम् — " य एषोऽक्षिण पुरुषो दृश्यते ' इति ; एवं तत्र तत्र तत्तत् आध्यात्मिकमायतनम् एतासु विद्यासु प्रतीयते ; आधिदैविक्यस्तु एता विभूतयः संभृतिद्युव्याप्तिप्र- भृतय: ; तासां कुत एतासु प्राप्तिः । नन्वेतास्वपि आधिदैवि 6 - सूत्रभाष्ये [पा. ३. क्यो विभूतयः श्रूयन्ते ज्यायान्दिवो ज्यायानेभ्यो लोके- भ्य:' ' एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति ' ' या- वान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावा- पृथिवी अन्तरेव समाहिते' इत्येवमाद्याः; सन्ति च अन्या आयतनविशेषहीना अपि इह ब्रह्मविद्याः षोडशकलाद्या:- सत्यमेवमेतत्; तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहा- रहेतुः - समानगुणान्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशा- स्वपि विद्यासु विप्रकृष्टदेशगुणा उपसंहियेरन्निति युक्तम; संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराच गुणाः परस्पर- व्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः । न च ब्रह्मसंबन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमि- त्युच्यते, विद्याभेदेऽपि तदुपपत्तेः ; एकमपि हि ब्रह्म विभू- तिभेदैरनेकधा उपास्यत इति स्थितिः, परोवरीयस्त्वादिवद्वे- ददर्शनात् । तस्मात् वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति ॥ पुरुषविद्यायामिव चेतरेषाम- नाम्न्नानात् ॥ २४ ॥ अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ; तत्र पुरुषो यज्ञः करूिपतः ; तदीयमायुः त्रेधा विभज्य सव- सू. २४.] तृतीयोऽध्यायः । नत्रयं कल्पितम् अशिशिषादीनि च दीक्षादिभावेन क- १३. पुरुषविद्या - ल्पितानि ; अन्ये च धर्मास्तत्र समधि- धिकरणम् । गता आशीमंत्र प्रयोगादयः । तैत्तिरीयका अपि कंचित् पुरुषयज्ञं कल्पयन्ति -- ' तस्यैवंविदुषो यज्ञ- स्यात्मा यजमानः श्रद्धा पत्नी' इत्येतेनानुवाकेन । तत्र संशयः——किमितरत्र उक्ता: पुरुषयज्ञस्य धर्माः तैत्तिरीयकेषु उपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति । पुरुषयज्ञत्वा- विशेषात् उपसंहारप्राप्तौ, आचक्ष्महे- नोपसंहर्तव्या इति; कस्मात् ? तद्रूपप्रत्यभिज्ञानाभावान्; तदाहाचार्य: पुरुषवि- द्यायामिवेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम्, नैवम् इतरेषां तैत्तिरीयाणामा- नानमस्ति ; तेषां हि इतरविलक्षणमेव यज्ञसंपादनं दृश्यते, पत्नीयजमान वेदिवेदबर्हिपाज्यपश्वृत्विगाद्यनुक्रमणात् । य- दपि सवनसंपादनम्, तदपि इतरविलक्षणमेव - 'यत्प्रा- तर्मध्यंदिन ५ सायं च तानि' इति । यदपि किंचित्, मरणावभृथत्वादिसामान्यम्, तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् । न च तै- त्तिरीय के पुरुषस्य यज्ञत्वं श्रूयते ; 'विदुषः ' ' यज्ञस्य ' इति हि न च एते समानाधिकरणे षष्ठयौ -- विद्वानेव यो यज्ञ- सूत्रभाष्ये ; [पा. ३. स्तस्येति ; न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति ; व्यधिकरणे तु एते षष्ठयौ -- विदुषो यो यज्ञस्तस्येति भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः; सत्यां च गतौ, मुख्य एवार्थ आश्रय- न भाक्तः । आत्मा यजमान:' इति च यजमानत्वं पुरुषस्य निर्बुवन् वैयधिकरण्येनैव अस्य यज्ञसंबन्धं दर्शय- ति । अपि च 'तस्यैवंविदुषः' इति सिद्धवदनुवादश्रुतौ स- तव्यः, । त्याम्, पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् । अपि च ससंन्यासा- मात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ' तस्यैवंविदुषः ' इत्याद्यनुक्रमणं पश्यन्तः - - पूर्वशेष एव एप आम्नायः, न स्व- तन्त्र इति प्रतीम: ; तथा च एकमेव फलमुभयोरप्यनुवाकयो- रुपलभामहे - - ' ब्रह्मणो महिमानमाप्नोति' इति ; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नाय : ; आयुरभिवृद्धिफलो ह्यसौ ' ग्रह षोडशं वर्षशतं जीवति य एवं वेद' इति समभि- व्याहारात् । तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामा- शीर्मन्वादीनामप्राप्तिः तैत्तिरीयके ॥ वेधाद्यर्थभेदात् ॥ २५ ॥ अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नाय :- ' सर्व प्रविध्य हृदयं प्रविव्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य विधा सू. २५.] तृतीयोऽध्यायः । विवृक्त:' इत्यादिः ; ताण्डिनाम्- 'देव सवितः प्रसुव १४. बेधाद्यधि यज्ञम्' इत्यादिः ; शाट्यायनिनाम्- " करणम् । 'श्वेताश्वो हरितनीलोsसि' इत्यादिः ; कठानां तैत्तिरीयाणां च--- " शं नो मित्रः शं वरुणः इत्यादिः ; वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यत्राह्मणं पठ्यते— 'देवा ह वै सत्रं निषेदुः ' इत्यादि ; कौषीतकिना- मपि अग्निष्टोमब्राह्मणम्- 'ब्रह्म वा अग्निष्टोमो ब्रह्मैव तद- हर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरु - पयन्ति' इति । किमिमे सर्वे प्रविध्यादयो मन्त्राः प्रवय- दीनि च कर्माणि विद्यासु उपसंहियेरन, किं वा न उपसं- व्हियेरन् - इति मीमांसामहे । किं तावत् न: प्रतिभाति ? उपसंहार एव एषां विद्यास्विति; कुत: ? विद्याप्रधानानामुप- निषन्थानां समीपे पाठात् । ननु एषां विद्यार्थतया विधानं नोपलभामहे- बाढम्, अनुपलभमाना अपि तु अनुमा- स्यामहे, संनिधिसामर्थ्यात् ; न हि संनिधेः अर्थवत्त्वे संभवति, अकस्मादसावनाश्रयितुं युक्तः । ननु नैषां मन्त्राणां विद्याविषयं किंचित्सामर्थ्यं पश्यामः ; कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति नैष दोष: ; सामर्थ्य तावत् मन्त्राणां विद्या- s. W. III. 7 सूत्रभाष्ये [पा. ३. विषयमपि किंचित् शक्यं कल्पयितुम, हृदयादिसंकीर्तनान् ; हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टा- नि; तारेण च ' हृदयं प्रविध्य' इत्येवंजातीयकानां मन्त्रा- णाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रवि- नियोगः - 'भूः प्रपद्येऽमुनामुनामुना' इत्येवमादिः ; तथा प्रवर्ग्यादीनां कर्मणाम अन्यत्रापि विनियुक्तानां सताम अवि- रुद्ध विद्यासु विनियोग:- वाजपेय इव बृहस्पतिसवम्य- इत्येवं प्राप्ते- , ब्रूमः -- नैषामुपसंहारो विद्यास्विति ; कस्मात् ? वेधाद्य- भेदात्- 'हृदयं प्रविध्य' इत्येवंजातीयकानां हि मन्त्राणां sa हृदयवेधादयः भिन्ना: अनभिसंबद्धाः ते उपनिषदु- दिताभिर्विद्याभि:; न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्वारक उपासनासंब- न्ध उपन्यस्तः- नेत्युच्यते ; हृदयमात्र संकीर्तनस्य हि एव- मुपयोगः कथंचिदुत्प्रेक्ष्येत; न च हृदयमालमत्र मन्त्रार्थ : ; 'हृदयं प्रविध्य धमनीः प्रवृज्य' इत्येवंजातीयको हि न स- कलो मन्त्रार्थी विद्याभिरभिसंबध्यते ; अभिचारविषयो हो- षोऽर्थः ; तस्मादाभिचारिकेण कर्मणा ' सर्व प्रविध्य' इत्येत- स्य मन्त्रस्याभिसंबन्धः ; तथा ' देव सवितः प्रसुव यज्ञम् ' " सू. २५.] तृतीयोऽध्यायः । , ; , इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसंबन्ध:; तद्वि- शेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः एवमन्येषामपि मन्त्रा- णाम् - केषांचित् लिङ्गेन, केषांचिद्वचनेन, केषांचित्प्रमाणान्त- रेणेत्येवम् अर्थान्तरेषु विनियुक्तानाम् रहस्यपठितानामपि सताम्, न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः ; दुर्बलो हि सं- निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे -- 'श्रुतिलिङ्गवाक्य- प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ' इत्यत्र । तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्ति:; न ह्येषां विद्याभिः सह ऐका किंचिदस्ति; वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनि- योगान्तरम् -- ' वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत ' इति ; अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अ- न्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोग- मर्हति : अगृह्यमाणविशेषत्वे हि प्रमाणयोः एवं स्यात् ; न तु बलवदबलवतो: प्रमाणयोरगृह्यमाणविशेषता संभवति, बल- वदबलवत्त्वविशेषादेव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् ; अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतो- ष्टव्यम् ॥ सूत्रभाष्ये [पा. ३. हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्द- स्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥ अस्ति ताण्डिनां श्रुति:- 6 अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा १५. हान्यधि- ब्रह्मलोकमभिसंभवामि ' इति ; तथा आथ- करणम् । र्वणिकानाम् - ' तथा विद्वान्नामरूपाद्वि- मुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति ; तथा शाट्याय- निनः पठन्ति - ' तस्य पुत्रा दायमुपयन्ति सुहृदः साधु- कृत्यां द्विषन्तः पापकृत्याम्' इति ; तथैव कौषीतकिन:- " -~- तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपय- न्त्यप्रिया दुष्कृतम्' इति । तदिह कचित् सुकृतदुष्कृत- योर्हानं श्रूयते ; क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपाय- नम् ; कचित्तु उभयमपि हानमुपायनं च; तद्यत्रोभयं श्रूयते तत्र तावत् न किंचिद्वक्तव्यमस्ति यत्राप्युपायनमेव श्रूयते, न हानम्, तत्राप्यर्थादेव हानं संनिपतति, अन्यै- रात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धा- नस्य ; यत्र तु हानमेव श्रूयते, नोपायनम् - तत्रोपायनं संनिपते- द्वा न वेति विचिकित्सायाम् अश्रवणादसंनिपातः, विद्या- न्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य । अपि च आत्म- सू. २६. ] तृतीयोऽध्यायः । कर्तृकं सुकृतदुष्कृतयोर्हानम्; परकर्तृकं तु उपायनम् ; तयो- रसत्यावश्यकभावे, कथं हानेनोपायनमाक्षिप्येत ? तस्माद- संनिपातो हानावुपायनस्येति ॥ " अस्यां प्राप्तौ पठति — हानाविति । हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं संनिपतितुमर्हति ; त- च्छेषत्वात्-हानशब्दशेषो हि उपायनशब्दः समधिगतः कौ- बीतकिरहस्ये; तस्मादन्यत्र केवलहानश्रवणेऽप्युपायनानुवृ- त्तिः । यदुक्तम् - अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्य- कत्वाच्च असंनिपात इति, तदुच्यते भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किंचिदन्यत श्रुतम् अन्यत्र निनीष्येत; न त्विह हानमुपायनं वा अनुष्ठेयत्वेन संकीर्त्यते ; विद्यास्तुत्यर्थं तु अन- योः संकीर्तनम् - इत्थं महाभागा विद्या, यत्सामर्थ्यादस्य वि- दुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुह- दुर्हृत्सु निविशेते इति; स्तुत्यर्थे च अस्मिन्संकीर्तने, हानान- न्तरभावित्वेनोपायनस्य, कचिच्छ्रतत्वात् अन्यत्रापि हानश्रु- तावुपायनानुवृत्तिं मन्यते - स्तुतिप्रकर्षलाभाय ; प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः - ' एकविंशो वा इतो- ऽसावादित्यः' इत्येवमादिषु ; कथं हि इह एकविंशता आदि- त्यस्याभिधीयेत, अनपेक्ष्यमाणेऽर्थवादान्तरे - ' द्वादश मासा: सूत्रभाष्ये [पा. ३. पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश:' इत्यस्मिन ! तथा ' त्रिष्टुभौ भवतः सेन्द्रियत्वाय' इत्येवमादिवादेषु 'इन्द्रि - यं वै त्रिष्टुप् ' इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते । विद्यास्तुत्य- र्थत्वाच्च अस्योपायनवादस्य, कथमन्यदीये सुकृतदुष्कृते अन्यै- रुपेयेते इति नातीवाभिनिवेष्टव्यम् । उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थमेव हानावुपायनानुवृत्तिं सू- चयति ; गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृ- तिं ब्रूयात् । तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहार- प्रदर्शनार्थमिदं सूत्रम् । कुशाच्छन्दस्तुत्युपगानबदिति उपमो- पादानम्; तद्यथा- भालविनाम् ' कुशा वानस्पत्या: स्थ ता मा पात' इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पति- योनित्वश्रवणे, शाट्यायनिनाम 'औदुम्बरा:' इति विशेष- वचनात् औदुम्बर्यः कुशा आश्रीयन्ते यथा च कचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे, देवच्छन्दांसि पू- र्वाणीति पैङ्गचाम्नानात्प्रतीयते ; यथा च षोडशिस्तोत्रे केषां - चित्कालाविशेषप्राप्तौ, 'समयाध्युषिते सूर्ये' इत्याश्रुतेः कालविशेषप्रतिपत्तिः ; यथैव च अविशेषेणोपगानं केचि - --- ; त्समामनन्ति विशेषेण भाल्लविन: -- यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वय:, एवं हानावप्युपायनान्वय इत्यर्थः । सू. २६.] तृतीयोऽध्यायः । श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् ; स च अन्याय्यः सत्यां गतौ ; तदुक्तं द्वाद- शलक्षण्याम्— 'अपि तु वाक्यशेषत्वादितरपर्युदासः स्या- त्प्रतिषेधे विकल्पः स्यात्' इति ॥ अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्त- यितव्यम् - किमनेन विधूननवचनेन सुकृतदुष्कृतयो- नमभिधीयते, किंवा अर्थान्तरमिति । तत्र च एवं प्रापयित- व्यम् - न हानं विधूननमभिधीयते, 'धूञ्कम्पने' इति स्मरणात्, 'दोधूयन्ते ध्वजाग्राणि ' इति च वायुना चाल्य- मानेषु ध्वजाग्रेषु प्रयोगदर्शनात्; तस्मात् चालनं विधूनन- मभिधीयते ; चालनं तु सुकृतदुष्कृतयोः कंचित्कालं फलप्र- तिबन्धनात् -- इत्येवं प्रापय्य, प्रतिवक्तव्यम् - हानावेव एष विधूननशब्दो वर्तितुमर्हति उपायनशब्दशेषत्वात्; न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपा- यनं संभवति यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परै- रुपायनं न आञ्जसं संभाव्यते, तथापि तत्संकीर्तनात्तावत् त- दानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते । क्वचिदपि च इदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युप- गानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिक निर्णय- सूत्रभाष्ये [पा. ३. कारणं संपद्यते । न च चालनं ध्वजाग्रवत् सुकृतदुष्कृत - योर्मुख्यं संभवति, अद्रव्यत्वात् । अश्वश्व रोमाणि विधू- न्वान: त्यजन रजः सहैव तेन रोमाण्यपि जीर्णानि शात- यति - ' अश्व इव रोमाणि विधूय पापम' इति च ब्राह्मणम् ; अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणवि- रोधः । तदुक्तमिति व्याख्यातम् ॥ सांपराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥ १६. सांपराया- 6 स आग- देवयानेन पथा पर्यङ्कस्थं ब्रह्म अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति स एतं देवयानं पन्थानमासाद्यामि- धिकरणम् । लोकमागच्छति' इत्युपक्रम्य, च्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधून- ते' इति । तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रति- पत्तव्यम्, आहोस्वित् आदावेव देहादपसर्पणे- इति विचार- णायाम्, श्रुतिप्रामाण्यात् यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति - सांपराय इति । सांपराये गमन एव देहादपसर्पणे, इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति इति प्रतिजानीते ; हेतुं च आच - तर्तव्याभावादिति ; न हि विदुषः संपरेत- स्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किं- , सू. २९.] " तृतीयोऽध्यायः । चित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाता- म् । विद्याविरुद्धफलत्वाच्च विद्यासामर्थ्येन तयोः क्षयः; स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षय: पश्चात्पठ्यते । तथा हि अ- न्येऽपि शाखिनः ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति - ' अव इव रोमाणि विधूय पा- पम्' इति, ' तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्वि- षन्तः पापकृत्याम्' इति च ॥ छन्दत उभयाविरोधात् ॥ २८ ॥ यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्थ - पथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनि- यमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकख सुकृतदु- ष्कृतक्ष्यस्य स्यात्; तस्मात् पूर्वमेव साधकावस्थायां छन्दतो- ऽनुष्ठानं तस्य स्यात्, तत्पूर्वकं च सुकृतदुष्कृतहानम् - इति द्रष्टव्यम्; एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्याय- निश्रुत्योश्च संगतिरिति ॥ गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः ॥ २९ ॥ सूत्रभाष्ये " " [ पा. ३. क्वचित् पुण्यपापापहानसंनिधौ देवयानः पन्थाः श्रूयते, क्वचिन्न; तत्र संशयः - किं हानावविशेषेणैव देवयानः १७. गतेरर्थ- पन्थाः संनिपतेत्, उत विभागेन क्वचित्सं- वत्त्वाधि- निपतेत् क्वचिन्नेति । यथा तावत् हानाव- करणम्। विशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवया- नानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ, आचक्ष्महे— गतेः देवयानस्य पथः, अर्थवत्त्वम् उभयथा विभागेन भवितुम- र्हति - कचिदर्थवती गतिः क्वचिन्नेति ; न अविशेषेण । अ- न्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरो- धः स्यात् - 'पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ' इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिविरुध्येत ; कथं हि निर- rasiन्ता देशान्तरं गच्छेत्; गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् - इत्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ उपपन्नस्तल्लक्षणार्थोपलब्धे- र्लोकवत् ॥ ३० ॥ उपपन्नश्चायम् उभयथाभावः- गति: क्वचिन्नेति ; तल्लक्षणार्थोपलब्धेः - गतिकारणभूतोऽर्थः पर्य- विद्यादिषु सगुणेषु उपासनेषु उपलभ्यते ; तत्र हि पर्यङ्का- रोहणम्, पर्यङ्कुस्थेन ब्रह्मणा सह संवदनम् विशिष्टगन्धादि- सू. ३१.] तृतीयोऽध्यायः । प्राप्तिश्च - इत्येवमादि बहुदेशान्तरप्राध्यायत्तं फलं श्रूयते ; तत्र अर्थवती गति: ; न तु सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति; न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेश- बीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किंचिदस्ति; तत्र अनर्थिका गतिः । लोकवच्च एष विभागो द्रष्टव्य:--- यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ एवमिहापीति । भूयश्च एनं वि- भागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ अनियमः सर्वासामविरोधः शब्दा- नुमानाभ्याम् ॥ ३१ ॥ सगुणा विद्यासु गतिरर्थवती, न निर्गुणायां परमात्म- विद्यायाम् इत्युक्तम् सगुणास्वपि विद्यासु कासुचिद्गति: १८. अनियमा- श्रूयते - यथा पर्यङ्कविद्यायाम् उपकोस- धिकरणम् । लविद्यायां पञ्चाग्निविद्यायां दहरविद्याया - मिति ; न अन्यासु - यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति । तत्र संशयः- किं यास्वेषा गतिः श्रूयते तास्वेव नियम्येत; उत अनि- यमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसंबध्येतेति । किं तावत्प्राप्तम् ? नियम इति ; यत्रैव श्रूयते, तत्रैव भवि - - सूत्रभाष्ये ." [पा. ३. तुमर्हति प्रकरणस्य नियामकत्वात्; यद्यन्यत्र अश्रूयमा- णापि गतिः विद्यान्तरं गच्छेत् श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वार्थत्वप्रसङ्गात् । अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पश्चाग्निविद्यायां च तुल्यवत्पठ्यते ; तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् । तस्मान्नियम इत्येवं प्राप्ते- पठति — अनियम इति । सर्वासामेव अभ्युदयप्राप्ति- फलानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गतिर्भवितुमर्हति । ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः - नैषोऽस्ति विरोधः ; शब्दानुमानाभ्यां श्रुतिस्मृति- भ्यामित्यर्थः ; तथा हि श्रुतिः - 'तद्य इत्थं विदु:' इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती 'ये चेमे- ऽरण्ये श्रद्धा तप इत्युपासते' इति विद्यान्तरशीलिनामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति । कथं पुनरव- गम्यते--विद्यान्तरशीलिनामियं गतिरिति ? ननु श्रद्धातप: प- रायणानामेव स्यात्, तन्मात्र श्रवणात्- - नैष दोषः ; न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गति- लभ्यते - 'विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन:' इति श्रुत्यन्त- सू. ३२.] तृतीयोऽध्यायः । 6 रात्; तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् । वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते— 'य एवमे तद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते ' इति ; तत्र श्रद्धालवो ये सत्यं ब्रह्मोपासते इति व्याख्येयम्, सत्यश- ब्दस्य ब्रह्मणि असकृत्प्रयुक्तत्वात् । पञ्चाग्निविद्याविदां च इत्थंवित्तयैव उपात्तत्वात्, विद्यान्तरपरायणानामेव एत- दुपादानं न्याय्यम् । अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम्' इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देवयानपितृयाणयोरेव एनान् अन्तर्भावयति । तत्त्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिः । स्मृतिरपि शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुन:' इति । यत्पुनः देवयानस्य पथो द्विरान्नानम् उपकोसलविद्यायां पञ्चाग्निवि- द्यायां च, तत् उभयत्रापि अनुचिन्तनार्थम् । तस्मादनियमः ॥ - 6 यावदधिकारमवस्थितिराधिका- रिकाणाम् ॥ ३२ ॥ विदुषो वर्तमान देहपातानन्तरं देहान्तरमुत्पद्यते, न वा- इति चिन्त्यते । ननु विद्याया: साधनभूतायाः संपत्ती कैव- सूत्रभाष्ये [पा. ३. ल्यनिर्वृत्तिः : स्यात्, न वेति नेयं चिन्ता उपपद्यते ; न हि १९. यावदधिकारा- पाकसाधनसंपत्तौ, ओदनो भवेत्, न वेति धिकरणम् । चिन्ता संभवति ; नापि भुञ्जान: तृप्ये- त्, न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदाम- पिकेषांचित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात ; तथा हि —— अपान्तरतमा नाम वेदाचार्य: पुराणर्षिः विष्णुनियो- गात कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति; वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदे- हः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति भृग्वादीनाम- पि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्य- ते; सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव; एवमेव दक्षनारदप्रभृती- नां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृ- तौ । श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते । ते च के- चित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव त- स्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन । सर्वे च एते स- मधिगतसकलवेदार्थाः स्मर्यन्ते । तत् एतेषां देहान्तरोत्पत्ति- दर्शनात् प्राप्तं ब्रह्मविद्याया: पाक्षिकं मोक्षहेतुत्वम्, अहेतुत्वं वेति ॥ 1 सू. ३२.] तृतीयोऽध्यायः । अत उत्तरमुच्यते न तेषाम् अपान्तरतमः प्रभृतीनां वे- दप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधि- कारतन्त्रत्वात्स्थिते: । यथासौ भगवान्सविता सहस्रयुगपर्य- न्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति—' अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमे- तैकल एव मध्ये स्थाता' इति श्रुते: ; यथा च वर्तमाना ब्र- विदः आरब्धभोगक्षये कैवल्यमनुभवन्ति - ' तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' इति श्रुतेः - एवम् अपा- न्तरतमः प्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नि- युक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतो अक्षीणकर्मा - णो यावदधिकारमवतिष्ठन्ते तदवसाने च अपवृज्यन्त इत्य- विरुद्धम् । सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवा- हयन्तः, स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सं- चरन्त: स्वाधिकारनिर्वर्तनाय, अपरिमुषितस्मृतय एव देहेन्द्रि यप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठ- न्ति; न च एते जातिस्मरा इत्युच्यन्ते - त एवैते इति स्मृतिप्र- सिद्धेः - यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुका- मा व्युदस्य स्वं देहम्, जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश - इति स्मर्यते । यदि हि उपयुक्ते सकृत्प्रवृ- " ----- सूत्रभाष्ये [पा. ३. त्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्, तत: अ- न्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा शङ्कयेत ; न तु इयमा- शङ्का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृति प्रसिद्धत्वात् । तथा हि श्रुतिः - 'भिद्यते हृदयग्रन्थिरियन्ते सर्वसं- शयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति, 'स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष:' इति चैवमाद्या । स्मृतिरपि — 'यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ' इति, 'बीजान्य- न्युपदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा रौ- र्नात्मा संपद्यते पुनः' इति चैवमाद्या । न च अविद्यादिक्लेश- दाहे सति शबीज कर्माशयस्य एकदेशदाहः एकदेशप्ररो- हा इत्युपपद्यते न हि अग्निदग्धस्य शालिबीजस्य एक- देशप्ररोहो दृश्यते ; प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेोरिव वेगक्षयात् निवृत्तिः, ' तस्य तावदेव चिरम्' इति शरीरपाता- वधिक्षेपकरणात् । तस्मादुपपन्ना यावदधिकारम् आधि- कारिकाणामवस्थिति: । न च ज्ञानफलस्य अनैकान्तिकता; तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति--- ' तद्यो यो देवानां प्रत्यबुध्यत स एव सू. ३३.] तृतीयोऽध्यायः । तदभवत्तथर्षीणां तथा मनुष्याणाम्' इति । ज्ञानान्त- रेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ; ते पश्चादैश्वर्य- क्षयदर्शनेन निर्विण्णा: परमात्मज्ञाने परिनिष्ठाय कैवल्यं प्रापुरित्युपपद्यते - 'ब्रह्मणा सह ते सर्वे संप्राप्ते प्रति- संचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इति स्मरणात् । प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानु- पपत्तिः; कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का- भवेद्वा न वेति ; अनुभवारूढं तु ज्ञानफलम् - ' यत्साक्षा- दपरोक्षाद्वा' इति श्रुतेः, 'तत्त्वमसि' इति सिद्धवदुपदे- शात् ; न हि 'तत्त्वमसि' इत्यस्य वाक्यस्य अर्थः- तत् त्वं मृतो भविष्यसीति - एवं परिणेतुं शक्यः । 6 तद्वैतत्प- श्यन्नृषिर्वामदेव: प्रतिपेदेऽहं मनुरभवं सूर्यश्च' इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति । तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः ॥ अक्षरधियां त्ववरोधः सामान्यतद्भावा- भ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥ वाजसनेयके श्रूयते— ' एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम दीर्घम लोहितमस्नेहम्' इत्यादि ; S. W. III. 8 सूत्रभाष्ये [पा. ३. तथा आथर्वणे श्रूयते— ' अथ परा यया तदक्षरमधिग- म्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्' इत्या- २०. अक्षरध्य- -- धिकरणम् । दि; तथैव अन्यत्रापि विशेषनिराकरणद्वा- रेण अक्षरं परं ब्रह्म श्राव्यते ; तत्र च क्वचित् केचित् अतिरि- क्ता विशेषाः प्रतिषिध्यन्ते ; तासां विशेषप्रतिषेधबुद्धीनां किं स- र्वासां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, श्रुतिविभागात् व्यवस्थाप्राप्तौ, उच्यते — अक्षरविषयास्तु विशेषप्रतिषेधबु- द्वयः सर्वाः सर्वत्रावरोद्धव्याः, सामान्यतद्भावाभ्याम्- समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्र- तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभि- ज्ञायते ; तव किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः । तथा च आनन्दादयः प्रधानस्य कारः ; 6 . इत्यत्र व्या- ख्यातम् ; तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रतिषेधरूपाणीति विशेष: ; प्रपञ्चार्थश्वायं चिन्ताभेद: । औपसदवदिति निदर्शनम् ; यथा जामदग्न्येऽहीने पुरोडा- शिनीषूपसत्सु चोदितासु, पुरोडाशप्रदानमन्त्राणाम् ' अग्रे- र्वेर्होत्रं वेरध्वरम्' इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसंबन्धो भवति, अध्वर्युकर्तृकत्वात्पुरोडाशप्र- दानस्य, प्रधानतन्त्रत्वाश्ञ्चाङ्गानाम् — एवमिहापि अक्षरत- सू. ३४.] तृतीयोऽध्यायः । न्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः । तदुक्तं प्रथमे काण्डे - ' गुणमुख्य- व्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोग: ' इत्यत्र ॥ इयदामननात् ॥ ३४ ॥ 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति २१. इदधि- इत्यध्यात्माधिकारे मन्त्रमाथर्वणिका: वे करणम् । ताश्वतराश्च पठन्ति ; तथा कठा: - ' ऋतं सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छाया- तपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता : ' इति । किमत्र विद्यैकत्वम्, उत विद्यानानात्वमिति संशय: किं तावत्प्राप्तम् ? विद्यानानात्वमिति ; कुत: ? विशेषदर्श- नातू - ' द्वा सुपर्णा' इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते; 'ऋतं पिबन्तौ ' इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते ; तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते- ब्रवीति — विद्यैकत्वमिति ; कुतः ? यतः उभयोरप्य- नयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभि- नम् आमनन्ति । ननु दर्शितो रूपभेदः - नेत्युच्यते ; उभा- सूत्रभाष्ये [ पा. ३. वप्येतौ मन्त्री जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम् । द्वा सुपर्णा' इत्यत्र तावन्- 'अनन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते; वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते ' जुष्टं यदा पश्यत्यन्यमीशम- स्य महिमानम्' इति ; ' ऋतं पिबन्तौ ' इत्यत्र तु जीवेपि- बति, अशनायाद्यतीतः परमात्मापि साहचर्यात छत्रिन्यायेन पिबतीत्युपचर्यते ; परमात्मप्रकरणं हि एतत् -' अन्यत्र धर्माद- न्यत्राधर्मान् ' इत्युपक्रमात् ; तद्विषय एव च अत्रापि वाक्य- शेषो भवति - ' यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्' इति । 'गुहां प्रविष्टावात्मानौ हि' इत्यत्र च एतत्प्रपञ्चितम् । त- स्मान्नास्ति वेद्यभेदः; तस्माच्च विद्यैकत्वम् । अपि च त्रिष्व- येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते ; तादात्म्यविवक्षयैव जीवोपादानम्, नार्थान्तरविवक्षया; न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम् । त- स्मात्प्रपञ्चार्थ एव एष प्रयोग: ; तस्माच्चाधिकधर्मोपसंहार इति ॥ अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥ 'यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर:' इत्येवं द्वि: उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति । " सू. ३६.] तृतीयोऽध्यायः । तत्र संशयः - विद्येकत्वं वा स्यात्, विद्यानानात्वं वेति । वि- २२. अन्तरत्वा द्यानानात्वमिति तावत्प्राप्तम्, अभ्याससा - , ; धिकरणम्। मर्थ्यात्; अन्यथा हि अनूनानतिरिक्तार्थे द्विरान्नानम् अनर्थकमेव स्यात्; तस्मात् यथा अभ्यासा- त्कर्मभेद: एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते, प्रत्याह- अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति ; सर्वा- न्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छयते, प्रत्यु- च्यते च न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सं- भवत: ; तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् ; यथा च पञ्चभूतसमूहे देहे - पृथिव्या आपोऽन्तराः, अन्यस्तेजो- ऽन्तरमिति— सत्यप्यापेक्षिकेऽन्तरत्वे, नैव मुख्यं सर्वा- न्तरत्वं भवति, तथेहापीत्यर्थः । अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति ; यथा - 'एको देवः सर्वभूतेषु गूढ : सर्वव्यापी सर्वभूतान्तरात्मा' इत्यस्मिन्मन्त्रे समस्तेषु भूत- ग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते - एवमनयोरपि ब्राह्मणयोरित्यर्थः । तस्मात् वेद्यैक्यात विद्यैकत्वमिति ॥ , अन्यथा भेदानुपपत्तिरिति चेन्नो- पदेशान्तरवत् ॥ ३६ ॥ सूत्रभाष्ये [पा. ३. अथ यदुक्तम्- अनभ्युपगम्यमाने विद्याभेदे आम्नान- भेदानुपपत्तिरिति, तत्परिहर्तव्यम्; अत्रोच्यते- नायं दोषः ; उपदेशान्तरवदुपपत्तेः ; यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके- 'स आत्मा तत्त्वमसि श्वेतकेतो' इति नव- कृत्वो ऽप्युपदेशे न विद्याभेदो भवति, एवमिहापि भवि - ष्यति । कथं च नवकृत्वोऽप्युपदेशे विद्याभेदो न भवति ? उपक्रमोपसंहाराभ्यामेकार्थतावगमात् - 'भूय एव मा भगवान्विज्ञापयतु' इति च एकस्यैवार्थस्य पुनः पुनः प्रति- पिपादयिषितत्वेन उपक्षेपात आशङ्कान्तरनिराकरणेन च असकृदुपदेशोपपत्तेः । एवमिहापि प्रश्नरूपाभेदान, 'अतो- ऽन्यदार्तम्' इति च परिसमाप्त्यविशेषात् उपक्रमोपसंहारौ तावदेकार्थविषयो दृश्येते 'यदेव साक्षादपरोक्षाद्ब्रह्म' इति द्वितीये प्रश्न एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम उत्तर- त्रानुकृष्यमाणं दर्शयति पूर्वस्मिंश्च ब्राह्मणे कार्यकरणव्य- तिरिक्तस्य आत्मन: सद्भावः कथ्यते ; उत्तरस्मिंस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं विशेषः कथ्यते - इत्येकार्थतो- पपत्तिः । तस्मात् एका विद्येति ॥ ; व्यतिहारो विशिषन्ति हीतरवत् ॥ ३७ ॥ यथा - ' तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इत्यादित्य- तृतीयोऽध्यायः । सू. ३७.] पुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबाला :- २३. व्यतिहारा वा अहमस्मि भगवो देवतेऽहं वै त्वमसि' " ." त्वं धिकरणम् । इति । तत्र संशयः किमिह व्यतिहा- रेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति । एकरू - पैवेति तावदाह; न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किंचिच्चिन्तयितव्यमस्ति ; यदि चैवं चिन्तयितव्यवि- शेष: परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् ईश्वरस्य संसार्यात्मत्वमिति तत्र संसारिणस्तावदीश्वरात्मत्वे त्कर्षो भवेत् ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः म्यात् । तस्मात् एैकरूप्यमेव मतेः । व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्यानायाम्नायते ; इतरवत् - यथा इतरे गुणाः सर्वात्म- त्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशि- षन्ति समाम्नातार : उभयोच्चारणेन- ' त्वमहमस्म्यहं च त्वमसि' इति ; तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थ- वद्भवति; अन्यथा हि इदं विशेषेणोभयान्नानम् अनर्थकं स्यात्, एकेनैव कृतत्वात् । ननु उभयान्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रस- ज्येतेत्युक्तम् - नैष दोषः ; ऐकात्म्यस्यैव अनेन प्रकारेणा- सूत्रभाष्ये [ पा. ३. नुचिन्त्यमानत्वात् । ननु एवं सति स एव एकत्वदृढीकार आपद्येत न वयमेकत्वदृढीकारं किं तर्हि, वारयामः ; व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात, नैकरूपेत्येतावत् उपपादयाम: ; फलतस्तु एकत्वमपि दृढी- भवति । यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे त- गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मादयमाध्यातव्यो व्य- तिहार: समाने च विषये उपसंहर्तव्यो भवतीति ॥ सैव हि सत्यादयः ॥ ३८ ॥ स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्म' इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधाय, अनन्त- २४. सत्याद्यधि- रमाम्नायते- तद्यत्तत्सत्यमसौ - स आ- करणम् । दित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चा- यं दक्षिणेऽक्षन्पुरुष:' इत्यादि । तत्र संशयः - किं द्वे एते सत्यविद्ये, किं वा एकैवेति । द्वे इति तावत्प्राप्तम; भेदेन हि फलसंयोगो भवति - ' जयतीमाल्लोकान्' इति पुरस्तात, 'हन्ति पाप्मानं जहाति च' इत्युपरिष्टात् । प्रकृताकर्षणं तु उपास्यैकत्वादित्येवं प्राप्ते- ब्रूमः -- एकैवेयं सत्यविद्येति; कुत: ? ' तद्यत्तत्सत्यम् ' इति प्रकृताकर्षणात् । ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपा- सू. ३८.] तृतीयोऽध्यायः । स्यैकत्वादुपपद्यत इत्युक्तम्- नैतदेवम्; यत्र तु विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात्; 'अत्र तु उभयथा संभवे ' तद्यत्तत्सत्यम्' इति प्रकृताकर्षणात् पूर्वविद्यासंबद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्या - त्वनिश्चयः । यत्पुनरुक्तम्- फलान्तरश्रवणाद्विद्यान्तरमिति, अत्रोच्यते-- 'तस्योपनिषदहः... अहम्' इति च अङ्गान्त- रोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः । अपि च अर्थवादादेव फले कल्पयितव्ये सति, विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उप- संहर्तव्यानि भवन्ति तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता- इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्प्रयोगे उपसंहर्तव्याः ॥ ; 6 6 केचित्पुनरस्मिन्सूत्रे इदं च वाजसनेयकमक्ष्यादित्यपुरुष- विषयं वाक्यम्, छान्दोग्ये च अथ य एषोऽन्तरादित्ये हि- रण्मयः पुरुषो दृश्यते' य एषोऽक्षिणि पुरुषो दृश्यते' इति - उदाहृत्य, सैवेयम् अक्ष्यादित्यपुरुषविषया विद्या उभ- यत्र एकैवेति कृत्वा, सत्यादीन्गुणान् वाजसनेयिभ्यश्छन्दो- गानामुपसंहार्यान् मन्यन्ते । तन्न साधु लक्ष्यते ; छान्दोग्ये हि कर्मसंबन्धिनी उद्गीथव्यपाश्रया विद्या विज्ञायते ; तत्र हि सूत्रभाष्ये [ पा. ३० आदिमध्यावसानेषु कर्मसंबन्धिचिह्नानि भवन्ति - - ' इयमेव- निः साम' इत्युपक्रमे, ' तस्यर्च साम च गेष्णौ तस्मादु- द्गीथः ' इति मध्ये, ' य एवं विद्वान्साम गायति' इत्युपसं- हारे । नैवं वाजसनेयके किंचित् कर्मसंबन्धि चिह्नम अस्ति; तव प्रक्रमभेदात् विद्याभेदे सति गुणव्यवस्थैव युक्तेति ॥ कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥ 6 6 स वा एष अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो- Sम्मिन्नन्तराकाश:' इति प्रस्तुत्य, छन्दोगा अधीयते-- २५. कामाद्यधि- 'एष आत्मापहतपाप्मा विजरो विमृत्यु- करणम् । विशोको विजिघत्सोऽपिपास: सत्यकाम: सत्यसंकल्प:' इत्यादि ; तथा वाजसनेयिन:- महान आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्त- हृदय आकाशस्तस्मिञ्शेते सर्वस्य वशी' इत्यादि । तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये- विद्यैकत्वमिति । तत्रेदमुच्यते— कामादीति, सत्यका- मादीत्यर्थ: - यथा देवदत्तो दत्तः, सत्यभामा भामेति । यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमु- पलभ्यते, तदितरत्र वाजसनेयके 'स वा एष महानज आ- त्मा' इत्यत्र संबध्येत ; यच्च वाजसनेयके वशित्वादि " सू. ४०.] तृतीयोऽध्यायः । उपलभ्यते, तदपि इतरत्र छान्दोग्ये 'एष आत्मापहतपा- प्मा ' " " इत्यत्र संबध्येत ; कुत: ? आयतनादिसामान्यांत्; समानं हि उभयत्रापि हृदयमायतनम् समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनम्- इत्येवमादि बहुसामान्यं दृश्यते । ननु विशेषोऽपि दृश्यते- छान्दोग्ये हृदयाकाशस्य गुणयोगः, वाजसनेयके तु आका- शाश्रयस्य ब्रह्मण इति न, 'दहर उत्तरेभ्य:' इत्यत च्छा- न्दोग्येऽपि आकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् । अयं तु अत्र विद्यते विशेष:- मगुणा हि ब्रह्मविद्या छान्दोग्ये उपदिश्यते - ' अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च स- त्यान्कामान् इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात्, वाजसनेयके तु निर्गुणमेव ब्रह्म उपदिश्यमानं दृश्यते- 6 अथ उर्ध्व विमोक्षाय ब्रूहि' 'असङ्गो ह्ययं पुरुष:' इत्या- दिप्रश्नप्रतिवचनसमन्वयात् । वशित्वादि तु स्तुत्यर्थमेव गुण- जातं वाजसनेयके संकीर्त्यते ; तथा च उपरिष्टात् ' स एष नेति नेत्यात्मा' इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति । गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोप- संहार: सूत्रितः, नोपासनाय - इति द्रष्टव्यम् ॥ , आदरादलोपः ॥ ४० ॥ सूत्रभाष्ये [ पा. ३. छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते - ' तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां २६. आदरा- " जुहुयात्प्राणाय स्वाहा' इत्यादि; तत्र धिकरणम् । पञ्च प्राणाहुतयो विहिता: ; तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः य एतदेवं विद्वानग्निहोत्रं जुहोति' इति, ' यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्यग्निहोत्रमुपासते' इति च । तत्रेदं विचार्यते - किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य उत अलोप इति । ' तद्यद्भक्तम्' इति भक्तागमनसंयोगश्रवणात, भक्तागमनस्य च भोजनार्थत्वात्, भोजनलोपे लोप: प्रा- णाग्निहोत्रस्येत्येवं प्राप्ते, न लुप्येतेति तावदाह; कस्मात ? आदरात्; तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुति:- पूर्वोऽतिथिभ्योऽश्नीयान् । यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्' इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति; या हि न प्राथम्यलोपं सहते, नतरां प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते । ननु भोजनार्थभक्तागमन संयोगाद्भोजनलोपे लोपः प्रा- पितः - न, तस्य द्रव्यविशेषविधानार्थत्वात् ; 6 मा प्रा- सू. ४१.] " तृतीयोऽध्यायः । कृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियत- त्वात् इहापि अग्निहोत्रशब्दात कौण्डपायिनामयनवन तद्धर्मप्राप्तौ सत्याम् भक्तद्रव्यतागुणविशेषविधानार्थम् इदं वाक्यम् ' तद्यद्भक्तम्' इति ; अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ अत उत्तरं पठति- उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥ उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमो- पनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम्; कस्मात् ? तद्व- चनात् ; तथा हि- 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्' इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणा- हुतीनां विदधाति । ताः अप्रयोजकलक्षणापन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः । न च अत्र प्राकृता- ग्निहोत्रधर्मप्राप्तिरस्ति; कुण्डपायिनामयने हि 'मासमग्निहोत्रं जुहोति' इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधाप- येदिति युक्ता तद्धर्मप्राप्ति: ; इह पुनः अर्थवाद्गतोऽग्निहोत्र- शब्दः न तद्वद्भावं विधापयितुमर्हति तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम्, अग्न्युद्धरणादयोऽपि प्राप्येरन; न सूत्रभाष्ये [ पा. ३. च अस्ति संभव:; अग्न्युद्धरणं तावत् होमाधिकरण- भावाय ; न च अयम् अग्नौ होम:, भोजनार्थता व्याघातप्रस- ङ्गात् ; भोजनार्थोपनीतद्रव्यसंबन्धाश्च आम्य एव एष होम: ; तथा च जाबालश्रुति: ' पूर्वोऽतिथिभ्योऽश्रीयात्' इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति अत एव च इहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति – 'उर एव वेदर्लोमानि बर्हिहृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्य- माहवनीय:' इति ; वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्थं द्रष्टव्या, मुख्याग्निहोत्रे वेद्यभावात्, तदङ्गानां च इह संपि- पादयिषितत्वात् भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसंभव:; एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथंचित् विरुध्यन्ते । तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः । यत्तु आदरदर्शनवचनम्, तत् भोजनपक्षे प्राथम्यविधानार्थम् ; नास्ति वचनस्य अतिभार:; न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् । तस्मात् भोजनलोपे लोप एव प्राणा- निहोत्रस्येति ॥ तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्य- प्रतिबन्धः फलम् ॥ ४२ ॥ सू. ४२. ] तृतीयोऽध्यायः । सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि-'ओमित्येत- दक्षरमुद्गीथमुपासीत' इत्येवमादीनि । किं तानि नित्यान्येव २७. तन्निर्धारणा- स्युः कर्मसु, पर्णमयीत्वादिवत्; उत अनि- धिकरणम् । त्यानि, गोदोहनादिवदिति विचारयामः । किं तावत्प्राप्तम् ? नित्यानीति ; कुत: ? प्रयोगवचनपरि- ग्रहात् — अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वा- रेण क्रतुसंबन्धात् ऋतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृ- श्यन्ते ; यत्तु एषां स्ववाक्येषु फलश्रवणम् 'आपयिता ह्वै कामानां भवति' इत्यादि, तद्वर्तमानापदेशरूपत्वाद- र्थवादमात्रमेव, अपापश्लोकश्रवणादिवत् न फलप्रधानम् तस्मात् यथा ' यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादि- द्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एवमुद्गीथाधु- पासनानामपीत्येवं प्राप्ते - - , ब्रूमः - तन्निर्धारणानियम इति । यान्येतानि उद्गीथादि- कर्मगुणयाथात्म्य निर्धारणानि - रसतमः, आप्तिः, समृद्धि:, मुख्यप्राणः, आदित्यः - इत्येवमादीनि नैतानि नित्यवत् कर्म - सु नियम्येरन् ; कुतः ? तद्दृष्टेः ; तथा हि अनित्यत्वमेवं जातीय- कानां दर्शयति श्रुतिः - ' तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च --- सूत्रभाष्ये [पा. ३. न वेद' इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात ; प्रस्तावादिदेव - ताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्श- नात् - -' प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्र- स्तोष्यसि ' ' तां चेदविद्वानुद्राम्यसि' 'तां चेदविद्वान्प्रतिह- रिष्यसि ' इति च । अपि च एवंजातीयकस्य कर्म- व्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मण: फलम उपल- भ्यते - कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धि: अतिशयविशेष: कश्चित् -- 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद । नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयो- पनिषदा तदेव वीर्यवत्तरं भवति' इति ; तत्र नाना तु' इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात, 'वीर्यवत्तरम्' इति च तर प्रत्ययप्रयोगात् विद्याहीनमपि वीर्यवदिति गम्यते ; तच्च अनित्यत्वे विद्याया उपपद्यते ; नित्यत्वे तु कथं तद्वि- हीनं कर्म वीर्यवदित्यनुज्ञायेत; सर्वाङ्गोपसंहारे हि वीर्यव त्कर्मेति स्थितिः । तथा लोकसामादिषु प्रतिनियतानि प्रत्यु- पासनं फलानि शिष्यन्ते 'कल्पन्ते हास्मै लोका ऊर्ध्वा- श्रावृत्ताश्च' इत्येवमादीनि । न चेदं फलश्रवणम अर्थवादमात्रं युक्तं प्रतिपत्तुम्; तथा हि गुणवाद आपद्येत फलोपदेशे तु मुख्यवादोपपत्तिः ; प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः सू. ४३ . ] ; तृतीयोऽध्यायः । प्रकृतत्वात् तादर्थे सति युक्तं फलश्रुतेरर्थवादत्वम् । तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु न हि पर्णमयीत्वा- दीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसंबन्धोऽवकल्पते ; गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रय लाभादुपपन्नः फल- विधिः तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रय लाभादुपपन्नः फलविधिः ; न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति ; वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधि विवक्षतो वाक्यभेदः स्यात् । उपासनानां तु क्रिया- त्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले वि- धानं न विरुध्यते । तस्मात् यथा कत्वाश्रयाण्यपि गोदोह - नादीनि फलसंयोगादनित्यानि, एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम् । अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपा- सनानि ऋतुषु कल्पयांचक्रुः ॥ प्रदानवदेव तदुक्तम् ॥ ४३ ॥ वाजसनेयके ' वदिष्याम्येवाहमिति वाग्दधे' इत्यत्र अ- ध्यात्मं वागादीनां प्राणः श्रेष्ठोऽवधारितः, अधिदैवतमग्न्या- २८. प्रदाना- दीनां वायुः ; तथा छान्दोग्ये 'वायुर्वाव धिकरणम् । संवर्ग:' इत्यत्र अधिदैवतम् अग्न्यादीनां वायुः संवर्गोऽवधारितः प्राणो वाव संवर्ग:' इत्यत्र S. W. III. 9 , सूत्रभाष्ये G [पा. ३. अध्यात्मं वागादीनां प्राणः । तत्र संशयः - किं पृथ- गेवेमौ वायुप्राणावुपगन्तव्यौ स्याताम् उत अपृथगि- ति । अपृथगिति तावत्प्राप्तम्, तत्त्वाभेदात् न हि अ- भिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम्; दर्शयति च श्रुतिः अध्यात्ममधिदैवतं च तत्त्वाभेदम्- 'अभिर्वाग्भूत्वा मुखं प्राविशत्' इत्यारभ्य ; तथा ' त एते सर्व एव समाः सर्वे - ऽनन्ता: ' इति आध्यात्मिकानां प्राणानाम् आधिदैविक वि भूतिमात्मभूतां दर्शयति । तथा अन्यत्रापि तत्र तत्र अध्यात्म- मधिदैवतं च बहुधा तत्त्वाभेददर्शनं भवति ; कचिच्च यः प्रा- णः स वायुः' इति स्पष्टमेव वायुं प्राणं च एकं करोति । तथा उदाहृतेऽपि वाजसनेयिब्राह्मणे ' यतश्वोदेति सूर्य : ' इत्यस्मिन् उपसंहारश्लोके, 'प्राणाद्वा एष उदेति प्राणेऽस्तमे- ति' इति प्राणेनैव उपसंहरन् एकत्वं दर्शयति ; 'तस्मादेक- मेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च' इति च प्राणव्रतेनैव एके- नोपसंहरन् एतदेव द्रढयति । तथा छान्दोग्येऽपि परस्तात ' महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपा : ' इत्येकमेव संवर्ग गमयति ; न ब्रवीति - एक एव एषां चतुर्णां संवर्ग:, अपरोऽपरेषामिति । तस्मादपृथक्त्वमुपगमनस्येत्येवं प्राप्ते - सू. ४३ . ] तृतीयोऽध्यायः । ' ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति ; कस्मात् ? पृथगुपदेशात् आध्यानार्थो हि अयम् अध्यात्माधि- दैवविभागोपदेशः ; सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात् । ननु उक्तम्, अपृथगनुचिन्तनं तत्त्वा- भेदादिति नैष दोष:; तत्त्वाभेदेऽप्यवस्थाभेदात् उपदे- शभेदवशेन अनुचिन्तनभेदोपपत्तेः, श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनि- राकरणसामर्थ्याभावात् स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः' इति च उपमानोपमेय- करणात् । एतेन व्रतोपन्यासो व्याख्यात: ; ' एकमेव व्रतम्' इति च एवकारः वागादिव्रतनिवर्तनेन प्राणव्रतप्र- तिपत्त्यर्थः ; भग्नव्रतानि हि वागादीन्युक्तानि, 'तानि मृत्युः श्रमो भूत्वोपयेमे' इति श्रुतेः ; न वायुव्रतनिवृत्त्यर्थः, 'अथातो व्रतमीमांसा' इति प्रस्तुत्य तुल्यवत् वायुप्राणयो- रभग्नव्रतत्वस्य निर्धारितत्वात् ; ' एकमेव व्रतं चरेत्' इति च उक्त्वा, 'तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति' इति वायुप्राप्तिं फलं ब्रुवन् वायुत्रतमनिवर्तितं 6 यति ; देवतेत्यत्र वायुः स्यात्, अपरिच्छिन्नात्मकत्वस्य प्राप्तत्वात्, पुरस्तात्प्रयोगाच्च - 'सैषानस्तमिता देवता य- , सूत्रभाष्ये " , [पा. ३. द्वायु:' इति । तथा 'तौ वा एतौ द्वौ संवर्गों वायुरेव देवेषु प्राणः प्राणेषु' इति भेदेन व्यपदिशति; 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्' इति च भेदेनैव उपसंहरति ; तस्मात्पृथगेव उपगमनम् । प्रदानवत् यथा 'इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्रा- य स्वराज्ञे' इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ ' सर्वेषामभिगम- यन्नवद्यत्यछंबट्कारम्' इत्यतो वचनात् इन्द्राभेदाच्च, सह- प्रदानाशङ्कायाम् - राजादिगुणभेदात् याज्यानुवाक्यान्यत्या- सविधानाच्च यथान्यासमेव देवता पृथक्त्वात्प्रदान पृथक्त्वं भवति एवं तत्त्वाभेदेऽपि आध्येयांश पृथक्त्वात् आध्यान- पृथक्त्वमित्यर्थः । तदुक्तं संकर्षे — ' नाना वा देवता पृथग्ज्ञानात्' इति । तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते नैवमिह विद्याभेदोऽस्ति उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एक विद्याविधानप्रतीतेः ; विद्यैक्ये- sपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति - अग्निहोत्र इव सायंप्रातः कालभेदात् इत्येतावदभिप्रेत्य प्रदानवदि- त्युक्तम् ॥ ; , लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥ वाजसनेयिनोऽग्निरहस्ये 'नैव वा इदमप्रे सदासीत्' इत्ये सू. ४५. ] तृतीयोऽध्यायः । तस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते - ' तत्षट्त्रिंशतं सहस्रा- ण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चित:' इत्यादि ; तथैव २९. लिङ्गभूय - ' वाक्चितः प्राणचितश्चक्षुश्चित: श्रोत्रचितः स्त्वाधि- कर्मचितोऽग्निचित:' इति पृथगग्नीन् आम- करणम् । नन्ति सांपादिकान् । तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति । तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते- लिङ्गभूयस्त्वादिति । भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बल- यन्ति दृश्यन्ते — ' तद्यत्किंचेमानि भूतानि मनसा संकल्प- यन्ति तेषामेव सा कृति:' इति, ' तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते' इति च एवंजाती- यकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मि काण्डे - 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां सम- वाये पारदौर्बल्यमर्थविप्रकर्षात् इति ॥ पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥ नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नय: अनन्यशेषभूता इति ; पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं सूत्रभाष्ये , [पा. ३. विकल्पविशेषोपदेशः स्यात न स्वतन्त्रः । ननु प्रकरणा- लिङ्गं बलीय:- सत्यमेवमेतत्; लिङ्गमपि तु एवजातीयकं न प्रकरणाद्बलीयो भवति; अन्यार्थदर्शनं हि एतन, सपा- दिकाग्निप्रशंसारूपत्वात; अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ; तस्मात् सांपादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः । मानसवत्- यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते स च मानसोऽपि ग्रहकल्प: क्रियाप्रकरणात् क्रियाशेष एव भवति - एवमयमप्यग्नि- कल्प इत्यर्थः ॥ अतिदेशाच्च ॥ ४६ ॥ अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति — ' षट्त्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावा- नसौ पूर्व : ' इति ; सति हि सामान्ये अतिदेशः प्रवर्तते ; ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना सांपा दिकानीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति ॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ सू. ४९. ] तृतीयोऽध्यायः । तु - शब्द: पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वत- न्त्रा मनचिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति - ' ते ते विद्याचित एव' इति, 'विद्यया वैत एवंविदश्चिता भवन्ति' इति च ॥ दर्शनाच्च ॥ ४८ ॥ दृश्यते च एतेषां स्वातन्त्र्ये लिङ्गम् ; तत्पुरस्ताद्दर्शितम् -' लिङ्गभूयस्त्वात्' इत्यत्र ॥ ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्य- चिदर्थस्येति, अपास्य तत्, प्रकरणसामर्थ्यात् क्रियाशेष- त्वमध्यवसितम् - इत्यत उत्तरं पठति- - श्रुत्यादिवलीयस्त्वाच्च न बाधः ॥ ४९ ॥ , नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्य- पक्षो बाधितव्यः श्रुत्यादेर्बलीयस्त्वात्; बलीयांसि हि प्रक- रणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूले; तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते ; कथम् ? श्रुति- स्तावत्- 'ते हैते विद्याचित एव ' इति ; तथा लिङ्गम्- 'सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते' इति ; तथा वाक्यमपि — 'विद्यया देवैत एवंविदश्चिता भवन्ति' इति । 6 सूत्रभाष्ये [पा. ३. विद्याचित एव' इति हि सावधारणा इयं श्रुति: क्रिया- नुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् । ननु अवा- ह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति - नेत्युच्यते ; त- दभिप्रायतायां हि 'विद्याचित:' इति इयता स्वरूप संकीर्तने- नैव कृतत्वात्, अनर्थकमवधारणं भवेत् -स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति; अबाह्यसाधनत्वेऽपि तु मानसप्रहवत क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम अर्थवद्भवि- यति । तथा ' स्वपते जायते चैवंविदे सर्वदा सर्वाणि भूता- न्येतानमचिन्वन्ति' इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽव- कल्पते यथा सांपादिके वाक्प्राणमयेऽग्निहोत्रे 'प्राणं तदा वाचि जुहोति... वाचं तदा प्राणे जुहोति' इति च उक्त्वा उच्यते-' एते अनन्ते अमृते आहुती जाग्रच्च स्वपंच सततं जुहोति' इति तद्वत्; क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अ- ल्पकालत्वात् न सातत्येन एषां प्रयोगः कल्पेत । न च इदमर्थ- वादमात्रमिति न्याय्यम् ; यत्र हि विस्पष्टो विधायको लि- ङादिः उपलभ्यते, युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ; इह तु विस्पष्टविध्यन्तरानुपलब्धेः संकीर्तनादेव एषां विज्ञा- नविधानं कल्पनीयम्; तच्च यथासंकीर्तनमेव कल्पयितुं श- क्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते ; ततश्च - _ सू. ५० . ] तृतीयोऽध्यायः । सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः । एतेन ' तद्यत्किंचेमानि भू- तानि मनसा संकल्पयन्ति तेषामेव सा कृति:' इत्यादि व्याख्यातम् । तथा वाक्यमपि ' एवंविदे' इति पुरुषविशेष- संबन्धमेव एषामाचक्षाणं न ऋतुसंबन्धं मृष्यते । तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥ इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्विदादीनां प्रतिपत्त - व्यम्, यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति- ' ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किंच यज्ञे कर्म क्रियेत यत्किंच यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमय- मेव क्रियते ' इत्यादिना ; संपत्फलो हि अयमनुबन्धः ; न च प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः । न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसंबन्धात् तदनुप्रवेशित्वमा- शङ्कितव्यम्, श्रुतिवैरूप्यात्; न हि अत्र क्रियाङ्गं किंचिदा- दाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति षट्त्रिंश- त्सहस्राणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्व कल्पयति, पुरुषयज्ञादिवत् ; संख्या च इयं पुरुषायुषस्याह : सु सूत्रभाष्ये [पा. ३. दृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनविदादीनाम् । आदिशब्दात अ- तिदेशाद्यपि यथासंभवं योजयितव्यम् ; तथा हि - ' तेषामे- कैक एव तावान्यावानसौ पूर्व:' इति क्रियामयस्यार्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन क्रियायामनादरं दर्शयति ; न च सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् ; न हि येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम्- सति हि सामान्ये- ऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्भित्वसामान्येनाति- देशसंभवात्प्रत्युक्तम्- अस्ति हि सांपादिकानामप्यनीनामग्नि- त्वमिति । श्रुत्यादीनि च कारणानि दर्शितानि । एवमनुब- न्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्विदादीनाम्; प्रज्ञान्त- रपृथक्त्ववत् — यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति ; दृष्टश्च अवेष्टे : राजसूय प्रकरणपठिताया: प्रकरणादुत्कर्ष:- वर्णत्रयानुबन्धा- त; राजयज्ञत्वाच्च राजसूयस्य; तदुक्तं प्रथमे काण्डे - ' क्र- त्वर्थायामिति चेन्न वर्णत्रयसंयोगात्' इति ॥ , सू. ५२. ] तृतीयोऽध्यायः । न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥ यदुक्तं मानसवदिति, तत्प्रत्युच्यते । न मानसग्रहसामा- न्यादपि मनश्विदादीनां क्रियाशेषत्वं कल्प्यम् पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः न हि किंचित् कस्यचित् केनचित् सामान्यं न संभवति ; न च तावता यथास्वं वैषम्यं निवर्तते ; मृत्युवत् - यथा ' स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुष:' इति, 'अग्निर्वै मृत्यु : ' इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे, न अत्यन्त साम्यापत्ति:; यथा च 'असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्' इत्यत्र न समिदादिसामा - न्यात् लोकस्याग्निभावापत्ति:- तद्वत् ॥ परेण च शब्दस्य ताद्विध्यं भूय- स्त्वात्त्वनुबन्धः ॥ ५२ ॥ परस्तादपि 'अयं वाव लोक एषोऽनिश्चित:' इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि- 'विद्यया तदारोहन्ति यत्र कामा: परागताः । न तत्र सूत्रभाष्ये [पा. ३. दक्षिणा यन्ति नाविद्वांसस्तपस्विनः' इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति । तथा पुर- स्तादपि ' यदेतन्मण्डलं तपति' इत्यस्मिन्ब्राह्मणे विद्याप्रधा- नत्वमेव लक्ष्यते— 'सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति' इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांस्तु अग्न्यवयवाः संपादयितव्या विद्यायाम् इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्विदादीनां केवलविद्यात्मकत्व सिद्धिः ॥ एक आत्मनः शरीरे भावात् ॥ ५३ ॥ इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते, बन्ध- मोक्षाधिकार सिद्धये ; न हि असति देहव्यतिरिक्त आत्मनि ३०. शरीरेभावा- परलोकफलाश्चोदना उपपद्येरन्; कस्य वा धिकरणम् । ब्रह्मात्मत्वमुपदिश्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् -- सत्यमुक्तं भाष्यकृता; न तु तत्रा- त्मास्तित्वे सूत्रमस्ति इह तु स्वयमेव सूत्रकृता तदस्तित्व- माक्षेपपुरःसरं प्रतिष्ठापितम् ; इत एव च आकृष्य आचा- ये शबरस्वामिना प्रमाणलक्षणे वर्णितम् ; अंत एव च भ- सू. ५३ . ] तृतीयोऽध्यायः । गवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शा- रीरके वक्ष्याम इत्युद्धारः कृतः । इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशा- स्त्रशेषत्व प्रदर्शनाय अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्क- र्षाभ्युपगमेन मनश्विदादीनां पुरुषार्थत्वं वर्णितम् ; कोऽसौ पुरुष:, यदर्था एते मनश्विदादयः - इत्यस्यां प्रसक्तौ इदं देह- व्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते ; तदस्तित्वाक्षेपार्थमिद- मादिमं सूत्रम् - आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति ॥ अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यति- रिक्तस्य आत्मनोऽभावं मन्यमानाः समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति - संभावयन्तस्तेभ्यश्चैतन्यम्, मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः - इति च आहुः । न स्वर्ग- गमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात्; देह एव तु चेतनच आत्मा च इति प्रतिजानते । हेतुं च आचक्षते - शरीरे भावादिति ; यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते यथा अभिधर्मावौष्ण्य- सूत्रभाष्ये [पा. ३. प्रकाशौ । प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभि- मता आत्मवादिनाम् - तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमाना: असिद्धे देहव्यतिरिक्ते धर्मिणि देह- धर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ एवं प्राप्ते, ब्रूमः -- व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥ न त्वेतदस्ति - यदुक्तमव्यतिरेको देहादात्मन इति ; व्य- तिरेक एव अस्य देहाद्भवितुमर्हति तद्भावाभावित्वात् ; यदि देहभावे भावात् देहधर्मत्वम आत्मधर्माणां मन्येत - ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देहधर्मवैलक्षण्यात्; ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति; प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः । अपि च सति हि तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम्, न तु असत्यभावः ; पतितेऽपि कदाचिदस्मिन्देहे देहान्तर- संचारेण आत्मधर्मा अनुवर्तेरन्; संशयमात्रेणापि परपक्ष: सू. ५४.] तृतीयोऽध्यायः । प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छति - इति परः पर्यनुयोक्तव्यः, न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किंचित् तत्त्वं प्रत्येति ; यत् अनुभवनं भूतभौतिकानाम्, तत् चैतन्यमिति चेत्, तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधा- त् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षि- तः सन् स्वस्कन्धमधिरोक्ष्यति । न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन्; न हि रूपादिभि: स्वरूपं पररूपं वा विषयीक्रियते ; विषय क्रियन्ते तु बाह्या- ध्यात्मिकानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अ- स्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः ; उपलब्धि- स्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात्, 'अहम् इदम् अद्राक्षम् ' इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात्, स्मृ- त्याद्युपपत्तेश्च । यत्तूक्तम् - शरीरे भावाच्छरीरधर्म उपल- धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवतीति- न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति; एवं सति सूत्रभाष्ये [पा. ३. देहे उपलब्धिर्भवति, असति च न भवतीति- न देहधर्मो भवितुमर्हति ; उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयो- गोपपत्तेः । न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् । तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ अङ्गावबद्धास्तु न शाखासु हि प्रति- वेदम् ॥ ५५ ॥ समाप्ता प्रासङ्गिकी कथा; संप्रति प्रकृतामेवानुवर्तामहे । 'ओमित्येतदक्षरमुद्गीथमुपासीत ' ' लोकेषु पञ्चविधं सामोपा- सीत ' ' उक्थमुक्थमिति वै प्रजा वदन्ति ३१. अङ्गा- ववद्धा- ', तदिदमेवोक्थम् ' ' इयमेव पृथिवी ' ' अयं धिकरणम् । वाव लोक: ' ' एषोऽग्निश्चित:' इत्येव - माद्या उद्गीथादिकर्माङ्गावबद्धा: प्रत्ययाः प्रतिवेदं शाखा- भेदेषु विहिताः, ते तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु - इति विशयः । प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यास: । किं तावत्प्राप्तम् ? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति ; कुत: ? संनिधानात्— 'उद्गीथमुपासीत' इति हि सामा- न्यविहितानां विशेषाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन सू. ५६.] } तृतीयोऽध्यायः । विशेषेण आकाङ्क्षादिनिवृत्तेः, तदतिलङ्घनेन शाखान्तरविहि- तविशेषोपादाने कारणं नास्ति । तस्मात्प्रतिशाखं व्यव- स्थेत्येवं प्राप्ते, ब्रवीति — अङ्गावबद्धास्त्विति । तु-शब्द: पक्षं व्यावर्तयति । नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् ' अपि तु सर्वशाखास्वनुवर्तेरन्; कुत: ? उद्गीथादिश्रुत्यविशे- षात्; स्वशाखाव्यवस्थायां हि 'उद्गीथमुपासीत ' इति सा - मान्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यव - स्थाप्यमाना पीडिता स्यात् ; न चैतन्न्याय्यम्; संनिधानाद्धि श्रुतिर्बलीयसी ; न च सामान्याश्रयः प्रत्ययो नोपपद्यते । तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखा- गतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ मन्त्रादिवद्वाविरोधः ॥ ५६ ॥ अथवा नैवात्र विरोधः शङ्कितव्यः - कथमन्यशाखाग- तेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति, मन्त्रादिवत् अविरोधोपपत्तेः । तथा हि- मन्त्राणां कर्म- णां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसंग्रहो दृश्यते येषामपि हि शाखिनाम् 'कुटरुरसि' इत्यश्मादान- ; मन्त्रो नाम्नात:, तेषामपि असौ विनियोगो दृश्यते - 'कुक्कु- टोऽसीत्यश्मानमादत्ते, कुटकरसीति वा' इति येषामपि S. W. 111. 10 6 सूत्रभाष्ये [पा. ३. समिदादय: प्रयाजा नाम्नाता:, तेषामपि तेषु गुणविधि- रानायते - 'ऋतवो वै प्रयाजा: समानत्र होतव्या: ' इति ; तथा येषामपि 'अजोऽग्नीषोमीय:' इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते - 'छागस्य वपाया मेदसोऽनुब्रूहि' इति ; तथा वेदान्तरोत्पन्नानामपि अमेर्वेर्होत्रं वेरध्वरम्' इत्येवमादिमन्त्राणां वेदान्तरे परि- ग्रहो दृष्टः ; तथा बह्वृचपठितस्य सूक्तस्य ' यो जात एव प्रथमो मनस्वान्' इत्यस्य, ' अध्वर्यवे सजनीयं शस्यम्' इत्यत्र परिग्रहो दृष्टः । तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम- विरोधः ॥ 6 भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥ -इत्य- ' प्राचीनशाल औपमन्यवः' इत्यस्यामाख्यायिकायां व्य- स्तस्य समस्तस्य च वैश्वानरस्य उपासनं श्रूयते । व्यस्तो- ३२. भूमज्या- पासनं तावत्- - ' औपमन्यव कं त्वमा- , यस्त्वाधि- : त्मानमुपास्स इति दिवमेव भगवो राज- निति होवाचैष वै सुतेजा आत्मा वैश्वा- करणम् । नरो यं त्वमात्मानमुपास्से' इत्यादि ; तथा समस्तोपासन- सू. ५७.] तृतीयोऽध्यायः । ७०५. -- मपि -- ' तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वत्र्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ ' इत्यादि । तत्र संशयः- किमिह उभयथापि उपासनं स्यात् व्यस्तस्य समस्तस्य च, उत समस्तस्यैवेति । किं तावत्प्राप्तम् ? प्रत्यवयवं सुतेज:- प्रभृतिषु ' उपास्से' इति क्रियापदश्रवणात्, 'तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ' इत्यादिफलभेदश्रवणाच्च, व्यस्तान्यप्युपासनानि स्युः - इति प्राप्तम् ॥ ' ततोऽभिधीयते — भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्येन अस्मिन्वाक्ये विव- क्षितं भवितुमर्हति न प्रत्येकम् अवयवोपासनानामपि ; ऋतु- वत् - यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधान - प्रयोग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोग: प्रयाजा- दीनाम्, नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य - तद्वत् । कुत एतत् - भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शय- ति, एकवाक्यतावगमात् एकं हि इदं वाक्यं वैश्वानरविद्या- विषयं पौर्वापर्यालोचनात्प्रतीयते ; तथा हि- प्राचीनशाल- प्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानर विद्यायां परि- निष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः -- सूत्रभाष्ये [पा. ३. इत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं युप्रभृतीनामेकैकं श्रावयि- त्वा, 'मूर्धा त्वेष आत्मन इति होवाच' इत्यादिना मूर्धाद- भावं तेषां विदधाति ; 'मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य: ' इत्यादिना च व्यस्तोपासनमपवदति ; पुनश्च व्यस्तोपासनं व्यावर्त्य, समस्तोपासनमेवानुवर्त्य, 'स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ' इति भूमाश्रयमेव फलं दर्शयति । यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम्, तत् एवं सति अङ्गफलानि प्रधान एवाभ्युच्चिनोति - इति द्रष्टव्यम् । तथा ' उपास्से' इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवा- दार्थम्, न व्यस्तोपासनविधानार्थम् । तस्मात्समस्तोपासन- पक्ष एव श्रेयानिति ॥ केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनु- मन्यत इति कल्पयन्ति । तदयुक्तम्, एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात्, मूर्धा ते व्यपतिष्यत्' इति च एवमादिनिन्दाविरोधात्, स्पष्टे च उपसंहारस्थे समस्तो- पासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात्, सौत्र- स्यं च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्य- मानत्वात् ॥ सू. ५८.] तृतीयोऽध्यायः । नाना शब्दादिभेदात् ॥ ५८ ॥ पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तस्योपासनं ज्याय इत्युक्तम्; अतः प्राप्ता बुद्धि:- ३३. शब्दादि- अन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्य भेदाधि- उपासिष्यन्ते इति । अपि च नैव वेद्याभेदे करणम् । विद्याभेदो विज्ञातुं शक्यते ; वेद्यं हि रूपं विद्यायाः, द्रव्यदैवतमिव यागस्य; वेद्यश्व एक एव ईश्वरः श्रुतिनानात्वेऽप्यवगम्यते - 'मनोमयः प्राणशरीर: ' ' कं ब्रह्म खं ब्रह्म' सत्यकामः सत्यसंकल्प:' इत्येवमादिषु तथा " , 6 एक एव प्राण: ' ' प्राणो वाव संवर्ग: ' ' प्राणो वाव ज्ये - ष्ठश्व श्रेष्ठश्व' ' प्राणो ह पिता प्राणो माता' इत्येवमादिषु ; वेद्यैकत्वाञ्च विद्येकत्वम् । श्रुतिनानात्वमपि अस्मिन्पक्षे गुणा- न्तरपरत्वात् न अनर्थकम् । तस्मात् स्वपरशाखाविहितम् एकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकात्स्याय इत्येवं प्राप्ते-- ; प्रतिपाद्यते - नानेति; वेद्याभेदेऽपि एवंजातीयका वि- द्या भिन्ना भवितुमर्हति ; कुत: ? शब्दादिभेदात् भवति हि शब्दभेद:- 'वेद' ' उपासीत ' ' स क्रतुं कुर्वीत' इत्येवमा- दिः; शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् 'श- सूत्रभाष्ये [पा. ३. - प्राणस्य ब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्' इति । आदिग्रहणात् गुणादयोऽपि यथासंभवं भेदहेतवो योजयितव्याः । ननु 'वेद' इत्यादिषु शब्दभेद एव अवगम्यते, न 'यजति ' इत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात, अर्थान्तरासंभवाश्च तत् कथं शब्दभेदाद्विद्याभेद इति नैष दोष:, मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः ; एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणा: शिष्यन्ते; तथा एकस्यापि तत्र तत्र उपास्यस्य अभेदेऽपि अन्याहग्गुणोऽन्यवो- पासितव्यः अन्यादृग्गुणश्चान्यत्र - इत्येवमनुबन्धभेदा- द्विधिभेदे सति विद्याभेदो विज्ञायते । न च अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम्- विनिगमनाय हेत्वभावात्, अनेकत्वाश्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः । न च अस्मिन्पक्ष समा- नाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः । प्रति- प्रकरणं च इदंकामेनेदमुपासितव्यम्, इदंकामेन च इदम्- इति नैराकाङ्क्षयावगमात् नैकवाक्यतापत्तिः । न च अत्र वैश्वा- नरविद्यायामिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रति- प्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः । सू. ५९.] तृतीयोऽध्यायः । वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत । तस्मात् सुष्ठु उच्य- ते- नाना शब्दादिभेदादिति । स्थिते च एतस्मिन्नधिकरणे, सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ करणम् । स्थिते विद्याभेदे विचार्यते—- किमासामिच्छया समुच्च- यो विकल्पो वा स्यात्, अथवा विकल्प एव नियमेनेति । ३४. विकल्पाधि- तत्र स्थितत्वात् तावद्विद्याभेदस्य न समु- चयनियमे किंचित्कारणमस्ति । ननु भि- नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते- नैष दोष: ; नित्यताश्रुतिर्हि तत्र कारणम ; नैवं विद्यानां का- चिन्नित्यताश्रुतिरस्ति ; तस्मान्न समुच्चयनियमः । नापि वि- कल्पनियम:, विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् । पा- रिशेष्यात् याथाकाम्यमापद्यते । ननु अविशिष्टफलत्वादासां विकल्पो न्याय्य: ; तथा हि- 'मनोमय: प्राणशरीर: ' ' कं ब्रह्म खं ब्रह्म' 'सत्यकामः सत्यसंकल्प:' इत्येवमाद्या: तुल्य- वत् ईश्वरत्वप्राप्तिफला लक्ष्यन्तेनैष दोष:, समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात् । तस्मात् याथा- काम्यप्राप्तौ उच्यते— विकल्प एव आसां भवितुम- , सूत्रभाष्ये [पा. ३. र्हति न समुच्चय: ; कस्मात् ? अविशिष्टफलत्वात् । अ- विशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम् एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ, द्वि- तीयमनर्थकम् । अपि च असंभव एव, साक्षात्करणस्य स- मुचयपक्षे, चित्तविक्षेप हेतुत्वात; साक्षात्करणसाध्यं च वि- द्याफलं दर्शयन्ति श्रुतय:- :-' यस्य स्यादद्धा न विचि- कित्सास्ति' इति, ' देवो भूत्वा देवानप्येति' इति च एव - माद्या: स्मृतयश्च - ' सदा तद्भावभावितः ' इत्येवमाद्या: । तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्पर: स्यात्, यावदुपास्यविषयसाक्षात्करणेन तत्फलं प्राप्तमिति ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥ अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम् । यासु पुनः काम्यासु विद्यासु स य एतमेवं वायुं दिशां वत्सं वेद न ३५. काम्याधि- पुत्ररोदं रोदिति' ' स यो नाम ब्रह्मे- करणम् । त्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाका- मचारो भवति' इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु, साक्षात्करणापेक्षा नास्ति; सू. ६३. ] तृतीयोऽध्यायः । ता यथाकामं समुच्चीयेरन्, न वा समुच्चयेरन् - पूर्वहेत्व - भावात् - पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अ- भावात् ॥ अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ कमङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रय- ३६. यथाश्रय विहिताः, किं ते समुच्चयेरन् किं वा भावाधि- यथाकामं स्युरिति संशये - यथाश्रयभाव करणम् । " इत्याह । यथैव एषामाश्रयाः स्तोत्रादयः संभूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्यया- नाम् ॥ शिष्टेव ॥ ६२ ॥ यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एव- माश्रिता अपि प्रत्ययाः -- नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः ॥ समाहारात् ॥ ६३ ॥ ' होतृषदनाद्वैवापि दुरुद्गीत मनुसमाहरति' इति च- प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं सूत्रभाष्ये [पा. ३. क्षतं हौत्रात्कर्मणः प्रतिसमादधाति -- इति ब्रुवन् वेदान्त- रोदितस्य प्रत्ययस्य वेदान्त रोदितपदार्थ संबन्धसामान्यात् सर्व- वेदोदितप्रत्ययोपसंहारं सूचयति-- इति लिङ्गदर्शनम् ॥ गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥ 6 विद्यागुणं च विद्याश्रयं सन्तम ओंकारं वेदत्रयसाधारणं श्रावयति- तेनेयं तयी विद्या वर्तत ओमित्याश्रावयत्यो- मिति शंसत्योमित्युद्गायति' इति च; ततश्च आश्रयसाधा- रण्यात् आश्रित साधारण्यमिति--- लिङ्गदर्शनमेव । अथवा गुणसाधारण्यश्रुतेश्चेति यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः ; ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते ततश्च आश्रय सहभावात्प्रत्यय सहभाव इति ॥ न वा तत्सहभावाश्रुतेः ॥ ६५ ॥ न वेति पक्षव्यावर्तनम् । न यथाश्रयभाव आश्रिताना- मुपासनानां भवितुमर्हति ; कुत: ? तत्सहभावाश्रुतेः ; यथा हि विवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते-- 'ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति, स्तुतमनु- सू. ६६.] तृतीयोऽध्यायः । शंसति, प्रस्तोतः साम गाय, होतरेतद्यज' इत्यादिना; नैव- मुपासनानां सहभावश्रुतिरस्ति । ननु प्रयोगवचन एषां सह- भावं प्रापयेत् — नेति ब्रूमः, पुरुषार्थत्वादुपासनानाम् ; प्रयो- गवचनो हि ऋत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत्; उद्गी- थाद्युपासनानि तु क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषा- ---- " नीत्यवोचाम 'पृथग्ध्यप्रतिबन्धः फलम्' इत्यत्र 1 अयमेव च उपदेशाश्रयो विशेष: अङ्गानां तदालम्बनानां च उपासनानाम् - यदेकेषां ऋत्वर्थत्वम् एकेषां पुरुषार्थ- त्वमिति । परं च लिङ्गद्वयम् अकारणमुपासन सहभावस्य, श्रुतिन्यायाभावात् । न च प्रतिप्रयोगम् आश्रयकात्स्न्यप- संहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम्, अतत्प्रयु- क्तत्वादुपासनानाम्- आश्रयतन्त्राण्यपि हि उपासनानि का- मम् आश्रयाभावे मा भूवन् ; न त्वाश्रय सहभावेन सहभाव - नियममर्हन्ति तत्सहभावाश्रुतेरेव । तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन् ॥ दर्शनाच्च ॥ ६६ ॥ दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् ' एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वाश्चित्विजोऽभिरक्षति' इति । सर्व- सूत्रभाष्ये [पा. ३. प्रत्ययोपसंहारे हि सर्वे सर्वविद इति न विज्ञानवता " ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्यत । तस्मात् यथाकाम- मुपासनानां समुच्चयो विकल्पो वेति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ तृतीयाध्याये चतुर्थः पादः चतुर्थः पादः ॥ अथेदानीम् औपनिषदमात्मज्ञानं किमधि- कारद्वारेण कर्मण्येवानुप्रविशति, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमां- समान:, सिद्धान्तेनैव तावदुपक्रमते- पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥ वै करणम् । 6 स पुरुषार्थोऽत इति । अस्माद्वेदान्तविहितादात्मज्ञानात् स्व- तन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते ; १. पुरुषार्थाधि कुत एतदवगम्यते ? शब्दादित्याह । तथा हि - ' तरति शोकमात्मवित्' यो तत्परमं ब्रह्म वेद ब्रह्मैव भवति ' ' ब्रह्मविदाप्नोति परम्' आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये- ऽथ संपत्स्ये' 'य आत्मापहतपाप्मा' इत्युपक्रम्य, ' स स- वश्चि लोकानाप्नोति सर्वोश्च कामान्यस्तमात्मानमनुविद्य वि जानाति इति ; ' आत्मा वा अरे द्रष्टव्यः' इत्युपक्रम्य, 'एता- 6 सूत्रभाष्ये [91. 8. वदरे खल्वमृतत्वम्' इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति ॥ अथात्र प्रत्यवतिष्ठते- शेषत्वात्पुरुषार्थवादो यथान्ये- ष्विति जैमिनिः ॥ २ ॥ " कर्तृत्वेन आत्मनः कर्मशेषत्वात् तद्विज्ञानमपि त्रीहि- प्रोक्षणादिवत् विषयद्वारेण कर्मसंबन्ध्येव- इत्यत:, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः -- इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्यसंस्कार - कर्मसु 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' 6 ' 6 यदाङ्के चक्षुरेव भ्रातृव्यस्य वृङ्क्ते 'यत्प्रयाजानूयाजा इज्यन्ते, वर्मं वा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृ- व्याभिभूत्यै' इत्येवंजातीयका फलश्रुतिः अर्थवादः - तद्वत् । कथं पुनः अस्य अनारम्याधीतस्य आत्मज्ञानस्य प्रकरणादी- नामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्कयते ? कर्तृ- द्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसंबन्ध इति चेत्, न, वाक्याद्विनियोगानुपपत्ते:- अव्यभिचारिणा हि केनचिह्ना- रेण अनारभ्याधीतानामपि वाक्यनिमित्तः ऋतुसंबन्धोऽव- कल्पते; कर्ता तु व्यभिचारि द्वारम्, लौकिक वैदिककर्म- सू. ३.] तृतीयोऽध्यायः । साधारण्यात्; तस्मान्न तहूारेण आत्मज्ञानस्य क्रतुसंबन्ध- सिद्धिरिति न व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्यो- ऽन्यत्र अनुपयोगात् ; न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः; वैदिकेषु तु देहपातोत्तरकालफलेषु देव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम् । ननु अपहत- पाप्मत्वादिविशेषणात असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात्- न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वोपदेशात; अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् - अधिकम- संसार ब्रह्म जगत्कारणम् ; तदेव च संसारिण आत्मन: पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति - सत्यं प्रसाधितम् तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षे- समाधाने क्रियेते दाय ॥ आचारदर्शनात् ॥ ३ ॥ 'जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे' ' यक्ष्यमाणो भगवन्तोऽहमस्मि' इत्येवमादीनि ब्रह्मविदामपि अन्यपरे - षु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति । तथा उद्दालका- दीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसंबन्धोऽवगम्य - S. W. III. 11 सूत्रभाष्ये [ पा. ४. ते । कंवलाच्चेत ज्ञानात् पुरुषार्थसिद्धिः स्यात्, किमर्थम कायाससमन्वितानि कर्माणि ते कुर्युः ? ' अल्के चेन्मधु विन्दत किमर्थं पर्वतं व्रजेत्' इति न्यायात् ॥ तच्छ्रुतेः ॥ ४ ॥ 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति च कर्मशेषत्वश्रवणात विद्याया न केवलाया: पुरुषार्थहेतुत्वम ॥ समन्वारम्भणात् ॥ ५ ॥ ' तं विद्याकर्मणी समन्वारभेते' इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः ॥ ' ततो विधानात् ॥ ६ ॥ " आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशे- पेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः इति च एवजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्मा- धिकारं दर्शयति ; तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फल- हेतुत्वम् । ननु अत्र 'अधीत्य' इत्यध्ययनमात्रं वेदस्य श्रूयते, न अर्थविज्ञानम् - नैष दोष: दृष्टार्थत्वान वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम् ॥ सू. ८. ] तृतीयोऽध्यायः । नियमाच्च ॥ ७ ॥ 'कुर्वनेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे' इति - तथा 'एतद्वै जरामर्य सत्वं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा '- इत्येवंजातीयकान् नियमादपि कर्मशेषत्वमेव विद्याया इति ॥ एवं प्राप्ते, प्रतिविधत्ते - अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥ तु- शब्दात पक्षो विपरिवर्तते । यदुक्तम् ' शेषत्वात्पुरु- पार्थवाद:' इति, तत् नोपपद्यते ; कस्मात् ? अधिकोपदेशात् ; यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात - व्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात्, ततो वर्णितेन प्रका- रेण फलश्रुतेरर्थवादत्वं स्यात्; अधिकस्तावत् शारीरादा- त्मन: असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपा- मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु । न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्यु- च्छिनत्ति - इति वक्ष्यति इत्यत्र । तस्मात् " " 6 सूत्रभाष्ये [पा. ४. ' पुरुषार्थोऽतः शब्दात्' इति यन्मतं भगवतो बादरायणम्य, तत् तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्वालयितुं शक्यते । तथा हि तमधिकं शारीरात ईश्वरमात्मानं दर्शयन्ति श्रुतय:- यः सर्वज्ञः सर्ववित्' ' भीषाम्माद्वातः पवते ' 'महद्भयं वज्रमुद्यतम् ' ' एतस्य वा अक्षरस्य प्रशासने गार्गि 6 - 6 , ' तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत' इत्येवमाद्या: । यत्तु प्रियादिसंसूचितस्य संसारिण एवं आत्मनो वेद्यतया अनुकर्षणम् - आत्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्य : ' ' यः प्राणेन प्राणिति म त आ- त्मा सर्वान्तर: ' ' य एषोऽक्षिणि पुरुषो दृश्यते' इत्युपक्र- म्य 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इति चैवमादि- तदपि, 'अथ महतो भूतस्य निःश्वसितमेतद्यदृग्वेद: ' 'यो- शनायापिपासे शोकं मोहं जरां मृत्युमत्येति' ' परं ज्यो- तिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तम: पुरुष: ' इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम, अत्यन्ताभेदाभिप्रायमित्यविरोधः । पारमेश्वरमेव हि शारी- रस्य पारमार्थिकं स्वरूपम्; उपाधिकृतं तु शारीरत्वम्, 'त- त्त्वमसि' ' नान्यदतोऽस्ति द्रष्टृ ' इत्यादिश्रुतिभ्यः । सर्वे च विस्तरेणास्माभिः : पुरस्तात् तत्र तत्र वर्णितम् ॥ एतत् सू. १०.] तृतीयोऽध्यायः । तुल्यं तु दर्शनम् ॥ ९ ॥ , यत्तूक्तम् - आचारदर्शनात्कर्मशेषो विद्येति, अत्र ब्रूमः - तुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्याया: । तथा हि श्रुतिर्भवति — ' एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः काव- याः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे । एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रिरे ' "एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तै- षणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इत्येवंजातीयका । याज्ञवल्क्यादीनामपि ब्रह्मविदाम् अकर्म- निष्ठत्वं दृश्यते— 'एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज ' इत्यादिश्रुतिभ्यः । अपि च ' यक्ष्य - माणो वै भगवन्तोऽहमस्मि' इत्येतत् लिङ्गदर्शनं वैश्वानर- विद्याविषयम्; संभवति च सोपाधिकायां ब्रह्मविद्यायां कर्म साहित्यदर्शनम; न तु अत्रापि कर्माङ्गत्वमस्ति प्रकर- णाद्यभावात् ॥ यत्पुनरुक्तम्— 'तच्छ्रुतेः' इति, अत्र ब्रूमः - असार्वत्रिकी ॥ १० ॥ " 'यदेव विद्यया करोति' इत्येषा श्रुतिर्न सर्वविद्याविषया, सूत्रभाष्ये [पा. ४. प्रकृतविद्याभिसंबन्धात् । प्रकृता च उद्गीथविद्या- 'ओमित्ये- तदक्षरमुद्गीथमुपासीत' इत्यत्र ॥ विभागः शतवत् ॥ ११ ॥ यदप्युक्तम्- ' तं विद्याकर्मणी समन्वारभेते ' इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्र- त्युच्यते — विभागोऽत्र द्रष्टव्य:- विद्या अन्यं पुरुषमन्वा- रभते, कर्म अन्यमिति । शतवत् - यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदप- रस्मै, तद्वत् । न च इदं समन्वारम्भवचनं मुमुक्षुविषयम- ' इति नु कामयमानः इति संसारिविषयत्वोपसंहारान, , , अथाकामयमान: इति च मुमुक्षोः पृथगुपक्रमात्; तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते, विशे- षाभावात् कर्मापि विहितं प्रतिषिद्धं च यथाप्राप्तानुवादि- त्वात् ; कल्पते ॥ ; " एवं सति अविभागेनापि इदं समन्वारम्भवचनमव- यञ्चैतत्— 'तद्वतो विधानात' इति, अत उत्तरं पठति-- " अध्ययनमात्रवतः ॥ १२ ॥ आचार्यकुलाद्वेदमधीत्य' इत्यत्र अध्ययनमात्रस्य श्रव- सू. १४.] तृतीयोऽध्यायः । णान् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः । ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत - नैष दोष: ; न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारका- रणं वारयामः; किं तर्हि औपनिषदमात्मज्ञानम्, स्वातन्त्र्ये- णैव प्रयोजनवत् प्रतीयमानम्, न कर्माधिकारकारणतां प्र- तिपद्यते - इत्येतत्प्रतिपादयामः । यथा च न ऋत्वन्तरज्ञानं ऋत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ यदप्युक्तम्- 'नियमाच्च' इति, अत्राभिधीयते - 6 नाविशेषात् ॥ १३ ॥ कुर्वनेवेह कर्माणि जिजीविषेत्' इत्येवमादिषु नियम- श्रवणेषु न विदुष इति विशेषोऽस्ति, अविशेषेण नियम- विधानात् ॥ स्तुतयेऽनुमतिर्वा ॥ १४ ॥ 'कुर्वन्नेवेह कर्माणि ' इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव - कुर्वन इति सं- बध्येत, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्रष्टव्यम् ; ' न कर्म लिप्यते नरे' इति हि वक्ष्यति । एतदुक्तं भवति यावज्जीवं कर्म कुर्वत्यपि त्वयि विदुषि पुरुषे न कर्म सूत्रभाष्ये [पा. ४. लेपाय भवति, विद्यासामर्थ्यादिति - तदेवं विद्या स्तूयते ॥ कामकारेण चैके ॥ १५ ॥ अपि च एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तद्वष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परा- मृशन्ति कामकारेण - इति श्रुतिर्भवति वाजसनेयिनाम- 6 एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रज- या करिष्यामो येषां नोऽयमात्मायं लोक इति' । अनुभवा- रूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि- इत्यसकृदवोचाम । अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेर यथार्थत्वं शक्यमाश्रयितुम ॥ उपमर्दे च ॥ १६ । अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य स- मस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामर्थ्यात् स्वरूपो- पमर्दमामनन्ति - ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघेत्' इत्यादिना । वेदान्तोदितात्मज्ञान- पूर्विकां तु कर्माधिकारसिद्धि प्रत्याशासानस्य कर्माधिका- रोच्छित्तिरेव प्रसज्येत । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥ सू. १८. ] तृतीयोऽध्यायः । ऊर्ध्वरेतःसु च आश्रमेषु विद्या श्रूयते ; न च तत्र कर्मा- ङ्गत्वं विद्याया उपपद्यते कर्माभावात्; न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् ऊर्ध्वरेतस आ- " श्रमान श्रूयन्ते वेद इति तदपि नास्ति तेऽपि हि वैदि- - ; केषु शब्देष्ववगम्यन्ते 'त्रयो धर्मस्कन्धाः ' 'ये चेमेऽर- ये श्रद्धा तप इत्युपासते ' ' तपः श्रद्धे ये ह्युपवसन्त्यरण्ये ' " एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति' 'ब्रह्मचर्या- देव प्रव्रजेत्' इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां च ऊर्ध्वरेतस्त्वं श्रुतिस्मृति प्रसि- म । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ परामर्श जैमिनिरचोदना चाप- वदति हि ॥ १८ ॥ ' त्रयो धर्मस्कन्धाः' इत्यादयो ये शब्दा ऊर्ध्वरेतसामा- श्रमाणां सद्भावाय उदाहृताः, न ते तत्प्रतिपादनाय प्रभव- २. परामर्शा- न्ति ; यतः परामर्शम् एषु शब्देष्वाश्रमा- धिकरणम् । न्तराणां जैमिनिराचार्यो मन्यते, न वि- धिम् । कुत: ? न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दो- ऽस्ति; अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते । ' त्रयो ध- स्कन्धा:' इत्यत्र तावत् ' यज्ञोऽध्ययनं दानमिति प्रथमस्तप सूत्रभाष्ये [पा. ४. एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मान- माचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति' इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्य, आत्य- न्तिकफलतया ब्रह्मसंस्थता स्तूयते - ब्रह्मसंस्थोऽमृतत्वमेति इति । ननु परामर्शेऽपि आश्रमा गम्यन्त एव - सत्यं गम्य- ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः न प्रत्यक्षश्रुतेः ; अतश्च प्रत्यक्ष श्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा । ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् - 'यज्ञोऽध्ययनं दानमिति प्रथम:' इति — सत्य- मेवम्; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, न चोदनार्थ: । अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् 'वीरहा वा एष देवानां यो- ऽग्निमुद्वासयते ' ' आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ' नापुत्रम्य लोकोऽस्तीति तत्सर्वे पशवो विदु:' इत्येवमाद्या । तथा 'ये चेमेऽरण्ये श्रद्धा तप इत्यु- पासते ' ' तपःश्रद्धे ये ह्युपवसन्त्यरण्ये' इति च देवयानोप- देश:, न आश्रमान्तरोपदेशः । संदिग्धं च आश्रमान्तराभि- धानम् - ' तप एव द्वितीय:' इत्येवमादिषु । तथा 'एतमेव 6 सू. १९.] तृतीयोऽध्यायः : । प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति' इति लोकसंस्तवोऽय- म्, न पारिव्राज्यविधिः । ननु ' ब्रह्मचर्यादेव प्रव्रजेत्' इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम् - सत्य- मेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते - वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधाद- नधिकृतानुष्ठेयमाश्रमान्तरम् - इति हि इमां मतिं निराकरो - ति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्य- मिति मन्यमान: । कुत: ? साम्यश्रुतेः ; समा हि गाई - मध्ये नाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते- 'त्रयो धर्मस्कन्धाः ' इत्याद्या ; यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम्, एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् - यथा च शास्त्रान्तरप्राप्त- योरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये ; तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य । तथा ' एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति' इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ; 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते' इत्यस्य च पञ्चाग्निविद्यया । यत्तूक्तम् - 6 6 सूत्रभाष्ये [ पा. ४. तप एव द्वितीय:' इत्यादिष्वाश्रमान्तराभिधानं संदिग्ध - मिति ; नैष दोष:, निश्चयकारणसद्भावात; ' त्रयो धर्मस्क- न्धा:' इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ; न च यज्ञा- दयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसं- बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपः प्रधानादाश्रमान धर्मस्कन्धोऽभ्युपगम्येत । 'ये चेमेऽरण्ये ' इति च अरण्य- लिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः । तस्मात परामर्शेऽप्यनु- ष्ठेयमाश्रमान्तरम् ॥ विधिर्वा धारणवत् ॥ २० ॥ विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम् । ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत ; प्रतीयते चं अत्र एकवाक्यता - पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत् ; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपू- वत्वात् विध्यन्तरस्यादर्शनात् विस्पष्टाश्चाश्रमान्तरप्रत्य- " यात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः । धारण- यथा ' अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवे- वत् - सू. २०.] तृतीयोऽध्यायः । भ्यो धारयति' इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्र- तीतो, विधीयत एव उपरिधारणम्, अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे ' विधिस्तु धारणेऽपूर्वत्वात्' इति तद्वन इहापि आश्रमपरामर्शश्रुति: विधिरेवेति कल्प्यते ॥ यदापि परामर्श एवायमाश्रमान्तराणाम्, तदापि ब्रह्म- संस्थता तावत्, संस्तव सामर्थ्यादवश्यं विधेया अभ्युपग- न्तव्या । सा च किं चतुर्वाश्रमेषु यस्य कस्य चित्, आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् । यदि च ब्रह्मच र्यान्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानु- पपत्तेश्च यः कश्चिच्चतुर्वाश्रमेषु ब्रह्मसंस्थो भविष्यति ; अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति । तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परि- ब्राsपि इति केचित् । तदयुक्तम् ; न हि सत्यां गतौ वानप्रस्थ- विशेषणेन परिव्राजको ग्रहणमर्हति ; यथा अब ब्रह्मचारिगृहमे- धिन असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम्; तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात्, तपः शब्दस्य तत्र रूढे: भिक्षोस्तु धर्म इन्द्रियसंयमादिः लक्षणयैव तपः शब्देना- सूत्रभाष्ये ; [ पा. ४. भिलप्येत । चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृ- श्यन्त इत्यन्याय्यम् । अपि च भेदव्यपदेशो भवति- त्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागिति; पृथक्त्वे च भेदव्यपदेशो ऽवकल्पते; न ह्येवं भवति — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इति भवति त्वम- देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति; त स्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाज:, परिशिष्य- माणः परिव्राट् अमृतत्वभाक् । कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तिर्ज्ञानानर्थक्यप्रसङ्ग इति - अत्रोच्यते — ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ; तच्च त्वयाणामा- श्रमाणां न संभवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवाय श्रव- णात; परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न संभ- वति अननुष्ठाननिमित्तः; शमदमादिस्तु तदीयो धर्मो ब्रह्म- संस्थाया उपोद्बलक:, न विरोधी ; ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म ; यज्ञादीनि च इतरे- षाम् ; तद्व्यतिक्रमे च तस्य प्रत्यवाय: । तथा च ' न्यास इति ब्रह्मा ब्रह्मा हि पर: परो हि ब्रह्मा । तानि वा एतान्यवराणि सू. २०.] तृतीयोऽध्यायः । , " तपांसि न्यास एवात्यरेचयत्' ' वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः : शुद्धसत्त्वाः इत्याद्याः श्रुतयः स्मृतयश्च 'तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा:' इत्याद्याः - ब्रह्म- संस्थस्य कर्माभावं दर्शयन्ति । तस्मान् परिव्राजकस्थ आश्रम- मात्रादमृतत्व प्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नाव- तरति । तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम, पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव । अनपेक्ष्यैव जाबालश्रुतिमाश्र- मान्तरविधायिनीम् अयमाचार्येण विचार: प्रवर्तितः; विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा- 'ब्रह्मचर्य समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रत्र- जेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा' इति; न च इयं श्रुति: अनधिकृतविषया शक्या वक्तुम्, अ- विशेषश्रवणात् पृथग्विधानाच्च अनधिकृतानाम्- 'अथ पुन रेवती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्नि- को वा' इत्यादिना; ब्रह्मज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्य- स्य न अनधिकृतविषयत्वम्, तच्च दर्शयति- 'अथ परित्रा- डिवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूया - भवति' इति । तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः । सिद्धं च ऊर्ध्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति ॥ " सूत्रभाष्ये स्तुतिमात्रमुपादानादिति चेन्ना- पूर्वत्वात् ॥ २१ ॥ " , -- [पा. ४. स एष रसानां रसतमः परमः परार्थ्योऽमो यदुद्गी- थः ' ' इयमेवर्गभिः साम 'अयं वाव लोकः, एपोऽनिश्चि- ३. स्तुतिमात्रा- तः, तदिदमेवोक्थम, इयमेव पृथिवी ' धिकरणम् । इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तु- त्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये - स्तु- त्यथ इति युक्तम् उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणा- न्; यथा ' इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनी- य:' इत्याद्या जुह्वादिस्तुत्यर्था:, तद्वत् - इति चेन, नेत्याह; न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम, अपूर्वत्वान ; विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति; स्तुत्यर्थतायां वानर्थक्यमेव स्यात् ; विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ' विधिना त्वेकवा- क्यत्वात्स्तुत्यर्थेन विधीनां स्युः' इत्यत्र ; प्रदेशान्तरविहिता- नां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुति: वाक्यशे- षभावमप्रतिपद्यमाना अनर्थिकैव स्यात्; 'इयमेव जुहूः ' इत्यादि तु विधिसंनिधावेवान्नातमिति वैषम्यम् । तस्मात् विध्यर्था एव एवं जातीयकाः श्रुतयः ॥ सू. २३ . ] तृतीयोऽध्यायः । ७३५ भावशब्दाच्च ॥ २२ ॥ 'उद्गीथमुपासीत ' ' सामोपासीत' ' अहमुक्थमस्मीति विद्यात्' इत्यादयश्च विस्पष्टा विधिशब्दा: श्रूयन्ते ; ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् । तथा च न्यायविदां स्मरणम् -- 'कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्' इति ; लिङाद्यर्थो वि- धिरिति मन्यमानास्त एवं स्मरन्ति । प्रतिप्रकरणं च फलानि श्राव्यन्ते — ' आपयिता ह वै कामानां भवति ' एष a कामागानस्येष्ठे' 'कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च' इत्यादीनि ; तस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः ॥ " पारिवार्था इति चेन्न विशेषि- तत्वात् ॥ २३ ॥ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी च का- त्यायनी च ' ' प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामो- ४, पारिप्लवाधि- 'पजगाम ' ' जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो करणम् । बहुदायी बहुपाक्य आस' इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः - किमिमानि पारिप्लवप्र- योगार्थानि, आहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति । पा.-. s. W. III. 12 सूत्रभाष्ये [पा. ४. , रिप्लवार्था इमा आख्यानश्रुतय:, आख्यानसामान्यात्, आ- ख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात्; ततश्च विद्याप्रधा- त्वं वेदान्तानां न स्यात्, मन्त्रवत् प्रयोगशेषत्वादिति चेत् - तन्न; कस्मात् ? विशेषितत्वात्- 'पारिप्लवमाचक्षीत इति हि प्रकृत्य, 'मनुर्वैवस्वतो राजा' इत्येवमादीनि कानि - चिदेव आख्यानानि तत्र विशेष्यन्ते; आख्यानसामान्याचेत सर्वगृहीतिः स्यात्, अनर्थकमेवेदं विशेषणं भवेत् । तस्मान न पारिवार्था एता आख्यानश्रुतयः ॥ तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥ असति च पारिप्लवार्थत्वे आख्यानानां संनिहितविद्या - प्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात्; तथा हि तत्र तत्र संनिहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररो- चनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च मैत्रेयीब्राह्मणे ता- वत् - 'आत्मा वा अरे द्रष्टव्य:' इत्याद्यया विद्यया एकवा- क्यता दृश्यते; प्रातर्दनेऽपि 'प्राणोऽस्मि प्रज्ञात्मा' इत्या- द्यया; ' जानश्रुति:' इत्यत्रापि ' वायुर्वाव संवर्ग:' इत्याद्यया - यथा 'स आत्मनो वपामुदखिदत्' इत्येवमादीनां कर्म- श्रुतिगतानामाख्यानानां संनिहितविधिस्तुत्यर्थता, तद्वत् । तस्मान्न पारिप्लवार्थत्वम् ॥ सू. २६.] ५. तृतीयोऽध्यायः । अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ । 'पुरुषार्थोऽतः शब्दात्' इत्येतत् व्यवहितमपि संभवात् अग्नीन्धनाद्य- अत:' इति परामृश्यते । अत एव च 6 धिकरणम् । विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादी- न्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्य- स्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ , सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥ इदमिदानीं चिन्त्यते—— किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम्, उत अस्ति काचिदपेक्षेति । तत्र त ६. सर्वापेक्षाधि- एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वा- करणम् । सिद्धौ नापेक्ष्यन्ते; एवमत्यन्तमेवानपे- क्षायां प्राप्तायाम् इदमुच्यते - सर्वापेक्षा चेति; अपे- क्षते च विद्या सर्वाण्याश्रमकर्माणि नात्यन्तमनपेक्षैव । ननु विरुद्धमिदं वचनम् - अपेक्षते च आश्रमकर्माणि विद्या, नापेक्षते चेति । नेति ब्रूमः ; उत्पन्ना हि विद्या फलसिद्धिं प्रति न किंचिदन्यदपेक्षते, उत्पत्तिं प्रति तु अपेक्षते ; कुत: ? यज्ञादिश्रुतेः; तथा हि श्रुतिः - ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन' इति, यज्ञादीनां विद्यासाधनभावं दर्शयति ; विविदिषासंयोगाच्चै - " " " सूत्रभाष्ये [पा. ४. षामुत्पत्तिसाधनभावोऽवसीयते; 'अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्' इत्यत्र च विद्यासाधनभूतस्य ब्रह्मचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्य- त; ' सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्व- दन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण त्रवीमि इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधन- भावं सूचयति; स्मृतिरपि 'कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते इत्येवमाद्या । अश्ववदिति योग्यतानिदर्शनम् - यथा च योग्यतावशेन अश्रो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति ॥ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्त- दङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥ , यदि कश्चिन्मन्येत - यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात् ; ' यज्ञेन विविदिषन्ति' इत्येवंजाती- यका हि श्रुति: अनुवादस्वरूपा विद्याभिष्टवपरा, न यज्ञादि- विधिपरा - इत्थं महाभागा विद्या, यत् यज्ञादिभिरेतामवाप्तुमि- च्छन्तीति---- तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, 'तस्मा- " सू. २७.] तृतीयोऽध्यायः । देवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्ये- वात्मानं पश्यति' इति विद्यासाधनत्वेन शमदमादीनां विधा- नात् विहितानां च अवश्यानुष्ठेयत्वात् । ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः— नेति ब्रूम:, ' तस्मात्' इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः; 'प- श्येत्' इति च माध्यंदिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव । ननु उक्तम् - यज्ञादिभिर्वि- विदिषन्तीत्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम् ; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते ; न हि अयं यज्ञादीनां विविदिषासंयोग: पूर्व प्राप्तः, येनानूद्येत ; ' तस्मा- त्पूषा प्रपिष्टभागोऽदन्तको हि' इत्येवमादिषु च अश्रुतवि- धिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य 'पौष्णं पेषणं विकृतौ प्रतीयेत ' इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तित: ; तथा च उक्तम् ' विधिर्वा धारणवत्' इति । स्मृतिष्वपि भग- वद्गीताद्यासु अनभिसंधाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् । तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्यो - त्पत्तावपेक्षितव्यानि । तत्रापि ' एवंवित्' इति विद्यासंयो- सूत्रभाष्ये [ पा. ४. गात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि विविदिषासं- , योगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥ प्राणसंवादे श्रूयते छन्दोगानाम् न ह वा एवंविदि किंचनानन्नं भवति' इति ; तथा वाजसनेयिनाम्- ' न ह् ७. सर्वान्नानुमत्य वा अस्यानन्नं जग्धं भवति नानन्नं प्रति- ', धिकरणम् । गृहीतम' इति ; सर्वमम्यादनीयमेव भ- वतीत्यर्थः । किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्या वि- धीयते, उत स्तुत्यर्थ संकीर्त्यत इति संशये - विधिरिति ता- वत्प्राप्तम् ; तथा हि प्रवृत्तिविशेषकर उपदेशो भवति ; अत: प्राणविद्यासंनिधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदि- श्यते । ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्र व्याघातः स्यात् - नैष दोष:, सामान्यविशेषभावात् बाधोपपत्तेः ; यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च न कांचन स्त्रियं परिहरेत्तद्रतम्' इत्यनेन वामदेव्यविद्या- विषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्य- विभागशास्त्रं बाध्यते - एवमनेनापि प्राणविद्याविषयेण सर्वान्न- भक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं वाध्येतेत्येवं प्राप्ते- 6 सू. २८ . ] तृतीयोऽध्यायः । ब्रूमः - नेदं सर्वान्नानुज्ञानं विधीयत इति ; न हि अत्र वि- धायकः शब्द उपलभ्यते, 'न ह वा एवंविदि किंचनानन्नं भवति' इति वर्तमानापदेशात् । न च असत्यामपि विधि- प्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्य- ते । अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते- नैवंविदः किंचिदनन्नं भवतीति ; न च श्वादिमर्यादमन्नं मा- नुषेण देहेनोपभोक्तुं शक्यते ; शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् । तस्मात् प्राणान्नविज्ञानप्रशंसार्थो- ऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः । तद्दर्शयति - 'सर्वा - नानुमतिश्च प्राणात्यये ' इति एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्द- र्शनात् ; तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति 'मटचीहतेषु कुरुषु' इत्यस्मि - न् ब्राह्मणे- चाक्रायणः किल ऋषिः आपद्भुतः इभ्येन सामिखादितान्कुल्माषांश्चखाद; अनुपानं तु तदीयम् उच्छि प्रदोषात्प्रत्याचचक्षे; कारणं चात्रोवाच 'न वा अजी- विष्यमिमानखादन्' इति, 'कामो म उदपानम्' इति च; पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव - इति; तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं - सूत्रभाष्ये [पा. ४. दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते- प्राणात्ययप्रसङ्गे प्राणसंधारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि - इत्यनुपानप्रत्याख्यानाद्गम्यते । तस्मात् अर्थवाद: ' न ह वा एवंविदि ' इत्येवमादिः ॥ अबाधाच्च ॥ २९ ॥ 6 एवं च सति ' आहारशुद्धौ सत्त्वशुद्धि:' इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम अबाधितं भविष्यति ॥ अपि च स्मर्यते ॥ ३० ॥ अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽवि - दुषश्च अविशेषेण - 'जीवितात्ययमापन्नो योऽन्नमत्ति यत- स्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' इति । तथा ' मद्यं नित्यं ब्राह्मण: ' ' 'सुरापस्य ब्राह्मणस्योष्णामा- सिश्वेयुः ', ' सुरापा: कृमयो भवन्त्यभक्ष्यभक्षणात्' इति च - स्मर्यते वर्जनमनन्नस्य ॥ शब्दश्चातोऽकामकारे ॥ ३१ ॥ शब्दश्व अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजन: कठानां संहितायां श्रूयते--- ' तस्माद्ब्राह्मणः सुरां न पिबेत् ' इति । सोऽपि ' न ह वा एवंविदि' इत्यस्यार्थवादत्वात् उपप- सू. ३३.] तृतीयोऽध्यायः । नतरो भवति । तस्मादेवजातीयका अर्थवादा न विधय इति ॥ 6 विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥ 'सर्वापेक्षा च' इत्यत्र आश्रमकर्मणां विद्यासाधनत्व- मवधारितम् इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य ८. आश्रमकर्मा- विद्यामकामयमानस्य तान्यनुष्ठेयानि, उ- धिकरणम् । ताहो नेति चिन्त्यते । तत्र ' तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति' इत्यादिना आश्रमकर्मणां वि- द्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामय- मानस्य नित्यान्यननुष्ठेयानि ; अथ तस्याप्यनुष्ठेयानि, न तर्हि एषां विद्यासाधनत्वम्, नित्यानित्यसंयोगविरोधात् — इत्यस्यां प्राप्तौ पठति - आश्रममात्र निष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, 'यावज्जीवमग्निहोत्रं जुहोति' इत्यादिना विहितत्वात ; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ " अथ यदुक्तम्- नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति---- सहकारित्वेन च ॥ ३३ ॥ विद्या सहकारीणि च एतानि स्युः, विहितत्वादेव ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इत्यादिना; तदुक्तम्- C - सूत्रभाष्ये , [पा. ४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इति । न चेदं विद्यासह - कारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम्, अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्या- फलस्य ; विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसि- पाधयिषया सहकारिसाधनान्तरम् अपेक्षते नैवं विद्या; तथा चोक्तम् – ' अत एव चाग्नीन्धनाद्यनपेक्षा ' इति ; तस्मादु- त्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः । न च अत्र नित्यानित्यसंयोगविरोध आशङ्कयः, कर्माभेदेऽपि संयोगभे- दात् ; नित्यो हि एकः संयोगो यावज्जीवादिवाक्य कल्पितः, न तस्य विद्याफलत्वम्; अनित्यस्तु अपरः संयोगः ' तमेतं वेदानुवचनेन' इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम्- यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम, अनित्येन संयोगेन पुरुषार्थत्वम्, तद्वत् ॥ सर्वथापित एवोभयलिङ्गात् ॥ ३४ ॥ , सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेया: । ' त एव' इत्यवधारय- नाचार्य: किं निवर्तयति ? कर्मभेदशङ्कामिति ब्रूमः ; यथा कुण्डपायिनामयने 'मासमग्निहोत्रं जुह्वति' इत्यत्र नित्याद- मिहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदोऽस्तीत्यर्थः । " सू. ३६.] तृतीयोऽध्यायः । कुत: ? उभयलिङ्गात् - श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्ग तावत् - ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ' इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनि- युङ्क्ते, न तु 'जुह्वति' इत्यादिवत् अपूर्वमेषां रूपमुत्पादय- तीति । स्मृतिलिङ्गमपि - 'अनाश्रितः कर्मफलं कार्य कर्म करोति य:' इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थ दर्शयति ; 'यस्यैतेऽष्टाचत्वारिंशत्संस्कारा:' इत्याद्या च सं- स्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिम- भिप्रेत्य स्मृतौ भवति । तस्मात्साध्विदम् अभेदावधारणम् ॥ अनभिभवं च दर्शयति ॥ ३५ ॥ सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम् । अनभिभवं च दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसंपन्नस्य रागादिभिः केशै:- एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ' 6 इत्यादिना । तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति वि- द्यासहकारीणि चेति स्थितम् ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥ विधुरादीनां द्रव्यादिसंपद्रहितानां च अन्यतमाश्रमप्रति- पत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं- सूत्रभाष्ये वा नास्ति - इति संशये, [ पा. ४. नास्तीति तावत्प्राप्तम्, आश्रम- ९. विधुराधि - कर्मणां विद्याहेतुत्वावधारणात्, आश्रम- करणम् । कर्मासंभवाच्चैतेषाम -- इत्येवं प्राप्ते, इद- माह - अन्तरा चापि तु- अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते ; कुतः ? तद्दृष्टे :- रैक्ववाचक्नवीप्रभृतीनामे- वंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ अपि च स्मर्यते ॥ ३७ ॥ संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमक- र्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥ ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् ; का नु खलु प्राप्तिरिति सा अभिधीयते— " विशेषानुग्रहश्च ॥ ३८ ॥ तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्र संबन्धि- भिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्याया: सं- भवति । तथा च स्मृति:- - 6 जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ' इति असंभवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति । जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः संभवत्येव विद्याया सू. ४०.] तृतीयोऽध्यायः (: 1 अनुग्रहः ; तथा च स्मृति:- 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति जन्मान्तरसंचितानपि संस्कारवि- शेषान् अनुग्रहीतृन् विद्यायां दर्शयति । दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु । त- स्मात् विधुरादीनामप्यधिकारो न विरुध्यते ॥ अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥ अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम, श्रुतिस्मृतिसंदृब्धत्वात् ; श्रुतिलिङ्गाच्च - 'ते- नैति ब्रह्मवित्पुण्यकृत्तैजसच' इति ; 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्' इति च स्मृतिलिङ्गात् ॥ तद्भूतख तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥ सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् ; तांस्तु प्राप्त- स्य कथंचित् ततः प्रच्युतिरस्ति नास्ति वेति संशयः । पूर्व- १०. तद्भूता- धर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन धिकरणम् । वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथं- सूत्रभाष्ये [ पा. ४. चिदपि अतद्भाव:, न ततः प्रच्युतिः स्यात् ; कुत: ? निय- मातद्रूपाभावेभ्यः । तथा हि - ' अत्यन्तमात्मानमाचार्यकुले- Sवसादयन् ' इति, 'अरण्यमियादिति पदं ततो न पुनरेया- दित्युपनिषत्' इति, 'आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्र- मम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ' इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च 'ब्रह्मचर्य समाप्य गृही भवेत् ' ' ब्रह्मचर्यादेव प्रव्रजेत्' इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्य- वरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्व- धर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् - 'श्रेया- न्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्' इति स्मरणात्, न्यायाच्च - यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते चोदनालक्षणत्वाद्धर्भस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिने- रपीति अपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिशा- स्ति प्रतिपत्तिदार्व्याय ॥ न चाधिकारिकमपि पतनानुमाना- तद्योगात् ॥ ४१ ॥ यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य सू. ४२.] तृतीयोऽध्यायः । 'ब्रह्मचार्यवकीर्णी नैर्ऋतं गर्दभमालभेत' इत्येतत्प्रायश्चित्तं ११. अधिका- स्यात्, उत नेति । नेत्युच्यते ; यदपि अ- रिका धि धिकारलक्षणे निर्णीतं प्रायश्चित्तम् ' अव- करणम् । कीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् ' इति, तदपि न नैष्ठिकस्य भवितुमर्हति ; किं कारणम् ? ' आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा' इति अप्रतिसमाधेयपतन- स्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः ; उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ उपपूर्वमपि त्वेके भावमशनवत्त- दुक्तम् ॥ ४२ ॥ अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते ; यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्य विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगण- नात् तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च ; अशनवत् - यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते ; ये तु भावमिच्छन्ति तेषां 'ब्रह्म- सूत्रभाष्ये [पा. ४. चार्यवकीर्णी' इत्येतदविशेषश्रवणं मूलम् ; तस्मात् भावो युक्त- तरः; तदुक्तं प्रमाणलक्षणे – ' समा विप्रतिपत्तिः स्यात् ' 'शास्त्रस्था वा तन्निमित्तत्वात्' इति ; प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — 'वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादश- रात्रं चरित्वा महाकक्षं वर्धयेत्' 'भिक्षुर्वानप्रस्थवत्सोमवृद्धि- वर्ज स्वशास्त्र संस्कारच ' इत्येवमादि प्रायश्चित्तस्मरणम् अनु- सर्तव्यम् ॥ बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥ यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम, यदि वा उपपातकम्, उभयथापि शिष्टैस्ते बहिष्कर्तव्या:- १२. बहिरधि - 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । करणम् । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्म- हा' इति, 'आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उ- द्वद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्' इति च एवमादि- निन्दातिशयस्मृतिभ्यः, शिष्टाचाराच्च न हि यज्ञाध्ययनवि- वाहादीनि तैः सह आचरन्ति शिष्टाः ॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥ अङ्गेषूपासनेषु संशय:- किं तानि यजमानकर्माणि सू. ४५. ] तृतीयोऽध्यायः । आहोस्वित् ऋत्विकर्माणीति । किं तावत्प्राप्तम् ? यजमानक- १३. स्वाम्य- मणीति ; कुत: ? फलश्रुते: ; फलं हि धिकरणम् । श्रूयते— 'वर्षति हास्मै वर्षयति ह य एत- देवं विद्वावृष्टौ पञ्चविधं सामोपास्ते' इत्यादि ; तच्च स्वा- मिगामि न्याय्यम्, तस्य साने प्रयोगेऽधिकृतत्वात्, अधि- कृताधिकारत्वाच्च एवं जातीयकस्य ; फलं च कर्तरि उपास- नानां श्रूयते - 'वर्षत्यस्मै य उपास्ते' इत्यादि । ननु ऋ- त्विजोऽपि फलं दृष्टम् 'आत्मने वा यजमानाय वा यं कामं कामयते तमागायति' इति — न, तस्य वाचनिकत्वात् । तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् - इत्यात्रेय आचार्यो मन्यते ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥ ४५ ॥ नैतदस्ति - स्वामिकर्माण्युपासनानीति ऋत्विकर्माण्ये- तानि स्यु: -- इत्यौडुलोमिराचार्यों मन्यते ; किं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रियते ; तत्प्रयोगान्तः पातीनि च उद्गीथाद्युपासनानि अधिकृताधि- कारत्वात् ; तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्नि- वयेंरन्; तथा च ' तं ह बको दाल्भ्यो विदांचकार स ह S. W. III. 13 सूत्रभाष्ये [ पा. ४. नैमिशीयानामुद्गाता बभूव' इत्युद्गातृकर्तृकतां विज्ञानस्य दर्श- यति । यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति नैष दोष:, परार्थत्वाद्यत्विजः अन्यत्र वचनात् फलसंबन्धानुपपत्तेः ॥ श्रुतेश्व ॥ ४६ ॥ 6 "यां वै कांचन यज्ञ ऋत्विज आशिषमाशासत इति य- जमानायैव तामाशासत इति होवाच' इति, तस्मादु हैव- विदुद्गाता ब्रूयात्कं ते काममागायानि' इति च ऋत्विकर्तृ- कस्य विज्ञानस्य यजमानगामि फलं दर्शयति । तस्मात् अङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः ॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥ 'तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य वाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ १४. सहकार्यन्त- ब्राह्मण:' इति बृहदारण्यके श्रूयते । तत्र रविध्यधि- संशय:- मौनं विधीयते, न वेति । न विधीयत इति तावत्प्राप्तम्, 'बाल्येन तिष्ठासेत्' इत्यत्रैव विधेरवसितत्वात् न हि 'अथ मुनिः ' इत्यत्र विधायिका विभक्तिरुपलभ्यते; तस्मादयमनुवादो करणम् । सू. ४७.] तृतीयोऽध्यायः । , । युक्त: ; कुतः प्राप्तिरिति चेत् - मुनिपण्डितशब्दयोर्ज्ञानार्थ- त्वात् 'पाण्डित्यं निर्विद्य' इत्येव प्राप्तं मौनम् । अपि च 'अमौनं च मौनं च निर्विद्याथ ब्राह्मण:' इत्यत्र तावत् न ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात्; तस्मात् अथ ब्रा- ह्मण:' इति प्रशंसावाद:, तथैव 'अथ मुनिः' इत्यपि भवि - तुमर्हति समान निर्देशत्वादित्येवं प्राप्ते - ब्रूमः - सहकार्यन्तरविधिरिति । विद्यासहकारिणो मौ- नस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात् । ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् -- नैष दोष:, मुनिशब्दस्य ज्ञानातिशयार्थत्वात्, मननान्मुनिरिति च व्यु- त्पत्तिसंभवात्, 'मुनीनामप्यहं व्यासः' इति च प्रयोगद- र्शनात् । ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते ' गाई - स्थ्यमाचार्यकुलं मौनं वानप्रस्थम्' इत्यत्र –न, 'वाल्मी किर्मुनिपुंगवः' इत्यादिषु व्यभिचारदर्शनात्; इतराश्रमसं- निधानात्त पारिशेष्यात् तत्र उत्तमाश्रमोपादानम्, ज्ञानप्र- धानत्वादुत्तमाश्रमस्य । तस्मात् बाल्यपाण्डित्यापेक्षया तृती - यमिदं मौनं ज्ञानातिशयरूपं विधीयते । यत्तु बाल्य एव विधिपर्यवसानमिति, तथापि अपूर्वत्वान्मुनित्वस्य विधेय- त्वमाश्रीयते - मुनिः स्यादिति ; निर्वेदनीयत्वनिर्देशादपि मौ- - 6 सूत्रभाष्ये [ पा. ४. नस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् । तद्वत: विद्यावतः संन्यासिनः ; कथं च विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात्— आत्मानं विदित्वा पुत्राद्येपणाभ्यो व्युत्थाय 'अथ भिक्षाचर्यं चरन्ति' इति । ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना - इत्यत आह-प- क्षेणेति । एतदुक्तं भवति --- यस्मिन्पक्षे भेददर्शनप्राबल्यात न प्राप्नोति तस्मिन् एष विधिरिति । विध्यादिवत् यथा ' दर्श- पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्येवंजातीयके विध्यादौ स- हकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः ' अभिसमावृत्य कुटु- म्बे' इत्यत्र ? तेन हि उपसंहरन् तद्विषयमादरं दर्शयति- इत्यत उत्तरं पठति — कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥ तु- शब्दो विशेषणार्थः ; कृत्स्नभावोऽस्य विशेष्यते ; बहु- लायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्त- व्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासंभव महिंसे- न्द्रियसंयमादीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसं- सू. ५०. ] हारो न विरुध्यते ॥ तृतीयोऽध्यायः । ७५५ मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥ " यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ एव- मितरावपि वानप्रस्थगुरुकुलावासौ; दर्शिता हि पुरस्ता- छुति:-- ' तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृ- तीय:' इत्याद्या । तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशा- विशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः । इतरे - षामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभे- दापेक्षया वा- इति द्रष्टव्यम् ॥ अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥ . 'तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ' इति बाल्यमनुष्ठेयतया श्रूयते ; तत्र बालस्य भावः कर्म १५. अनावि- वा बाल्यमिति तद्धिते सति, बालभावस्थ काराधि - वयोविशेषस्य इच्छया संपादयितुमशक्य- " करणम् । त्वात् यथोपपादमूत्रपुरीषत्वादि बाल- चरितम्, अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भादिरहितत्वं वा बाल्यं स्यादिति संशयः । किं ताव- त्प्राप्तम्? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च सूत्रभाष्ये [पा. ४. प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् । ननु पतित- त्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् - न ; विद्यावत: संन्यासिनो वचनसामर्थ्यात दोषनिवृत्ति:, पशुहिंसादिष्वि- वेत्येवं प्राप्ते- अभिधीयते न वचनस्य गत्यन्तरसंभवात; अविरुद्धे हि अन्यस्मिन बाल्यशब्दाभिलप्ये लभ्यमाने, न विध्यन्तर- व्याघातकल्पना युक्ता ; प्रधानोपकाराय च अङ्गं विधीयते ; ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम; न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते; त- स्मात् आन्तरो भावविशेषो वालम्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते ; तदाह — अनाविष्कुर्वन्निति । ज्ञानाध्य- यनधार्मिकत्वादिभिः आत्मानमविख्यापयन दम्भदर्पादिर- हितो भवेत् — यथा बाल: अप्ररूढेन्द्रियतया न परेषाम आत्मानमाविष्कर्तुमीहते, तद्वत् । एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते ; तथा च उक्तं स्मृतिकारै:- ' यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित् ब्राह्मण: ॥ गूढधर्माश्रितो विद्वानज्ञात- चरितं चरेत् । अन्धवज्जडवश्चापि मूकवच महीं चरेत् ' 'अव्यक्तलिङ्गोऽव्यक्ताचारः ' इति चैवमादि ॥ सू. ५१.] तृतीयोऽध्यायः । ऐहिकमप्यप्रस्तुत प्रतिबन्धे तद्दर्श- नात् ॥ ५१ ॥ ' सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्' इत्यत आरभ्य उच्चा- वचं विद्यासाधनमवधारितम् ; तत्फलं विद्या सिध्यन्ती कि- १६. ऐहिका- मिहैव जन्मनि सिध्यति, उत कदाचित ; धिकरणम् । अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति किं कारणम् ? श्रवणादिपूर्विका हि विद्या ; न च कश्चित् अत्र मे विद्या जायतामित्यनुसंधाय श्रवणादिषु प्रवर्तते ; समान एव तु जन्मनि विद्याजन्म अभिसंधाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्याया: । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते- वदामः- ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्र- तिबन्ध इति । एतदुक्तं भवति- यदा प्रक्रान्तस्य विद्या- साधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण तदा इव विद्या उत्पद्यते ; यदा तु खलु तत्प्रति- बन्धः क्रियते तदा अमुत्रेति । उपस्थितविपाकत्वं च कर्म- णो देशकालनिमित्तोपनिपाताद्भवति यानि च एकस्य क- र्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्य- " -- सूत्रभाष्ये [ पा. ४. स्यापीति न नियन्तुं शक्यते ; यतो विरुद्धफलान्यपि क- र्माणि भवन्ति । शास्त्रमपि अस्य कर्मण इदं फलमित्येताव - ति पर्यवसितं न देशकालनिमित्तविशेषमपि संकीर्तयति । साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति, तत्प्रतिबद्धा परस्य तिष्ठति । न च अविशेषेण विद्यायाम् अभिसंधिर्नोत्पद्यते-- इह अमुत्र वा मे विद्या जायतामिति, अभिसंधेर्निरङ्कुशत्वात् । श्रवणादिद्वारेणापि विद्या उत्पद्यमा- ना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते । तथा च श्रुतिः दुर्बोध- त्वमात्मनो दर्शयति--- 'श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्योऽस्य वक्ता कु- शलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः' इति । गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तर- संचितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति ; न हि गर्भस्थस्यैव ऐहिकं किंचित्साधनं संभाव्यते । स्मृतावपि - 6 अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति' इत्यर्जुनेन पृष्टो भगवान्वासुदेव: 'न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति' इत्युक्त्वा, पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संभू- तिं च अभिधाय, अनन्तरम् ' तत्र तं बुद्धिसंयोगं लभते पौ- वैदेहिकम्' इत्यादिना ' अनेकजन्मसंसिद्धस्ततो याति परां सू. ५२. ] तृतीयोऽध्यायः । गतिम्' इत्यन्तेन एतदेव दर्शयति । तस्मात् ऐहिकम् आ- मुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥ एवं मुक्तिफलानियमस्तदवस्थावधृते- स्तदवस्थावधृतेः ॥ ५२ ॥ यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्वि- द्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो १७. मुक्तिफला- दृष्ट:, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्ष- धिकरणम् । कृतः कश्चिद्विशेषप्रतिनियमः स्यात् - इत्या- शङ्कय, आह- मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः; कुत: ? तदवस्थावधृते:- मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अ- वधार्यते ; ब्रह्मैव हि मुक्त्यवस्था; न च ब्रह्मणोऽनेकाकार- योगोऽस्ति, एकलिङ्गत्वावधारणात्- 'अस्थूलमनणु' 'स एष नेति नेत्यात्मा' ' यत्र नान्यत्पश्यति ' ' ब्रह्मैवेदममृतं पुरस्तात् ' ' इदं सर्वं ययमात्मा' ' स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म ' यत्र त्वस्य सर्वमात्मैवा- भूत्तत्केन कं पश्येत्' इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कंचिदतिशय मासश्ञ्जये- तू न विद्याफले मुक्तौ; तद्धि असाध्यं नित्यसिद्धस्वभावमेव " 26 सूत्रभाष्ये [ पा. ४. विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामध्यु- त्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभा- वात् ; h उत्कृष्टैव हि विद्या भवति ; तम्मान तस्यां चिराचिरो- त्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अ- तिशयसंभवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनिय - माभाव:, कर्मफलवत्; न हि मुक्तिसाधनभूताया विद्याया: कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु मनोमय: प्राणशरीर:' इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्या- म्, उपपद्यते यथास्वं फलभेदनियमः कर्मफलवन - तथा च लिङ्गदर्शनम् -' तं यथा यथोपासते तदेव भवति' इति ; नैवं निर्गुणायां विद्यायाम् गुणाभावात् तथा च स्मृति: - 'न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवद- न्यतुल्यताम्' इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पढ़ा- भ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ - इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयोऽध्यायः ॥ ॥ ब्रह्मसूत्रभाष्यम् ॥ चतुर्थोऽध्यायः । श्रीमच्छंकर भगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ चतुर्थाध्याये प्रथमः पादः नुसराम:- 6 ॥ चतुर्थोऽध्यायः ॥ तृ तीयेऽध्याये परापरासु विद्यासु सा- धनाश्रयो विचारः प्रायेण अत्यगात ; अथेह चतुर्थे फलाश्रय आगमिष्यति ; प्रसङ्गागतं च अन्यदपि किं चिच्चिन्त- यिष्यते ; प्रथमं तावत् कतिभिश्चिद- धिकरणैः साधनाश्रयविचारशेषमेवा- ; आवृत्तिरसकृदुपदेशात् ॥ १ ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- सितव्यः ' ' तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ' ' सोऽन्वे- १. आवृत्यधि- करणम् । ष्टव्यः स विजिज्ञासितव्य:' इति च एव - मादिश्रवणेषु संशय: - किं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येति । किं तावत्प्राप्तम् ? सकृत्प्र- सूत्रभाष्ये " [पा. १ त्ययः स्यात्, प्रयाजादिवत् तावता शास्त्रस्य कृतार्थत्वात्; अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम अशास्त्रार्थ: कृतो भवेत् । ननु असकृदुपदेशा उदाहृता:- ' श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' इत्येवमादयः --- एवमपि याव च्छन्दमा वर्तयेत् सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति, नातिरिक्तम् । सकृदुपदेशेषु तु 'वेद' ' उपासीत ' इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते, ब्रूमः - प्रत्ययावृत्तिः कर्तव्या ; कुत: ? असकृदुपदेशात्- 'श्रोतव्यो मन्त- व्यो निदिध्यासितव्य:' इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्ति सूचयति । ननु उक्तम्- यावच्छन्दमेव आव- र्तयेत् नाधिकमिति न दर्शनपर्यवसानत्वादेषाम; दर्शन- पर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भव- न्ति - यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि हि, तद्वत् । अपि च उपासनं निदिध्यासनं च - इत्यन्तर्णी - तावृत्तिगुणैव क्रिया अभिधीयते ; तथा हि लोके 'गुरुमुपास्ते ' ' राजानमुपास्ते' इति च - यस्तात्पर्येण गुर्वादीननुवर्तते, स एवमुच्यते ; तथा 'ध्यायति प्रोषितनाथा पतिम्' इति - या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधी- यते । विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो ." सू. २.] चतुर्थोऽध्यायः । दृश्यते ; कचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथा- 'यस्तद्वेद यत्स वेद स मयैतदुक्त:' इत्यत्र 'अनु म एतां भगवो देवतां शाधियां देवतामुपास्से' इति ; क्वचिच्च उपा- सिनोपक्रम्य विदिनोपसंहरति, यथा- 'मनो ब्रह्मेत्युपासीत ' इत्यत्र ' भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद' इति । तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः । असकृदुपदेशस्तु आवृत्तेः सूचकः ॥ लिङ्गाच्च ॥ २ ॥ लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति । तथा हि-उद्गीथ- विज्ञानं प्रस्तुत्य, 'आदित्य उद्गीथ:' इत्येतत् एकपुत्रतादोषे- णापोद्य, 'रश्मींस्त्वं पर्यावर्तयात्' इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति ; तत्सामा- न्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः ॥ अत्राह — भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्ति:, ते- ष्वावृत्तिसाध्यस्यातिशयस्य संभवात्; यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म सम र्पयति, तत्र किमर्था आवृत्तिरिति । सकृच्छ्रतौ च ब्रह्मास त्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत्, न, आवृत्तावपि तदनुपपत्तेः ; यदि हि 'तत्त्वमसि' इत्येवंजातीयकं वाक्यं स- 1 सूत्रभाष्ये [ पा. १ . कृच्छ्रयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्य - मानमुत्पादयिष्यतीति का प्रत्याशा स्यात् । अथोच्येत - न के- वलं वाक्यं कंचिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति तथाप्यावृत्त्यानर्थ- क्यमेव ; सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयि- ष्यति । अथापि स्यात् - युक्त्या वाक्येन च सामान्यविषय- मेव विज्ञानं क्रियते, न विशेपविषयम्; यथा ' अस्ति मे हृदये शूलम्' इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच शूलस- द्भावसामान्यमेव परः प्रतिपद्यते, न विशेषमनुभवति - यथा स एव शूली ; विशेषानुभवश्च अविद्याया निवर्तक : ; तदर्था आवृत्तिरिति चेत् — न, असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसंभवात् न हि सकृत्प्रयुक्ताभ्यां शास्त्र- युक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्याम- वगन्तुं शक्यते; तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रति- पाद्येत, यदि वा सामान्यमेव, उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः ; न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम्, विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम् । अपि च अने- कांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन सू. २. ] चतुर्थोऽध्यायः । एकमंशमवधारयति, अपरेण अपरम् - इति स्यादप्यभ्यासो- पयोगः, यथा दीर्घप्रपाठकग्रहणादिषु न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्ताव- भ्यासापेक्षा युक्तेति ॥ " अत्रोच्यते-- भवेदावृत्त्यानर्थक्यं तं प्रति यः 'तत्त्व- मसि' इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् ; यस्तु न शक्नोति, तं प्रति उपयुज्यत एव आवृत्तिः । तथा हि च्छान्दोग्ये -- 'तत्त्वमसि श्वेतकेतो' इत्युपदिश्य, 6 भूय एव मा भगवान्विज्ञापयतु' इति पुनः पुनः परिचो- द्यमानः तत्तदाशङ्काकारणं निराकृत्य, 'तत्त्वमसि' इत्येवास- कृदुपदिशति ; तथा च ' श्रोतव्यो मन्तव्यो निदिध्यासि- तव्य:' इत्यादि दर्शितम् । ननु उक्तम्- सकृच्छ्रतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति, तत आवर्त्य - मानमपि नैव शक्ष्यतीति-- नैष दोषः ; न हि दृष्टेऽनुप- पन्नं नाम ; दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थ आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्य - मानाः । अपि च 'तत्त्वमसि' इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे ; तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते ' सत्यं ज्ञानमनन्तं ब्रह्म ' -- सूत्रभाष्ये [पा. १. 'विज्ञानमानन्दं ब्रह्म' 'अदृष्टं द्रष्टृ ' ' अविज्ञातं विज्ञातृ ' 'अजमजरममरम् ' ' अस्थूलमनण्वहस्वमदीर्घम्' इत्यादि- शास्त्रसिद्धम् ; तत्र अजादिशब्दैर्जन्मादयो भावविकारा निव- र्तिताः ; अस्थूलादिशब्दैश्व स्थौल्यादयो द्रव्यधर्मा: ; विज्ञा- नादिशब्दैश्व चैतन्य प्रकाशात्मकत्वमुक्तम्; एप व्यावृत्तस- र्वसंसारधर्म कोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ता- भियुक्तानां प्रसिद्धः ; तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया संभाव्यमान: चैतन्यपर्य- न्तत्वेनावधारित:; तत्र येषाम् एतौ पदार्थों अज्ञानसंशय- विपर्ययप्रतिबद्ध, तेषां 'तत्त्वमसि' इत्येतद्वाक्यं स्वार्थे प्रभां नोत्पादयितुं शक्नोति, पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य- इत्यतः, तान्प्रति एष्टव्यः पदार्थविवेक प्रयोजनः शास्त्रयुक्त्य- भ्यासः । यद्यपि च प्रतिपत्तव्य आत्मा निरंशः, तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदना- दिलक्षणम् ; तत्र एकेन अवधानेन एकमंशमपोहति, अप- रेण अपरम् - इति युज्यते तत्र क्रमवती प्रतिपत्तिः; तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितु- सू. २.] चतुर्थोऽध्यायः । मिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव ; सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्र- मोऽभ्युपगम्यते । सत्यमेवं युज्येत, यदि कस्यचित् एवं प्रतिपत्तिर्भवेत्; बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः ; अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् — न, देहाभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वो- पपत्तेः ; प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा 'अहं छिये दह्ये' इति च मिथ्याभिमानो दृष्टः ; तथा बाह्यतरेष्वपि पुत्रमित्रादिषु संतप्यमानेषु ' अहमेव संतप्ये' इत्यध्यारोपो दृष्टः; तथा दुःखित्वाद्यभिमानोऽपि स्यात्, देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुः खित्वादीनाम्, सुषुप्तादिषु च अननुवृत्तेः ; चैतन्यस्य सु सुषुप्तेऽपि अनुवृत्तिमामनन्ति- ' यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति' इत्यादिना ; त- स्मात् सर्वदुःखविनिर्मुक्तैक चैतन्यात्मकोऽहमित्येष आत्मानु- भवः । न च एवम् आत्मानमनुभवतः किंचिदन्यत्कृत्यमव- शिष्यते ; तथा च श्रुतिः - ' किं प्रजया करिष्यामो येषां नो- ऽयमात्मायं लोकः' इत्यात्मविदः कर्तव्याभावं दर्शयति ; स्मृति- रपि' यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते' इति । यस्य तु न एषोऽनुभवो 6 S. W. III. 14 सूत्रभाष्ये [पा. १. द्रागिव जायते, तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः तन्त्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत; न हि वरघाताय कन्यामुद्वाहयन्ति; नियुक्तस्य च 'अस्मि नधिकृतोऽहं कर्ता मयेदं कर्तव्यम' इत्यवश्यं ब्रह्मप्रत्ययाद्वि- परीतप्रत्यय उत्पद्यते यस्तु स्वयमेव मन्दमति: अप्रतिभा- नात तं वाक्यार्थ जिहासेन तस्य एतस्मिन्नेव वाक्यार्थे स्थि- रीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । तम्मात परत्र - विषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः ॥ '", आत्मेति तूपगच्छन्ति ग्राह्यन्ति च ॥ ३ ॥ यः शास्त्रोक्तविशेषणः परमात्मा, स किम् अहमिति ग्रही- तव्यः, किं वा मदन्य इति -- एतद्विचारयति । कथं पुनरा- २. आत्मत्वो- त्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति उच्यते - अयमात्मशब्दो मुख्य: पासनाधि करणम् । शक्यतेऽभ्युपगन्तुम्, सति जीवेश्वरयोरभे- दसंभवे; इतरथा तु गौणोऽयमभ्युपगन्तव्यः - इति मन्यते । किं तावत्प्राप्तम् ? न अहमिति ग्राह्य: ; न हि अपहतपाप्म- त्वादिगुणो विपरीत गुणत्वेन शक्यते ग्रहीतुम्, विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन; अपहतपाप्मत्वादिगुणश्च पर- मेश्वर:, तद्विपरीत गुणस्तु शारीरः; ईश्वरस्य च संसार्यात्मत्वे सू. ३.] ; चतुर्थोऽध्यायः । ईश्वराभावप्रसङ्गः तत: शास्त्रानर्थक्यम्; संसारिणोऽपि ईश्वरात्मत्वे अधिकार्य भावाच्छास्त्रानर्थक्यमेव, प्रत्यक्षादिवि- रोधश्च । अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् - प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् — काममेवं भवतु ; न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम् ॥ - एवं प्राप्ते, ब्रूमः -- आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुप- गच्छन्ति — ' त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि देवते' इति ; तथा अन्येऽपि ' अहं ब्रह्मास्मि' इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि - एष त आत्मा सर्वान्तर: ' ' एष त आत्मान्तर्याम्यमृत:' 'तत्सत्यं स आत्मा तत्त्वमसि' इत्ये- वमादीनि । यदुक्तम् - प्रतीकदर्शनमिदं विष्णु प्रतिमान्यायेन भविष्यतीति तदयुक्तम्, गौणत्वप्रसङ्गात् वाक्यवैरूप्याच --यत्र हि प्रतीकदृष्टिरभिप्रेयते, सकृदेव तत्र वचनं भवति - यथा ' मनो ब्रह्म' ' आदित्यो ब्रह्म' इत्यादि ; इह पुन: - त्वम् अहमस्मि, अहं च त्वमसीत्याह - अतः प्रतीकश्रुति- वैरूप्यात् अभेदप्रतिपत्ति:; भेददृष्टयपवादाच्च ; तथा हि- ' सूत्रभाष्ये [ पा. १. 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' 'सर्व तं परादाद्योऽन्यत्रात्मनः सर्वे वेद' इत्येवमाद्या भूयसी श्रुति: भेददर्शनमपवदति । यत्तूक्तम - न विरुद्धगुण- योरन्योन्यात्मत्वसंभव इति, नायं दोषः, विरुद्धगुणताया मिध्यात्वोपपत्तेः । यत्पुनरुक्तम् - ईश्वराभावप्रसङ्ग इति, तद- सत्, शास्त्रप्रामाण्यात् अनभ्युपगमाच्च; न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छाम: ; किं तर्हि, संसा- रिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिपितमिति । एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरी- तगुणता तु इतरस्य - मिथ्येति व्यवतिष्ठते । यद्युक्तम्- अ- धिकार्यभाव: प्रत्यक्षादिविरोधश्चेति, तदप्यसत्, प्राक्प्रबो- धातू संसारित्वाभ्युपगमात् तद्विषयत्वाच्च प्रत्यक्षादिव्यव- हारस्य ; ' यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति । प्रत्यक्षाद्य- भावे श्रुतेरप्यभावप्रसङ्ग इति चेत्, न इष्टत्वात् ; ' अत्र पितापिता भवति' इत्युपक्रम्य, 'वेदा अवेदा:' इति वच- नात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे । कस्य पुनरयम् अप्रबोध इति चेत्, यस्त्वं पृच्छसि तस्य ते - इति सू. ४.] चतुर्थोऽध्यायः । 1 वदामः । ननु अमीश्वर एवोक्तः श्रुत्या - यद्येवं प्रतिबु - द्धोऽसि, नास्ति कस्यचिदप्रबोधः । योऽपि दोषश्चोद्यते- कैश्चिदविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपप- त्तिरिति सोऽपि एतेन प्रत्युक्तः । तस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ न प्रतीके न हि सः ॥ ४ ॥ करणम् । यः -- 'मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मे- ति' तथा 'आदित्यो ब्रह्मेत्यादेश: ' ' स यो नाम ब्रह्मेत्यु- ३. प्रतीकाधि- पास्ते' इत्येवमादिषु प्रतीकोपासनेषु संश- किं तेष्वपि आत्मग्रहः कर्तव्यः, न वेति । किं तावत्प्राप्तम् ? तेष्वपि आत्मग्रह एव युक्तः कर्तुम् ; कस्मात् ? ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात्, प्रतीका- नामपि ब्रह्मविकारत्वाद्ब्रह्मत्वे सति आत्मत्वोपपत्तेरित्येवं प्राप्ते, ब्रूमः - न प्रतीकेष्वात्ममतिं बध्नीयात् ; न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेन आकलयेत् । यत्पुनः ब्रह्मविकारत्वात्प्रतीकानां ब्रह्मत्वं ततश्च आत्मत्वमिति, तदसत् प्रतीकाभावप्रसङ्गात् ; विकारस्वरूपोपमर्देन हि ना- मादिजातस्य ब्रह्मत्वमेव आश्रितं भवति; स्वरूपोपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ? न च ब्रह्मण , सूत्रभाष्ये [ पा. १. आत्मत्वात् ब्रह्मदृष्टयुपदेशेष्वात्मदृष्टिः कल्प्या, कर्तृत्वाद्यनि- राकरणात् ; कर्तृत्वादिसर्वसंसारधर्मनिराकरणेन हि ब्रह्मण आत्मत्वोपदेश: ; तदनिराकरणेन च उपासनविधानम् । अतश्च उपासकस्य प्रतीकैः समत्वात आत्मग्रहो नोपपद्यते ; न हि रुचकस्वस्तिकयोः इतरेतरात्मत्वमस्ति ; सुवर्णात्मनेव तु ब्रह्मात्मना एकत्वे प्रतीकाभावप्रसङ्गमवोचाम । अतो न प्रतीकेष्वात्मदृष्टिः क्रियते ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ तेष्वेव उदाहरणेष्वन्यः संशय: -- किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्विति । कुत: ४. ब्रह्मदृष्टयधि- संशयः ? सामानाधिकरण्ये कारणानवधा- '' करणम् । रणात् ; अत्र हि ब्रह्मशब्दस्य आदित्यादि- शब्दैः सामानाधिकरण्यमुपलभ्यते, 'आदित्यो ब्रह्म ' ' प्राणो ब्रह्म' ' विद्युद्बा' इत्यादिसमानविभक्तिनिर्देशात् ; न च अ- त्र आश्ञ्जसं सामानाधिकरण्यमवकल्पते, अर्थान्तरवचनत्वा- ब्रह्मादित्यादिशब्दानाम् न हि भवति - गौरव इति सामा- नाधिकरण्यम् । ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छ- रावादिवत्सामानाधिकरण्यं स्यात- नेत्युच्यते ; विकारप्रवि- लयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात्, ततश्च प्रतीका- सू. ५. ] चतुर्थोऽध्यायः । , भावप्रसङ्गमवोचाम; परमात्मवाक्यं चेदं तदानीं स्यात्, तत- चोपासनाधिकारो बाध्येत, परिमितविकारोपादानं च व्यर्थ - म् । तस्मात् 'ब्राह्मणोऽग्निर्वैश्वानरः' इत्यादिवत् अन्यतरत्रा- न्यतरदृष्ट्रयध्यासे सति, क किंदृष्टिरध्यस्यतामिति संशयः । तत्र अनियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम् । अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् ; एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति ; ब्रह्मोपा- सनं च फलवदिति शास्त्रमर्यादा । तस्मात् न ब्रह्मदृष्टिरा- दित्यादिष्वित्येवं प्राप्ते -- ब्रूमः -- ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति । कस्मात् ? उत्कर्षात् ; एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृ- ष्टदृष्टेस्तेष्वध्यासात ; तथा च लौकिको न्यायोऽनुगतो भवति ; उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः- यथा राजदृष्टि: क्षत्तरि; स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रस - ङ्गात् ; न हि क्षत्तदृष्टिपरिगृहीतो राजा निकर्ष नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवा- यप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति - अत्रोच्यते-- निर्धारिते शास्त्रार्थे एतदेवं स्यात् ; संदिग्धे तु तस्मिन्, तन्निर्णयं प्रति लौकिकोऽपि न्याय आ- सूत्रभाष्ये [ पा. १. 2 श्रीयमाणो न विरुध्यते; तेन च उत्कृष्टदृष्टयध्यासे शास्त्रार्थे- saधार्यमाणे, निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति यते । प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात ग्रहीतव्यम् ; तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासंभवात्, ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते । इति परत्वादपि ब्रह्मशब्द- स्य एष एवार्थो न्याय्य: ; तथा हि- ' ब्रह्मेत्यादेश: ' ' ब्रह्मे- त्युपासीत ' ' ब्रह्मेत्युपास्ते' इति च सर्वत्रेतिपरं ब्रह्मशब्द- मुच्चारयति, शुद्धांस्तु आदित्यादिशब्दान् ; ततश्च यथा शुक्ति- कां रजतमिति प्रत्येतीत्यत्व, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रजतप्रतीतिलक्षणार्थ :- प्रत्येत्येव हि केवलं रजतमिति, न तु तत्र रजतमस्ति --- एवमत्रापि आदित्या- ब्रह्मेति प्रतीयादिति गम्यते । वाक्यशेषोऽपि च द्वितीया- निर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्श- यति - ' स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्ते ' ' यो वाचं ब्रह्मेत्युपास्ते' ' य: संकल्पं ब्रह्मेत्युपास्ते' इति च । यत्तूक्तम् - ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति, तद- युक्तम्, उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् ; फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव सू. ६.] चतुर्थोऽध्यायः । 6 दास्यति, सर्वाध्यक्षत्वात्; वर्णितं चैतत् फलमत उपपत्तेः ' इत्यत्र । ईदृशं च अत्र ब्रह्मण उपास्यत्वम्, यत्प्रतीकेषु तद्दृष्टद्यध्यारोपणम् — प्रतिमादिष्विव विष्ण्वादीनाम् ॥ आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥ 6 लोकेषु पञ्च- " य एवासौ तपति तमुद्गीथमुपासीत ' विधं सामोपासीत ' ' वाचि सप्तविधं सामोपासीत ' ' " इय- आदित्यादि- मेवर्गग्निः साम' इत्येवमादिषु अङ्गावबद्धे- ༢. मत्यधिक पूपासनेषु संशयः -- किमादित्यादिषु उद्गी- - रणम् । दियो विधीयन्ते, किंवा उद्गीथादिष्वे- व आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावा- तू - इति प्राप्तम् ; न हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषो- Saधार्यते ; ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वा- दिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधा- रयितुम् ; न तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किंचिदुत्कर्षविशेषावधारणे कारणमस्ति । अथवा नि- यमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् ; क- स्मात् कर्मात्मकत्वादुद्गीथादीनाम् कर्मणश्च फलप्राप्ति- प्रसिद्धेः ; उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मा- त्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ' इयमेव- , सूत्रभाष्ये [ पा. १. र्गग्निः साम' इत्यत्र ' तदेतदेतस्यामृच्यध्यूढं साम' इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम; तच्च प्रथि- व्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, न ऋक्सामयो: पृथिव्यनदृष्टिचिकीर्षायाम् क्षत्तरि हि राजदृष्टिकरणात रा- जशब्द उपचर्यते, न राजनि क्षत्तृशब्दः । अपि च ' लोकेषु पञ्चविधं सामोपासीत' इति अधिकरणनिर्देशात् लोकपु साम अध्यसितव्यमिति प्रतीयते; ' एतद्गायत्रं प्राणेषु प्रो- तम' इति च एतदेव दर्शयति । प्रथमनिर्दिष्टेषु च आदि- त्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम - ' आदित्यां ब्रह्मेत्यादेश: ' इत्यादिषु प्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिं कारादय: - ' पृथिवी हिंकार:' इत्यादिश्रुतिषु । अत: अन- वादित्यादिषु अङ्गमतिक्षेप इत्येवं प्राप्ते—- j ब्रूमः - आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन्; कुतः ? उपपत्तेः उपपद्यते हि एवम् अपूर्वसं- निकर्षात् आदित्यादिमतिभि: संस्क्रियमाणेषु उद्गीथादिषु कर्म समृद्धि: । ' यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति च विद्याया: कर्मसमृद्धि - हेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेष्वेवम; स्वतन्त्र- फलेषु तु कथम् - य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामो- सू. ६.] चतुर्थोऽध्यायः । पास्ते' इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसं- निकर्षेणैव फलकल्पना युक्ता, गोदोहनादिनियमवत् । फलात्मकत्वाच्च आदित्यादीनाम उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिः; आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्य- ते श्रुतिषु । अपि च 'ओमित्येतदक्षरमुद्गीथमुपासीत' ' खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति' इति च उद्गीथमेव उपास्यत्वेनोपक्रम्य, आदित्यादिमतीर्विदधाति । यत्तूक्तम्- उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम्, स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेः आदित्यादिभावेनापि च दृश्यमानानामुद्गी- थादीनां कर्मात्मकत्वानपायात् । ' तदेतदेतस्यामृच्यध्यूढं साम' इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगः ; लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंब- न्धेन प्रवर्तते ; तत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचि - कीर्षा, तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् प्र- थिव्यग्न्योश्च संनिधानात् तयोरेव एष ऋक्सामशब्दप्रयोगः " " ऋक्सामसंबन्धादिति निश्चीयते ; क्षन्तृशब्दोऽपि हि कुतश्चि- त्कारणाद्राजानमुपसर्पन् न निवारयितुं पार्यते । 'इयमेव ' इति च यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयति ; सूत्रभाष्ये [पा. १. पृथिव्याहि ऋत्वेऽवधार्यमाणे - इयमृगेवेत्यक्ष रन्यासः स्या- त् । य एवं विद्वान्साम गायति' इति च अङ्गाश्रयमेव विज्ञानमुपसंहरति, न पृथिव्याद्याश्रयम् । तथा 'लोकेषु प- वविधं सामोपासीत' इति यद्यपि सप्तमीनिर्दिष्टा लोका:, तथापि साम्न्येव ते अध्यस्येरन्, द्वितीयानिर्देशेन साम्न उपा- स्यत्वावगमात् ; सामनि हि लोकेष्वध्यस्यमानेषु साम लोका- त्मनोपासितं भवति, अन्यथा पुनः लोका: सामात्मना- उपासिताः स्युः । एतेन ' एतद्गायत्रं प्राणेषु प्रोतम' इत्यादि व्याख्यातम् । यत्रापि तुल्यो द्वितीयानिर्देश: ' अथ खल्वमुमादित्यं सप्तविधं सामोपासीत' इति, तत्रापि - 'स- मस्तस्य खलु साम्न उपासनं साधु ' ' इति तु पञ्चविधस्य 'अथ सप्तविधस्य' इति च साम्न एव उपास्यत्वोपक्रमात्- तस्मिन्नेव आदित्याद्यध्यासः । एतस्मादेव च साम्न उपास्य- त्वावगमात् 'पृथिवी हिंकार:' इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिः । तस्मात् अनङ्गाश्रया आ- दित्यादिमतयः अङ्गेषूद्रीथादिषु क्षिप्येरन्निति सिद्धम् ॥ आसीनः संभवात् ॥ ७ ॥ कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादि- चिन्ता : नापि सम्यग्दर्शने, वस्तुतत्रत्वाद्विज्ञानस्य ; इतरेषु तु ; सू. ९.] चतुर्थोऽध्यायः । उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत ६. आसीनाधि - उत नियमेन आसीन एवेति चिन्तयति । करणम् । तत्र मानसत्वादुपासनस्य अनियम: शरीर- स्थितेरित्येवं प्राप्ते, ब्रवीति -- आसीन एवोपासीतेति ; कुत: ? संभवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणम् ; न च तत् गच्छतो धावतो वा संभवति, गत्यादीनां चित्तविक्षेप- करत्वात्; तिष्ठतोऽपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तु- निरीक्षणक्षमं भवति ; शयानस्यापि अकस्मादेव निद्रया अ- भिभूयते ; आसीनस्य तु एवजातीयको भूयान्दोष: सुपरि- हर इति संभवति तस्योपासनम् ॥ ध्यानाच्च ॥ ८ ॥ अपि च ध्यायत्यर्थ एष:, यत्समानप्रत्ययप्रवाहकरणम् ; ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषया- क्षिप्तचित्तेषु उपचर्यमाणो दृश्यते - ध्यायति बकः, ध्यायति प्रोषितबन्धुरिति । आसीनश्च अनायासो भवति ; तस्मादपि आसीनकर्मोपासनम् ॥ अचलवं चापेक्ष्य ॥ ९ ॥ अपि च ' ध्यायतीव पृथिवी' इत्यत्र पृथिव्यादिषु अच- सूत्रभाष्ये [पा. १. लत्वमेवापेक्ष्य ध्यायतिवादो भवति ; तच्च लिङ्गम् उपासन- स्य आसीनकर्मत्वे ॥ स्मरन्ति च ॥ १० ॥ स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेन आसनम- 6 'शुचौ देश प्रतिष्ठाप्य स्थिरमासनमात्मनः' इत्यादिना । अत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥ यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ दिग्देशकालेषु संशय: - किमस्ति कश्चिन्नियम:, नाम्ति वेति । प्रायेण वैदिकेष्वारम्भेषु दिगादिनियमदर्शनात् खा- ७. एकाग्रता - दिहापि कश्चिन्नियम इति यम्य मतिः, तं " धिकरणम् । प्रत्याह- दिग्देशकाले अर्थलक्षण एव नियम : ; यत्रैव अस्य दिशि देशे काले वा मनसः सौकर्ये- णैकाग्रता भवति, तत्रैवोपासीत, प्राचीदिक्पूर्वाह्नप्राचीनप्रव- णादिवत् विशेषाश्रवणात्, एकाग्रताया इष्टायाः सर्वत्रावि - शेषात् । ननु विशेषमपि केचिदामनन्ति - ' समे शुचौ शर्क- रावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्' इति यथेति- उच्यते ; सत्यमस्ति एवंजातीयको नियम: ; सति त्वेतस्मिन्, सू. १२.] चतुर्थोऽध्यायः । ७८५ तद्गतेषु विशेषेष्वनियम इति सुहृद्भूत्वा आचार्य आचष्टे । 'मनोनुकूले' इति चैषा श्रुतिः यत्रैकाग्रता तत्रैव - इत्येतदेव दर्शयति ॥ आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥ आवृत्तिः सर्वोपासनेष्वादर्तव्येति स्थितमाद्येऽधिकरणे ; तत्र यानि तावत् सम्यग्दर्शनार्थान्युपासनानि तानि अव- घातादिवत् कार्यपर्यवसानानीति ज्ञातमेव ८. आप्रायणा- धिकरणम् । एषामावृत्तिपरिमाणम् न हि सम्यग्द- शेने कार्ये निष्पन्ने यत्नान्तरं किंचिच्छासितुं शक्यम्, अनि- योज्यत्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । यानि पुनः अभ्युदयफलानि तेष्वेषा चिन्ता -- किं कियन्तंचित्कालं प्रत्ययमावर्त्य उपरमेत्, उत यावज्जीवमावर्तयेदिति । किं तावत्प्राप्तम् ? कियन्तंचित्कालं प्रत्ययमभ्यस्य उत्सृजेत्, आ- वृत्तिविशिष्टस्योपासनशब्दार्थस्य कृतत्वादित्येवं प्राप्ते, ब्रूमः -आ प्रायणादेव आवर्तयेत्प्रत्ययम्, अन्त्यप्रत्ययवशादह- फलप्राप्तेः ; कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभ- माणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति ' सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति ' ' यच्चि - तस्तेनैष प्राणमायाति' ' प्राणस्तेजसा युक्तः सहात्मना , सूत्रभाष्ये -- [ पा. १. यथासंकल्पितं लोकं नयति' इति चैवमादिश्रुतिभ्य: ; तृण- जलूका निदर्शनाच्च ; प्रत्ययास्त्वेते स्वरूपानुवृत्ति मुक्त्वा किमन्यत् प्रायणका भावि भावनाविज्ञानमपेक्षेरन । तस्मान् ये प्रतिपत्तव्यफलभावनात्मका: प्रत्ययाः, तेषु आ प्रायणान आवृत्तिः । तथा च श्रुतिः - ' स यावत्कतुरयमस्माल्लोका- त्प्रेति' इति प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति । स्मृति- रपि- " यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम । तं तमेवैति कौन्तेय सदा तद्भावभावित:' इति, ' प्रयाण- काले मनसाचलेन' इति च । ' सोऽन्तवेलायामेतत्रयं प्रति- पद्येत' इति च मरणवेलायामपि कर्तव्यशेषं श्रावयति ॥ तदधिगम उत्तरपूर्वाघयोरश्लेष- -- विनाशौ तद्व्यपदेशात् ॥ १३ ॥ गतस्तृतीयशेष: ; अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, तदधिगमा न क्षीयते वेति संशयः । किं तावत्प्रा- धिकरणम् । प्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा न ९. संभाव्यते क्षय: ; फलदायिनी हि अस्य शक्ति: श्रुत्या समधि- गता ; यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कद- र्थिता स्यात् ; स्मरन्ति च- ' न हि कर्म क्षीयते ' इति । सू. १३.] चतुर्थोऽध्यायः । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति नैष दोष:, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्टयादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता; न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्म- विद: कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् - नेत्युच्यते ; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवि- यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते- ब्रूमः - तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयो- रश्लेषविनाशौ भवतः - उत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् ; तथा हि ब्रह्मविद्याप्रक्रियायां संभा- व्यमानसंबन्धस्य आगामिनो दुरितखानभिसंबन्धं विदुषो व्यपदिशति - ' यथा पुष्करपलाश आपो न श्लिष्यन्त एव- मेवंविदि पापं कर्म न श्लिष्यते' इति ; तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति' तद्यथेषी का तूलमन्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते ' इति ; अयमपरः कर्मक्षयव्यपदेशो भवति - 'भिद्यते हृदयग्र- - न्धिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मि - दृष्टे परावरे' इति । यदुक्तम्- अनुपभुक्तफलस्य कर्मण: क्षयकल्पनायां शाखं कदर्थितं स्यादिति, नैष दोषः ; न हि S. W. 111. 