CAB WORKS SRI SANKARACHARYA VOLUME 19 SRI VANI VILAS PRESS SRIRANGAM WWWYYYYYYYYYOYOWAYYY T ΤΟ HIS HOLINESS SRI JAGADGURU • SRI SACHCHIDANANDA XA NRISIMHA BHARATI SWAMI WHO ADORNS THE THRONE OF THE SRINGERI MUTT. AS THE WORTHY REPRESENTATIVE OF THE GREAT SANKARACHARYA AND THAN WHOM IT IS IMPOSSIBLE TO COME ACROSS A HOLIER PERSONAGE, A TRUER MAHATMA, A NOBLER INT AND A MORE RIGOROUS ASCETIC, THIS EDITION IS MOST RESPECTFULLY INSCRIBED AS A TOKEN OF UNBOUNDED ADMIRATION BY THE HUMBLEST OF ALL HIS DISCIPLES T. K. BALASUBRAHMANYAM. PRAPANCHASARA. PATALA 1. CONTENTS. PAGE. 1-304 1 2. " ... 16 3. " 26 " 4. 37 5. 99 49 6. 63 7. " 84 99 8. 107 9. " 127 -99 10. 143 11. وو 159 12. " 174 13. " 195 وو 14. 215 15. " 232 16. 246 17. " 264 18. " 276 19. " 292 विषयाः ॥ प्रपश्चसारः प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटल: पञ्चमः पटलः षष्ठः पटलः सप्तमः पटल: अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटल: द्वादशः पटल: त्रयोदशः पटलः चतुर्दशः पटलः 1 पृष्टम् १- ३०४ १ १६ २६ ३७ ४९ ६३ ८४ १०७. १२७. : १४३ १५९ १७४ १९५ ... २१५ पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटल: अष्टादशः पटल: एकोनविंशः पटलः ( २ ) २३२ २४६ ... २६४ २७६ २९२ Prapanchasara VOL. I. ॥ प्रपञ्चसारः ॥ प्रथमो भागः ॥ ॥ T: ॥ ॥ प्रपञ्चसारविषयविवेः ॥ -*- " १. तन्त्रावतारक्रमम्, प्रकृतिव्याप्तिम्, लवादिका - लम्, भुवन सृष्टिम्, भूतमण्डलम्, भूतोद- यम्, इन्द्रियाणि तत्त्वानि, गुणत्रयव्या- तिम्, शब्दब्रह्मोत्पत्तिम्, चतुर्विधप्राणिसृ- ष्टिम्, शरीरोत्पत्तिम्, नाडीचक्रम् प्रा- चैतन्यागतिभेदान्तः करणचतु- णोदयम्, ष्ट्रय चेत्येवमाद्यानुपदिशति प्रथमपटलेन .. २. गर्भवृद्धिम्, गर्भरक्षाम्, गर्भोत्पत्तिविधानम्, " दशासून् सप्त धातून्, षडूर्मीन्, षट् को- शान्, क्षेत्रशव्याप्तिम् भूतेन्द्रियात्मताम्, ग्रहणम्, मूलाधारम्, षड्रसान्, वर्णोत्प- त्तिम्, कुण्डलिनीम्, प्रणवम्, भुवनेश्वरी- व्याप्तिं चेत्येवमाद्यानुपदिशति द्वितीयपटलेन ३. अक्षराणामग्नीषोमाद्यात्मकताम्, अष्टात्रिंशत्क - तारपञ्चाशत्कलाः, केशवादिपञ्चाश- लाः, *P. O पृष्ठम् १६- २५ [२] न्मूर्तिर्भेदान्, कीर्त्त्यादितच्छक्तिभेदान्, श्री- कण्ठादीनेकपञ्चाशद्वर्णान्, पूर्णोदर्यादित- च्छक्तिभेदान्, पञ्चाशदक्षरौषधानि, अक्ष- रोत्पत्तिम् भूतलिपिचक्रम्, भूतलिपि - 3 त्येवमाद्यानुपदिशति तृतीयपटलेन ४. हृल्लेखाम्, तद्व्याप्तिम्, अजपाम्, आत्मवि- द्याम्, ततः प्रणवोत्पत्तिम्, मातृकाक्षराणां ग्रहात्मकताम्, हृल्लेखायाः सवितृत्वम्, \- नाभिकं कालचक्रम्, मातृकावर्णेभ्यो राशि- सृष्टिम्, राशीनां वर्णजातिभेदान्, राशि- वेधम्, नक्षत्रवेधम्, मातृकाक्षरतो नक्षत्रो- त्पत्तिम्, नक्षत्रदेवताम्, नक्षत्रयोनिम्, तदधिदेवताः सप्त करणानि चेत्येवमाद्यानु- पदिशति चतुर्थ पटलेन 1 ५. दीक्षाशब्दनिर्वचनम् मन्त्रशब्दनिर्वचनम्, दीक्षाकालविधानम्, वास्तुपुरुषम्, तद्देहसं स्थानां त्रिपञ्चाशद्देवतानां मण्डलम्, प्रदानम्, बलि- दीक्षामण्डपमानम्, पालिकावि- शेषान्, अङ्कुरार्पणबीजानि, अङ्कुरार्पणम्, तत्सेक प्रकारम्, बलिदेवताः, बलिद्रव्याणि, चलिमन्त्रान् चतुर्दिननिधेयकुण्ड विशेषा- २६ – ३६ ३७-४८ [ 3 ] न्, चतुरश्रकुण्डमानम्, मेखलायोन्योर्मा- नम्, एककुण्डविधानम्, स्थण्डिलकरणम्, दीक्षामण्डलप्रकारान्, तत्कर्णिकादलाद्यव- यवमानानि, मण्डलानामन्यथाकरणे देवता- वाहनार्चने वैपरीत्ये च प्रत्यवायम्, मण्ड- लनिर्माणवर्णद्रव्याणि चैवमाद्यानुपदिशति पञ्चमपटलेन ' ... ४९–६२ ६. ऋष्यादिनिर्वचनम्, षडङ्गनिर्वचनम्, कर- न्यासम्, पूजाद्रव्याणि पीठक्लप्तिम्, पीठ- शक्तीः, कलशस्थापनम्, गन्धाष्टकत्रैविध्यम्, तारोद्भवऋक्पञ्चकम्, कलशेष्वच्यांश्चतुर्न- वतिदेवताः, प्राणप्रतिष्ठामन्त्रम्, उपचार- भेदान्, अर्ध्यद्रव्याणि पाद्याचमनीय पुष्प- विशेषनिषिद्ध पुष्पधूपद्रव्याणि त्रैलोक्यमो- हनपूजाम्, भोगाङ्गपूजाम्, षडङ्गदेवता- ध्यानम्, लोकपालमन्त्रान् तद्वर्णभेदान्, तदायुधानि तद्वर्णभेदान्, होमप्रकारम्, ज्वलनमन्त्रम्, उपस्थान मन्त्रम्, सप्तजिह्वा- न्यासस्थानानि, सात्त्विक राजसतामसभेदा- न्, तासामेकविंशतिभेदान्, तासां मन्त्रान्, तद्विनियोगम्, तद्धयानम्, तद्देवताः, अ- , [ ४ ] झेः षडङ्गमन्त्रान्, अष्टमूर्ति न्यासस्थानानि. अष्ट मूर्तीः, तन्मन्त्रान्, परिस्तरणम्, अ- ग्न्यावाहनमन्त्रम्, अमिध्यानम्, पुरस्ता- तन्त्रम्, गाणापत्यम्, दशविधहोमम्, उद्देश्यमन्त्रहोम संख्याम्, महाव्याहृतिम न्त्रान्, ब्रह्मार्पणमन्त्रम्, नक्षत्रादिबलिम- न्त्रान् बलिस्थानानि, अष्टाङ्गपञ्चाङ्गपणा- " मम्, होतृदक्षिणम्, अभिषेकम्, तजला- पसरणदिग्बलिम्, मन्त्रोपदेशक्रमम्, मन्त्र- स्वीकरणप्रकारम्, अभिषेकफल चैवमाद्या- नुपदिशति षष्ठपटलेन ' ७. मातृकाविद्याम् भारतीध्यानम्, मातृकान्या- सम्, वर्णाब्जम्, ब्राह्मयाद्यष्टशक्तीः, कवि- तासिद्धिप्रयोगम्, कवितासिद्धिघृतम्, अ- भिषेकफलम्, आरोग्यप्रयोगम्, तारकला. न्यासफलम्, मन्त्रोद्धारणसंकेतम्, अर्धनारी- श्वरध्यानम्, मातृकान्यासचातुर्विध्यम्, श्ञ्चयागम्, तदङ्गमन्त्रबासनातदर्थनिर्वचनम्, मातृकादशविधन्यासम्, सर्वसिद्धिकराष्टद्रव्य- होमम्, तद्रहस्यम्, अन्यथाभजनप्रत्यवायम्, तच्छान्तिम्, अपस्माराभिचारादिशान्तिहो- 'प्रप- ६३–८३ [ 4 ] मम् ऐश्वर्यावाप्तिहोमम्, त्रैलोक्यवश्यहो- ., मम्, नानाकाम्यहोमम्, पञ्चाशदौषषभ- स्मप्रयोगम्, होतृदक्षिणा संख्यां चोपदिशति सप्तमपटन " ८. प्राणाग्निहोत्रविद्याम्, तत्र पञ्च कुण्डानि, नव रत्नानि पञ्चाहुत्यक्षराणि, पञ्चभूत होमम्, प्राणाहुतिमन्त्रान् पूर्णाहुतिमन्त्रम्, मा- तृकाक्षरमालाम्, त्रिपुराविद्याम्, तन्मन्त्र- योगान्, नवयोनिचक्रम्, त्रयोदश शक्तीः, गुरुपरम्पराम्, अष्टयोनिशक्तीः, ब्राह्मया- द्यष्टमिथुनानि, वाग्भवसाधनम्, तत्सिद्धि- फलम्, कामराजसाधनम्, तेनाकर्षणम्, तार्तीयसाधनम्, राजत्रिलोकवशीकरणहो- मम्, कविताकर होमम्, राजवशीकरणमन्त्र- योगम्, ऐश्वर्य प्राप्तिहोमम्, ज्वराद्युपद्रवा पमृत्युशान्तिहोमम्, लक्षप्रद होमद्रव्याणि, वैरूप्यज्वररोगदारिद्यादिशान्तिकरयोगम् वाग्भवसिद्धियोगान्, सारस्वतदशाक्षरीम्, एकादशाक्षरीम्, अङ्गमन्त्रम्, अष्ट शक्तीः तत्स्तोत्रम्, चोपदिशत्यष्टम पटलेन , ९. भुवनेश्वरीम्, तदङ्गम्, तद्योगम्, तद्धयानम्, ८४-१०६ १०७-११६ [ ६ ] पाशाद्यायुधनिर्वचनम्, त्रिगुणितयन्त्रम्, इ लेखादिपञ्चशक्तिन्यासम् ब्रह्मादित्रिमूर्ति- जयादि- न्यासम्, ब्रह्माण्याद्यष्टशक्तिन्यासम्, नवशक्तिकलशस्थापनद्रव्यविकल्पान्, पञ्च- गव्यमानम्, तद्योजन मन्त्रान् गायत्र्यादि- ध्यानम्, अभिषेकक्रमम् मन्त्रवीर्ययोगम् मन्त्रसिद्धिलक्षणम्, द्वादशौषधानि, नादीनि, अभिषेककालम्, तत्फलम्, षड्गुणितयन्त्रम्, तत्र साध्याक्षरविन्यासप्र- कारम्, तस्मिन्नर्चनीया देवताः, पूजकस्य फलं चोपदिशति नवमपटलेन तन्मा- १०. द्वादशगुणितयन्त्रम्, षोडश शक्तीः, द्वात्रिं- , शच्चतुःषष्टिशक्तीः, अभिषेकयोग्यान्, घटा- र्गलयन्त्रम्, पाशाङ्कुशाक्षरोद्धारम्, शक्त्य- ष्टाक्षरयुगलम्, शक्तिषोडशाक्षरम्, द्विजा- नां गुरूणां द्रव्यविशेषम्, अभिषेकफलम्, मधुरत्नयम्, पूजाफलम्, यन्त्रलेखनद्रव्या- णि, तत्स्तोत्रं चोपदिशति दशमपटलेन ... ११. एकाक्षरीम्, श्रीविद्याम्, तदङ्गानि