THE WORKS Sri Sankaracharya SRI- VANI VILAS -EDITION. परिग्रहण सं.10364 प्रथालय, के. उ. ति, शि. संस्थान सारनाथ, वाराणसी DG THE WORKS OF SRI SANKARACHARYA VOLUME 2 茶茶茶茶茶茶茶茶茶茶茶園 SRI VANI VILAS PRESS SRIRANGAM WWWWWWWWWWWWWWWWWW CONTENTS. BRAHMASUTRA-BHASHYA. PAGE. CHAPTER II. 277--522 PADA 1. 281 PADA 2. PADA 3. 349 421 PADA 4. 493 CHAPTER III. 523-558 PADA 1. 527 ब्रह्मसूत्रभाष्यम् अध्यायः २. प्रथमः पादः द्वितीय: पाद: तृतीयः पादः चतुर्थः पादः अध्यायः ३. प्रथमः पादः 11 विषया: ॥ : : पृष्ठम् २७७–५२२ ५२३ - ५५८ BRAHMASUTRA **BHASHYA & 3 3 Volume ब्रह्मसूत्रभाष्यम् द्वितीयो भागः ॥ eft: ॥ ॥ विषयानुक्रमणिका ॥ द्वितीयोऽध्यायः प्रथमः पादः - त्रय्यन्त समन्वये परोत्प्रेक्षित- दोषनिरासेन स्वपक्षस्थाप- नम् १. स्मृत्यधिकरणम् पृष्ठम् २८१ - ३४५ २८१-२८७ समन्वयविरोधपरिहारलक्षणयोः संगतिप्रदर्शनाय तात्पर्यार्थ संक्षेपः मोक्षसाधनव्युत्पादनपराणाम् अनुष्ठेयेऽवकाशमल- भमानानां परमर्षिभिः कपिलादिभिः प्रणीतानां शिष्टैश्व परिगृहीतानां स्मृतीनामनवकाशत्वभिया तदविरोधेनैव वेदान्ता व्याख्यातव्याः- इति पूर्वपक्षस्य उपन्यासः " विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्' इति पूर्व- तन्त्रसिद्धार्थमवलम्ब्य अनुत्थानपराहत: पूर्वपक्ष इति शङ्का S. W. II. () ... [२] कपिलप्रभृतीनामार्षज्ञानेऽप्रतिहते श्रद्धाजाड्यात् पुनराक्षेपोत्थानस्य समर्थनम् स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं प्रवक्ष्यामीत्यतः ईश्वरकारणवादिस्मृत्यन्तरानव काशदोषोपन्यासः ... स्मृतिविगाने श्रुत्यनुसारिस्मृतिपरिग्रहस्योपपादनम् २८४ कपिलादिस्मृतीनां प्रत्यक्षमूलत्वेन प्रामाण्यशङ्का- यानिरसनम् श्रद्धाजडानां शिक्षणम् ... संभवत्यन्यस्मिन् वैदिके कपिले श्रुतिसामान्यमात्रे- णावैदिक: कपिलः श्रौत इति भ्रम एवायमिति निरूप्य, 'ऋषिं प्रसूतं कपिलम्' इत्यादिप्रति- पत्तिशेषस्यासाधकत्वप्रतिपादनम् ब्रह्मवादिनां मन्वादीनां श्रौतत्व प्रदर्शनम् ... प्रधाने पुरुषभेदे चाभिनिविशमानस्य कापिलदर्श- नस्य श्रुतिस्मृतिविरोधप्रपञ्चनेन निगमनम् २८५ अलोकवेदप्रसिद्धत्वात् महदादीनां षष्ठेन्द्रियार्थक- ... ल्पता २. योगप्रत्युक्त्यधिकरणम् पूर्वातिदेशेन योगप्रत्याख्यानम् ... २८६ २८७-२८९ अधिकाशङ्कया पृथगधिकरणारम्भस्य समर्थनम् सांख्ययोगयोरादरातिशय एव तन्निराकरणे आद- [ ३ ] रातिशयस्य हेतुरिति प्रतिपादनम् ... अविषयेऽप्रामाण्यं सांख्ययोगयोः पुरुषविशुद्धिनि- वृत्तिनिष्ठादिस्वविषयेऽपि प्रामाण्यं नोपहन्या- दिति सांख्ययोगयोरर्थैकदेशाभ्यनुज्ञानम् ३. नविलक्षणत्वाधिकरणम् २८९-३०५ अवान्तरसंगत्यर्थ मधिकरणस्य विरोधिन्यायाभासी- करणार्थत्वप्रदर्शनम् श्रुतितर्कयोरसमानविषयत्वेनाविरोधशङ्का समानविषयत्वसमर्थनेन समाधिः ... विषयतोऽनुभवान्तरङ्गत्वस्य मननविधिविहितत्व - स्य च तर्कसमादरणहेतुतयोपन्यासः जगन्न ब्रह्मप्रकृतिकम्, तद्विलक्षणत्वात् - इत्यनु- मानेन पूर्वपक्ष: व्यासिसमर्थनम् तो: साधनम् जगतोऽशुद्धयचेतनत्वदर्शनात् ब्रह्मवैलक्षण्यस्य हे- चेतनोपकरणस्य जगतोऽचेतनत्वसमर्थनम् ... अचेतनत्वं व्यभिचरेत् चेतनोपकरणता इति शङ्का- याः समाधिः श्रुतार्थापत्त्या समस्तस्य जगत: चेतनत्वोत्प्रेक्षणम् २९१ ' तथात्वं च शब्दात्' इति सूत्रावयवविभजनेन [ ४ ] आर्थस्यार्थस्य श्रुत्यर्थेनापबाधनीयतायाः समर्थ- नम् पृथिव्यादिचैतन्यमिदं नार्थमेव, किं तु श्रुत्यर्थोऽपि इति चोद्यापनोदनार्थतया उत्तरसूत्रावतरणम् अधिष्ठात्रीणां देवतानां चिदात्मनामेव चैतन्यं श्रुत्यभिमतमिति सूत्रार्थप्रदर्शनम् विशेषपदस्य सौत्रस्य द्विधा योजनम् भूतेन्द्रियादिषु चेतनानुगतेरविशेषतो विशेष- तश्च प्रपञ्चनम् पूर्वपक्षनिगमनम् केशनखवृश्चिकादिदृष्टान्तान् ग्राहयित्वा पराभि- मतप्रकृतिविकार भावसाधकस्य सारूप्यस्य वि- कल्प्यासाधकत्वप्रदर्शनम् परोपक्षितप्रतिपक्षलिङ्गं विलक्षणत्वं त्रिधा विक- अप्रयोजकत्वासिद्धयसाधारण्यबाधैस्तस्या- ल्य, भासीकरणम् * परिनिष्पन्नस्यापि ब्रह्मणः आम्नायेतरप्रमाणगो- चरात्प्रमाणमपनयनम् श्रवणातिरेकेण मननविधानस्य सत्तर्कविषयत्वप्रद- र्शनेन, तर्काप्रतिष्ठानादिति सूत्रसंमत्या च शु- ष्कत कीणामनवकाशीकरणम् ... 'विज्ञानं चाविज्ञानं च' इति विभागश्रवणस्य [ 4 ] चैतन्यविभावनाविभावनाभ्यामवकाशं प्रदर्श्य, जगतश्चैतन्यानुगमे श्रुतार्थापत्तिं परिपाल्य, पर- मते विभागश्रुतिविरोधप्रदर्शनम् चेतनकारणतावादे असत्कार्यवादापादनम् • .... स्वरूपेणानिर्वचनीयं कार्य कारणसत्तयैव सदिति सत्कार्यवादप्रतिषेधस्य निर्विषयत्वसमर्थनम् कार्यकारणानन्यत्ववादे, प्रलये कार्यस्येव कारण- स्याप्यशुद्धयादिधर्मप्रसङ्गात्, भोक्तृभोग्यादि- विभागनियमभङ्गप्रसङ्गात्, मुक्तानामपि पुनरु- त्पत्तिप्रसङ्गात्, लयाभावप्रसङ्गाच्च चतुर्धा असा- मञ्जस्योद्भावनम् परिणामदृष्टान्तेन प्रथमासामञ्जस्यपरिहारः ... विवर्तदृष्टान्तेन प्रथमा सामञ्जस्य परिहारः सुषुप्तिसमाध्यादिदृष्टान्तेन अविद्याशक्तेर्नियतत्वात् उत्पत्तिनियम इति द्वितीयासामञ्जस्य परिहारः अपीतेः सावशेषत्वसाधकानुमानविशदनम् तृतीयासामञ्जस्यपरिहारः अनभ्युपगमेन चतुर्थासामञ्जस्यपरिहारः ... वैलक्षण्यादीनां सांख्यसाधारणतया औपनिषदा- नामपर्यनुयोज्यताप्रदर्शनम् यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभि- युक्ततरैरन्यैरन्यथैवोपपाद्यते इति स्वतन्त्रत- - [ ६ ] कोणामप्रतिष्ठितत्वोपपादनेन तर्कावष्टम्भशिथि- लीकरणम् ... तर्कावष्टम्भेन तर्काप्रतिष्ठानं साधयता अभ्युपगत एव क्वचित्प्रतिष्ठितस्तर्क इति प्रधाने प्रतिष्ठित- तर्कानुसरणनैपुणाभिमानेन पुनः प्रत्यवस्थानस्य अन्यथानुमेयमित्यादि सूत्रावयवविभजनेन नि- रूपणम् ... क्वचित्प्रतिष्ठिततर्कसंभवमभ्युपगम्य, नहीदमति- गम्भीरं भावयाथात्म्यमित्यादिभाष्येण जगत्का- रणे तर्कस्यानवतारं समर्थ्य अप्रतिष्ठानादनि- र्मोक्षनिरूपणेन एवमपीत्यादि सौत्रपरिहारस्य वि- वरणम् ... वेदमुपेक्ष्य तर्कमेवापेक्षमाणानां संसाराविमोक्ष एव प्रसज्येत - इति कल्पान्तरेणानिर्मोक्षपदार्थ- निरूपणम् ४. शिष्टापरिग्रहाधिकरणम् ३०५ - ३०६ शिष्टापरिगृहीतेषु अण्वादिकारणवादेषु प्रधानका- रणवादपरिहारस्य प्रधानमल्ल निबर्हणन्यायेना- तिदेशः ... ५. भोक्त्रापत्त्यधिकरणम् ३०६-३०७ अभेदश्रुतिः प्रवर्तमाना स्फुटतरभोक्तृभोग्यविभा [ ७ ] गानुपपत्तिप्रतिहता मुख्यार्थात्प्रच्याव्येत - इति पुनः प्रत्यवस्थानम् अभेदवादेऽपि समुद्रतरङ्गन्यायेन विभागाविरोध- स्य समर्थनेन परिहारः ६. आरम्भणाधिकरणम् ३०७-३२६ ' स्याल्लोकवत्' इति पूर्वस्मादविरोधात् अस्य विशेषाभिधानोपक्रमस्य विवर्ताश्रयतया विभा- प्रतिपादनम् नेह नानेत्यादिनिरङ्कुशनानात्वनिषेधबलात् जीवभे- दादिसंग्रहविवक्षाविशेषेण भेदविशिष्टमिथ्यात्वे पर्यवसिततया तदनन्यत्वमिति सूत्रावयवस्य वि- भजनाम् भेदनिषेधहेतोरारम्भणशब्दस्य वाचारम्भणोद्देश्य- कनामधेयमात्रत्वविधेयकस्य अर्थपरिसंख्यानद्वारा मिथ्यात्वपर्यवसानस्य प्रतिपादनम् सौत्रादिपदसंग्राह्यनिरूपणम् जीवप्रपञ्चयोर्ब्रह्मणोऽनन्यत्वे दृष्टान्तद्वयप्रदर्शनेन सिद्धान्तोपसंहारः अनेकात्मकं ब्रह्मेत्येकत्वनानात्वयोरुभयोरपि सत्य- त्ववादिनामनेकान्तवादिनां मतस्योत्थापनम् .. ३०९ मृत्तिकेत्येव सत्यमित्यवधारणात्, वाचारम्भणश- [ c ] ब्दादिभ्यः, तत्त्वमसीत्यत्र असि पदस्वरसात्, तस्करदृष्टान्तबलात्, भेददृष्टयपवदनात्, यभाविकतायां ज्ञानान्मोक्षस्यानुपपत्तेश्च नानात्व- सत्यतापराक्रमणम् उभ- एकत्वैकान्ताभ्युपगमे प्रत्यक्षादीनि प्रमाणतां ना- श्नुवते; अनृतं च शास्त्रमनृतमेव शासिष्यति - इति शङ्का प्रत्यक्षादीनां सांव्यवहारिकाबाधनेन प्रमाणलक्ष- णानतिपातसमर्थनम् शङ्काविषादिनिमित्तमरणं स्वाप्नसर्पदंशनोदकस्ना- नादिकार्यदर्शनं च दृष्टान्ततयोपन्यस्य असत्यात् सत्यप्रतिपत्तेः समर्थनम् प्रसङ्गात् लौकायतिकमतापाकरणम् श्रुत्या अन्वयव्यतिरेकाभ्यां रेखानृताक्षरदृष्टान्तेन च असत्यात्सत्यप्रतिपत्तेः साधनम् आत्मैकत्वप्रतिपादकस्य शास्त्रस्य अन्त्यप्रमाणत्व- समर्थनपूर्वकम् अनेकात्मकब्रह्मकल्पनाबीजस्य भेदव्यवहारस्य विघटनम् अनेकत्वस्य तात्त्विकत्वं न कल्प्यते, परं तु श्रूय- ... ते -- इति शङ्का फलवत्कूटस्थदर्शनसंनिधौ समाम्नायमानस्य अफ- लस्य अनेकजगदाकारपरिणामित्वस्य तदौपयि- [ ९ ] त्वमेव न्याय्यमिति ब्रह्मण: परिणामधर्मत्वनि- रासेन परिहार: तदनन्यत्वस्य श्रुतिप्रतिज्ञाभ्यां विरोधस्य उद्भावनम् ३१४ समुचितश्रुतिस्मृत्युपन्यासेना विद्यकत्वमैश्वर्यस्य प्र- साध्य, आविद्य कैश्वर्यापेक्षं जन्मादिसूत्रम्, त- त्त्वाश्रयं तु तदनन्यत्वसूत्रमिति व्यवस्थया प्रति- शाश्रुतिविरोधस्य परिहारः मिथ्यात्वस्य संबन्धाधीननिर्धारणत्वात्, उपादेयस्य कारणोपलम्भभावानुविधाय्युपलम्भभावकत्वं सू- त्रगं हेतुमवलम्ब्य तादात्म्यरूपसंबन्धस्य साधनम् ३१७ भावाच्चोपलब्धेरिति पाठान्तरेण तादात्म्यप्रत्यक्षप- रतया सूत्रव्याख्यानम् कार्यस्य प्रागुत्पत्तेः कारणात्मना सत्त्वस्य श्रूयमा- णस्य, कार्यकारणयोः सत्त्वाव्यभिचारस्य च ता- दात्म्योपपादकतया उपन्यासः ... प्रागुत्पत्तेः कार्यसत्त्वाभ्युपगमे विरोधितया अभि- मन्यमानस्य असदेवेत्याद्यसद्व्यपदेशस्य वाक्यशे- पबलात् अव्याकृतव्यपदेशतया अविरोधित्वसम- नम ... प्रतिनियतकारणोपादानस्य सत्कार्यवादसाधकतयो- पन्यास: ... कार्यकारणयोस्तादात्म्यसाधनार्थ समवायदूषणम् ३२० [१०] वृत्तिविकल्पेनावयवातिरिक्तस्यावयविनो दूषणम् असत्कार्यवादे उत्पत्तिरकर्तृका निरात्मिका च स्यादिति दोषान्तरम् ... असत्त्वं निरस्यता सत्त्वमेव साधितमिति मन्वानेन सत्कार्यवादे कारकवैयर्थ्योद्भावनम् ... कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापा- रस्य अर्थवत्त्वसमर्थनपूर्वकं विवर्तपरिणामवादा- भ्यां सत्कार्यवादपरिपालनम् प्रसङ्गात् क्षणभङ्गवादापाकरणम् असत्कार्यवादे कारकव्यापारनिर्विषयत्वस्य प्रस- ञ्जनम् क्षीरनटदृष्टान्तेन सिद्धान्तयुक्तेर्निगमनम् ... ** सद्यपदेशिशब्दस्य ' येनाश्रुतं श्रुतं भवति' इति प्रतिज्ञायाश्च सिद्धान्तानुकूलतयोपन्यासः कार्यकारणयोरुपलब्धिव्यभिचारात् परिमाणभेदा- च्च भेदसंभावनस्य संवेष्टितप्रसारितपटन्यायेन विघटनम् भिन्नकार्यकरत्वात् कार्यकारणयोर्भेदसाधनस्य प्रा- णभेददृष्टान्तेनाभासीकरणम् ... ७. इतरव्यपदेशाधिकरणम् .... ३२६–३३० सर्वज्ञः : परमात्मा जीवान् आत्मनोऽभिन्नतया श्रुति- [ ११ ] भिर्व्यपदिश्यमानान् तथैवानुभूयमानांश्च बन्नन् आत्मानमेव बध्नीयादिति चेतनाजगत्प्रक्रिया- या अन्याय्यत्वस्योद्भावनम् .... अबाधिते भेदव्यवहारे, भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं नि- रुद्धि; सम्यग्ज्ञानेन बाधिते तस्मिन्, न दोष- गन्धस्याप्यवकाश इति सिद्धान्त: जीवप्राज्ञपृथक्त्वकार्यवैचित्र्ययोः स्वरूपधर्मार्थिक- यावैचित्र्यपरैः अश्मबीजान्नर सदृष्टान्तैर्मन्दमति- समाधानार्थमुपपादनम् ८. उपसंहारदर्शनाधिकरणम् * ३३०-३३२ असहायस्य ब्रह्मणो विचित्रप्रपञ्चस्रष्टृत्वानुपपत्तेरु- द्भावनम् श्रीरादिषु स्वत एवं कालपरिपाकवशेन परिणामं प्रद परिहारः चेतनत्वविशिष्टासहायताया अनुपादानत्वसाधक- ताप्रत्याशायाः देवतन्तुनाभबलाकापद्मिनीदृष्टा- न्तोपन्यासेन विघटनम् ३३३-३३८ ९. कृत्स्नप्रसक्त्यधिकरणम् निरवयवस्य परिणामे, कृत्स्नमेव परिणमेत; सा- [१२] वयवत्वाभ्युपगमे च श्रुतयः प्रकुप्येयुः - इति पूर्वपक्ष: ब्रह्मणः अकृत्स्नप्रसक्तिनिरवयवत्वयोः शब्दमूलत्व- प्रपञ्चनेन परिहारः आशयानवबोधेन शब्दस्य योग्यतासापेक्षस्य कथं विरुद्धार्थप्रत्यायनसामर्थ्यमित्याक्षेपः विवर्तवादमादाय परिहारः स्वप्नदृष्टान्तेन मायावादस्फुटीकरणम् परेषामपि दोषसाम्यस्य समर्थनम् ... १०. सर्वोपेताधिकरणम् ३३८-३३९ अकरणस्यापि ब्रह्मणो विचित्रसामर्थ्ययोगस्य श्रु- तिबलात्समर्थनम् ११. प्रयोजनवत्त्वाधिकरणम् ३३९-३४१ प्रेक्षावत्प्रवृत्तिव्यापकं प्रयोजनं निवर्तमानं ब्रह्मोपा- दातामपि निवर्तयतीत्याक्षेपः स्वभावादेव केवलं लीलारूपा प्रवृत्तिरीश्वरस्येति परिहार: सृष्टिश्रुतेरन्यपरत्वात् तदाश्रयो दोषो निर्विषय इति परिहाररहस्यम् १२. वैषम्यनैर्घृण्याधिकरणम् विषमं विरचयतो दुःखं प्रयोजयतः सर्वमपि संह- ३४१-३४५ [ १३ ] रतश्च परमेश्वरस्य वैषम्यनैर्घुण्यापादनेनाक्षेपः... ३४१ पर्जन्यवत्साधारणस्य प्राणिकर्मापेक्ष्य विषमं निर्मि- माणस्यात्रभवतः परमेश्वरस्य न वैषम्यनैर्घुण्ये प्रसज्येते इति परिहार: प्राग्विभागात्कर्मणोऽभावादाक्षेपस्य संसारानादि- त्वमादाय परिहारः मोक्षकर्मकाण्डयोरनुपपत्त्या 'अनेन जीवेन' इ- त्यादिशब्दैश्च अनादित्वस्य निर्वाह: ... १३. सर्वधर्मोपपत्त्यधिकरणम् निर्गुणस्यापि ब्रह्मणः सर्वधर्मोपपत्त्या जगदुपादा- नत्वसमर्थनेन स्वपक्षपरिग्रह प्रधानस्य प्रकरण- स्योपसंहारः द्वितीयः पादः - सांख्यादिमतानां दुष्टता ३४९—४१८ १. रचनानुपपत्त्यधिकरणम् ... ३४९–३६४ वेदान्तवाक्यैदंपर्यनिरूपणपरेऽपि शास्त्रे स्वतन्त्रा- णामप्यनुमानानामाभासीकरणं संगतमेवेति पा- दारम्भसमर्थनम् परपक्षप्रत्याख्यानात् स्वपक्षस्थापनस्याभ्यर्हितत्वोप- पादनेन प्राथम्यनिर्वाह: ... वीतरागकथायामपि परपक्षाधिक्षेपप्रवेशस्य निर्वाह: ३४९ [ १४ ] पूर्व प्रधानादीनां श्रुतिमत्त्वं निरस्तम्, इदानीं तु युक्तिमत्त्वं निरस्यते— इत्यपौनरुक्त्यनिर्वाह: ३५० 'भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य' इती- श्वरकृष्ण संगृहीतप्रधानानुमापकलिङ्गानां समन्व- याख्यलिङ्गव्याख्यानपूर्वकं निर्देशेन पूर्वपक्षोप- क्षेपः विचित्रप्रपञ्च रचनायाः स्वाभाविक प्रतिबन्धनियाम- कतया चेतनान्वयव्यतिरेकनिरूपणपूर्वकं रचना- नुपपत्तेः सौत्रहेतोर्विभजनेन प्रधानानुमाननिरस - नम् च - शब्दसमुच्चितायाः समन्वय परिमाणकार्यकारण- भावानां सांख्य हेतूनामसिद्धतायाः प्रपञ्चनम् साम्यावस्थानात्प्रच्युतिरूपायाः प्रवृत्तेः चेतनाधि- ठानसाधनेन ' शक्तितः प्रवृत्तेश्च ' इति सांख्यी- यो हेतुर्विरुद्ध एवेति वक्रोक्त्या प्रतिपादनम् .. ३५२ केवलस्य चेतनस्य प्रवृत्तिर्न दृष्टा इति औपनिष- दं प्रति सांख्यानामाक्षेपः अचेतनस्य प्रवृत्तिश्चेतनाद्भवतीति औपनिषदानां समाधिः ... प्रवृत्तिरहितस्याप्यात्मनः प्रवर्तकत्वस्य अयस्कान्त- रूपादिदृष्टान्तेन समर्थनम् [ १ ] पयोम्बुनोः पक्षसमत्वसमर्थनेन तत्र व्यभिचारश- काया निरास: अनपेक्ष प्रधानवादिनां कादाचित्कपरिणामभेदानु- पपत्तेः प्रदर्शनम् ... क्षीराद्याकारेण परिणममानानां तृणपल्लवोदकादी- नां स्वभावतः प्रवृत्तौ दृष्टान्ततया अभिमन्यमा- नानामपाकरणम् प्रधानस्य स्वाभाविक प्रवृत्तिमभ्युपगम्य पुरुषार्था- पेक्षाभावप्रसञ्जनम् अपेक्ष्यमाणस्यापि पुरुषार्थस्यासंभवनिरूपणम् ३५७ ... अन्धपङ्गुन्यायेन अयस्कान्तदृष्टान्तेन च पुरुषस्य प्रवर्तकत्वं संभाव्य प्रत्यवतिष्ठमानस्य अभ्युपेत- हानादिदोषोद्भावनेन निग्रहणम् ... स्वरूपप्रणाशभयात् बाह्यस्य कस्यचित् क्षोभयितु- रभावाच्च गुणानामङ्गाङ्गिभावानुपपत्तौ प्रवृत्त्य- नुपपत्ति: कार्यवशेन चलं गुणवृत्तमित्यन्यथानुमाय वैषम्यो- पगमसमर्थनाभिमानः प्रधानस्य ज्ञशक्तिवियोगादुक्तदोषतादवस्थ्यनिरूप- णपूर्वकमुक्ताभिमानस्यापि शिथिलीकरणम् विप्रतिषेधप्रपञ्चनेन सांख्यानामभ्युपगमस्यासाम- ३५९. प्रदर्शनम् [ १६ ] अद्वैतवादे तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् मोक्षानुपपत्तिरिति सांख्यीय प्रतिबन्ध्याः सप्रप- ञ्चमुद्भावनम् तापस्यापारमार्थिकत्वप्रतिपादनेन समाधिः असङ्गपुरुषवादी सांख्योऽप्याविद्यकमेव तप्यता- पकभावमाख्यातुमर्हतीति उक्तप्रत्युक्तेन निरूप्य स्वपक्षे अदोषसमर्थनम् ... पारमार्थिकतापाभ्युपगमे च मुधैव सांख्यानामप- वर्गकथेति प्रदर्श्य, औपनिषदस्वास्थ्यसमर्थनेन निगमनम् २॰ महद्दीर्घाधिकरणम् ३६४-३६७ 'स्वपक्षस्थापन परस्याधिकरणस्य प्रासङ्गिकतया सं- गमनम् कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समान- जातीयं गुणान्तरमारभन्ते — इति वैशेषिकाभ्यु- पगतेन नियमेन चेतनकारणवादविरोधस्योद्भा- वनम् वैशेषिकाणां व्यवस्थितां प्रक्रियामादाय पारिमा- ण्डल्यस्यानारम्भकत्वप्रदर्शनेन व्यभिचारनिरू- पणम् द्वयोर्ह्यणुकयोः, बहूनां वा परमाणूनाम्, ह्यणुक- सहितानां वा परमाणूनां स्थलकार्यारम्भकत्वोप- [ १७ ] न्यासेन वैशेषिकपरिभाषाया अप्रयोजकत्वसूच- नपूर्वकं व्यभिचारप्रपञ्चनम् सूत्रविभाजनम् ... कार्यद्रव्यस्य विरोधिपरिमाणाक्रान्तत्वादनारम्भ- काणि पारिमाण्डल्यादीनि इति वैषम्यशङ्का . ३६५ नोत्पत्तेः : प्रागसत् परिमाणान्तरमाक्रामेत्, न वा अ- न्यहेतुकपरिमाणे पारिमाण्डल्यादीनि व्याप्रियन्ते, नापि कारण बहुत्वादीनीव न संनिदधते पारि- माण्डल्यादीनि इति परिहारः संयोगादिकमादाय व्यभिचारप्रपञ्चनम् नविलक्षणत्वशिष्टापरिग्रहाधिकरणाभ्यामगतार्थत्व- स्य समर्थनम् करणम्) ... ३६७-३८१ ३. परमाणुजगदकारणत्वाधिकरणम् (तदभावाधि- परमाणव उपादानम्, ईश्वरश्वाधिष्ठाता निमि- सर्गकाले त्तम्, ततः परमाणुद्वयसंयोगात् द्यणुकादिक्रमेण सृ- ष्टिः - इति परमाणुकारणवादस्य उत्थापनम् परमाणूनामाद्यस्य कर्मण निमित्तानभ्युपगमे न क- परमाणुषु प्राण्यदृष्टापेक्षं कर्म, 2 र्म, अभ्युपगमेऽपि दृष्टनिमित्तानां प्रयत्नादीना- मसंभवात् न कर्म - इति सूत्रविभजनेन परमा- णुकारणवादस्य निरसनम् N. W. 11.00 [१८] आत्मसमवायितया अणुसमवायितया वा नादृष्टमा- द्यस्य कर्मणो निमित्तम् - इत्यत्रापि सूत्रस्य योजनम् ३६९ परमाणु संयोगस्वरूपस्य खण्डनम् प्रलयनिरासेऽपि सूत्रस्य योजनम् • 0 • ... भिन्नसमवायाभ्युपगमे समवायान्तरकल्पनायाम- नवस्थापत्त्या समवायनिराकरणेन परमाणुकार- णवादस्यापाकरणम् इह-प्रत्ययग्राह्यः समवायो नित्यसंबद्ध इत्यनव- स्थापरिहार संभावनाया विघटनम् परमाणून् प्रवृत्तिस्वभावत्वादिभिः चतुर्धा विक " ल्प्य दूषणान्तरम् परमाणूनां रूपादिमत्त्वात् स्थौल्यानित्यत्वयोः प्र- सञ्जनम् ... परमाणुनित्यत्वे कणादसूचितस्य : 'सदकारणव- नित्यम्' इति प्रथमकारणस्य भङ्गः ' अनित्यमिति च विशेषतः प्रतिषेधाभावः द्वितीयनित्यत्वकारणस्य भङ्गः इति ... 'अविद्या च' इति तृतीयनित्यत्वकारणस्य भङ्गः ३७४ परमाणव उपचितापचितगुणाः कल्प्येरन्, न वा इति विकल्प्य दूषणान्तरम् शिष्टापरिग्रहादपि वैशेषिकवादस्य न प्रधानवाद- स्येव अंशेनाप्यादरणीयतेति प्रतिपादनम् ... ... [१९] गुणादीनां द्रव्याधीनत्वमत्यन्त भेदाभ्युपगमेन विरु- ध्यमानं द्रव्यात्मकतायामेव पर्यवस्यतीति उत्सूत्रं दूषणम् अपृथग्देशत्वापृथक्कालत्वा पृथक्स्वभावत्वैः त्रिधा विकल्प्य अयुतसिद्धत्वखण्डनम् युतसिद्धयोः संबन्धः संयोगः, अयुतसिद्धयोस्तु समवाय इति अभ्युपगमान्तरस्य निरसनम् स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शनस्य समर्थनेन संबन्ध्यतिरिक्तसंबन्धस्य विघटनम् ३७८ अप्रदेशानामण्वात्ममनसां संयोगं प्रदेशकल्पना- यामवकल्पमानं संभावयतः, अविद्यमानार्थक- ल्पनायां सर्वार्थसिद्धिप्रसङ्गस्य प्रपञ्चनेन सोल्लुण्ठं शिक्षणम् निरवयवाभ्यां परमाणुभ्यां सावयवस्य ह्यणुकस्य जतुकाष्ठादिवत् संश्लेषो न श्लिष्यते - इति प्रतिपादनम् परिच्छिन्नानां परमाणूनां सावयवत्वनिरूपणेन नि- त्यत्वविघटनम् सूत्रवाक्यशेषपूरणेन अधिकरणार्थस्य उपसंहारः ४. समुदायाधिकरणम् ... ३८१-३९४ अर्धवैनाशिकाः सर्ववैनाशिकान् स्मारयन्ति इति पूर्वोत्तरसंगति निरूपणम् A [२०] वैनाशिक मतभेदानां विभजनम् वैभाषिक सौत्रान्तिकमतयोः संप्रतिपन्नां सर्वास्ति- तामादाय उत्थापनम् स्थिरस्य संहन्तुर्दुर्निरूपत्वात् पराभिमता भूतभौ- तिकसंहतिः पञ्चस्कन्धी च नोपपद्येयाताम्-- इति सिद्धान्तसूत्रस्य विभजनम् ... अविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः .. संघात इति तथागतानां प्रत्यवस्थानम् अविद्यादीनामितरेतरोत्पत्तिमात्रनिमित्तत्वाभ्युपग- मेsपि संघातस्य निमित्ताभावेनानुपपत्तिः भोक्तारमुपकार्योपकारकभावं च असहमाने क्षणि- कपक्षे संघाताक्षेपस्य दूरोत्सारितत्वप्रदर्शनम्.... ३८३ हेतूपनिबन्धनप्रतीत्यसमुत्पादमास्थाय संघातप्रत्या- शाया अन्योन्याश्रयप्रसञ्जनेन विघटनम् प्रत्ययोपनिबन्धनप्रतीत्यसमुत्पादमास्थाय संघाता- नादित्वेऽभिनिविशमानस्य विकल्प्य निरोधः ३८४ भोगापवर्गव्यवहारानुपपत्तिदर्शनेन क्षणिकपक्षदू- षणम् अभ्युपेत्यवादं विहाय हेतूपनिबन्धनप्रतीत्यसमुत्पा- स्यापि दूषणम् उत्पाद निरोधयोः वस्तुस्वरूपत्वे वा, अवस्थान्त- [ २१ ] रत्वे वा, वस्त्वन्तरत्वे वा वस्तुनः शाश्वतत्वं प्रसज्येतेति क्षणिकवाददूषणम् निर्हेतुकफलोत्पत्तिसमाश्रयणस्य प्रतिज्ञाहान्यतिप्र- सङ्गप्रसञ्जनाभ्यामुपरोधः प्रतिसंख्याप्रतिसंख्यानिरोधयोः प्रत्याख्यानम् ... ... प्रतिसंख्या निरोधान्तः पातितया अभिमन्यमानस्या- प्यविद्यानिरोधस्य निर्हेतुकत्वमापाद्य दूषणम् आकाशनिरुपाख्यत्वाभ्युपगमस्य आगमानुमाना- भ्यां निराकरणम् स्मरणमादाय आत्मनः स्थायित्व प्रदर्शनम् उपलब्धस्मत्रर्भेदेऽपि समानायां संततौ कार्यका- रणभावात्स्मृतिरुपपत्स्यते —— इत्यपरितोषेण प्रत्य- भिज्ञासमाज्ञातप्रत्यक्षविरोधस्य प्रदर्शनेन क्षणभ- ङ्गवाददूपणम् ... प्रत्यभिज्ञानस्य सादृश्यनिबन्धनत्वसंभावनाया वि- घटनम् वैनाशिकानां कथाकथैव लुप्येत इत्युपहसनम्... ३९१ नानुपमृद्य प्रादुर्भावात्' इत्यभावाद्भावोत्प- त्तिकल्पनायाः, ' नासतो दृष्टत्वात्' इति सूत्र- विभजनेन निरसनम् अभावाद्भावोत्पत्तौ अनीहमानानामप्यभिमतसि- द्धिः स्यादिति सौत्रोपहसनस्य विवरणम् ... [ २२ ] ५. नाभावाधिकरणम् (उपलब्ध्यधिकरणम्) ३९४४०३ सर्वमपि प्रमाणप्रमेयफलव्यवहारमन्तःस्थं निर्धा- रयताम्, विकल्पासहत्वेन बाह्यानर्थानपलपता- म्, अवरुद्ध विषयाकारं ज्ञानं स्वप्नदृष्टान्तं वास- नावैचित्र्यं चावलम्ब्य बाह्यार्थमपार्थयताम्, स- होपलम्भनियमाच्च विज्ञानेषु विषयानन्तर्भावय- ताम् विज्ञानैकस्कन्धवादिनां सुगतहृद्तावगति- मतां मतस्य सप्रपञ्चमुत्थापनम् बाह्यस्यार्थस्यानुपलम्भाद्वा तदभावोऽध्यवसीयेत, उपलम्भस्य बाह्याविषयकत्वाद्वा, बाह्यार्थबाधक- प्रमाणसद्भावाद्वा — इति विकल्प्य, अनुपल- - म्भस्य तावद्विघटनम् उपलम्भे बाह्याविषयकत्वस्य विघटनम् बाधकप्रमाणनिरसनम् ... विषयसारूप्यसहोपलम्भनियमयोः पराभिमतहेत्वो- रसाधकत्वस्य समर्थनम् स्वत एकस्मिन्विज्ञाने पृथगवभासमानौ घटपटा- वादाय प्रत्यनुमानम् स्वरूपमात्रपर्यवसितं विज्ञानं विज्ञानान्तरवार्तान- .... भिज्ञमिति विज्ञानभेदादिप्रतिज्ञानामुपरोधः ३९८ ज्ञानवदर्थस्याप्यनुभवाविशेषोपपादनेन सोल्लुण्ठं भेदस्य साधनम् ... [ २३ ] 'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ' इत्या- स्थितायाः विज्ञानस्य स्वात्मनि वृत्तेः, अप्रत्या- ख्येयं विज्ञानसाक्षिणमवलम्ब्य निरसनम् स्थायिनः साक्षिणोऽवगन्तुः स्वयं सिद्धतामुपक्षि- पन्तो वयं न प्रच्छन्न बौद्धाः, किं तर्हि, उच्छन्न- बौद्धाः इति निरूपणम् ... मिथ्या जागरितोपलब्धिः, उपलब्धित्वात्, स्वप्नो- पलब्धिवत् — इत्यनुमाने दृष्टान्तविघटनायें वाधाबाधस्मृतित्वानुभवत्वरूपवैधम्र्यस्य प्रपञ्च- नम् अस्यैवानुमानस्य बाधेनाभासीकरणम् यथालोकदर्शनमन्वयव्यतिरेकावाद्रियमाणावर्थ ए- वोपलब्धेर्भवतः, नार्थानपेक्षायां वासनायाम् ; यस्याश्चात्मलाभावस्थिती अर्थोपलब्धौ स्थायि- न्याश्रये चायतेते - इति पराभिमतस्य हेतोर्वा- नावैचित्र्यस्य विघटनम् आलयविज्ञानस्यापि वासनानधिकरणत्वसमर्थ- नम् -३९९ N.. बाह्यार्थवादे उक्तानां क्षणिकत्वनिबन्धनानां दूष- णानां विज्ञानवादे अतिदेशः सर्वप्रमाणविप्रतिषिद्धस्य शून्यवादस्य सूत्रकाराना- दरबीजाविष्करणपूर्वकं प्रतिक्षेपः [ २४ ] सर्वथा वैनाशिकसमयः सिकताकृपवद्विदीर्यते - इति निगमनम् ६. एकस्मिन्नसंभवाधिकरणम् मुक्तकच्छनिरासानन्तरं विवसनसमयोत्थापनम् ... ४०३ संक्षेपविस्तराभ्यां विवसनाभिमतपदार्थनिरूपणम् ४०३ जैनैरवतारितस्य सप्तभङ्गीनयस्य विवेचनम् ४०४ निरङ्कुशस्यानैकान्तिकत्वस्य - निर्धारणे, जैनाभि- मतपदार्थेषु, सम्यग्दर्शने, स्वर्गापवर्गयोः, अर्ह- ति चानादिसिद्धेऽतिप्रसञ्जनेन सप्रपञ्चं स्याद्वाद- स्यापवदनम् ... शरीरपरिमाणो जीव इत्यार्हताभ्युपगमस्य दूषणम् ४०६ जीवस्य देहपरिमाणत्वोपपादनार्थमभ्युपगम्यमा- नस्य उपगतापगतावयवत्वस्य विकारादिदो- प्रपञ्चनेन विघटनम् ... ... यथा रक्तपटानां तथा विसिचामपि स्रोत: संतान- नित्यतान्यायेन जीवानित्यता समाधातुं शक्यते - इति संभावनायामुत्तरतया सूत्रस्य प्रकारा- न्तरेण योजनम् मोक्षावस्थाभाविजीवपरिमाणस्य नित्यत्वाभ्युपग- मश्च एकशरीरपरिमाणतायाम् एकपरिमाणतायां वा जीवस्य पर्यवस्येत् —- इति जैननिरासस्यो - पसंहारः ७. पत्यधिकरणम् [ २५ ] ... ४०९-४१४ केवलाधिष्ठात्रीश्वरकारणवाद एवानेन प्रतिषिध्यते, नाविशेषेण ईश्वरकारणवाद इति निरूपणम् सांख्ययोगव्यपाश्रयाणां माहेश्वराणां वैशेषिकाणां ... अत्र प्रतिवादित्वस्य प्रदर्शनम् रागद्वेषादिदोषनिबन्धनानीश्वरत्वादिप्रसक्तिरूपा- सामञ्जस्यप्रपञ्चनेन निरासः ... प्रधानपुरुषेश्वराणां संबन्धानुपपत्तेश्वासामञ्जस्यम् दृष्टान्तमनपेक्ष्य स्वतन्त्रं प्रवर्तमानमागमं शरणीकु- तो ब्रह्मवादिनः सर्वमप्युपपद्यते -- इति नि. रूपणम् अप्रत्यक्षत्वात्प्रधानादेरनधिष्ठेयतां निरूप्य, चक्षु- रादौ व्यभिचारशङ्कायाः स्वभोगाहेतुत्वे सतीति विशेषणेन निरसनम् शरीरित्वेन भोगादिप्रसञ्जनपरतया सूत्रद्वयस्य क- ल्पान्तरेण व्याख्यानम् सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामन्त- ववम् सर्वज्ञता वा प्रसज्येत — इति दूषणा- न्तरेणोपसंहारः ८. उत्पत्यसंभवाधिकरणम् अधिकरणारम्भसमर्थनम् ४१४ - ४१८ ... [२६] चतुर्व्यूहवादिनां भागवतानां मतस्योत्थापनम् ... तत्राविसंवादिविसंवाद्यंशयोर्विवेचनम् संकर्षणादीनामुत्पत्तेर्निरास: ... संकर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कु- र्यात् - इति दूषणान्तरम् वासुदेवादीनां सर्वेषामीशनायामभ्युपगतायामपि उत्पत्यसंभवदोषस्य तादवस्थ्यम् मिथोविप्रतिषेधवेदविप्रतिषेधयोर्व्याख्यानेन नि- गमनम् तृतीयः पादः -- पञ्चमहाभूतजीवश्रुतीनां विरो- धपरिहारः १. वियदधिकरणम् ४२१--४९० ...४२१-४३५ श्रुतीनां परस्परविरोधपरिहारपरतया उत्तरप्रपञ्चा- रम्भस्य समर्थनम् आकाशस्य उत्पत्तिप्रकरणे अश्रवणादनुत्पत्तौ सिद्धायां तेजः प्रमुख एव सर्ग इत्यविरोधः श्रुती- नामिति सिद्धान्त्येकदेशिवचनेन उपक्रमणम्.. ४२१ .. एकवाक्यतानवगमात् श्रुत्यक्षरविप्रतिषेधस्य प्रपञ्च- पूर्वपक्ष: ... प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशो- [ २७ ] त्पत्त्यसंभवादाकाशोत्पत्तिश्रुतिर्गौणीत्यविरोध इति सिद्धान्त्येकदेशिनामभिप्रायस्य आविष्करणम् श्रुतितोऽप्याकाशस्यानुत्पत्तिः .. अञ्जसा भक्त्या च ब्रह्मशब्दवदेकस्याप्याकाशश- ब्दस्य प्रयोग उपपद्यते इति प्रतिपादनम् .. ४२५ - नभोऽनुत्पत्तिपक्षस्य अद्वितीयत्वश्रुत्या सर्वविज्ञान- प्रतिज्ञया च बाधम्, आपेक्षिकत्वनिरूपणेन क्षी- कुम्भप्रक्षिप्त कतिपयपयोबिन्दुदृष्टान्तेन च परि- हृत्य, एकदेशिपक्षस्य निगमनम् आकाशस्य ब्रह्मकार्यत्वमनभ्युपगच्छन् भूयसीभिः श्रुतिभिरनुगृह्यमाणमव्यतिरेकं सर्वविज्ञानप्रतिज्ञां चोपरुन्ध्यादेवेति परमसिद्धान्तस्योपन्यासः एकवाक्यत्वसमर्थनेन सिद्धान्तसारप्रतिपादनम् श्रुत्यन्तरप्रसिद्धोऽपि क्रमः श्रुत्यन्तरे संग्राह्य इत्यस्य, ' सर्व खल्विदं ब्रह्म तजलान्' इति वाक्यं दृष्टा- न्ततयोपादाय समर्थनम् सर्वविज्ञानप्रतिज्ञाया अद्वितीयत्वश्रुतेश्च क्षीरोदक- 'न्यायेन स्वकार्यापेक्षया च नयनं निरस्य, प्रकृ- तिविकार भावन्यायेन असंकुचिततयैव नेतव्य- त्वस्य समर्थनम् ... आकाशदिक्कालमनः परमाणवो विकाराः, आत्मा- [ २८ ] न्यत्वे सति विभक्तत्वात्, घटशरावोदञ्चनादि- वत् - इति प्रत्यनुमानेन उत्पत्त्यसंभवप्रमाणस्य विघटनम् आकाशानुत्पत्त्यनुमानस्यानैकान्तिकत्वप्रपञ्चनेन दूषणम् ... ... प्रागभावशून्यत्वस्य आकाशानुत्पत्तिसाधकतया पराभिमतस्य विघटनम् वैधर्म्याद्यनुमानान्तराणां कालात्ययापदिष्टता ... आकाश नित्यत्वसाधकतयाभिमतानाममृतत्वादि- श्रुतीनां प्रतिविधानम् २. मातरिश्वाधिकरणम् ४३५-४३६ वियदतिदेशेन पवनोत्पत्तेः साधनम् ३. असंभवाधिकरणम् ४३६–४३७ वियत्पवनदृष्टान्तेन ब्रह्मणोऽपि जन्मविकारसंभा- बनाया अपनयनम् ४. तेजोऽधिकरणम् साक्षादेव ब्रह्मणो जायते तेजः ; 'वायोरग्निः ' इति तु क्रमोपदेश: इति पूर्वपक्ष: वायोर्ब्रह्मविकारस्यापि वस्तुतस्तदनन्यत्वात् वायुस- काशात्तेजसः संभवेऽपि ब्रह्मोपादनत्वमक्षतमिति [ २९ ] कारकविभक्तेर्बलीयस्त्वानुरोधेन उभयथोपपद्यमा- नाः श्रुतयः कांस्यभोजिन्यायेन नियम्यन्ते- इति सिद्धान्तः ... ५. अबधिकरणम् (अपां तेजोयोनित्वम् ) ४३९ ६. पृथिव्यधिकाराधिकरणम् ४३९-४४१ वाक्यशेषोपोद्बलिता श्रुतिः प्रकरणाद्बलीयसीति, अभ्यवहार्यमेवान्नम् अद्भयो जायमानम् ' ता आप ऐक्षन्त' इत्यादि श्रुतौ विवक्ष्यते - इति पूर्वपक्ष: " महाभूताधिकारानुरोधात् प्रायिककृष्णरूपानुरो- धात्, समानाधिकारश्रुत्यन्तरानुरोधाच्च अन्नश- दोsन्नकारणे पृथिव्यामिति सिद्धान्तः ४४० ७. तदभिध्यानाधिकरणम् ... ४४१-४४२ स्वतन्त्राणामेवाकाशादीनां वाय्वादिकारणत्वमिति पूर्वपक्ष: लिङ्गप्रस्ताव सामञ्जस्याय परमेश्वर एव तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सिद्धान्त: ८. विपर्ययाधिकरणम् ४४२-४४३ अनियतक्रमेण, उत्पत्तिक्रमेण वा, अप्ययः - इति पक्षौ [३०] न्यायतः स्मृतितश्च उत्पत्तिक्रमविपरीतक्रमेणैव अप्ययः इति सिद्धान्तः -- ९. अन्तराविज्ञानाधिकरणम् ... ४४४-४४५ पूर्वोक्तभूतोत्पत्तिप्रलयक्रमस्य भौतिकानां करणानां सृष्टया न बाध इति निर्णयः १०. चराचरव्यपाश्रयाधिकरणम् ... ४४५-४४६ देहाश्रय स्थूलात्पत्तिप्रलयौ जीवस्य न स्तः इति प्रतिपादनम् ११. आत्माधिकरणम् ४४६-४५० आकाशादेवि जीवस्याप्युत्पत्तिप्रलयाविति पूर्व- पक्ष: उत्पत्तिप्रकरणे अश्रवणात् श्रुतिभ्योऽस्य नित्यत्वा- वगमाच्च नास्योत्पत्तिप्रलयाविति सिद्धान्त : ४४८ १२. ज्ञाधिकरणम् ... ४५०-४५२ नात्मस्वभावश्चैतन्यम्, तदनुवृत्तावपि चैतन्यस्य व्यावृत्तेः - इति पूर्वपक्ष: ... अनुमिमानोऽप्यपरोक्षः, स्मरन्नप्यानुभविक:, सं- दिहानोऽप्यसंदिग्धः, विपर्यस्यन्नप्यविपरीतः स- स्यात्मा नित्यचैतन्यस्वरूप इति श्रुतितो न्याय- तश्च निर्धारणम् [३१] १३. उत्क्रान्तिगत्यधिकरणम् ४५३-४६६ उत्क्रान्तिगत्यागतीनां श्रुतेश्व साक्षादणुपरिमाणश्र- aणस्य च अविरोधार्थमिदमधिकरणमिति आ- क्षेपसमाधानाभ्यां प्रतिपादनम् ... उत्क्रान्तिगत्यागतीनां श्रवणादणुपरिमाणो जीव इति पूर्वपक्ष: गत्यागती परममहति न संभवतः ; अतस्तद्वतो - Sमध्यम परिमाणस्य अणुत्वमेव परिशिष्येत- इति प्रतिपादनम् महत्त्वानन्त्यादिश्रुतयः परमात्मविषयाः, न जीव- विषया: -इत्यणुत्वपक्षस्य दृढीकरणम् अणुत्वश्रुतेरुन्मानश्रुतेश्वोपन्यासः ... ... सर्वाङ्गीणशैत्याद्युपलब्धेरणुत्वपक्षेऽपि चन्दनदृष्टा- न्तं त्वक्संबन्धं चावलम्ब्य समर्थनम् चन्दनदृष्टान्तसिद्ध्यर्थमवस्थितिवैशेष्यस्योपदेशि- A चन्दनदृष्टान्तापरितोषात् प्रदीपप्रभादृष्टान्तेन जी - कतया उपपादनम् वगुणचैतन्यव्यापिताया: समर्थनम् प्रदीपप्रभादृष्टान्तापरितोषात् गन्धदृष्टान्तेन जीव- व्यतिरेकेण चैतन्यवृत्तेः समर्थनम् ... चैतन्यगुणेन शरीरव्याप्तौ श्रुत्युपन्यासः ... ४५८ [ ३२ ] अत्रैव आत्मप्राज्ञयोः पृथगुपदेशमनुकूलतया उ- पादाय, पूर्वपक्षस्य उपसंहारः उत्सूत्रं विभुत्वस्य साधनम् ... उपासनेषु प्राज्ञस्येव, उपाधिगुणसारत्वाज्जीवस्याणु- त्वादिव्यपदेशः -- इति सूत्रस्य विभजनम् ... शास्त्रबलेन बुद्धिसंयोगस्य यावत्संसार्यात्म भावि- त्वसमर्थनम् सुषुप्तिप्रलययोरपि शक्त्यात्मना विद्यमान एव बुद्धाद्युपाधिसंबन्धो यावदात्मभावीति पूर्वपक्ष्य- नुशयबीजस्य परिहार : उपलब्ध्यनुपलब्ध्योः कादाचित्कत्वबलात् आग- मलाच्च बुद्धिसद्भावं प्रसाध्य सिद्धान्तस्य नि- गमनम् १४. कर्त्रधिकरणम् ४६६–४६९ ये खलु पश्यन्ति- - आत्मा भोक्तव, न कर्ता इति, तेषां निराकरणाय तद्गुणसारत्वप्रपञ्चनस्यारम्भः ४६६ विध्यन्यथानुपपत्त्या आत्मन: कर्तृत्वम् उपदिश्यमाने विहारे स्वातन्त्र्यं नाकर्तुः संभवतीति जीवप्रक्रियायां करणोपादानसंकीर्तनात्, लौकिकी- षु वैदिकीषु च क्रियासु जीवकर्तृत्वस्य शास्त्रेण [ ३३ ] व्यपदिश्यमानत्वाच्च जीवस्य कर्तृत्वम् सत्यपि स्वातन्त्र्ये कारकवैचित्र्यात्प्रवृत्त्यनियमस्यो- पपादनम् विज्ञानकर्तृत्वस्य कारकशक्तिविपर्ययापादनेन वि- संयमविध्यन्यथानुपपत्त्युपन्यासेन जीवकर्तृत्वस्य घटनम् निगमनम् १५. तक्षाधिकरणम् स्वाभाविकमात्मनः कर्तृत्वमिति पूर्वपक्ष: ... ४६९-४७४ अनिर्मोक्षप्रसङ्गादिहेतुभिर्न स्वाभाविकं कर्तृत्वमि - त्युत्सूत्रं सिद्धान्तस्योपन्यासः ... तक्षदृष्टान्तेन आत्मनः कर्तृत्वमौपाधिकमिति सूत्र- स्य विभाजनम् शास्त्रार्थवत्वादिहेतूनां परिहारः १६. परायत्ताधिकरणम् ४७५-४७८ जाग्रत्सु प्रवर्तनालक्षणेषु रागादिषु जीवानामौपाधि- कं कर्तृत्वं नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् — इति कर्ममीमांसकानां प्रत्य- वस्थानम् सर्वास्वेव प्रवृत्तिषु ईश्वरो हेतुकर्तेति श्रुतेरवसीय - -- ते - इति सिद्धान्तः N. W. II. 000 [ ३४ ] विधिप्रतिषेधान्यथानुपपत्त्या धर्माधर्मापेक्षत्वमीश्वर- स्य समर्थ्य वैषम्यनैर्घुण्याकृताभ्यागमादिदोषाणां निरास: .... १७. अंशाधिकरणम् इति पूर्वपक्ष: ४७८-४९० स्वामिभृत्यवत् जीवेश्वरयोरुपकार्योपकारक भावः- ----- ... भेदाभेदावगमाभ्यामनिविस्फुलिङ्गन्यायेन जीवेश्व- रयोरंशांशिभाव निरूपणेन सिद्धान्तः अंशत्वानुकूलमन्त्रवर्णस्मृत्योरुपन्यासः ... ... ब्रह्मभूयंगतानां महत्तरदुःखापादनस्य प्रकाशादि- निदर्शनोपन्यासेन विघटनम् जैवेन दुःखेन परमात्मा न दुःखायते - इत्यत्र अभेदावसानत्वाच्छास्त्रस्य विधिप्रतिषेधानुपपत्तेः स्मृति: संभावनम् ज्योतिरादिदृष्टान्तेन देहसंबन्धाद्विधिप्रतिषेधयोः सार्थक्यसमर्थनम् उपाध्यसंतानान्नास्ति जीवसंतान इति कर्मफला- व्यतिकरस्योपपादनम् ... कर्मफलाव्यतिकरोपपादकतया जीवस्य परमात्मा- भासत्वसमर्थनम् चतुर्थः [३५] बहून् विभूनात्मन अभ्युपगच्छतः सांख्यान्प्रति कर्मफलव्यतिकरस्य प्रसञ्जनम् तादृशान् काणादान्प्रति तस्यैव प्रसञ्जनम् अदृष्टनिबन्धननियमप्रत्याशाया विघटनम् अभिसंध्यादिनिबन्धननियमाभिसंधेर्निरास: ... ४८८ प्रवेशकल्पनाया अन्त्यविशेषकल्पनायाश्च अनिया- मकत्वं समर्थ्य आत्मैकत्वपक्षस्य निगमनम् .. ४८९ ः पादः -- लिङ्गशरीरश्रुतीनां विरोधप- रिहारः १. प्राणोत्पत्त्यधिकरणम् ' ४९३–५२२ ४९३—४९८ प्राणोत्पत्तिविषये श्रुतिविप्रतिषेधादप्रतिपत्तिः, अ- थवा प्रागुत्पत्तेः सद्भावश्रवणाद्वौणी प्राणाना- मुत्पत्तिश्रुतिरिति पूर्वपक्षस्य उपन्यासः उदाहरणवाक्योपात्तानां लोकादीनां तृतीयपादा- दाक्तानां वियदादानां वा उपमानत्वसमर्थनेन सूत्रे ' तथा ' इत्यक्षरानुलोम्यस्य संपादनम् ४९४ श्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्ते— इति सिद्धान्तसूत्रस्य विभजनम् प्रतिज्ञाहानिप्रसङ्गात्, गौण्या जन्मश्रुतेरसंभवस्य प्रपञ्चनम् [ ३६ ] 'जायते ' इति प्राक् श्रुतस्य पदस्य प्राणेष्वनुवृ- त्तेर्मुख्यस्य जन्मनः समर्थनम् छान्दोग्येऽपि प्राणानामुत्पत्तिश्रवणस्य प्रदर्शनम् ४९७ २. सप्तगत्यधिकरणम् ४९८-५०३ प्राणानां संख्याविषयस्य श्रुतिविप्रतिषेधस्य निरू- पणम् ... स्तोककल्पनानुरोधात् प्राणानां सप्तसंख्याध्यवसा- नम्, वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति पू - . र्वपक्ष: कार्यलिङ्गकानुमानानुगृहीतैकादशप्राणश्रुतिबला- देकादशैव प्राणाः -- इति सिद्धान्तः ' प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इति वाक्यं विषयीकृत्य सूत्रद्वयस्य योजनान्त- रम् ३. प्राणाणुत्वाधिकरणम् ... प्राणानां सूक्ष्मत्वपरिच्छिन्नत्वयोः साधनम् ४. प्राण श्रेष्ठवाधिकरणम् *** ५०३-५०४ ५०४-५०५ ... नासदासीयमन्त्रवर्णादधिकाशङ्काया निवृत्त्यर्थं मु- ये प्राणे ब्रह्मविकारत्वस्य अतिदेशः ५. वायुक्रियाधिकरणम् ५०५-५१० वायुः करणव्यापारो वा प्राण इति पूर्वपक्ष: •** [ ३७ ] वायोः करणेभ्यश्च पृथगुपदेशात् अन्य एव प्राण इति सिद्धान्तः ... ... प्राणस्य जीववत्स्वातन्त्र्यस्य व्यावर्तनम् प्राणान्तरासंभविदेहेन्द्रियविधारणकारणं प्राणः, न तु परिच्छेदधारणादिकरणम् — येनास्य विष- यान्तरमन्विष्येत इति विषयान्तरप्रसञ्जनस्य नि- राकरणम् मुख्यप्राणस्य वैशेषिककार्यसद्भावे हेत्वन्तरतया पञ्चवृत्तित्वव्यपदेशस्योपन्यासः ६. श्रेष्ठाणुत्वाधिकरणम् - मुख्यप्राणस्यापि सौक्ष्म्य- ७. ज्योतिराद्यधिकरणम् परिच्छेदौ यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रव- र्तेरन् — इति पूर्वपक्ष: अग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागा- दिकरणजातं स्वकार्येषु प्रवर्तते इति सिद्धान्तः ५१२ अधिष्ठात्रीणां भोक्तृत्वप्रसङ्गस्य श्रुतितो न्यायतश्च परिहार: स्वकर्मार्जिते देहे जीवस्य भोक्तृतानियमात्, शारी- रेणैव च प्राणसंबन्धस्य नित्यत्वात् देवता न भोक्तृपक्षस्येति निगमनम् , ८. इन्द्रियाधिकरणम् [३८] ५१४ -५१७ श्रुतेर्मुख्यस्यैवेतरे प्राणा वृत्तिभेदाः इति पूर्वपक्ष: ५१४ एतस्माज्जायते ' इत्यादिव्यपदेशभेदात्तत्त्वान्तरा- णीति सिद्धान्तः 'भेदश्रुतिलक्षणभेदयोस्तत्त्वान्तरत्वसाधकतयोपन्यास: ५१६ ९. संज्ञामूर्तिक्लप्त्यधिकरणम् ... ' अनेन जीवेनात्मना ' इति विशेषणात् जीवक- र्तृकमेव नामरूपव्याकरणमिति पूर्वपक्ष: ५१८ 'सेयं देवता' इत्युपक्रम्य ' व्याकरवाणि' इत्युत्त- मपुरुषप्रयोगात् नामरूपव्याक्रिया परमेश्वर- स्यैव तेजोवन्नानां निर्मातु: कृतिरिति सिद्धान्तः ५१८ इत्यत्र जीवेनेत्येतदनन्तरेणैव अनुप्रविश्येत्यनेन संबध्यते, योग्यत्वात्; न व्याकरवाणीत्यनेन, अयोग्यत्वात्; क्त्वश्च उ- पपत्तिः संभवति न च जीवो नाम पर- मेश्वरादत्यन्तभिन्न इति -- इत्येवं पूर्वपक्षबीज- निरास: 'अनेन जीवेन... ' त्रिवृत्कुर्वतो नामरूपव्याकरणं भौतिकविषयमि- ति प्रतिपादनम् बाह्याध्यात्मिकत्रिवृत्करणप्रपञ्चनपूर्वकम् भूयस्त्वे- न विशेषव्यपदेशस्य समर्थनम् ... तृतीयोऽध्यायः [ ३९ ] प्रथमः पादः - वैराग्यार्थं जीवयातायात- चिन्ता ५२७ - ५५८ १. तदन्तरप्रतिपत्त्यधिकरणम् ५२७-५३७ द्वितीयतृतीयलक्षणयोः संगत्यर्थमर्थसंक्षेपः प्रथमपादार्थसंक्षेपः संशयोपन्यासः करणोपादानवत् भूतोपादानस्याश्रुतत्वात् देहबीजै- र्भूतसूक्ष्मैरसंपरिष्वक्त एव जीवो गच्छतीति पूर्वपक्ष: ' वेत्थ यथा... ' इत्यादिप्रश्नप्रतिवचनाभ्यां सं- परिष्वक्त एव गच्छतीति सिद्धान्तः तृणजलायुकाश्रुतिविरोधपरिहारः ... देहान्तरप्रतिपत्तिप्रकारे अश्रौतकल्पना विविच्य तासामनादरणीयता प्रदर्शनम् व्यात्मकत्वं द्विधा व्याख्याय सिद्धान्तहेतोः साधक- वस्य समर्थनम् प्रश्नप्रतिवचनयोरप् शब्दस्य भूयस्त्वापेक्षत्वसमर्थ - नाय सर्वदेहेष्वपां बाहुल्यस्य द्विधा निरूपणम् ५३० षाट्कौशिकानामुत्क्रामतामनुविधेयतया भूतेन्द्रि- यमयसूक्ष्मदेहस्य गतिप्रतिपादनम् ! [ ४० ] ... वागादीनामग्न्यादिगतिश्रुतेर्गौणत्वसमर्थनम् ५३१. प्रथमायामाहुतौ श्रद्धाया होतव्यत्वेनाभिधानात् 'पञ्चम्यामाहुतावपां पुरुषभावो न घटते — इत्या- क्षेपः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रथमा- यामनपां होमायोपादातुमशक्यायाश्च बुद्धिप्र- सादलक्षणाया: श्रद्धाया होतव्यतयाभिधानं न श्लिष्येत, औत्सर्गिकीं च कार्यस्य कारणानुरू- पतामतिवर्तेत — इति भक्त्यायमप्सु श्रद्धाशब्दः प्रयुक्त इति परिहारः अपां गतिसंभवेऽपि ताभिः संपरिष्वक्तस्य जीव- स्य गतिरश्रुतेत्यापस्य समाधानम् व्याघ्रैरिव देवैः क्रियासमभिहारेण भक्ष्यमाणाना- मिष्टादिकारिणां स्वकर्मफलोपभोगाय रहणं प्रति - ज्ञातं नोपपद्यते इति शङ्का - भोक्तॄणामेव सतामिष्टादिकारिणां देवोपजीवितामा- * त्रेणान्नशब्दो भाक्तो गमयितव्यः - इति समाधिः ५३६ अनात्मवित्त्वादित्याद्यंशस्य मुख्यार्थत्वानुरोधेन व्या- ख्यानानन्तरं प्रकरणानुरोधेनापरं व्याख्यानम् पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादे नानत्वमुद्भाव्यते सायै— इति पञ्चाग्मिविज्ञानप्रशं- [ ४१ ] २. कृतात्ययाधिकरणम् ५३७-५४६ यावत्संपातश्रुतेः, यत्किंचेत्यविशेषपरामर्शात्, प्रा- यणस्य चैकप्रघट्टकेन सकलकर्माभिव्यञ्जकत्वौ - चित्यात् निरनुशयानामेव भुक्तभोगानां चन्द्रम- ण्डलादवरोह इति पूर्वपक्ष: सानुशया एवावरोहन्तीतिं सिद्धान्तः ... दृष्टस्मृतिभ्यामित्यत्र दृष्टशब्दस्य श्रुतिपरतया उच्चा- वचभोगपरतया च द्विधा व्याख्यानम् स्मृत्युपन्यासः *** भाण्डानुसारिस्नेहवत् - स्वर्गार्थस्य कर्मणोऽवशे- ष एवानुशयः ; तत्सहिता एव चन्द्रमण्डले ति - ष्ठासन्तोऽपि स्थातुमपारयन्तस्ततः परावर्तन्ते इत्येकदेशिनां मतस्य उद्भावनम् ... स्वर्गफलस्य कर्मणो लेशानुवृत्तौ न क्रमते सामा- न्यतो दृष्टं स्वर्गफलत्वशास्त्रविरोधपराहतमित्येक- देशिमतं निरस्य, आमुष्मिकफले कर्मजाते उपभु- क्ते अवशिष्टमैहिकफलं कर्मान्तरजातमनुशय इति स्वमतस्योपन्यासः स्वयं संकुचन्ती यावच्छ्रुतिः यत्किचेतिश्रुतिश्च उपसंहारानुरोधप्राप्तमप्यारब्धभोगकमपेक्षं सं- कोचनमनुमन्यते इति पूर्वपक्षहेतोर्विघट- नम् 1 [ ४२ ] उपभोगपर्यायकल्पितकर्मबलाबलप्रदर्शनेन श्रुति- स्मृतिविरोधोपन्यासेन च प्रायणस्याविशेषकर्मा- भिव्यञ्जकताया विघटनम् ... यथागतं तद्विपर्ययेण चावरोहन्ति — इति सूत्र- शेषव्याख्यानम् चरणश्रुतिरनुशयोपलक्षणार्थी - इति काष्णजिनि- मतम् अस्मिन् मते योन्यापच्त्यहेतोरपि शीलस्य ऋत्वर्थ- ... तया पुरुषार्थतया च सार्थक्यस्य समर्थनम् .. ५४५ मुख्य एव चरणशब्दः कर्मणीति बादरिमतम् ... ५४५ ३ अनिष्टादिकार्यधिकरणम् ५४६-५५२ अनिष्टादिकारिणामपि चन्द्रमण्डलप्राप्तिरिति पूर्व- पक्षः भोगायैव हि चन्द्रारोहणम्, न निष्प्रयोजनम्, नापि प्रत्यवरोहायैव; अनिष्टादिकारिणां च य- 9 मवश्यता श्रूयते ; अतो न सर्वे चन्द्रमसं ग- च्छन्ति इति सिद्धान्तः यमायत्तकर्मविपाकस्मृतेरुपन्यासः तृतीयस्थानसंकीर्तनेन असंपूरणमभिवदन् शब्दः अनारोहादेव असंपूरणं गमयेदिति अनिष्टादि- कारिणां चन्द्रगतेर्विघटनम् [ ४३ ] आहुतिसंख्या नियमाभिनिवेशस्य शिथिलीकरणम् ५५० ५५२-५५३ अवरोहतामाकाशादिभावस्य तत्सादृश्येन औपचा- ४. साभाव्यापत्त्यधिकरणम् रिकतया व्याख्यानम् ५. नातिचिराधिकरणम् ... ५५३-५५४ विना स्थूलशरीरं न सूक्ष्मशरीरे दुःखभागीति दुर्निष्पतरशब्दो विलम्बं लक्षयतीत्यतः व्रीह्या- दिभावापत्तेः प्राक् अल्पेनैव कालेन अवरोहस्य निर्धारणम् ६. अन्याधिष्ठिताधिकरणम् ... ५५४-५५८ 'अग्नीषोमीयं पशुमालभेत ' इति हि क्रतुप्रकरणे समाम्नातं क्रत्वर्थतामस्य गमयति, न त्वपनयति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुताम् - इति इष्टादिकारिणामनुशयिनां वर्षसादृश्यान- न्तरम् स्थावरजात्यापच्या स्थावरसुखदुःखभा- क्त्वमेव उचितमिति पूर्वपक्ष: कर्मव्यापारापरामर्शात् श्रीह्यादिभावो जातिस्थावरैः संश्लेषमात्रमिति सिद्धान्तः 'न हिंस्यात्' इति निषेधस्य पुरुषार्थहननमात्रविष- यकत्वसमर्थनेन आध्वरिकस्य कर्मणः शुद्धत्वो- पपादनम् [ ४४ ] यथा रेतःसिग्भावस्तद्योगः, एवं व्रीह्यादिभावो - sपि तद्योग एव इति प्रतिपादनम् सर्वत्रैवानुशयिनां संसर्गमात्रमिति शङ्काया निरा- करणार्थे 'योनेः शरीरम्' इत्युपन्यासेन चैरा- ग्यदृढीकरणपूर्वकं वैराग्यपर्यवसायिनः पादस्यो- पसंहार : ... ॥ ब्रह्मसूत्रभाष्यम् ॥ द्वितीयोऽध्यायः श्रीमच्छंकर भगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ द्वितीयाध्याये प्रथमः पादः ॐ ॥ द्वितीयोऽध्यायः ॥ Gourishunter Ganoriwala. प्रथमेऽध्याये - सर्वज्ञः सर्वेश्वरो जगतः उत्पत्तिकारणम, मृत्सुवर्णादय इव घटरुचका- दीनाम् ; उत्पन्नस्य जगतो नियन्तृत्वेन स्थि- तिकारणम्, मायावीव मायाया: ; प्रसारित- स्य जगतः पुनः स्वात्मन्येवोपसंहारकारणम्, अवनिरिव चतुर्विधस्य भूतग्रामस्य ; स एव च सर्वेषां न आत्मा-- इत्येतद्वेदान्तवाक्यसमन्वयप्रति- पादनेन प्रतिपादितम् ; प्रधानादिकारणवादाश्वाशब्दत्वेन नि- राकृताः । इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः प्रधा- नादिवादानां च न्यायाभासोपबृंहितत्वं प्रतिवेदान्तं च सृ- ष्टयादिप्रक्रियाया अविगीतत्वमित्यस्यार्थजातस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यते । तत्र प्रथमं तावत्स्मृतिविरोधमु- पन्यस्य परिहरति- S. W. II, 1 सूत्रभाष्ये [पा. १. स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्य- स्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥ यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम ; कुत: ? स्मृत्यनवकाशदोषप्रसङ्गात् — स्मृतिश्च तन्त्राख्या पर १. स्मृत्यधि - मर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनु- " " " करणम् । सारिण्यः स्मृतय:, ता एवं सत्यनवकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुप- निबध्यते । मन्वादिस्मृतयस्तावञ्च्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति - अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम् ईदृशश्चा- चारः, इत्थं वेदाध्ययनम् इत्थं समावर्तनम् इत्थं सह- धर्मचारिणीसंयोग इति ; तथा पुरुषार्थाश्चतुर्वर्णाश्रमधर्मान्नाना- विधान्विदधति । नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अव- काशोऽस्ति । मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येत । तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः । कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमि- त्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण सू. १.] द्वितीयोऽध्यायः । जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्र- णेतृकासु स्मृतिष्ववलम्बेरन ; तद्बलेन च श्रुत्यर्थे प्रतिपित्सेरन् ; अस्मत्कृते च व्याख्याने न विश्वस्युः, बहुमानात्स्मृतीनां प्रणे- तृषु; कपिलप्रभृतीनां चार्षे ज्ञानमप्रतिहतं स्मर्यते; श्रुतिश्च भवति 'ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' इति ; तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम; तर्कावष्टम्भेन च तेऽर्थे प्रतिष्ठापयन्ति; तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ॥ तस्य समाधिः - 'नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ' इति । यदि स्मृत्यनवकाशदोषप्रसङ्गनेश्वरकारणवाद आक्षि येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन् ; ता उदाहरिष्यामः - ' यत्तत्सूक्ष्ममविज्ञेयम्' इति परं ब्रह्म प्रकृत्य, 'स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ' इति चोक्त्वा, ' तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजस- त्तम' इत्याह; तथान्यत्रापि ' अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयते' इत्याह; ' अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराण: । स सर्गकाले च करोति सर्गे संहारकाले च तदत्ति भूय:' इति पुराणे; भगवद्गीतासु च - 'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा' इति ; परमात्मानमेव , सूत्रभाष्ये [पा. १. च प्रकृत्यापस्तम्बः पठति — ' तस्मात्कायाः प्रभवन्ति सर्वे " स मूलं शाश्वतिकः स नित्य: इति । एवमनेकश: स्मृति- satश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते । स्मृतिब- लेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं प्रवक्ष्यामीत्यतोऽयम- न्यस्मृत्यनवकाशदोषोपन्यासः । दर्शितं तु श्रुतीनामीश्वरका- रणवादं प्रति तात्पर्यम् विप्रतिपत्तौ च स्मृतीनामवश्यकर्त- व्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रत्यनुसारिण्यः स्मृत- यः प्रमाणम् ; अनपेक्ष्या इतरा : ; तदुक्तं प्रमाणलक्षणे-- 6 विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम' इति । न चाती- न्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभा- वयितुम, निमित्ताभावात्; शक्यं कपिलादीनां सिद्धाना- मप्रतिहतज्ञानत्वादिति चेत्, न; सिद्धेरपि सापेक्षत्वा- न्; धर्मानुष्ठानापेक्षा हि सिद्धि:, स च धर्मश्वोदनालक्ष- ण:; ततश्च पूर्वसिद्धायाश्रोदनाया अर्थो न पश्चिमसिद्ध- पुरुषवचनवशेनातिशङ्कितुं शक्यते; सिद्धव्यपाश्रयकल्पना- यामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्र- तिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति ; परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्कचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण सू. १ . ] द्वितीयोऽध्यायः । 