15 सूत्रभाष्ये [पा. १. वयं कर्मण: फलदायिनीं शक्तिमवजानीमहे; विद्यत एव सा; सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः ; शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते, न प्रतिबन्धाप्रतिबन्ध- 6 योरपि । न हि कर्म क्षीयते' इत्येतदपि स्मरणमौत्सर्गि- कम - न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति ; इष्यत एव ' सर्व पाप्मानं तरति, , " तु प्रायश्चित्तादिना तस्य क्षय:-- तरति ब्रह्महत्याम, योऽश्वमेधेन यजते य उ चैनमेवं वेद इत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम् - नैमित्तिकानि प्रायश्चित्ता- नि भविष्यन्तीति तदसत्, दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसंभवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेत- दुक्तम् - न प्रायश्चित्तवत दोषक्षयोद्देशेन विद्याविधानमस्ती- ति, अत्र ब्रूमः -- सगुणासु तावद्विद्यासु विद्यत एव विधा- नम्, तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ति इत्यतः पाप्मप्रहाणपूर्व- - 7 कैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते ; निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्ववोधात्कर्मप्रदाहसि- द्धि: । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञाना- कर्तृत्वं प्रतिपेद इव तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननि- सू. १४.] " चतुर्थोऽध्यायः । वृत्तेः तान्यपि प्रविलीयन्त इत्याह - विनाश इति । पूर्वसि - कर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृ- त्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अह- मासम्, -- नेदानीम् नापि भविष्यत्काले -- इति ब्रह्मविदव- गच्छति ; एवमेव च मोक्ष उपपद्यते ; अन्यथा हि अनादि- कालप्रवृत्तानां कर्मणां क्ष्याभावे मोक्षाभावः स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति ; अ- नित्यत्वप्रसङ्गात्, परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ इतरखाप्येवमसंश्लेषः पाते तु ॥ १४ ॥ पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेष - विनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौ; धर्मस्य १०. इतरासंश्लेषा पुन: शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अ- धिकरणम् । विरोध इत्याशङ्कय तन्निराकरणाय पूर्वा - धिकरणन्यायातिदेशः क्रियते-- इतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ; कुत: ? तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात्, 'उभे उ हैवैष एते तरति' इत्यादिश्रुतिषु च दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात्, अकर्त्रात्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सूत्रभाष्ये [ पा. १. सुकृतदुष्कृतयोस्तुल्यत्वात्, 'क्षीयन्ते चास्य कर्माणि ' इति च अविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्द: पठ्यते, तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम्, ज्ञानापेक्षया निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्द:- ' नैनं सेतुमहोरात्रे तरत:' इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य, सर्वे पाप्मानोऽतो निवर्तन्ते ' इत्यविशेषेणैव प्रकृते पुण्ये पा- मशब्दप्रयोगात् । ' पाते तु' इति तु शब्दोऽवधारणार्थः । एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥ अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥ पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशो- Sवधारितः ; स किमविशेषेण आरब्धकार्ययोरनारब्धकार्य- ११. अनारब्धा- योश्च भवति, उत विशेषेणानाख्धकार्ययो- धिकरणम् । रेवेति विचार्यते । तत्र ' उभे उ हैवैष एते तरति' इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते, प्रत्याह- अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते, अस्मिन्नपि च जन्मनि प्राग्ज्ञानो- त्पत्तेः संचिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; न तु आ- कार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म सू. १६. ] चतुर्थोऽध्यायः । निर्मितम् । कुत एतत् ? ' तस्य तावदेव चिरं यावन्न विमो- क्ष्येऽथ संपत्स्ये' इति शरीरपातावधिकरणात्क्षेमप्राप्तेः ; इत- रथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्रा- प्रत्यनन्तरमेव क्षेममश्नुवीत; तत्र शरीरपातप्रतीक्षां न आ- चक्षीत । ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिचोपेक्षेत न हि समानेऽग्निबीजसंपर्के, केषांचिद्वीजशक्तिः क्षीयते, केषांचिन्न क्षीयते - इति शक्यमङ्गीकर्तुमिति ; उच्यते — न तावदना- श्रित्य आरब्धकार्य कर्माशयं ज्ञानोत्पत्तिरुपपद्यते ; आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासंभवात् भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्मबोधोऽपि हि मिथ्या- ज्ञानबाधनेन कर्माण्युच्छिनत्ति; बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि च नैवात्र विवदितव्यम् - ब्रह्मविदा कंचित्कालं शरीरं ध्रियते न वा ध्रियत इति ; कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मादनारब्धका- योरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ सूत्रभाष्ये [पा. १. पुण्यस्याप्यश्लेषविनाशयोरघन्यायो ऽतिदिष्टः ; सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्कय प्रतिवक्ति — अग्निहोत्रादि त्विति । १२. अग्निहोत्राद्य तु शब्द आशङ्कामपनुदति यन्नित्यं कर्म " धिकरणम् । वैदिकमग्निहोत्रादि, तत् तत्कार्यायैव भ- वति ; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः ; कुतः ? ' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इत्यादिदर्शनात । ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्येक- त्वानुपपत्ति: - नैष दोष:, ज्वरमरणकार्ययोरपि दधिविषयोः गुडमत्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात, तद्वत कर्मणोऽपि ज्ञा- नसंयुक्तस्य मोक्षकार्योपपत्तेः । ननु अनारभ्यो मोक्षः, कथम- स्य कर्मकार्यत्वमुच्यते ? नैष दोष:, आरादुपकारकत्वात्कर्मण: ; ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपच- येते; अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् । न हि ब्रह्मविद आगाम्यग्निहोत्रादि संभवति, अनियोज्यब्रह्मा- मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः संभवति आगाम्यपि अग्निहोत्रादि । तस्यापि निरभिसंधिनः कार्यान्तराभावाद्विद्यासंगत्युपपत्तिः ॥ ' किंविषयं पुनरिदम अश्लेषविनाशवचनम् किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम्- ' तस्य पुत्रा सू. १८. ] चतुर्थोऽध्यायः । दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति -अत उत्तरं पठति- अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या, या फलमभिसंधाय क्रियते, तस्या एष विनियोग उक्तः एकेषां शाखिनाम्- 'सुहृदः साधुकृत्यामुपयन्ति' इति । त- स्या एव च इदम् अघवदश्लेषविनाशनिरूपणम् - इतरस्याप्ये- वमसंश्लेष इति । तथाजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे संप्रतिपत्तिः उभयोरपि जैमिनिबादरायण- योराचार्ययोः ॥ यदेव विद्ययेति हि ॥ १८ ॥ समधिगतमेतदनन्तराधिकरणे नित्यमग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजनोद्देशेन कृतमुपात्तदुरितक्षयहेतु- १३. विद्याज्ञान- द्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं साधनत्वा- मोक्षप्रयोजनब्रह्माधिगमनिमित्तत्वेन ब्रह्म- धिकरणम् । विद्यया सह एककार्य भवतीति ; तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं चास्ति- 6 य एवं विद्वान्यजति' 'य एवं विद्वा जुहोति य एवं ' - सूत्रभाष्ये [ पा. १. विद्वान्शंसति' ' य एवं विद्वान्गायति' ' तस्मादेवंविदमेव ब्रह्माणं कुर्वीत' 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्व न वेद' इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति, केवलमप्यस्ति । तत्रेदं विचार्यते—किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते, न केवलम् ; उत विद्यासंयुक्तं केवलं च अविशेषेणेति । कुतः संशयः ? ' तमेतमात्मानं यज्ञेन विविदिषन्ति ' इति यज्ञादी- नामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् विद्यासंयुक्तम्य च अग्निहोत्रादेर्विशिष्टत्वावगमात् । किं तावत्प्राप्तम् ? विद्या- संयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेपत्वं प्रतिपद्यते, न विद्याहीनम् विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविही नात् - ' यदहरेव जुहोति तदह: पुनर्मृत्युमपजयत्येवं विद्वान ' इत्यादिश्रुतिभ्यः, 'बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहा- स्यसि ' ' दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय' इत्यादिस्मृ- तिभ्यश्च इत्येवं प्राप्ते - " , प्रतिपाद्यते — यदेव विद्ययेति हि । सत्यमेतत्- विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्नि- होत्राद्विशिष्टम् विद्वानिव ब्राह्मणो विद्याविहीनाद्राह्मणात् ; तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् ; " सू. १८. ] चतुर्थोऽध्यायः । --- कस्मात् ? ' तमेतमात्मानं यज्ञेन विविदिषन्ति' इत्यविशेषेण अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात् । ननु विद्यासंयुक्तस्य अग्निहोत्रादे विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्नि- होत्रादि आत्मविद्याहेतुत्वेनानपेक्षमेवेति युक्तम्- नैतदेवम् ; विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन यो- गात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति, न तथा विद्याविहीनस्य — इति युक्तं कल्पयितुम् ; न तु ' यज्ञेन विविदिषन्ति' इत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्यानिहो- त्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् ; तथा हि श्रुति:- -" यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधा- नेन स्वकार्य प्रति कंचिदतिशयं ब्रुवाणा विद्याविहीनस्य तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति ; कर्मणश्च वीर्यवत्त्वं तत्, यत्स्वप्रयोजनसाधनसहत्वम् । तस्माद्विद्यासं- युक्तं नित्यमग्निहोत्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञानो- त्पत्तेः कृतं यत्, तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकार- गोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्य- मानं श्रवणमननश्रद्धा तात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया । सूत्रभाष्ये [ पा. १. सह एककार्यं भवतीति स्थितम् ॥ भोगेन त्वितरे क्षपयित्वा संपद्यते ॥ १९ ॥ , । अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः । इतरे तु आधकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म १४. इतरक्षपणा - संपद्यते, " तस्य तावदेव चिरं यावन्न धिकरणम् । विमोक्ष्येऽथ संपत्स्ये' इति ' ब्रह्मैव स- ब्रह्माप्येति' इति च एवमादिश्रुतिभ्यः । ननु सत्यपि म- दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेना- नुवृत्तम एवं पश्चादप्यनुवर्तेत न, निमित्ताभवान् । उपभो गशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम्, न च तादृशमत्र किं- चिदस्ति । ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते- न तस्य दग्धबीजत्वात् मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरमारभेत; तच्च मिथ्याज्ञानं सम्यग्ज्ञा- नेन दग्धम- इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैव- ल्यमवश्यं भवतीति ॥ ' इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रागोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ॥ -0- श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ चतुर्थाध्याये द्वितीयः पादः द्वितीयः पादः ॥ अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावत् यथा- शास्त्रमुत्क्रान्तिक्रममन्वाचष्टे ; समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति - वाङ्मनसि दर्शनाच्छन्दाच्च ॥ १ ॥ अस्ति प्रायणविषया श्रुति:- " अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेज: १. वागधि- परस्यां देवतायाम्' इति । किमिह वाच करणम् । एव वृत्तिमन्त्या मनसि संपत्तिरुच्यते, उत वाग्वृत्तेरिति विशय: । तत्र वागेव तावत् मनसि संपद्यत इति प्राप्तम् ; तथा हि श्रुतिरनुगृहीता भवति ; इतरथा लक्षणा स्यात् ; श्रुतिलक्षणाविशये च श्रुतियय्या, लक्षणा ; तस्मात् वाच एव अयं मनसि प्रलय इति ॥ - न एवं प्राप्ते, ब्रूमः - वाग्वृत्तिर्मनसि संपद्यत इति । कथं वाग्वृत्तिरिति व्याख्यायते, यावता 'वाङ्मनसि' इत्येव सूत्रभाष्ये [पा. २. आचार्यः पठति? सत्यमेतत्; पठिष्यति तु परस्तात्- ' अविभागो वचनात् ' इति ; तस्मादत्र वृत्त्युपशममात्रं विवक्षतीति गम्यते । तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अवि- भागसाम्यात् किं परत्रैव विशिष्यात् - ' अविभाग : ' इति ; तम्मादत्र वृत्त्युपसंहारविवक्षा । वाग्वृत्तिः पूर्वमुपसंहियते मनोवृत्ताववस्थितायामित्यर्थः । कस्मात् ? दर्शनात् -- दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते । ननु श्रुतिसामर्थ्यात् वाच एवायं मनम्यप्ययो युक्त इत्युक्तम् -- नेत्याह, अतत्प्रकृतित्वात्; यस्य हि यत उत्पत्तिः, तस्य तत्र प्रलयो न्याय्यः, मृदीव शरावस्य; न च मनसो वागुत्पद्यत इति किंचन प्रमाणमस्ति । वृत्त्युद्भवा- भिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते; पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति, अप्सु च उपशाम्यति । कथं तर्हि अस्मिन्पक्षे शब्द:- 'वाङ्मनसि संपद्यते ' इति ? अत आह—- शब्दाच्चेति; शब्दोऽप्यस्मिन्पक्षेऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः ॥ अत एव च सर्वाण्यनु ॥ २ ॥ 'तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानै: ' सू. ३.] चतुर्थोऽध्यायः । इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि संपत्ति: श्रूयते ; तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मन- स्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासंभवात् शब्दोपपत्ते- श्र वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते । सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाच: पृथग्ग्रहणम् 'वाङ्मनसि संपद्यते ' इत्युदाहरणानुरोधेन ॥ तन्मनः प्राण उत्तरात् ॥ ३ ॥ समधिगतमेतत् — 'वाङ्मनसि संपद्यते ' इत्यत्र वृत्तिसं- - पत्तिविवक्षेति; अथ यदुत्तरं वाक्यम् 6 मनः प्राणे' इति, २. मनोऽधि- किमत्रापि वृत्तिसंपत्तिरेव विवक्ष्यते, उत करणम् । वृत्तिमत्संपत्ति :- इति विचिकित्सायाम्, वृत्तिमत्संपत्तिरेव अन्न इति प्राप्तम्, श्रुत्यनुग्रहात् तत्प्रकृ- तित्वोपपत्तेश्च ; तथा हि-' अन्नमयं हि सोम्य मन आपो- मय: प्राण:' इत्यन्नयोनि मन आमनन्ति, अब्योनिं च प्रा- णम् ; आपश्चान्नमसृजन्त - इति श्रुतिः । अतश्च यन्मनः प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयते; अन्नं हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादिति । एवं प्राप्ते, ब्रूमः - तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्र- लीयत इति उत्तराद्वाक्यादवगन्तव्यम्; तथा हि सुषुप्सो- सूत्रभाष्ये [पा. २. मुमूषच प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम्, म नोवृत्तीनामुपशमो दृश्यते ; न च मनसः स्वरूपाप्यय: प्रा- णे संभवति ; अतत्प्रकृतित्वात् । ननु दर्शितं मनसः प्राण- प्रकृतित्वम् — नैतत्सारम् ; न हि ईदृशेन प्राणाडिकेन तत्प्र- कृतित्वेन मनः प्राणे संपत्तुमर्हति ; एवमपि हि अन्ने मनः संपद्येत, अप्सु चान्नम्, अप्स्वेव च प्राण:; न ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽयो मनो जायत इति किंचन प्रमाणमस्ति ; तस्मात् न मनसः प्राणे स्वरूपाप्ययः । वृत्त्य- व्ययेऽपि तु शब्दोऽवकल्पते, वृत्तिवृत्तिमतोरभेदोपचारान इति दर्शितम् ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥ स्थितमेतत् -- यस्य यतो नोत्पत्तिः, तस्य तस्मिन्वृत्ति- प्रलय:, न स्वरूपप्रलय इति ; इदमिदानीम् ' प्राणस्तेजसि ' ३. अध्यक्षा- इत्यत्र चिन्त्यते-- किं यथाश्रुति प्राणस्य धिकरणम् । तेजस्येव वृत्त्युपसंहारः, किं वा देहेन्द्रिय- पञ्जराध्यक्ष जीव इति । तत्र श्रुतेरनतिशङ्कयत्वात् प्राणस्य तेजस्येव संपत्ति: स्यात्, अश्रुतकल्पनाया अन्याय्यत्वात्- इत्येवं प्राप्ते प्रतिपद्यते —— सोऽध्यक्ष इति । स प्रकृतः प्राणः, अध्यक्ष अविद्याकर्म पूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते; सू. ५.] चतुर्थोऽध्यायः । 6 त- तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः ; कुतः ? तदुपगमादिभ्यः - " एवमेवममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्र- तदूर्ध्वोच्छ्रासी भवति' इति हि श्रुत्यन्तरम् अध्यक्षोपगा- मिनः सर्वान्प्राणान् अविशेषेण दर्शयति ; विशेषेण च मुत्क्रामन्तं प्राणोऽनूत्क्रामति' इति पञ्चवृत्तेः प्राणस्य अध्य- क्षानुगामितां दर्शयति, तदनुवृत्तितां च इतरेषाम् ' प्राणम- नूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इति 'सविज्ञानो भवति' इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन त- स्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति । ननु ' प्राणस्तेजसि' इति श्रूयते ; कथं प्राणोऽध्यक्षे इत्यधि- कावापः क्रियते ? नैष दोष:, अध्यक्ष प्रधानत्वादुत्क्रमणा- दिव्यवहारस्य, श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीय- त्वात् ॥ कथं तर्हि 'प्राणस्तेजसि' इति श्रुतिरित्यत आह- भूतेषु तच्छ्रुतेः ॥ ५ ॥ स प्राणसंपृक्तोऽध्यक्षः तेजः सहचरितेषु भूतेषु देहबीज- भूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम्, ' प्राणस्तेजसि ' इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थिति S. W. III. 16 " सूत्रभाष्ये [पा. २. यो- दर्शयति न प्राणसंपृक्तस्याध्यक्षस्य -- नैप दोष:, सो- Sध्यक्षे- इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ; sपि हि सुन्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्त्रं व्रजति, सोsपि नात्पाटलिपुत्रं यातीति शक्यते वदितुम; तस्मात् ' प्राणस्तेजसि' इति प्राणसंपृक्तस्याध्यक्षस्यैव एतन तेज:- सहचरितेषु भूतेष्ववस्थानम ॥ कथं तेजः सहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव श्रूयते- ' प्राणस्तेजसि' इति ? अत आह- तेज: नैकस्मिन्दर्शयतो हि ॥ ६ ॥ - न एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोsव- तिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात् । दर्शयतश्च एतमर्थं प्रश्नप्रतिवचने ' आप: पुरुषवचसः' इति ; तब्या- ख्यातम् ' त्र्यात्मकत्वात्तु भूयस्त्वात्' इत्यत्र । श्रुतिस्मृती च एतमर्थ दर्शयत: श्रुतिः - 'पृथ्वीमय आपोमयो वायु- मय आकाशमयस्तेजोमय : ' इत्याद्या ; स्मृतिरपि - अण्व्यो मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः । ताभि: सार्धमिदं सर्वं संभवत्यनुपूर्वशः' इत्याद्या । ननु च उपसं- हृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् ' कार्यं तदा सू. ७.] चतुर्थोऽध्यायः । .८०५ पुरुषो भवति' इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति- 6 , तौह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः' इति; अत्रोच्यते - तत्र कर्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्ति - रिति कर्माश्रयतोक्ता ; इह पुनः भूतोपादानाद्देहान्तरोत्पत्ति- रिति भूताश्रयत्वमुक्तम् ; प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितम्, न त्वाश्रयान्तरं निवारितम् ; तस्मादवि- रोधः ॥ समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥ सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशे- षवती - इति विशयानानां विशेषवतीति तावत्प्राप्तम् । भूता- श्रयविशिष्टा ह्येषा पुनर्भवाय च भूतान्या- ४. आसृत्युपक- माधिकरणम् । श्रीयन्ते ; न च विदुषः पुनर्भवः संभवति ; अमृतत्वं हि विद्वानश्नुते इति स्थिति:; तस्मादविदुषं एव एषा उत्क्रान्ति: । ननु विद्याप्रकरणे समान्नानात् विदुष एव एषा भवेत् न, स्वापादिवत् यथाप्राप्तानुकीर्तनात् ; यथा हि 'यत्रैतत्पुरुषः स्वपिति नाम ' ' अशिशिषति नाम ' पिपासति नाम' इति च सर्वप्राणिसाधारणा एव स्वापाद- " सूत्रभाष्ये [पा. २ योऽनुकीर्त्यते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपा- दनानुगुण्येन, न तु विदुषो विशेषवन्तो विधित्स्यन्ते ; एवम इयमपि उत्कान्तिः महाजनगतैवानुकीर्त्यते, यस्यां परस्यां देवतायां पुरुषस्य प्रयत: तेजः संपद्यते स आत्मा तत्त्वम- सि - इत्येतत्प्रतिपादयितुम् । प्रतिषिद्धा च एषा विदुष:- न तस्य प्राणा उत्क्रामन्ति' इति । तस्मात् अविदुष एवै - 6 षेति ॥ एवं प्राप्ते, ब्रूमः :- समाना चैषा उत्क्रान्ति : ' वाङ्मनसि ' इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अवि- शेषश्रवणात्; अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तो देहग्रहणमनुभवन् संसरति, विद्वांस्तु ज्ञानप्रका- शितं मोक्षनाडीद्वारमाश्रयते तदेतत् 'आमृत्युपक्रमात् ' इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम्, न च तदेशा- न्तरायत्तम्, तत्र कुतो भूताश्रयत्वं मृत्युपक्रमो वेति- अ- त्रोच्यते- अनुपोष्य च, इदम्, अदग्ध्वा अत्यन्तमविद्या- दीन्क्लेशान, अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते संभवति तत्र मृत्युपक्रमः ; भूताश्रयत्वं च न हि निराश्र- याणां प्राणानां गतिरुपपद्यते तस्माददोषः ॥ तदापीतेः संसारव्यपदेशात् ॥ ८ ॥ सू. ९. ] चतुर्थोऽध्यायः । 'तेजः परस्यां देवतायाम्' इत्यत्र प्रकरणसामर्थ्यात् तत् यथा प्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरस- ५. संसारव्यपदे- हितं प्रयतः पुंसः परस्यां देवतायां संपद्यत शाधिकरणम् । इत्येतदुक्तं भवति ; कीदृशी पुनरियं संप- त्तिः स्यादिति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरू- पप्रविलय इति प्राप्तम्, तत्प्रकृतित्वोपपत्तेः; सर्वस्य हि जनमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् ; तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति । एवं प्राप्ते, ब्रूमः — तत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीते: आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठते – 'योनि- मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' इत्यादिसंसारव्यपदेशात्; अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म संपद्येत, तत्र विधिशास्त्रमनर्थकं स्यात्, विद्याशास्त्रं च; मिथ्याज्ञान- निमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति ; तस्मात् तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवत् बीजभावावशेषैव एषा सत्सं- पत्तिरिति ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ तच इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत सूत्रभाष्ये [ पा. २. आश्रयभूतं स्वरूपतः परिमाणतञ्च सूक्ष्मं भवितुमर्हति । तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते । तत्र तनुत्वात्संचारोपपत्तिः ; स्वच्छत्वाच्च अप्रतिघातोपपत्ति: ; अत एव च देहान्निर्गच्छत् पार्श्वस्थैर्नोपलभ्यते ॥ नोपमर्देनातः ॥ १० ॥ अत एव च सूक्ष्मत्वात् नाथ स्थूलस्य शरीरस्योपमर्देन दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥ अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥ अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा, यमेतस्मिञ्जीव- च्छरीरे संस्पर्शेनोष्माणं विजानन्ति । तथा हि मृतावस्थायाम् अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु, न ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यते- इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊ- मेति । तथा च श्रुतिः - ' उष्ण एव जीविष्यशीतो मरिष्यन् ' इति ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ 'अमृतत्वं चानुपोष्य' इत्यतो विशेषणात् आत्यन्तिकेऽमृ- सू. १३.] चतुर्थोऽध्यायः । तत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगत:; तत्रापि केनचित्कारणेन ६. प्रतिषेधा- उत्क्रान्तिमाशङ्कय प्रतिषेधति — ' अथा- , धिकरणम् । कामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्न- ह्माप्येति' इति । अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्म- विदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत्, नेत्युच्यते, यतः शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम, न शरीरात् । कथमवगम्यते ? ' न तस्मात्प्राणा उत्क्रामन्ति ' इति शाखान्तरे पञ्चमीप्रयोगात्; संबन्धसामान्यविषया हि षष्ठी शाखान्तर- गतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते ; ' तस्मात्' इति च प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही संबध्यते, न देहः ; न तस्मादुञ्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति, सहैव तेन भवन्ति -- इत्यर्थः । सप्राणस्य च प्रवसतो भव- त्युत्क्रान्तिर्देहादिति ॥ एवं प्राप्ते, प्रत्युच्यते- स्पष्टो ह्येकेषाम् ॥ १३ ॥ नैतदस्ति यदुक्तम्, परब्रह्मविदोऽपि देहात् अस्त्यु- क्रान्ति: उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति यतो सूत्रभाष्ये [पा. २. 6 स न देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते । तथा हि-- आर्तभागप्रश्ने 'यत्रायं पुरुषो म्रियत उदस्मात्प्राणा: क्रामन्त्याहो नेति' इत्यत्र, 'नेति हो- वाच याज्ञवल्क्यः' इत्यनुत्क्रान्तिपक्षं परिगृह्य, न तर्ह्ययम- नुत्क्रान्तेषु प्राणेषु मृत: - इत्यस्यामाशङ्कायाम् ' अत्रैव सम- वनीयन्ते ' इति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये उच्छ्रयत्याध्मायत्याध्मातो मृतः शेते' इति स-शब्दपरामृ- ष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्रयनादीनि समामनन्ति ; देहस्य च एतानि स्युः न देहिनः ; तत्सामान्यात्, तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ' इत्यत्रापि -- अभे- दोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधः - यद्यपि प्राधान्यं देहिनः -- इति व्याख्येयम्, येषां पञ्चमीपाठः । येषां तु षष्ठीपाठः, तेषां विद्वत्संबन्धिनी उत्क्रान्ति: प्रति- षिध्यत इति प्राप्तोत्कान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य, देहापादानैव सा प्रतिषिद्धा भवति देहादुत्क्रान्तिः प्राप्ता, न देहिनः ; अपि च 'चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्का- मन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्येवमविद्वद्विषये सप्रपञ्च- मुत्क्रमणं संसारगमनं च दर्शयित्वा, ' इति नु कामयमानः " सू. १४ . ] चतुर्थोऽध्यायः । इति उपसंहृत्य अविद्वत्कथाम्, 'अथाकामयमान:' इति व्यपदिश्य विद्वांसम् — यदि तद्विषयेऽप्युत्क्रान्तिमेव प्राप- येत्, असमञ्जस एव व्यपदेशः स्यात्; तस्मात् अविद्वद्वि- ये प्राप्तयोर्गत्युत्कान्त्योः विद्वद्विषये प्रतिषेधः - इत्येवमेव व्याख्येयम्, व्यपदेशार्थवत्त्वाय । न च ब्रह्मविदः सर्वगत- ब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपप- द्यते, निमित्ताभावात् । ' अत्र ब्रह्म समश्नुते ' इति च एवं- जातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥ स्मर्यते च ॥ १४ ॥ स्मर्यतेऽपि च महाभारते गत्युत्कान्त्योरभावः - 'सर्व- भूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे मुयन्त्यपदस्य पदैषिणः' इति । ननु गतिरपि ब्रह्मविद : सर्वगतब्रह्मात्मभूतस्य स्मर्यते - ' शुकः किल वैयासकिर्मुमु- क्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्राव ' इति न; सशरीरस्यैव अयं योगबलेन वि- शिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम्, सर्वभूतह- श्यत्वाद्युपन्यासात ; न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः ; तथा च तत्रैवोपसंहृतम् - " शुकस्तु मारु - ताच्छीघ्रां गतिं कृत्वान्तरिक्षगः । दर्शयित्वा प्रभावं स्वं - - सूत्रभाष्ये [पा. २. सर्वभूतग़तोऽभवत्' इति । तस्मादभाव: परंब्रह्मविदो गत्युत्क्रान्त्योः ; गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्या- स्यामः ॥ तानि परे तथा ह्याह ॥ १५ ॥ तानि पुन: प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते ; कस्मात् ? तथा हि आह श्रुति:- ७. वागादि- लयाधि- ད एवमेवास्य परिद्र- टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं करणम् । प्राप्यास्तं गच्छन्ति' इति । ननु ' गता: कलाः पञ्चदश प्रतिष्ठा:' इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म न; सा खलु व्यवहारापेक्षा - पार्थिवाद्याः कलाः पृथि- व्यादीरेव स्वप्रकृतीरपियन्तीति; इतरा तु विद्वत्प्रतिपत्त्य - पेक्षा - कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव संपद्यत इति; तस्माददोषः ॥ अविभागो वचनात् ॥ १६ ॥ स पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति, आहोस्विन्निरवशेष इति । तत्र प्रलयसामान्यात् चतुर्थोऽध्यायः । सू. १७.] शक्त्यवशेपताप्रसक्तौ ब्रवीति — अविभागापत्तिरेवेति ; कुत: ? ८. अविभागा- वचनात ; तथा हि कलाप्रलयमुक्त्वा धिकरणम् । वक्ति—— 'भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति' इति । अवि- द्यानिमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेष- ः । तस्मादविभाग एवेति ॥ त्वोपपत्तिः तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनु- स्मृतियोगाच हार्दानुगृहीतः शताधिकया ॥ १७ ॥ समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता; संप्रति तु अ- परविद्याविषयामेव चिन्तामनुवर्तयति । समाना च आमृत्यु- ९. तदोकोऽधि पक्रमात् विद्वदविदुषोरुत्कान्तिः - इत्युक्त- करणम् । म्; तम् इदानीं सृत्युपक्रमं दर्शयति । तस्य उपसंहृतवागादिकलापस्यविक्रमिषतो विज्ञानात्मनः, ओक: आयतनं हृदयम् -' स एतास्तेजोमात्रा: समभ्याददा- नो हृदयमेवान्ववक्रामति' इति श्रुतेः, तदप्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्ति: श्रूयते — ' तस्य हैत- सूत्रभाष्ये ." [पा. २. स्य हृदयस्यायं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्ना वान्येभ्यो वा शरीरदेशेभ्यः' इति । सा किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो वि- शेषनियम:- इति विचिकित्सायाम्, श्रुत्यविशेषादनियमप्राप्तौ, आचष्टे - समानेऽपि हि विद्वदविदुषोहृदयाग्रप्रद्योतने तत्प्र- काशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थाना- न्तरेभ्यस्तु इतरे; कुत: ? विद्यासामर्थ्यात् ; यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिव विद्या स्यात् । तच्छेषगत्यनुस्मृतियो- गाच्च - विद्याशेषभूता च मूर्धन्यनाडीसंबद्धा गति: अनुशी- लयितव्या विद्याविशेषेषु विहिता; तामभ्यस्यन् तयैव प्रति- ष्ठत इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतरा- भिरितरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - " शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ' इति ॥ रम्यनुसारी ॥ १८ ॥ सू. १९.] चतुर्थोऽध्यायः । अस्ति हार्दविद्या 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्ड- रीकं वेश्म' इत्युपक्रम्य विहिता; तत्प्रक्रियायाम् ' अथ या १०. रश्म्यधि- " एता हृदयस्य नाड्यः' इत्युपक्रम्य सप्र- करणम् । पञ्चं नाडीरश्मिसंबन्धमुक्त्वा उक्तम्- 'अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमा- क्रमते' इति पुनश्वोक्तम् ' तयोर्ध्वमायन्नमृतत्वमेति ' ; इति; तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनु- सारी निष्क्रामतीति गम्यते । तत् किम् अविशेषेणैव अनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम्, आहोस्विदन्येव –इति संशये सति, अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते ॥ निशि नेति चेन्न संबन्धस्य यावदेहभा- वित्वाद्दर्शयति च ॥ १९ ॥ नाडी- अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् ; रात्रौ तु प्रेतस्य न स्यात्, रश्मिसंबन्धविच्छेदात् इति चेत् न, नाडीरश्मिसं- — " बन्धस्य यावद्देहभावित्वात्; यावद्देहभावी हि शिराकिरण- संपर्क: ; दर्शयति चैतमर्थं श्रुतिः - 'अमुष्मादादित्यात्प्र- सूत्रभाष्ये ' [पा. २. तायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मन्नादित्ये सृप्ता:' इति ; निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते, प्रतापादिकार्यदर्शनात्; स्तोकानु- वृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीपु, शैशिरेष्विव दुर्दिनेषु ; ' अहरेवैतद्रात्रौ दधाति' इति च एतदेव दर्शयति । यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्य- नुसारानर्थक्यं भवेत् ; न ह्येतत् विशिष्य अभिधीयते- यो दिवा प्रैति, स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति अथ तु विद्वानपि रात्रिप्रायणापराधमा त्रेण नोर्ध्वमाक्रमेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात्, मृत्युकालानियमात् ; अथापि रात्रावुपरतोऽहराग- मम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अररिंमसंब- न्धार्ह शरीरं स्यात् पावकादिसंपर्कात्; 'स यावत्क्षिप्येन्म- नस्तावदादित्यं गच्छति' इति च श्रुतिः अनुदीक्षां दर्श- यति । तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसा- रित्वम् ॥ अतश्चायनेऽपि दक्षिणे ॥ २० ॥ अत एव च उदीक्षानुपपत्तेः, अपाक्षिकफलत्वाच्च वि- द्याया:, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि श्रियमा- सू. २१.] चतुर्थोऽध्यायः । णो विद्वान् प्राप्नोत्येव विद्याफलम् । उत्तरायणमरणप्राशस्त्यप्र- ११. दक्षिणायना- सिद्धेः, भीष्मस्य च प्रतीक्षादर्शनात्, 'आ- धिकरणम् । पूर्यमाणपक्षाद्यान्षडुदेति मासांस्तान् ' इति च श्रते, अपेक्षितव्यमुत्तरायणम् - इतीमामाशङ्काम अनेन सूत्रेणापनुदति; प्राशस्त्यप्रसिद्धिः अविद्वद्विषया; भी- sat प्रतिपालनम आचारपरिपालनार्थं पितृप्रसादलब्धस्व- च्छन्दमृत्युताख्यापनार्थं च । श्रुतेस्तु अर्थ वक्ष्यति 'आतिवा- हिकास्त लिङ्गात् ' इति ॥ ननु च ' यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ' इति कालप्रा- धान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियतः ; कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात्- इत्यत्रोच्यते- योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥ योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृ- त्तये स्मर्यते ; स्मार्ते चैते योगसांख्ये, न श्रौते; अतो विष- यभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य सूत्रभाष्ये [पा. २. श्रोतेषु विज्ञानेषु अवतार: । ननु ' अग्निर्ज्योतिरहः शुक्कुः षण्मासा उत्तरायणम् । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्' इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभि- ज्ञायेते स्मृतावपीति, उच्यते- 'तं कालं वक्ष्यामि' इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्कय अयं परिहारः उक्तः । यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोध इति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ब्रह्मसूत्रभाष्यम् चतुर्थाध्याये तृतीयः पादः S. W. III. 17 आ तृतीयः पादः ॥ मृत्युपक्रमात् समानोत्कान्तिरि- त्युक्तम; स्रुतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते - नाडीरश्मिसंबन्धेनैका 'अ- थैतैरेव रश्मिभिरूर्ध्व आक्रमते ' इति ; अर्चिरादिकैका ' तेऽर्चिषमभिसंभव- न्त्यर्चिषोऽह : ' इति ; ' स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति' इत्यन्या; 'यदा वै पुरु- षोऽस्माल्लोकात्प्रेति स वायुमागच्छति' इत्यपरा; 'सूर्यद्वा- रेण ते विरजाः प्रयान्ति' इति च अपरा । तत्र संशयः- किं परस्परं भिन्ना एताः सुतयः, किं वा एकैव अनेकवि- शेषणेति । तत्र प्राप्तं तावत् भिन्ना एताः सृतय इति, भिन्नप्रकरणत्वात्, भिन्नोपासनशेषत्वाच्च ; अपि च ' अथै- तैरेव रश्मिभि:' इत्यवधारणम् अचिराद्यपेक्षायाम् उपरु- ध्येत, त्वरावचनं च पीड्येत - 'स यावत्क्षिप्येन्मनस्ताव- दादित्यं गच्छति' इति तस्मादन्योन्यभिन्ना एवैते पन्थान इति । एवं प्राप्ते, अभिदध्महे - सूत्रभाष्ये अर्चिरादिना तत्प्रथितेः ॥ १ ॥ [ पा. ३. अर्चिरादिनेति ; सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रहतीति प्रतिजानीमहे ; कुत: ? तत्प्रथिते: ; प्रथितो ह्येष १. अर्चिराय - मार्गः सर्वेषां विदुषाम् ; तथा हि पञ्चा - विकरणम् । निविद्याप्रकरणे - 'येचामी अरण्ये श्रद्धां सत्यमुपासते " इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यते । स्यादेतत्-यासु विद्यासु न काचिद्वतिरु- च्यते, तासु इयमर्चिरादिका उपतिष्ठताम् ; यासु तु अन्या श्राव्यते तासु किमित्यचिराद्याश्रयणमिति, अलोच्यते- " एकैव भवेदेतदेवम्, यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः ; त्वेषा सृति: अनेकविशेषणा ब्रह्मलोकप्रपदनी कचित् केन- चित् विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञा- नात् इतरेतरविशेषणविशेष्यभावोपपत्तेः प्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिवि - शेषणानामप्युपसंहारः ; विद्याभेदेऽपि तु गत्येकदेशप्रत्यभि- ज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव; तथा हि- ' ते तेषु 1 ' ब्रह्मलोकेषु पराः परावतो वसन्ति' ' तस्मिन्वसन्ति, शाश्वतीः समाः 'सा या ब्रह्मणो जितिर्या व्युष्टिस्तां. जिति जयति तां व्युष्टिं व्यश्नुते' 'तद्य एवैतं सू. २. ] चतुर्थोऽध्यायः । ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति' इति च तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्रामिलक्षणं प्रदश्यते । यत्तु 'एतैरेवं' इत्यव - धारणम अचिराद्याश्रयणे न स्यादिति, नैष दोष:, रश्मि- प्राप्तिपरत्वादस्य न हि एक एव शब्दो रश्मीश्च प्रापयितुमर्ह ति, अचिरादा व्यावर्तयितुम; तस्मान रश्मिसंबन्ध एवा- यमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अचिराद्यपेक्षाया- मपि गन्तव्यान्तरापेक्षया प्रयार्थत्वात नोपरुध्यते - यथा निमेपमात्रेणात्रागम्यत इति । अपि च ' अथैतयोः पथोर्न क- तरेणचन' इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयति ; भूयांम्यर्चिरादिसृतौ मार्गपर्वाणि, अल्पीयांसि त्व- न्यत्र ; भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्यमि- त्यतोSपि अर्चिरादिना तत्प्रथितेरित्युक्तम् ॥ 1 वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥ केन पुनः संनिवेशविशेषेण गतिविशेषणानाम् इतरेतर - विशेषणविशेष्यभावः - इति तदेतत् सुहृद्भूत्वा आचार्यो प्रथ २. वाय्वधि- करणम् । यति 6 1 स एतं देवयानं पन्थानमासाद्या- झिलोकमागच्छति स वायुलोकं स वरुण- लोक स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्' इति सूत्रभाष्ये [पा. ३. 6 कौषीतकिनां देवयानः पन्थाः पठ्यते; तत्र अचिरमि- लोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वादिति नाव संनिवेशक्रमः कश्चिदन्वेष्य: ; वायुस्तु अचिरादौ वर्त्मनि कतमस्मिन्स्थाने निवेशयितव्य इति उच्यते- 'ते- ऽर्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमा पूर्यमा- पक्षाद्यान्षडुदङ्ङेति मासांस्तान्मासेभ्यः संवत्सरं सं- वत्सरादादित्यम्' इत्यत्व संवत्सरात्पराश्वम् आदित्यादवचं वायुमभिसंभवन्ति कस्मात् ? अविशेषविशेषाभ्याम् । त- था हि 'स वायुलोकम्' इत्यत्र अविशेषोपदिष्टस्य वायोः श्रुत्यन्तरेण विशेषोपदेशो दृश्यते-- ' यदा वै पुरुषोऽस्मा- लोकात्प्रेति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति ' इति एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषान् अब्दादित्ययोरन्तराले वायुर्निवेशयितव्यः । कस्मात्पुनरने : परत्वदर्शनाद्विशेषादचिषोऽनन्तरं वायुर्न निवेश्यते ? नैषो- ऽस्ति विशेष इति वदामः ; ननूदाहृता श्रुतिः - ' स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलो- कम' इति : उच्यते— केवलोडल पाठः पौर्वापर्येणावस्थितः, नात क्रमवचनः कश्चिच्छब्दोऽस्ति ; पदार्थोपदर्शनमात्रं व सू. ३.] चतुर्थोऽध्यायः । क्रियते एतं एतं च आगच्छतीति; इतरत्र पुनः, वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति- अवगम्यते क्रमः ; तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति । वाजसनेयिनस्तु 'मासेभ्यो देवलोकं देवलोकादादित्यम्' इति समामनन्ति ; तत्र आदित्यानन्तर्याय देवलोकाद्वायुम- भिसंभवेयुः ; 'वायुमब्दात्' इति तु च्छन्दोगश्रुत्यपेक्षयो- क्तम् । छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते, परत्र संवत्सरः; तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र प्रथयितव्यौ ; तत्रापि माससंबन्धात्संवत्सरः पूर्व: पश्चिमो देवलोक इति विवेक्तव्यम् ॥ 6 तडितोऽधि वरुणः संबन्धात् ॥ ३ ॥ आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतम्' इत्यस्या विद्युत उपरिष्टात् 'स वरुणलोकम्' इत्ययं वरुणः संबध्येत ; अस्ति ३. तडिदधि- हि संबन्धो विद्युद्वरुणयोः यदा हि करणम् । विशाला विद्युतस्तीत्रस्तनितनिर्घोषा जीमू- तोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्ति ; 'विद्योतते स्तन - यति वर्षिष्यति वा' इति च ब्राह्मणम्; अपां च अधिपति - रुण इति श्रुतिस्मृति प्रसिद्धिः ; वरुणादधि इन्द्र प्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्च; आगन्तुकत्वादपि वरु- ८२६. सूत्रभाष्ये [पा.. ३. णादीनामन्ते एव निवेशः, वैशेषिकस्थानाभावात् विद्युच्च अन्त्या अचिरादौ वर्त्मनि ॥ आतिवाहिका स्तल्लिङ्गात् ॥ ४ ॥ तेष्वेव अर्चिरादिषु संशय: - किमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तृणामिति । तत्र मार्ग- ४. आतिवाहिका - लक्षणभूता अचिरादय इति तावत्प्राप्तम्, धिकरणम् । तत्स्वरूपत्वादुपदेशस्य ; यथा हि लोके कश्चिद्वामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते - गच्छ इतस्त्व- ममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसीति - एवमिहापि 'अर्चिषोऽहरह आपूर्यमाणपक्षम् ' इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् ; तथाहि लोक- शब्देन अग्न्यादीननुबध्नाति - ' अग्निलोकमागच्छति ' इत्या- दि; लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते- 'मनुष्य- लोकः पितृलोको देवलोक : ' इति च; तथा च ब्राह्मणम्- 'अहोरात्रेषु ते लोकेषु सज्जन्ते' इत्यादि । तस्मान्नाति वाहि- का अचिरादयः । अचेतनत्वादप्येषामातिवाहिकत्वानुपपत्तिः; चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवा- ह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः -- आतिवाहिका एवैते भवितुमर्हन्ति ; कुत: ? तल्लिङ्गात् ; तथा हि- 'चन्द्रम । सू. ५.] चतुर्थोऽध्यायः । सो विद्युतं तत्पुरुषोऽमानवः स एतान्ब्रह्म गमयति' इति सिद्धवद्गमयितृत्वं दर्शयति ; तद्वचनं तद्विषयमेवोपक्षीणमिति चेन् न, प्राप्त मानवत्वनिवृत्तिपरत्वाद्विशेषणस्य ; यद्यर्चिरा- दिपु पुरुषा गमयितारः प्राप्ताः ते च मानवाः, ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम्- अमानव इति ॥ ननु तल्लिङ्गमात्रमगमकम, न्यायाभावात्; नैष दोष:- उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥ ये तावदर्चिरादिमार्गगाः ते देहवियोगात् संपिण्डितक- रणग्रामा इति अस्वतन्त्राः, अचिरादीनामप्यचेतनत्वादस्वा- तन्त्र्यम् - इत्यतः अचिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ; लोकेऽपि हि मत्तमू- छितादय: संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादव्यचिरादीनां न मार्गलक्षणत्वोपपत्तिः; न हि रात्रौ प्रेतस्य अहः स्वरूपाभिसंभव उपपद्यते ; न च प्रतिपालनमस्तीत्युक्तं पुरस्तात्; ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति । अचिरादिशब्दता च एषाम् अचिराद्यभिमाना- दुपपद्यते ; ' अर्चिषोऽह : ' इत्यादिनिर्देशस्तु आतिवाहिक- त्वेऽपि न विरुध्यते - अर्चिषा हेतुना अहरभिसंभवति, अह्ना सूत्रभाष्ये [ पा. ३. न हेतुना आपूर्यमाणपक्ष मिति; तथा च लोके प्रसिद्धेष्वप्या- तिवाहिकेषु एवजातीयक उपदेशो दृश्यते गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि च उपक्रमे 'तेऽचिरभिसंभवन्ति' इति संबन्धमात्रमुक्तम्, संबन्धविशेषः कश्चित् ; उपसंहारे तु स एतान्ब्रह्म गम- यति' इति संबन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः ; तेन स एवोपक्रमेऽपीति निर्धार्यते । संपिण्डितकरणत्वादेव च गन्तॄणां न तत्र भोगसंभव:; लोकशब्दस्तु अनुपभुञ्जा- नेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुना -- इति योजयित- व्यम् ॥ कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्संभव : ? वि- तो धि वरुणादय उपक्षिप्ताः, विद्युतस्त्वनन्तरम् आ ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् - इत्यत उत्तरं पठति- - वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥ ततो विद्युदभिसंभवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्य- सु. ८.] चतुर्थोऽध्यायः । वगन्तव्यम् ' तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्म- लोकं गमयति' इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम् । तस्मात्साधूक्तम् - आतिवा- हिका देवतात्मानोऽचिरादय इति ॥ ' कार्य बादरिरस्य गत्युपपत्तेः ॥ ७ ॥ स एनान्ब्रह्म गमयति' इत्यत्र विचिकित्स्यते- किं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ५. कार्याधि - ब्रह्मेति । कुत: संशय: ? ब्रह्मशब्दप्रयो - करणम् । गात्, गतिश्रुतेश्च । तत्र कार्यमेव सगुण- मपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते ; कुत: ? अस्य गत्युपपत्ते:- अस्य हि कार्यब्रह्मणो गन्तव्यस्त्वमुपपद्यते, प्रदेशवत्त्वात् न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्म- त्वाच्च गन्तॄणाम् ॥ 6 विशेषितत्वाच्च ॥ ८ ॥ 'ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति' इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव सूत्रभाष्ये :.. [पा. ३. गतिरिति गम्यते ; न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्म- एयवकल्पते; कार्ये तु अवस्थाभेदोपपत्तेः संभवति बहुवच नम् । लोकश्रुतिरपि विकारगोचरायामेव संनिवेशविशिष्टायां भोगभूमावासी; गौणी त्वन्यत्र 'ब्रह्मैव लोक एष सम्राट्' इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि पर- स्मिन्ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं नयनम् ॥ ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् - इत्यत्रो - च्यते- सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥ तु शब्द आशङ्काव्यावृत्त्यर्थः ; परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परमेव हि ब्रह्म विशुद्धोपाधिसंबन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वा- दिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते; न हि परस्मा- ब्रह्मणोऽन्यव कचिन्नित्यतां संभावयन्ति ; दर्शयति च देव- यानेन पथा प्रस्थितानामनावृत्तिम्- ' एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते' इति, तेषामिह न पुनरावृत्तिर- सू. १२.] चतुर्थोऽध्यायः । स्ति - ' तयोर्ध्वमायन्नमृतत्वमेति' इति च; अत्र ब्रूमः - कार्यात्यये तदध्यक्षेण सहातः पर- मभिधानात् ॥ १० ॥ ८३१. कार्यब्रह्मलोक प्रलय प्रत्युपस्थाने सति तत्रैव उत्पन्न सम्य- ग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं प- रिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इतीत्थं क्रममुक्ति: अनावृत्त्यादिश्रुत्यभिधानेभ्यो ऽभ्युपगन्तव्या । न ह्यसैव गतिपूर्विका परप्राप्तिः संभवतीत्युपपादितम् ॥ स्मृतेश्च ॥ ११ ॥ स्मृतिरप्येतमर्थमनुजानाति — 'ब्रह्मणा सह ते सर्वे सं- प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद- म' इति । तस्मात्कार्यब्रह्मविषया एव गतिश्रुतय: इति सिद्धान्तः ॥ कं पुनः पूर्वपक्षमाशङ्कथ अयं सिद्धान्तः प्रतिष्ठापित: ' कार्ये बादरि:' इत्यादिनेति स इदानीं सूत्रैरेवोपदर्श्यते- परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥ जैमिनिस्त्वाचार्य: 'स एनान्ब्रह्म गमयति' इत्यत्र पर में- " सूत्रभाष्ये [पा. ३. ब्रह्म प्रापयतीति मन्यते ; कुत: ? मुख्यत्वात् । परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम्, गौणमपरम् ; मुख्यगौ- योश्च मुख्ये संप्रत्ययो भवति ॥ दर्शनाच्च ॥ १३ ॥ ' तयोर्ध्वमायन्नमृतत्वमेति' इति च गतिपूर्वक ममृतत्वं' दर्शयति ; अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते, न कार्ये, वि- नाशित्वात्कार्य-' अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्' इति प्रवचनात् परविषयैव च एषा गतिः कठवल्लीषु पठ्यते ; न हि तत्र विद्यान्तरप्रक्रमोऽस्ति - ' अन्यत्र धर्मादन्यत्राध- र्मात्' इति परस्यैव ब्रह्मण: प्रक्रान्तत्वात् ॥ ' , न च कार्ये प्रतिपत्त्यभिसंधिः ॥ १४ ॥ अपि च ' प्रजापतेः सभां वेश्म प्रपद्ये ' इति नायं कार्य- विषय: प्रतिपत्त्यभिसंधिः, 'नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् ; , 'यशोऽहं भवामि ब्राह्मणानाम्' इति च सर्वात्मत्वेनोपक्रम- णात् ' न तस्य प्रतिमा अस्ति यस्य नाम महद्यश:' इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । सा चेयं वेश्म- प्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता - ' तदपराजिता पू- सू. १४.] चतुर्थोऽध्यायः । ब्रह्मण: प्रभुविमितं हिरण्मयम्' इत्यत्र । पदेरपि च गत्य- र्थत्वात् मार्गापेक्षता अवसीयते । तस्मात्परब्रह्मविषया गति- श्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ- गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपप- त्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम्, न तु मुख्य- त्वादयो गत्युपपत्त्यादीनन् -- इति आद्य एव सिद्धान्तो व्या- ख्यातः, द्वितीयस्तु पूर्वपक्ष: । न ह्यसत्यपि संभवे मुख्यस्यै- वार्थस्य ग्रहणमिति कचिदाज्ञापयिता विद्यते । परविद्याप्रकर- णेऽपि च तत्स्तुत्यर्थे विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते- ' विष्वङ्ङन्या उत्क्रमणे भवन्ति' इतिवत् । ' प्रजापतेः सभां वेश्म प्रपद्ये' इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिप- त्यभिसंधिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वात्मत्व- संकीर्तनम् 'सर्वकर्मा सर्वकाम:' इत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः ॥ केचित्पुन: पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि - इत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुती: प्रतिष्ठापयन्ति ; तत् अनुपपन्नम्, गन्तव्य- त्वानुपपत्तेर्ब्रह्मणः ; यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म 'आकाशवत्सर्वगतश्च नित्य: ' ' यत्साक्षादपरोक्षाद्ब्रह्म ' 6 सूत्रभाष्ये [पा. ३. य आत्मा सर्वान्तर: ' ' आत्मैवेदं सर्वम् ' 'ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इत्यादिश्रुतिनिर्धारित विशेषम् तस्य गन्तव्यता न कदाचिदप्युपपद्यते ; न हि गतमेव गम्यते ; अन्यो ह्यन्यद्च्छ- तीति प्रसिद्धं लोके । ननु लोके गतस्यापि गन्तव्यता देशान्तर- विशिष्टस्य दृष्टा-यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम्, तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथंचित् गन्तव्यता स्यादितिन, प्रतिषिद्धसर्व विशेषत्वाद्ब्रह्मण:; 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' ' अस्थूलमनण्वह्रस्वमदीर्घम् ' ' स बा- ह्याभ्यन्तरो ह्यजः स वा एष महानज आत्माजरोऽमरो- ऽमृतोऽभ्यो ब्रह्म' ' स एष नेति नेत्यात्मा' इत्यादिश्रुति- स्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि क- ल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्त- व्यता स्यात्; भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते . देशकालविशिष्टा गन्तव्यता । "जगदुत्पत्तिस्थितिप्रलयहेतुत्व- श्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत्, न विशेषनिराकरण- श्रुतीनामनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनामपि समानमन- न्यार्थत्वमिति चेत् न, तासामेकत्वप्रतिपादनपरत्वात् ; '' , " " सू. १४ . ] चतुर्थोऽध्यायः । मृदादिदृष्टान्तैर्हि तो ब्रह्मण एकस्य सत्यत्वं विकारम्य च अनृतत्वं प्रतिपादयन् शास्त्रं नोत्पत्त्यादिपरं भवितु- मर्हति ॥ , कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्व- म्, न पुनरितरशेषत्वमितरासामिति, उच्यते- विशेष - निराकरण श्रुतीनां निराकाङ्गार्थत्वात् न हि आत्मन एक- त्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरुषार्थसमातिबुद्धयुत्पत्तेः, 'तत्र को मोह: क: शोक एकत्वमनुपश्यतः " अभयं वै जनक प्रा- प्रोऽसि ' ' विद्वान्न विभेति कुतश्वन । एत ह वाव न तपति । किम साधु नाकरवम् । किमहं पापमकरवम्' इत्यादिश्रुतिभ्यः, तथैव च विदुषां तुष्टयनुभवादिदर्शनात्, विकारानृताभिसंध्यपवादाश्च- 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति अतो न विशेषनिराकरण श्रुती- नामन्यशेषत्वमवगन्तुं शक्यम् । नैवमुत्पत्यादिश्रुतीनां नि- राकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति प्रत्यक्षं तु तासामन्यार्थ - त्वं समनुगम्यते ; तथा हि- 'तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यति' इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति ; 'यतो वा इमानि S. W. III. 18 ; सूत्रभाष्ये [पा. ३. 1 भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसं- विशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म' इति च; एवमुत्पत्त्या- दिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मण: ; अतश्च गन्तव्यत्वानुपपत्ति: । 'न तस्य प्राणा उत्क्रामन्ति 'ब्रह्मैव सन्ब्रह्माप्येति' इति च परस्मिन्ब्रह्मणि गतिं निवा- रयति ; तद्व्यख्यातम् ' स्पष्टो ह्येषाम् ' इत्यत्र ॥ विकारेणापि गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मण: अव- यवः विकारः अन्यो वा ततः स्यात्, अत्यन्ततादात्म्ये गमनानुपपत्तेः । यद्येवम्, ततः किं स्यात् ? अत उच्यते- यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगम- नमुपपद्यते; एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम् विकारिणो नित्यप्राप्तत्वात्; न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च तद्वत: स्थिरत्वात् ब्रह्मण: संसारगमनमपि अनवक्लृप्तम् । अथ अन्य एव जीवो ब्रह्मणः सोऽणुः व्यापी मध्यमपरि- माणो वा भवितुमर्हति ; व्यापित्वे गमनानुपपत्तिः ; मध्यम- परिमाणत्वे च अनित्यत्वप्रसङ्गः ; अणुत्वे कृत्स्नशरीरवेदना- नुपपत्तिः; प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण सू. १४ . ] चतुर्थोऽध्यायः । पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य 'तत्त्वमसि' इत्यादि - शास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः । विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत्, न, मुख्यैकत्वानुपपत्तेः । सर्वेषु च एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः ; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मा- त्मत्वानभ्युपगमाच्च ॥ ----- - तदसत् , प्र- यत्तु कैश्विज्जल्प्यते - नित्यानि नैमित्तिकानि च कर्मा- ण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च परिहियन्ते स्वर्गनरकानवाप्तये, सांप्रतदेहोपभोग्यानि च क- मण्युपभोगेनैव क्षिप्यन्ते - इत्यतो वर्तमानदेहपातादूर्ध्वं देहा- न्तरप्रतिसंधानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति- माणाभावात् । न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम्- मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम्- यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यती- ति । न च एतत् तर्कयितुं शक्यते, निमित्ताभावस्य दुर्झा - त्वात् । बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्टानिष्ट - विपाकानि एकैकस्य जन्तो: संभाव्यन्ते । तेषां विरुद्धफला- नां युगपदुपभोगासंभवात् कानिचिल्लब्धावसराणि इदं जन्म सूत्रभाष्ये [ पा. ३. निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते - इत्यतः तेषामवशिष्टानां सांप्रतेनोपभोगेन क्षपणासंभवात् न यथाव- र्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभाव: श- क्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणी- यचरणा: ' ' ततः शेषेण' इत्यादिश्रुतिस्मृतिभ्य: । स्थादेतत — नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति - तन् न, विरोधाभावात्; सति हि विरोधे क्षेप्यक्षेपकभावो भव- ति ; न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैर- स्ति विरोधः, शुद्धिरूपत्वाविशेषात् ; दुरितानां तु अशुद्धि- रूपत्वात् सति विरोधे भवतु क्षपणम् ; न तु तावता देहा- न्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरित- स्याप्यशेषक्षपणानवगमात् । न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम्, न पुनः फलान्तरोत्पत्तिः इति प्रमा- णमस्ति, फलान्तरस्याप्यनुनिष्पादिनः संभवात्; स्मरति हि आपस्तम्बः - ' तद्यथा आम्र फलार्थे निमित्ते छायागन्धावनू- पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते' इति । न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं ज- न्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम्, सुनिपुणा- नामपि सूक्ष्मापराधदर्शनात् संशयितव्यं तु भवति ; - ; सू. १४ . ] चतुर्थोऽध्यायः । -- तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपग- म्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आ त्मनः कैवल्यमाकाङ्क्षितुं शक्यम्, अग्न्यौष्ण्यवत् स्वभाव- स्यापरिहार्यत्वात् । स्यादेतत् — कर्तृत्वभोक्तृत्व कार्यम् अ- नर्थ:, न तच्छक्ति:, तेन शक्त्यवस्थानेऽपि कार्यपरिहारा- दुपपन्नो मोक्ष इति-तश्च न । शक्तिसद्भावे कार्यप्रसवस्थ दुर्निवारत्वात् । अथापि स्यात् — न केवला शक्ति: कार्य- मारभते अनपेक्ष्य अन्यानि निमित्तानि; अत एकाकिनी सा स्थितापि नापराध्यतीति- -तश्च न, निमित्तानामपि शक्ति- लक्षणेन संबन्धेन नित्य संबद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्व- स्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम्, न कथंचन मोक्षं प्रति आशा अस्ति । श्रुतिश्व - 'नान्यः पन्था विद्यतेऽयनाय' इति ज्ञानादन्यं मोक्षमार्ग वारयति ॥ 6 परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् — न, प्राक्प्रबोधात् स्वप्न- व्यवहारवत् तदुपपत्तेः; शास्त्रं च यत्र हि द्वैतमिव भ- वति तदितर इतरं पश्यति' इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषये- ' यत्र त्वस्य' सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिना तदभावं सूत्रभाष्ये [पा. ३. दर्शयति । तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य बाधित- त्वात् न कथंचन गतिरुपपादयितुं शक्या । किंविषयाः पुन- र्गतिश्रुतय इति, उच्यते-- सगुणविद्याविषया भविष्यन्ति । तथा हि — कचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्प- र्यङ्कविद्याम् क्वचिद्वैश्वानरविद्याम् ; यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते- 'यथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति 'अथ यदिदमस्मिन्त्रापुरे दहरं पुण्डरीकं वेश्म' इति च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्व गुणैः स- गुणस्यैव उपास्यत्वात् संभवति गतिः । न क्वचित्परब्रह्मवि- या गतिः श्राव्यते, यथा गतिप्रतिषेधः श्रावितः - 'न तस्य प्राणा उत्क्रामन्ति' इति । ' ब्रह्मविदाप्नोति परम् इत्यादिषु तु सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तर प्रात्यसंभवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारो- पितनामरूपप्रविलयापेक्षया अभिधीयते - ' ब्रह्मैव सन्ब्रह्मा - प्येति' इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात्, अनुचिन्तनाय वा ; तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसं- वेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः ; न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञा- , सू. १४.] , चतुर्थोऽध्यायः । नस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते; तस्मादपरविषया गतिः । तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते । किं द्वे ब्रह्मणी- परमपरं चेति ? बाढम् - 'एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकार:' इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किम- परमिति, उच्यते - यत्र अविद्याकृतनामरूपादिविशेषप्रतिषे- धान अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम् तदेव यत्र नाम- रूपादिविशेषेण केनचिद्विशिष्टम उपासनायोपदिश्यते - 'मनो- मयः प्राणशरीरो भारूप:' इत्यादिशब्दैः, तदपरम् । ननु एवमद्वितीयश्रुतिरुपरुध्येत - न, अविद्याकृतनामरूपोपाधि- कतया परिहृतत्वात् । तस्य च अपरब्रह्मोपासनस्य तत्सं- निधौ श्रूयमाणम ' स यदि पितृलोककामो भवति' इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तित- त्वादविद्यायाः तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थ गमनमविरुद्धम् । सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव घटादिगमने, बुद्धायुपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म 6 ; 6 'तद्गुणसारत्वात्' इत्यत्र । तस्मात् ' कार्य बादरि:' इत्येष एव स्थित: पक्ष: ; ' परं जैमिनि:' इति तु पक्षान्तरप्रति- भानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ सूत्रभाष्ये [पा. ३. अप्रतीकालम्बनान्नयतीति बादरायण उभयथादोषात्तत्क्रतुश्च ॥ १५ ॥ करणम् । 7 स्थितमेतत् - कार्यविषया गतिः, न परविषयेति । इदमिदानीं संदिह्यते--- किं सर्वान्विकारालम्बनान् अवि- ६. अप्रतीकाल - शेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलो - म्बनाधि- कम्, उत कांश्विदेवेति । किं तावत्प्राप्तम् ? सर्वेषामेव एषां विदुषाम् अन्यत्र परस्मा- ब्रह्मण: गति: स्यात् ; तथा हि ' अनियमः सर्वासाम् इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेति । एवं प्राप्ते, प्रत्याह- अप्रतीकालम्बनानिति ; प्रतीकालम्बनान्वर्ज- यित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम् - इति बादरायण आचार्यो मन्यते ; न हि एवम् उभयथाभावाभ्युप- गमे कश्विदोषोऽस्ति, अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्व- प्युपासनेषूपपत्तेः । तत्क्रतुश्च अस्य उभयथाभावस्य समर्थको तुर्द्रष्टव्य: ; यो हि ब्रह्मक्रतुः, स ब्राह्ममैश्वर्यमासीदेत् — इति लिष्यते 'तं यथा यथोपासते तदेव भवति' इति श्रुतेः, न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति, प्रतीकप्रधानत्वादुपासनस्य । ननु, अब्रह्मऋतुरपि ब्रह्म गच्छतीति श्रूयते ; यथा पचा- मिविद्यायाम्- 'स एनान्ब्रह्म गमयति' इति भवतु, सू. १६. ] चतुर्थोऽध्यायः । यत्र एवम् आहत्यवाद उपलभ्यते ; तदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मऋतूनामेव तत्प्राप्तिः, न इतरेषाम् - इति गम्यते ॥ विशेषं च दर्शयति ॥ १६ ॥ नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति — ' यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति ' 'वाग्वाव नाम्नो भूयसी' 'यावद्वाचो गतं तत्रास्य यथाकामचारो भवति' ' मनो वाव वाचो भूय:' इत्यादिना । स च अयं फलविशेष: प्रती- कतन्त्रत्वादुपासनानाम् उपपद्यते । ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽवि- शिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रतीकाल - म्बनानाम् इतरैस्तुल्यफलत्वमिति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ॥ mar श्रीमच्छंकरभगवत्पादैर्विरचितम् ब्रह्मसूत्रभाष्यम् चतुर्थाध्याये चतुर्थः पादः चतुर्थः पादः ॥ वमेवैष संप्रसादोऽस्माच्छरीरात्स- 'ए मुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रूयते । तत्र संशय:- किं देवलोकाद्युपभोगस्था- नेष्विव आगन्तुकेन केनचिद्विशेषेण अभिनिष्पद्यते, आहोस्वित् आत्ममा- त्रेणेति । किं तावत्प्राप्तम् ? स्थानान्तरेष्विव आगन्तुकेन केनचिद्रूपेण अभिनिष्पत्तिः स्यात्, मोक्षस्यापि फलवप्र- सिद्धेः, अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् ; स्वरूप- मात्रेण चेदभिनिष्पत्ति:, पूर्वावस्थासु स्वरूपानपायात् वि- भाव्येत; तस्मात् विशेषेण केनचिदभिनिष्पद्यत इति । एवं प्राप्ते, ब्रूमः - संपद्याविर्भावः स्वेन शब्दात् ॥ १ ॥ केवलेनैव आत्मना आविर्भवति, न धर्मान्तरेणेति ; सूत्रभाष्ये [91. 8. कुत: ? 'स्वेन रूपेणाभिनिष्पद्यते इति स्वशब्दात्; अ- १. संपद्या- विर्भावा- धिकरणम् । न्यथा हि स्वशब्देन विशेषणमनवक्लप्तं स्यात् । ननु, आत्मीयाभिप्राय: स्वशब्दो भविष्यति न तस्यावचनीयत्वात् येनैव - न, ; हि केनचिद्रूपेणाभिनिष्पद्यते, तस्यैव आत्मीयत्वोपपत्तेः, स्त्रे- नेति विशेषणमनर्थकं स्यात्; आत्मवचनतायां तु अर्थवत् - केवलेनैव आत्मरूपेणाभिनिष्पद्यते, न आगन्तुकेनापररूपे- णापीति ॥ कः पुनर्विशेष: पूर्वावस्थासु, इह च स्वरूपानपायसाम्ये सतीत्यत आह- मुक्तः प्रतिज्ञानात् ॥ २ ॥ योऽत्र अभिनिष्पद्यत इत्युक्तः, स सर्वबन्धविनिर्मुक्त: शुद्धेनैव आत्मना अवतिष्ठते; पूर्वत्र तु अन्धो भवत्यपि रोदितीव विनाशमेवापीतो भवति - इति च अवस्थावयकलु- षितेन आत्मना - इत्ययं विशेषः । कथं पुनरवगम्यते -मु- क्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याह । तथा हि- " एतं त्वेव ते भूयोऽनुव्याख्यास्यामि' इति अवस्थात्रयदोष- विहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, ' अशरीरं वाव सू. ३.] चतुर्थोऽध्यायः । सन्तं न प्रियाप्रिये स्पृशत: ' इति च उपन्यस्य, 'स्वेन रूपे - णाभिनिष्पद्यते स उत्तमः पुरुषः' इति च उपसंहरति ; तथा आख्यायिकोपक्रमेऽपि 'य आत्मापहतपाप्मा' इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम् । फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा, न अपूर्वोपजनापेक्षा । यदपि अभि- निष्पद्यत इत्युत्पत्तिपर्यायत्वम्, तदपि न अपूर्वावस्थापेक्षम- यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति, तद्वत् । तम्मा- ददोषः ॥ आत्मा प्रकरणात् ॥ ३ ॥ कथं पुनर्मुक्त इत्युच्यते, यावता 'परं ज्योतिरुपसंपद्य इति कार्यगोचरमेव एनं श्रावयति, ज्योतिः शब्दस्य भौतिके ज्योतिषि रूढत्वात् न च अनतिवृत्तो विकारविषयात् क- चिन्मुक्तो भवितुमर्हति विकारस्य आर्तत्वप्रसिद्धेरिति नैष ' --- दोष:, यत: आत्मैवात्र ज्योतिः शब्देन आवेद्यते, प्रकरणात् ; " य आत्मापहतपाप्मा विजरो विमृत्यु: ' इति प्रकृते परस्मि - नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम्, प्रकृत- हानाप्रकृतप्रक्रियाप्रसङ्गात् ; ज्योतिः शब्दस्तु आत्मन्यपि दृश्य- ते - ' तद्देवा ज्योतिषां ज्योति:' इति । प्रपञ्चितं च एतत् ' ज्योतिर्दर्शनात्' इत्यत्र ॥ सूत्रभाष्ये अविभागेन दृष्टत्वात् ॥ ४ ॥ [पा. ४. परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते य:, स किं परस्मादात्मन: पृथगेव भवति, उत अविभागेनैवाव- २. करणम् । , अविभागाधि- तिष्ठत इति वीक्षायाम्, ' स तत्र पर्येति' इत्यधिकरणाधिकर्तव्यनिर्देशात् 'ज्योति- रुपसंपद्य' इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थान- मिति यथ मतिः, तं व्युत्पादयति-अविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते; कुत: ? दृष्टत्वात् ; तथा हि- 'तत्त्वमसि' ' अहं ब्रह्मास्मि' ' यत्र नान्यत्पश्यति' ' न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति ; यथादर्शनमेव च फलं युक्तम्, तत्क्रतुन्यायात् ; ' यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ' इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्या- न्यविभागमेव दर्शयन्ति ; नदीसमुद्रादिनिदर्शनानि च । भेद- निर्देशस्तु अभेदेऽप्युपचर्यते ' स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्न' इति, 'आत्मरतिरात्मक्रीड: ' इति च एव- मादिदर्शनात् ॥ ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥ सू. ६.] चतुर्थोऽध्यायः । , स्थितमेतत् ' स्वेन रूपेण' इत्यत्र - आत्ममात्ररूपेणाभि- निष्पद्यते, न आगन्तुकेनापररूपेणेति । अधुना तु तद्विशेष- ३. ब्राह्माधि- बुभुत्सायामभिधीयते - स्वम् अस्य रूपं करणम् । ब्राह्मम् अपहतपाप्मत्वादिसत्यसंकल्पत्वा- वसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेणाभिनि- पद्यत इति जैमिनिराचार्यो मन्यते ; कुतः ? उपन्यासादि- भ्यस्तथात्वावगमात् ; तथा हि य आत्मापहतपाप्मा इत्यादिना 'सत्यकामः सत्यसंकल्प:' इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयति ; तथा स तत्र पर्येति ज- क्षत्क्रीडन्रममाणः' इति ऐश्वर्यरूपमावेदयति, ' तस्य सर्वेषु लोकेषु कामचारो भवति' इति च ' सर्वज्ञः सर्वेश्वरः ' इत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति ॥ ; चितितन्मात्रेण तदात्मकत्वा- दित्यौडुलोमः ॥ ६ ॥ " यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते, तथापि शब्दविकल्पजा एव एते पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ; चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति त- न्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता ; तथा च श्रुतिः ' एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' इत्ये- S. W. III. 20 सूत्रभाष्ये [पा. ४. ; वजातीयका अनुगृहीता भविष्यति ; सत्यकामत्वादयस्तु य- द्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते - सत्या: कामा अस्येति, तथापि उपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्व- संभवः, अनेकाकारत्वप्रतिषेधात् प्रतिषिद्धं हि ब्रह्मणोऽने- काकारत्वम् 'न स्थानतोऽपि परस्योभयलिङ्गम्' इत्यत्र । अत एव च जक्षणादिसंकीर्तनमपि दुःखाभावमात्राभिप्रा- यं स्तुत्यर्थम् ' आत्मरतिः' इत्यादिवत् । न हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनिमित्तानि शक्यन्ते वर्णयि- तुम, द्वितीयविषयत्वात्तेषाम् । तस्मान्निरस्ताशेषप्रपञ्चेन प्र- सन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोम- राचार्यो मन्यते ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यव - हारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥ संकल्पादेव तु तच्छ्रुतेः ॥ ८ ॥ हार्दविद्यायां श्रूयते— ' स यदि पितृलोककामो भवति सू. ८.] चतुर्थोऽध्यायः । संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ' इत्यादि । तत्र संशयः ४. संकल्पाधि- किं संकल्प एव केवल: पित्रादिसमु- करणम् । स्थाने हेतु:, उत निमित्तान्तरसहित इति । तव सत्यपि ' संकल्पादेव' इति श्रवणे लोकवत् निमित्तान्त- रापेक्षता युक्ता ; यथा लोके अस्मदादीनां संकल्पात् गमना- दिभ्यश्च हेतुभ्यः पित्रादिसंपत्तिर्भवति एवं मुक्तस्यापि स्यात् ; एवं दृष्टविपरीतं न कल्पितं भविष्यति ; ' संकल्पादेव' इति तु राज्ञ इव संकल्पितार्थसिद्धिकरी साधनान्तरसामग्रीं सुल- भामपेक्ष्य योक्ष्यते ; न च संकल्पमात्रसमुत्थाना: पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति । एवं प्राप्ते, ब्रूमः -- संकल्पादेव तु केव- लात् पित्रादिसमुत्थानमिति ; कुत: ? तच्छ्रुतेः ; 'संकल्पादे- वास्य पितरः समुत्तिष्ठन्ति' इत्यादिका हि श्रुतिर्निमित्तान्त- रापेक्षायां पीडयेत; निमित्तान्तरमपि तु यदि संकल्पानुवि- धाय्येव स्यात्, भवतु ; न तु प्रयत्नान्तरसंपाद्यं निमित्तान्त- रमिष्यते, प्राक्संपत्तेः वन्ध्यसंकल्पत्वप्रसङ्गात् ; न च श्रु त्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते ; संकल्पब- लादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृत संकल्प- विलक्षणत्वान्मुक्तसंकल्पस्य ॥ । सूत्रभाष्ये अत एव चानन्याधिपतिः ॥ ९ ॥ [पा. ४. अत एव च अवन्ध्यसंकल्पत्वात् अनन्याधिपतिर्विद्वा- भवति नास्यान्योऽधिपतिर्भवतीत्यर्थः । न हि प्राकृतो- Sपि संकल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ संकल्प- यति । श्रुतिश्चैतद्दर्शयति- 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति' इति ॥ अभावं बादरिराह ह्येवम् ॥ १० ॥ 'संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' इत्यतः श्रुतेः मन- स्तावत्संकल्पसाधनं सिद्धम् । शरीरेन्द्रियाणि पुनः प्राप्तैश्व- र्यस्य विदुषः सन्ति, न वा सन्ति - इति ५. अभावाधि- करणम् । ---- समीक्ष्यते । तत्र बाद रिस्तावदाचार्य: श- रीरस्येन्द्रियाणां च अभाव महीयमानस्य विदुषो मन्यते ; कस्मात् ? एवं हि आह आम्नाय :- 'मनसैतान्कामान्पश्य- रमते ' ' य एते ब्रह्मलोके ' इति ; यदि मनसा शरीरेन्द्रि- यैश्व विहरेत, मनसेति विशेषणं न स्यात्; तस्मादभावः शरीरेन्द्रियाणां मोक्षे ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥ सू. १३.] चतुर्थोऽध्यायः । जैमिनिस्त्वाचार्य: मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते ; यत: ' स एकधा भवति त्रिधा भवति ' इत्यादिना अनेकधाभावविकल्पमामनन्ति । न हि अनेक - विधता विना शरीरभेदेन आञ्जसी स्यात् । यद्यपि निर्गुणा- यां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्य भूमविद्यास्तुतये सं- कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इति ॥ उच्यते- ---- द्वादशाहवदुभयविधं बादरा- यणोऽतः ॥ १२ ॥ बादरायणः पुनराचार्य: अत एव उभयलिङ्गश्रुतिदर्श- नात् उभयविधत्वं साधु मन्यते — यदा सशरीरतां संकल्प- यति तदा सशरीरो भवति, यदा तु अशरीरतां तदा अश- रीर इति; सत्यसंकल्पत्वात् संकल्पवैचित्र्याच्च । द्वादशा- हवत् — यथा द्वादशाह: सत्रम् अहीनश्च भवति, उभयलि- ङ्गश्रुतिदर्शनात् - एवमिदमपीति ॥ ----- ' तन्वभावे संध्यवदुपपत्तेः ॥ १३ ॥ यदा तनोः सेन्द्रियस्थ शरीरस्य अभाव:, तदा, यथा संध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वपि उपलब्धिमा - सूत्रभाष्ये [पा. ४. एवं त्रा एव पित्रादिकामा भवन्ति, एवं मोक्षेऽपि म्युः ; हि तदुपपद्यते ॥ भावे जाग्रद्वत् ॥ १४ ॥ भावे पुनः तनोः, यथा जागरिते विद्यमाना एव पित्रा - दिकामा भवन्ति, एवं मुक्तस्याप्युपपद्यते ॥ प्रदीप दावेशस्तथा हि दर्शयति ॥ १५ ॥ 'भावं जैमिनिर्विकल्पामननात्' इत्यत्र सशरीरत्वं मु- तस्योक्तम् ; तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरा- ६. प्रदीपाधि- त्मकानि शरीराणि दारुयन्त्रवत्सृज्यन्ते, करणम् । किं वा सात्मकान्यस्मदादिशरीरवत् -- इति भवति वीक्षा । तत्र च आत्ममनसोः भेदानुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि - इत्येवं प्राप्ते, प्रतिपद्यते - प्रदीपवदावेश इति; यथा प्रदीप एक: अनेकप्रदीपभावमापद्यते, विकारशक्तियोगात्, एवमेकोऽपि सन् विद्वान् ऐश्वर्ययोगादनेकभावमापद्य सर्वा- णि शरीराण्याविशति ; कुत: ? तथा हि दर्शयति शास्त्रमेक- स्यानेकभावम् -- " स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा' इत्यादि ; नैतद्दारुयत्रोपमाभ्युपगमेऽवकल्पते, नापि जीवान्तरावेशे ; न च निरात्मकानां शरीराणां प्रवृत्तिः सू. १६.] चतुर्थोऽध्यायः । संभवति । यत्तु आत्ममनमोर्भेदानुपपत्तेः अनेकशरीरयोगा- संभव इति-- नैष दोषः ; एकमनोनुवर्तीनि समनस्कान्येवा- पराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति ; सृष्टेषु च तेषु उपाधिभेदात् आत्मनोऽपि भेदेनाधिष्ठातृत्वं योक्ष्यते; एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रक्रिया । कथं पुनः मुक्तम्य अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपग- म्यते, यावता ' तत्केन कं विजानीयात् ' ' न तु तद्वितीय- मस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ' ' सलिल एको द्रष्टा- द्वैतो भवति' इति च एवजातीयका श्रुतिः विशेषविज्ञानं वारयति - इत्यत उत्तरं पठति- स्वाप्ययसंपत्त्योरन्यतरापेक्ष- माविष्कृतं हि ॥ १६ ॥ स्वाप्ययः सुषुप्तम्, 'स्वमपीतो भवति तस्मादेनं स्वपिती - त्याचक्षते' इति श्रुतेः; संपत्तिः कैवल्यम्, 'ब्रह्मैव सन्त्र - ह्याप्येति' इति श्रुतेः; तयोरन्यतरामवस्थामपेक्ष्य एतत् वि शेषसंज्ञाभाववचनम् - क्वचित् सुषुप्तावस्थामपेक्ष्योच्यते, कचित्कैवल्यावस्थाम् । कथमवगम्यते ? यतस्तत्रैव एतदधि- कारवशात् आविष्कृतम् ' एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीति ' ' यत्र त्वस्य सर्व- सूत्रभाष्ये [पा. ४. मात्मैवाभूत् ' 'यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति' इत्यादिश्रुतिभ्यः । सगुणविद्याविपाकस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरम्, यत्रैतदैश्वर्यमुपवर्ण्यते । तस्माददोषः ॥ जगद्व्यापारवर्ज प्रकरणादसंनिहि- तत्वाच्च ॥ १७ ॥ " सगुणोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रज- न्ति, किं तेषां निरवग्रहमैश्वर्यं भवति, आहोस्वित्सावग्रह- ७. जगद्व्यापारा- मिति संशयः । किं तावत्प्राप्तम् ? निर- धिकरणम् । ङ्कशमेव एषामैश्वर्यं भवितुमर्हति 'आप्नोति स्वाराज्यम्' 'सर्वेऽस्मै देवा बलिमावहन्ति ' ' तेषां सर्वेषु लोकेषु कामचारो भवति' इत्यादिश्रुतिभ्य इति । एवं प्राप्ते, पठति — जगव्यापारवर्जमिति ; जगदुत्पत्त्यादिव्यापारं वर्ज- यित्वा अन्यत् अणिमाद्यात्मकमैश्वर्य मुक्तानां भवितुमर्हति, जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य ; कुत: ? तस्य तत्र प्रकृतत्वात्; असंनिहितत्वाच्चेतरेषाम् पर एव हि ईश्वरो जगद्व्यपारेऽधिकृतः, तमेव प्रकृत्य उत्पत्त्याद्युपदेशात्, नि- त्यशब्दनिबन्धनत्वाच्च ; तदन्वेषणविजिज्ञासनपूर्वकं तु इतरे- षामणिमाद्यैश्वर्य श्रूयते ; तेनासंनिहितास्ते जगव्यापारे । स- सू. १९.] चतुर्थोऽध्यायः । मनस्कत्वादेव च एतेषामनैकमत्ये, कस्यचित्स्थित्यभिप्राय: क- स्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात्; अथ कस्यचित् संकल्पमनु अन्यस्य संकल्प इत्यविरोधः समर्थ्येत, ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिक- मण्डलस्थोक्तेः ॥ १८ ॥ अथ यदुक्तम्- 'आप्नोति स्वाराज्यम्' इत्यादिप्रत्यक्षो- पदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति तत्परिहर्त - व्यम् ; अत्रोच्यते- नायं दोषः, आधिकारिकमण्डलस्थो- तेः । आधिकारिको य: सवितृमण्डलादिषु विशेषायतने- ष्ववस्थितः पर ईश्वरः, तदायत्तैव इयं स्वाराज्यप्राप्तिरु- च्यते; यत्कारणम् अनन्तरम् 'आप्नोति मनसस्पतिम् ' इत्याह ; यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नो- तीत्येतदुक्तं भवति तदनुसारेणैव च अनन्तरम् ' वाक्पति- चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः' च भवति इत्याह । एवम- न्यत्रापि यथासंभवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्य योजयितव्यम् ॥ विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥ s. w. III 20a सूत्रभाष्ये [ पा. ४. विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपम्, न केवलं विकारमात्र गोचरं सवितृमण्डलाद्यधिष्ठानम्; तथा हि अस्य द्विरूपां स्थितिमाह आम्नाय :- 'तावानस्य महिमा ततो ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ' इत्येवमादिः । न च तत् निर्विकाररूपम् इतरालम्ब- नाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम् । अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवाव- तिष्ठन्ते, एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥ दर्शयतचैवं प्रत्यक्षानुमाने ॥ २० ॥ दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिष: श्रुतिस्मृती- 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः' इति, 'न तद्भासयते सूर्यो न शशाङ्को न पावक:' इति च । तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसिद्धमित्यभिप्राय: ॥ भोगमात्र साम्यलिङ्गाच्च ॥ २१ ॥ इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यम्, यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेश्वरेण समानमिति श्रयते - ' तमाहापो वै खलु मीयन्ते लोकोऽसौ ' इति ' स यथैतां सू. २२.] चतुर्थोऽध्यायः । देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ' 'तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति' इत्यादि- भेदव्यपदेशलिङ्गेभ्यः ॥ ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् ; ततश्च एषामावृत्ति: प्रसज्येत - इत्यतः उत्तरं भगवान्बादरा- यण आचार्य: पठति-- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ - , नाडी रश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्य- वार्णव ब्रह्मलोके तृतीयस्यामितो दिवि, यस्मिन्नैरं मदीयं सरः, यस्मिन्नश्वत्थः सोमसवन:, यस्मिन्नपराजिता पूर्ब्रह्मण:, यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म, यश्चानेकधा मन्त्रार्थवा- दादिप्रदेशेषु प्रपञ्च्यते - ते तं प्राप्य न चन्द्रलोकादिव भु- क्तभोगा आवर्तन्ते ; कुतः ? ' तयोर्ध्वमायन्नमृतत्वमेति' ' तेषां न पुनरावृत्ति: ' ' एतेन प्रतिपद्यमाना इमं मानवमावर्त ना- वर्तन्ते' 'ब्रह्मलोकमभिसंपद्यन्ते'' न च पुनरावर्तते ' इत्यादि- शब्देभ्यः । अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् - 'कार्यात्यये तदध्यक्षेण सहातः परम्' इत्यत्र ; सूत्रभाष्ये [पा. ४. सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिः ; तदाश्रयणेनैव हि सगुणशरणानामप्यना- वृत्तिसिद्धिरिति । अनावृत्तिः शब्दादनावृत्तिः शब्दात -- इति सूत्राभ्यासः शास्त्रपरिसमाप्तं द्योतयति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ॥ ॥ इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं संपूर्णम् ॥ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतम- वादिषम् । सत्यमवादिषम् । तन्मामा- वीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीत- मस्तु मा विद्विषावहै ॥ 1 ॐ शान्तिः शान्तिः शान्तिः ॥ यश्छन्दसामृषभो विश्वरूपः । छ- दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जि- ह्रा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ अहं वृक्षस्य रेखििा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृ- तमस्मि । द्रविण सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुव- चनम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा- सस्तनूभिः । व्यशेम देवहितं यदा- युः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्व- स्ति नः पूषा विश्ववेदाः । स्वस्ति न- स्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृह- स्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्य- ते । पूर्णस्य पूर्णमादाय पूर्णमेवावशि - ष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ आप्यायन्तु ममाङ्गानि वाक् प्राण- चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरा- करणमस्त्वनिराकरणं मेऽस्तु । तदात्म- नि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहा सीः । अनेनाधीतेन । अहोरात्रान्संदधा- मि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ भद्रं नोऽपि वातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै । तह देव- मात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सूत्रानुक्रमणिका 11 : 11 ॥ सूत्रानुक्रमणिका ॥ अ पृष्टम् अंशो नानाव्यपदेशाद० ४७८ पृष्टम् अत एव चानन्याधि० ८५४ अत एव चोपमा... अकरणत्वाच्च न... अत एव न देवताभूतं ...१३६ अक्षरधियां त्ववरोधः .. ६७१ अत एव प्राण: अक्षरमम्वरान्तवृतेः अतः प्रबोधोऽस्मात् अग्निहोत्रादि तु... अतश्चायनेऽपि दक्षिणे अग्न्यादिगतिश्रुतेरिति... ५३१ अतस्त्वितरज्ज्यायो... अङ्गावबद्धास्तु न... अतिदेशाच अङ्गित्वानुपपत्तेश्च अतोऽनन्तेन तथाहि . . . ६०३ अङ्गेषु यथाश्रयभावः अतोऽन्यापि ह्येकेषामुभयोः ७९३ अचलत्वं चापेक्ष्य अत्ता चराचरग्रहणात् अणवश्व अथातो ब्रह्मजिज्ञासा अणुश्च अदृश्यत्वादिगुणको... अत एव च नित्यत्वम् अदृष्टानियमात् अत एव च सर्वाण्यनु अधिकं तु भेदनिर्देशात् ३२८ अत एव चामीन्धना ० ७३७ अधिकोपदेशात्तु... S. W. III. 21 सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् अधिष्ठानानुपपत्तेश्व अध्ययनमात्रवतः ४.१२ अन्तर्याम्यधिदैवादिपु ... ११८ अनभिभवं च दर्शयति ७४५ अन्तवत्त्वमसर्वज्ञता वा ४१३ अन्तस्तद्धर्मोपदेशात् अनवस्थितेरसंभवाच्च... ११७ अन्त्यावस्थतेचोभय ० अनारब्धकार्ये एव... अनाविष्कुर्वन्नन्वयात् ७५५ अनावृत्तिः शब्दादना० अन्यत्राभावाच्च न... ३५५ अन्यथात्वं शब्दादिति... ६२४ अन्यथानुमितौ च... अनियमः सर्वासाम० अन्यथा भेदानुपपत्ति ० ६७५ अनिष्टादिकारिणामपि ... ५४६ अन्यभावव्यावृत्तेश्च १६१ अनुकृतेस्तस्य च अन्याधिष्ठितेषु पूर्व० ५५४ अनुज्ञापरिहारौ देह० अन्यार्थ तु जैमिनिः... २५९ अनुपपत्तेस्तु न शारीरः अन्यार्थश्च परामर्शः अनुबन्धादिभ्यः प्रज्ञा० अन्वयादिति चेत्स्या ० अनुष्ठेयं बादरायणः... ७२९ अपरिग्रहाच्चात्यन्तमनपेक्षा ३७५ अनुस्मृतेर्बादरिः अनुस्मृतेश्च अपि च सत अपि च स्म . अनेन सर्वगतत्वमायाम ० ६११ अन्तर उपपत्तेः अन्तरा चापि तु तद्दृष्टेः ७४५ अन्तरा भूतग्रामवत्स्वा० " " "" 22 " अपि चैवमेके अन्तरा विज्ञानमनसी... ४४४ अपि च संराधने... सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् अपीतौ तद्वत्प्रसङ्गाद • २९८ अप्रतीकालम्बनान्नय ० ८४२ अश्रुतत्वादिति चेन्ने० ५३४ असति प्रतिज्ञोपरोधो... ३८६ अवाधाच्च असदिति चेन्न... अभाव बादरिराह ह्येवम् ८५४ असद्वयपदेशान्नेति... अभिव्योपदेशाच्च असंततेश्वाव्यतिकरः .४८५ अभिमानिव्यपदेशस्तु... २९२ असंभवस्तु सतोऽनुपपत्तेः ४३६ अभिव्यक्तेरित्याश्मरथ्य: १३८ असार्वत्रिकी अभिसंध्यादिष्वपि चैवम् ४८८ अस्ति तु अभ्युपगमेऽप्यर्थाभावात् ३५६ अम्बुवदग्रहणात्तु न... ५८८ अस्मिन्नस्य च तद्योगं... अरूपवदेव हि ... अस्यैव चोपपत्तेरेष ऊष्मा ८०८ आ अर्चिरादिना तत्प्रथिते: आकाशस्तल्लिङ्गात् अर्भकौकस्त्वात्तद्व्यपदे • १०२ आकाशे चाविशेषात् अल्पश्रुतेरिति चेत्तदुक्तम् १८० 'अवस्थितिवैशेष्यादिति... ४५५ आकाशोऽर्थान्तर ० आचारदर्शनात् अवस्थितेरिति काशकृत्स्नः २६४ आतिवाहिकास्त लिङ्गात् ८२६ अविभागेन दृष्टत्वात् अविभागो वचनात् अविरोधश्चन्दनवत् ४५५ अशुद्धमिति चेन्न शब्दात् ५५६ आत्मकृतेः परिणामात् २७२ आत्मगृहीतिरितरवदुत्तरात् ६३७ आत्मनि चैवं विचित्रा ० ३३६ आत्मशब्दाच्च अश्मादिवच्च तदनुपपत्तिः ३२९ आत्मा प्रकरणात् सूत्रानुक्रमणिका । पृष्ठम् पृष्टम् आत्मेति तूपगच्छन्ति... ७७२ इतरे त्वर्थसामान्यात् आदरादलोपः इतरेषां चानुपलब्धेः आदित्यादिमतय... ७७९ इयदामननात् आध्यानाय प्रयोजना ० ६३५ आनन्दमयोऽभ्यासात् आनन्दादयः प्रधानस्य आनर्थक्यमिति चेन्न... ५४४ उ ५१ ईक्षतिकर्मव्यपदेशात्सः १६१ ६३३ ईक्षतेर्नाशब्दम् आनुमानिकमप्येकेषा ० २२६ उत्क्रमिष्यत एवं... २६३ ४३९ उत्क्रान्तिगत्यागतीनाम् ४५२ आपः आ प्रायणात्तत्रापि हि... ७८५ उत्तराचेदाविर्भूतस्वरूपस्तु १७३ आभास एव च आमनन्ति चैनमस्मिन् १४० उत्तरोत्पादे च पूर्वनिरो० ३८४ उत्पत्यसंभवात् आर्त्विज्यमित्यौडुलोमि... ७५१ उदासीनानामपि चैवं... ३९३ आवृत्तिरसकृदुपदेशात् ७६५ उपदेशभेदान्नेति... आसीन: संभवात् उपपत्तेश्व आह च तन्मात्रम् उपपद्यते चाप्युपलभ्यते च ३४४ इ उपपन्नस्तल्लक्षणा ० इतरपरामर्शात्स उपपूर्वमपि त्वेके ... इतरव्यपदेशाद्धिता उपमर्द च इतरस्याप्येवमसं ० ७८९ उपलब्धिवदनियमः इतरेतरप्रत्ययत्वादिति... ३८२ उपसंहारदर्शनान्नेति... ३३० सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् उपसंहारोऽर्थाभेदा० उपस्थितेऽतस्तद्वचनात् ६८३ क कम्पनात् उपादानात् करणवचेन्न भोगादिभ्यः ४१२ उभयथा च दोषात् कर्ता शास्त्रार्थवत्त्वात् कर्मकर्तृव्यपदेशाच ," 33 " उभयथापि न कर्मा ० कल्पनोपदेशाच्च मध्वा ० उभयव्यपदेशात्वहि ० ६०३ कामकारेण चैके उभयव्यामोहात्तत्सिद्धेः कामाच्च नानुमानापेक्षा ऊ कामादीतरत्र... ऊर्ध्वरेतःसु च शब्दे हि ७२६ कारणत्वेन चाकाशादिषु २४९ काम्यास्तु यथाकामं... ए एक आत्मनः शरीरे... ६९८ कार्य बादरिरस्य गत्यु ० एतेन मातरिश्वा व्या० कार्याख्यानादपूर्वम् एतेन योग: प्रत्युक्तः कार्यात्यये तदध्यक्षेण... एतेन शिष्टापरिग्रहा ० ३०५ कृतप्रयत्नापेक्षस्तु विहि • एतेन सर्वे व्याख्याता ० कृतात्ययेऽनुशयवान्ह० एवं चात्माकात्स्र्न्यम् कृत्स्नभावात्तु गृहिणो० ७५४ एवं मुक्तिफलानियम ० ७५९ कृत्स्नप्रसक्तिर्निरवयव ० एवमप्युपन्यासात्पूर्व० क्षणिकत्वाच्च ऐ क्षत्रियत्वगतेश्चोत्तरत्र ... २११ ऐहिकमप्यप्रस्तुत प्रति० ७५७ ग ८७.६ सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् गतिशब्दाभ्यां तथा.... जन्माद्यस्य यतः गतिसामान्यात् जीवमुख्यप्राणलिङ्गान्नेति ८७ गतेरर्थवत्त्वमुभयथा.... ६६३ जीवमुख्यप्राणलिङ्गान्नेति... २५८ गुणसाधारण्यश्रुतेश्व गुणाद्वा लोकवत् ज्ञेयत्वावचनाच्च ज्ञोऽत एव गुहां प्रविष्टावात्मानौ ... १०६ गौणश्चेन्नात्मशब्दात् गौण्यसंभवात् ज्योतिराद्यधिष्ठानं तु... ५११ ● ज्योतिरूपक्रमा तु.... ज्योतिर्दर्शनात् ज्योतिश्चरणाभिधानात् "" च ज्योतिषि भावाच्च चक्षुरादिवत्तु तत्सह • ५०७ ज्योतिषैकेषामसत्यन्ने चमसवदविशेषात् त चरणादिति चेन्नोपल ० इन्द्रियाणि तद्व्यपदे ० चराचरव्यपाश्रयस्तु... ४४५ तच्छ्रुतेः चिति तन्मात्रेण तदा० तडितोऽधि वरुणः सं० . छ तत्तु समन्वयात् छन्दत उभयाविरोधात् ६६३ छन्दोभिधानान्नेति... ज तत्पूर्वकत्वाद्वाचः तत्प्राक्तेश्व तत्रापि च तद्वयापारा ० जगद्वाचित्वात् तथा च दर्शयति जगद्वयापारवर्ज प्रक० ८५८ तथाचैकवाक्यतोपबन्धात् ७३६ सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् तथान्यप्रतिषेधात् तर्काप्रतिष्ठानादन्य० तथा प्राणाः तस्य च नित्यत्वात् तदधिगम उत्तरपूर्वाधि० तानि परे तथाह्याह तदधीनत्वादवत् तुल्यं तु दर्शनम् तदनन्यत्वमारम्भण... ३०७ तृतीयशब्दावरोधः... तदन्तरप्रतिपत्तौ रंहति... ५२८ तेजोऽतस्तथाह्याद्द् तदभावनिर्धारणे च... त्रयाणमेव चैवमुप० तदभावो नाडीपु... व्यात्मकत्वात्तु भूयस्त्वात् ५३० तदभिध्यानादेव तु... ४४१ तदव्यक्तमाह हि तदापीतेः संसारव्यपदेशात् ८०६ तदुपर्यपि बादरायणः... १८६ तदोकोऽग्रज्वलनं... ८१३ तद्गुणसारत्वात्तु तद्व्य प० ४५९ तद्धेतुव्यपदेशाच्च द दर्शनाच्च " "7 "" दर्शयतश्चैवं प्रत्यक्षानुमाने ८६० तद्भूतस्य तु नातद्भावो.. ... ७४७ दर्शयति च तद्वतो विधानात् 22 तन्निर्धारणानियमस्तद्दृ० ६८४ दर्शयति चाथो अपि ... ५८६ तन्निष्ठस्य मोक्षोपदेशात् ४३ दहर उत्तरेभ्यः तन्मनः प्राण उत्तरात् ८०१ ते तु तन्वभावे संभ्यवदुपपत्तेः ८५५ देवादिवदपि लोके सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् योगाद्वा सोऽपि न वक्तुरात्मोपदेशादिति... घुम्वाद्यायतनं स्वशब्दात् १४५ द्वादशाहवदुभयविधं... ८५५ न वा तत्सहभावाश्रुतेः न वा प्रकरणभेदा० ध न वायुक्रिये पृथगुपदेशात् ५०५ धर्म जैमिनिरत एव न वा विशेषात् धर्मोपपत्तेश्व न वियदश्रुतेः धृतेश्व महिम्नोऽस्या० न विलक्षणत्वादस्य... ध्यानाच्च न संख्योपसंग्रहादपि ... न न सामान्यादप्युपलब्धे ० न कर्माविभागादिति ... ३४३ न स्थानतोऽपि परस्यो० न च कर्तुः करणम् नाणुरतच्छूतेरिति ... कार्ये प्रतिपत्त्यभिसंधि: ८३२ न च पर्यायादप्यविरोधो...४०७ नात्माश्रुतेर्नित्यत्वाच्च... ४४६ नातिचिरेण विशेषात् न च स्मार्तमतद्धर्मा • नाना शब्दादिभेदात् नचाधिकारिकमपि... नानुमानमतच्छब्दात् न तु दृष्टान्तभावात् नाभाव उपलब्धेः न तृतीये तथोपलब्धेः नाविशेषात् न प्रतीके न हि सः नासतोऽदृष्टत्वात् न प्रयोजनवत्त्वात् नित्यमेव च भावात् न भावोऽनुपलब्धेः नित्योपलब्ध्यनुपलब्धि ० ४६५ न भेदादिति चेन्न... नियमाच्च सूत्रानुक्रमणिका । पृष्टम् पृष्टम् निर्मातारं चैके पुत्रादयश्च ५६२ पुरुषार्थोऽतः शब्दा निशि नेति चेन्न... पुरुषाश्रमवदिति चेत्तथापि३५८ तरोऽनुपपत्तेः नैस्मदर्शयत नैकस्मिन्नसंभवात् नोपमर्देनातः पञ्चवृत्तिर्मनोवद्वयपदिश्यते ५०९ पूर्व तु बादरायणो... ८०४ पूर्वविकल्पः प्रकरणा० ४०३ पूर्ववद्वा पृथगुपदेशात् प पृथिव्यधिकाररूप ० प्रकरणाच पटवच्च प्रकरणात् पत्यादिशब्देभ्यः २२० प्रकाशवच्चावैयर्थ्यात् पत्युरसामञ्जस्यात् प्रकाशादिवच्चावैशेष्यं... ६०२ योम्बुवचेत्तत्रापि प्रकाशादिवन्नैवं परः ४८१ परं जैमिनिर्मुख्यत्वात् प्रकाशाश्रयवद्वा तेजस्त्वात् ६०४ परमतः सतून्मानसंच ० प्रकृतिश्च प्रतिज्ञा • परात्तु तच्छ्रुतेः प्रकृतैतावत्त्वं हि प्रति० पराभिध्यानात्तु तिरो० प्रतिज्ञासिद्धेर्लिङ्गमा ० परामर्श जैमिनिरचो० ७२७ प्रतिज्ञाहानिरव्यतिरेका० ४२७ परेण च शब्दस्य... प्रतिषेधाच्च पारिवार्था इति चेन्न... ७३५ प्रतिषेधादिति चेन्न ... पुंस्त्वादिवत्त्वस्य सतो ० प्रतिसंख्याप्रतिसंख्या ० पुरुषविद्यायामिव ... प्रत्यक्षोपदेशादिति ... सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् प्रथमेऽश्रवणादिति... भावं जैमिनिर्विकल्पा ० प्रदानवदेव तदुक्तम् प्रदीपवदावेशस्तथाहि ... भावं तु बादरायणो ० भावशब्दाच्च प्रदेशादिति चेन्नान्त० भावे चोपलब्धेः प्रवृत्तेश्व ३५२ भावे जाग्रद्वत् प्रसिद्धेश्व भूतादिपादव्यपदेशो... ८० प्राणगतेश्व ५३१ भूतेषु तच्छ्रुतेः प्राणभृत्र भूमा संप्रसादाद० प्राणवता शब्दात् भूम्नः क्रतुवज्ज्यायस्त्वं ... ७०४ प्राणस्तथानुगमात् भेदव्यपदेशाच्च प्राणादयो वाक्यशेषात् भेदव्यपदेशाच्चान्यः 'प्रियशिरस्त्वाद्यप्राप्ति ० फ फलमत उपपत्तेः बहिस्तूभयथापि स्मृते ... ७५० भेदव्यपदेशात् भेदश्रुतेः भेदान्नेति चेन्नैकस्यामपि ६२० ब भोत्रापत्तेरविभाग ० भोगमात्रसाम्यलिङ्गाच बुद्ध्यर्थः पादवत् भोगेन त्वितरे क्षपयि ० ब्रह्मदृष्टिरुत्कर्षात् म ब्राह्मण जैमिनिरुप० मध्वादिष्वसंभवादन ० भ भाक्तं वानात्मवित्त्वा • ५३५ मन्त्रादिवद्वाविरोधः सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् महद्दीर्घवद्वा ह्रस्वपरि... ३६४ र महद्वच्च रचनानुपपत्तेश्च नानु० मांसादि भौमं यथा ... रम्यनुसारी मन्त्रवर्णिकमेव च गीयते रूपादिमत्वाच्च विप० मायामानं तु कात्स्न्येना० ५६३ रूपोपन्यासाच्च मुक्तः प्रतिज्ञानात रेतः सिग्योगोऽथ मुक्तोपसृप्यव्यपदेशात् १४८ मुग्धेऽर्धसंपत्ति:... ५७९ लिङ्गभूयस्त्वात्तद्धि... मौनवदितरेषामप्युपदेशात् ७५५ य यत्रैकाग्रता तत्राविशेषात् ७८४ लोकवत्तु लीलाकैवल्यम् ३४० ल लिङ्गाच्च व यथा च तक्षोभयथा वदतीति चेन्न प्राज्ञो ... २३४ यथा च प्राणादि वाक्यान्वयात् देव विद्यत यावदधिकारमवस्थिति० ६६७ यावदात्मभावित्वाच्च... ४६२ यावद्विकारं तु विभागो० ४३१ युक्तेः शब्दान्तराच्च वाङ्मनस दर्शनाच्छब्दाच्च ७९९ वायुमब्दादविशेषविशेषा ०८२३ विकरणत्वान्नेति चेत्तदुक्तम् ३३८ विकल्पोऽविशिष्टफलत्वात् ७०९ विकारावर्ति च तथाहि ...८५९ योगिनः प्रति च स्मर्यते ८१७ विकारशब्दान्नेति चेन्न... ५३ योनिश्व हि गीयते योनेः शरीरम् ५५७ विद्याकर्मणोरिति तु ... विज्ञानादिभावे वा... ४१६ सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् विद्यैव तु निर्धारणात् वैश्वानरः साधारणशब्द ० १३० विधिर्वा धारणवत्- वैपम्यनैर्धृण्ये न सापे० विपर्ययेण तु क्रमोऽत • व्यतिरेकस्तद्भावाभा० विप्रतिषेधाच्च व्यतिरेकानवस्थितेश्वा ० ३५५ विप्रतिषेधाच्चासमञ्जसम् ३६० व्यतिरेको गन्धवत् विभागः : शतवत् व्यतिहारो विशिषन्ति... ६७६ विवक्षितगुणोपपत्तेश्व विरोधः कर्मणीति चेन्ना० १८७ व्यपदेशाच्च क्रियायां... विशेषं च दर्शयति ८४३ व्याप्तेश्च समञ्जसम् श विशेषणभेदव्यपदेशाभ्यां... १२७ शक्तिविपर्ययात् विशेषणाच्च शब्द इति चेन्नातः ... विशेषानुग्रहश्च ७४६ शब्दविशेषात् विशेषितत्वाच्च शब्दश्चातोऽकामकारे विहारोपदेशात् ४६६ शब्दाच्च विहितत्वाच्चाश्रमकर्मापि ७४३ शब्दादिभ्योऽन्तः प्रति० वृद्धिहासभाक्त्वमन्त ५८८ शब्दादेव प्रमितः वेधाद्यर्थभेदात् शमदमाद्युपेतः स्यात्त० वैद्यतेनैव ततस्तच्छ्रुतेः शारीरवोभयेऽपि हि ... वैधर्म्याच्च न स्वप्नादिवत् ४०० शास्त्रदृष्टया तूपदेशो... शास्त्रयोनित्वात् वैशेष्यात्तु तद्वादस्तद्वादः ५२१ शिष्टेश्व सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् शुगस्य तदनादरश्रव ० २०८ शेषत्वात्पुरुषार्थवादो... ७१८ समाकर्षात् समवायाभ्युपगमाच श्रवणाध्ययनार्थप्रति ० समाव्यभावाच श्रुतत्वाच समान एवं चाभेदात् समाननामरूपत्वाच्च... "" श्रतेश्च श्रुतेस्तु शब्दमूलत्वात् श्रुतोपनिषत्कगत्यभि श्रुत्यादिवलीयस्त्वाच्च न...६९३ समाना चासृत्युप० समाहारात् ० ११६ समुदाय उभयहेतुके... ३८१ संपत्तेरिति जैमिनिस्तथा० १३९ श्रेष्ठश्च स संज्ञातश्चेत्तदुक्तमस्ति तु... ६२७ संज्ञामूर्तिक्लप्तिस्तु त्रिवृ० ५१७ संयमने त्वनुभूयेतरेषामा० ५४७ संपद्याविर्भावः स्वेन... ८४७ संबन्धादेवमन्यत्रापि संबन्धानुपपत्तेश्च ४११ संभृतिद्युव्याप्त्यपि चातः ६५१ संभोगप्राप्तिरिति चेन्न ... १०३ संस्कार परामर्शात्तद० सर्वत्र प्रसिद्धोपदेशात् स एव तु कर्मानुस्मृ० सर्वथानुपपत्तेश्च संकल्पादेव तु तच्छ्रुतेः सर्वथापित एवो ० सत्त्वान्चावरस्य सर्वधर्मोपपत्तेश्व संध्ये सृष्टिराह हि सर्ववेदान्तप्रत्ययं चोद ० सप्त गतेर्विशेषितत्वाच्च ४९८ सर्वान्नानुमतिश्च प्राणा ० समन्वारम्भणात् सर्वापेक्षा च यज्ञादि ० सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् सर्वाभेदादन्यत्रे स्थानविशेपायकाशादिवत् ६०९ सर्वोपेता च तद्दर्शनात् स्थानादिव्यपदेशा सहकारित्वेन च स्थित्प्रदाभ्यां च साभाव्यापत्तिरुपपत्तेः सहकार्यन्तरविधिः... साक्षाच्चोभयाम्नानात् २७२ साक्षादप्यविरोधं जैमिनिः १३७ सा च प्रशासनात् ५५२ स्मर्यते च स्पष्टो ह्येषाम् स्मरन्ति त्र J 55 "" "" "" 25 " सामान्यात्तु ६०७ स्मर्यतेऽपि च लोके सामीप्यात्तु तद्व्यपदेश: ८३० स्मर्यमाणमनुमानं... सांप तर्तव्याभावा ० स्मृतेश्व " "" "" सुकृतदुष्कृते एवेति... ५४५ सुखविशिष्टाभिधानादेव च ११४ सुषुप्त्युत्क्रान्त्योर्भेदेन सूक्ष्मं तु तदर्हत्वात् सूक्ष्मं प्रमाणतश्च तथो० सूचकश्च हि श्रुतेराचक्ष० स्मृत्यनवकाशदोषप्रसङ्ग० २८२ स्याच्चैकस्य ब्रह्मशब्दवत् ४२५ स्वपक्षदोषाच्च " " "" स्वशब्दोन्मानाभ्यां च सैव हि सत्यादयः स्वात्मना चोत्तरयोः सोऽध्यक्षे तदुपगमादिभ्यः ८०२ स्वाध्यायस्य तथात्वेन... ६२१ स्तुतयेऽनुमतिर्वा ७२५ स्वाप्ययसंपत्त्योरन्यतरापे० ८५७ स्तुतिमात्रमुपादाना० ७३४ स्वाप्ययात् सूत्रानुक्रमणिका । पृष्ठम् पृष्ठम् स्वामिनः फलश्रुते- हानौ तूपायनशब्दशे ० ह हृद्यपेक्षया तु मनु० हस्तादयस्तु स्थितेऽतो... ४९९ हेयत्वावचनाच्च परिग्रहण सं 10365 ग्रन्थालय, के. उ. वि. शि. सं सारनाथ, वाराणसी