तद्ध्या- नम्, नव शक्तीः, वासुदेवादिचतुव्यूह भे- दान्, दमकादिगजान्, अष्ट शक्तीः, अल- १२७-१४२ १४३-१५८ [ ] क्ष्मीनाशकरहोमम्, लक्ष्मीस्वरूपापरोक्ष कर- होमम्, कमलवासिनीविद्याम्, महालक्ष्मी. विद्याम्, लक्ष्मीबाणाष्टकम्, श्रीसूक्तन्यास- क्रमम्, अष्ट शक्तीः, साधनार्हपुष्पाणि, अनन्तैश्वर्यप्राप्तिहोमम्, द्वात्रिंशद्वलिदेवताः, श्रीकरव्रतम्, श्रीकामवर्जनीयानि, श्रीकाम- कर्तव्यं चोपदिशत्येकादशपटलेन १२. त्रिपुटमन्त्रम्, तदङ्गानि तद्धयानम्, भुवनवश्ययोगम्, धराहृदयमन्त्रमहासिद्धि- होमम्, षण्मासादिष्टप्राप्तिहोमम् त्वरिता- विद्याम्, तन्नामनिर्वचनम्, वर्णाष्टशक्तीः, नानाकाम्यहोमद्रव्याणि, एकविंशत्यधिक- शतकोष्ठरक्षायन्त्रम्, एकाशीतिकोष्ठनिग्रह - चक्रम्, कालीमन्त्रम्, यमराजमन्त्रम्, मारणक्रियाम्, चतुःषष्टिकोष्ठ निग्रहचक्रम्, यन्त्रलेखन विषद्रव्यम्, एकाशीतिकोष्ठैरनु- ग्रहचक्रम्, चतुःषष्टिकोठैरनुग्रहचक्रम्, व- ज्रप्रस्तारिणीम्, नित्याम्, तद्वादशशक्तीः, नित्यक्लिन्नाम्, तदष्टशक्तीः, षोडशनित्या- भजनफलानि चोपदिशति द्वादशपटलेन १३. दुर्गामन्त्रम्, तन्नवशक्तीः सिंहमन्त्रम्, , १५९ - १७३ १७४-१९४ [ ८ ] सिंहयन्त्रम्, अष्ट शक्तीः, अभिषेकफलम्, वनदुर्गामन्त्रम्, अष्टभुजध्यानफलम्, अष्ट- शक्त्यायुधान्, निग्रहज्वरादिशान्तिम्, ध्यानम्, अपस्मारशान्तिम् शकलहोमम्, सेनोच्चाटनम्, शरसाधनोच्चाटन भस्म, सेना- स्तम्भनमारणहोमम्, पुत्तलयोन्मादमारण- तच्छान्तिम्, मारणध्यानम्, उच्चाटनध्या- नम्, गजपीडाम्, तच्छान्तिम्, तदुच्चाट- नम्, गजाश्वत्रृद्धिकर होमम्, पञ्चायुधपञ्च- गव्यप्रतिष्ठाम्, वशीकरणम्, पुत्तलिकावि- घानम्, शूलिनीम्, तदष्टशक्तीः, ग्रहविषा - दिशान्तिम्, सेनोच्चाटनम्, बाणवेधम्, अरिमरणहोमम् क्षुरिकादिसाधनविद्वेषक- , रीषहोमम्, सेनास्तम्भनम्, सर्ववशीकरण- होम चोपदिशति त्रयोदशपटलेन १४. चतुरक्षरसौरविद्यातदङ्गदेवीध्यानमन्त्रसाधन- विध्यर्ध्यविधानानि, पञ्चशक्तिनवशक्तिपीठ- मन्त्रावरणपूजासौरार्ध्य मन्त्रद्रव्यतत्फलानि, चतुरक्षरीयोगम्, अजपाविद्यातदङ्गतद्धया- नदीक्षाभिषेकान्, अजपायोगम्, विषहर- णाभिषेकम् तक्षकादिविषहरणप्रयोजनति- १९५–२१४ [ ९ ] लकतदङ्गतद्वयानतत्साधनानि, सावरणपूजा- म्, नवग्रहपूजाम्, नवग्रहवर्णध्यानार्घ्यद्र- व्याणि, ग्रहशान्त्यभिषेकौ, नवग्रहसमिद्विशे- षान्, ग्रहशान्तिहोमविधितत्फलानि, सौरा- ष्टाक्षरतदङ्गानि, पञ्चार्कन्यासतद्ध्यानतत्सा- धनपञ्चार्कशक्तिपूजाफलानि, दिनेशपूजाफलं