6 तत्त्वाव्यवस्थानप्रसङ्गात्; तस्मात्तस्यापि स्मृतिविप्रतिपत्त्यु- पन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया । या तु श्रुति: कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तथा श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम्, कपिलमिति श्रुतिमामान्यमात्रत्वात्, अन्य- स्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात्, अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् । भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः - ' यद्वै किंच मनुग्वदत्तद्वेषजम्' इति मनुना च सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्य- मधिगच्छति' इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ; कपिलो हि न सर्वात्मत्वदर्शनमनु- मन्यते, आत्मभेदाभ्युपगमात् । महाभारतेऽपि च- 'ब- हवः पुरुषा ब्रह्मन्नुताहो एक एव तु' इति विचार्य, 'बहव: पुरुषा राजन्सांख्ययोगविचारिणाम्' इति परपक्ष- मुपन्यम्य तद्व्युदासेन– 'बहूनां पुरुषाणां हि यथैका योनिमुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधि- कम' इत्युपक्रम्य ' ममान्तरात्मा तव च ये चान्ये देहिसं- ज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्कचित् ॥ 6 सूत्रभाष्ये [पा. १. विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम् ' - इति सर्वात्मतैव निर्धा- रिता । श्रुतिश्च सर्वात्मतायां भवति - ' यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत: । तत्र को मोहः कः शोक एक- त्वमनुपश्यतः' इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पन- यापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचन- विरुद्धत्वं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम्, खेरिव रूपविषये; पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशदोषप्रसङ्गो न दोषः ॥ कुतश्च स्मृत्यनवकाशदोषप्रसङ्गो न दोष: ? - इतरेषां चानुपलब्धेः ॥ २ ॥ ' प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पि - तानि महदादीनि न तानि वेदे लोके चोपलभ्यन्ते । भूते- न्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् । अलो- कवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृति - रवकल्पते । यदपि कचित्तत्परमिव श्रवणमवभासते तदप्य- तत्परं व्याख्यातम्' आनुमानिकमप्येकेषाम्' इत्यत्र । का- सू. ३.] द्वितीयोऽध्यायः । र्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशदोषप्रसङ्गो दोषः । तर्कावष्टम्भं 'न विलक्षणत्वात्' इत्यारभ्योन्मथिष्यति ॥ तु एतेन योगः प्रत्युक्तः ॥ ३ ॥ एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्या- ता द्रष्टव्येत्यतिदिशति । तत्रापि श्रुतिविरोधेन प्रधानं स्वत- २. योगप्रत्युक्त्य न्त्रमेव कारणम, महदादीनि च कार्याण्य- धिकरणम् । लोकवेदप्रसिद्धानि कल्प्यन्ते । नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम् ; किमर्थं पुनरतिदिश्यते ? अस्ति ह्यत्राभ्यधिकाशङ्का - सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः — ' श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' इति ; 'त्रिरुन्नतं स्थाप्य समं शरीरम्' इत्यादिना चासनादिकल्प- नापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्य- ते; लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपल- भ्यन्ते –'तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ' इति, 'विद्यामेतां योगविधिं च कृत्स्नम्' इति चैवमादीनि ; योगशास्त्रेऽपि –'अथ तद्दर्शनाभ्युपायो योगः' इति सम्य- ग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते ; अतः संप्रतिपन्नार्थै- कदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्य- सूत्रभाष्ये [पा. १. तीति- इयमप्यधिका शङ्कातिदेशेन निवर्त्यते, अर्थैकदेशसं- प्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् । सती- ष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः; सांख्ययोगौ हि परमपुरुषार्थसाध- नत्वेन लोके प्रख्यातौ, शिष्टैश्व परिगृहीतौ, लिङ्गेन च श्र- तेनोपबृंहितौ- 'तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं - ; , मुच्यते सर्वपाशैः' इति ; निराकरणं तु न सांख्य स्मृतिज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति ; श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारय- ति—' तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते - ऽयनाय' इति द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्व- दर्शिनः । यत्त दर्शनमुक्तम् ' तत्कारणं सांख्ययोगाभिपन्नम इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्या- मभिप्येते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरु- ध्येते, तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् ; तद्यथा--- 'असङ्गो ह्ययं पुरुष:' इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ; तथा च यौगैरपि 'अथ परिब्राडिवर्णवासा मुण्डोऽपरिग्रहः' इत्येव - मादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुग- सू. ४.] द्वितीयोऽध्यायः ः । म्यते । एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ; तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत्, उपकुर्वन्तु नाम ; तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति — ' नावे - दविन्मनुते तं बृहन्तम् ' ' तं त्वौपनिषदं पुरुषं पृच्छामि इत्येवमादिश्रुतिभ्यः ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्या- क्षेप: स्मृतिनिमित्तः परिहृतः तर्कनिमित्त इदानीमाक्षेप: ३. नविलक्षणत्वा परिह्नियते । कुतः पुनरस्मिन्नवधारिते आ- , धिकरणम् । गमार्थे तर्कनिमित्तस्याक्षेपस्यावकाश: ? ननु धर्म इव ब्रह्मण्यप्यनपेक्ष आगमो भवितुमर्हति ; -- भवेद- वष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयोऽय- मर्थः स्यादनुष्ठेयरूप इव धर्मः परिनिष्पन्नरूपं तु ब्रह्मावग- म्यते ; परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु ; यथा च श्रुतीनां च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिनियेत; दृष्टसाधर्म्येण चादृष्टमर्थ समर्प- यन्ती युक्तिरनुभवस्य संनिकृष्यते, विप्रकृष्यते तु श्रुतिः, सूत्रभाष्ये [पा. १. ऐतिह्यमात्रेण स्वार्थाभिधानात् ; अनुभवावसानं च ब्रह्मवि- ज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेध्यते ; श्रुतिरपि — ' श्रोतव्यो मन्तव्यः' इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ; अतस्तर्कनि- मित्तः पुनराक्षेपः क्रियते ' न विलक्षणत्वादस्य ' इति ॥ - यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नो- पपद्यते ; कस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्या:- इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतन- मशुद्धं च दृश्यते ; ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ; न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः ; न हि रुचकायो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः ; मृदैव तु मृदन्विता विकाराः प्रक्रियन्ते, सुवर्णेन च सुवर्णान्विताः; तथेदमपि जगदचेतनं सुखदु:- खमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कार- स्य कार्य भवितुमर्हति न विलक्षणस्य ब्रह्मणः । ब्रह्मविल- क्षणत्वं चास्य जगतोऽशुद्धयचेतनत्वदर्शनादवगन्तव्यम्- अशुद्धं हीदं जगत् सुखदुःखमोहात्मकतया प्रतीयते, प्रीतिप- रितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ; अचे- तनं चेदं जगत् चेतनं प्रति कार्यकारणभावेनोपकरणभावो- सू. ४.] द्वितीयोऽध्यायः । पगमात्; न हि साम्ये सत्युपकार्योपकारकभावो भवति ; न हि प्रदीप परस्परस्योपकुरुत: । ननु चेतनमपि कार्यका- रणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति न स्वामिभृ- त्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ; यो कस् चेतनस्य परिग्रहो बुद्धयादिरचेतनभागः स एवान्यस्य चेत- नस्योपकरोति, न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्य- पकरोति वा ; निरतिशया कर्तारश्चेतना इति सांख्या मन्य- न्ते; तस्मादचेतनं कार्यकारणम् । न च काष्ठलेोष्टादीनां चेतनत्वे किंचित्प्रमाणमस्ति ; प्रसिद्धश्चायं चेतनाचेतनविभा- गो लोके । तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् । यो- ऽपि कश्चिदाचक्षीत — श्रुत्या जगतश्चेतनप्रकृतिकताम्, तद्व- लेनैव समस्तं जगश्चेतनमवगमिष्यामि, प्रकृतिरूपस्य विकारे- ऽन्वयदर्शनात्; अविभावनं तु चैतन्यस्य परिणामविशेषाद्ध- विष्यति ; यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्था- सु चैतन्यं न विभाव्यते, एवं काष्टलोष्टादीनामपि चैतन्यं न विभावयिष्यते एतस्मादेव च विभावितत्वाविभावितत्व- कृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते; यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो 1 सूत्रभाष्ये [ पा. १ . विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यति ; प्रविभागप्रसिद्धिरण्यत एव न विरोत्स्यत इति -- तेनापि क- थंचिच्चेतनत्वाचेतनत्वलक्षणं विलक्षणत्वं परिहियेत ; शुद्धय- शुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिहियते । न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति ; अनवगम्यमानमेव हीदं लोके ममस्तस्य वस्तुनश्चेतनत्वं चे- तनप्रकृतिकत्व श्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत; तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते ; तथा- त्वमिति प्रकृतिविलक्षणत्वं कथयति ; शब्द एव ' विज्ञानं चाविज्ञानं च' इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्वेत- नाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ननु चेतनत्वमपि कचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते -- यथा ' मृदब्रवीत्' 'आपोऽब्रुवन' इति ' तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' इति चैवमाद्या भूतविषया चे- तनत्वश्रुति:; इन्द्रियविषया अपि - ' ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः' इति, 'ते ह वाचमूचुस्त्वं न उद्गायेति' इत्येवमाद्येन्द्रियविषयेति । अत उत्तरं पठति--- अभिमानिव्यपदेशस्तु विशेषा- नुगतिभ्याम् ॥ ५ ॥ सू. ५.] द्वितीयोऽध्यायः । तु-शब्द आशङ्कामपनुदति । न खलु ' मृदब्रवीत्' इत्येवं- जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम्, यतो ऽभिमानिव्यपदेश एषः ; मृदाद्यभिमानिन्यो वागाद्यभिमा- निन्यश्च चेतनादेवता वदनसंवदनादिषु चेतनोचितेषु व्यव- हारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम ; कस्मान्न ? विशे- पानुगतिभ्याम् -- विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षण: प्रागभिहितः; सर्वचेतनतायां चासौ नोपपद्येत ; अपि च कौषीतकिनः प्राणसंवादे करण- मात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति -- ' एता ह वै देवता अहंश्रेयसे विवदमाना: ' इति, 'ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा ' इति च ; अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रा- र्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते- 'अग्निर्वाग्भूत्वा मुखं प्राविशत्' इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देव- तामनुगतां दर्शयति ; प्राणसंवादवाक्यशेषे च ' ह प्राणाः प्रजापतिं पितरमेत्योचुः' इति श्रेष्ठत्व निर्धारणाय प्रजापतिगमनम्, तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठयप्रतिपत्तिः, तस्मै बलिहरणम् इति चैवजातीयको- ऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानित्र्यपदेशं द्रढ- सूत्रभाष्ये [पा. १. यति ; ' तत्तेज ऐक्षत' इत्यपि परस्या एव देवताया अधि- ष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् । तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत्; विलक्षण- त्वाच न ब्रह्मप्रकृतिकमित्याक्षिप्ते, प्रतिविधत्ते- दृश्यते तु ॥ ६ ॥ तु - शब्द: पक्षं व्यावर्तयति । यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकम् इति, नायमेकान्तः ; दृश्यते हि लोके - चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखा- दीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरी- राण्यचेतनानां गोमयादीनां कार्याणीति ; उच्यते — एवमपि किंचिदचेतनं चेतनस्यायतनभावमुपगच्छति किंचिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिक : स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च रूपादिभेदात् तथा गोम- यादीनां वृश्विकादीनां च । अत्यन्तसारूप्ये च प्रकृति- विकारभाव एव प्रलीयेत । अथोच्येत -- अस्ति कवि- त्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्त- मानो गोमयादीनां च वृश्चिकादिष्विति ब्रह्मणोऽपि तर्हि " सू. ६.] द्वितीयोऽध्यायः । सत्तालक्षण: स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते । विल- क्षणत्वेन च कारणेन ब्रह्मप्रकृतिकत्वं जगतो दूषयता किमशे- षस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित् ? अथ चैतन्यस्येति वक्तव्यम् — प्रथमे विकल्पे समस्तप्रकृतिविकार भावोच्छेदप्रसङ्गः ; न ह्यसत्यतिशये प्रकृ- तिविकारभाव इति भवति । द्वितीये चासिद्धत्वम् ; दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभाव: ; किं हि यच्चैतन्येनानन्वितं तद- ब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मकारणवादिनं प्रत्युदाहियेत, सम- स्तस्यास्य वस्तुजातस्य ब्रह्मप्रकृतिकत्वाभ्युपगमात् । आगम- विरोधस्तु प्रसिद्ध एव, चेतनं ब्रह्म जगतः कारणं प्रकृति- त्यागमतात्पर्यस्य प्रसाधितत्वात् । यत्तूक्तं परिनिष्पन्नत्वाद्र- ह्मणि प्रमाणान्तराणि संभवेयुरिति, तदपि मनोरथमात्त्रम् ; रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षस्य गोचर: ; लिङ्गाद्यभावाश्च नानुमानादीनाम् ; आगममात्रसमधिगम्य एव त्वयमर्थो ध- र्मवत् ; तथा च श्रुतिः- नैषा तर्केण मतिरापनेया प्रोक्ता- सुज्ञानाय प्रेष्ठ' इति ; ' को अद्धा वेद क इह प्रवो- चत्' 'इयं विसृष्टिर्यत आबभूव' इति चैते ऋचौ निजसिद्धा- नामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः; स्मृतिरपि न्येनैव सूत्रभाष्ये [पा. १. भवति — ' अचिन्त्याः खलु ये भावा न ताँस्तर्केण योजयेत्' इति, 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ' इति च. 'न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिहिं देवानां महर्षीणां च सर्वशः' इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छन्द एवं तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम, नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभ: सं- भवति श्रुत्यनुगृहीत एव त्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते- स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वाग- तत्वम्, संप्रसादे च प्रपञ्च परित्यागेन सदात्मना संपत्ते निष्प्र- पञ्चसदात्मकत्वम्, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्य- त्वन्यायेन ब्रह्माव्यतिरेकः -- इत्येवंजातीयकः; तर्काप्रति - ष्ठानादिति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चैतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रे- क्षेत्र, तस्यापि ' विज्ञानं चाविज्ञानं च' इति चेतनाचेतन- विभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम । परस्यैव त्विदमपि विभागश्रवणं न युज्यते कथम् ? परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्रव्यते- - ' विज्ञानं चाविज्ञानं चाभवत्' इति ; तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात् एवमचेतन- सू. ७.] द्वितीयोऽध्यायः । म्यापि चेतनाभावो नोपपद्यते । प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति ॥ अमदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ अस- यदि चेतनं शुद्धं शब्दादिहीनं च ब्रह्म तद्विपरीतम्याचे- तनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, तर्हि कार्य प्रागुत्पत्तेरिति प्रसज्येत ; अनिष्टं चैतत्सत्कार्य - वादिनस्तवेति चेन -- नैष दोषः प्रतिषेधमात्रत्वात् प्रति- " धमात्रं हीदम; नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति ; न ह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति । कथम् ? यथैव हीदानीमपीदं कार्य कारणात्मना सत्, एवं प्रागुत्पत्तेरपीति गम्यते ; न हीदानीमपीदं कार्य कारणा- त्मानमन्तरेण स्वतन्त्र मेवास्ति — सर्व तं परादाद्योऽन्य- चात्मनः सर्वे वेद' इत्यादिश्रवणात् कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेर विशिष्टम् । ननु शब्दादिहीनं ब्रह्म जगत: बाढम् - न तु शब्दादिमत्कार्य कारणात्मना कारणम- ---- ' हीनं प्रागुत्पत्तेरिदानीं वा अस्ति; तेन न शक्यते वक्तुं प्रा- गुत्पत्तेरसत्कार्यमिति । विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ S. W. II. 2 सूत्रभाष्ये [पा. १- अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥ अवाह -- यदि स्थौल्य सावयवत्त्वाचेतनत्वपरिच्छिन्न- त्वाशुद्धयादिधर्मकं कार्य ब्रह्मकारणकमभ्युपगम्येत, तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्य कारणाविभागमापद्यमानं कार- मात्मीयेन धर्मेण दूषयेदिति - अपीतौ कारणस्यापि ब्रह्मण: कार्यस्येवाशुद्धयादिरूपताप्रसङ्गात् सर्वज्ञं ब्रह्म जगत: का- रणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् । अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृ- भोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् । अपि च भोक्तृणां परेण ब्रह्मणा अविभागं गतानां कर्मादिनिमित्तप्र- लयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरु- त्पत्तिप्रसङ्गादसमञ्जसम् । अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतिश्च न संभवति कारणा- व्यतिरिक्तं च कार्य न संभवतीत्यसमञ्जसमेवेति ॥ अत्रोच्यते- न तु दृष्टान्तभावात् ॥ ९ ॥ नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्ति । यत्तावद - भिहितम् — कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण सू. ९.] द्वितीयोऽध्यायः । दूषयेदिति, न तद्दूषणम ; कस्मात् ? दृष्टान्तभावात् — सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्य कारणमात्मीयेन धर्मेण न दूषयति ; तद्यथा - शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावच मध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति; रुचकादयश्च सुवर्णविकारा अपीतौ न पुनः सुवर्णमात्मीयेन धर्मेण संसृजन्ति; पृथिवी विकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति; त्वत्पक्षस्य तु न कश्चिदृष्टान्तोऽस्ति; अपीतिरेव हि न संभवेत्, यदि कारणे कार्य स्वधर्मेणैवावतिष्ठेत ; अनन्यत्वेऽपि कार्यकार- णयोः, कार्यस्य कारणात्मत्वम्, न तु कारणस्य कार्यात्मत्वम् 'आरम्भणशब्दादिभ्यः' इत्यत्र वक्ष्यामः । अत्यल्पं चेद- मुच्यते-कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ; स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वा- भ्युपगमात्; 'इदं सर्वं यद्यमात्मा' 'आत्मैवेदं सर्वम्' ब्रह्मैवेदममृतं पुरस्तात् ' ' सर्व खल्विदं ब्रह्म' इत्येवमा- द्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कार- णादनन्यत्वं श्राव्यते ; तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तै: कारणं संसृज्यत इति, अपीता - ' सूत्रभाष्ये [ पा. १. वपि स समानः । अस्ति चायमपरो दृष्टान्तः- यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृ- , श्यते-- अवस्तुत्वात् एवं परमात्मापि संसारमायया न संस्पृश्यत इति; यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसंप्रसादयोरनन्वागतत्वात् एवमवस्था- त्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृ- श्यते ; मायामात्रं ह्येतत्, यत्परमात्मनोऽवस्थात्रयात्मनावभा- सनम्, रज्ज्वा इव सर्पादिभावेनेति ; अत्रोक्तं वेदान्तार्थसंप्रदा- यविद्भिराचार्यै:- ' अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वनमद्वैतं बुध्यते तदा' इति ; तत्र यदुक्तमपी- तौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतद्- युक्तम् । यत्पुनरेतदुक्तम् — समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमध्य- दोषः, दृष्टान्तभावादेव - यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्व- वत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति ; श्रु- तिश्चात्र भवति --{ इमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति, त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्य- सू. १०.] द्वितीयोऽध्यायः । द्भवन्ति तदा भवन्ति' इति ; यथा ह्यविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थि- तौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागश- तिरनुमास्यते । एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् । यः पुनरयमन्ते- sपरो विकल्प उत्प्रेक्षितः अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति सोऽप्यनभ्युपगमादेव प्रतिषिद्धः । तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ स्वपक्षदोषाच्च ॥ १० ॥ स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः ; कथमित्युच्यते-- यत्तावदभिहितम्, विलक्षणत्वाभेदं जगहू- ह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत् श- ब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् ; अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्ते - रसत्कार्यवादप्रसङ्गः; तथापीतौ कार्यस्य कारणाविभागाभ्यु- पगमात्तद्वत्प्रसङ्गोऽपि समान: ; तथा मृदितसर्वविशेषेषु वि- कारेष्वपीतावविभागात्मतां गतेषु इदमस्य पुरुषस्योपादान- मिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात्; विनैव च सूत्रभाष्ये ' [पा. १. कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्ताना- मपि पुनर्बन्धप्रसङ्गः ; अथ केचिद्भेदा अपीतावविभागमाप- द्यन्ते केचिन्नेति चेत् —ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोति -- इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पश्ले चोदयितव्या भवन्तीति — अदोषतामेवैषां द्रढयति-- अव- श्याश्रयितव्यत्वात् ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥ इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् ; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात्; तथा हि — कैश्चिदभि- युक्तैर्यनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्य- ते; तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रति- ष्ठितत्वं तर्काणां शक्यमाश्रयितुम्, पुरुषमतिवैरूप्यात् । अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा संमत- स्तर्कः प्रतिष्ठित इत्याश्रीयेत एवमप्यप्रतिष्ठितत्वमेव प्र- सिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्र- भृतीनां परस्परविप्रतिपत्तिदर्शनात् । अथोच्येत - अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति ; न हि ------ सू. ११.] द्वितीयोऽध्यायः । प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम्; एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषांचित्तकणा- मप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रति- ष्ठितत्वकल्पनात्; सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेद- प्रसङ्गः ; अतीतवर्तमानाध्वसाम्येन ह्यनागतेऽप्यध्वनि सुख- दुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते; श्रुत्यर्थवि- प्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ; मनुरपि चैवमेव मन्यते- 'प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम । त्रयं सुविदितं कार्य धर्मशुद्धिमभीप्सता' इति । 'आर्ष धर्मोपदेशं च वेद- शास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतर: ' इति च ब्रुवन्; अयमेव च तर्कस्यालंकारः —— यदप्रतिष्ठितत्वं नाम; एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रति- पत्तव्यो भवति ; न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किंचिदस्ति प्रमाणम् ; तम्मान्न तर्का- प्रतिष्ठानं दोष इति चेत् एवमप्यविमोक्षप्रसङ्गः ; यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ; न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्त- - सूत्रभाष्ये [ पा. १. रेणोत्प्रेक्षितुमपि शक्यम्; रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम । अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युप- गमः ; तच्च सम्यग्ज्ञानमेकरूपम्, वस्तुतन्त्रत्वात्; एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः ; लोके तद्विषयं ज्ञानं सम्य- ज्ञानमित्युच्यते यथाग्निरुष्ण इति तत्रैवं सति सम्य- ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ; तर्कज्ञानानां त्वन्यो- न्यविरोधात्प्रसिद्धा विप्रतिपत्तिः; यद्धि केनचित्तार्किकेणे- दमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम्, तदपरेण व्युत्थाप्यते; तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके; कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकै : परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ; न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम्, येन तन्मतिरेकरूपैकार्थविषया सम्यङ्य- तिरिति स्यात्; वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्य- क्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपहोतुमशक्यम् ; अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ; अतो- सू. १२.] द्वितीयोऽध्यायः । ३०५ ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥ - " वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वे- दानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्र- ४. शिष्टापरिग्रहा - धानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनि- धिकरणम् । मित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृत: ; इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमति- भिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्कयत इत्यतः प्रधानमल्ल निबर्हणन्यायेनातिदिशति परिगृह्यन्त इति परिप्र- हा:; न परिग्रहाः अपरिग्रहाः; शिष्टानामपरिग्रहाः शिष्टापरि- ग्रहाः; एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन; शि- टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादि- कारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्ट- व्याः; तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किं- चिदस्ति; तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कान- वगाह्यत्वम्, तर्कस्य चाप्रतिष्ठितत्वम्, अन्यथानुमानेऽप्यवि- मूत्रभाष्ये [पा. ९. मोक्षः, आगमविरोधश्च -- इत्येवं जातीयकं निराकरणकार- गम् ॥ भोक्त्रापत्तेरविभागश्चेत्स्या- लोकवत् ॥ १३ ॥ " " ; अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते । यद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विषया- ५. भोक्त्रापत्त्य- पहारेऽन्यपरा भवितुमर्हति यथा मत्रा - धिकरणम् । र्थवादौ तर्कोऽपि स्वविषयादन्यत्राप्रति- ; ष्ठितः स्यात् यथा धर्माधर्मयोः ; किमतः, यद्येवम् ? अत इदमयुक्तम्, यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः कथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इति, अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके - भोक्ता चेतन: शारीरः, भोग्याः शब्दादयो विषया इति ; यथा भोक्ता देवदत्तः, भोग्य ओदन इति ; तस्य च विभागस्याभाव: प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृ- भावमापद्येत; तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो- ऽनन्यत्वात्प्रसज्येत न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् ; यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः, तीतानागतयोरपि कल्पयितव्यः; तस्मात्प्रसिद्धस्यास्य भो- तथा- सू. १४.] द्वितीयोऽध्यायः । " क्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधा- रणमिति चेत्कश्विश्चोदयेत् तं प्रति श्रूयात् — स्याल्लो- कवदिति । उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात् । तथा हि- समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इत- रेतरासंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते ; न च समुद्रा- दुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरे- तरभावापत्तिर्भवति ; न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति; एवमिहापि न भोक्तभोग्य- योरितरेतरभावापत्तिः, न च परस्माद्ब्रह्मणोऽन्यत्वं भविष्य- ति । यद्यपि भोक्ता न ब्रह्मणो विकार: ' तत्सृष्ट्वा तदेवानु- प्राविशत्' इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्व- श्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो वि - भाग आकाशस्येव घटाद्युपाधिनिमित्तः इत्यतः परमका- रणाद्ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभाग: समुद्रतरङ्गादिन्यायेनेत्युक्तम् ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभा- गम् ' स्याल्लोकवत्' इति परिहारोऽभिहितः ; न त्वयं विभागः ; सूत्रभाष्ये [पा. १ परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवग- ६. आरम्भणा- म्यते । कार्यमाकाशादिकं बहुप्रपश्यं जगत्; 1 धिकरणम् । कारणं परं ब्रह्म तस्मात्कारणात्परमार्थ- तोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते ; कुत: ? आर- म्भणशब्दादिभ्यः । आरम्भणशब्दस्तावदेकविज्ञानेन सर्ववि- ज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- 'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातः स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति ; एतदुक्तं भवति -- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्व मृन्मयं घट- शरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्; यतो वाचारम्भणं विकारो नामधेयम् — वाचैव केवलमस्तीत्यारभ्य- ते -- विकार: घटः शराव उदञ्चनं चेति ; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ; नामधेयमात्रं ह्येतदनृतम् ; मृत्ति - केत्येव सत्यम् -- इति एष ब्रह्मणो दृष्टान्त आम्नातः ; तत्र श्रुताद्वाचारम्भणशब्दाद्दान्तिकेऽपि ब्रह्मव्यतिरेकेण कार्य- जातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्मकार्यता- मुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- 'अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्' इत्यादिना । आरम्भणशब्दादिभ्य इत्या- सू. १४.] द्वितीयोऽध्यायः । दिशब्दात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्व- मसि' ' इदं सर्वं यदयमात्मा' ' ब्रह्मैवेदं सर्वम् ' ' आत्मैवेदं सर्वम्' 'नेह नानास्ति किंचन' इत्येवमाद्यप्यात्मैकत्वप्रतिपाद- नपरं वचनजातमुदाहर्तव्यम् ; न चान्यथा एकविज्ञानेन सर्व- विज्ञानं संपद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशा- दनन्यत्वम्, यथा च मृगतृष्णि कोदकादीनामूषरादिभ्योऽन- न्यत्वम्, दृष्टनष्टस्वरूपत्वात स्वरूपेण त्वनुपाख्यत्वात्; एव- मस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ॥ नन्वनेकात्मकं ब्रह्म; यथा वृक्षोऽनेकशाखः, एवमनेक- शक्तिप्रवृत्तियुक्तं ब्रह्म; अत एकत्वं नानात्वं चोभयमपि सत्यमेव - यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वम् ; यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम्, यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ; तत्रै- कत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति ; नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति; एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात्- ' मृत्तिकेत्येव सत्यम्' इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वाव- धारणात, वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधा- सूत्रभाष्ये [पा. १. नात्, दार्शन्तिकेऽपि ' ऐतदात्म्यमिदं सर्वं तत्सत्यम्' इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात्, 'स आत्मा तत्त्वमसि श्वेतकेतो' इति च शारीरस्य ब्रह्मभावोपदेशात; स्वयं प्रसिद्धं ह्येतच्छारीरस्य ब्रह्मात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम् ; अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमभ्युपगम्यमानं स्वाभाविकम्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादि- बुद्धीनाम् ; बाधिते च शारीरात्मत्वे तदाश्रयः समस्त: स्वा- भाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशो - ." Sपरो ब्रह्मणः कल्प्येत; दर्शयति च यत्र त्वस्य सर्वमात्मै- वाभूत्तत्केन कं पश्येत्' इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति सम- स्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम ; न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयते इति युक्तं व- क्तुम्, 'तत्त्वमसि' इति ब्रह्मात्मभावस्यानवस्थाविशेषनि- बन्धनत्वात्; तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमा- थिंकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम् ; उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृ- ताभिसंध इत्युच्यते ? ' मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति च भेददृष्टिमपवदन्तदेव दर्शयति ; सू. १४.] द्वितीयोऽध्यायः । न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञाना- पनोगस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युप- गमान ; उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्व- ज्ञानमपनुद्यत इत्युच्यते । नन्वेकत्वैकान्ताभ्युपगमे नानात्वा- भावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि ; तथा वि- धिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत; मो क्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्या- घातः स्यान् कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मै- कत्वस्य सत्यत्वमुपपद्येतेति । अत्रोच्यते-- नैष दोष:, सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः स्व- प्र व्यवहारस्येव प्राग्बोधान्; यावद्धि न सत्यात्मैकत्वप्रतिप- त्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्य- चिदुत्पद्यते ; विकारानेव तु ' अहम्' 'मम' इत्यविद्यया आ- त्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकी ब्रह्मा- त्मतां हित्वा ; तस्मात्प्राग्ब्रह्मात्मताप्रबोधादुपपन्न: सर्वो लौकिको वैदिकश्च व्यवहारः- : --- यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्रे उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात् न च प्रत्यक्षाभासाभिप्रायस्त- , सूत्रभाष्ये [पा. १. त्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पेण दष्टो म्रियते ; नापि मृगतृष्णिकाम्भसा पानावगाह्नादिप्रयोजनं क्रियत इति । नैष दोषः, शङ्काविषादिनिमित्तमरणादिका- र्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिका- र्यदर्शनात् ; तत्कार्यमप्यनृतमेवेति चेद्रूयात्, तत्र ब्रूमः -- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृ- तम्, तथापि तदवगतिः सत्यमेव फलम् प्रतिबुद्धस्याप्य- बाध्यमानत्वात् ; न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनो- दकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्म- वादो दूषितो वेदितव्यः । तथा च श्रुतिः - ' यदा कर्मसु काम्येषु स्त्रियं स्वप्रेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मि - स्वप्रनिदर्शने ' इत्यसत्येन स्वप्नदर्शनेन सत्यायाः फलसमृद्धेः प्राप्तिं दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु 'न चिरमिव जीविष्यतीति विद्यात्' इत्युक्त्वा यः स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति' इत्या- दिना तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत इति दर्शयति ; प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामी- " अथ सू. १४.] द्वितीयोऽध्यायः । " दृशेन स्वप्रदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति; तथा अकारादिसत्याक्षर प्रतिपत्तिर्दृष्टा रेखानृताक्षरप्र- तिपत्तेः । अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपाद- कम् -- नातः परं किंचिदाकाङ्क्षयमस्ति ; यथा हि लोके यजेतेत्युक्ते, किम् ? केन ? कथम् ? इत्याकाङ्क्षयते ; नैवं 'तत्त्वमसि' ' अहं ब्रह्मास्मि' इत्युक्ते, किंचिदन्यदा- काङ्क्षयमस्ति -- सर्वात्मैकत्वविषयत्वादवगतेः; सति न्य- स्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात्; न त्वात्मैकत्वव्य- तिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति य आकाक्ष्येत । न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम, ' तद्धास्य विजज्ञौ ' इत्यादिश्रुतिभ्यः, अवगतिसाधनानां च श्रवणादीनां वेदा- नुवचनादीनां च विधीयमानत्वात् । न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम्; अविद्यानिवृत्तिफलदर्शनात्, बाध- कज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्माद- न्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्रह्मकल्पनावकाशो- ऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्धा शास्त्रस्या- भिमतमिति गम्यते ; परिणामिनो हि मृदादयोऽर्था लोके S. W. II, 3 " सूत्रभाष्ये , 7 [पा. १९५९ समधिगता इति । नेत्युच्यते — 'स वा एष महानज आ- त्माजरोऽमरोऽमृतोऽभयो ब्रह्म स एष नेति नेत्यात्मा 'अस्थूलमनणु' इत्याद्याभ्य: सर्वविक्रियाप्रतिषेधश्रुतिभ्यः, ब्रह्मणः कूटस्थत्वावगमात् ; न ह्येकस्य ब्रह्मण: परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम्; स्थितिगतिवत्स्यादिति चेन, न; कूटस्थस्येति विशेषणात् न हि कूटस्थस्य ब्रह्मण: मिथ- तिगतिवदनेकधर्माश्रयत्वं संभवति ; कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिपेधादित्यवोचाम ; न च यथा ब्रह्मण आत्मैक- त्वदर्शनं मोक्षसाधनम् एवं जगदाकारपरिणामित्वदर्शन- मपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावान; कूटस्थब्रह्मात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम - ' स एष नेति नेत्यात्मा' इत्युपक्रम्य ' अभयं वै जनक प्रा- प्रोऽसि' इत्येवं जातीयकम् । तत्रैतत्सिद्धं भवति -- ब्रह्मप्रक- रणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्याम, यत्त- त्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि, तद्ब्रह्मदर्श- नोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमिति - वत् ; न तु स्वतन्त्रं फलाय कल्प्यत इति । न हि परिणामव- त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम, कूटस्थ नित्यत्वान्मोक्षस्य । ननु कूटस्थब्रह्मात्मवादिन एकत्वका- सूः १४.] द्वितीयोऽध्यायः । न्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत्, न अविद्यात्मक नामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञ- त्वस्य । तस्माद्वा एतस्मादात्मन आकाश: संभूत:' इत्या- दिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वरा- ज्जगज्जनिस्थितिप्रलया:, नाचेतनात्प्रधानादन्यस्माद्वा -- इत्ये षोऽर्थः प्रतिज्ञात:--' जन्माद्यस्य यत: ' इति ; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते । कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ? शृणु यथा नो- च्यते - सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्ये- श्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते; ताभ्यामन्यः सर्वज्ञ ईश्वर:, ' आकाशो वै नाम नाम- रूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म' इति श्रुतेः, 'नामरूपे व्याकरवाणि ' ' सर्वाणि रूपाणि विचित्य धीरो नामानि 'एकं बीजं बहुधा यः करोति ' एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटक रकाद्युपाध्यनुरोधि ; स च स्वात्मभूता- नेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्य- करणसंघातानुरोधिनो जीवाख्यान्विंज्ञानात्मनः प्रतीष्टे व्य कृत्वाभिवदन्यदास्ते' इत्यादिश्रुतिभ्यश्च ; सूत्रभाष्ये [पा. १. वहारविषये; तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्ष मेवेश्वरस्ये- श्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यया अपा- स्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्य सर्वज्ञत्वादिव्यव-. हार उपपद्यते ; तथा चोक्तम - ' यत्र नान्यत्पश्यति नान्यच्छृ- णोति नान्यद्विजानाति स भूमा' इति ; ' यत्र त्वस्य सर्वमात्मै- वाभूत्तत्केन कं पश्येत्' इत्यादिना च; एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे ; तथेश्वरगीतास्व- पि— 'न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते' 'नादत्ते कस्यचित्पा- पं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव:' इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहा राभाव: प्रदश्यते ; व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरा- दिव्यवहारः - ' एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय' इति ; तथा चेश्वरगी- तास्वपि - 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रा- मयन्सर्वभूतानि यन्त्रारूढानि मायया' इति सूत्रकारो- Sपि परमार्थाभिप्रायेण ' तदनन्यत्वम्' इत्याह; व्यवहारा- भिप्रायेण तु 'स्याल्लोकवत्' इति महासमुद्रादिस्थानीयतां ब्रह्म- णः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चा- सू. १५.] द्वितीयोऽध्यायः । श्रयति -- सगुणेषूपासनेषूपयोक्ष्यत इति ॥ भावे चोपलब्धेः ॥ १५ ॥ इतश्व कारणादनन्यत्वं कार्यस्य यत्कारणं भाव एव का- रणस्य कार्यमुपलभ्यते, नाभावे; तद्यथा— सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पट: ; न च नियमेनान्यभावे- ऽन्यस्योपलब्धिर्दृष्टा ; न ह्यश्वो गोरन्य: सन्गोर्भाव एवोपल- भ्यते ; न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमि- त्तनैमित्तिकभावेऽन्यत्वात् । नन्वन्यस्य भावेऽप्यन्यस्योपल- ब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति ; नेत्युच्यते- उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमा - नत्वात् । अथ धूमं कयाचिदवस्थया विशिष्यात् ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्विदोषः ; तद्भावानुर- तां हि बुद्धि कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः; न चासावग्निधूमयोर्विद्यते । भावाश्चोपलब्धेः - इति वा सूत्र- म् । न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम्, प्रत्यक्षोपल- विधभावाच्च तयोरनन्यत्वमित्यर्थः ; भवति हि प्रत्यक्षोपल- ब्धिः कार्यकारणयोरनन्यत्वे ; तद्यथा-- तन्तुसंस्थाने पटे त- न्तुव्यतिरेकेण पटो नाम कार्य नैवोपलभ्यते, केवलास्तु त न्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वं- । सूत्रभाष्ये " [पा. १. शव:, अंशुषु तदवयवा: । अनया प्रत्यक्षोपलब्ध्या लोहित- शुक्लकृष्णानि त्रीणि रूपाणि ततो वायुमात्रमाकाशमात्रं चे- त्यनुमेयम्, ततः परं ब्रह्मैकमेवाद्वितीयम्; तत्र सर्वप्रमाणा- नां निष्ठामवोचाम ॥ 6 1. सत्त्वाच्चावरस्य ॥ १६ ॥ इतश्च कारणात्कार्यस्यानन्यत्वम, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते- सदेव सोम्येदमग्र आसीत् ' ' आत्मा वा इदमेक एवाग्र आसीत्' इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामा- नाधिकरण्यात्; यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्प- द्यते, यथा सिकताभ्यस्तैलम् ; तस्मात्प्रागुत्पत्तेरनन्यत्वादु- त्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्य - मपि जगत्रिषु कालेषु सत्त्वं न व्यभिचरति ; एकं च पुनः सत्त्वम् ; अतोऽप्यनन्यत्वं कारणात्कार्यस्य ॥ असह्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्य- शेषात् ॥ १७ ॥ ननु कचिदसत्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति सू. १८. ] श्रुति:- द्वितीयोऽध्यायः । , '३१९ 'असदेवेदमग्र आसीत्' इति, 'असद्वा इदमग्र आसीत्' इति च ; तस्मादसव्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् — नेति ब्रूमः ; न ह्ययमत्यन्तासत्त्वाभिप्रा- येण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेश: ; किं तर्हि, व्याकृतनाम- रूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरमं तेन धर्मान्तरे - णायमसव्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणा- नन्यस्य; कथमेतदवगम्यते ? वाक्यशेषात । यदुपक्रमे सं- दिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ; इह च तावत् ' असदेवे- दमग्र आसीन' इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्, तदेव पुन- स्तच्छब्देन परामृश्य, सदिति विशिनष्टि - 'तत्सदासीत् ' इति — असतश्च पूर्वापरकालासंबन्धात् आसीच्छब्दानुप- पत्तेश्च ----- - ; असद्वा इदमग्र आसीत्' इत्यत्रापि ' तदात्मानं स्वयमकुरुत' इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ; तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ; नाम- रूपव्याकृतं हि वस्तु सच्छन्दार्ह लोके प्रसिद्धम; अतः प्रङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥ युक्तेः शब्दान्तराच्च ॥ १८ ॥ युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणा- दवगम्यते, शब्दान्तराच्च ॥ सूत्रभाष्ये [पा. १. युक्तिस्तावद्वर्ण्यते-- दधिघटरुचकाद्यर्थिभिः प्रतिनिय- तानि कारणानि क्षीरमृत्तिका सुवर्णादीन्युपादीयमानानि लो- के दृश्यन्ते ; न हि दध्यार्थिभिर्मृत्तिकोपादीयते, न घटार्थिभि: क्षीरम् ; तदसत्कार्यवादे नोपपद्येत ; अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिका- या: ? मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् ? अथा- विशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे —— इत्युच्येत --- अतस्तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्का- वादहानि:, सत्कार्यवादसिद्धिश्च ; शक्तिश्च कारण कार्य - नियमार्था कल्प्यमाना नान्या असती वा कार्य नियच्छेत्, असत्वाविशेषादन्यत्वाविशेषाच्च तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम् । अपि च कार्यकारणयोर्द्रव्यगु- णादीनां चाश्वमहिषवद्भेदबुद्धयभावात्तादात्म्यमभ्युपगन्तव्य- म्; समवायकल्पनायामपि, समवायस्य समवायिभि: संब- न्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः संबन्धः कल्पयित - व्य इत्यनवस्थाप्रसङ्गः, अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः: अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं सं- बध्येत, संयोगोऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं ; सू. १८. ] द्वितीयोऽध्यायः । समवायं संबध्येत; तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवा- यकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववय- वद्रव्येषु वर्तमानं वर्तते ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुप- लब्धि: प्रसज्येत, समस्तावयव संनिकर्षस्याशक्यत्वात् ; न हिं बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते ; अ थावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणा- वयविनोऽवयवाः कल्प्येरन्, यैरारम्भकेष्ववयवेष्ववयवशो- Sarai वर्तेत ; कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्या- मोति ; अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयंवेषु वर्तयितुम- न्येषामन्येषामवयवानां कल्पनीयत्वात् अथ प्रत्यवयवं व- र्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् ; न हि देवदत्तः स्रुने संनिधीयमानस्तदहरेव पाटलिपुत्रेऽपि संनिधीयते ; युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात्, देवदत्तयज्ञदत्तयो- रिव सुन्न पाटलिपुत्रनिवासिनो:; गोत्वादिवत्प्रत्येकं परिसमा- प्रेर्न दोष इति चेत्, न तथा प्रतीत्यभावात्; यदि गोत्वा- दिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात्, यथा गोत्वं प्रतिव्य- क्तिप्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत; न चैवं नियतं गृह्यते; प्रत्येकपरिसमाप्तौ चावयविनः कार्येणा- सूत्रभाष्ये - " [पा. १. धिकारान्, तस्य चैकत्वान् शृङ्गेणापि स्तनकार्य कुर्यात्, उरसा च पृष्ठकार्यम् ; न चैवं दृश्यते । प्रागुत्पत्तेश्च कार्य- स्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात; उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत:; क्रिया च नाम स्यात्, अकर्तृका च- - इति विप्रतिषिध्येत ; घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका, किं तर्ह्यन्यकर्तृका --- इति कल्प्या स्यात्; तथा कपालादीनामप्युत्पत्तिरुन्य- मानान्यकर्तृकैव कल्प्येत; तथा च सति 'घट उत्पद्यते ' इत्युक्ते, 'कुलालादीनि कारणान्युत्पद्यन्ते' इत्युक्तं स्यात् न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेः; अथ स्वकारणसत्तासंबन्ध एवो - त्पत्तिरात्मलाभश्च कार्यम्येति चेत् — कथमलब्धात्मकं सं- बध्येतेति वक्तव्यम्; सतोहि द्वयोः संबन्धः संभवति, न सदसतोरसतोर्वा ; अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्ते- रिति मर्यादाकरणमनुपपन्नम् सतां हि लोके क्षेत्रगृ- हादीनां मर्यादा दृष्टा नाभावस्य न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन म- र्यादाकरणेन, निरुपाख्यो भवति भविष्यतीति वा -- वन्ध्यापुत्र:- राजा बभूव विशेष्यते ; यदि च वन्ध्यापु- सू. १८. ] त्रोऽपि द्वितीयोऽध्यायः । , कारकव्यापारादूर्ध्वमभविष्यत् तत इदमप्युपा- पत्स्यत कार्यभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति ; वयं तु पश्यामः वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वा- विशेषात्, यथा बन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्य- ति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यती- ति । नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत ; यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्रा- क्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चि- व्याप्रियेत ; व्याप्रियते च ; अतः कारकव्यापारार्थवत्त्वाय, मन्यामहे, प्रागुत्पत्तेरभावः कार्यस्येति चेत्, नैष दोषः ; यत: कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्व- मुपपद्यते ; कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभू- तस्यानारभ्यत्वात् — इत्यभाणि ; न च विशेषदर्शनमात्रेण व- स्त्वन्यत्वं भवति ; न हि देवदत्तः संकुचितहस्तपादः प्रसारि- तहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात्; तथा प्रतिदिनमनेक संस्थानानाम- पि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता म पुत्र इति प्रत्यभिज्ञानात्; जन्मोच्छेदानन्तरितत्वात्तत्र नान्यत्रेति चेत्, न; क्षीरादीनामपि दध्याद्याकारसं- युक्तम्, सूत्रभाष्ये [पा. १. स्थानस्य प्रत्यक्षत्वात्; अदृश्यमानानामपि वटधानादीनां स- मानजातीयावयवान्तरोपचितानामङ्करादिभावेन दर्शनगोच- रतापत्तौ जन्मसंज्ञा ; तेषामेवावयवानामपचयवशाददर्शनाप- त्तावुच्छेदसंज्ञा ; तत्रेदृग्जन्मोच्छेदान्तरितत्वाश्चेदसत: स- त्वापत्तिः, सतश्चासत्त्वापत्ति:, तथा सति गर्भवासिन उत्ता- नशायिनश्च भेदप्रसङ्गः तथा च बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्ग- वाद: प्रतिवदितव्यः । यस्य तु पुनः प्रागुत्पत्तेर सत्कार्यम, तस्य निर्विषय: कारकव्यापारः स्यात्, अभावस्य विषयत्वा- नुपपत्तेः- आकाशहननप्रयोजनखङ्गाद्यनेकायुधप्रयुक्तिवत्; समवायिकारणविषयः कारकव्यापारः स्यादिति चेत्, अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् ; सम- वायिकारणस्यैवात्मातिशयः कार्यमिति चेत्, न ; सत्कार्य- न; तापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावे- नावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्य- त्कार्यं वर्षशतेनापि शक्यं कल्पयितुम् । तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यव- हारास्पदत्वं प्रतिपद्यते । एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वम्, अनन्यत्वं च कारणात्, अवगम्यते ॥ " न; सू. १९. ] द्वितीयोऽध्यायः । शब्दान्तराञ्चैतदवगम्यते पूर्वसूत्रे ऽसव्यपदेशिनः श- व्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् -- 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्यादि । 6 " ' तद्वैक आहुरसदेवेदमग्र आसीत्' इति चासत्पक्षमुपक्षिष्य, 'कथमसतः सज्जायेत' इत्याक्षिप्य 'सदेव सोम्येदमग्र आसीत्' इत्यवधारयति ; तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागु- त्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूय- माणत्वात्, सत्त्वानन्यत्वे प्रसिध्यतः । यदि तु प्रागुत्पत्ते- रसत्कार्य स्यात्, पश्चाच्चोत्पद्यमानं कारणे समवेयात्, तद्- न्यत्कारणात्स्यात्, तत्र 'येनाश्रुतं श्रुतं भवति' इतीयं प्रति- ज्ञा पीड्येत ; सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ पटवच्च ॥ १९ । यथा च संवेष्टितः पटो न व्यक्तं गृह्यते— किमयं पटः, किं वान्यद्द्रव्यमिति; स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । यथा च संवे- टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते ; स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते - न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादि- कारणावस्थं पटादिकार्यमस्पष्टं सत्, तुरीवेमकुविन्दादिका - ३२६- सूत्रभाष्ये [पा. १. रकव्यापाराभिव्यक्तं स्पष्टं गृह्यते । अतः संवेष्टितप्रसारि- तपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ यथा च प्राणादि ॥ २० ॥ यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्य निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम; तेष्वेव प्राण- भेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते ; न च प्राणभेदानां प्रभेदवत: प्राणाद- समीरणस्वभावाविशेषात् — एवं कार्यस्य कारणा- दनन्यत्वम् । अतश्च कृत्स्नस्य जगतां ब्रह्मकार्यत्वात्तदनन्य- त्वाच्च सिद्वैषा श्रौती प्रतिज्ञा - 'येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इति ॥ न्यत्वम्, इतरव्यपदेशाद्धिताकरणादि- दोषप्रसक्तिः ॥ २१ ॥ अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते-- चेतनाद्धि जगत्प्रक्रियायामा श्रीयमाणायां हिताकरणादयो दोषाः प्रस- ७. इतरव्यपदेशा- ज्यन्ते; कुत: ? इतरव्यपदेशात् । इतरस्यं धिकरणम् । शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुति:- 6 6 सू. २१.] द्वितीयोऽध्यायः । ! स आत्मा तत्त्वमसि श्वेतकेतो' इति प्रतिबोधनात ; 'यद्वा- इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति- 'तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्रष्टुरेवाविकृतस्य ब्रह्मण: कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; 'अनेन जीवेनात्म- नानुप्रविश्य नामरूपे व्याकरवाणि' इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति ; तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति । अतश्च स्वतन्त्रः कर्ता सन् हितमेवात्मन: सौमनस्यकरं कुर्यात्, नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् ; न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति ; न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपयात्; कृतमपि कथंचिद्यद्दुःखकरं तदिच्छया जह्यात् सुखकरं चोपाददीत; स्मरेच्च मयेदं जगद्विम्बं विचित्रं विरचित - मिति ; सर्वो हि लोक: स्पष्टं कार्ये कृत्वा स्मरति -- मयेदं कृतमिति ; यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्; स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंह- र्तुम्; एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेत गम्यते ॥ सूत्रभाष्ये अधिकं तु भेदनिर्देशात् ॥ २२ ॥ , [ पा. १. तु-शब्द: पक्षं व्यावर्तयति । यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तत् वयं जगत: स्रष्टृ ब्रूमः ; न तस्मिन्हिताकरणादयो दोषाः प्रस- ज्यन्ते न हि तस्य हितं किंचित्कर्तव्यमस्ति अहितं वा परिहर्तव्यम्, नित्यमुक्तस्वभावत्वात ; न च तस्य ज्ञानप्रति- बन्ध: शक्तिप्रतिबन्धो वा कचिदप्यस्ति सर्वज्ञत्वात्सर्वश- क्तित्वाच्च ; शारीरस्त्वनेवंविधः ; तस्मिन्प्रसज्यन्ते हितकार - णादयो दोषाः ; न तु तं वयं जगतः स्रष्टारं ब्रूमः ; कुत एतत् ? भेदनिर्देशात् - 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' ' सोऽन्वेष्टव्यः स विजिज्ञा- सितव्य: ' ' सता सोम्य तदा संपन्नो भवति ' ' शारीर आत्मा प्राज्ञेनात्मनान्वारूढः' इत्येवंजातीयकः कर्तृकर्मा- दिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति । नन्वभेदनिर्दे- शोऽपि दर्शित: - 'तत्त्वमसि' इत्येवंजातीयकः ; कथं भेदा- भेदौ विरुद्धौ संभवेयाताम् ? नैष दोषः, महाकाशघटा- काशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठापितत्वात् । अपि च यदा 'तत्त्वमसि' इत्येवंजातीय केनाभेदनिर्देशेनाभेद: प्रतिबोधितो भवति, अपगतं भवति तदा जीवस्य संसा- सू. २३.] द्वितीयोऽध्यायः । रित्वं ब्रह्मणश्च स्रष्टृत्वम्, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ; तत्र कुत एव सृष्टि: ? कुतो वा हिताकरणादयो दोषाः ! अविद्याप्रत्युप- स्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रा- न्तिर्हिताकरणादिलक्षणः संसारः, न तु परमार्थतोऽस्तीत्यस- कृदवोचाम ---- जन्ममरणच्छेदन भेदनाद्यभिमानवत्; अबा- धिते तु भेदव्यवहारे ' सोऽन्वेष्टव्यः स विजिज्ञासितव्य: ' इत्येवं जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्ति निरुणद्धि ॥ अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ , यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां के- चिन्महार्हा मणयो वज्रवैडूर्यादयः अन्ये मध्यमवीर्याः सु- कान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणा: पाषाणा:- इत्यनेकविधं वैचित्र्यं दृश्यते; यथा चैकपृथिवीव्यपाश्रया- णामपि बीजानां बहुविधं पत्त्रपुष्पफलगन्धरसादिवैचित्र्यं च- न्दनकिंपाकचम्पकादिषूपलक्ष्यते ; यथा चैकस्याप्यन्नरसम्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भव- न्ति एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपप- S. W. II. 4 सूत्रभाष्ये [पा. १. त्तिरित्यर्थः । श्रुतेश्च प्रामाण्यात् विकारस्य च वाचारम्भ- णमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच --- इत्यभ्युच्चयः ॥ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ चेतनं ब्रह्मकमद्वितीयं जगतः कारणमिति यदुक्तम्, तन्नो- पपद्यते ; कस्मात् ? उपसंहारदर्शनात् । इह हि लोके कुला- ८. उपसहारदर्श- लादयो घटपटादीनां कर्तारो मृद्दण्डचक्र- नाधिकरणम् । सूत्रसलिलाद्यनेककारकोपसंहारेण संग्रही- तसाधना: सन्तस्तत्तत्कार्य कुर्वाणा दृश्यन्ते ; ब्रह्म चासहायं तवाभिप्रेतम् ; तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमु- पपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत्, नैष दोषः ; यतः क्षीरवद्रव्यस्वभावविशेषादुपपद्यते - यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम्, तथेहापि भविष्यति । ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एवं बाह्यं साधनमौष्ण्यादिकम् ; कथमु- च्यते ' क्षीरवद्धि' इति ? नैष दोष: ; स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवति, तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय; यदि च स्वयं दधिभावशीलता सू. २५.] द्वितीयोऽध्यायः । न स्यात् नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत ; न हि " वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते ; साधन- सामग्र्या च तस्य पूर्णता संपाद्यते ; परिपूर्णशक्तिकं तु - झ; न तस्यान्येन केनचित्पूर्णता संपादयितव्या; श्रुतिश्व भवति --' न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्य- धिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति । तस्मादेकस्यापि ब्रह्मणो विचित्र- शक्तियोगात् क्षीरादिवद्विचित्र परिणाम उपपद्यते ॥ देवादिवदपि लोके ॥ २५ ॥ - स्यादेतत्-- उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभाव:, दृष्टत्वात्; चेतनाः पुनः कुला- लादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते ; कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति — देवा- दिवदिति ब्रूमः - यथा लोके देवा: पितर ऋषय इत्येवमा- दयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किंचिद्वाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मि- माणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्; तन्तु- नाभश्च स्वत एव तन्तून्सृजति; बलाका चान्तरेणैव शुक्रं ; सूत्रभाष्ये [पा. १. गर्भ धत्ते; पद्मिनी चानपेक्ष्य किंचित्प्रस्थानसाधनं सरो- न्तरात्सरोन्तरं प्रतिष्ठते — एवं चेतनमपि ब्रह्म अनपेक्ष्यैव बाह्यं साधनं स्वत एव जगत्स्त्रक्ष्यति । स यदि ब्रूयात्- य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दाष्ट- न्तिकेन ब्रह्मणा न समाना भवन्ति; शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम्, न तु चेतन आत्मा; तन्तुनाभस्य च क्षुद्रतरजन्तु भक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति ; बलाका च स्तनयि - बुरवश्रवणाद्गर्भ धत्ते पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृ- क्षम्, न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते; तस्मान्नैते ब्रह्मणो दृष्टान्ता इति तं प्रति ब्रूयात्- नायं दोष: ; कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वा- दिति - यथा हि कुलालादीनां देवादीनां च समाने चेत- नत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवा- दय: ; तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्राय: ॥ सू. २६.] द्वितीयोऽध्यायः । कृत्स्नप्रसक्तिर्निरवयवत्वशब्द- कोपो वा ॥ २६ ॥ चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवदेवादिवच्चानपेक्ष्य बा- ह्यं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् ; ९. कृत्स्नप्रस- शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति । कृत्स्न- क्त्यधिक- प्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परि- रणम् । णामः प्राप्नोति, निरवयवत्वात् - यदि ब्रह्म पृथिव्यादिवत्सावयवमभविष्यत्, ततोऽस्यैकदेशः पर्यणंस्यत्, एकदेशश्वावस्थास्यत; निरवयवं तु ब्रह्म श्रुतिभ्योऽवग- म्यते ' निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्' 'दिव्यो मूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यज: ' ' इदं महद्भू- तमनन्तमपारं विज्ञानघन एव' ' स एष नेति नेत्यात्मा' 'अस्थूलमनणु' इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः ; तत- चैकदेशपरिणामासंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलो- च्छेदः प्रसज्येत ; द्रष्टव्यतोपदेशानर्थक्यं च आपद्येत, अयत्न- दृष्टत्वात्कार्यस्थ, तद्व्यतिरिक्तस्य च ब्रह्मणोऽसंभवात्; अज- त्वादिशब्दव्याकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादका: सूत्रभाष्ये [ पा. १. शब्दा उदाहृतास्ते प्रकुप्येयुः ; सावयवत्वे चानित्यत्वप्रसङ्ग इति — सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तु शब्देनाक्षेप परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दो- षोऽस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति ; कुतः ? श्रुतेः यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते -- प्रकृतिविकारयोर्भेदेन व्यपदेशात् 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्म- नानुप्रविश्य नामरूपे व्याकरवाणि' इति, 'तावानस्य महि- मा ततो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपा- दयामृतं दिवि' इति चैवंजातीयकात्; तथा हृदयायतनत्व - वचनात् ; सत्संपत्तिवचनाच्च -- यदि च कृत्स्नं ब्रह्म कार्य- भावेनोपयुक्तं स्यात्, सता सोम्य तदा संपन्नो भवति' इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात्, विकृतेन ब्रह्मणा नित्यसंपन्नत्वादविकृतस्य च ब्रह्मणोऽभावात् ; तथेन्द्रियगोच- रत्वप्रतिषेधात् — ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः; तस्मादस्त्यविकृतं ब्रह्म । न च निरवयवत्वशब्दव्याकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात्; शब्द- मूलं च ब्रह्म शब्दप्रमाणकम्, नेन्द्रियादिप्रमाणकम् ; तद्यथाश- सू. २७.] द्वितीयोऽध्यायः । ब्दमभ्युपगन्तव्यम् ; शब्दश्वोभयमपि ब्रह्मण: प्रतिपादयति- अकृत्स्नप्रसक्तिं निरवयवत्वं च ; लौकिकानामपि मणिमन्त्रौ - षधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धा- नेककार्यविषया दृश्यन्ते; ता अपि तावन्नोपदेशमन्तरेण के- वलेन तर्केणावगन्तुं शक्यन्ते - अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ; किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत; तथा चाहुः पौराणिका:- ' अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृ- ----- तिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम्' इति । तस्मा - च्छन्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः । ननु शब्दे - नापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् — निरवयवं च ब्रह्मपरिणमते न च कृत्स्नमिति ; यदि निरवयवं ब्रह्म स्यात्, नैव परिणमेत, कृत्स्नमेव वा परिणमेत; अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत ; क्रियाविषये हि ' अतिरात्रे षोडशिनं गृह्णाति ' 'नातिरात्रे षोडशिनं गृह्णाति' इत्येवंजातीयकायां विरोध- प्रतीतावपि विकल्पाश्रयणं विरोधापरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य ; इह तु विकल्पाश्रयणेनापि न विरो- सूत्रभाष्ये [पा. १. धपरिहारः संभवति, अपुरुषतन्त्रत्वाद्वस्तुनः; तस्माद्दुर्घटमेत- दिति--नैष दोष:, अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्य- विद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते ; न हि ति- मिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति ; अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते ; पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमा- न्रत्वाञ्चाविद्याकल्पितस्य नामरूपभेदस्य — इति न निरव- यवत्वं ब्रह्मणः कुप्यति ; न चेयं परिणामश्रुतिः परिणामप्र- तिपादनार्था, तत्प्रतिपत्तौ फलानवगमात्; सर्वव्यवहारहीन- ब्रह्मात्मभावप्रतिपादनार्थी त्वेषा, तत्प्रतिपत्तौ फलावगमात् ; ' स एष नेति नेत्यात्मा ' इत्युपक्रम्याह- 'अभयं वै जनक प्राप्तोऽसि' इति ; तस्मादस्मत्पक्षे न कश्चिदपि दोष- प्रसङ्गोऽस्ति ॥ आत्मनि चैवं विचित्राश्व हि ॥ २८ ॥ अपि च नैवात्र विवदितव्यम् - कथमेकस्मिन्ब्रह्मणि स्वरू- पानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति ; यत आत्मन्यप्येक- स्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते-- सू. २९.] 6 द्वितीयोऽध्यायः । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयो- गान्पथः सृजते ' इत्यादिना ; लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते ; तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भ- विष्यतीति ॥ स्वपक्षदोषाच्च ॥ २९ ॥ परेषामप्येष समान: स्वपक्षदोषः - प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमत: कार्यस्य कारणमिति स्वपक्ष: ; तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरव- यवत्वाभ्युपगमकोपो वा । ननु नैव तैर्निरवयवं प्रधानम- भ्युपगम्यते ; सत्त्वरजस्तमांसि हि त्रयो गुणाः ; तेषां साम्या- वस्था प्रधानम्; तैरेवावयवैस्तत्सावयवमिति — नैवजातीय- केन सावयवत्वेन प्रकृतो दोषः परिहर्तु पार्यते, यतः सत्त्व- रजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेत- रद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति - समा- नत्वात्स्वपक्षदोषप्रसङ्गस्य । तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् -- एवमप्यनित्यत्वादिदोषप्रसङ्गः । अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादि- सूत्रभाष्ये 7 [ पा. १. नोऽप्यविशिष्टाः । तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्य- मानो निरवयवत्वाद्यदि कात्स्न्येन संयुज्येत ततः प्रथिमा- नुपपत्तेरणुमात्रत्वप्रसङ्गः ; अथैकदेशेन संयुज्येत, तथापि fararaत्वाभ्युपगमकोप इति -- स्वपक्षेऽपि समान एष दोषः । समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ सर्वोपेता च तद्दर्शनात् ॥ ३० ॥ एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् ; तत्पुनः कथमवगम्यते--विचित्रश- १०. सर्वोपिता- क्तियुक्तं परं ब्रह्मेति ; तदुच्यते - सर्वोपे- धिकरणम् । ता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम्; कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः -- ' सर्वकर्मा सर्वकामः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर: ' ' सत्यकामः सत्यसं- कल्पः ' य: सर्वज्ञः सर्ववित् ' ' एतस्य वा अक्षरस्य प्रशास- ने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः यका ॥ " इत्येवंजाती- विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥ सू. ३२.] द्वितीयोऽध्यायः । स्यादेतत् - विकरणां परां देवतां शास्ति शास्त्रम् - 'अचक्षुष्कमश्रोत्रमवागमनाः' इत्येवंजातीयकम् ; कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ? देवादयो हि चेत- नाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसंपन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते ; कथं च ' ने- ति नेति' इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्ति- योग: संभवेत्, इति चेत् — यदत्र वक्तव्यं तत्पुरस्तादे- वोक्तम् ; श्रुत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम्; न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवि- तव्यमिति नियमो ऽस्तीति । प्रतिषिद्धसर्वविशेषस्यापि ब्रह्म- णः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोप- न्यासेनोक्तमेव । तथा च शास्त्रम् - - ' अपाणिपादो जवनो ग्र- हीता पश्यत्यचक्षुः स शृणोत्यकर्ण:' इत्यकरणस्यपि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ न प्रयोजनवत्त्वात् ॥ ३२ ॥ अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति न खलु चेतनः परमात्मेदं जगद्विम्बं विरचयितुमर्हति ; कुतः ? प्रयो- ११. प्रयोजनवत्त्वा- जनवत्त्वात्प्रवृत्तीनाम् । चेतनो हि लोके धिकरणम् । बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दो- सूत्रभाष्ये [ पा. १. पक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्ट:, किमुत गुरुतरसंरम्भाम् ; भवति च लोकप्रसिद्धधनु- वादिनी श्रुति:- :--' न वा अरे सर्वस्य कामाय सर्वं प्रियं भ- वत्यात्मनस्तु कामाय सर्व प्रियं भवति' इति ; गुरुतरसंर- म्भा चेयं प्रवृत्तिः -- यदुच्चावचप्रपञ्चं जगद्विम्बं विरचयि- तव्यम्; यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोज - नोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत ; प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात्; अथ चे- तनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्त- मानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत -- तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत; तस्मादश्लिष्टा सृष्टिरिति ॥ लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ तु- शब्देनाक्षेपं परिहरति ; यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किंचित्प्रयोजनमनभिसं- धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति ; यथा चोच्छ्रासप्रश्वासादयोऽनभिसंधाय बाह्यं किंचित्प्र- योजनं स्वभावादेव संभवन्ति; एवमीश्वरस्याप्यनपेक्ष्य किं- चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भवि- सू. ३४.] ; द्वितीयोऽध्यायः । ष्यति ; न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति न च स्वभाव: पर्यनुयोक्तुं शक्यते । यद्यप्यस्माकमियं जगद्विम्बविरचना गुरुतरसंरम्भवाभाति, तथापि परमेश्वरस्य लीलैव केवलेयम्, अपरिमितशक्तित्वात् । यदि नाम लोके लीलास्वपि किंचित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किंचित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकाम- श्रुतेः । नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च । न चेयं परमार्थविषया सृष्टिश्रुतिः ; अविद्याकल्पितनामरूप- व्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्च -- इत्ये- तदपि नैव विस्मर्तव्यम् ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥ पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते, स्थूणानिख- ननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय । नेश्वरो जगत: १२. वैषम्यनै- कारणमुपपद्यते ; कुतः ? वैषम्यनैर्घृण्यप्र- घृण्याधि- सङ्गात् — कांश्चिदत्यन्तसुखभाजः करोति करणम् । देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वा- दीन, कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् — इत्येवं विषमां सृष्टि निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः, ----- सूत्रभाष्ये [पा. १. श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत ; तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयो- गविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत; तस्माद्वैषम्यनैर्घृण्य- प्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते- ब्रूमः - वैषम्यनैर्धृण्ये नेश्वरस्य प्रसज्येते; कस्मात् ? सापेक्षत्वात् । यदि हि निरपेक्ष: केवल ईश्वरो विषमां सृष्टि निर्मिमीते, स्यातामेतौ दोषौ–वैषम्यं नैर्घृण्यं च; न तु निरपेक्षस्य निर्मातृत्वमस्ति ; सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते: किमपेक्षत इति चेत् — धर्माधर्मावपेक्षत इति वदामः ; अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टि- रिति नायमीश्वरस्यापराधः ; ईश्वरस्तु पर्जन्यवद्दृष्टव्यः- यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्वीजगतान्येवासाधारणानि साम- र्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति, देवमनुष्यादिवैषम्ये तु तत्तज्जीव- गतान्येवासाधारणानि कर्माणि कारणानि भवन्ति; एव- मीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं नि- र्मिमीत इति ? तथा हि दर्शयति श्रुति:- एष ह्येव साधु 6 सू. ३५.] द्वितीयोऽध्यायः । कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवा- साधु कर्म कारयति तं यमधो निनीषते' इति, 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इति च; स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्श- यति - ' ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' इत्ये- वजातीयका ॥ ----- न कर्माविभागादिति चेन्नाना- दित्वात् ॥ ३५ ॥ ; 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इति प्राक्स टेरविभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात् ; सृष्टयुत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मा- पेक्षश्च शरीरादिविभागः इतीतरेतराश्रयत्वं प्रसज्येत ; अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम; प्रावि- भागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नो- तीति चेत्, नैष दोष: ; अनादित्वात्संसारस्य भवेदेष दोष:, यद्यादिमानयं संसार: स्यात्; अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ; सूत्रभाष्ये [ पा. १. कथं पुनरवगम्यते - अनादिरेष संसार इति ? अत उत्तरं पठति-- उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ " उपपद्यते च संसारस्यानादित्वम् - आदिमत्त्वे हि संसा- रस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृ- ताभ्यागमकृतविप्रणाशप्रसङ्गश्च सुखदुःखादिवैषम्यस्य नि- निमित्तत्वात् ; न चेश्वरो वैषम्यहेतुरित्युक्तम् ; न चाविद्या केवला वैषम्यस्य कारणम्, एकरूपत्वात्; रागादिक्लेशवास- नाक्षिकर्मापेक्षा त्वद्या वैषम्यकरी स्यात् ; न च कर्म अ- न्तरेण शरीरं संभवति, न च शरीरमन्तरेण कर्म संभवति- इतीतरेतराश्रयत्वप्रसङ्गः ; अनादित्वे तु बीजाङ्कुरन्यायेनोप- पत्तेर्न कश्चिदोषो भवति । उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् - 'अनेन जीवेनात्मना ' इति स- र्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभि- लपन्ननादि: संसार इति दर्शयति ; आदिमत्त्वे तु प्रागनवधारि- तप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे - Sभिलप्येत ? न च धारयिष्यतीत्यतोऽभिलप्येत - अनागताद्धि संबन्धादतीतः संवन्धो बलीयान्भवति, अभिनिष्पन्नत्वान्; 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इति च मन्त्रवर्णः सू. ३७.] द्वितीयोऽध्यायः । पूर्वकल्पसद्भावं दर्शयति । स्मृतावप्यनादित्वं संसारस्योपल- भ्यते— 'न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा' इति ; पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥ सर्वधर्मोपपत्तेश्च ॥ ३७ ॥ चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः ; वेदार्थे १३. सर्वधर्मोप- इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रा- पत्त्यधि- रिप्समाण: स्वपक्षपरिग्रह प्रधानं प्रकरण - करणम् । मुपसंहरति । यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ' सर्वज्ञं सर्वशक्ति महामायं च ब्रह्म' इति, तस्मादनतिशङ्क- नीयमिदमौपनिषदं दर्शनमिति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥ s. W. II. 5 द्वितीयः पादः । यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूप- यितुं शास्त्रं प्रवृत्तम्, न तर्कशास्त्रवत्केवला- भिर्युक्तिभि: कंचित्सिद्धान्तं साधयितुं दू- षयितुं वा प्रवृत्तम्, तथापि वेदान्तवा - क्यानि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्ष- भूतानि सांख्यादिदर्शनानि निराकरणीया- नीति तदर्थः परः पादः प्रवर्तते । वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतम्- तद्धयभ्यर्हितं परपक्षप्रत्याख्यानादिति । ननु मुमुक्षूणां मोक्ष- साधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तम् ; किं परपक्षनिराकरणेन परविद्वेषकारणेन ? बाढमे- वम्; तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितत्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मन्दमती- नाम् - एतान्यपि सम्यग्दर्शनायोपादेयानि - इत्यपेक्षा, तथा युक्तिगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेषु - इत्यतस्तदसारतोपपादनाय प्रयत्यते । ननु 'ईक्षतेर्ना- , ८ सूत्रभाष्ये [पा. २. शब्दम्' कामाच्च नानुमानापेक्षा' ' एतेन सर्वे व्याख्याता व्याख्याताः । इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृत: ; किं पुनः कृतकरणेनेति । तदुच्यते—सांख्यादयः स्वपक्षस्थापनाय वेदान्तंवाक्यान्यप्युदाहृत्य स्वपक्षानुगुण्ये- नैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्याना- भासम्, न सम्यग्व्याख्यानम् -- इत्येतावत्पूर्वं कृतम् ; इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः ॥ रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥ तत्र सांख्या मन्यन्ते — यथा घटशरावादयो भेदा मृदात्मतयान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, १. रचनानुप- तथा सर्व एव बाह्याध्यात्मिका भेदा: पत्त्यधि- सुखदुःखमोहात्मतयान्वीयमानाः सुखदुः- करणम् । खमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति ; यत्सुखदुःखमोहात्मकं सामान्यं तत्रिगुणं प्रधानं मृद्वदचे- तनं चेतनस्य पुरुषस्यार्थे साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति । तथा परिमाणादिभिरपि लिङ्ग- स्तदेव प्रधानमनुमिमते ॥ तत्र वदामः - यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं सू. १.] द्वितीयोऽध्यायः । लोके चेतनानधिष्ठितं स्वतन्त्रं किंचिद्विशिष्टपुरुषार्थनिर्वर्तन- समर्थान्विकारान्विरचयद्दृष्टम् ; गेहप्रासादशयनासनविहारभू- म्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदु:- खप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते; तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यमाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेकक- मैफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् ? लोष्टपाषाणादिष्वदृष्टत्वात; मृदादिष्वपि कुम्भ- काराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते - तद्वत्प्रधा- नस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः । न च मृदाद्युपादानस्व- रूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयम्, न बाह्यकु- म्भकारादिव्यपाश्रयेण इति किंचिन्नियामकमस्ति । न चैवं सति किंचिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते, चेतनका- रणसमर्पणात् । अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्का - रणमनुमातव्यं भवति । अन्वयाद्यनुपपत्तेश्चेति च शब्देन हेतोरसिद्धिं समुच्चिनोति । न हि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्त- रत्वप्रतीतेः शब्दादीनां चातद्रूपत्वप्रतीते:, तन्निमित्तत्व- " , सूत्रभाष्ये [पा. २. प्रतीतेश्च शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशे- षोपलब्धेः । तथा परिमितानां भेदानां मूलाङ्करादीनां संसर्ग- पूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्ग- पूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपूर्वकत्व - प्रसङ्गः, परिमितत्वाविशेषात् । कार्यकारणभावस्तु प्रेक्षापूर्व- कनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारण- भावाद्वाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्प- यितुम् ॥ प्रवृत्तेश्व ॥ २ ॥ आस्तां तावदियं रचना ; तत्सिद्धयर्था या प्रवृत्ति:- साम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपा- पत्तिः, विशिष्टकार्याभिमुख प्रवृत्तिता -- सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च । न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चे- तनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमु- खप्रवृत्तयो दृश्यन्ते ; दृष्टाञ्चादृष्टसिद्धिः ; अतः प्रवृत्त्यनुपप- तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति । ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा -- सत्यमेतत्-- तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा न त्व- ; सू. २.] द्वितीयोऽध्यायः । • चेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा ; किं पुनरत्र युक्तम्- यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्संप्रयुक्तस्य दृष्टा तस्यैव सेति ? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम्, उभयोः प्रत्यक्षत्वात् ; न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः ; प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धि: -- केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य. मिति ; अत एव च प्रत्यक्षे देहे सति चैतन्यस्य दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायति- काः प्रतिपन्नाः; तस्मादचेतनस्यैव प्रवृत्तिरिति । तद- भिधीयते न ब्रूमः, यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति; भवतु तस्यैव सा ; सा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात् - यथा काष्ठादिव्यपाश्र- यापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वि- योगे चादर्शनात् - तद्वत् ; लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेत- नस्य प्रवर्तकत्वम् । ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्त- कत्वमिति चेत्, न; अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहित- सूत्रभाष्ये [ पा. २. स्यापि प्रवर्तकत्वोपपत्तेः । यथायस्कान्तो मणिः स्वयं प्रवृ- त्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा च रूपादयो विषया: स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्व प्रवर्तयेदित्युपपन्नम्। एकत्वा- प्रवर्त्यभावे प्रवर्तकत्वानुपपत्तिरिति चेत्, न अविद्या- प्रत्युपस्थापितनामरूपमायावेश्वशेनासकृत्प्रत्युक्तत्वात् । त- स्मात्संभवति प्रवृत्ति: सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे ॥ पयोम्बुवचेत्तत्रापि ॥ ३ ॥ स्यादेतत् — यथा क्षीरमचेतनं 'स्वभावेनैव वत्सविवृ- द्धद्यर्थ प्रवर्तते, यथा च जलमचेतनं स्वभावेनैव लोकोप- काराय स्यन्दते, एवं प्रधानमप्यचेतनं स्वभावेनैव पुरुषार्थ- सिद्धये प्रवर्तिष्यत इति । नैतत्साधूच्यते, यतस्तत्रापि पयो- म्बुनोचेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे उभयवा- दिप्रसिद्धे रथादावचेतुने केवले प्रवृत्त्यदर्शनात्; शास्त्रं च- योऽप्सु तिष्ठन् ' ' योऽपोऽन्तरो यमयति' ' एतस्य' वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते ' इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति ; तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः 6 सू. ५.] द्वितीयोऽध्यायः । --चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः, वत्सचोषणेन च पयस आकृष्यमाणत्वात्; न चाम्बुनोऽप्य- त्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य; चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् । 'उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि' इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्ये- तल्लोकदृष्टया निदर्शितम् ; शास्त्रदृष्टया पुन: सर्वत्रैवेश्वरापे- क्षत्वमापद्यमानं न पराणुद्यते ॥ व्यतिरेकानवस्थितेश्वानपेक्षत्वात् ॥ ४ ॥ सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमाना: प्रधानम; न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किंचिद्वाह्य- मपेक्ष्यमवस्थितमस्ति ; पुरुषस्तूदासीनो न प्रवर्तको न निव- र्तकः -- इत्यतोऽनपेक्षं प्रधानम; अनपेक्षत्वाच्च कदाचित्प्र- धानं महदाद्याकारेण परिणमते, कदाचिन परिणमते, इत्येत- दयुक्तम् । ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ स्यादेतत्- यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि मह - सूत्रभाष्ये [; [पा. २. दाद्याकारेण परिणंस्यत इति कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ? निमित्तान्तरानुपलम्भात् । यदि हि किंचि - निमित्तान्तरमुपलभेमहि, ततो यथाकामं तेन तेन निमित्तेन - तृणाद्युपादाय क्षीरं संपादयेमहि ; न तु संपादयामहे; तस्मा- त्स्वाभाविकस्तृणादेः परिणामः ; तथा प्रधानस्यापि स्यादिति । अत्रोच्यते भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणा- मः, यदि तृणादेरपि स्वाभाविक: परिणामोऽभ्युपगम्येत; न त्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः । कथं निमित्तान्तरोप- लब्धिः ? अन्यत्राभावात् । धेन्वैव ह्युपभुक्तं तृणादि श्री- रीभवति, न प्रहीणम् अनडुहाद्युपभुक्तं वा; यदि हि निर्नि- मित्तमेतत्स्यात्, धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरी- भवेत् न च यथाकामं मानुषैर्न शक्यं संपादयितुमित्येता- वता निर्निमित्तं भवति ; भवति हि किंचित्कार्य मानुषसं- पाद्यम्, किंचिद्दैवसंपाद्यम्; मनुष्या अपि शक्नुवन्त्येव स्वोचि- तेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम; प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति ; ततश्च प्रभूतं क्षीरं लभन्ते; तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम् ; सू. ६ . ] द्वितीयोऽध्यायः । ' 1 अथापि नाम भवत: श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधा- नस्य प्रवृत्तिमभ्युपगच्छेम, तथापि दोषोऽनुषज्येतैव ; कुत: ? अर्थाभावात् । यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किंचिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किंचिन्नापेक्षते एवं प्रयोजनमपि किंचिन्नापेक्षिष्यते—इत्यतः प्रधानं पुरुषस्यार्थ साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत स यदि ब्रूयात् सहकार्येव केवलं नापेक्षते, न प्रयोजन- मपीति; तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम्-- भोगो वा स्यात्, अपवर्गो वा, उभयं वेति । भोग- श्वेत् — कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ? अनिर्मोक्षप्रसङ्गश्च ; अपवर्गश्चेत् — प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् शब्दाद्यनुपलब्धिप्रसङ्गश्च ; उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्या- दनिर्मोक्षप्रसङ्ग एव; न चौत्सुक्यनिवृत्त्यर्था प्रवृत्ति: ; न हि प्रधानस्याचेतनस्यौत्सुक्यं संभवति न च पुरुषस्य निर्मलस्य ; दृक्शक्तिसर्गशक्तिवैयर्थ्य भयाञ्चेत्प्रवृत्तिः, तहि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मो- क्षप्रसङ्ग एव । तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतद- युक्तम् ॥ सूत्रभाष्ये पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥ [पा. २. स्यादेतत्-- यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिश- क्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्ति- विहीनमन्धमधिष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रव- र्तयिष्यति — इति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् । अत्रोच्यते - तथापि नैव दोषान्निर्मोक्षोऽस्ति; अभ्युपेत- हानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपग- मात्, पुरुषस्य च प्रवर्तकत्वानभ्युपगमात् ; कथं चोदासीनः पुरुष: प्रधानं प्रवर्तयेत् ? पडुरपि ह्यन्धं पुरुषं वागादिभि: प्र- वर्तयति ; नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति, नि- ष्क्रियत्वान्निर्गुणत्वाच्च ; नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्त- येत् संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात्; अयस्कान्तख त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यास्ति -- इत्यनुपन्यास: पुरुषाश्मवदिति । तथा प्रधा- नस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संब- न्धयितुरभावात्संबन्धानुपपत्तिः; योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदाद निर्मोक्षप्रसङ्गः पूर्ववचेहाप्यर्थाभावो विक- ल्पयितव्यः ; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम्, , सू. ९.] द्वितीयोऽध्यायः । मायाव्यपाश्रयं च प्रवर्तकत्वम --- इत्यस्त्यतिशयः ॥ " अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ ३५९. इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते -- यद्धि सत्त्वरज- स्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रे- णावस्थानम सा प्रधानावस्था; तस्यामवस्थायामनपेक्षस्वरू- पाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः, बाह्यस्य च कस्यचित्क्षोभयितुरभावात् गुणवैषम्यनिमित्तो महदाद्युत्पादो न खात् ॥ अन्यथानुमितौ च ज्ञशक्ति- वियोगात् ॥ ९ ॥ ----- यथा अथापि स्यात् - अन्यथा वयमनुमिमीमहे- नायमनन्तरो दोष: प्रसज्येत ; न ह्यनपेक्षस्वभावाः कूटस्था- श्वास्माभिर्गुणा अभ्युपगम्यन्ते, प्रमाणाभावात्; कार्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते ; यथा यथा कार्योत्पाद उप- पद्यते, तथा तथैतेषां स्वभावोऽभ्युपगन्तव्यः ; चलं गुणवृत्त - मिति चास्त्यभ्युपगम: ; तस्मात्साम्यावस्थायामपि वैषम्यो- पगमयोग्या एव गुणा अवतिष्ठन्त इति । एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था सूत्रभाष्ये [पा. २. एव; ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत, चेतनमे- कमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् ; वैषम्योपगमयोग्या अपि गुणा: साम्यावस्थायां निमित्ता- भावान्नैव वैषम्यं भजेरन्, भजमाना वा निमित्ताभावा- विशेषात्सर्वदैव वैषम्यं भजेरन् -- इति प्रसज्यत एवायमन - न्तरोऽपि दोषः ॥ , विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥ परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः -- कचित्सप्ते- न्द्रियाण्यनुक्रामन्ति, कचिदेकादश; तथा क्वचिन्महतस्तन्मा- त्रसर्गमुपदिशन्ति, कचिदहंकारात् तथा कचित्रीण्यन्त:- करणानि वर्णयन्ति, कचिदेकमिति प्रसिद्ध एव तु श्रुत्ये- श्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या; तस्माद- प्यसमञ्जसं सांख्यानां दर्शनमिति ॥ अत्राह - - नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनम्, तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात्; एकं हि ब्रह्म सर्वा- त्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छताम् — एकस्यैवा- त्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतौ — इत्यभ्यु - यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ पगन्तव्यं स्यात् ; , स्याताम्, स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत — इति सू. १०.] द्वितीयोऽध्यायः । तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् ; न ौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते; योऽपि जलतरङ्गवी चीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभाव- रूपेण नित्या एव- इति समानो जलात्मनो वीच्यादिभि- रनिर्मोक्ष: । प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके; तथा हि- अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते; यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं स्यात् - यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति — अप्राप्ते ह्यर्थेऽर्थि- नोऽर्थित्वं स्यादिति; तथार्थस्याप्यर्थत्वं न स्यात्; यदि स्यात् स्वार्थत्वमेव स्यात् ; न चैतदस्ति ; संबन्धिशब्दौ ह्येता- वर्थी चार्थश्चेति द्वयोश्च संबन्धिनो: संबन्ध: स्यात्, नैकस्यैव तस्माद्भिन्नावेतावर्थार्थिनौ । तथानर्थानर्थिनावपि ; अर्थिनोऽनुकूलः अर्थः, प्रतिकूलः अनर्थः ; ताभ्यामेकः पर्या- येणोभाभ्यां संबध्यते । तत्रार्थस्याल्पीयस्त्वात् भूयस्त्वाच्चा- नर्थस्य उभावप्यर्थानर्थो अनर्थ एवेति- तापक: स उच्यते ; तप्यस्तु पुरुषः- य एकः पर्यायेणोभाभ्यां , N. W. II. 6 " सूत्रभाष्ये [पा. २० संबध्यते इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानु- पपत्तिः ; जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ॥ , अत्रोच्यतेन, एकत्वादेव तत्यतापकभावानुपपत्तेः- भवेदेष दोष:, यद्येकात्मतायां तप्यतापकावन्योन्यस्य विष- यविषयिभावं प्रतिपद्येयाताम् न त्वेतदस्ति, एकत्वादेव; न ह्यग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्यप्यौ- प्रकाशादिधर्मभेदे परिणामित्वे च किमु कूटस्थे ब्रह्म- ण्येकस्मिंस्तप्यतापकभाव: संभवेत् ? क्व पुनरयं तप्यतापक- भावः स्यादिति ; उच्यते - किं न पश्यसि -- कर्मभूतो जीवद्देहस्तप्यः, तापकः सवितेति ? ननु तप्तिर्नाम दुःखम् ; सा चेतयितुः ; नाचेतनस्य देहस्य ; यदि हि देहस्यैव तप्तिः स्यात्, सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति उच्यते-- देहाभावेऽपि केवलस्य चे- तनस्य तप्तिर्न दृष्टा ; न च त्वयापि तप्तिर्नाम विक्रिया चेत- यितुः केवलस्येष्यते ; नापि देहचेतनयोः संहतत्वम्, अशु- द्धयादिदोषप्रसङ्गात् ; न च तप्तेरेव तप्तिमभ्युपगच्छसि ; कथं तवापि तप्यतापकभावः ? सत्त्वं तप्यम्, तापकं रज:- इति चेत्, न; ताभ्यां चेतनस्य संहतत्वानुपपत्तेः ; सत्त्वानु- ; सू. १०.] द्वितीयोऽध्यायः । रोधित्वाचेतनोऽपि तप्यत इवेति चेत् — परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात्; न चेत्तप्यते नेवशब्दो दोषाय; न हि - डुण्डुभः सर्प इवइत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इव -- इत्येतावता निर्विषो भवति ; अतश्चाविद्याकृतोऽयं तप्यतापकभाव:, न पारमार्थिक:- इत्यभ्युपगन्तव्यमिति —— नैवं सति ममापि किंचिद्दुष्यति । अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्ष: प्रसज्येत, नित्यत्वाभ्युपगमाच्च तापकस्य । तप्यतापकशक्त्योर्नित्यत्वेऽपि, सनिमित्तसंयोगापेक्षत्वात्तप्तेः, संयोगनिमित्तादर्शननिवृत्तौ, आत्यन्तिकः संयोगोपरमः, त- तश्वात्यन्तिको मोक्ष उपपन्न: - - इति चेत्, न; अदर्शनस्य तमसो नित्यत्वाभ्युपगमात्; गुणानां चोद्भवाभिभवयोरनि- यतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनि- यतत्वात्सांख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात् । औपनिषदस्य तु आत्मैकत्वाभ्युपगमात् एकस्य च विषयविषयिभावानु- पपत्तेः, विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात्, निर्मोक्षशङ्का स्वप्नेऽपि नोपजायते; व्यवहारे तु --यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः- - इति न चोद- यितव्यः परिहर्तव्यो वा भवति ॥ , - अ- सूत्रभाष्ये [पा. २. " प्रधानकारणवादो निराकृतः, परमाणुकारणवाद इदानीं निराकर्तव्य: ; तत्रादौ तावत्-- योऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते । तत्रायं वैशेषिकाणा- मभ्युपगमः-- कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समा- नजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात् तद्विपर्ययादर्शनाच्च; तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने, कार्येऽपि जगति चैतन्यं सम- वेयात्; तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्ह- तीति । इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति-- " महद्दीर्घवद्वा ह्रस्वपरिमण्ड- लाभ्याम् ॥। ११ ॥ एषा तेषां प्रक्रिया- परमाणवः किल कंचित्कालमना- ०धकार्या यथायोगं रूपादिमन्त: पारिमाण्डल्य परिमाणाच २. महद्दीर्घा - तिष्ठन्ति ; ते च पश्चाददृष्टादिपुरःसराः धिकरणम् । संयोगसचिवाश्च सन्तो व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते, कारणगुणाञ्च कार्ये गुणान्तरम् ; यदा द्वौ परमाणू द्यणुकमारभेते, तदा परमाणुगता रूपादि- गुणविशेषाः शुक्लादयो व्यणुके शुक्लादीनपरानारभन्ते ; पर- सू. ११.] द्वितीयोऽध्यायः । माणुगुणविशेषस्तु पारिमाण्डल्यं न व्यणुके पारिमाण्डल्यम- परमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात्; अणु- स्वत्वे हि व्यणुकवर्तिनी परिमाणे वर्णयन्ति । यदापि द्वे व्यणुके चतुरणुकमारभेते, तदापि समानं व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम्; अणुत्वहस्वत्वे तु व्यणुकसमवा- यिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वदीर्घत्वपरिमाण- योगाभ्युपगमात् । यदापि बहवः परमाणवः, बहूनि वा द्व्यणुकानि, द्व्यणुकसहितो वा परमाणुः कार्यमारभते, तदापि समानैषा योजना । तदेवं यथा परमाणोः परिम- ण्डलात्सतोऽणु ह्रस्वं च द्व्यणुकं जायते, महद्दीर्घं चत्र्यणु- कादि, न परिमण्डलम् ; यथा वा व्यणुकादणो ईस्वाश्च सतो महद्दीर्घ च व्यणुकं जायते, नाणु, नो ह्रस्वम्; एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यते — इत्यभ्युपगमे किं तव च्छिन्नम् अथ मन्यसे -- विरोधिना परिमाणान्तरेणाक्रान्तं कार्य- द्रव्यं व्यणुकादि -- इत्यतो नारम्भकाणि कारणगतानि पारि- माण्डल्यादीनि - इत्यभ्युपगच्छामि ; न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत; न ह्यचेतना नाम चेतनाविरोधी सूत्रभाष्ये [पा. २. कश्चिद्गुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात्; तस्मात्पारिमाण्ड- ल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति । मैवं संस्था:--यथा कारणे विद्यमानानामपि पारिमाण्डल्यादी- नामनारम्भकत्वम्, एवं चैतन्यस्यापि — इत्यस्यांशस्य स - मानत्वात् ; न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादी - नामनारम्भकत्वे कारणम्, प्राक्परिमाणान्तरारम्भात्पारिमा- ण्डल्यादीनामारम्भकत्वोपपत्तेः, आरब्धमपि कार्यद्रव्यं प्राग्गु- णारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात्; न च परिमा- णान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यत: स्वसमान- जातीयं परिमाणान्तरं नारभन्ते, परिमाणान्तरस्यान्यहेतु- त्वाभ्युपगमात्; 'कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्' ' तद्विपरीतमणु' ' एतेन दीर्घत्वहस्वत्वे व्याख्याते ' इति हि काणभुजानि सूत्राणि; न च -- संनिधानविशेषा- त्कुतश्चित्कारणबहुत्वादीन्येवारभन्ते, न पारिमाण्डल्यादीनी- ति -- उच्येत, द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषा- मेव कारणगुणानां स्वाश्रयसमवायाविशेषात् ; तस्मात्स्वभा- वादेव पारिमाण्डल्यादीनामनारम्भकत्वम् तथा चेतनाया अपीति द्रष्टव्यम् ॥ , संयोगाच द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समान- सू. १२.] द्वितीयोऽध्यायः । जातीयोत्पत्तिव्यभिचारः । द्रव्ये प्रकृते गुणोदाहरणमयुक्त- मिति चेत्, न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षि- तत्वात् ; न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यम्, गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति; सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार - ' प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य प- श्वात्मकं न विद्यते ' इति — यथा प्रत्यक्षाप्रत्यक्ष योर्भूम्याका- शयोः समवयन्संयोगोऽप्रत्यक्षः, एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात्; प्रत्यक्षं हि शरीरम्, तस्मान्न पाञ्चभौतिकमिति --- एतदुक्तं भवति – गुणच सं- योगो द्रव्यं शरीरम् । ' दृश्यते तु' इति चात्रापि विलक्षणो- त्पत्तिः प्रपञ्चिता । नन्वेवं सति तेनैवैतद्गतम् ; नेति ब्रूमः - तत्सांख्यं प्रत्युक्तमेतत्तु वैशेषिकं प्रति । नन्वतिदेशोऽपि समानन्यायतया कृत:- : - एतेन शिष्टापरिग्रहा अपि व्या- ख्याता:' इति ; सत्यमेतत्; तस्यैव स्वयं वैशेषिकपरीक्षा- रम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः ॥ उभयथापि न कर्मातस्तदभावः ॥ १२ ॥ इदानीं परमाणुकारणवादं निराकरोति । स च वाद इत्थं समुत्तिष्ठति - पटादीनि हि लोके सावयवानि द्रव्याणि सूत्रभाष्ये [पा. २. स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि ३. परमाणुजग- दृष्टानि ; तत्सामान्येन यावत्किंचित्सावय- दकारणत्वा वम्, तत्सर्व स्वानुगतैरेव संयोगसचिवैस्तै- धिकरणम् । स्तैर्द्रव्यैरारब्धमिति गम्यते ; स चायमवय- वावयविविभागो यतो निवर्तते, सोऽपकर्षपर्यन्तगतः परमा- णुः ; सर्व चेदं गिरिसमुद्रादिकं जगत्सावयवम्; सावयत्वा- चाद्यन्तवत् ; न चाकारणेन कार्येण भवितव्यम् --- इत्यतः परमाणवो जगतः कारणम् - इति कणभुगभिप्रायः । ता - नीमानि चत्वारि भूतानि भूम्युदकतेजः पवनाख्यानि साव- यवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते; तेषां चा- पकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्विनश्यतां पृथिव्या- दीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकाल: । ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते ; तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति; ततो व्यणुकादि- क्रमेण वायुरुत्पद्यते; एवमग्नि: ; एवमाप:; एवं पृथिवी ; एवमेव शरीरं सेन्द्रियम् -- इत्येवं सर्वमिदं जगत् अणुभ्यः संभवति; अणुगतेभ्यश्च रूपादिभ्यो व्यणुकादिगतानि रूपा- दीनि संभवन्ति, तन्तुपटन्यायेन - इति काणादा मन्यन्ते ॥ तत्रेदमभिधीयते — विभागावस्थानां तावदणूनां संयोग: - सू. १२.] - द्वितीयोऽध्यायः । कर्मापेक्षोऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्श नात् कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् ; अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात्; अभ्युप- गमेऽपि यदि प्रयत्नोऽभिघातादिर्वा यथा दृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत, तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् ; न हि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति, शरीराभावात्; शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायते । एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम् । सर्वोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति । अथादृष्टमाद्यस्य कर्मणो निमित्तमित्यु- च्येत तत्पुनरात्मसमवायि वा स्यात् ? अणुसमवायि वा ? उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेत, अदृष्टस्याचे- तनत्वात् ; न ह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यपरीक्षायामभिहितम् आत्मनश्चानुत्प- न्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात्; आत्मसमवायित्वा- भ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात्, असंब- न्धात्; अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्- संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गः, नियामकान्तराभावात् । तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म सूत्रभाष्ये [पा. २. स्यात् ; कर्माभावान्निबन्धनः संयोगो न स्यात् ; संयोगा- भावाच्च तन्निबन्धनं व्यणुकादि कार्यजातं न स्यात् । संयोग- चाणोरण्वन्तरेण सर्वात्मना वा स्यात् ? एकदेशेन वा ? सर्वात्मना चेत्, उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गः, दृष्ट- विपर्ययप्रसङ्गश्य, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् ; एकदेशेन चेत्, सावयवत्वप्रसङ्गः; परमा- णूनां कल्पिताः प्रदेशाः स्युरिति चेत्, कल्पितानामवस्तु- त्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात्; असति चासमवायिकारणे व्यणुकादिकार्यद्रव्यं नोत्पद्येत । यथा चादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवति, एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् ; न हि तत्रापि किंचिन्नियतं तन्नि- मित्तं दृष्टमस्ति; अदृष्टमपि भोगप्रसिद्धयर्थम्, न प्रलयप्रसि- द्धयर्थम् — इत्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्य- र्थं विभागोत्पत्त्यर्थं वा कर्म । अतश्च संयोगविभागाभावा- तदायत्तयोः सर्गप्रलययोरभाव: प्रसज्येत । तस्मादनुपप- नोऽयं परमाणु कारणवादः ॥ समवायाभ्युपगमाच्च साम्यादनव- स्थितेः ॥ १३ ॥ सू. १३.] द्वितीयोऽध्यायः । समवायाभ्युपगमाच्च—- तदभाव इति प्रकृतेनाणुवाद- निराकरणेन संबध्यते । द्वाभ्यां चाणुभ्यां व्यणुकमुत्पद्यमान- मत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता ; न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम्; कुत: ? साम्यादनवस्थितेः-- यथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यते, एवं समवा- योऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव संबन्धेन समवायिभिः संबध्येत, अत्यन्तभेदसाम्यात्; ततश्च तस्य तस्यान्योऽन्यः संबन्धः कल्पयितव्य इत्यनव- स्थैव प्रसज्येत ! ननु इह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते, नासंबद्ध:, संबन्धान्तरापेक्षो वा ; ततश्च न तस्यान्यः संबन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति । नेत्युच्यते ; संयोगोऽप्येवं सति संयोगिभिर्नित्य- संबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत । अथार्था- न्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवायोऽपि तर्ह्यर्था - न्तरत्वात्संबन्धान्तरमपेक्षेत । न च - गुणत्वात्संयोग: संब- न्धान्तरमपेक्षते, न समवायः अगुणत्वादिति -- युज्यते वक्तुम् ; अपेक्षाकारणस्य तुल्यत्वात्, गुणपरिभाषायाचा- तन्त्रत्वात् । तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्ये - सूत्रभाष्ये [ पा. २. तैवानवस्था; प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वा- सिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येत; तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ नित्यमेव च भावात् ॥ १४ ॥ - अपि चाणवः प्रवृत्तिस्वभावा वा, निवृत्तिस्वभावा वा, उभयस्वभावा वा, अनुभयस्वभावा वा अभ्युपगम्यन्ते- गत्यन्तराभावात् ; चतुर्धापि नोपपद्यते — प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः ; निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः ; उभयस्वभावत्वं च विरोधादसमञ्जसम् अनुभयस्वभावत्वे तु निमित्तवशा- त्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसं- निधानान्नित्यप्रवृत्तिप्रसङ्गः, अतन्त्रत्वेऽप्यदृष्टादेर्नित्याप्रवृत्तिप्र- सङ्गः । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥ सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमा- णवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्या- सू. १५.] द्वितीयोऽध्यायः । श्वेति यद्वैशेषिका अभ्युपगच्छन्ति, स तेषामभ्युपगमो निरा- लम्बन एव; यतो रूपादिमत्त्वात्परमाणूनामणुत्वंनित्यत्व- विपर्यय: प्रसज्येत; परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीत मापद्येतेत्यर्थः । कुत: ? एवं लोके दृष्ट- त्वात् -- यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम ; तद्यथा - पटस्तन्तूनपेक्ष्य स्थूलो- ऽनित्यश्च भवति; तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याच भवन्ति तथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपग- म्यन्ते; तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याच प्राप्नुवन्ति । यच्च नित्यत्वे कारणं तैरुक्तम् -' सदकारण- वन्नित्यम्' इति, तदप्येवं सति अणुषु न संभवति, उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः । यदपि नित्यत्वे द्वि- तीयं कारणमुक्तम् -- ' अनित्यमिति च विशेषतः प्रतिषेधा- भाव:' इति, तदपि नावश्यं परमाणूनां नित्यत्वं साधयति ; असति हि यस्मिन्कस्मिँश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते ; न पुनः परमाणुनित्यत्वमेवापेक्ष्यते ; तच्चास्त्येव नित्यं परमकारणं ब्रह्म ; न च शब्दार्थव्यवहार- मात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तर सिद्धयोः शब्दार्थयोर्व्यवहारावतारात् । यदपि नित्यत्वे तृतीयं कार- सूत्रभाष्ये [पा. २. णमुक्तम्- 'अविद्या च' इति तद्यद्येवं वित्रीयेत सतां परिदृश्यमान कार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत; अथाद्रव्यत्वे सतीति विशे- येत, तथाप्यकारणवत्वमेव नित्यतानिमित्तमापद्येत, तस्य च प्रागेवोक्तत्वात् 'अविद्या च' इति पुनरुक्तं स्यात्; अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसंभवोऽविद्या, सा परमाणूनां नित्यत्वं ख्याप- यति इति व्याख्यायेत -- नावश्यं विनश्यद्वस्तु द्वाभ्या- मेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति ; संयोगसचिवे कस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एत- देवं स्यात्; यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते, तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उप- पद्यते । तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणू- नाम् । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ उभयथा च दोषात् ॥ १६ ॥ गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगु- णा: सूक्ष्मा आप:, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुः - इत्येवमेतानि चत्वारि भूतान्युपचिताप- सू. १७.] द्वितीयोऽध्यायः 1: 1 - चितगुणानि स्थूलसूक्ष्म सूक्ष्मतर सूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते; तद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्पे- रन् न वा ; उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्या- त् । कल्प्यमाने तावदुपचितापचितगुणत्वे, उपचितगुणानां मूर्त्यपचयादपरमाणुत्वप्रसङ्गः ; न चान्तरेणापि मूर्त्यपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूर्त्यप- चयदर्शनात् । अकल्पयमाने तूपचितापचितगुणत्वे परमा- णुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्ये- ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्श- योः, पृथिव्यां च रसरूपस्पर्शानाम्, कारणगुणपूर्वकत्वात्कार्य- गुणानाम् ; अथ सर्वे चतुर्गुणा एव कल्प्येरन्, ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ च गन्ध- रूपरसानाम् । न चैवं दृश्यते । तस्मादप्यनुपपन्नः परमा- कारणवादः ॥ रन, अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥ प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभि: स- त्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः ; अयं तु परमाणु- कारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः । अपि च वैशेषिका- ." सूत्रभाष्ये [पा.. २. स्तन्त्रार्थभूतान् षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसम- वायाख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्ति - यथा मनुष्योऽश्वः शश इति ; तथात्वं चाभ्युपगम्य तद्वि- रुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति; तन्नोपपद्यते ; कथम् ? यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभि- नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामप्यत्य- न्तभिन्नत्वात् नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति ; अथ भवति द्रव्याधीनत्वं गुणादीनाम्, ततो द्रव्यभावे भावाद्द्रव्याभावेऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्र- त्ययभाग्भवति — यथा देवदत्त एक एव सन् अवस्थान्तर- योगादनेकशब्दप्रत्ययभाग्भवति, तद्वत्; तथा सति सांख्य- सिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् । नन्वग्ने- रन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते; सत्यं दृश्यते ; भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते; इह तु - शुक्लः कम्बलः, रोहिणी धेनु:, नीलमुत्पलम् - इति द्रव्य- स्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति तस्माद्रव्यात्म- कता गुणस्य । एतेन कर्मसामान्यविशेषसमवायानां द्रव्या- त्मकता व्याख्याता ॥ सू. १७.] द्वितीयोऽध्यायः । गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति य- द्युच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात्, अपृथ- कालत्वं वा, अपृथक्स्वभावत्वं वा; सर्वथापि नोपपद्यते - अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत ; कथम् ? तन्त्वा - रब्धो हि पटस्तन्तुदेशो ऽभ्युपगम्यते, न पटदेशः ; पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, न तन्तुदेशाः ; तथा चाहु:--' द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणा- न्तरम्' इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमा- रभन्ते, तन्तुगताश्च गुणा: शुक्लादयः कार्यद्रव्ये पटे शुक्ला- दिगुणान्तरमारभन्ते इति हि तेऽभ्युपगच्छन्ति; सोऽभ्यु- पगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत । अथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत सव्यदक्षिणयोरपि गोवि- षाणयोरयुत सिद्धत्वं प्रसज्येत । तथा अपृथक्स्वभावत्वे त्वयु- तसिद्धत्वे, न द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादा- त्म्येनैव प्रतीयमानत्वात् ॥ युतसिद्धयोः संबन्धः संयोगः, अयुतसिद्धयोस्तु सम- वायः -- इत्ययमभ्युपगमो मृषैव तेषाम्, प्राक्सिद्धस्य कार्या- त्कारणस्यायुतसिद्धत्वानुपपत्तेः । अथान्यतरापेक्ष एवायम- भ्युपगमः स्यात्—अयुतसिद्धस्य कार्यस्य कारणेन संबन्ध: S. W. II. 7 सूत्रभाष्ये : [पा. २. " समवाय इति, एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते, द्वयायत्तत्वात्संबन्धस्य । सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धा- वभ्युपगम्यमानायामयुत सिद्धयभावात् कार्यकारणयो: सं- योगविभागौ न विद्येते इतीदमुक्तं दुरुक्तं स्यात् । यथा चोत्प- मात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्या- न्तरैः संबन्धः संयोग एवाभ्युपगम्यते, न समवायः, एवं कारणद्रव्येणापि संबन्ध: संयोग एव स्यात्, न समवायः । नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धिव्यति- रेकेणास्तित्वे किंचित्प्रमाणमस्ति संबन्धिशब्दप्रत्ययव्यतिरे- केण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत्, न; एकत्वेऽपि स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शना- त् । यथैकोऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापे- क्ष्य अनेकशब्दप्रत्ययभाग्भवति — मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविर: पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहस्रादिशब्दप्रत्यय भे- दमनुभवति, तथा संबन्धिनोरेव संबन्धिशब्दप्रत्ययव्यतिरेके- ण संयोगसमवायशब्दप्रत्ययार्हत्वम्, न व्यतिरिक्तवस्त्वस्ति- - सू. १७.] " द्वितीयोऽध्यायः । " - त्वेन -- इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्व- न्तरस्य ; नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः संत- तभावप्रसङ्गः; स्वरूपबाह्यरूपापेक्षयेति —— उक्तोत्तरत्वात् । तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात्; कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत्, न ; अविद्यमा- नार्थ कल्पनायां सर्वार्थसिद्धिप्रसङ्गात् इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः, नातोऽधिकः - इति नियमहेत्वभावात् कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभ- - न च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्योऽन्ये- ऽधिकाः शतं सहस्रं वा अर्था न कल्पयितव्या इति निवा- रको हेतुरस्ति; तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत्; कश्चित्कृपालुः प्राणिनां दुःखबहुल: संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्प- येत्; कस्तयोर्निवारकः स्यात् । किंचान्यत् -- द्वाभ्यां पर- माणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्ति: ; न ह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठव- त्संश्लेषोऽस्ति ; कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा वाच्च- , J नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत्, न; इतरें- सूत्रभाष्ये [पा. २. तराश्रयत्वात् — कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभा- वसिद्धि:, आश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धि: -- कु- ण्डबदरवत् -- इतीतरेतराश्रयता स्यात्; न हि कार्यकार - योर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् ॥ " किंचान्यत् परमाणूनां परिच्छिन्नत्वात् यावत्यो दिश:- षट् अष्टौ दश वा -- तावद्भिरवयवैः सावयवास्ते स्युः, सावयव- त्वादनित्याश्च - इति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत । यांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि त एव परमाणव इति चेत्, न; स्थूलसूक्ष्मतारतम्यक्रमेण आ परमकारणाद्वि- नाशोपपत्तेः -- यथा पृथिवी व्यणुकाद्यपेक्षया स्थूलतमा बस्तु- भूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजा- तीयकं विनश्यति, ततो द्व्यणुकम्, तथा परमाणवोऽपि प्र- थिव्येकजातीयकत्वाद्विनश्येयुः । विनश्यन्तोऽप्यवयवविभा- नैव विनश्यन्तीति चेत्, नायं दोषः ; यतो घृतकाठिन्य- विलयनवदपि विनाशोपपत्तिमवोचाम - यथा हि घृतसुवर्णा- दीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभा- वापस्या मूर्त्यादिविनाशो भविष्यति । तथा कार्यारम्भोऽपि सू. १८. ] द्वितीयोऽध्यायः । नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणा- व्यवयवसंयोगान्तरं दुधिहिमादिकार्यारम्भदर्शनात् । तदेवम- सारतरतर्कसंदृब्धत्वादीश्वरकारण श्रुतिविरुद्धत्वाच्छ्रतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षा अस्मिन्पर- माणु कारणवादे कार्या आर्यैः श्रेयोर्थिभिरिति वाक्यशेषः ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ । वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्र- हाच्च नापेक्षितव्य इत्युक्तम् ; सोऽर्धवैनाशिक इति वैनाशिक - ४. समुदाया - त्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपे- धिकरणम् । क्षितव्य इतीदमिदानीमुपपादयामः । स च बहुप्रकार:, प्रतिपत्तिभेदाद्विनेयभेदाद्वा ; तत्रैते त्रयो वादिनो भवन्ति - केचित्सर्वास्तित्ववादिनः; केचिद्विज्ञानास्तित्वमा- त्रवादिनः; अन्ये पुनः सर्वशून्यत्ववादिन इति । तत्र ये सर्वा- स्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति, भूतं भौतिकं च, चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः । तत्र भूतं पृथिवीधात्वादयः, भौतिकं रूपादयश्चक्षुरादयश्च चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहोष्णेरणस्वभावाः, ते पृथि- व्यादिभावेन संहन्यन्ते इति मन्यन्ते ; तथा रूपविज्ञानवे- " ३८२. सूत्रभाष्ये [पा. २. दनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाः, तेऽप्याध्यात्मं सर्व- व्यवहारास्पभावेन संहन्यन्ते —- इति मन्यन्ते ॥ तत्रेदमभिधीयते— योऽयमुभयहेतुक उभयप्रकारः समु- दायः परेषामभिप्रेतः - अणुहेतुकच भूतभौतिकसंहतिरूपः, स्कन्धहेतुकञ्च पञ्चस्कन्धी रूपः -- तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे, तदप्राप्तिः स्यात् — समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः ; कुत: ? समुदायिनामचेतन- त्वात्, चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात्, अन्यस्य च कस्यचिश्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात्, निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुप- रमप्रसङ्गात्, आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात्, क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः । तस्मा- त्समुदायानुपपत्तिः; समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्ये ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्ति- मात्रनिमित्तत्वात् ॥ १९ ॥ यद्यपि भोक्ता प्रशासिता वा कश्चिचेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते सू. १९.] द्वितीयोऽध्यायः । ३८३. लोकयात्रा; तस्यां चोपपद्यमानायां न किंचिदपरमपेक्षि- तव्यमस्ति ते चाविद्यादयः -- अविद्या संस्कार: विज्ञानं ; नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जाति: जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता—- इत्ये- वजातीयका इतरेतरहेतुकाः सौगते समये कचित्संक्षिप्ता निर्दिष्टा:, कचित्प्रपञ्चिता: ; सर्वेषामप्ययमविद्यादिकलापो- ऽप्रत्याख्येयः ; तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिक- भावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्न: संघा- त इति चेत्, तन्न; कस्मात् ? उत्पत्तिमात्रनिमित्तत्वात् --' भवेदुपपन्नः संघातः, यदि संघातस्य किंचिन्निमित्तमवगम्ये- त; न त्ववगम्यते ; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पू- र्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत्, न तु संघातोत्पत्तेः किंचिन्निमित्तं संभवति । नन्वविद्यादिभिरर्था- दाक्षिप्यते संघात इत्युक्तम्; अत्रोच्यते-यदि तावदयमभि- प्राय: - अविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य किंचिन्निमित्तं वक्तव्यम् ; तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भो- तृषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम ; किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तरहितेष्वाश्रयाश्रयिशून्येषु वाभ्यु- सूत्रभाष्ये [पा. २. पगम्यमानेषु संभवेत् ? अथायमभिप्रायः - अविद्यादय एव संवातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमाना- स्तस्यैव निमित्तं स्युः १ अथ मन्यसे - संघाता एवानादौ संसारे संतत्यानुवर्तन्ते, तदाश्रयाश्वाविद्यादय इति, तदापि संघातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत; नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात्; अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात्; उभयम- प्यभ्युपगमविरुद्धम् । अपि च यद्भोगार्थः संघातः स्यात्, स जीव नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः ; ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीय: ; तथा मोक्षो मोक्षार्थं एवेति मुमुक्षुणा नान्येन भवितव्यम्; अन्येन चेत्प्रा- तोभयम्, भोगमोक्षकालावस्थायिना तेन भवितव्यम् ; अव- स्थायित्वे क्षणिकत्वाभ्युपगमविरोधः । तस्मादितरेतरोत्पत्ति- मात्रनिमित्तत्वमविद्यादीनां यदि भवेत् भवतु नाम ; न तु संघातः सिध्येत्, भोक्त्रभावात् — इत्यभिप्राय: ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ उक्तमेतत् - अविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघा- सू. २०. ] द्वितीयोऽध्यायः । तसिद्धिरस्तीति; तदपि तु उत्पत्तिमात्रनिमित्तत्वं न संभवती- तीदमिदानीमुपपाद्यते । क्षणभङ्गवादिनोऽयमभ्युपगमः -- उत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति; न चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम्, निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभा- वग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः ; अथ भावभूतः परिनि- पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्राय:, तथापि नोपपद्यते, भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंब- न्धप्रसङ्गात् ; अथ भाव एवास्य व्यापार इत्यभिप्रायः, तथापि नैवोपपद्यते, हेतुस्वभावानुपरक्तस्य फलस्योत्पत्यसंभ- वात्; स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलका- लावस्थायित्वे सति, क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः ; विनैव वा स्वभावोपरागेण हेतुफलभावमभ्युपगच्छतः सर्वत्र तत्प्रा- प्प्रेरतिप्रसङ्गः । अपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम्, अवस्थान्तरं वा, वस्त्वन्तरमेव वा -- सर्व- थापि नोपपद्यते ; यदि तावद्वस्तुनः स्वरूपमेवोत्पाद निरोधौ स्याताम्, ततो वस्तुशब्द उत्पाद निरोधशब्दौ च पर्याया: प्रा- मुयु: ; अथास्ति कश्चिद्विशेष इति मन्येत — उत्पाद निरोध- शब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिल- " सूत्रभाष्ये [पा. २. प्येते इति एवमप्याद्यन्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुन: क्ष- णिकत्वाभ्युपगमहानिः ; अथात्यन्तव्यतिरिक्तावेवोत्पादनि- रोधो वस्तुनः स्याताम् - अश्वमहिषवत्, ततो वस्तु उत्पा- दनिरोधाभ्यामसंस्पृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ; यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम् एवमपि द्र- धर्मौ तौ न वस्तुधर्माविति वस्तुन: शाश्वतत्वप्रसङ्ग एव । तस्मादप्यसंगतं सौगतं मतम् ॥ असति प्रतिज्ञोपरोधो यौगपद्य- मन्यथा ॥ २१ ॥ क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् ; अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्, ततः प्रतिज्ञोपरोधः स्यात् - चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्प- द्यन्त इतीयं प्रतिज्ञा हीयेत; निर्हेतुकायां चोत्पत्तावप्रतिब- न्धात्सर्वं सर्वत्रोत्पद्येत । अथोत्तरक्षणोत्पत्तिर्यावत्तावदवति- ष्ठते पूर्वक्षण इति ब्रूयात्, ततो यौगपद्यं हेतुफलयोः स्यात् ; तथापि प्रतिज्ञोपरोध एव स्यात् -- क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत ॥ प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर- विच्छेदात् ॥ २२ ॥ सू. २.३.] द्वितीयोऽध्यायः । अपि च वैनाशिकाः कल्पयन्ति --- बुद्धिबोध्यं त्रयाद- न्यत्संस्कृतं क्षणिकं चेति; तदपि च त्रयम् - प्रतिसंख्याप्रतिसं-. ख्यानिरोधौ आकाशं चेत्याचक्षते; त्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते ; बुद्धिपूर्वकः किल वि नाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते ; तद्विपरी- तोऽप्रतिसंख्या निरोध: ; आवरणाभावमात्रमाकाशमिति । ते- षामाकाशं परस्तात्प्रत्याख्यास्यति ; निरोधद्वयमिदानीं प्रत्या- चष्टे - प्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसंभव इत्य- र्थः ; कस्मात् ? अविच्छेदात् — एतौ हि प्रतिसंख्याप्रति- संख्यानिरोधौ संतानगोचरौ वा स्याताम् भावगोचरौ वा ; न तावत्संतानगोचरौ संभवतः, सर्वेष्वपि संतानेषु संतानि - नामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् ; नापि भावगोचरौ संभवत:- न हि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञा- नबलेनान्वय्यविच्छेददर्शनात्, अस्पष्टप्रत्यभिज्ञानास्वप्यव- स्थासु कचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् । तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः ॥ - उभयथा च दोषात् ॥ २३ ॥ योऽयमविद्यादिनिरोधः प्रतिसंख्या निरोधान्त:पाती पर - सूत्रभाष्ये [पा. २. परिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात् ; स्वयमेव वा — पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गः ; उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः । एवमुभयथापि दोष- प्रसङ्गादसमञ्जसमिदं दर्शनम् ॥ आकाशे चाविशेषात् ॥ २४ ॥ यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्य- मिति—तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् ; आकाशस्येदानीं निराक्रियते । आकाशे चायुक्तो निरुपाख्य- त्वाभ्युपगमः, प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्र- तिपत्तेरविशेषात् । आगमप्रामाण्यात्तावत् ' आत्मन आका- शः संभूतः' इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसि- द्धि: । विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम- न्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् । अपि च आवरणाभावमात्रमाकाशमिच्छताम्, एकस्मिन्सुपर्णे पतत्या- -- -ग- वरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रस- ङ्गः ; यत्रावरणाभावस्तत्र पतिष्यतीति चेत् — येनावरणाभा- वो विशेष्यते, तत्तर्हि वस्तुभूतमेवाकाशं स्यात्, न आवरणा- भावमात्रम् ; अपि च आवरणाभावमात्रमाकशं मन्यमा- नस्य सौगतस्य स्वाभ्युपगमविरोध: प्रसज्येत; सौगते हि स- सू. २५.] द्वितीयोऽध्यायः । मये 'पृथिवी भगवः किंसंनिश्रया' इत्यस्मिन्प्रश्नप्रतिवचन- प्रवाहे पृथिव्यादीनामन्ते ' वायुः किंसंनिश्रयः' इत्यस्य प्रश्नस्य प्रतिवचनं भवति - 'वायुराकाशसंनिश्रय:' इति ; तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात्; तस्मादप्ययुक्तमा- काशस्यावस्तुत्वम् । अपि च निरोधद्वयमाकाशं च त्रयम- प्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ; न ह्यव- स्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मि- व्यवहारस्य ; धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात्, न निरुपाख्यत्वम् ॥ अनुस्मृतेश्व ॥ २५ ॥ अपि च वैनाशिक : सर्वस्य वस्तुन: क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात्; न च सा संभवति ; अनुस्मृते:—– अनुभवम् उपलब्धिमनुत्पद्यमानं स्मरणमेव अ- नुस्मृतिः; सा चोपलब्ध्येककर्तृका सती संभवति, पुरुषा- न्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात्; कथं हि 'अहमदोऽद्राक्षम् - इदमिदानीं पश्यामि' इति च पूर्वोत्तरद- शिन्येकस्मिन्नसति प्रत्ययः स्यात् । अपि च दर्शनस्मरणयोः कर्त. कस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्ध:- 'अहमदोऽद्राक्षम् इदं पश्यामि' इति ; यदि हि तयो- --- सूत्रभाष्ये [पा. २. भिन्नः कर्ता स्यात्, ततः ' अहं स्मरामि -- अद्राक्षीदन्य: ' यत्रैवं प्रत्ययस्तत्र इति प्रतीयात् ; न त्वेवं प्रत्येति कश्चित् ; दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति 'स्म- राम्यहम् - असावदोऽद्राक्षीत्' इति इह तु 'अहमदो- ऽद्राक्षम्' इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्ता- रमवगच्छति ; न 'नाहम्' इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते - यथा अग्निरनुष्णोऽप्रकाश इति वा । तत्रैवं सत्येकस्य दर्शन- स्मरणलक्षणक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् । तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् आ उत्तमादुच्छ्रासात्, अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः, प्र- तिसंदधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? स यदि ब्रूयात् सादृश्यादेतत्संपत्स्यत इति, तं प्रति- ब्रयात् - तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्ष- भङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्, सा- दृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात्; स्याचेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत; 'तेनेदं सदृशम्' इति प्रत्ययान्तरमेवेदम्, न पूर्वोत्तरक्षणद्वयग्रहण- सू. २६.] द्वितीयोऽध्यायः । निमित्तमिति चेत्, न तेन इदम् इति भिन्नपदार्थोपा- दानात् ; प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्, 'तेनेदं सदृशम्' इति वाक्यप्रयोगोऽनर्थकः स्यात्, सादृश्यम् इत्येव प्रयोगः प्राप्नुयात् । यदा हि लोके प्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उ- भयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसं- तानमारोहति । एवमेवैषोऽर्थः इति निश्चितं यत्, तदेव वक्तव्यम् ; ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत्। न चायं सादृश्यात्संव्यवहारो युक्तः ; तद्भावा- वगमात्, तत्सदृशभावानवगमाच्च । भवेदपि कदाचिद्वाह्यव- स्तुनि विप्रलम्भसंभवात् ' तदेवेदं स्यात्, तत्सदृशं वा ' इति संदेह: ; उपलब्धरि तु संदेहोऽपि न कदाचिद्भवति- 'स एवाहं स्यां तत्सदृशो वा' इति य एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि' इति निश्चिततद्भावोपलम्भात् । तस्मादप्यनुपपन्नो वैनाशिक समयः ॥ 6 नासतोऽदृष्टत्वात् ॥ २६ ॥ - इतश्चानुपपन्नो वैनाशिकसमय:, यतः स्थिरमनुयायिका- रणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत; द- र्शयन्ति चाभावाद्भावोत्पत्तिम्- 'नानुपमृद्य प्रादुर्भावात् ' सूत्रभाष्ये [पा. २. इति ; विनष्टाद्धि किल बीजादङ्कर उत्पद्यते, तथा विनष्टात्क्षी- राद्दधि, मृत्पिण्डाच्च घटः ; कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत, अविशेषात्सर्वं सर्वत उत्पद्येत; तस्मादभावग्रस्तेभ्यो बीजादि- भ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः इति मन्य- न्ते । तत्रेदमुच्यते—'नासतोऽदृष्टत्वात्' इति । नाभावाद्भाव उत्पद्यते ; यद्यभावाद्भाव उत्पद्येत, अभावत्वाविशेषात्कारणवि- शेषाभ्युपगमोऽनर्थकः स्यात्; न हि, बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च नि:स्वभावत्वा- विशेषादभावत्वे कश्चिद्विशेषोऽस्ति ; येन, बीजादेवाङ्कुरो जाय- ते क्षीरादेव दधि--- इत्येवं जातीयकः कारणविशेषाभ्युपगमो- Sर्थवान्स्यात् निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शश- विषाणादिभ्योऽप्यङ्करादयो जायेरन्; न चैवं दृश्यते; यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत - उत्पलादीनामिव नी- लत्वादि:, ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्र- सज्येत; नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव, शशविषाणादिवत् ; अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्य स्यात्; न चैवं दृश्यते, सर्वस्य च वस्तुन: स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् न च मृदन्विताः शरा- वादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते ; • मृद्वि- सू. २७.] द्वितीयोऽध्यायः । कारानेव तु मृदन्वितान्भावान लोकः प्रत्येति । यत्तूक्तम् -स्वरू- पोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेर- भावाद्भावोत्पत्तिर्भवितुमर्हतीति, तद्दुरुक्तम्, स्थिरस्वभावाना- मेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकारणभावदर्श-' नात्; येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासा- पद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिका- रणभावाभ्युपगमात् । तम्मादसद्भयः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्, सद्भयश्च सुवर्णादिभ्यः सदुत्पत्तिदर्श- नात्, अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः । अपि च चतुर्भिश्चित्त चैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिक लक्षण: समुदाय उत्पद्यते -- इत्यभ्युपगम्य, पुनरभावाद्भावोत्पत्ति कल्पयद्भिरभ्युपगममपहुवानैर्वैनाशिकैः सर्वो लोक आकुली- क्रियते ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीना- नामनीहमानानामपि जनानामभिमतसिद्धिः स्यात्, अभा- वस्य सुलभत्वात् । कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि स- स्यनिष्पत्ति: स्यात्; कुलालस्य च मृत्संस्क्रियायामप्रयतमान- S. W. II. 8 सूत्रभाष्ये [पा. २. स्यापि अमत्रोत्पत्तिः । तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः ; स्वर्गापवर्गयोश्च न कश्चित्कथंचि- त्समीहेत । न चैतद्युज्यते अभ्युपगम्यते वा केनचित् तस्मादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ ५. नाभावा- नाभाव उपलब्धेः ॥ २८ ॥ 1 एवं बाह्यार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्रा- वितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते केषां चिकि- ल विनेयानां बाह्ये वस्तुन्यभिनिवेशमालक्ष्य धिकरणम् । तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरचिता । नासौ सुगताभिप्राय: । तस्य तु विज्ञानैकस्कन्धवाद एवाभि- प्रेत: । तस्मिंश्च विज्ञानवादे बुद्धबारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्यार्थे बु- थारोहमन्तरेण प्रमाणादिव्यवहारानवतारात् । कथं पुन- रवगम्यते—अन्तस्थ एवायं सर्वव्यवहारः, न विज्ञानव्य- तिरिक्त बाह्योऽर्थोऽस्तीति ; तदसंभवादित्याह - स हि बा - ह्योऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः, तत्समूहा वा स्त- म्भादय: स्यु: ; तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरि- च्छेद्या भवितुमर्हन्ति, परमाण्वाभासज्ञानानुपपत्तेः ; नापि तत्समूहाः स्तम्भादय:, तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां सू. २८ . ] द्वितीयोऽध्यायः । निरूपयितुमशक्यत्वात् । एवं जात्यादीनपि प्रत्याचक्षीत । अ- पि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य यो- ऽयं प्रतिविषयं पक्षपात : - स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पट- ज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं वि- षयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम्; अङ्गीकृते च तस्मिन्विषया- कारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना । अ- पि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति ; न ह्य- नयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति ; न चैतत्स्वभाववि- वे युक्तम्, प्रतिबन्धकारणाभावान्; तस्मादप्यर्थाभावः । स्वप्नादिवच्चेदं द्रष्टव्यम् - - यथा हि स्वप्नमायामरीच्युदकग- न्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति; एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवि- तुमन्तीत्यवगम्यते, प्रत्ययत्वाविशेषात् । कथं पुनरसति बा - ह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ? वासनावैचित्र्यादित्याह -- अनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्यो- न्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते ; अपि च अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्य- वगम्यते, स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचि- त्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात्, अन्तरेण सूत्रभाष्ये [पा. २. तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्य --- मानत्वान् ; तस्मादप्यभावो बाह्यार्थस्येति । एवं प्राप्ते 4 ; ब्रूम:- :-नाभाव उपलब्धेरिति । न खल्वभावो बाह्यस्या- स्याध्यवसातुं शक्यते; कस्मात् ? उपलब्धेः उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थ:- -स्तम्भ: कुड्यं घटः पट इति; न चोपलभ्यमानस्यैवाभावो भवितुमर्हति यथा हि कश्चि- ह्रुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रू- यात् -- 'नाहं भुजे न वा तृप्यामि' इति --- तद्वदिन्द्रिय- संनिकर्षेण स्वयमुपलभमान एव वाह्यमर्थम् 'नाहमुपलभे न च सोऽस्ति' इति ब्रुवन कथमुपादेयवचनः स्यात् । ननु नाहमेवं ब्रवीभि-- 'न कंचिदर्थमुपलभे' इति ; किं तु ' उपलब्धिव्यतिरिक्तं नोपलभे' इति ब्रवीमि ; बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रवी- षि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव ; न हि कश्चिदुपलब्धिमेव स्तम्भ: कुड्यं चेत्यु- पलभते ; उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्मर्वे लौ- किका उपलभन्ते । अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यन् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते - ' यदन्त- रूपं तद्बहिर्वदवभासते ' इति - तेऽपि हि सर्वलोकप्रसिद्धां सू. २८.] द्वितीयोऽध्यायः । " बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाच बाह्यमर्थम्, 'बहिर्वत्' इति वत्कारं कुर्वन्ति ; इतरथा हि 6 6 कस्मात् 'बहिर्वत' इति ब्रूयुः ; न हि 'विष्णुमित्रोव - न्ध्यापुत्रवदव भासते' इति कश्चिदाचक्षीत; तस्मात् यथानु- भवं तत्त्वम अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम अभ्युपगन्तुम्, न तु बहिर्वन अवभासत इति । ननु वाह्यस्यार्थस्यासंभवात् बहिर्वद्रवभासते इत्यध्यवसि तम; नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यप्रवृ- त्तिपूर्वकौ संभवासंभवाववधार्येते, न पुनः संभवासंभव- पूर्वके प्रमाणप्रवृत्त्यप्रवृत्ती; यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्संभवति ; यत्तु न केनचिदपि प्र- माणेनोपलभ्यते तन्न संभवति ; इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादि-- विकल्पैर्न संभवतीत्युच्येत - उपलब्धेरेव ? न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसा- रूप्यानुपपत्तेः, बहिरुपलब्धेश्व विषयस्य ; अत एव सहोपल- म्भनियमोऽपि प्रत्ययविषययोरुपायो पेयभावहेतुकः, न अभे- दहेतुक:- इत्यभ्युपगन्तव्यम् । अपि च घटज्ञानं पटज्ञान- मिति विशेषणयोरेव घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य - सूत्रभाष्ये [पा. २ : यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्य कार्ण्ययोरेव भेद:, न गोत्वस्य ; द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः; तस्मादर्थज्ञानयोर्भेदः; तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् ; अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, न विशेषणस्य घटस्य- - यथा क्षीरग- न्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशे- षणस्य क्षीरस्य, तद्वत् । अपि च द्वयोर्विज्ञानयोः पूर्वोत्तर- कालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानु- पपत्ति: : ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञां स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मब-' न्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः -- ता हीयेरन । किंचान्य- त्-- विज्ञानं विज्ञानमित्यभ्युपगच्छता, बाह्यार्थः स्तम्भ: कु- ड्यमित्येवजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम ? विज्ञानमनुभूयत इति चेत्, बाह्योऽप्यर्थोऽनुभूयत एवेति यु- क्तमभ्युपगन्तुम् ; अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वय-' मेवानुभूयते, न तथा बाह्योऽप्यर्थ इति चेत् — अत्यन्तविरु- द्धां स्वात्मनि क्रियामभ्युपगच्छसि - अग्निरात्मानं दहतीति- वत्; अविरुद्धं तु लोकप्रसिद्धम् —— स्वात्मव्यतिरिक्तेन विज्ञा- नेन बाह्यार्थोऽनुभूयत इति नेच्छसि ; अहो पाण्डित्यं महद्द - - सू. २८.] द्वितीयोऽध्यायः । ३९९. विज्ञानग्रहणमात्र शितम् ; न चार्थव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य स्वरूपव्यति- रिक्तग्राह्यत्वे तदप्यन्येन ग्राह्यं तदप्यन्येन इत्यनवस्था प्राप्नोति ; अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञा- नान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत् एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुप- पत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्धुपलभ्यभावो- पपत्तेः, स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् । किंचा- न्यन --- प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्र- थते -- इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमि- त्युक्तं स्यात् —— शिलाघनमध्यस्थप्रदीप सहस्रप्रथनवत् ; बाढ- मेवम्-- अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनु- ज्ञायत इति चेत्, न; अन्यस्यावगन्तुश्चक्षुः साधनस्य प्रदी- ' पादिप्रथनदर्शनात्; अतो विज्ञानस्याप्यवभास्यत्वाविशेषा- त्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते । सा- क्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता, स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेन् न विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्यु- , सूत्रभाष्ये [ पा. २. पगमात्; अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्व- मस्माभि: प्रसाधितम् ॥ वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥ ---- यदुक्तं बाह्यार्थापलापिना स्वप्नादिप्रत्ययवज्जागरितगोच- रा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः, प्रत्यय- त्वाविशेषादिति, तत्प्रतिवक्तव्यम् ; अत्रोच्यते न स्वप्ना- दिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति; कस्मात् वैधर्म्या- तू — वैधर्म्यं हि भवति स्वप्नजागरितयो:; किं पुनर्वैधर्म्यम् ! बाध्यते हि स्वप्नोपलब्धं वस्तु ब्रूमः - प्रतिबुद्धस्य --- मिथ्या मयोपलब्धो महाजनसमागम इति, न ह्यस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो ब- भूव तेनैषा भ्रान्तिरुद्बभूवेति; एवं मायादिष्वपि भवति य- थायथं बाधः ; नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यां- चिदप्यवस्थायां बाध्यते । अपि च स्मृतिरेषा, यत्स्वप्नदर्श- नम् ; उपलब्धिस्तु जागरितदर्शनम् ; स्मृत्युपलब्ध्योश्च प्रत्य- क्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसंप्रयोगात्मकम—- इष्टं पुत्रं स्मरामि, नोपलभ, उपलब्धुमिच्छामीति । तत्रैवं सति न शक्यते वक्तुम् -- मिथ्या जागरितोपलब्धिः, उपलब्धि- स्वप्नोपलब्धिवदिति- उभयोरन्तरं स्वयमनुभ- त्वात्, सू. ३०.] द्वितीयोऽध्यायः । वता ; न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् । अपि च अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरा- लम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते ; न च, यो यस्य स्वतो धर्मो न संभवति सोऽन्यस्य साधर्म्यात्तस्य संभविष्यति ; न ह्यग्निरुष्णोऽनुभूयमान उद- कसाधर्म्याच्छीतो भविष्यति ; दर्शितं तु वैधर्म्य स्वप्नजा- गरितयोः ॥ न भावोऽनुपलब्धेः ॥ ३० ॥ , ; यदप्युक्तम् - विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्या- देवावकल्पत इति तत्प्रतिवक्तव्यम्; अबोच्यते—न भावो वासनानामुपपद्यते, त्वत्पक्षेऽनुपलब्धेर्बाह्यानामर्थानाम् अ- र्थोपलब्धिनिमित्ता हि प्रत्यर्थ नानारूपा वासना भवन्ति; अ- नुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः ? अनादित्वेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलो- पिनी स्यात्, नाभिप्रायसिद्धिः ; यावप्यन्वयव्यतिरेकावर्था- पलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनि- मित्तमिति, तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ, विना अर्थोपल- ब्ध्या वासनानुपपत्तेः । अपि च विनापि वासनाभिरर्थोपल- ब्ध्युपगमात्, विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमात् - सूत्रभाष्ये .[पा. २. अर्थ सद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः । अपि च वा- सना नाम संस्कारविशेषाः ; संस्काराश्च नाश्रयमन्तरेणावक- रूपन्ते, एवं लोके दृष्टत्वात् ; न च तव वासनाश्रयः कश्चिद- स्ति, प्रमाणतोऽनुपलब्धेः ॥ , क्षणिकत्वाच्च ॥ ३१ ॥ यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितम्, त- दपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्, प्रवृत्तिविज्ञान- वन्न वासनानामधिकरणं भवितुमर्हति ; न हि कालत्रयसंब- न्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि देशका- लनिमित्तापेक्षवासनाधीन स्मृति प्रतिसंधानादिव्यवहारः संभ- वति; स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानि: । अपि च विज्ञानवादेऽपि क्षणिकत्वाभ्युपगमस्य समानत्वान्, यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावि- तानि - ' उत्तरोत्पादे च पूर्वनिरोधात्' इत्येवमादीनि, तानीहाप्यनुसंधातव्यानि । एवमेतौ द्वावपि वैनाशिकपक्ष निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च शून्यवा- दिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादर:- क्रियते । न ह्ययं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्व- मनधिगम्य शक्यतेऽपहोतुम, अपवादाभावे उत्सर्गप्रसिद्धेः ॥ --- सू. ३३.] द्वितीयोऽध्यायः । सर्वथानुपपत्तेश्च ॥ ३२ ॥ किं बहुना ? सर्वप्रकारेण यथा यथायं वैनाशिक - मय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा---सिकताकूपव- द्विदीर्यत एव न कांचिदप्यत्रोपपत्तिं पश्यामः ; अतश्चानु- पपन्नो वैनाशिकतन्त्रव्यवहारः । अपि च बाह्यार्थविज्ञानशू- न्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्म- नोऽसंबद्धप्रलापित्वम्, प्रद्वेषो वा प्रजासु - विरुद्धार्थप्रतिप- त्या विमुह्येयुरिमाः प्रजा इति । सर्वथाप्यनादरणीयोऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्राय: : ॥ नैकस्मिन्नसंभवात् ॥ ३३ ॥ निरस्त: सुगतसमय: ; विवसनसमय इदानीं निरस्यते । सप्त चैषां पदार्थाः संमताः जीवाजीवास्रव संवरनिर्जरब- ६. एकस्मिन्नसंभवा- न्धमोक्षा नाम; संक्षेपतस्तु द्वावेव पदा- धिकरणम् । र्थी जीवाजीवाख्यौ, यथायोगं तयोरेवेत - रान्तर्भावात् — इति मन्यन्ते । तयोरिममपरं प्रपञ्चमाचक्ष- ते, पञ्चास्तिकाया नाम- जीवास्तिकाय: पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति । सर्वे- षामप्येषामवान्तरभेदान्बहुविधान्स्वसमय परिकल्पितान्वर्णय-- सूत्रभाष्ये " [ पा. २. न्ति । सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति - स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति; एवमेवैकत्वनित्यत्वादिष्वपी सप्तभङ्गीनयं योजयन्ति ॥ अत्राचक्ष्महे - नायमभ्युपगमो युक्त इति कुतः ? ए- कस्मिन्नसंभवात् । न ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिवि- रुद्धधर्मसमावेशः संभवति, शीतोष्णवत्; य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युः ; इतरथा हि, तथा वा स्युरतथा वेत्यनिर्धारि- तरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्र- माणं भवितुमर्हति नेति ब्रूमः - निरङ्कुशं ह्यनेकान्तत्वं सर्व- वस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात्, ' स्यादस्ति स्यान्नास्ति' इत्यादिविकल्पोपनिपातादनिर्धारणा- त्मकतैव स्यात् ; एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्प- क्षेsस्तिता, स्याश्च पक्षे नास्तितेति; एवं सति कथं प्रमाण- भूतः सन् तीर्थकर प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टे - ; सू. ३३.] द्वितीयोऽध्यायः । Sर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्व निर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुल: प्रवर्तते, ना- न्यथा ; अतश्चानिर्धारितार्थ शास्त्रं प्रणयन मत्तोन्मत्तवदनुपा- देयवचनः स्यात् । तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या 'अस्ति वा नास्ति वा' इति विकल्प्यमाना, स्यात्तावदेक- स्मिन्पक्षे, पक्षान्तरे तु न स्यात — इत्यतो न्यून संख्यात्व- मधिकसंख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानामवक्तव्य- त्वं संभवति; अवक्तव्याश्चेन्नोच्येरन्; उच्यन्ते चावक्तव्या- श्चेति विप्रतिषिद्धम् ; उच्यमानाश्च तथैवावधार्यन्ते नावधा- र्यन्त इति च । तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा — इति प्रलपन् मत्तोन्मत्तपक्षस्यैव पक्षः स्यात्, न प्रत्य- यितव्यपक्षस्य । स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभाव:, तथा पक्षे नित्यता पक्षे चानित्यता- इत्यनवधारणायां प्रवृत्त्य- नुपपत्ति: । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्व- `भावानामयथावधृतस्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थे- ष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात् स- त्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासंभवात, असत्त्वे चैवं सत्त्वस्यासंभवात्, असंगतमिदमाईतं मतम् । एतेनैकानेकनि- - सूत्रभाष्ये [पा. २. त्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्या: । यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः संभवन्ती- ति कल्पयन्ति, तत्पूर्वेणैवाणुवाद निराकरणेन निराकृतं भव- तीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते ॥ एवं चात्माकात्स्यम् ॥ ३४ ॥ यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रस- क्तः, एवमात्मनोऽपि जीवस्य अकात्यमपरो दोष: प्रसज्ये - त; कथम् ? शरीरपरिमाणो हि जीव इत्याहता मन्यन्ते; शरीरपरिमाणतायां च सत्याम्, अकृत्स्नोऽसर्वगतः परि- च्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मन: प्रसज्येत ; शरी- राणां चानवस्थितपरिमाणत्वात् मनुष्यजीवो मनुष्यशरीरप- रिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन् न कृत्स्नं हस्तिशरीरं व्याप्नुयात्; पुत्तिकाजन्म च प्राप्नुवन् न कृत्स्नः पुत्तिकाशरीरे संमीयेत ; समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः । स्यादेतत्- अनन्ताव- यवो जीवः; तस्य त एवावयवा अल्पे शरीरे संकुचेयुः ; महति च विकसेयुरिति । तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिविहन्यते वा, नवे वक्तव्यम् ; प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् ; अप्रति- सू. ३५. ] द्वितीयोऽध्यायः । घातेऽप्येकावयव देशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपप- तेर्जीवम्याणुमात्रत्वप्रसङ्गः स्यात; अपि च शरीरमात्रपरि- च्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् ॥ अथ पर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उप- गच्छन्ति, तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत ; तत्राप्युच्यते- न च पर्यायादप्यविरोधो विका- रादिभ्यः ॥ ३५ ॥ न च पर्यायेणाध्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते ; कुत: ? विकारादिदो- षप्रसङ्गात् -- अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्या- पक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम; विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत; ततश्च बन्ध- मोक्षाभ्युपगमो बाध्येत - कर्माष्टकपरिवेष्टितस्य जीवस्य अला- वूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भव- तीति । किंचान्यत् — आगच्छतामपगच्छतां च अवयवाना- मागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत् ; ततश्चाव- स्थितः कश्चिदवयव आत्मेति स्यात् ; न च स निरूपयितुं सूत्रभाष्ये [पा. २. शक्यते-अयमसाविति । किंचान्यत् आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क वा लीयन्त इति वक्तव्यम् ; न हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु च निलीयेरन, अभौतिकत्वाज्जीवस्य नापि कश्चिदन्यः ; साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात् । किंचान्यत् -- अनवधृतस्वरूपचैवं सति आत्मास्यात्, आगच्छतामपगच्छतां च अवयवानामनियत- परिमाणत्वात्; अत एवमादिदोषप्रसङ्गात् न पर्यायेणाप्यवय- बोपगमापगमावात्मन आश्रयितुं शक्येते । अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रति- पत्तावकात्र्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम्, पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतः संताननित्यतान्यायेन आत्मनो नित्यता स्यात् यथा रक्तपटानां विज्ञानानवस्था - नेऽपि तत्संताननित्यता, तद्वद्विसिचामपि -- इत्याशङ्कय; अनेन सूत्रेणोत्तरमुच्यते-- संतानस्य तावदवस्तुत्वे नैरात्म्य- वादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य प- क्षस्यानुपपत्तिरिति ॥ अन्त्यावस्थितेश्वोभयनित्यत्वा- दविशेषः ॥ ३६ ॥ सू. ३७.] द्वितीयोऽध्यायः । अपि च अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नि- त्यत्वमिष्यते जैनैः; तद्वत्पूर्वयोरप्याद्यमध्यमयोजवपरिमाण- योर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात्; एकशरीरपरिमाणतैव स्यात्, न उपचितापचितशरीरान्तरप्राप्तिः । अथवा अन्त्यस्य जीवपरिमाणस्य अवस्थितत्वात् पूर्वयोरप्यवस्थयोरवस्थितप- रिमाण एव जीवः स्यात् ; ततश्चाविशेषेण सर्वदैव अणुर्महा- न्वा जीवोऽभ्युपगन्तव्यः, न शरीरपरिमाण: । अतश्च सौगतवदाहृतमपि मतमसंगतमित्युपेक्षितव्यम् ॥ पत्युरसामञ्जस्यात् ॥ ३७ ॥ इदानीं केवलाधिष्ठात्री श्वरकारणवादः प्रतिषिध्यते । तत्क - थमवगम्यते ? 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' ' अभि- ७. पत्यधिक - ध्योपदेशाच्च' इत्यत्र प्रकृतिभावेन अधिष्ठा- रणम् । तृभावेन च उभयस्वभावस्येश्वरस्य स्वयमेव आचार्येण प्रतिष्ठापितत्वात्; यदि पुनरविशेषेणेश्वरकारणवाद- मात्रमिह प्रतिषिध्येत, पूर्वोत्तरविरोधाव्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत; तस्मादप्रकृतिरधिष्ठाता केवलं निमि- त्तकारणमीश्वरः - इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्ष- त्वात् यत्नेनात्र प्रतिषिध्यते । सा चेयं वेदबाह्येश्वरकल्पना अ- s. w. II. 9 सूत्रभाष्ये [पा. २. नेकप्रकारा के चित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति- प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः; इतरेत- रविलक्षणा: प्रधानपुरुषेश्वरा इति ; माहेश्वरास्तु मन्यन्ते - कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारण- मिति ; तथा वैशेषिकादयोऽपि केचित्कथंचित्स्वप्रक्रियानुसा- रेण निमित्तकारणमीश्वरम् - इति ॥ ; अत उत्तरमुच्यते—पत्युरसामञ्जस्यादिति; पत्युरीश्वर- स्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते ; कस्मात् ? असामञ्जस्यात्; किं पुनरसामञ्जस्यम् ? हीनमध्य- मोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोष- प्रसक्तेः अस्मदादिवदनीश्वरत्वं प्रसज्येत । प्राणिकर्मापेक्षित- त्वाददोष इति चेत्, न कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरे- तराश्रयदोषप्रसङ्गात् । न, अनादित्वात् इति चेन, न; वर्त- मानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरं- परान्यायापत्तेः । अपि च ' प्रवर्तनालक्षणा दोषा:' इति न्यायवित्समय: ; न हि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते ; स्वार्थप्रयुक्त एव च सर्वो जनः परार्थेऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यम्, स्वार्थवत्त्वादीश्वरस्यानीश्वर- सू. ३८. ] द्वितीयोऽध्यायः । त्वप्रसङ्गात् । पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य, पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम् ॥ संबन्धानुपपत्तेश्च ॥ ३८ ॥ पुनरप्यसामञ्जस्यमेव न हि प्रधानपुरुषव्यतिरिक्त ई- -- श्वरोऽन्तरेण संबन्धं प्रधानपुरुषयोरीशिता ; न तावत्संयो- गलक्षण: संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वा- न्निरवयवत्वाच्च ; नापि समवायलक्षणः संबन्ध:, आश्रयाश्र- यिभावानिरूपणात् ; नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुम्, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् । ब्रह्मवादिनः कथमिति चेत्, न तस्य तादात्म्यलक्षण संब- न्धोपपत्तेः ; अपि च आगमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्य - मिति नियमोऽस्ति ; परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यति- शयः । परस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबल- मिति चेत्, न; इतरेतराश्रयप्रसङ्गात्- वैज्ञत्वसिद्धि: सर्वज्ञत्वप्रत्ययाच्चागमसिद्धिरिति । तस्मादनुप- पन्ना सांख्ययोगवादिनामीश्वरकल्पना । एवमन्यास्वपि वेद- आगमप्रत्ययात्स - सूत्रभाष्ये [पा. २. बाह्यास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयित- व्यम् ॥ अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य - स हि प- रिकल्प्यमानः, कुम्भकार इव मृदादीनि प्रधानादीन्यधिष्ठा- य प्रवर्तयेत् ; न चैवमुपपद्यते ; न ह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति, मृदादिवैलक्षण्यात् ॥ करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥ स्यादेतत्-यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादि- हीनं च पुरुषोऽधितिष्ठति, एवं प्रधानमीश्वरोऽधिष्ठास्यती- ति ; तथापि नोपपद्यते ; भोगादिदर्शनाद्धि करणग्रामस्य अधि- ष्ठितत्वं गम्यते ; न चात्र भोगादयो दृश्यन्ते ; करणग्राम सा- म्ये च अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादय: प्रसज्येरन् ॥ अन्यथा वा सूत्रद्वयं व्याख्यायते – 'अधिष्ठानानुपप- त्तेश्व' - इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ; सा- धिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते, न निरधिष्ठान: ; अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमि - सू. ४१.] द्वितीयोऽध्यायः । च्छतः ईश्वरस्यापि किंचिच्छरीरं करणायतनं वर्णयितव्यं स्यात् ; न च तद्वर्णयितुं शक्यते, सृष्टयुत्तरकालभावित्वाच्छ- रीरस्य, प्राक्सृष्टेस्तदनुपपत्तेः ; निरधिष्ठानत्वे चेश्वरस्य प्रव- र्तकत्वानुपपत्तिः, एवं लोके दृष्टत्वात् । 'करणवच्चेन्न भोगा- दिभ्यः ' - अथ लोकदर्शनानुसारेण ईश्वरस्यापि किंचित्कर- णानामायतनं शरीरं कामेन कल्प्येत — एवमपि नोपपद्यते ; सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गात् ईश्वरस्याप्यनी- वरत्वं प्रसज्येत ॥ - अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥ - इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य — सहि स- र्वज्ञस्तैरभ्युपगम्यते ऽनन्तश्च अनन्तं च प्रधानम्, अन- न्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्ते ; तत्र सर्वज्ञेनेश्व- रेण प्रधानस्य पुरुषाणामात्मनश्वेयत्ता परिच्छिद्येत वा, न वा परिच्छिद्येत; उभयथापि दोषोऽनुषक्त एव; कथम् ? पूर्वस्मिंस्तावद्विकल्पे, इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणा- मन्तवत्त्वमवश्यंभावि, एवं लोके दृष्टत्वात्; यद्धि लोके इयत्तापरिच्छिन्नं वस्तु घटादि, तदन्तवद्दृष्टम् - तथा प्रधानपुरु- श्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात्; संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् ; स्वरूपपरिमाण - सूत्रभाष्ये [पा. २. मपि तद्गतमीश्वरेण परिच्छिद्येत, पुरुषगता च महासंख्या । ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते, तेषां सं- सारोऽन्तवान्, संसारित्वं च तेषामन्तवत्; एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां च अन्तवत्त्वं स्यात् ; प्रधानं च सविकारं पुरुषार्थमीश्वरस्य अधिष्ठेयं संसारत्वेना- भिमतम् ; तच्छून्यतायाम् इश्वरः किमधितिष्ठेत् ? किंविषये वा सर्वज्ञतेश्वरते स्याताम् ? प्रधानपुरुषेश्वराणाम् चैवमन्त- वत्त्वे सति आदिमत्त्वप्रसङ्गः ; आद्यन्तवत्त्वे च शून्यवादप्र- सङ्गः । अथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत -न प्रधानस्य पुरुषाणामात्मनश्च इयत्ता ईश्वरेण परिच्छिद्यत इति ; तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रस- ज्येत । तस्मादप्य संगतस्तार्किकपरिगृहीत ईश्वरकारणवादः ॥ उत्पत्त्यसंभवात् ॥ ४२ ॥ येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिम- तः, तेषां पक्षः प्रत्याख्यातः । येषां पुनः प्रकृतिश्चाधिष्ठाता च उ- भयात्मकं कारणमीश्वरोऽभिमत:, तेषां पक्षः प्रत्याख्यायते । ननु श्रुतिसमाश्रयणेनाप्ये- वरूप एवेश्वरः प्रानिर्धारित :- प्रकृति- ८. उत्पत्त्य- संभवाधि- करणम् । वाधिष्ठाता चेति श्रुत्यनुसारिणी च स्मृति: प्रमाणमिति सू. ४२.] द्वितीयोऽध्यायः । स्थिति:; तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति - उच्यते-- यद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवा- दगोचरो भवति, अस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्त- त्प्रत्याख्यानायारम्भः ॥ तत्र भागवता मन्यते- भगवानेवैको वासुदेवो निर- जनज्ञानस्वरूपः परमार्थतत्त्वम् ; स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितः - वासुदेवव्यूहरूपेण, संकर्षणव्यूहरूपेण, प्रद्यु- नव्यूहरूपेण, अनिरुद्धव्यूहरूपेण च ; वासुदेवो नाम पर- मात्मा उच्यते ; संकर्षणो नाम जीव: ; प्रद्युम्नो नाम मन: ; अनिरुद्धो नाम अहंकारः; तेषां वासुदेवः परा प्रकृतिः, इतरे संकर्षणादयः कार्यम् ; तमित्थंभूतं परमेश्वरं भगवन्तमभिग- मनोपादाने ज्या स्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्त- मेव प्रतिपद्यत इति । तत्र यत्तावदुच्यते - योऽसौ नारा- यणः परोऽव्यक्तात्प्रसिद्ध: परमात्मा सर्वात्मा, स आत्मना - त्मानमनेकधा व्यूह्मावस्थित इति - तन्न निराक्रियते, 'स एकधा भवति त्रिधा भवति' इत्यादिश्रुतिभ्यः परमात्मनो - ऽनेकधाभावस्याधिगतत्वात् ; यदपि तस्य भगवतोऽभिगम- नादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते, तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् । य- " " सूत्रभाष्ये ; :- [पा. २. त्पुनरिदमुच्यते-- वासुदेवात्संकर्षण उत्पद्यते, संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाञ्चानिरुद्ध इति, अत्र ब्रूमः - न वासुदेव- संज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभ- वति, अनित्यत्वादिदोषप्रसङ्गात् उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन्; ततश्च नैवास्य भगवत्प्राप्ति- मोक्षः स्यात्, कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् ; प्रति- धिष्यति च आचार्यो जीवस्योत्पत्तिम्- - ' नात्मा श्रुतेर्नित्य- त्वाच्च ताभ्य:' इति । तस्मादसंगतैषा कल्पना ॥ : न च कर्तुः करणम् ॥ ४३ ॥ इतश्चासंगतैषा कल्पना - यस्मान्न हि लोके कर्तुर्देवद- तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते ; वर्णयन्ति च भाग- वताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्न्नसंज्ञकमुत्प- द्यते, कर्तृजाञ्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति ; न चैतदृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः ; न चैवंभूतां श्रुतिमुपलभामहे ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥ अथापि स्यात् - न चैते संकर्षणादयो जीवादिभावेना- भिप्रेयन्ते किं तर्हि, ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्य- सू. ४४.] द्वितीयोऽध्यायः । , तेजोभिरैश्वर्यधर्मैरन्विता अभ्युपगम्यन्ते - वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति; तस्मान्नायं यथा- वर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति । अत्रोच्यते- एवमपि तदप्रतिषेधः उत्पत्त्यसंभवस्याप्रतिषेधः, प्राप्नोत्ये- वायमुत्पत्यसंभवो दोष: प्रकारान्तरेणेत्यभिप्राय: ; कथम् ? यदि तावदयमभिप्रायः- परस्परभिन्ना एवैते वासु- देवादयश्चत्वार ईश्वरास्तुल्यधर्माण:, नैषामेकात्मकत्वमस्ती- ति- ततोऽनेकेश्वरकल्पनानर्थक्यम्, एकेनैवेश्वरेणेश्वरका- र्यसिद्धेः ; सिद्धान्तहानिश्च भगवानेवैको वासुदेव: परमार्थ- तत्त्वमित्यभ्युपगमात् । अथायमभिप्रायः - एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवो- त्पत्त्यसंभवः ; न हि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति, संकर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाञ्चानिरुद्धस्य, अतिशयाभावात् ; भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्घटयो: ; न ह्यसत्यतिशये, कार्य कारणमित्यवकल्पते । न च पञ्चरात्र- सिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादि- तारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते; वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते । न चैते भगवद्वयूहाश्चतुः संख्या- यामेवावतिष्ठेरन् ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात् ॥ " सूत्रभाष्ये विप्रतिषेधाच्च ॥ ४५ ॥ [पा. २. विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यते गुणगु- णित्वकल्पनादिलक्षण:; ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् । वेदवि- प्रतिषेधश्च भवति - चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डि- य इदं शास्त्रमधिगतवानित्यादि वेदनिन्दादर्शनात् । तस्मात् असंगतैषा कल्पनेति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ द्वितीयाध्याये तृतीयः पादः तृतीयः पादः ॥ वे दान्तेषु तत्र तत्र भिन्नप्रस्थाना उ- त्पत्तिश्रुतय उपलभ्यन्ते ; केचिदाका- शस्योत्पत्तिमामनन्ति, केचिन्न ; तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न; एवं जीवस्य प्राणानां च; एवमेव क्रमादिद्वारकोऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते ; विप्रति- षेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितम् ; तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्कयेत — इत्यतः सर्ववेदान्त- गतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः प्रपञ्च आरभ्यते ; तदर्थ- निर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव । तत्र प्रथमं ताव - दाकाशमाश्रित्य चिन्त्यते- न विश्रुतेः ॥ १ ॥ किमस्याकाशस्योत्पत्तिरस्ति उत नास्तीति । तत्र ताव- त्प्रतिपद्यते — न वियदश्रुतेरिति ; न खल्वाकाशमुत्पद्यते ; सूत्रभाष्ये [पा. ३. कस्मात् ? अश्रुतेः न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति ; छा- १. वियदधि - न्दोग्ये हि ' सदेव सोम्येदमग्र आसीदेकमे- करणम् । वाद्वितीयम्' इति सच्छब्दवाच्यं ब्रह्म प्र- कृत्य, ' तदैक्षत' ' तत्तेजोऽसृजत' इति च पञ्चानां महाभू- तानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते ; श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ; न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी ; तस्मान्नाकाशस्यो- त्पत्तिरिति ॥ अस्ति तु ॥ २ ॥ तु-शब्द: पक्षान्तरपरिग्रहे ; मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः; श्रुत्यन्तरे त्वस्ति; तैत्तिरीयका हि समामनन्ति 'सत्यं ज्ञानमनन्तं ब्रह्म' इति प्रकृत्य, ' तस्माद्वा एत- स्मादात्मन आकाशः संभूतः' इति । ततश्च श्रुत्योर्विप्रति- षेधः —— कचित्तेजः प्रमुखा सृष्टिः कचिदाकाशप्रमुखेति । षेधः——क्कचित्तेजःप्रमुखा नन्वेकवाक्यता अनयोः श्रुत्योयुक्ता; सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते ; कुत: ? ' तत्तेजोऽसृजत ' इति सकृ- च्छ्रतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्ते:- ' तत्तेजो- ऽसृजत'' तदाकाशमसृजत' इति । ननु सकृच्छ्रतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते-- यथा सः सूपं पक्त्वा ओदनं सू. ३.] द्वितीयोऽध्यायः । पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयि- ष्यामि ; नैवं युज्यते ; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवग- म्यते ; तैत्तिरीयके च आकाशस्य ; न च उभयोः प्रथमजत्वं संभवति ; एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः - 'त- स्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्यत्रापि तस्मा- दाकाशः संभूतः, तस्मात्तेजः संभूतम् - इति सकृच्छ्रतस्या- पादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुप- पत्तेः, ' वायोरग्निः' इति च पृथगाम्न्नानात् ॥ अस्मिन्विप्रतिषेधे कश्चिदाह- गौण्यसंभवात् ॥ ३ ॥ ; नास्ति वियत उत्पत्तिः, अश्रुतेरेव । या त्वितरा वियदु- त्पत्तिवादिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हति ; कस्मात् ? असंभवात् । न ह्याकाशस्योत्पत्तिः संभावयितुं शक्या, श्री- मत्कणभुगभिप्रायानुसारिषु जीवत्सु ते हि कारणसामग्र्यसं- भवादाकाशस्योत्पत्तिं वारयन्ति; समवाय्यसमवायिनिमित्त- कारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते ; द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति; न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति ; यस्मि - ' सूत्रभाष्ये [पा. ३. न्समवायिकारणे सति असमवायिकारणे च तत्संयोगे, आ- काश उत्पद्येत; तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति । उत्पत्तिमतां च तेजःप्रभृ- तीनां पूर्वोत्तरकालयोर्विशेषः संभाव्यते - प्रागुत्पत्तेः प्रका- शादिकार्य न बभूव, पञ्चाच्च भवतीति; आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते ; किं हि प्रागु- त्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम ! पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्व- सिद्धि: । तस्माद्यथा लोके - आकाशं कुरु, आकाशो जात:- इत्येवंजातीयको गौणः प्रयोगो भवति, यथा च - घटाकाश:, करकाकाशः गृहाकाश: - इत्येकस्याप्याकाशस्य एवंजाती - यको भेदव्यपदेशो गौणो भवति - वेदेऽपि 'आरण्यानाका- शेष्वालभेरन् ' इति; एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ शब्दाच्च ॥ ४ ॥ - शब्दः खल्वप्याकाशस्य अजत्वं ख्यापयति, यत आह- 'वायुश्चान्तरिक्षं चैतदमृतम्' इति न ह्यमृतस्योत्पत्तिरुप- पद्यते ; 'आकाशवत्सर्वगतश्च नित्यः' इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशंस्यापि तौ धर्मों सूचयति ; न च तादृशस्योत्पत्तिरुपपद्यते । 'स सू. ५.] द्वितीयोऽध्यायः । यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः' इति च उदाहरणम- " 'आकाशशरीरं ब्रह्म' " आकाश आत्मा' इति च । न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं संभवति — नीलेनेवोत्पलस्य । तम्मान्नित्यमेवाकाशेन साधा- - रणं ब्रह्मेति गम्यते ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥ , 6 तपसा इदं पदोत्तरं सूत्रम् । स्यादेतत् । कथं पुनरेकस्य संभूत- शब्दस्य 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्य- स्मिन्नधिकारे परेषु तेजः प्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभ- वति, आकाशे च गौणत्वमिति । अत उत्तरमुच्यते - स्या- चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्द्वौणो मुख्यश्च प्र- योग:- ब्रह्मशब्दवत्; यथैकस्यापि ब्रह्मशब्दस्य ब्रह्म विजिज्ञासस्व तपो ब्रह्म' इत्यस्मिन्नधिकारेऽन्नादिषु गौ- णः प्रयोगः, आनन्दे च मुख्य: ; यथा च तपसि ब्रह्मविज्ञा- नसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्र- ह्मणि -- तद्वत् । कथं पुनरनुत्पत्तौ नभसः 'एकमेवाद्विती- यम् ' इतीयं प्रतिज्ञा समर्थ्यते ? ननु नभसा द्वितीयेन स- द्वितीयं ब्रह्म प्राप्नोति ; कथं च ब्रह्मणि विदिते सर्व विदितं स्यादिति, तदुच्यते— ' एकमेव ' इति तावत्स्वकार्यापेक्षयो- S. W. II. 10 सूत्रभाष्ये [पा. ३. पपद्यते; यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादी- निच उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्यु- पलभ्य ब्रूयान् -' मृदेवैकाकिनी पूर्वेद्युरासीत्' इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात्, न दण्डचक्रादि - तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति - यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते नैवं ब्र- ह्मणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति । न च नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते ; लक्षणान्यत्वनिमित्तं हि नानात्वम्; न च प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्टयो: - व्यापित्वामूर्तत्वादिधर्मसामा- न्यात्; सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते, स्तिमितमि- तरत्तिष्ठति, तेनान्यत्वमवसीयते; तथा च 'आकाशशरीरं ब्रह्म' इत्यादिश्रुतिभ्योऽपि ब्रह्माकाशयोरभेदोपचारसिद्धि: ; अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धि: ; अपि च सर्व कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्म- णा च अव्यतिरिक्त देशकालमेवाकाशं भवतीति -- अतो ब्रह्म- णा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति - यथा क्षीरपूर्णे घटे कतिचिदबिन्दवः प्रक्षिप्ताः सन्तः क्षी - ग्रहणेनैव गृहीता भवन्ति न हि क्षीरग्रहणादबिन्दुग्रहणं - सू. ६ . ] द्वितीयोऽध्यायः । परिशिष्यते; एवं ब्रह्मणा तत्कार्यैश्वाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः संभवश्रवणमिति ॥ एवं प्राप्ते, इदमाह - प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥ 6 'येनाश्रुत श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् ' इति, 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्' इति, 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' इति, '' न काचन महिर्धा विद्यास्ति' इति चैवं- रूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते ; तस्याः प्रतिज्ञाया एव- महानिरनुपरोधः स्यात्, यद्यव्यतिरेकः 5: कृत्स्नस्य वस्तुजा- तस्य विज्ञेयाद्ब्रह्मणः स्यात् ; व्यतिरेके हि सति एकविज्ञानेन सर्व विज्ञायत इतीयं प्रतिज्ञा हीयेत । स चाव्यतिरेक एव- मुपपद्यते, यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत । शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिर- वगम्यते ; तथा हि-- 'येनाश्रुतः श्रुतं भवति' इति प्रति- ज्ञाय, मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञे- षा समर्थ्यते ; तत्साधनायैव चोत्तरे शब्दा: - 'सदेव सो- म्येदमग्र आसीदेकमेवाद्वितीयम्' 'तदैक्षत ' ' तत्तेजोऽसृज- सूत्रभाष्ये [पा. ३. त' इत्येवं कार्यजातं ब्रह्मण: प्रदर्श्य, अव्यतिरेकं प्रदर्शयन्ति- 'ऐतदात्म्यमिद सर्वम्' इत्यारभ्य आ प्रपाठकपरिसमाप्तेः ; तद्यद्याकाशं न ब्रह्मकार्य स्यात्, न ब्रह्मणि विज्ञाते आकाशं विज्ञायेत ; ततश्च प्रतिज्ञाहानिः स्यात् ; न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् । तथा हि प्रतिवेदान्तं ते ते श- ब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति -- ' इदं सर्व यदयमात्मा' ' ब्रह्मैवेदममृतं पुरस्तात्' इत्येवमादय: ; तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ॥ यदुक्तम् - अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम, विय- दुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् - ' तस्माद्वा एतस्मा- दात्मन आकाशः संभूतः' इति । सत्यं दर्शितम्, विरुद्धं तु ' तत्तेजोऽसृजत' इत्यनेन श्रुत्यन्तरेण; न, एकवाक्यत्वात्स- श्रुतीनाम् । भवत्वेकवाक्यत्वमविरुद्धानाम्; इह तु विरोध उक्त:—— सकृच्छ्रतस्थ स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाहूयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति नैष दोषः, तेज: स- र्गस्य तैत्तिरीयके तृतीयत्व श्रवणात् - - ' तस्माद्वा एतस्मादा- त्मन आकाशः संभूतः, आकाशाद्वायुः, वायोरग्निः' इति ; अशक्या हीयं श्रुतिरन्यथा परिणेतुम्; शक्या तु परिणेतुं छान्दोग्यश्रुतिः - तदाकाशं वायुं च सृष्ट्वा ' तत्तेजोऽसृजत ' - - सू. ६.] द्वितीयोऽध्यायः । " , इति न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसि- द्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापारद्वयासंभवात् स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् — इत्येकवाक्यत्वकल्पनायां संभवन्त्यां न विरुद्धार्थ- त्वेन श्रुतितव्या न चास्माभिः सकृच्छ्रतस्य स्रष्टुः स्रष्ट- व्यद्वयसंबन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्र- हान् ; यथा च 'सर्वं खल्विदं ब्रह्म तज्जलान्' इत्यत्र सा- क्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशा- न्तरविहितं तेजः प्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसोऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभः प्रमुखमुत्पत्तिक्रमं वारयितुमर्हति । ननु शमविधानार्थमेतद्वाक्यम् -- ' तज्जला- निति शान्त उपासीत' इति श्रुतेः नैतत्सृष्टिवाक्यम् ; तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हतीति ; ' तत्ते- जोऽसृजत' इत्येतत्सृष्टिवाक्यम; तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति । नेत्युच्यते न हि तेज : प्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थध- त्वात्क्रमस्य ; अपि च ' तत्तेजोऽसृजत' इति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्ति; अर्थात्तु क्रमो गम्यते ; स च ' वा- योरग्निः' इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते ; विक- - सूत्रभाष्ये [पा. ३. ल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युप- गमाभ्यां निवारितौ; तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः । अपि च छान्दोग्ये 'येनाश्रुतं श्रुतं भवति' इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यात- व्यम् ; किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते । यचोक्तम् - आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा त त्कार्यैश्च सह विदितमेव तद्भवति; अतो न प्रतिज्ञा हीयते ; न च 'एकमेवाद्वितीयम्' इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति । अत्रोच्यते- न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम; मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञा- नं नेतव्यमिति गम्यते; क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् ; न हि क्षीरज्ञान- गृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति ; न च वेद- स्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्य- ते; सावधारणा चेयम् 'एकमेवाद्वितीयम्' इति श्रुति: क्षीरोदकन्यायेन नीयमाना पीड्येत । न च स्वकार्यापेक्ष- येदं वस्त्वेकदेशविषयं सर्वविज्ञानमेवाद्वितीयतावधारणं चेति न्याय्यम्, मृदादिष्वपि हि तत्संभवात् -- न तदपूर्ववदुपन्य- सू. ७.] द्वितीयोऽध्यायः । सितव्यं भवति——'श्वेतकेतो यन्नु सोम्येदं महामना अनूचा- नमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति ' इत्यादिना । तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ यत्पुनरेतदुक्तम्-- असंभवाद्रौणी गगनस्योत्पत्तिश्रुति- रिति, अत्र ब्रूमः -- यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥ तु- शब्दोऽसंभवाशङ्काव्यावृत्त्यर्थः । न खल्वाकाशोत्पत्ता- वसंभवाशङ्का कर्तव्या; यतो यावत्किचिद्विकारजातं दृश्य- ते घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते; न त्वविकृतं किंचित्कुतश्चिद्विभक्तमुपलभ्यते ; वि- भागञ्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते ; विकारो भवितुमर्हति । एतेन दिक्कालमन:परमाण्वादीनां कार्यत्वं व्याख्यातम् । नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति ; न, 6 आत्मन आ- काश: संभूतः' इति श्रुतेः ; यदि ह्यात्मापि विकार: तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्व कार्ये निरा- स्यात्, सूत्रभाष्ये [पा. ३. त्मकमात्मनः कार्यत्वे स्यात्; तथा च शून्यवाद: प्रसज्येत ; आत्मत्वाच्वात्मनो निराकरणशङ्कानुपपत्तिः न ह्यात्मागन्तुक: कस्यचित्, स्वयंसिद्धत्वात् ; न ह्यात्मा आत्मनः प्रमाणम- पेक्ष्य सिध्यति तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमे- यसिद्धये उपादयन्ते ; न ह्याकाशादयः पदार्थाः प्रमाणनि- रपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्ते; आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्य- ति ; न चेदृशस्य निराकरणं संभवति; आगन्तुकं हि वस्तु निराक्रियते, न स्वरूपम् ; य एव हि निराकर्ता तदेव तस्य स्वरूपम् ; न ह्यग्नेरौष्ण्यमग्निना निराक्रियते ; तथा अहमेवे - दानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासि- धम्, अहमेवानागतमनागततरं च ज्ञास्यामि इत्यतीताना- गतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथा- भावोऽस्ति सर्वदा वर्तमानस्वभावत्वात् ; तथा भस्मीभव- त्यपि देहे नात्मन उच्छेद: ; वर्तमानस्वभावादन्यस्वभावत्वं वा न संभावयितुं शक्यम्; एवमप्रत्याख्येयस्वभावत्वादकार्य- त्वमात्मानः, कार्यत्वं च आकाशस्य ॥ यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्ती- ति, तत्प्रत्युच्यते न तावत्समानजातीयमेवारभते, न भि- " सू. ७.] द्वितीयोऽध्यायः । ' ; नजातीयमिति नियमोऽस्ति न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति द्रव्यगुणत्वाभ्युपगमात्; न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनिय- मोऽस्ति । स्यादेतत् - - समवायिकारणविषय एव समानजा- तीयत्वाभ्युपगमः, न कारणान्तरविषय इति; तदप्यनैका- न्तिकम् ; सूत्रगोवालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते ; तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते; सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नि- यमानर्थक्यम्, सर्वस्य सर्वेण समानजातीयकत्वात् । नाप्य- नेकमेवारभते, नैकम् — इति नियमोऽस्ति; अणुमनसोराद्यक- र्मारम्भाभ्युपगमात् । एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य --- इत्यभ्युपगम्यते । द्रव्यारम्भ एवाने- कारम्भकत्वनियम इति चेत्, न परिणामाभ्युपगमात् । भवेदेष नियम:- यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्या- रम्भकमभ्युपगम्येत; तदेव तु द्रव्यं विशेषवदव स्थान्तरमाप- द्यमानं कार्य नामाभ्युपगम्यते तच्च क्वचिदनेकं परिण- मते मृद्बीजादि, अङ्कुरादिभावेन; क्वचिदेकं परिणमते क्षी - रादि, दध्यादिभावेन; नेश्वरशासनमस्ति – अनेकमेव का- रणं कार्यं जनयतीति । अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण --- ----- ; - सूत्रभाष्ये [पा. ३. आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते ; तथा चोक्तम्--' उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि' इति ॥ यञ्चोक्तम् आकाशस्योत्पत्तौ न पूर्वोत्तरकालयोविशेष: सं- भावयितुं शक्यत इति, तदयुक्तम्; येनैव विशेषेण पृथिव्या- दिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते ; यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् - 'अस्थूलमनणु' इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदना- काशमिति श्रुतेरवगम्यते ; तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थि- तम् । यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति, तद- प्यसत्, श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोप- पत्तेः, उत्पत्त्यनुमानस्य च दर्शितत्वात्; अनित्यमाकाशम्, अनित्यगुणाश्रयत्वात् घटादिवदित्यादिप्रयोगसंभवाच्च ; आ- त्मन्यनैकान्तिकमिति चेत्, न तस्यौपनिषदं प्रत्यनित्य- गुणाश्रयत्वासिद्धेः ; विभुत्वादीनां च आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् । यच्चोक्तमेतत् शब्दाचेति तत्रामृतत्व- श्रुतिस्तावद्वियति ' अमृता दिवौकसः' इतिवद्द्रष्टव्या ; उत्प- त्तिप्रलययोरुपपादितत्वात्; 'आकाशवत्सर्वगतश्च नित्य: ' इत्यपि प्रसिद्धमहत्त्वेनाकाशोपमानं क्रियते निरतिशयमह- " सू. ८ . ] द्वितीयोऽध्यायः । त्त्वाय, न आकाशसमत्वाय - यथा 'इषुरिव सविता धावति' इति क्षिप्रगतित्वायोच्यते, न इषुतुल्यगतित्वाय तद्वत् ; एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ; 'ज्यायानाकाशात्' इ- त्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसि- द्धि: ' न तस्य प्रतिमास्ति' इति च ब्रह्मणोऽनुपमानत्वं दर्श- यति ; ' अतोऽन्यदार्तम्' इति च ब्रह्मणोऽन्येषामाकाशादी- नामार्तत्वं दर्शयति । तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुते- गौणत्वमित्येतदाकाशसंभव श्रुत्यनुमानाभ्यां परिहृतम् । तस्मा- कार्य वियदिति सिद्धम् ॥ ; एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥ अतिदेशोऽयम् । एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः । तत्राप्येते यथायोगं पक्षा २. मातरिश्वा- रचयितव्याः न वायुरुत्पद्यते, छन्दोगा- धिकरणम् । नामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः, अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् 'आकाशा- द्वायु:'- इति पक्षान्तरम् ; ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः, असंभवात् इत्यपरोऽभिप्राय: ; अ- संभवश्च 'सैषानस्तमिता देवता यद्वायुः' इत्यस्तमयप्रतिषे- धादमृतत्वादिश्रवणाच्च । प्रतिज्ञानुपरोधायावद्विकारं च वि- - सूत्रभाष्ये [पा. ३. भागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः । अस्तमयप्रति- vaisपरविद्याविषय आपेक्षिकः, अग्न्यादीनामिव वायोरस्त - मयाभावात् । कृतप्रतिविधानं च अमृतत्वादिश्रवणम् । ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरे- कमेवाधिकरणम्भयविषयमस्तु किमतिदेशेनासति विशेष इति, उच्यते - सत्यमेवमेतत्; तथापि मन्दधियां शब्दमात्रकृता- शङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियते - संवर्गविद्यादिषु छुपा - स्यतया वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ असंभवस्तु सतोऽनुपपत्तेः ॥ ९ ॥ वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्रह्म- णोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः; तथा ३. असंभवाधि- विकारेभ्य एवाकाशादिभ्य उत्तरेषां विका- करणम् । राणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि वि- कारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत ; तामाशङ्कामपने- तुमिदं सूत्रम् - असंभवस्त्विति । न खलु ब्रह्मणः सदात्म- कस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या ; कस्मात् ? अनुपपत्तेः । सन्मात्रं हि ब्रह्म ; न तस्य सन्मात्रादेवोत्प- त्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः ; सू. १०.] द्वितीयोऽध्यायः । नापि सद्विशेषात् दृष्टविपर्ययात् — सामान्याद्विशेषा उत्प- द्यमाना दृश्यन्ते, मृदादेर्घटादयः, न तु विशेषेभ्यः सामा- न्यम् ; नाप्यसतः, निरात्मकत्वात् ; कथमसतः सज्जायेत ' इति च आक्षेपश्रवणात् । ' स कारणं करणाधिपाधिपो न चा- स्य कश्चिज्जनिता न चाधिप:' इति च ब्रह्मणो जनयितारं वारयति । वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, न तु ब्रह्मण: सा अस्तीति वैषम्यम् । न च विकारेभ्यो विकारान्तरो - त्पत्तिदर्शनाद्ब्रह्मणोऽपि विकारत्वं भवितुमर्हति मूलप्रकृत्य- नभ्युपगमेऽनवस्थाप्रसङ्गात्; या मूलप्रकृतिरभ्युपगम्यते, तदेव च नो ब्रह्मेत्यविरोधः ॥ 1 तेजोऽतस्तथाह्याह ॥ १० ॥ छान्दोग्ये सन्मूलत्वं तेजस: श्रावितम्, तैत्तिरीयके तु वायुमूलत्वम् ; तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम्, ४. तेजोऽधि प्राप्तं तावद्ब्रह्मयोनिकं तेज इति । कुत: ? , करणम् । 'सदेव' इत्युपक्रम्य ' तत्तेजोऽसृजत' इत्युपदेशात्; सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य, संभवात् ; ' तज्जलान्' इति च अविशेषश्रुतेः ; ' एतस्माज्जा- यते प्राण:' इति च उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्म- जत्वोपदेशात् ; तैत्तिरीयके च ' स तपस्तप्त्वा । इदं सर्व- सूत्रभाष्ये [पा. ३. मसृजत । यदिदं किंच' इत्यविशेषश्रवणात्; तस्मात्- ' वायोरग्निः' इति क्रमोपदेशो द्रष्टव्यः - वायोरनन्तरमग्निः संभूत इति-- एवं प्राप्ते, उच्यते—तेज: अत: मातरिश्वनः जायत इति ; कस्मात् ? तथा ह्याह —- ' वायोरग्निः' इति । अव्यवहि हि तेजसो ब्रह्मत्वे सति असति वायुजत्वे ' वायोरग्निः ' इतीयं श्रुतिः कदर्थिता स्यात् । ननु क्रमार्थैषा भविष्य- , - ' तस्माद्वा एतस्मादात्मन 7 तीत्युक्तम् ; नेति ब्रूमः आकाशः संभूत:' इति पुरस्तात् संभवत्यपादानस्य आत्मन: पञ्चमीनिर्देशात्, तस्यैव च संभवतेरिहाधिकारात् पर- स्तादपि तदधिकारे ' पृथिव्या ओषधयः' इत्यपादानपञ्च- मीदर्शनात्, ' वायोरग्निः' इत्यपादानपञ्चम्यैवैषेति गम्यते ; अपि च, वायोरूर्ध्वमग्निः संभूतः - इति कल्प्यः उपपदार्थ- योग:, क्लप्तस्तु कारकार्थयोगः - वायोरग्निः संभूतः इति; तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति । न- न्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति — ' तत्ते- जोऽसृजत' इति न तस्याः पारंपर्यजत्वेऽप्यविरोधात् ; यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजो- Sसृजति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते, -- सू. १२.] द्वितीयोऽध्यायः । __ ' 'तदात्मान ; यथा- तस्याः शृतम्, तस्या दधि, तस्या आमिक्षेत्यादि दर्शयति च ब्रह्मणो विकारात्मनावस्थानम्- स्वयमकुरुत' इति ; तथा च ईश्वरस्मरणं भवति- - बुद्धिर्ज्ञा- नमसंमोह:' इत्याद्यनुक्रम्य " भवन्ति भावा भूतानां मत्त एव पृथग्विधा:' इति । यद्यपि बुद्ध्यादय: स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षा- त्प्रणाड्या वा ईश्वरवंश्यत्वात् एतेनाक्रमसृष्टिवादिन्य: श्रु- तयो व्याख्याताः, तासां सर्वथोपपत्तेः क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः । प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, न अव्य- वहितजन्यत्वम् — इत्यविरोधः ॥ आपः ॥ ११ ॥ 'अतस्तथा ह्याह' इत्यनुवर्तते; आप:, अत: तेजसः, जा- यन्ते ; कस्मान् ? तथा ह्याह - ' तदपोऽसृजत ' इति, 'अग्ने- -- अबधि- राप:' इति च ; सति वचने नास्ति सं- करणम् । शयः । तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन्, अपोऽन्तरियामिति बभूव ॥ , आपः इति सूत्रयां- पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥ "ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्न- सूत्रभाष्ये [पा. ३. मसृजन्त' इति श्रूयते ; तत्र संशयः - किमनेनान्नशब्देन ६. पृथिव्यधि- व्रीहियवाद्यभ्यवहार्य वा ओदनाद्युच्यते, किं वा पृथिवीति ; तत्र प्राप्तं तावत्-त्रीहि- काराधि- करणम् । यवादि ओदनादि वा परिग्रहीतव्यमिति ; तत्र ह्यन्नशब्दः प्रसिद्धो लोके; वाक्यशेषोऽप्येतमर्थमुपोद्बल- यति - ' तस्माद्यत्र वचन वर्षति तदेव भूयिष्ठमन्नं भवति ' इति — त्रीहियवाद्येव हि सति वर्षणे बहु भवति, न पृथि- वीति ॥ । " एवं प्राप्ते, ब्रूमः - पृथिव्येवेय मन्नशब्देनाद्भयो जायमाना विवक्ष्यत इति ; कस्मात ? अधिकारात्, रूपात् शब्दान्त- राच्च । अधिकारस्तावत् - ' तत्तेजोऽसृजत' 'तदपोऽसृ- जत' इति महाभूतविषयो वर्तते; तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घय नाकस्माद्रीह्यादिपरिग्रहो न्याय्यः । तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते-- ' यत्कृष्णं तद्- नस्य' इति ; न ह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमो ऽस्ति, नापि व्रीह्यादीनाम् । ननु पृथिव्या अपि नैव कृष्णत्व निय- मोऽस्ति, पयः पाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात्; नायं दोषः - बाहुल्यापेक्षत्वात्; भूयिष्ठं हि पृथिव्याः कृष्णं रूपम्, न तथा श्वेतरोहिते; पौराणिका अपि पृथिवीछायां सू. १३.] द्वितीयोऽध्यायः । शर्वरीमुपदिशन्ति सा च कृष्णाभासा- इत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते । श्रुत्यन्तरमपि समानाधिकारम अद्भयः पृथिवी' इति भवति, ' तद्यदपां शर आसी- तत्समहन्यत सा पृथिव्यभवत्' इति च ; पृथिव्यास्तु त्री - ह्यादेरुत्पत्तिं दर्शयति-— 'पृथिव्या ओषधय ओषधीभ्यो- ऽन्नम्' इति च । एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः ? प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते ; वाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तङ्कारेण पृथिव्या '; एवाद्भयः प्रभवत्वं सूचयतीति द्रष्टव्यम् । तस्मात्प्रथिवीयम - नशब्देति ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥ किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारा- न्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमा- ७. तदभिध्याना- नोऽभिध्यायन् तं तं विकारं सृजतीति धिकरणम् । संदेहे सति प्राप्तं तावत् — स्वयमेव सृजन्तीति ; कुत: ? ' आकाशाद्वायुर्वायोरग्निः' इत्यादिस्खा- तन्त्र्यश्रवणात् । ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रति- - षिद्धा ; नैष दोष:- ' तत्तेज ऐक्षत ता आप ऐक्षन्त ' इति च भूतानामपि चेतनत्वश्रवणादिति ॥ S. W. II. 11 सूत्रभाष्ये 6 [ पा. ३. एवं प्राप्ते, अभिधीयते स एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति ; कुत: ? तल्लि- ङ्गात् । तथा हि शास्त्रम्- यः पृथिव्यां तिष्ठन्यः पृथि- व्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति' इत्येवंजातीयकम् — साध्यक्षाणामेव भूतानां प्रवृत्ति दर्शयति ; तथा 'सोऽकामयत बहु स्यां प्रजायेयेति' इति प्रस्तुत्य, ' सच्च त्यच्चाभवत्, तदात्मानं स्वय- मकुरुत' इति च तस्यैव च सर्वात्मभावं दर्शयति । यत्तु ईक्षणश्रवणमप्प्रेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम् — 'नान्योऽतोऽस्ति द्रष्टा' इतीक्षित्रन्तरप्रतिषेधात् प्रकृत- त्वाच्च सत ईक्षितु: ' तदैक्षत बहु स्यां प्रजायेयेति' इत्यत्र ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥ भूतानामुत्पत्तिक्रमश्चिन्तित:; अथेदानीम् अप्ययक्रमश्चि- न्त्यते-- किमनियतेन क्रमेणाप्ययः, उत उत्पत्तिक्रमेण, अथ- ८. विपर्यया- वा तद्विपरीतेनेति । त्रयोऽपि च उत्पत्तिस्थि- धिकरणम् । तिप्रलया भूतानां ब्रह्मायन्त्ताः श्रूयन्ते - 'यतो वा इमानि भूतानि जायन्ते । येन जातानि जीव- न्ति । यत्प्रयन्त्यभिसंविशन्ति' इति । तन्त्रानियमो ऽविशेषा- दिति प्राप्तम्; अथवा उत्पत्तेः क्रमस्य श्रुतत्वात्प्रलयस्यापि क्र- सू. १४.] द्वितीयोऽध्यायः । ४४३ माकाङ्क्षिणः स एव क्रमः स्यादिति ॥ एवं प्राप्तं ततो ब्रूमः-- विपर्ययेण तु प्रलयक्रम:, अत: उत्पत्तिक्रमात् भवितुमर्हति ; तथा हि लोके दृश्यते येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति ; अपि च दृश्यते — मृदो जातं घटशरावादि अध्ययकाले मृ- द्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति । अतश्चोपपद्यत एतत् —— यत्पृथिवी अभ्यो जाता सती स्थि- तिकालव्यतिक्रान्तौ अप: अपीयात्; आपश्च तेजसो जाता: सत्य: तेज: अपीयुः ; एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तर- मनन्तरतरं कारणमपीत्य सर्व कार्यजातं परमकारणं परमसू- क्ष्मं च ब्रह्माप्येतीति वेदितव्यम्; न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृतावप्युत्पत्तिक्रमवि- पर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः -- ' जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते' इत्येवमादौ । उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्ना- प्यये भवितुमर्हति ; न च असौ अयोग्यत्वादव्ययेनाकाङ्क्षयते ; न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणात्यये कार्यस्यावस्थानानुपपत्तेः; कार्याप्यये तु कारणस्यावस्थानं युक्तम् - मृदादिष्वेवं दृष्टत्वात् ॥ F सूत्रभाष्ये [पा. ३. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गा- दिति चेन्नाविशेषात् ॥ २५ ॥ भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इ- त्युक्तम् ; आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त:- इत्यप्युक्तम् । सेन्द्रियस्य तु मनसो बुद्धेश्व सद्भावः अन्तरा- विज्ञानाधि - प्रसिद्धः श्रुतिस्मृत्योः - 'बुद्धिं तु सारथिं करणम् । विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहु:' इत्यादिलिङ्गेभ्य: ; तयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्म- जत्वाभ्युपगमात् । अपि च आथर्वणे उत्पत्तिप्रकरणे भूताना- मात्मनश्चान्तराले करणान्यनुक्रम्यन्ते — ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति । तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्र- सङ्गो भूतानामिति चेत्, न अविशेषात् — यदि ताव - द्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्प- त्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् ; भवति च भौतिकत्वे लिङ्गं करणानाम्- ' अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्' इत्येवंजातीयकम् ; व्यपदेशोऽपि कचिद्भूतानां करणानां च ब्राह्मणपरिव्राजक- सू. १६. ] द्वितीयोऽध्यायः । न्यायेन नेतव्यः । अथ त्वभौतिकानि करणानि, तथापि भूतोत्पत्तिक्रमो न करणैर्विशिष्यते - प्रथमं करणान्युत्प- द्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीति ; आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च न तत्रोत्पत्तिक्रम उच्यते ; तथा अन्यत्रापि पृथ- गेव भूतक्रमात्करणक्रम आम्नायते - ' प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनोऽसृजत तन्मन एवासीत्त- दात्मानमैक्षत तद्वाचमसृजत' इत्यादिना । तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्त- स्तद्भावभावित्वात् ॥ १६ ॥ स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देव- दत्त इत्येवंजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कार- १०. चराचर- विधानाच्च - इति स्यात्कस्यचिद्धान्तिः ; व्यपाश्रया- तामपनुदामः । न जीवस्योत्पत्तिप्रलयौ धिकरणम् । स्तः, शास्त्रफलसंबन्धोपपत्तेः ; शरीरानु- विनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थी विधिप्रतिषेधावनर्थकौ स्याताम् ; श्रूयते 6 च जीवा- पेतं वाव किलेदं म्रियते न जीवो म्रियते' इति । सूत्रभाष्ये [पा. ३. ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शित: ; सत्यं दर्शित: ; भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः । किमा - श्रयः पुनरयं मुख्यः, यदपेक्षया भाक्त इति ? उच्यते- चराचरव्यपाश्रयः ; स्थावरजङ्गमशरीरविषयो जन्ममरण- शब्दौ ; स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च ; अतस्तद्विषयो जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्म- न्युपचर्येते, तद्भावभावित्वात् - शरीरप्रादुर्भावतिरोभावयो- हि सतोर्जन्ममरणशब्दौ भवतः, नासतो; न हि शरीरसं- बन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते ; ' स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाण:' इति च शरीरसंयोगवियोगनिमित्तावेव जन्म- मरणशब्दौ दर्शयति । जातकर्मादिविधानमपि देहप्रादुर्भा- वापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य । जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्त- रेण सूत्रेण वक्ष्यति ; देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्र- लयौ न स्तः इत्येतदनेन सूत्रेणावोचत् ॥ ॥ नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥ अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसं- बन्धी; सं किं व्योमादिवदुत्पद्यते ब्रह्मणः, आहोस्विद्ब्रह्म- सू. १७.] द्वितीयोऽध्यायः । वदेव नोत्पद्यते इति श्रुतिविप्रतिपत्तेर्विशयः ; कासुचिच्छ्रति- ११. आत्माधि- षु अग्निविस्फुलिङ्गादिनिदर्शनैः र्जीवात्मन: करणम् । परस्माद्ब्रह्मण उत्पत्तिराम्नायते ; कासुचि- तु अविकृतस्यैव परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञा- यते, न च उत्पत्तिराम्नायत इति । तत्र प्राप्तं तावत् — उत्प- द्यते जीव इति ; कुत: ? प्रतिज्ञानुपरोधादेव । ' एकस्मिन्विदिते सर्वमिदं विदितम् ' इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्म- प्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेय- मुपरुध्येत । न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम्, लक्षणभेदात् -- अपहतपाप्मत्वादिधर्मको हि पर- मात्मा, तद्विपरीतो हि जीवः । विभागाच्चास्य विकारत्वसि - द्धि: - यावान् हि आकाशादिः प्रविभक्तः, स सर्वो विकार: तस्य च आकाशादेरुत्पत्तिः समधिगता ; जीवात्मापि पुण्या- पुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति । अपि च ' यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणा: इति प्राणादेर्भाग्यजातस्य सृष्टिं शिष्ट्वा 'सर्व एत आत्मानो व्युच्चरन्ति' इति भोक्तृणामात्मनां पृथक्सृष्टिं शास्ति । 'य- था सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । ; सूत्रभाष्ये [ पा. ३. तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापिय- न्ति' इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते, सरूपवचना- तू — जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्य- योगात् ; न च कचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति श्रु- त्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वा- तू । प्रवेशश्रुतिरप्येवं सति विकार भावापत्त्यैव व्याख्यात- व्या--' तदात्मानं स्वयमकुरुत' इत्यादिवत् । तस्मादुत्पद्यते जीव इति ॥ - एवं प्राप्ते, ब्रूमः - - नात्मा जीव उत्पद्यत इति ; कस्मात् ? अश्रुतेः ; न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयः सु प्रदेशेषु । ननु कचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तम् ; सत्यमुक्त- म्; उत्पत्तिरेव त्वस्य न संभवतीति वदामः ; कस्मात् ? नि- त्यत्वाच्च ताभ्यः- च-शब्दादजत्वादिभ्यश्च — नित्यत्वं ह्यस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृत- स्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति ; न चैवं- रूपस्योत्पत्तिरुपपद्यते । ताः काः श्रुतयः ? – न जीवो म्रियते ' ' स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो न जायते म्रियते वा विपश्चित् ' ' अजो नित्यः शा- ब्रह्म ' ' श्वतोऽयं पुराण: ' ' तत्सृष्ट्वा तदेवानुप्राविशत् ' 'अनेन जी - सू. १७.] द्वितीयोऽध्यायः । 6 अय- वेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' ' स एष इह प्र- विष्ट आ नखाग्रेभ्य: ' ' तत्त्वमसि' 'अहं ब्रह्मास्मि' मात्मा ब्रह्म सर्वानुभूः' इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पत्ति प्रतिबध्नन्ति । ननु प्रविभक्तत्वाद्विकारः, वि- कारत्वाच्चोत्पद्यते – इत्युक्तम्; अत्रोच्यते — नास्य प्रविभा- गः स्वतोऽस्ति, ' एको देवः सर्वभूतेषु गूढः सर्वव्यापी स- वैभूतान्तरात्मा' इति श्रुतेः; बुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम्, आकाशस्येव घटादिसंबन्धनिमित्तम् ; तथा च शास्त्रम्- स वा अयमात्मा ब्रह्म विज्ञानमयो मनो- मयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः' इत्येवमादि — ब्रह्मण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्धयादिमयत्वं दर्शयति ; त- न्मयत्वं च अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूप- त्वम् — स्त्रीमयो जाल्म इत्यादिवत् — द्रष्टव्यम् । यदपि क- चिदस्योत्पत्तिप्रलयश्रवणम, तदप्यत एवोपाधिसंबन्धान्नेतव्य- म् - - उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन च प्रलय इति ; तथा च दर्शयति--' प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति' इति ; तथोपाधि- प्रलय एवायम्, नात्मविलय : - इत्येतदपि - 'अत्रैव मा भ- गवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि '- न प्रेत्य सूत्रभाष्ये --- [पा. ३. संज्ञास्ति इति प्रश्नपूर्वकं प्रतिपादयति- 'न वा अरे - ऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा'- मात्रासंसर्गस्त्वस्य भवति — इति । प्रतिज्ञानुपरोधोऽप्यवि- कृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात्; लक्षणभेदोऽप्यनयो- रुपाधिनिमित्त एव, 'अत ऊर्ध्वं विमोक्षायैव ब्रूहि' इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्म प्रत्याख्यानेन परमात्मभावप्रतिपादनात् । तस्मात् नैवात्मोत्पद्यते प्रविलीयते चेति ज्ञोऽत एव ॥ १८ ॥ स किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एव इति १२. ज्ञाधि- वादिविप्रतिपत्तेः संशयः । किं तावत्प्रा- करणम् । प्तम् ? आगन्तुकमात्मनश्चैतन्यमात्ममन:- संयोगजम्, अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम् ; नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात् ; ते पृष्टाः सन्तः ' न किंचिद्वयं चेतयेमहि' इति जल्पन्ति ; स्वस्थाश्च चेतयमाना दृश्यन्ते ; अतः कादाचित्कचैतन्य- त्वादागन्तुकचैतन्य आत्मेति ॥ एवं प्राप्ते, अभिधीयते -- ज्ञः नित्यचैतन्योऽयमात्मा- सू. १८. ] ब्रह्म " 6 द्वितीयोऽध्यायः । 6 अत एव - यस्मादेव नोत्पद्यते, परमेव ब्रह्म अविकृतमुपा- धिसंपर्काज्जीवभावेनावतिष्ठते; परस्य हि ब्रह्मचैतन्यस्व- रूपत्वमाम्नातम् —' विज्ञानमानन्दं ब्रह्म' ' सत्यं ज्ञानमनन्तं 'अनन्तरोऽबाह्यः कृत्स्न: प्रज्ञानघन एव' इत्यादिषु श्रुतिषु तदेव चेत्परं ब्रह्म जीव:, तस्माज्जीवस्यापि नित्यचैतन्य- स्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते । विज्ञानमयप्रक्रिया- यां च श्रुतयो भवन्ति - असुप्तः सुप्तानभिचाकशीति' 'अ- त्रायं पुरुषः स्वयंज्योतिर्भवति' इति, 'न हि विज्ञातुर्विज्ञा- पिरलोपो विद्यते ' इत्येवंरूपाः । ' अथ यो वेदेदं जिघ्राणी- ति स आत्मा' इति च- सर्वैः करणद्वारै: ' इदं वेद, इदं वेद' इति विज्ञानेनानुसंधानात् तद्रूपत्वसिद्धि: । नित्य- चैतन्य स्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत्, न गन्धादिविष- यविशेषपरिच्छेदार्थत्वात्; तथा हि दर्शयति--' गन्धाय घ्रा- म्' इत्यादि । यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रु- त्यैव परिहारोऽभिहितः सुषुप्तं प्रकृत्य - 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति ; न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽवि - नाशित्वात् ; न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इत्यादिना ; एतदुक्तं भवति --- विषयाभावादियमचेतयमा- नता, न चैतन्याभावादिति -- यथा वियदाश्रयस्य प्रका- ' सूत्रभाष्ये पा. ३. शस्य प्रकाश्याभावादनभिव्यक्तिः, न स्वरूपाभावात्- तद्वत् । वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति । त- स्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥ इदानीं तु किंपरिमाणो जीव इति चिन्त्यते किमणुप- रिमाण:, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण १३. उत्क्रान्ति - इति । ननु च नात्मोत्पद्यते नित्यचैतन्यश्चा- गत्यधि- यमित्युक्तम् ; अतश्च पर एव आत्मा जीव करणम् । इत्यापतति ; परस्य च आत्मनोऽनन्तत्वमा- नातम् ; तत्र कुतो जीवस्य परिमाणचिन्तावतार इति ; । उच्यते- सत्यमेतत्; उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेद प्रापयन्ति; स्वशब्देन च अस्य क्वचिदणुपरिमाणत्वमाम्नायते ; तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः । तत्र प्राप्तं ताव- तू - उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इति ; उत्क्रान्तिस्तावत्- ' स यदास्माच्छरीरादुत्क्रामति सह- वैतैः सर्वैरुत्क्रामति' इति ; गतिरपि - ये वै के चास्मा- लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति ; आग- तिरपि -- 'तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे' इति ; आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति सू. २१.] द्वितीयोऽध्यायः । प्राप्नोति- न हि विभोश्चलनमवकल्पत इति ; सति परि- च्छेदे, शरीरपरिमाणत्वस्याहतपरीक्षायां निरस्तत्वात् अणु- रात्मेति गम्यते ॥ स्वात्मना चोत्तरयोः ॥ २० ॥ उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्दे- हस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत; उत्तरे तु गत्यागती नाचलत: संभवत: ; स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात् ; अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव संभवत: ; सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृ- तिरेव देहादिति प्रतीयते न हि अनपसृप्तस्य देहाद्रत्यागती स्याताम् -- देहप्रदेशानां च उत्क्रान्तावपादानत्ववचनात् - 'चक्षुष्टो वा मूर्ध्ना वान्येभ्यो वा शरीरदेशेभ्यः' इति ; " स एतास्तेजोमात्रा: समभ्याददानो हृदयमेवान्ववक्रामति' ' शुक्रमादाय पुनरैति स्थानम्' इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवत: ; तस्मादप्यस्याणुत्वसिद्धिः ॥ नाणुरतच्छ्रुतेरिति चेन्नेतरा- धिकारात् ॥ २१ ॥ अथापि स्यात् -- नाणुरयमात्मा; कस्मात् ? भतच्छ- सूत्रभाष्ये ते; अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः ; महान आत्मा, योऽयं विज्ञानमय: प्राणेषु' त्सर्वगतश्च नित्य: ' ' सत्यं ज्ञानमनन्तं ब्रह्म " , [पा. ३. ' स वा एष ' आकाशव- इत्येवंजाती- नैष या हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत्, दोषः ; कस्मात् ? इतराधिकारात् — परस्य हि आत्मन: प्र- क्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात ' विरजः पर आका- शात्' इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिका- रात् । ननु ' योऽयं विज्ञानमयः प्राणेषु' इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते— शास्त्रदृष्ट्या तु एष निर्देशो वामदेववद्दष्टव्यः । तस्मात्प्राज्ञविषयत्वात्परिमाणा- न्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते ॥ स्वशब्दोन्मानाभ्यां च ॥ २२ ॥ ; इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्द: श्रूयते - 'एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश' इति ; प्राणसंबन्धाच्च जीव एवायमणुर- भिहित इति गम्यते । तथोन्मानमपि जीवस्याणिमानं गम- यति—' वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेय:' इति ; ' आराममात्रो ह्यवरोऽपि दृष्ट: ' सू. २४.] द्वितीयोऽध्यायः । 1: इति च उन्मानान्तरम् ॥ नववे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरु- ध्यते ; दृश्यते च जाह्नवीहदनिमग्नानां सर्वाङ्गशैत्योपलब्धि:, निदाघसमये च सकलशरीरपरितापोपलब्धिरिति अत उत्तरं पठति- अविरोधश्चन्दनवत् ॥ २३ ॥ यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धोऽपि सन् स- कलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थ : सकलदेहव्यापिनीमुपलब्धि करिष्यति ; त्वक्संबन्धाच्चास्य सकलशरीरगता वेदना न विरुध्यते; त्वगात्मनोर्हि संबन्ध: कृत्स्नायां त्वचि वर्तते; त्वक्च कृत्स्नशरीरव्यापिनीति ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपग- माहृदि हि ॥ २४ ॥ अत्राह-यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तम्, दृष्टान्त- दाष्टन्तिकयोरतुल्यत्वात्; सिद्धे हि आत्मनो देहैकदेशस्थत्वे च- न्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेक- देशस्थत्वं सकलदेहाह्रादनं च; आत्मन: पुन: सकलदेहोप- लब्धिमात्रं प्रत्यक्षम् नैकदेशवर्तित्वम्; अनुमेयं तु तदिति य- , सूत्रभाष्ये [पा. ३. दप्युच्येत - न च अत्रानुमानं संभवति - किमात्मनः सकल- शरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदे- शस्थस्य इति संशयानतिवृत्तेरिति ; अत्रोच्यते- नायं दोषः कस्मात् ? अभ्युपगमात् । अभ्युपगम्यते हि आत्मनोऽपि च- न्दनस्यैव देकदेशवृत्तित्वमवस्थितिवैशेष्यम् ; कथमिति, उ- च्यते-हृदि ह्येष आत्मा पठ्यते वेदान्तेषु, 'हृदि ह्येष आत्मा' 6 , ; स वा एष आत्मा हृदि ' कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु हृद्यन्तर्ज्योति: पुरुष: ' इत्याद्युपदेशेभ्यः । तस्माद्दृष्टान्तदाष्टन्तिकयोरवैषम्यात् युक्तमेवैतत् - ' अविरो- धश्चन्दनवत्' इति ॥ गुणाद्वा लोकवत् ॥ २५ ॥ चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेह- व्यापि कार्यं न विरुध्यते-- यथा लोके मणिप्रदीपप्रभृती- नामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्य करोति तद्वत् । स्यात् कदाचिच्च- न्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आ- ह्रादयितृत्वम् ; न त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकल- देहं विसर्पेत् -- इत्याशङ्कय 'गुणाद्वा लोकवत् ' इत्युक्तम् ॥ सू. २६.] द्वितीयोऽध्यायः 1: 1 कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ? न हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते । प्रदीपप्रभावद्भवेदिति चेत्, न; तस्या अपि द्रव्यत्वाभ्युपग- मानू — निबिडावयवं हि तेजोद्रव्यं प्रदीप:, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति- व्यतिरेको गन्धवत् ॥ २६ ॥ यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धो- पलब्धेः ; एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति । अतञ्चानैकान्तिकमेतत् — गुणत्वाद्रूपादिवदा- श्रयविश्लेषानुपपत्तिरिति, गुणस्यैव सतो गन्धस्य आश्रय- विश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत्, न; यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात् ; अक्षीयमा- णमपि तत्पूर्वावस्थातो गम्यते; अन्यथा तत्पूर्वावस्थैर्गुरुत्वा- दिभिर्होयेत । स्थादेतत् -- गन्धाश्रयाणां विशिष्टानामवयवा- नामल्पत्वात् सन्नपि विश्लेषो नोपलक्ष्यते; सूक्ष्मा हि गन्ध- परमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिका - पुटमनुप्रविशन्त इति चेत्, न अतीन्द्रियत्वात्परमाणूनाम्, स्फुटगन्धोपलब्धेश्च नागकेसरादिषु ; न च लोके प्रतीति: s. w. II. 12 सूत्रभाष्ये त; [पा. ३. - गन्धवत्र्यमात्रातमिति गन्ध एव आत्रात इति तु लौकिकाः प्रतियन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्ग- न्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेन् न; प्रत्यक्षत्वादनु- " मानाप्रवृत्तेः; तस्मात् यत् यथा लोके दृष्टम् तत् तथैव अनुमन्तव्यं निरूपकैः, नान्यथा न हि रसो गुणो जिहयो- पलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति नियन्तुं शक्यते ॥ तथा च दर्शयति ॥ २७ ॥ हृदयायतनत्वमणुपरिमाणत्वं च आत्मन: अभिधाय तस्यैव 'आ लोमभ्य आ नखाग्रेभ्य:' इति चैतन्येन गुणेन सम- म्तशरीरव्यापित्वं दर्शयति ॥ 6 पृथगुपदेशात् ॥ २८ ॥ प्रज्ञया शरीरं समारुह्य' इति च आत्मप्रज्ञयोः कर्तृ- करणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते । ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बल- यति । तस्मादणुरात्मेति ॥ एवं प्राप्ते, ब्रूमः- सू. २९.] द्वितीयोऽध्यायः । तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत् ॥ २९ ॥ ; तु-शब्द: पक्षं व्यावर्तयति । नैतदस्ति -- अणुरात्मेति ; उत्पत्त्यश्रवणात् परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्यो- पदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्; परमेव चेद्ब्रह्म जीवः, तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति ; परस्य च ब्रह्मणो विभुत्वमानातम्; तस्माद्विभुर्जीवः तथा च 'सवा एष महान आत्मा योऽयं विज्ञानमयः प्राणेषु' इत्येवंजा- तीयका जीवविषया विभुत्ववादा: श्रौता: स्मार्ताश्च समर्थि- ता भवन्ति । न च अणोर्जीवस्य सकलशरीरगता वेदनोप- पद्यते ; त्वक्संबन्धात्स्यादिति चेत्, न; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत - त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते - त्वक्च कृत्स्नशरीरव्यापिनीति ; पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते । न च अ- गोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्; गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य होयेत; प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् । गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव संच- रितुमर्हति अन्यथा गुणत्वहानिप्रसङ्गात् ; तथा चोक्तं भग- वता द्वैपायनेन --' उपलभ्याप्सु चेद्गन्धं केचिद्रूयुरनैपुणाः । ' सूत्रभाष्ये [पा. ३. पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्' इति । यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयात्, नाणुर्जीवः स्यात् ; चैतन्यमेव हि अस्य स्वरूपम्, अग्नेरिवौष्ण्यप्रकाशौ- - नात्र गुणगुणिविभागो विद्यत इति । शरीरपरिमाणत्वं च प्रत्या- ख्यातम् । परिशेषाद्विभुर्जीवः ॥ c कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह-तद्गुणसारत्वात्तु तद्व्यपदेश इति । तस्या बुद्धे: गुणास्तद्गुणा: - इच्छा द्वेषः सुखं दुःखमित्येवमादय: - तद्गुणा: सारः प्रधानं यस्या- त्मनः संसारित्वे संभवति, स तद्गुणसारः, तस्य भावस्तद्गु- णसारत्वम् । न हि बुद्धेर्गुणैर्विना केवलस्य आत्मन: संसारि- त्वमस्ति; बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वा- दिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमु- तस्य सत आत्मन: ; तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्कान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्य- पदेशः, न स्वतः । तथा च -- ' वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते' इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ; तञ्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य भवेत्, पारमार्थिकं च आनन्त्यम् ; न हि उभयं मुख्यमवक- - सू. २९.] द्वितीयोऽध्यायः । स्पेत ; न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम्, स- र्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् । तथे- तरस्मिन्नप्युन्माने 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्ट:' इति च बुद्धिगुणसंबन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना । 'एषोऽणुरात्मा चेतसा वेदित- व्यः' इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, पर- स्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृ- तत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः ; त- स्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनम्, उपाध्यभिप्रायं वा द्रष्टव्यम् । तथा ' प्रज्ञया शरीरं समारुह्य' इत्येवजातीयके- ष्वपि भेदोपदेशेषु --- बुद्धयैवोपाधिभूतया जीवः शरीरं स- मारुह्य - इत्येवं योजयितव्यम्, व्यपदेशमात्रं वा - शिला- पुत्रकस्य शरीरमित्यादिवत् ; न ह्यत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव तदाय- तनत्वात् । तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति- 6 96 कस्मिन्नु अहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्र- तिष्ठिते प्रतिष्ठास्यामीति ' ' स प्राणमसृजत' इति ; उत्क्रान्त्य- भावे हि गत्यागत्योरप्यभावो विज्ञायते ; न हि अनपसृप्तस्य देहाद्रत्यागती स्याताम् । एवमुपाधिगुणसारत्वाज्जीवस्याणु- सूत्रभाष्ये [पा. ३. त्वादिव्यपदेशः, प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः स- गुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वा दिव्यपदेश:- " अणीयान्त्रीहेर्वा यवाद्वा ' मनोमय: प्राणमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्प:' इत्येवंप्रकार: - तद्वत् ॥ स्यादेतत्- यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोभिन्नयोः संयोगावसानमवश्यं- भावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वा- दसवम संसारित्वं वा प्रसज्येतेति — अत उत्तरं पठति- यावदात्मभावित्वाच्च न दोष- स्तद्दर्शनात् ॥ ३० ॥ नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया; कस्मात् ? याव- दात्मभावित्वाद्बुद्धिसंयोगस्य — यावदयमात्मा संसारी भव- ति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, ताव- दस्य बुद्धया संयोगो न शाम्यति ; यावदेव चायं बुद्ध्युपा- धिसंबन्धः, तावदेवास्य जीवत्वं संसारित्वं च; परमार्थ- तस्तु न जीवो नाम बुद्धयुपाधिपरिकल्पितस्वरूपव्यतिरेके- शास्ति ; न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो सू. ३०.] द्वितीयोऽध्यायः । धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते - 'नान्यो- saisस्ति द्रष्टा श्रोता मन्ता विज्ञाता' ' नान्यदतोऽस्ति द्रष्टृ 1 " श्रोतृ मन्तृ विज्ञातृ 'तत्त्वमसि' ' अहं ब्रह्मास्मि' इत्या- दिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धि- संयोग इति तद्दर्शनादित्याह ; तथा हि शास्त्रं दर्शयति- ' योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ' इत्यादि ; तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे 'विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्र- मय:' इति विज्ञानमयस्य मनआदिभिः सह पाठात् ; बुद्धि- मयत्वं च तद्गुणसारत्वमेवाभिप्रेयते यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत् ; 'स समानः सन्नुभौ लोकावनुसंचरति' इति च लोकान्त- रगमनेऽप्यवियोगं बुद्धया दर्शयति ; केन समान: ? तयैव बुद्धयेति गम्यते, संनिधानात् तच्च दर्शयति-- ' ध्या- यतीव लेलायतीव' इति ; एतदुक्तं भवति -- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चल- त्यां बुद्धौ चलतीवेति । अपि च मिथ्याज्ञानपुरः सरोऽयमात्म- नो बुद्ध्युपाधिसंबन्ध: ; न च मिथ्याज्ञानस्य सम्यग्ज्ञाना- सूत्रभाष्ये [पा. ३. दन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधः, तावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति ; दर्शयति च - - ' वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वा - ति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' इति ॥ ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्ध आत्मनोऽभ्यु- पगन्तुम्, 'सता सोम्य तदा संपन्नो भवति स्वमपीतो भ- वति' इति वचनात् कृत्स्नविकारप्रलयाभ्युपगमांच; तत्क- थं यावदात्मभावत्वं बुद्धिसंबन्धस्येति, अत्रोच्यते-- पुंस्त्वादिवत्त्वस्य सतोऽभिव्य- क्तियोगात् ॥ ३१ ॥ यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बा - ल्यादिष्वनुपलभ्यमानान्यविद्यमानवभिप्रेयमाणानि यौवना- दिष्वाविर्भवन्ति ; न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् -- एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भव- ति; एवं हि एतद्युज्यते ; न हि आकस्मिकी कस्यचिदुत्पत्तिः संभवति, अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्म- कबीजसद्भावकारितम्' सति संपद्य न विदुः सति संप- सू. ३२. ] द्वितीयोऽध्यायः । द्यामह इति ' ' त इह व्याघ्रो वा सिंहो वा' इत्यादिना । तस्मात्सिद्धमेतत्-यावदात्मभावी बुद्धवाद्युपाधिसंबन्ध इति ॥ नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतर- नियमो वान्यथा ॥ ३२ ॥ तच्चात्मन उपाधिभूतम् - अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते ; कचिच्च वृत्तिवि- भागेन - संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति ; तचैवं भूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्त- व्यम्, अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुप- लब्धिप्रसङ्गः स्यात् — आत्मेन्द्रियविषयाणामुपलब्धिसाधना- नां संनिधाने सति नित्यमेवोपलब्धि: प्रसज्येत ; अथ सत्यपि हेतुसमवधाने फलाभाव:, ततो नित्यमेवा- नुपलब्धि: प्रसज्येत ; न चैवं दृश्यते । अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्यु- पगन्तव्य: ; न च आत्मन: शक्तिप्रतिबन्धः संभवति, अविक्रियत्वात् ; नापि इन्द्रियस्य ; न हि तस्य पूर्वोत्तरयो: क्ष- णयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्ति: प्रतिबध्येत । तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, सूत्रभाष्ये [पा. ३. 6 तन्मनः । तथा च श्रुति:- : - ' अन्यत्रमना अभूवं नादर्शमन्य- त्रमना अभूवं नाश्रौषम्' इति, 'मनसा ह्येव पश्यति मन- सा शृणोति' इति च ; कामादयश्चास्य वृत्तय इति दर्शयति- कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्धी- भरित्येतत्सर्वं मन एव' इति । तस्माद्युक्तमेतत्तद्गुणसा- रत्वात्तद्व्यपदेश इति ॥ कर्ता शास्त्रार्थत्वात् ॥ ३३ ॥ तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते । कर्ता च अयं जीवः स्यात् ; कस्मात् ? शास्त्रार्थवत्त्वात्- १४. कधि- एवं च 6 'यजेत ' 'जुहुयात् ' ' दद्यात् ' करणम् । इत्येवंविधं विधिशास्त्रमर्थवद्भवति ; अन्य- था तदनर्थकं स्यात्; तद्धि कर्तुः सतः कर्तव्यविशेषमुपदि- शति ; न च असति कर्तृत्वे तदुपपद्येत । तथेदमपि शास्त्रम- र्थवद्भवति - एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञा- नात्मा पुरुष:' इति ॥ विहारोपदेशात् ॥ ३४ ॥ इतश्च जीवस्य कर्तृत्वम्, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति - ' स ईयतेऽमृतो यत्र कामम्' इति, 'स्वे शरीरे यथाकामं परिवर्तते ' इति च ॥ सू. ३६.] द्वितीयोऽध्यायः । उपादानात् ॥ ३५ ॥ इतश्चास्य कर्तृत्वम्, यज्जीवप्रक्रियायामेव करणानामुपादा- नं संकीर्तयति — ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय ' इति, ' प्राणान्गृहीत्वा' इति च ॥ व्यपदेशाच्च क्रियायां न चेन्निर्देश- विपर्ययः ॥ ३६ ॥ इतश्च जीवस्य कर्तृत्वम्, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् ' विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च' इति । ननु विज्ञानशब्दो बुद्धौ सम- धिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यते ', — जीवस्यैवैष निर्देश:, न बुद्धेः न चेज्जीवस्य स्यात्, -- , निर्देशविपर्ययः स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत् ; तथा हि अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते— ' तदेषां प्राणानां विज्ञानेन विज्ञानमादाय' इति ; इह तु 'विज्ञानं यज्ञं तनुते ' इति कर्तृसामानाधिकरण्यनि- र्देशाद्वुद्धिव्यतिरिक्तस्यैवात्मन: कर्तृत्वं सूच्यत इत्यदोषः ॥ अत्राह – यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्, स स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन संपादयेत्, सूत्रभाष्ये [पा. ३. न विपरीतम् ; विपरीतमपि तु संपादयन्नुपलभ्यते ; न च स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति, अत उत्तरं पठति उपलब्धिवनियमः ॥ ३७ ॥ यथायमात्मोपलब्धि प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं च उपलभते, एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति ; उप- लब्धावप्यस्वातन्त्र्यम्, उपलब्धिहेतूपादानोपलम्भादिति चे- त्, न, विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् ; उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात् । अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशका - लनिमित्तविशेषापेक्षत्वात् ; न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते; भवति ह्येधोदकाद्यपेक्षस्यापि पक्तः पक्तृत्वम् ; सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरा- त्मनो न विरुध्यते ॥ शक्तिविपर्ययात् ॥ ३८ ॥ इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति । यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात् ततः शक्तिविपर्ययः स्यात् — करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चा- पद्येत; सत्यां च बुद्धेः कर्तृशक्तौ तस्या एव अहंप्रत्ययविष- " सू. ४०.] द्वितीयोऽध्यायः । यत्वमभ्युपगन्तव्यम्, अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् - ' अहं गच्छामि, अहमागच्छामि, अहं भुजे, अहं पिबामि' इति च ; तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थ- कारि करणमन्यत्कल्पयितव्यम्; शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यते ; ततश्च संज्ञामात्रे विवादः स्यात्, न वस्तुभेदः कश्चित् करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥ समाध्यभावाच्च ॥ ३९ ॥ योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु — 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्य: ' 'ओ- मित्येवं ध्यायथ आत्मानम्' इत्येवंलक्षणः, सोऽप्यसत्यात्मनः कर्तृत्वेनोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥ यथा च तक्षोभयथा ॥ ४० ॥ एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितम् ; तत्पुनः स्वाभाविकं वा स्यात्, उपाधिनिमित्तं वेति चिन्त्यते । तत्रैतैरेव शास्त्रार्थवत्वा- १५. तक्षाधि- करणम् । दिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम्, अप- सूत्रभाष्ये [पा. ३. वादहेत्वभावादिति । एवं प्राप्ते, ब्रूमः - न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात्; कर्तृत्वस्वभा- वत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति — अग्नेरिवौ- ष्ण्यात्; न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् । ननु स्थितायामपि कर्तृत्वशक्ती कर्तृत्व कार्यपरिहारात्पुरुषार्थ : सेत्स्यति ; तत्परिहारश्च निमि- तपरिहारात् - यथाभेर्दहनशक्तियुक्तस्यापि काष्ठवियोगा- दहनकार्याभाव:- तद्वत् - न, निमित्तानामपि शक्तिल- क्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभावात् । ननु मोक्षसाधनविधानान्मोक्ष: सेत्स्यति -- न, साधनायत्तस्य अनित्यत्वात् । अपि च नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्ष- सिद्धिरभिमता; ताद्यगात्मप्रतिपादनं च न स्वाभाविके कर्तृ- त्वेsaकल्पेत; तस्मात् उपाधिधर्माध्यासेनैवात्मन: कर्तृत्वम न स्वाभाविकम् ; तथा च श्रुतिः - 'ध्यायतीव लेलायतीव ' इति 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति च- उपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति । न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा वि- द्यते, 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रवणात् । पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत; परस्मादन्यश्चेच्विति- सू. ४०. ] 6 द्वितीयोऽध्यायः । , माजीवः कर्ता, बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् - न, अविद्या प्रत्युपस्थापितत्वात्कर्तृत्व भोक्तृत्वयोः ; तथा च शास्त्रम् — ' यत्र हि द्वैतमिव भवति तदितर इतरं पश्य- ति' इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्याव स्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति— 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इति तथा स्वप्नजागरि- तयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिप- ततः श्रावयित्वा तद्भावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्व- तस्य श्रावयति- ' तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम्' इत्यारभ्य ' एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द : ' इत्युपसंहारात् ॥ ' तदेतदाहाचार्य:- यथा च तक्षोभयथा' इति । त्वर्थे च अयं चः पठित: । नैवं मन्तव्यम् - स्वाभाविकमे- वात्मनः कर्तृत्वम्, अग्नेरिवौष्ण्यमिति ; यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निर्व्यापार: सुखी भवति — एवमविद्याप्रत्युपस्थापितद्वैत संपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनु- सूत्रभाष्ये [पा. ३. तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो- Sad सुखी भवति संप्रसादावस्थायाम् — तथा मुक्त्यव- स्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृत्तः सुखी भवति । तदृष्टान्तश्चैतावतांशेन द्रष्टव्यः -- तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तेव ; एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु कर्तेवेति । न तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ॥ यत्तूक्तम्, शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति, तन्न - विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादा- य कर्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति ; न च स्वाभाविकमस्य कर्तृत्वमस्ति ब्रह्मात्मत्वोपदेशात्- इत्यवोचाम; तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुषः - इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्य- ति । एतेन विहारोपादाने परिहृते तयोरप्यनुवादरूपत्वात् । ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परि- सू. ४०.] द्वितीयोऽध्यायः । त- वर्तते इति विहार उपदिश्यमानः केवलस्यात्मन: कर्तृत्वमा- वहति ; तथोपादानेऽपि ' तदेषां प्राणानां विज्ञानेन विज्ञान - मादाय' इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्या- त्मन: कर्तृत्वं गमयत इति ; अत्रोच्यते-- न तावत्संध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति 'सधी: स्वप्नो भू- त्वेमं लोकमतिक्रामति' इति तत्रापि धीसंबन्धश्रवणात् ; था च स्मरन्ति --' इन्द्रियाणामुपरमे मनोऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्' इति कामादयश्च मनसो वृत्तयः इति श्रुतिः ; ताच स्वप्ने दृश्यन्ते; तस्मात्स- मना एव स्वप्ने विहरति ; विहारोऽपि च तत्रत्यो वासना- मय एव, न तु पारमार्थिकोऽस्ति ; तथा च श्रुतिः इवकारा- नुबद्धमेव स्वनव्यापारं वर्णयति - ' उतेव स्त्रीभिः सह मो- दमानो जक्षदुतेवापि भयानि पश्यन्' इति; लौकिका अपि तथैव स्वप्नं कथयन्ति -- आरुक्षमिव गिरिशृङ्गम्, अद्राक्षमि- व वनराजिमिति ; तथोपादानेऽपि यद्यपि करणेषु कर्मकर- णविभक्तिनिर्देश:, तथापि तत्संपृक्तस्यैवात्मन: कर्तृत्वं द्रष्ट- " केवले कर्तृत्वासंभवस्य दर्शितत्वात् भवति च लो- केऽनेकप्रकारा विवक्षा — योधा युध्यन्ते, योधै राजा युध्यत इति । अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विव- 1 S. W. II. 13 K पाठाच्च, " सूत्रभाष्ये । [पा. ३. क्ष्यते, न स्वातन्त्र्यं कस्यचित्, अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः, ' विज्ञानं यज्ञं तनुते' इति, स बुद्धेरेव कर्तृत्वं प्राप- यति - विज्ञानशब्दस्य तत्र प्रसिद्धत्वात्, मनोऽनन्तरं तस्य श्रद्धैव शिर:' इति च विज्ञानमयस्या- त्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् - श्रद्धादीनां च बुद्धिधर्म- त्वप्रसिद्धेः, ' विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते ' इति च वाक्यशेषात्- ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्ध- त्वात्, ' स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः' इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् । न च बुद्धेः शक्तिविपर्यय: करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकार- काणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात; उपल- ब्यपेक्षं त्वेषां करणानां करणत्वम्; सा चात्मनः; न च तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात् । अहं- कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति अहंकारस्याप्यु- पलभ्यमानत्वात्; न चैवं सति करणान्तरकल्पनाप्रसङ्गः, बुद्धेः करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थवत्वे- नैव परिहृतः यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधा- नात् । तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ , सू. ४१.] द्वितीयोऽध्यायः । परात्तु तच्छ्रुतेः ॥ ४१ ॥ यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभि- हितम्, तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति १६. परायत्ता- भवति विचारणा । तत्र प्राप्तं तावत्-नेश्व- धिकरणम् । रमपेक्षते जीवः कर्तृत्व इति ; कस्मात् ? अ- पेक्षाप्रयोजनाभावात्; अयं हि जीवः स्वयमेव रागद्वेषादिदो- षप्रयुक्तः कारकान्तरसामग्रीसंपन्नः कर्तृत्वमनुभवितुं शक्नो - ति; तस्य किमीश्वरः करिष्यति ? न च लोके प्रसिद्धरस्ति- कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य इति । क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत ; विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम् । 'वैषम्यनैर्धृन सापेक्षत्वात्' इत्युक्तम् - सत्यमुक्तम्, सति तु ईश्वरस्य सापेक्षत्वसंभवे; सापेक्षत्वं च ईश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोः ; तयोश्च सद्भावः सति जीवस्य कर्तृत्वे; तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्, किं- विषयमीश्वरस्य सापेक्षत्वमुच्येत । अकृताभ्यागमचैवं जी- वस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति -- एतां प्राप्तिं तु शब्देन व्यावर्त्य प्रतिजानीते -- परादिति ; अवि- द्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्या विद्याति- सूत्रभाष्ये । [पा. ३. मिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवा- सात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्व लक्षणस्य संसारस्य सिद्धि: ; तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसि- द्धिर्भवितुमर्हति ; कुतः ? तच्छ्रुतेः ; यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम्, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते; तथा हि श्रुतिर्भवति - ' एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषते' इति, आत्मनि तिष्ठन्नात्मानमन्तरो यमयति' इति च एवं- " य जातीयका ॥ ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्या- ताम्, अकृताभ्यागमश्च जीवस्येति ; नेत्युच्यते---- तु कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावे- यर्थ्यादिभ्यः ॥ ४२ ॥ शब्दचोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीव- स्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वर: कारयति ; अत- चैते चोदिता दोषा न प्रसज्यन्ते - जीवकृतधर्माधर्मवैषम्या- सू. ४२. ] " द्वितीयोऽध्यायः । पेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवत् ईश्वरो निमि तत्वमात्रेण - यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्य :- न हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबी- जेषु - एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्या- दिति यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायन्ते कर्तृत्वे नोपपद्यते - नैष दोष: ; परायन्तेऽपि हि कर्तृत्वे, क- रोत्येव जीवः कुर्वन्तं हि तमीश्वरः कारयति ; अपि च पू- प्रयत्रमपेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्व- मकारयदिति – अनादित्वात्संसारस्येति — अनवद्यम् । कथं पुनरवगम्यते - कृतप्रयत्नापेक्ष ईश्वर इति ? विहितप्रति- षिद्धावैयर्थ्यादिभ्यः इत्याह ; एवं हि ' स्वर्गकामो यजेत ' 'ब्राह्मणो न हन्तव्यः' इत्येवंजातीयकस्य विहितस्य प्रति- षिद्धस्य च अवैयर्थ्यं भवति; अन्यथा तदनर्थकं स्यात्; ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जी- वस्य ; तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिषिद्धका- रिणमप्यर्थेन ; ततश्च प्रामाण्यं वेदस्यास्तमियात्; ईश्वरस्य च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यम्, सूत्रभाष्ये [पा. ३. तथा देशकालनिमित्तानाम् ; पूर्वोक्तदोषप्रसङ्गश्च -- इत्येवंजा- तीयकं दोषजातमादिग्रहणेन दर्शयति ॥ अंशो नानाव्यपदेशादन्यथा चापि दाश- कितवादित्वमधीयत एके ॥ ४३ ॥ जीवेश्वरयोरुपकार्योपकारकभाव उक्तः स च संबद्धयो- रेव लोके दृष्ट:- १७. अंशाधि- करणम् । ------ - यथा स्वामिभृत्ययोः, यथा वा अग्निविस्फु- लिङ्गयो:; ततश्च जीवेश्वरयोरप्युपकार्योप- कारकभावाभ्युपगमात् किं स्वामिभृत्यव - त्संबन्ध:, आहोस्विदग्निविस्फुलिङ्गवत् ? इत्यस्यां विचिकि- त्सायाम् अनियमो वा प्राप्नोति । अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति ॥ अतो ब्रवीति अंश इति ; जीव ईश्वरस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः; अंश इवांश: ; न हि निरवयवस्य मु- ख्योंऽशः संभवति ; कस्मात्पुनः निरवयवत्वात् स एव न भवति ? नानाव्यपदेशात्; ' सोऽन्वेष्टव्यः स विजिज्ञासि - तव्य: ' ' एतमेव विदित्वा मुनिर्भवति ' ' य आत्मनि तिष्ठ- नात्मानमन्तरो यमयति' इति च एवंजातीयको भेदनिर्देशो सू. ४३ . ] 6 द्वितीयोऽध्यायः । :; नासति भेदे युज्यते । ननु च अयं नानाव्यपदेश: सुतरां स्वा- मिभृत्यसारूप्ये युज्यत इति, अत आह- -अन्यथा चापीति ; न च नानाव्यपदेशादेव केवलादेशत्वप्रतिपत्तिः; किं तर्हि, अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः ; तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते— ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवा: ' इत्यादिना ; दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमी दासाः स्वामिष्वात्मानमुपक्षपयन्ति ये च अन्ये कितवा द्यू- तकृतः, ते सर्वे ब्रह्मैव - इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृत कार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह ; तथा अन्यत्रापि ब्रह्म प्रक्रियायामेवायमर्थः प्रपञ्च्यते- " त्वं स्त्रीत्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वचसि त्वं जातो भवति विश्वतोमुखः' इति, 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्य- दास्ते' इति च; ' नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धि: । चैतन्यं च अविशिष्टं जीवेश्वरयोः, यथाग्निविस्फुलिङ्गयो रौष्ण्यम् । अतो भेदाभेदावगमाभ्यामंश- त्वावगमः ॥ कुतश्च अंशत्वावगम: ?- सूत्रभाष्ये मन्त्रवर्णाच्च ॥ ४४ ॥ [पा. ३. मन्त्रवर्णश्चैतमर्थमवगमयति-- ' तावानस्य महिमा । ततो ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि ' इति ; अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमा- नि निर्दिशति, अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इति प्रयोगात्; अंशः पादो भाग इत्यनर्थान्तरम; तस्मादप्यंश- त्वावगमः ॥ 6 कुता अंशत्वावगम: ?- अपि च स्मर्यते ॥ ४५ ॥ ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते— 'ममैं- वांशो जीवलोके जीवभूतः सनातनः' इति तस्मादप्यंश- त्वावगमः । यत्तूक्तम्, स्वामिभृत्यादिष्वेव ईशित्रीशितव्य भावो लोके प्रसिद्ध इति —— यद्यप्येषा लोके प्रसिद्धि:, तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्य भावश्च निश्चीयते ; निरतिशयोपाधिसंपन्नश्वेश्वरो निहीनोपाधिसंपन्नाञ्जीवान् प्र- शास्तीति न किंचिद्विप्रतिषिध्यते ॥ अत्राह - ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन सं- सारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् - यथा सू. ४६ . ] द्वितीयोऽध्यायः । लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम्, तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नु- यात्; अतो वरं पूर्वावस्थः संसार एवास्तु- इति सम्य- ग्दर्शनानर्थक्यप्रसङ्गः स्यात् इति; अत्रोच्यते- : - प्रकाशादिवन्नैवं परः ॥ ४६ ॥ यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरोऽनुभ- वतीति प्रतिजानीमहे; जीवो हि अविद्यावेश्वशात् देहाद्यात्म- भावमिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम इति अवि- या कृतं दुःखोपभोगम् अभिमन्यते ; नैवं परमेश्वरस्य दे- हाद्यात्मभावो दुःखाभिमानो वा अस्ति; जीवस्याप्यविद्याकुं- तनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुः- खाभिमानः, न तु पारमार्थिकोऽस्ति ; यथा च स्वदेहगत - दाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति, तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवति-- अहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादि- ष्वभिनिविशमान:; ततश्च निश्चितमेतदवगम्यते - मिथ्या- भिमानभ्रमनिमित्त एव दुःखानुभव इति । व्यतिरेकदर्शनाच्च एवमवगम्यते ; तथा हि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्ये- सूत्रभाष्ये [पा. ३. वाघोषिते, येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्नि- मित्तं दुःखमुत्पद्यते, न अभिमानहीनानां परिव्राजकादीना- म् । अतश्च लौकिकस्यापि पुंसः सम्यग्दशनार्थवत्त्वं दृष्टम्, किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैत- न्यमात्रस्वरूपस्येति ; तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः - प्रकाशः सौरचान्द्रम- सो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रति- पद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते, यथा च आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति, यथा च उदशरावादिकम्पनात्तद्गते सूर्य प्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्यः कम्पते - एवम विद्याप्रत्युपस्थापिते बुद्धयापहिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानी- श्वरो दुःखायते । जीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्यु- क्तम् । तथा च अविद्यानिमित्त जीवभावव्युदासेन ब्रह्मभाव - मेव जीवस्य प्रतिपादयन्ति वेदान्ताः -- 'तत्त्वमसि' इत्ये- वमादय: । तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखि- त्वप्रसङ्गः ॥ स्मरन्ति च ॥ ४७ ॥ सू. ४७.] द्वितीयोऽध्यायः । - स्मरन्ति च व्यासादयः- यथा जैवेन दुःखेन न पर- मात्मा दुःखायत इति; ' तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्त- दशकेनापि राशिना युज्यते पुनः' इति । च शब्दात् - स- मामनन्ति च - - इति वाक्यशेष:- ' तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' इति, 'एकस्तथा सर्व- भूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्य:' इति च ॥ अत्राह -- यदि तक एव सर्वेषां भूतानामन्तरात्मा स्यात्, कथमनुज्ञापरिहारौ स्यातां लौकिको वैदिको चेति । ननु च अंशो जीव ईश्वरस्य इत्युक्तम् ; तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते; किमत्र चोद्यत इति, उच्यते-- नैतदेवम्; अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतय: प्रतिपादयन्ति -- 'तत्सृष्ट्वा तदेवानुप्राविशत्' 'ना- न्योऽतोऽस्ति द्रष्टा' ' मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' 'तत्त्वमसि' ' अहं ब्रह्मास्मि' इत्येवजातीयकाः । ननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम्- खादेतदेवम्, भावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम् ; अभेद एव त्वत्र प्रतिपिपादयिषितः, ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थ- सूत्रभाष्ये [पा. ३. सिद्धेः ; स्वभावप्राप्तस्तु भेदोऽनूद्यते ; न च निरवयवस्य ब्र- ह्मणो मुख्योंऽशो जीवः संभवतीत्युक्तम्; तस्मात्पर एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्त- व्या अनुज्ञापरिहारोपपत्तिः । तां ब्रूमः - 6 अनुज्ञापरिहारौ देहसंबन्धाज्ज्यो- तिरादिवत् ॥ ४८ ॥ 'ऋतौ भार्यामुपेयात्' इत्यनुज्ञा, 'गुर्वङ्गनां नोपगच्छे- त्' इति परिहारः; तथा 'अग्नीषोमीयं पशुं संज्ञपयेत्' इत्यनुज्ञा, 'न हिंस्यात्सर्वा भूतानि' इति परिहार : ;- एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य इति परिहार:- एवंप्रकारावनुज्ञापरिहारौ एकत्वे ऽप्यात्मनः देहसंबन्धात् स्यात् । देहैः संबन्धो देहसंबन्धः ; कः पुनर्दे- हसंबन्ध: ? देहादिरयं संघातोऽहमेव- इत्यात्मनि विपरी- तप्रत्ययोत्पत्तिः ; दृष्टा च सा सर्वप्राणिनाम् - अहं गच्छामि अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः इत्येवमात्मिका ; न हि अस्या: सम्यग्दर्शनादन्यन्निवारकमस्ति ; प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु । तदेवम- विद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे- सू. ४९. ] द्वितीयोऽध्यायः । ; ऽप्यनुज्ञापरिहाराववकल्पेते । सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारा - नर्थक्यं प्राप्तम् — न, तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेः- हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् ; आत्म- नस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत ; न च आत्मा आत्मन्येव नियोज्यः स्यात् । शरीरव्यति- रेकदर्शिन एव नियोज्यत्वमिति चेत्, न तत्संहतत्वाभिमा- नात् — सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम् ; तथापि व्योमादि- वद्देहाद्यसंहृतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः; न हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः, किमुतै- कात्म्यदर्शिनः । न च नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टा- प्रसङ्गः, सर्वलाभिमानस्यैव प्रवर्तकत्वात्, अभिमानाभावाञ्च सम्यग्दर्शिनः । तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ -- ज्योति- रादिवत् -- यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिहि- यते, नेतरः; यथा च प्रकाश एकस्यापि सवितुरमेध्यदेश- संबद्धः परिहियते, नेतरः शुचिभूमिष्ठः ; तथा भौमा: प्र- देशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरक- लेबरादयः परिह्नियन्ते; तथा मूत्रपुरीषं गवां पवित्रतया परि- गृह्यते, तदेव जात्यन्तरे परिवर्ज्यते -- तद्वत् ॥ असंततेश्वाव्यतिकरः ॥ ४९ ॥ सूत्रभाष्ये [पा. ३. स्यातां नाम अनुज्ञापरिहारावेकस्यात्मनो देहविशेषयोगा- तू ; यस्त्वयं कर्मफलसंबन्धः, स च ऐकात्म्याभ्युपगमे व्यति- कीर्येत, स्वाम्येकत्वादिति चेत्, नैतदेवम्, असंततेः ; न हि कर्तुर्भोक्तुश्वात्मनः संततः सर्वैः शरीरैः संबन्धोऽस्ति; उपाधितन्त्रो हि जीव इत्युक्तम्; उपाध्यसंतानाच्च नास्ति जीवसंतान:- ततश्च कर्मव्यतिकरः फलव्यतिकरो वा नं भविष्यति ॥ आभास एव च ॥ ५० ॥ " आभास एव च एष जीव: परस्यात्मनां जलसूर्यकादिव- त्प्रतिपत्तव्यः, न स एव साक्षात् नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्त- रस्य तत्संबन्धः । एवमव्यतिकर एव कर्मफलयोः । आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्या- कृतत्वोपपत्तिरिति, तद्व्युदासेन च पारमार्थिकस्य ब्रह्मा- त्मभावस्योपदेशोपपत्तिः । येषां तु बहव आत्मानः, ते च सर्वे सर्वगताः तेषामेवैष व्यतिकरः प्राप्नोति; कथम् ? बहवो विभवश्वात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च ; तदर्थं साधारणं प्रधानम्, तन्निमित्तैषां सू. ५०.] द्वितीयोऽध्यायः । भोगापवर्गसिद्धिरिति सांख्या: । सति बहुत्वे विभुत्वे च घ- कुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि च अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगु- णा उत्पद्यन्ते, ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति, स संसार: ; तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादा: । तत्र सांख्यानां तावचैतन्यस्वरूपत्वात्सर्वा- त्मनां संनिधानाद्यविशेषाच्च एकस्य सुखदुःखसंबन्धे सर्वेषां सुखदु:खसंबन्धः प्राप्नोति । स्यादेतत्-प्रधानप्रवृत्तेः पुरुषकैव- स्यार्थत्वाद्व्यवस्था भविष्यति ; अन्यथा हि स्वविभूतिख्यापना- र्था प्रधानप्रवृत्तिः स्यात् ; तथा च अनिर्मोक्ष: प्रसज्येतेति नै - तत्सारम् - न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम; उपपत्त्या तु कयाचिद्व्यवस्थोच्येत ; असत्यां पुन- रुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम्; प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः । काणादानामपि यदा एकेनात्म- ना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात्, संनिधानाद्यविशेषात् ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुख- दुःखित्वं प्रसज्येत ॥ सूत्रभाष्ये [पा. ३. स्यादेतत्- अदृष्टनिमित्तो नियमो भविष्यतीति ; नेत्याह- अदृष्टानियमात् ॥ ५१ ॥ बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तरा- विशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्थ- ते । सांख्यानां तावत् तद्नात्मसमवायि प्रधानवर्ति । प्रधान- साधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते । काणादानामपि पूर्ववत्साधारणेनात्ममन:संयोगेन निर्वर्तित- स्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ स्यादेतत् - अहमिदं फलं प्राप्तवानि, इदं परिहराणि, इत्थं प्रयतै, इत्थं करवाणि - इत्येवंविधा अभिसंध्यादय: प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्य- न्तीति; नेत्याह-- अभिसंध्यादिष्वपि चैवम् ॥ ५२ ॥ अभिसंध्यादीनामपि साधारणेनैवात्ममन:संयोगेन सर्वा- त्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥ सू. ५३.] द्वितीयोऽध्यायः । अथोच्येत -- विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोग: शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति ; अतः प्रदेशकृता व्यवस्था अभिसंध्यादीनामदृष्टस्य सुखदु: ःखयोश्व भविष्यतीति, तदपि नोपपद्यते ; कस्मात् ? अन्तर्भा- वात्; विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्व- न्तर्भवन्ति तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यः; कल्प्यमानोऽप्ययं निष्प्रदेशस्या- त्मनः प्रदेश: काल्पनिकत्वादेव न पारमार्थिकं कार्यं निय- न्तुं शक्नोति ; शरीरमपि सर्वात्मसंनिधावुत्पद्यमानम् - अस्यै- व आत्मनः, नेतरेषाम् इति न नियन्तुं शक्यम् । प्रदेश विशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदु:- खभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धि: स्यात्, समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात्; तथा हि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्, तस्मात्प्रदेशादप- क्रान्ते तच्छरीरे, यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते ; स न स्यात्, यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात् । स्वर्गा- द्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ब्राह्मणादिशरीर- प्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य । S. W. II. 14 , सूत्रभाष्ये [पा. ३. सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम्, वद तावत् त्वम- दृष्टान्ताभावात् ; के बहवः समानदेशाश्चेति ; रूपादय इति चेत्, न; तेषामपि धर्म्यशेनाभेदात्, लक्षणभेदाच्च-न तु बहूनामात्मनां लक्षणभेदोऽस्ति; अन्त्यविशेषवशाद्भेदोपपत्ति- रिति चेत्, न; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरे- तराश्रयत्वात्; आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसि- द्धम्, कार्यत्वाभ्युपगमात् । तस्मादात्मैकत्वपक्ष एव सर्व- दोषाभाव इति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥ श्रीमच्छंकरभगवत्पादैर्विरचितम् ॥ ब्रह्मसूत्रभाष्यम् ॥ द्वितीयाध्याये चतुर्थः पादः वि चतुर्थः पादः ॥ यदादिविषयश्रुतिविप्रतिषे- वस्तृतीयेन पादेन परिहृतः ; चतुर्थेन इदानीं प्राणविषय: परिहियते । तत्र तावत्- तत्तेजोऽसृजत' इति, 6 " तस्माद्वा एतस्मादात्मन आकाश: - संभूत:' इति च एवमादिषु उत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्न आम्नायते ; कचिच्चानुत्पत्तिरेव एषामाम्नायते, 'असद्वा इदमग्र आसीत् ' ' तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रे- Sसदासीत् । तदाहु: के ते ऋषय इति । प्राणा वाव ऋषय:'- इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् ; अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते— 'यथाग्नेर्ध्वलतः क्षुद्रा विस्फु- लिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणा:' इति, ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति, 'सप्त प्राणाः प्रभवन्ति तस्मात्' इति, ' स प्राणमसृजत प्राणा- च्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम्' इति च सूत्रभाष्ये [ पा. ४. एवमादिप्रदेशेषु । तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकार- णानिरूपणाच्च अप्रतिपत्तिः प्राप्नोति । अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गोणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति । अत इदमुत्तरं पठति- तथा प्राणाः ॥ १ ॥ तथा प्राणा इति । कथं पुनरत्र तथा इत्यक्षरानुलोम्यम्, प्रकृतोपमानाभावात् -- सर्वगतात्मबहुत्ववादिदूषणम् अतीता- १. प्राणोत्पत्त्यधि- नन्तरपादान्ते प्रकृतम् ; तत्तावन्नोपमानं सं- " करणम् । भवति, सादृश्याभावात्; सादृश्ये हि सति उपमानं स्यात् -- यथा सिंहस्तथा बलवर्मेति ; अदृष्टसाम्यप्रति- पादनार्थमिति यद्युच्येत - यथा अदृष्टस्य सर्वात्मसंनिधावुत्प- द्यमानस्यानियतत्वम् एवं प्राणानामपि सर्वात्मन: प्रत्यनि- यतत्वमिति तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ; न च जीवेन प्राणा उपमीयेरन् सिद्धान्तविरोधात् - जीव- स्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासिता; तस्मात्तथा इत्यसंबद्धमिव प्रतिभातिन, उदाहरणोपात्तेना- प्युपमानेन संबन्धोपपत्ते:- अत्र प्राणोत्पत्तिवादिवाक्यजातमु- दाहरणम्- ' एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युञ्चरन्ति' इत्येवंजातीयकम् ; तत्र सू. २.] द्वितीयोऽध्यायः । यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपी- त्यर्थः ; तथा- ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ' इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् । अथवा ' पानव्यापञ्च तद्वत्' इत्येवमादिषु व्यवहितोपमान- संबन्धस्याप्याश्रितत्वात् - यथा अतीतानन्तरपादादावुक्ता वि- यदादयः परस्य ब्रह्मणो विकाराः समधिगता:, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् । कः पुनः प्राणानां विकारत्वे हेतुः ! श्रुतत्वमेव ; ननु केषुचित्प्रदे- शेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् तदयुक्तम्, प्रदेशा- न्तरेषु श्रवणात् ; न हि कचिदश्रवणमन्यत्र श्रुतं निवार- यितुमुत्सहते ; तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्यु- त्पद्यन्त इति सूक्तम् ॥ गौण्यसंभवात् ॥ २ ॥ यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्द्रौणी प्राणानामुत्पत्ति- श्रुतिरिति, तत्प्रत्याह- गौण्यसंभवादिति ; गौण्या असंभवो गौण्यसंभव:- न हि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति, प्र- तिज्ञाहानिप्रसङ्गात् -' कस्मिन्नु भगवो विज्ञाते सर्वमिदं वि- ज्ञातं भवति' इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय त- सूत्रभाष्ये [पा. ४. त्साधनायेदमाम्नायते ' एतस्माज्जायते प्राण:' इत्यादि; साच प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृ- तिव्यतिरेकेण विकाराभावात्सिध्यति ; तु प्राणानामु- त्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेत । तथा च प्रतिज्ञातार्थमुपसं- हरति-— ' पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' इति, 'ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इति च ; तथा 'आत्मनो वा h अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितम्' इत्ये- वजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या । कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ? नैतन्मूलप्रकृतिविषय-' म्., 'अप्राणो ह्यमनाः शुभ्र ाक्षरात्परतः परः' इति मूल- प्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात्; अवान्तरप्र- कृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावा- वधारणमिति द्रष्टव्यम्, व्याकृतविषयाणामपि भूयसीनामव- स्थानां श्रुतिस्मृत्योः प्रकृतिविकार भावप्रसिद्धेः । वियदधिकरणे हि-- 'गौण्यसंभवात्' इति पूर्वपक्षसूत्रत्वात्- गौणी- जन्मश्रुतिः, असंभवात् - इति व्याख्यातम् ; प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहित: ; इह तु सिद्धान्तसूत्रत्वात्- गौ- ण्या जन्मश्रुतेरसंभवात् इति व्याख्यातम् तदनुरोधेन तु इहापि - गौणी जन्मश्रुतिः, असंभवात् इति व्याचक्षाणैः सु. ४ . ] द्वितीयोऽध्यायः । ४९७ प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ तत्प्राक्तेश्च ॥ ३ ॥ इतच आकाशादीनामिव प्राणानामपि मुख्यैव जन्म- श्रुतिः - यत् ' जायते' इत्येकं जन्मवाचिपदं प्राणेषु प्रा- कश्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते -- ' एतस्माज्जायते प्राण:' इत्यत्र ; आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् ; तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति न हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्च- रितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्वौण इत्यध्य- वसातुं शक्यम्, वैरूप्यप्रसङ्गात् । तथा ' स प्राणमसृजत प्राणाच्छ्रद्धाम्' इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्यु- त्पत्तिमत्सु श्रद्धादिष्वनुषज्यते । यत्रापि पश्चाच्छूत उत्पत्ति- वचनः शब्दः पूर्वैः संबध्यते, तत्राप्येष एव न्याय: - यथा 'सर्वाणि भूतानि व्युच्चरन्ति' इत्ययमन्ते पठितो व्युच्चरन्ति- शब्द : पूर्वैरपि प्राणादिभिः संबध्यते ॥ तत्पूर्वकत्वाद्वाचः ॥ ४ ॥ यद्यपि ' तत्तेजोऽसृजत' इत्येतस्मिन्प्रकरणे प्राणानामु- त्पत्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्ति- , सूत्रभाष्ये [ पा. ४. श्रवणात्; तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वा- क्प्राणमनसाम् तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्म- प्रभवत्वं सिद्धं भवति । तथा हि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामान्नायते - 'अन्नमयं हि सोम्य मन आपोमय: प्राणस्तेजोमयी वाक्' इति ; तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम्, ततो वर्तत एव ब्रह्म- प्रभवत्वम् ; अथ भाक्तम, तथापि ब्रह्मकर्तृकायां नामरूपव्या- 6 क्रियायां श्रवणात्, 'येनाश्रुतं श्रुतं भवति' इति चोपक्रमात् ' ऐतदात्म्यमिदं सर्वम्' इति चोपसंहारात, श्रुत्यन्तरप्र- सिद्धेश्व ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमय- त्ववचनमिति गम्यते । तस्मादपि प्राणानां ब्रह्मविकारत्व- सिद्धिः ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥ उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः; सं- ख्याविषय इदानीं परिहियते । तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्य- २. सप्तगत्य - तिः संप्रति तु कति इतरे प्राणा इति संप्र- धिकरणम् । धारयति । श्रुतिविप्रतिपत्तेश्चात्र विशय: - क्वचित्सप्त प्राणाः संकीर्त्यन्ते - ' सप्त प्राणाः प्रभवन्ति तस्मा- तू' इति कचिदष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यते -' अ- सू. ६.] द्वितीयोऽध्यायः । इत्य- हा अष्टावतिग्रहाः' इति ; कचिन्नव - 'सप्त वै शीर्ष- ण्याः प्राणा द्वाववाञ्चौ ' इति ; क्वचिद्दश - ' नव वै पुरुषे प्राणा नाभिर्दशमी' इति क्वचिदेकादश- ' दशेमे पुरुषे प्राणा आत्मैकादश:' इति कचिद्वादश - 'सर्वेषां स्पर्शानां त्वगे- कायनम्' इत्यत्र ; क्वचित्रयोदश-' चक्षुश्च द्रष्टव्यं च ' त्र • एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः । किं ता- वत्प्राप्तम् ? सप्तैव प्राणा इति । कुत: ? गते : ; यतस्तावन्तोऽव- गम्यन्ते 'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्येवंविधासु श्रुतिषु, विशेषिताचैते 'सप्त वै शीर्षण्याः प्राणाः' इत्यत्र । ननु 'प्राणा गुहाशया निहिताः सप्त सप्त ' इति वीप्सा श्रूय- ते; सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयतीति नैष दोष: ; पुरुषभेदाभिप्रायेयं वीप्सा - प्रतिपुरुषं सप्त सप्त प्राणा इति; न तत्वभेदाभिप्राया - सप्त सप्त अन्येऽन्ये प्राणा इति । नन्वष्टत्वादिकापि संख्या प्राणेषु उदाहृता ; कथं सप्तैव स्युः ? सत्यमुदाहृता ; विरोधात्त्वन्यतमा संख्या अध्यवसातव्या ; तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् ; वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते ॥ अत्रोच्यते- हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥ सूत्रभाष्ये [पा. ४. हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते — 'हस्तो वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति' इत्येवमाद्यासु श्रुतिषु ; स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् ; हीनाधिक संख्यावि- प्रतिपत्तौ हि अधिक संख्या संग्राह्या भवति ; तस्यां हीना अन्तर्भवति, न तु हीनायामधिका; अतश्च नैवं मन्तव्यम् - स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति । उत्तरसंख्यानु- रोधात्तु एकादशैव ते प्राणाः स्युः ; तथा च उदाहृता श्रुति:- 'दशेमे पुरुषे प्राणा आत्मैकादश:' इति ; आत्मशब्देन च अत्र अन्तःकरणं परिगृह्यते, करणाधिकारात् । नन्वेकादश- त्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते - सत्यमुदाहृते; न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थम- धिकं करणं कल्प्येत; शब्दस्पर्शरूपरसगन्धविषयाः पश्च बु- द्विभेदा:, तदर्थानि पञ्च बुद्धीन्द्रियाणि ; वचनादानविहरणो- त्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि च पञ्च कर्मेन्द्रि याणि; सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेक- वृत्तिकम् ; तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- 'मनो बुद्धिरहंकारश्चित्तं च' इति ; तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह - 'एतत्सर्वं मन एव' इति । सू. ६.] द्वितीयोऽध्यायः । अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमता: स्यु: ; स्थानभेदाद्धयेते चत्वारः सन्तः 6 सप्त गण्यन्ते -- ' द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्' इति ; न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् । तथा 'नव वै पुरुषे प्राणा नाभिर्दशमी' इत्यत्रापि देहच्छि - भेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभि- प्रायेण, 'नाभिर्दशमी' इति वचनात् ; न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति; मुख्यस्य तु प्राणस्य भवति नाभि- रप्येकं विशेषायतनमिति -- अतो 'नाभिर्दशमी' इत्युच्यते । क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम् ; तदेवं विचित्रे प्राणेयत्तानाने सति, व किं परम् आना- नमिति विवेक्तव्यम् ; कार्यजातवशात्वेकादशत्वानानं प्राण- विषयं प्रमाणमिति स्थितम् ॥ इयमपरा सूत्रद्वययोजना - सप्तैव प्राणाः स्युः, यतः सप्तानामेव गतिः श्रयते- 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यत्र । ननु सर्वशब्दोऽत्र पठ्यते, तत्कथं सप्तानामेव गतिः प्रतिज्ञायत इति विशेषितत्वादित्याह - सप्तैव हि प्राणाश्चक्षुरादयस्त्व- सूत्रभाष्ये ----- [ पा. ४. पर्यन्ता विशेषिता इह प्रकृता: ' स यत्रैव चाक्षुषः पुरुषः परापर्यावर्ततेऽथारूपज्ञो भवति' 'एकीभवति न पश्य - तीत्याहु:' इत्येवमादिना अनुक्रमणेन ; प्रकृतगामी च सर्वश- दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये नि- मन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते, नान्ये- एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते, नान्य इति । नन्वत्र विज्ञानमष्टममनुक्रान्तम् ; कथं सप्ताना- मेवानुक्रमणम् ? नैष दोषः । मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्ति- भेदेऽपि सप्तत्वोपपत्तेः । तस्मात्सप्तैव प्राणा इति — एवं प्रा- ते, ब्रूमः - हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते 'हस्तो वै ग्रहः' इत्यादिश्रुतिषु ; ग्रहत्वं च बन्ध- नभावः, गृह्यते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेने- ति; स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरे- वपि तुल्यत्वाद्बन्धनस्य; तस्माच्छरीरान्तरसंचारि इदं ग्रह- संज्ञकं बन्धनम् इत्यर्थादुक्तं भवति । तथा च स्मृतिः - 'पु- र्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च' इति प्राड्योक्षात् ग्रहसंज्ञकेन बन्ध- नेन अवियोगं दर्शयति ; आथर्वणे च विषयेन्द्रियानुक्रमणे 'चक्षुश्च द्रष्टव्यं च' इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सवि- सू. ७.] द्वितीयोऽध्यायः । बयाण्यनुक्रामति' हस्तौ चादातव्यं चोपस्थश्चानन्दयित- व्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च ' इति ; तथा 'दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छ- रीरान्मर्त्यदुत्क्रामन्त्यथ रोदयन्ति' इत्येकादशानां प्राणाना- मुत्क्रान्ति दर्शयति । सर्वशब्दोऽपि च प्राणशब्देन संबध्यमा- नोऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थाप- यितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात्; सर्वे ब्राह्म- 'णा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यम्, सर्वशब्दसामर्थ्यात् ; सर्वभोज- नासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिरा- श्रिता; इह तु न किंचित्सर्वशब्दार्थसंकोचने कारणमस्ति : तस्मात्सर्वशब्देन अव अशेषाणां प्राणानां परिग्रहः । प्रदर्शनार्थ च सप्तानामनुक्रमणमित्यनवद्यम् । तस्मादेकादशैव प्राणा:- शब्दतः कार्यतचेति सिद्धम् ॥ अणवश्च ॥ ७ ॥ अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति । अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्या:; अणुत्वं चैषां सौक्ष्म्यपरिच्छे- ३. प्राणाणुत्वा- दौ, न परमाणुतुल्यत्वम्, कृत्स्रदेहव्यापि - सूक्ष्मा एते धिकरणम् । कार्यानुपपत्तिप्रसङ्गात् सूत्रभाष्ये [पा. ४. प्राणा:, स्थूलाश्चेत्स्यु:- मरणकाले शरीरान्निर्गच्छन्तः, बिला- दहिरिव, उपलभ्येरन् म्रियमाणस्य पार्श्वस्थैः परिच्छिन्ना- चैते प्राणाः, सर्वगताश्चेत्स्युः - उत्क्रान्तिगत्यागतिश्रुतिव्या- कोप: : स्यात्, तद्गुणसारत्वं च जीवस्य न सिध्येत् । सर्वगतानामपि वृत्तिलाभ: शरीरदेशे स्यादिति चेत्, न, वृत्तिमात्रस्य करणत्वोपपत्तेः ; यदेव हि उपलब्धिसाधन- म् - वृत्ति: अन्यद्वा -- तस्यैव नः करणत्वम्, संज्ञामात्रे वि- वाद: इति करणानां व्यापित्वकल्पना निरर्थिका । तस्मा- त्सूक्ष्मा: परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ श्रेष्ठश्च ॥ ८ ॥ मुख्य प्राण इतर प्राणवद्ब्रह्मविकार:- इत्यतिदिशति । तच्च अविशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् - " एत ४. प्राणष्टया - स्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च , , धिकरणम् । इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्प- त्तिश्रवणात् ' स प्राणमसृजत' इत्यादिश्रवणेभ्यश्च । किमर्थः पुनरतिदेश: ? अधिकाशङ्कावारणार्थ:- नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति - 'न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्नपरः किंचनास' इति ; ' आनीत्' इति सू. ९.] द्वितीयोऽध्यायः । प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति; तस्मादजः प्राण इति जायते कस्यचिन्मति:; तामतिदेशेना- पनुदति । आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूच- यति, 'अवातम्' इति विशेषणात् ' अप्राणो ह्यमनाः शु- भ्र: ' इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य द- शितत्वात् ; तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छ- ब्द इति । ' श्रेष्ठ: ' इति च मुख्यं प्राणमभिदधाति, 'प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च' इति श्रुतिनिर्देशात्; ज्येष्ठश्च प्राण:, शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् न चेत्तस्य तदानी वृत्तिलाभ: स्यात्, योनौ निषिक्तं शुकं पूयेत, न संभवेद्वा ; श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिला- भान्न ज्येष्ठत्वम् । श्रेष्ठश्च प्राणः, गुणाधिक्यात्- 'न श- क्ष्यामस्त्वदृते जीवितुम्' इति श्रुतेः ॥ न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् श्रुतेः वायुः प्राण इति; एवं हि श्रूयते - ५. वायुक्रिया - " यः प्राणः स वायुः स एष वायुः पश्च- धिकरणम् । विधः प्राणोऽपानो व्यान उदानः समानः ' इति । अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण S. W. II. 15 सूत्रभाष्ये इति प्राप्तम् ; एवं हि तन्त्रान्तरीया आचक्षते- करणवृत्तिः प्राणाद्या वायवः पश्चेति ॥ [पा. ४. सामान्या अत्रोच्यते- न वायुः प्राणः, नापि करणव्यापार: ; कुत: ? पृथगुपदेशात्; वायोस्तावत् प्राणस्य पृथगुपदेशो भवति— 'प्राण एव ब्रह्मणचतुर्थः पादः स वायुना ज्यो- तिषा भाति च तपति च' इति ; न हि वायुरेव सन् वायो: पृथगुपदिश्येत । तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्रा- णस्यानुक्रमणात्, वृत्तिवृत्तिमतोरभेदात् ; न हि करणव्या- पार एव सन् करणेभ्यः पृथगुपदिश्येत । तथा ' एतस्मा- ज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः' इत्येव - मादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनु- सर्तव्या: : । न च समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात् समुदायस्य च अकारकत्वात् ; ननु पञ्जरचालनन्यायेन एतद्भविष्यति - यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति; नेत्युच्यते युक्तं तत्र - प्रत्ये- --- सू. १०.] द्वितीयोऽध्यायः । , कवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः प- क्षिणः संभूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात् ; इह तु — श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न संभूय प्रा- ज्युरिति युक्तम्, प्रमाणाभावात्, अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य । तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् : गुणभावोपगमच तं प्रति वागादीनाम् न करणवृत्तिमात्रे 'प्राणेऽवकल्पते । तस्मादन्यो वायुक्रियाभ्यां प्राणः । कथं तर्हीयं श्रुतिः - ' यः प्राणः स वायु:' इति ? उच्यते — वायु- रेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठ- मानः प्राणो नाम भण्यते, न तत्त्वान्तरम्, नापि वायु- मात्रम् ; अचोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ " स्यादेतत् — प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात्, गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् ; तथा हि अनेकविधा विभूति: प्राणस्य श्राव्यते - सुप्तेषु वागादिषु प्राण एवैको जागर्ति, प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्के, प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान् - इति ; तस्मात्प्राण- स्यापि जीववत् स्वातन्त्र्यप्रसङ्गः ; तं परिहरति- - चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥ सूत्रभाष्ये " [पा. ४. तु-शब्द: प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति । यथा चक्षुरादीनि राजप्रकृतिवत् जीवस्य कर्तृत्वं भोक्तृत्वं च प्रति उपकरणानि, न स्वतन्त्राणि ; तथा मुख्योऽपि प्राण:, राजमन्त्रिवत्, जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, न स्वतन्त्रः । कुतः ? तत्सह शिष्टयादिभ्यः ; तैश्चक्षुरादिभिः सहैव प्राण: शिष्यते प्राणसंवादादिषु ; समानधर्मणां च सह शासनं युक्तं बृहद्रथंतरादिवत्; आदिशब्देन संहतत्वाचेतन- त्वादीन् प्राणस्य स्वातन्त्र्य निराकरणहेतून् दर्शयति ॥ स्यादेतत्- यदि चक्षुरादिवत् प्राणस्य जीवं प्रति कर- भावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत - रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति । अपि च एकादशैव कार्यजातानि रूपा - लोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः संगृहीता: ; न तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादश: प्राणः प्रतिज्ञायत इति; अत उत्तरं पठति--- अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥ न तावद्विषयान्तरप्रसङ्गो दोष:, अकरणत्वात्प्राणस्य ; न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपग- सू. १२. ] द्वितीयोऽध्यायः । म्यते । न च अस्य एतावता कार्याभाव एव; कस्मात् ? तथा हि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्य दर्शयति प्राणसंवादादिषु - ' अथ ह प्राणा अहं श्रेयसि व्यूदिरे ' इत्युपक्रम्य, ' यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतर- मिव दृश्येत स वः श्रेष्ठ: ' इति च उपन्यस्य, प्रत्येकं वागा- द्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोचिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्ग च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थिति दर्श- यति ; ' तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाह- मेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामि' इति च एतमेवार्थे श्रुतिराह; ' प्राणेन रक्षन्नवरं कुलायम् ' इति च सुतेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ; यस्मात्कस्माच्चाङ्गात्प्राण उक्रामति तदेव तच्छुष्यति', इति तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति' इति च प्राण- निमित्तां शरीरेन्द्रियपुष्टिं दर्शयति ; 'कस्मिन्न्वहमुकान्त उ- कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' इति, ' स प्राणमसृजत . ' इति च प्राणनिमित्ते जीवस्योत्क्रान्ति- प्रतिष्ठे दर्शयति ॥ 6 6 '; पञ्चवृत्तिर्मनोवव्यपदिश्यते ॥ १२ ॥ सूत्रभाष्ये 6 - [ पा. ४. इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम्, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु प्राणोऽपानो व्यान उ- दानः समान:' इति ; वृत्तिभेदस्वायं कार्यभेदापेक्षः - प्राणः प्रावृत्तिः उच्छ्रासादिकर्मा, अपानः अवाग्वृत्तिर्निश्वासादि- कर्मा, व्यानः तयोः संधौ वर्तमानो वीर्यवत्कर्महेतु:, उदान: ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतु:, समानः समं सर्वेष्वङ्गेषु योऽन्नर- सान्नयति इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् - यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थः । श्रोत्रादिनिमित्ता: श- ब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धा: ; न तु 'काम: संकल्प: ... ' इत्याद्या: परिपठिता गृह्येरन् पञ्चसंख्यातिरे- कात् । नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः ; एवं तर्हि 'परमतमप्रतिषिद्धमनुमतं भवति' इति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्यन्ते ---- ' प्रमाणविपर्ययविकल्पनिद्रास्मृतय:' नाम; बहुवृत्तित्वमात्रेण वा मन: प्राणस्य निदर्शनमिति द्रष्टव्यम् । जीवोपकरणत्व- मपि प्राणस्य पञ्चवृत्तित्वात् मनोवत् - इति वा योजयि- तव्यम् ॥ " अणुश्च ॥ १३ ॥ ." सू. १४ . ] द्वितीयोऽध्यायः । अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत् । अणु- त्वं च इहापि सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम्, प- ६. श्रेष्ठाणुत्वा चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् ;- उत्क्रान्तौ पार्श्वस्थेन अनुप - " " धिकरणम् । सूक्ष्मः प्राणः, लभ्यमानत्वात् परिच्छिन्नश्च उत्क्रान्तिगत्यागति श्रुतिभ्यः । ननु विभुत्वमपि प्राणस्य समाम्नायते - सम: षिणा - मो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण' इत्येवमादिषु प्रदेशेषु तदुच्यते-- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणात्मनैव एतद्विभुत्वमा- नायते, न आध्यात्मिकेन ; अपि च 'सम: षिणा' इत्या- दिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते; तस्माददोषः ॥ 6 ज्योतिराद्यधिष्ठानं तु तदा- मननात् ॥ १४ ॥ ते पुनः प्रकृताः प्राणा: किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिता: प्रभवन्ति इति - यथास्वं ७. ज्योतिराद्य- विचार्यते । तत्र प्राप्तं तावत्- धिकरणम् । कार्यशक्तियोगात् स्वमहिम्नैवं प्राणाः प्रव- र्तेरन्निति ; अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्यु- सूत्रभाष्ये [पा. ४. गम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रस- ङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत; अतः स्वमहिम्नैव एषां प्रवृत्तिरिति एवं प्राप्ते, इदमुच्यते- ज्योतिराद्यधि- ष्ठानं तु इति । तु शब्देन पूर्वपक्षो व्यावर्त्यते । ज्योतिरादि- भिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते । हेतुं च व्याचष्ठे- तदामननादिति ; तथा हि आमनन्ति - ' अग्निर्वाग्भूत्वा मुखं प्राविशत्' इत्यादि; अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते ; न हि देव- तासंबन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चि- द्विशेषसंबन्धो दृश्यते ; तथा 'वायुः प्राणो भूत्वा नासिके प्राविशत्' इत्येवमाद्यपि योजयितव्यम् । तथा अन्यत्रापि ' वागेव ब्रह्मणचतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च' इत्येवमादिना वागादीनाम् अग्न्यादिज्योतिष्ट्वादि- वचनेन एतमेवार्थी द्रढयति । 6 स वै वाचमेव प्रथमामत्यव- हत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्' इति च एवमादि- ना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतय- ति । सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनु- क्रमणम् अनयैव प्रत्यासत्त्या भवति । स्मृतावपि - 'वाग- । सू. १६.] द्वितीयोऽध्यायः : 1 ध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम्' इत्यादिना वागादीनामग्न्यादिदेवताधि- ष्ठितत्वं सप्रपञ्चं प्रदर्शितम् । यदुक्तम् -- स्वकार्यशक्तियोगा- त्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम, शक्तानामपि शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात्; उभयथोप- पत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते ॥ यदयुक्तम्- देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गः, न शारीरस्येति तत्परिहियते-- प्राणवता शब्दात् ॥ १५ ॥ 6 सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्य- करणसंघातस्वामिना शारीरेणैव एषां प्राणानां संबन्धः श्रुते- रवगम्यते ; तथा हि श्रुतिः -- अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्रा - णीति स आत्मा गन्धाय घ्राणम्' इत्येवंजातीयका शारीरे- जैव प्राणानां संबन्धं श्रावयति । अपि च अनेकत्वात्प्रतिक- रणमधिष्ठात्रीणां देवतानां न भोक्तृत्वम् अस्मिन् शरीरेऽव- कल्पते; एको ह्ययमस्मिन् शरीरे शारीरो भोक्ता प्रतिसंधाना- दिसंभवादवगम्यते ॥ तस्य च नित्यत्वात् ॥ १६ ॥ सूत्रभाष्ये [पा. ४. तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम्- पुण्यपापोपलेपसंभवात् सुखदुःखोपभोगसंभवाच्च, न देवता- नाम् ; ता हि परस्मिन्नैश्वर्ये पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति; श्रुतिश्च भवति - 'पुण्य- मेवामुं गच्छति न ह वै देवान्पापं गच्छति' इति । शारी- रेणैव च नित्यः प्राणानां संबन्ध:, उत्क्रान्त्यादिषु तदनुवृत्ति- दर्शनात् —'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यादिश्रुतिभ्यः । तस्मात् सती- ध्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्व- मपगच्छति ; करणपक्षस्यैव हि देवता, न भोक्तृपक्षस्येति ॥ त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ता:; तत्रेदम- परं संदिह्यते— किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वान्तराणीति । किं ८. इन्द्रि - याधि- तावत्प्राप्तम् — मुख्यस्यैवेतरे वृत्तिभेदा इति ; करणम् । कुत: ? श्रुतेः ; तथा हि श्रुति: मुख्य- मितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्याप- यति - ' हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव --- सू. १७.] - द्वितीयोऽध्यायः । सर्वे रूपमभवन्' इति ; प्राणैकशब्दत्वाच्च एकत्वाध्यवसाय: ; इतरथा न्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र ar मुख्यस्येतरत्र लाक्षणिकत्वमापद्येत । तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति ; एवं प्राप्ते, ब्रूमः — तत्त्वान्तराण्येव प्राणाद्वागादीनीति ; कुतः ? व्यपदेशभेदात् ; कोऽयं व्यपदेशभेद: ? ते प्रकृता: प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्य - न्ते, श्रुतावेवं व्यपदेशभेददर्शनात् – 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति ह्येवजातीयकेषु प्रदेशेषु पृथ- कू प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि । ननु मनसो - ऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत् स्यात् - 'मनः सर्वेन्द्रियाणि च' इति पृथग्व्यपदेशदर्शनात् सत्यमेतत्- स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादि- वत् संगृह्यते ; प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसि- द्धमस्ति । व्यपदेशभेदश्चायं तवभेदपक्षे उपपद्यते ; तत्त्व- कत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न इति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्या- लभते च- दितरे ॥ कुतश्च तत्त्वान्तरभूता: ?- ' सूत्रभाष्ये । भेदश्रुतेः ॥ १८ ॥ [पा. ४. भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- 'ते ह वाचमू- चु:' इत्युपक्रम्य, वागादीनसुरपाप्मविध्वस्तानुपन्यस्य, उप- संहृत्य वागादिप्रकरणम् ' अथ हेममासन्यं प्राणमूचुः ' इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् । तथा 'मनो वाचं प्राणं तान्यात्मनेऽकुरुत' इत्येवमाद्या अपि भेद- श्रुतय उदाहर्तव्याः । तस्मादपि तत्त्वान्तरभूता मुख्या- दितरे ॥ ------ कुतश्च तत्त्वान्तरभूता: ?- वैलक्षण्याच्च ॥ १९ ॥ सुतेषु वा- वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च- गादिषु मुख्य एको जागर्ति; स एव च एको मृत्युना अना- तः, आप्तास्त्वितरे; तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणप- तनहेतुत्वम्, न इन्द्रियाणाम् ; विषयालोचनहेतुत्वं च इन्द्रि - याणाम्, न प्राणस्य- इत्येवंजातीयको भूयाँलक्षणभेदः प्रा- णेन्द्रियाणाम्; तस्मादप्येषां तत्त्वान्तरभावसिद्धिः । यदुक्तम् 'त एतस्यैव सर्वे रूपमभवन्' - - इति श्रुतेः प्राण एवे- न्द्रियाणीति, तदयुक्तम्, तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीते: ; तथा हि - ' वदिष्याम्येवाहमिति वाग्दधे' इति वागादीनी- द्वितीयोऽध्यायः । सू. २०.] न्द्रियाण्यनुक्रम्य, 'तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्रा- म्यत्येव वाक्' इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादी- नामभिधाय, 'अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति; 'अयं वै नः श्रेष्ठ:' इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् - तद्रूपभवनं वागा- दीनाम् - इति मन्तव्यम्, न तु तादात्म्यम् । अत एव च प्राण- शब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः ; तथा च श्रुतिः -- 'त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा: ' इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिक वृत्तिं दर्शयति । तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति ॥ संज्ञामूर्तिक्लप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेना- ९. संज्ञामूर्ति - त्मनानुप्रविश्य नामरूपे व्याकरवाणीति । क्लृप्त्यधि- तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ' करणम् । तत्र संशयः किं जीवकर्तृकमिदं नाम - , सूत्रभाष्ये [ पा. ४. रूपव्याकरणम्, आहोस्वित्परमेश्वरकर्तृकमिति । तत्र प्राप्तं तावत् जीवकर्तृकमेवेदं नामरूपव्याकरणमिति; कुतः ? 'अनेन जीवेनात्मना ' इति विशेषणात् - यथा लोके 'चा- रेणाहं परसैन्यमनुप्रविश्य संकलयानि ' इत्येवं जातीय के प्र- योगे, चारकर्तृकमेव सत् सैन्यसंकलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण । अप च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीव- स्यैव व्याकर्तृत्वं दृष्टम् । तस्माज्जीवकर्तृकमेवेदं नामरूप- व्याकरणमित्येवं प्राप्ते-- ----- अभिधत्ते— संज्ञामूर्तिक्लप्तिस्त्विति । तु शब्देन पक्षं व्या- वर्तयति । संज्ञामूर्तिक्लप्तिरिति नामरूपव्याक्रियेत्येतत्; त्रि- वृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवाद- कर्तृत्वनिर्देशात् ~~येयं संज्ञाक्लृप्तिः मूर्तिक्लप्तिश्च, अग्नि: आ- दित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशु- मृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्ह- ति ; कुत: ? उपदेशात् ; तथा हि-'सेयं देवता ' इत्युपक्रम्य सू. २०.] द्वितीयोऽध्यायः । 'व्याकरवाणि' इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याक- र्तृत्व महोपदिश्यते । ननु ' जीवेन' इति विशेषणात् जीवकृर्तृ- कत्वं व्याकरणस्याध्यवसितम् नैतदेवम्; 'जीवेन' इत्येतत् 'अनुप्रविश्य' इत्यनेन संबध्यते, आनन्तर्यात् न ' व्याकर- वाणि' इत्यनेन तेन हि संबन्धे ' व्याकरवाणि' इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत ; न च गिरि- नदी समुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति ; येष्वपि च अस्ति सामर्थ्यम्, तेष्व- पि परमेश्वरात्तमेव तत्; न च जीवो नाम परमेश्वरादत्य- न्तभिन्न:- चार इव राज्ञः, 'आत्मना ' इति विशेषणात् उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ; तेन तत्कृतमपि ना- मरूपव्याकरणं परमेश्वरकृतमेव भवति परमेश्वर एव च नामरूपयोयकर्तेति सर्वोपनिषत्सिद्धान्तः, 'आकाशो ह वै नाम नामरूपयोर्निर्वहिता' इत्यादिश्रुतिभ्यः; तस्मात् परमे- वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम् । त्रिवृत्करण- पूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नाम- रूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् ; तच्च त्रिवृ- त्करणमग्न्यादित्यचन्द्र विद्युत्सु श्रुतिर्दर्शयति- ' यदने रोहि- तं रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्य' इत्या- : ' सूत्रभाष्ये [ पा. ४. दिना; तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्या- करणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते ; एव- मेवादित्यचन्द्र विद्युत्स्वपि द्रष्टव्यम् । अनेन च अग्न्याद्युदाहरणे- न भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करण- मुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात् ; तथा हि- अविशेषेणैव उपक्रमः - ' इमास्तिस्रो देवतास्त्रिवृत्रिवृदेकै का भवति' इति, अविशेषेणैव च उपसंहारः - ' यदु रोहित मि- वाभूदिति तेजसस्तद्रूपम्' इत्येवमादि:, ' यद्वविज्ञातमिवाभू- दित्येतासामेव देवतानां समास:' इत्येवमन्तः ॥ तासां तिसृणां देवतानाम्, बहिस्त्रिवृत्कृतानां सतीनाम्, अध्यात्ममपरं त्रिवृत्करणमुक्तम्' इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्रिवृदेकैका भवति' इति ; तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति, आशङ्कितं कंचिद्दोषं परिहरि- powment ष्यन् - मांसादि भौमं यथाशब्द- मितरयोश्च ॥ २१ ॥ भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते ; तथा हि श्रुतिः -- ' अन्नमशितं त्रेधा सू. २२. ] द्वितीयोऽध्यायः । विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन: ' इति ; विवृत्कृता भूमि- रेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्राय: ; तस्याश्च स्थविष्टं रूपं पुरीषभावेन बहिर्निर्गच्छति; मध्यममध्यात्मं मांसं वर्धयति ; अणिष्ठं तु मनः । एवमितरयोरप्लेजसोर्य- थाशब्दं कार्यमवगन्तव्यम् - मूत्रं लोहितं प्राणश्च अपां कार्यम्, अस्थि मज्जा वाक् तेजस: - इति ॥ अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम्, अवि- शेषश्रुते:- ' तासां त्रिवृतं त्रिवृतमेकैकामकरोत्' इति, किंकृ- तस्तर्ह्ययं विशेषव्यपदेश:- इदं तेज:, इमा आपः, इद- मन्नम् इति ? तथा अध्यात्मम् - इदमन्नस्याशितस्य कार्य मांसादि, इदमपां पीतानां कार्य लोहितादि, इदं तेजसोऽशि- तस्य कार्यमस्थ्यादि इति ? अत्रोच्यते- वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥ , तु- शब्देन चोदितं दोषमपनुदति विशेषस्य भावो वैशेष्यम् भूयस्त्वमिति यावत्; सत्यपि त्रिवृत्करणे कचि- त्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते- अग्नेस्तेजोभूयस्त्वम्, उदकस्यान्भूयस्त्वम्, पृथिव्या अन्नभूयस्त्वम् इति । व्यवहार- S. W. II. 16 सूत्रभाष्ये [पा. ४. प्रसिद्धयर्थं चेदं त्रिवृत्करणम् ; व्यवहारश्च त्रिवृत्कृत रज्जुवदे- कत्वापत्तौ सत्याम्, न भेदेन भूतत्रयगोचरो लोकस्य प्रसि- ध्येत् । तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेष - वादो भूतभौतिक विषय उपपद्यते । ' तद्वादस्तद्वाद:' इति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः ॥ ॥ तृतीयोऽध्यायः ॥ . द्वितीयेऽध्याये स्मृतिन्यायविरोधो वे- । दान्तविहिते ब्रह्मदर्शने परिहृतः, परप- क्षाणां च अनपेक्षत्वं प्रपञ्चितम् श्रुति- " विप्रतिषेधश्च परिहृतः ; तत्र च जीवव्य- । तिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्श- नात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफला- नियमश्च - इत्येतदर्थजातं तृतीये निरूपयिष्यते ; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतो:- 'तस्माज्जुगुप्सेत ' इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः सूत्रभाष्ये [पा. १. समनस्कोऽविद्याकर्म पूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रपद्यत इत्येतदवगतम् - 'अथैनमेते प्राणा अभिसमायन्ति ' इत्येवमादे: ' अन्यन्नवतरं कल्याणतरं रूपं कुरुते' इत्येव - मन्तात् "संसारप्रकरणस्थाच्छब्दात्, धर्माधर्मफलोपभोग- संभवाच्च स किं देहबीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति, आहोस्वित्सं परिष्वक्तः - इति चिन्त्यते ॥ ; - किं तावत्प्राप्तम् ? असंपरिष्वक्त इति ; कुत: ? करणोपा- दानवद्भूतोपादानस्य अश्रुतत्वात् - 'स एतास्तेजोमात्रा: स- मभ्याददान:' इति ह्यत्र तेजो मात्राशब्देन करणानामुपादानं संकीर्तयति, वाक्यशेषे चक्षुरादिसंकीर्तनात् नैवं भूतमा- त्रोपादानसंकीर्तनमस्ति ; सुलभाश्च सर्वत्र भूतमात्रा:, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ; ततश्च तासां नयनं निष्प्रयोज- नम् ; तस्मादसंपरिष्वक्तो याति- इत्येवं प्राप्ते, पठत्याचार्य:- तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥ - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति । तदन्तरप्रति- पत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः, रहति गच्छति - इत्यवगन्तव्यम् ; कुत: ? प्रश्ननिरूपणाभ्या- सू. १.] तृतीयोऽध्यायः । म्; तथा हि प्रश्नः - ' वेत्थ यथा पञ्चम्यामाहुतावाप: १. तदन्तर- पुरुषवचसो भवन्ति' इति ; निरूपणं च प्रतिपत्स्य प्रतिवचनम्, युपर्जन्यपृथिवीपुरुषयोषि- धिकरणम् । त्सु पञ्चस्वग्निषु श्रद्धासोमवृष्टयन्नरेतो- रूपाः पञ्च आहुतीदर्शयित्वा -' इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति' इति तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते । नन्वन्या श्रुतिः जलूकाव- त्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ' तद्यथा तृणजलायुका' इति तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभाव- मात्रं जलूकयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तर- प्रतिपत्तिप्रकारे सति, या: पुरुषमतिप्रभवा: कल्पना:--- व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्द्- त्तिलाभस्तत्र भवति - केवलस्यैवात्मनो वृत्तिलाभस्तत्र भ वति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, - जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम् - इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ सूत्रभाष्ये [पा. १. ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भि: संप- रिष्वक्तो रहतीति प्राप्नोति, अपशब्दश्रवणसामर्थ्यात् ; तत्र कथं सामान्येन प्रतिज्ञायते - सर्वैरेव भूतसूक्ष्मैः संपरिष्व- तो रहतीति ? अत उत्तरं पठति- व्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥ तु शब्देन चोदितामाशङ्कामुच्छिनत्ति । त्र्यात्मिका हि आप:, त्रिवृत्करणश्रुतेः; तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । ज्यात्मकश्च देहः, त्रया- णामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकः, त्रिधातुत्वात् - त्रिभिर्वातपित्तश्लेष्मभिः न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वा- पेक्षोऽयम्- 'आपः पुरुषवचसः' इति - प्रश्नप्रतिवचनयो- रप्शब्दः, न कैवल्यापेक्ष: ; सर्वदेहेषु हि रसलोहितादिद्रव- भूयस्त्वं दृश्यते । ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते ; नैष दोष:- इतरापेक्षया अपां बाहुल्यं भविष्यति ; दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च नि- मित्तकारणं देहान्तरारम्भे ; कर्माणि च अग्निहोत्रादीनि सोमा- ज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्युलोकाख्येऽग्नौ हूयन्त इति सू. ४.] तृतीयोऽध्यायः । वक्ष्यति ; तस्मादप्यपां बाहुल्य प्रसिद्धि: । बाहुल्याच्च अपशव्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ प्राणगतेश्व ॥ ३ ॥ प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते—- 'तमु- त्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्यादिश्रुतिभिः सा च प्राणानां गतिर्ना- श्रयमन्तरेण संभवतीत्यतः, प्राणगतिप्रयुक्ता तदाश्रयभूता- नामपामपि भूतान्तरोपसृष्टानां गतिरर्थादवगम्यते ; न हि निराश्रयाः प्राणाः कचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात् ॥ अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥ स्यादेतत्-नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छ- न्ति, अग्न्यादिगतिश्रुतेः ; तथा हि श्रुतिः मरणकाले वागा- दय: प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति- 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राण:' इत्यादिना इति चेत्, न, भाक्तत्वात्; वागादीनामग्न्यादिगतिश्रुतिर्गौणी, लोमसु केशेषु च अदर्शनात् - ' ओषधीर्लोमानि वनस्पतीन्के- ५.३२ , सूत्रभाष्ये [पा. १. शा:' इति हि तवाम्नायते, न हि लोमानि केशाश्चोत्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति संभवति ; न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते; नापि प्राणैर्विना देहा- न्तरे उपभोग उपपद्यते ; विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम; अतो वागाद्यधिष्ठात्रीणामग्न्यादिदे- वतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रम - पेक्ष्य - वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥ स्यादेतत् कथं पुन: ' पञ्चम्यामाहुतावापः पुरुषवच- सो भवन्ति' इत्येतत् निर्धारयितुं पार्थते, यावता नैव प्रथ- मेऽग्नावषां श्रवणमस्ति ?— इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पश्चानामाहुतीनामाधारत्वेनाधीता: ; तेषां च प्रमुखे 'असौ वाव लोको गौतमाग्निः' इत्युपन्यस्य ' तस्मिन्नेतस्मिन्नन्नौ देवा: श्रद्धां जुह्वति' इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता ; न तत्र आपो होम्यद्रव्यतया श्रुताः ; यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ध्वनिध्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ; प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति सू. ५. ] तृतीयोऽध्यायः । साहसमेतत्; श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामर्थ्यात्; तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत्- नैष दोष: ; हि यतः तत्रापि प्रथमेऽग्नौ ता एवाप: श्रद्धा- शब्देनाभिप्रेयन्ते ; कुत: ? उपपत्तेः ; एवं ह्यादिमध्यावसान- संगानात् अनाकुलमेतदेकवाक्यमुपपद्यते इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्ठे, प्रतिवचनाव- सरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावता- रयेत् - ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवा- क्यता न स्यात् । ' इति तु पञ्चम्यामाहुतावाप: पुरुषव- चसो भवन्ति' इति च उपसंहरन् एतदेव दर्शयति । श्रद्धा- कार्य च सोमवृष्टयादि स्थूलीभवदब्बहुलं लक्ष्यते ; सा च श्रद्धाया अवे युक्ति: । कारणानुरूपं हि कार्य भवति । न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते- पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूप- पद्यते, वैदिकप्रयोगदर्शनात् - ' श्रद्धा वा आप:' इति । तनुत्वं श्रद्धासारूप्यं गच्छन्ति आपो देहबीजभूता इत्यतः, श्रद्धाशब्दाः स्यु: - यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धा- पूर्वककर्म समवायाच अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द सूत्रभाष्ये [ पा. १. इव पुरुषेषु ; श्रद्धा हेतुत्वाच्च श्रद्धाशब्दोपपत्ति:, ' आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे' इति श्रुतेः ॥ अश्रुतत्वादिति चेनेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ अथापि स्यात् प्रश्नप्रतिवचनाभ्यां नाम आप: श्रद्धा- दिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु तत्संपरिष्वक्ता जीवा रहेयुः, अश्रुतत्वात् -- न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छन्दोऽस्ति ; तस्मात् ' रंहति संपरिष्वक्तः' इत्ययुक्तम् - इति चेत्, नैष दोषः ; कुत: ? इष्टादिकारिणां प्रतीते:- ' अथ य इमे ग्राम इष्टापूर्ते दत्त- मित्युपासते ते धूममभिसंभवन्ति ' इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति चन्द्रमसमेष सोमो राजा' इति ; त एवेहापि प्रतीयन्ते, ' तस्मिन्नेतस्मिन्ननौ देवा: श्रद्धां जुह्वति तथा आहुते: सोमो राजा संभवति' इति श्रुतिसामान्यात् । तेषां च अग्निहोत्र- दर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूय- स्त्वात्प्रत्यक्षमेव आपः सन्ति ; ता आहवनीये हुता: सूक्ष्मा आहुत्योsपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति - तेषां च शरीरं नैधनेन विधानेनान्त्येनावृत्विजो जुह्वति - आकाशा- सू. ७.] तृतीयोऽध्यायः । 'असौ स्वर्गीय लोकाय स्वाहा' इति ततस्ता: श्रद्धापूर्वक - कर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानि - ष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्ती - ति यत्, तदत्र जुहोतिना अभिधीयते - श्रद्धां जुह्वतीति । तथा च अग्निहोत्रे षट्प्र श्रीनिर्वचन रूपेण वाक्यशेषेण 'ते वा एते आहुती हुते उत्क्रामतः' इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता । तस्मादाहुतीमयीभि- रद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति ऋष्यते ॥ कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधि- रूढानामन्नभावं दर्शयति- ' एष सोमो राजा तद्देवानामन्नं तं तेवा भक्षयन्ति' इति, ' ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेतांस्तत्र भ- क्षयन्ति' इति च समानविषयं श्रुत्यन्तरम् ? न च व्याघ्रा- दिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति; अत उ- उत्तरं पठति- भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥ सूत्रभाष्ये [पा. १. वा-शब्दश्योदितदोषव्यावर्तनार्थः । भाक्तमेषामन्नत्वम्, न मुख्यम्; मुख्येान्नत्वे 'स्वर्गकामो यजेत' इत्येवंजातीयका- धिकारश्रुतिरुपरुध्येत ; चन्द्रमण्डले चेदिष्टादिकारिणामुपभो- गो न स्यात्, किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः । अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्य- माणो दृश्यते, यथा- विशोऽन्नं राज्ञां पशवोऽन्नं विशामि - ति । तस्मादिष्टस्त्री पुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरि- ष्टादिकारिभिर्यत्सुखविहरणं देवानाम्, तदेवैषां भक्षणमभि- प्रेतम्, न मोदकादिवच्चर्वणं निगरणं वा । ' न ह वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति' इति च देवानां चर्वणादिव्यापारं वारयति । तेषां च इष्टादिकारिणां देवान्प्र- ति गुणभावोपगतानामप्युपभोग उपपद्यते, राजोपजीविना- मिव परिजनानाम् । अनात्मवित्त्वाच इष्टादिकारिणां देवो- पभोग्यभाव उपपद्यते ; तथा हि श्रुतिरनात्मविदां देवोपभो- ग्यतां दर्शयति- 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसा- वन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्' इति ; स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशु- वद्देवानामुपकरोति, अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते ॥ सू. ८. ] तृतीयोऽध्यायः । अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मस- मुच्चयानुष्ठायिनः पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति, प्रकरणात्; पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुण- वादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै; पञ्चाग्निवि- येह विधित्सिता, वाक्यतात्पर्यावगमात् तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति-- 'स सोमलोके विभू- तिमनुभूय पुनरावर्तते' इति ; तथा अन्यदपि श्रुत्यन्तरम् 'अथ ये शतं पितॄणां जितलोकानामानन्दाः स एक: कर्म - देवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्ते' इति इष्टादि- कारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति । एवं भाक्तत्वादन्नभाववचनस्य, इष्टादिकारिणोऽत्र जीवा रह- तीति प्रतीयते । तस्मात् ' रंहति संपरिष्वक्त:' इति युक्तमेवोक्तम् ॥ कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथे- तमनेवं च ॥ ८ ॥ इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते— 'तस्मिन्यावत्सं- सूत्रभाष्ये [पा. १. 6 पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम्' इत्यारभ्य, - २. कृतात्यया- यावत्— रमणीयचरणा ब्राह्मणादियोनि- धिकरणम् । मापद्यन्ते कपूयचरणाः श्वादियोनिमि- ति । तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्मा- णोऽवरोहन्ति, आहोस्वित्सानुशया इति । किं तावत्प्राप्तम् ? निरनुशया इति ; कुत: ? ' यावत्संपातम्' इति विशेषणात् - संपातशब्देनात कर्माशय उच्यते, संपतन्ति अनेन अस्मा- लोकात अमुं लोकं फलोपभोगायेति यावत्संपात मुषित्वा ' इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ; ' तेषां यदा तत्पर्यवैति' इति च श्रत्यन्तरेणैष एवार्थः प्रद- शर्यते । स्यादेतत् — यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क इति कल्पयिष्यामीति ; नैवं कल्पयितुं शक्यते, 'यत्किंच' इत्यन्यत्र परामर्शात्- ' प्राप्यान्तं कर्मणस्तस्य य- त्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ' इति हि अपरा श्रुति: ' यत्किंच' इत्यविशेषपरामर्शेन कृत्स्न- स्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति । अपि च प्राय- णमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम् ; प्राक्प्रायणात् आ- रब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ; तच्च अविशेषाद्यावत्किंचिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ; सू. ८.] तृतीयोऽध्यायः । न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ; न विशिष्टे प्रदीपसंनिधौ, घटोऽभिव्यज्यते न पट इत्युपप- द्यते । तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते- " ब्रूमः - कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन च- न्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम्, तत् उपभोगक्ष- यदर्शनशोकाग्निसंपर्कात्प्रविलीयते - सवितृ किरण संपर्कादिव हिमकरका:, हुतभुगचिः संपर्कादिव च घृतकाठिन्यम् ; ततः कृतात्यये कृतस्येष्टादेः कर्मण: फलोपभोगेनोपक्षये सति, सा- नुशया एवेममवरोहन्ति; केन हेतुना ? दृष्टस्मृतिभ्यामित्या- ह । तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति-- तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनि- मापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्व- योनिं वा सूकरयोनिं वा चाण्डालयोनिं वा' इति ; चरण- शब्देनानुशयः सूच्यत इति वर्णयिष्यति । दृष्टश्वायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वा- संभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृत- दुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृति- - सूत्रभाष्ये [पा. १. रपि — ' वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवृत्त वित्तसुखमेध- सो जन्म प्रतिपद्यन्ते' इति सानुशयानामेवावरोहं दर्शयति ॥ कः पुनरनुशयो नामेति - केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेष: कश्चिदनुशयो नाम, भाण्डानुसा- रिस्नेहवत् - यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रि- च्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुश- योऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषा- वस्थानं न्याय्यम् ; नायं दोषः ; न हि सर्वात्मना भुक्तफलत्वं कर्मण: प्रतिजानीमहे । ननु निरवशेषकर्मफलोपभोगाय च- न्द्रमण्डलमारूढा: ; बाढम् - तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थानं न लभ्यते ; यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरण- छत्रपादुकादिमालावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशय मात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥ न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्या- वशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् - इत्युक्तम् । नन्वेत- दप्युक्तम्- न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ; तदेतद्पेशलम् - स्वर्गार्थं किल कर्म स्वर्गस्थ - सू. ८. ] तृतीयोऽध्यायः । स्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कंचि - त्फललेशं जनयतीति न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते; स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ; तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ; न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते; नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विशे- यम् - न स्वर्गफलस्येष्टादे: कर्मणो भाण्डानुसारिस्नेहवदेक- देशोऽनुवर्तमानोऽनुशय इति ; यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गभन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात्, न विपरीतः ; तत्रेयमनुशयविभागश्रुतिरुपरुध्येत - ' तद्य इह रमणीयच- रणा:...अथ य इह कपूयचरणा:' इति । तस्मादामुष्मि- कफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातम- नुशयः, तद्वन्तोऽवरोहन्तीति ॥ " । ----- यदुक्तम्- ' यत्किंच' इत्यविशेषपरामर्शात्सर्वस्येह कृ- तस्य कर्मण: फलोपभोगेनान्तं प्राप्य निरनुशया अवरोह- न्तीति, नैतदेवम्; अनुशयसद्भावस्यावगमितत्वात्, यत्किं - चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम्, तत्सर्वं फलोपभोगेन क्षपयित्वा - इति गम्यते । यदप्युक्तम् — प्राय- S. W. II. 17 सूत्रभाष्ये [ पा. १. णम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति; तत्र केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न संभवतीति तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् । अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्म- णोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम्; आरब्धफलेन क- र्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्राय- काले वृद्भवो भवतीति यद्दुच्येत ततो वक्तव्यम् — यथैव तर्हि पाक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । न हि अनारब्धफलत्व सामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपद- भिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम्, प्रति- नियतफलत्वविरोधात्; नापि कस्यचित्कर्मणः प्रायणेऽभि- व्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम्, ऐकान्तिकफल- त्वविरोधात् ; न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामु- च्छेद: संभाव्यते; स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्ध- स्य कर्मान्तरस्य चिरमवस्थानं दर्शयति — ' कदाचित्सु- कृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दु :- सू. ८. ] तृतीयोऽध्यायः । "; खाद्विमुच्यते' इत्येवंजातीयाका । यदि च कृत्स्नमनारब्ध- फलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानु- त्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत; न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्राद- तिरिक्तं कारणं शक्यं संभावयितुम् । न च दृष्टफलस्य कर्म- ण: कार्यादे : प्रायणमभिव्यञ्जकं संभवतीति, अव्यापि - कापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ; प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः; स्थूलसूक्ष्मरूपाभिव्यक्ति- वच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् एवं प्रायणं समाने- starरब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायवि- रोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः । शेषकर्मसद्भा- वेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने संभ्रमः, सम्यग्दर्शनादशे - षकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव - अनुशयवन्तोऽवरोह- न्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति ; यथे- तमिति यथागतमित्यर्थः ; अनेवमिति तद्विपर्ययेणेत्यर्थः । धू- सूत्रभाष्ये [ पा. १. माकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे संकीर्तनात् यथेतं- शब्दाच्च यथागतमिति प्रतीयते ; राज्याद्य संकीर्तनादभ्राद्युपसं- ख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ चरणादिति चेन्नोपलक्षणार्थेति कार्णा- जिनिः ॥ ९ ॥ G अथापि स्यात् -- या श्रुतिरनुशय सद्भावप्रतिपादनायो- दाहृता - ' तद्य इह रमणीयचरणा:' इति, सा खलु चर- णात् योन्यापत्तिं दर्शयति, नानुशयात्; अन्यञ्चरणम्, अ- न्योऽनुशयः - चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम्, अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम् श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति - यथाकारी यथा- चारी तथा भवति इति ' ' यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकर सुचरितानि तानि त्वयोपास्यानि ' इति च; तस्मात् चरणाद्योन्यापत्तिश्रुतेः ना- नुशयसिद्धिः इति चेत्, नैष दोष:- यतोऽनुशयोपलक्षणा- थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ आनर्थक्यमिति चेन्न तद- पेक्षत्वात् ॥ १० ॥ सु. ११.] • तृतीयोऽध्यायः । स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिक: अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति ; अवश्यं च शीलस्यापि किंचित्फलमभ्युप- गन्तव्यम्, अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत- इति चेत्, नैष दोष: कुत: ? तदपेक्षत्वात्; इष्टादि हि कर्मजातं चरणापेक्षम्; न हि सदाचारहीनः कश्चिदधि- कृतः स्यात् —' आचारहीनं न पुनन्ति वेदा:' इत्यादि- स्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम्; इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कंचिदति- शयमारप्स्यते । कर्म च सर्वार्थकारि - इति श्रुतिस्मृति- सिद्धि: । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ; न हि कर्मणि संभवति शीलात् योन्यापत्तिर्युक्ता न हि पद्धयां पलायितुं पारय- ; माणो जानुभ्यां रहितुमर्हति — इति ॥ सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥ बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्या- येते इति मन्यते ; चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते—-यो हि सूत्रभाष्ये [ पा. १. इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते - धर्म चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेद- व्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दि- तकर्माणः इति निर्णयः ॥ अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥ इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये वितरेऽनि- ष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छ- ३. अनिष्टादिका - न्तीति चिन्त्यते । तत्र तावदाह — इष्टादि - र्यधिकरणम् । कारिण एव चन्द्रमसं गच्छन्तीत्येतत् न ; कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति- ." ये aa चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्र- प्राप्तिम् अवकल्पते, 'पञ्चम्यामाहुतौ' इत्याहुतिसंख्यानिय - मात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणा- मितरेषां च समानगतित्वं न युक्तमिति चेत्, न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ सू. १४.] तृतीयोऽध्यायः । संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥ - तु-शब्द: पक्षं व्यावर्तयति । नैतदस्ति सर्वे चन्द्रमसंग- च्छन्तीति; कस्मात् ? भोगायैव हि चन्द्रारोहणम्, न नि- प्रयोजनम् ; नापि प्रत्यवरोहायैव, - यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानाय न निष्प्रयोजनम्, नापि पतनायैव ; भोगच अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ; तस्मादि- ष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे । ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पु- नरेव इमं लोकं प्रत्यवरोहन्ति; एवंभूतौ तेषामारोहावरोहौ भवत: ; कुत: ? तद्गतिदर्शनात् ; तथा हि यमवचनसरूपा श्रु- ति: प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति- 'न सांपराय: प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वश- मापद्यते ' इति । 'वैवस्वतं संगमनं जनानाम्' इत्येवंजा- तीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ स्मरन्ति च ॥ १४ ॥ अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायतं सूत्रभाष्ये कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ अपि च सप्त ॥ १५ ॥ [पा. १. अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभू- मित्वेन स्मर्यन्ते पौराणिकैः; ताननिष्टादिकारिणः प्राप्नुव- न्ति ; कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ ननु विरुद्धमिदम् - यमायत्ता यातनाः पापकर्माणो- Sनुभवन्तीति यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति ; नेत्याह-- " तत्रापि च तव्यापारादविरोधः ॥ १६ ॥ तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापारा- भ्युपगमादविरोधः ; यमप्रयुक्ता एव हि ते चित्रगुप्तादयो- धिष्ठातारः स्मर्यन्ते ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥ पञ्चाग्निविद्यायाम् ' वेत्थ यथासौ लोको न संपूर्यते ' इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- 'अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति । जायस्व म्रियस्त्वेत्येतत्तृतीयं स्थानं तेनासौ लोको सू. १७.] तृतीयोऽध्यायः । न संपूर्यते' इति । तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत् ; कस्मात् ? प्रकृतत्वात् ; विद्याकर्मणी हि देवयानपितृया- णयोः पथोः प्रतिपदे प्रकृते- 'तद्य इत्थं विदुः' इति विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः; ' इष्टा- पूर्ते दत्तम्' इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः- तत्प्रक्रियायाम् ' अथैतयोः पथोर्न कतरेणचन ' इति श्रुतम् । एतदुक्तं भवति - ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति ; तस्मा- दपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत्-तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ; तदपि नास्ति, आरोहानर्थक्यात् । अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः संपूर्येत - इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दात- व्यम्, यथा असौ लोको न संपूर्यते । अवरोहाभ्युपगमा- दसंपूरणोपपत्तिरिति चेत्, न, अश्रुतत्वात् सत्यम् अवरो- हादप्यसंपूरणमुपपद्यते ; श्रुतिस्तु तृतीयस्थानसंकीर्तनेन असं - पूरणं दर्शयति — ' एतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते' इति तेन अनारोहादेव असंपूरणमिति युक्तम् ; सूत्रभाष्ये [ पा. १. अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्या- नर्थक्यप्रसङ्गात् । तु-शब्दस्तु शाखान्तरीयवाक्यप्रभवामशे- षगमनाशङ्कामुच्छिनत्ति; एवं सति अधिकृतापेक्षः शाखान्त- ये वाक्ये सर्वशब्दोऽवतिष्ठते - ये वै केचिदधिकृता अस्मा- लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ यत्पुनरुक्तम्- देहला भोपपत्तये सर्वे चन्द्रमसं गन्तुम- ईन्ति, 'पञ्चम्यामाहुतौ...' इत्याहुतिसंख्या नियमादिति, तत्प्रत्युच्यते- न तृतीये तथोपलब्धेः ॥ १८ ॥ न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुती- नामादर्तव्यः ; कुतः? तथोपलब्धेः ; तथा हि अन्तरेणैवाहुतिसं- ख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते- 6 6 'जायस्व प्रियस्वेत्येतत्तृतीयं स्थानम्' इति । अपि च पञ्च- म्यामाहुतावापः पुरुषवचसो भवन्ति' इति मनुष्यशरीरहे- तुत्वेन आहुतिसंख्या कीर्त्यते, न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपि च पञ्चम्यामा- हुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरु- षवचस्त्वं प्रतिषिध्यते, वाक्यस्य व्यर्थतादोषात् । तत्र येषा- मारोहावरोह संभवतः, तेषां पञ्चम्यामाहुतौ देह उद्भवि- सू. २१.] तृतीयोऽध्यायः । ध्यति ; अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभि- रद्भिर्देह आरप्स्यते ॥ स्मर्यतेऽपि च लोके ॥ १९ ॥ अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदी- प्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतः सेकं गर्भ धत्त इति लोकरूढिः ॥ दर्शनाच्च ॥ २० ॥ अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जल- क्षणे स्वेदजोद्भिज्जयो: अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शना- त् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ ननु ' तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिज्जम्' इत्यत्र त्रिविध एव भूतग्रामः श्रूयते; कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते- तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ सूत्रभाष्ये [पा. १. 'आण्डजं जीवजमुद्भिज्जम्' इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्ज- योः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्य- विरोधः ॥ साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥ इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम् ; अथावरोह प्रकार : परी - ४. साभाव्यापत्त्य- क्ष्यते । तत्रेयमवरोहश्रुतिर्भवति — 'अथै- तत्र संशयः 1 धिकरणम् । तमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमा- काशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्य- भ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति' इति । किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति । तत्र प्राप्तं तावत् - आका- शादिस्वरूपमेव प्रतिपद्यन्त इति; कुत: ? एवं हि श्रुतिर्भवति ; इतरथा लक्षणा स्यात् ; श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा; तथा च ' वायुर्भूत्वा धूमो भवति' इत्येवमादी- न्यक्षरणि तत्तत्स्वरूपापत्तौ आस्येन अवकल्पन्ते; तस्मा- दाकांशादिस्वरूपप्रतिपत्तिरिति ; एवं प्राप्ते, ब्रूमः- - -आकाशा- सू. २३. ] तृतीयोऽध्यायः । दिसाम्यं प्रतिपद्यन्त इति ; चन्द्रमण्डले यत् अम्मयं शरीरमु- पभोगार्थमारब्धम्, तत् उपभोगक्षये सति प्रविलीयमानं सू- क्ष्ममाकाशसमं भवति ; ततो वायोर्वशमेति ; ततो धूमादिभि: संपृच्यत इति । तदेतदुच्यते--' यथेतमाकाशमाकाशाद्वायुम् ' इत्येवमादिना । कुत एतत् ? उपपत्तेः ; एवं हि एतदुपपद्यते ; न हि अन्यस्यान्यभावो मुख्य उपपद्यते ; आकाशस्वरूपप्रतिप- त्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ; विभुत्वाच्च आका- शेन नित्यसंबद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्संबन्धो घटते । श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव । आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपच- यते ॥ नातिचिरेण विशेषात् ॥ २३ ॥ अत तत्र अकाशादिप्रतिपत्तौ प्राग्त्रीह्यादिभावापत्तेः भवति वि- शय:- किं दीर्घे दीर्घ कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरो- नातिचिरा- त्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति 1 ५. धिकरणम् । तत्रानियमः, नियमकारिणः शास्त्रस्याभा- वादित्येवं प्राप्ते, इदमाह - नातिचिरेणेति । अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुव- मापतन्ति; कुत एतत् ? विशेषदर्शनात्; तथा हि ब्रीह्यादि - सूत्रभाष्ये । [ पा. १० भावापत्तेरनन्तरं विशिनष्टि - ' अतो वै खलु दुर्निष्प्रपतरम्' इति ; तकार एक छान्दस्यां प्रक्रियायां लुप्तो मन्तव्य: ; दुर्निष्प्रपततरं दुर्निष्क्रमतरम् - दुःखतरमस्माद्रीह्यादिभावा- न्निःसरणं भवतीत्यर्थः ; तत् अत्र दुःखं निष्प्रपतनं प्रदर्श- यन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरी- रानिष्पत्तेरुपभोगासंभवात् । तस्माद्ब्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥ तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते— 'त इह त्री- हियवा ओषधिवनस्पतयस्तिलभाषा इति जायन्ते ' इति । तत्र ६. अन्याधिष्ठिता- संशयः किमस्मिन्नवधौ स्थावरजात्या- धिकरणम् । पन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भ- वन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्ले- मात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्त- त्सुखदुःखभाजोऽनुशयिनो भवन्तीति; कुत एतत् ? जने- र्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्था- नत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्ट- फलत्वोपपत्तेः ; तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, सू. २४.] तृतीयोऽध्यायः । ५५५. श्वादिजन्मवत्- यथा ' श्वयोनिं वा सूकरयोनिं वा चाण्डा- लयोनिं वा' इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदु:- खान्वितं भवति, एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते - - ब्रूमः - अन्यैर्जीवैरधिष्ठितेषु श्रीह्यादिषु संसर्गमात्रम- नुशयिन: प्रतिपद्यन्ते, न तत्सुखदुःखभाजो भवन्ति, पूर्व- वत् - यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम्, एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् ; कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण संकीर्तनम् - यथा आकाशादिषु प्रवर्ष- णान्तेषु न किंचित्कर्मव्यापारं परामृशति, एवं ब्रीह्यादि - जन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् । यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्म- 'रमणीयचरणाः कपूयचरणा:' इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूय- मानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमा- निनोऽनुशयिनः प्रवसेयुः ; यो हि जीवो यच्छरीरमभिम- न्यते स तस्मिन्पीड्यमाने प्रवसति - इति प्रसिद्धम् ; तत्र व्रीह्यादिभावाद्रेतः सिग्भावोऽनुशयिनां नाभिलप्येत; अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन व्यापारम् - ... सूत्रभाष्ये । पा. १. जनेर्मुख्यार्थत्वं प्रतिब्रूयात्, उपभोगस्थानत्वं च स्थावरभा- वस्य ; न च वयमुपभोगस्थानत्वं स्थावर भावस्यावजानीमहे; भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् ; चन्द्रमसस्तु अवरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥ यत्पुनरुक्तम् - पशुहिंसादियोगादशुद्ध माध्वरिकं कर्म, त- स्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां त्री- ह्यादिजन्म अस्तु; तत्र गौणी कल्पना अनर्थकेति - तत्परि- ह्रियते--न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ; अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम्, अतीन्द्रियत्वा- त्तयो:; अनियतदेशकालनिमित्तत्वाच्च - यस्मिन्देशे काले नि- मित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्त- रेष्वधर्मो भवति ; तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राश्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् । ननु 'न हिंस्यात्सर्वा भूतानि ' इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति ; बाढम् — उत्सर्गस्तु सः ; अपवादोऽयं च 'अग्नीषोमीयं पशुमालभेत ' इति ; उत्सर्गा- सू. २७.] तृतीयोऽध्यायः । पवादयोः व्यवस्थितविषयत्वम्; तस्माद्विशुद्धं कर्म वैदि कम्, शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति ; तद्धि कपूयचरणानधिकृत्य उच्यते ; नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्र- स्थलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्यु- पचर्यते ॥ रेतः सिग्योगोऽथ ॥ २६ ॥ इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भाव:, यत्कारणं व्रीह्यादिभा- वस्यानन्तरमनुशयिनां रेतः सिग्भाव आम्नायते - ' यो यो ह्य- नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति' इति ; न चात्र मुख्यो रेतः सिग्भावः संभवति ; चिरजातो हि प्राप्तयौवनो रेतः सिग्भवति ; कथमिव अनुपचरितं तद्भावम् अद्यमाना- न्नानुगतोऽनुशयी प्रतिपद्यते ? तत्र तावदवश्यं रेतः सिग्योग एव रेतः सिग्भावोऽभ्युपगन्तव्य: ; तद्वत् ब्रीह्यादिभावोऽपि व्रीह्मादियोग एवेत्यविरोधः ॥ योनेः शरीरम् ॥ २७ ॥ अथ रेतः सिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योने- रधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम्- सूत्रभाष्ये [मा. १. तय इह रमणीयचरणा' इत्यादि; तस्मा- दप्यवगम्यते -- नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेव सु- खदुःखान्वितं भवतीति । तस्मात् श्रीह्यादिसंश्लेषमात्रमनुश- यिनां तज्जन्मेति सिद्धम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