चोपदिशति चतुर्दशपटलेन ... २१५ – २३१ १५. चन्द्रविद्यातदङ्गतद्ध्यानानि, अष्टशक्त्यावर- णश्रीकरहोमशाल्यादिलाभ होममहासिद्धिहो- मान्, अग्निहोत्रतदङ्गतद्ध्यानानि, षड्द्रव्य- गुरुदक्षिणा द्रव्यहोमप्रकाराष्टपुष्पहोमचतुर्थि- कशान्तिहोमान्, ग्रहज्वरहराभिषेकम्, आ- युष्मत्तासिद्धिजाठराग्निविवृद्धिविधीन्, श्री- करकमलहोमम्, चोपदिशति पञ्चदशपटलेन २३२ – २४५ १६. महागणपतिमन्त्रतद्ध्यानतदङ्गमिथुनतद्धया- नानि षङ्गणेशशङ्खपद्मनिधितच्छक्त्यष्टहोम- द्रव्याणि, नवशक्त्यासनमन्त्रदीक्षाभिषेकान्, क्वाथौषधनानाद्रव्यहोमान्, नानाफलाप्य- भीष्टदतर्पणानि, गजसिद्धिहोमम्, मेखला - लेख्यक्षरमन्त्रम्, नवधाविभज्यहोमम्, गुरु- दक्षिणाम् भूम्येकाक्षरवैनायकै काक्षरतदन- .. ' [ १० ] तख्यान तत्साधनानि पञ्चविघ्नेशाष्ट्रविघ्नेशव श्यहोमान्, कन्यावरसिद्धिहोमम्, पुनश्च होमद्रव्यविशेषफलविशेषान् इष्टदतर्पणन- वनीतभक्षणवशीकरणविधानानि, क्षिप्रगण- पतिमन्त्रतदङ्गतद्ध्यानानि चतुर्विघ्नेशाख ण्डनालिकेर होमाष्टद्रव्यहोमान्. श्रीकरतर्प- णम्, इष्टापत्तितर्पणं चोपदिशति षोडश- पटलन १७. मन्मथमन्त्रतदङ्गतयानानि, नव शक्तीः, पञ्चबाणमन्त्रम्, अष्ट शक्ती, मदनमन्त्र तङ्गायत्रीमालानन्त्रपनि, पोडश श की, स्मरपरिचारिकाः, स्त्रीवश्यमन्मथयो- गतद्वशीकरणयन्त्राणि, पतिसवननमन्त्रम्, कन्यावरसिद्धिम्, सर्वलोकवश्य गोपाल मन्त्र- तदङ्गध्यानसाधनानि, प्रातः कालध्यानम- ध्याह्नध्यान सायंकालध्यानानि, भोजन सि द्धिभिक्षासिद्धिमन्त्रसिद्धिफलानि चोपदि- शति सप्तदशपटलेन १८. प्रणवतदङ्गध्यानसाधनानि चतुर्व्यूहतच्छ- तिचतुर्विधात्मदेवताशक्तिप्रयोगान् षड- " योगप्रत्यूहान् अष्टयोगाङ्गशोषणदहन- २४६–२६३ २६४–२७५ [ ११ ] , लावनयोगाभ्यासस्थानादिविधानानि विष- हरणाक्षरयोगपरकायप्रवेशभूतवर्णशक्तिकाल- पञ्चकविधीन्, अष्टविधसिद्धिसूचकावस्थाः, अणिमाद्यष्टसिद्धीश्वोपदिशत्यष्टादशपटलेन १९. श्रीमदष्टाक्षरमन्त्रदीक्षाविधिम्, नवशक्त्यष्टा- युवपञ्चावरणजपगुणविधीन्, गुरुपूजादक्षि- णाद्रव्यावरणवीरचतुष्टयाक्षरवर्णाक्षरमूर्तीः, आयुषध्यानमन्त्रवर्णचतुःषष्टिकरणपूजावर- ष्ट नागावरणानि, मत्स्याद्याविर्भावम्, अक्षरमूर्तिपूजाफलानि, चोपदिशत्येकोनविं शपटलेन ॥ २७६-२९१ २९२–३०४२ ॥ श्रीचक्र : ॥ प्रपसारः ॥ अकचटतपयाद्यैः सप्तभिर्वर्णवर्गै- विरचितमुखबाहापादमध्याख्यहृत्का' । सकलजगदधीशा शाश्वता विश्वयोनि- वितरतु परिशुद्धिं चेतसः शारदा वः ॥ १ ॥ अथाभवन्ब्रह्महीश्वराख्याः पुरा प्रधानात्प्रलयावसाने । गुणप्रभिन्ना जगतोऽस्य सृष्टि- स्थितिक्षय स्पष्टनिविष्टचेष्ठाः ॥ २ ॥ स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् । वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥ ३ ॥ 1. ... हृत्कुक्षिमध्या. *P. 1 २ प्रपञ्चसारे मूर्त्याभासेन दुग्धान्धौ झषशङ्खसमाकुले । मरुत्संघट्टनोत्कीर्णलहरीकणशीतले ॥ ४ ॥ उद्यदादित्यकिरण प्रशान्त शिशिरोदये । पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशये ॥ ५ ॥ अनन्तभोगे विमले फणायुतविराजिते । शयितं शार्ङ्गिणं शर्वशैौरिपद्मभुवस्तदा ॥ ६ ॥ तुष्टुवुर्हृष्टमनसो विष्टरश्रवसं विभुम् । सूक्तिभि: स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयन ॥ नीलोत्पलदलप्रख्यां नीलकुञ्चितमूर्धजाम् । अष्टमीचन्द्रविभ्राजल्ललाटामायतभ्रुवम् ॥ ८ ॥ रक्तारविन्दनयनामुन्नसी मरुणाधराम् । मन्दस्मिताधरमुखीं लसन्मकरकुण्डलाम् ॥ ९ ॥ कम्बुग्रीवां पृथुद्वधंसविसरद्भुजमण्डलाम' । अनेकरत्नप्रत्युप्तवलयाङ्गदमुद्रिकाम् ॥ १० ॥ हारतारावलीराजत्प्रथूरोव्योममण्डलाम । कौस्तुभोद्भासितोरस्कां श्रीवत्सतिदीपिताम् ॥ 1. ...विलसद्भुजमण्डलाम्. प्रथम: पटलः । लसदौदरिकाबन्धभास्वरां संभृतोदरीम् । गम्भीरनाभिं विपुलजघनां पीतवाससम् ॥ १२ ॥ पृथुवृत्तोरुमापूर्णजानुमण्डलबन्धुराम् । वृत्तजङ्घां गूढगुल्फां प्रपदाजितकच्छपाम् ॥ १३ ॥ तनुदीर्घाङ्गुलीभास्वन्नखराजिविराजिताम् । चक्रस्वस्तिकशङ्खाब्जध्वजाङ्कितपदद्वयाम् ॥ १४ ॥ तां दृष्ट्वा तरलात्मानो विध्यधोक्षजशंकराः । अतिष्ठन्नितिकर्तव्यमूढास्तत्राब्रवीदजः ॥ १५ ॥ स्वामिन्प्रसीद विश्वेश के वयं केन भाविताः । किंमूलाः किंक्रियाः सर्वमस्मभ्यं वक्तुमर्हसि ॥ इति पृष्टः परं ज्योतिरुवाच प्रमिताक्षरम् । यूयमक्षरसंभूताः सृष्टिस्थित्यन्तहेतवः ॥ १७ ॥ तैरेव विकृतिं यातास्तेषु वो जायते लयः । इति तस्य वचः श्रुत्वा तमपृच्छत्स रोजभूः ॥ १८ ॥ अक्षरं नाम किं नाथ कुतो जातं किमात्मकम् । इति पृष्टो हरिस्तेन सरोजोदरयोनिना ॥ १९ ॥ प्रपञ्चसारे मूलार्णमर्णविकृतीर्विकृतेर्विकृतीरपि' । तत्प्रभिन्नानि मन्त्राणि प्रयोगांश्च पृथग्विधान् ॥ २० ॥ वैदिकांस्तान्त्रिकांश्चैव सर्वानित्थमुवाच ह । प्रकृतिः पुरुषश्चेति नित्यौ कालश्च सत्तम ॥ २१ ॥ अणोरणीयसी स्थूलात्स्थूला व्याप्तचराचराः । आदित्येन्द्वादितेजोमद्यद्यत्तत्तन्मयी विभुः ॥ २२ ॥ न श्वेतरक्तपीतादिवर्णैर्निर्धार्य सोच्यते । न गुणेषु न भूतेषु विशेषेण व्यवस्थिता ॥ २३ ॥ अन्तरान्तर्बहिश्चैव देहिनां देहपूरणी । स्वसंवेद्यस्वरूपा सा दृश्या देशिकदर्शितैः ॥ २४ ॥ ययाकाशस्तमो वापि लब्धा या नोपलभ्यते । पुंनपुंसकयोस्तुल्याप्यङ्गनासु विशिष्यते ॥ २५ ॥ प्रधानमिति यामाहुर्या शक्तिरिति कथ्यते । या युष्मानपि मां नित्यमवष्टभ्यातिवर्तते ॥ २६ । साहं यूयं तथैवान्यद्यद्वेद्यं तत्तु सा स्मृता । प्रलये व्याप्यते तस्यां चराचरमिदं जगत् ॥ २७ ॥ 1. .. विकृतिविकृति विकृतेरपि ; 2. . स्थूलव्याप्त... प्रथम: पटलः । से स्वां वेत्ति परमा तस्या नान्योऽस्ति वेदिता । सा तु कालात्मना सम्यङ्मयैव ज्ञायते सदा ॥ २८ ॥ लवादिप्रलयान्तोऽयं काल: प्रस्तूयते ह्यज । नलिनीपत्त्रसंहत्यां सूक्ष्मसूच्यभिवेधने ॥॥ २९ ॥ दले दले तु यः कालः स कालो लववाचकः । लवैस्त्रुटि: स्यात्रिंशद्भिः कलां तावत्रुटिं विदुः ॥ ३० ॥ काष्ठा तावत्कला ज्ञेया तावत्काष्ठो निमेषकः । सोऽङ्गुलिस्फोटतुल्यश्च मात्राष्टाभिस्तु तैः स्मृता ॥ कालेन यावता स्वीयो हस्तः स्वं जानुमण्डलम् । पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया ॥ ३२ ॥ षष्ट्युत्तरैस्तु त्रिशतैर्निश्वासैर्नाडिका स्मृता । द्विनाडिका मुहूर्तः स्यात्रिंशद्भिस्तैरहर्निशम् ॥ ३३ ॥ त्रिंशद्भिरप्यहोरात्रैर्मासो द्वादशभिस्तु तैः । संवत्सरो मानुषोऽयमहोरात्रं दिवौकसाम् ॥ ३४ ॥ तथा दिव्यैरहोरात्रैस्त्रिशतैः षष्टिसंयुतैः । दिव्यः संवत्सरो ज्ञेयो दिव्यैः संवत्सरैस्तु तैः ॥ प्रपञ्चसारे भवेद्द्वादशसाहस्रैर्भिन्नैरैकं चतुर्युगम् । तैः सहस्रैः शतानन्द तवैकं दिनमिष्यते ॥ ३६ ॥ तावती तव रात्रिश्च कथिता कालवेदिभिः । तथाविधैरहोरात्रैस्त्रिंशद्भिर्मासमृच्छति ॥ ३७ ॥ तथाविधैर्द्वादशभिर्मासैरब्दस्तव स्मृतः । तथाविधानामब्दानां शतं त्वमपि जीवसि ॥ ३८ ॥ तवायुर्मम निश्वासः कालेनैवं प्रचोद्यते । स जानाति विपाकांश्च तस्यां सम्यग्व्यवस्थितान् ॥ सोऽन्वीक्ष्य त्वादृशामायुः परिपाकं प्रदास्यति । प्रकृतेश्च क्वचित्कालो विकृतिं प्रतिपादयेत् ॥ ४० ॥ सा तत्त्वसंज्ञा चिन्मात्रज्योतिषः संनिधेस्तथा' । बिचिकीर्षुर्घनीभूत्वा कचिदभ्येति बिन्दुताम् ॥ ४१ ॥ कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा । स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते ॥ ४२ ॥ सबिन्दुनाद बीजत्वभेदेन च निगद्यते । बिन्दोस्तस्माद्भिद्यमानाद्रवोऽव्यक्तात्मको भवेत् ॥ ४३ ॥ 1. संनिधेस्तदा. प्रथम: पटलः । स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति कथ्यते । तद्विस्तारप्रकारोऽयं यथा वक्ष्यामि सांप्रतम् ॥ ४४ ॥ अव्यक्तादन्तरुदितविभेद्गहनात्मकम् ' । महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथा ॥ ४५ ॥ भूतादिकवैकारिकतैजसभेदक्रमादहंकारात् । कालप्रेरितया गुणघोषयुजा शब्दसृष्टिरथ शक्त्या ॥ शब्दाव्योम स्पर्शतस्तेन वायु- स्वाभ्यां रूपाद्वह्निरेतै रसाच्च । 'आपस्त्वेभिर्गन्धतोऽभूद्धराद्या भूताः पञ्च स्युर्गुणानां क्रमेण ॥ ४७ ॥ खमपि सुषिरचिह्नमीरणः स्या- चलनपरः परिपाकवान्कृशानुः । जलमपि रसवद्धना धरा ते सितशितिपाटलशुभ्रपीतभासः ॥ ४८ ॥ वृत्तं व्योम्नो बिन्दुषट्काञ्चितं तद्वायोरग्नेः स्वस्तिकोद्यत्रिकोणम् । 1. ... त्रिभेदगहनात्मकम् ; 3. स्युर्गुणोनाः. 2. अम्भांस्येभिर्गन्धतो ; प्रपञ्चसारे अब्जोपेतार्धेन्दुमद्विम्बमाप्यं स्याद्यज्ञोद्यच्चातुरश्रं धरायाः ॥ ४९ ॥ निवृत्तिसंज्ञा च तथा प्रतिष्ठा विद्याह्वया शान्तिसशान्त्यतीते । स्युः शक्तयः पञ्च धरादिभूत- प्रोत्थाः क्रमान्नादकलादिभूताः ॥ ५० ॥ पुटयोरुभयोश्च दण्डसंस्था पृथिवी तोयमधः कृशानुरूर्ध्वम् । पवनस्त्वथ पार्श्वगोऽपि मध्ये गगनं भूतगतिस्तनूद्भवेयम् ॥ ५१ ॥ व्योम्न मरुदत्र दहनस्तत्रापस्तासु संस्थिता पृथिवी । सचराचरात्मकानि च तस्यां जातानि सर्वभूतानि ॥ श्रोत्रत्वगक्षिजिह्वाघ्राणान्यपि चेन्द्रियाणि बुद्धेः स्युः । वाक्पाणिपादपायूपस्थानि च कर्मसंज्ञानि तथा ॥ ५३ ॥ वचनादाने सगती सविसर्गानन्दकौ च संप्रोक्ताः । वागाद्यर्थाः समना बुद्धिरहंकारश्चित्तमपि करणम् ॥ प्रथम : पटलः । भूतेन्द्रियेन्द्रियार्थैरुद्दिष्टस्तत्त्वपञ्चविंशतिकः व्यानन्दकैश्च तैरपि तत्त्वचतुर्विंशतिस्तथा प्रोक्ताः ॥ ५५ ॥ करणोपेतैरेतैस्तश्वान्युक्तानि रहितवचनाद्यैः । भूतानीन्द्रियदशकं समनः प्रोक्तो विकारषोडशकः ॥ अव्यक्तमहदहंकृतिभूतानि प्रकृतयः स्युरष्टौ च । तन्मात्राहंकाराः समहान्तः प्रकृतिविकृतयः सप्त ॥ ५७ ॥ सत्त्वं रजस्तम इति संप्रोक्ताश्च त्रयोगुणास्तस्याः । तत्संबन्धाद्विकृतैर्भेदत्रितयैस्ततं जगत्सकलम् ॥ ५८ ॥ देवाः सश्रुतयः स्वराः समरुतो लोकाश्च वैश्वानराः कालाः शक्तियुतास्त्रिवर्गसहितास्तिस्रस्तथा वृत्तयः । नाड्योऽन्यच्च जगत्रयेऽत्र नियतं यद्वस्तु संबध्यते विश्वेषां स्थितये चरन्त्यविरतं सूर्येन्दुवैश्वानराः ॥५९॥ एष सर्गः समुत्पन्न इत्थं विश्वं प्रतीयते । विश्वप्रतीतौ हि यतः प्रपञ्चस्त्ववगम्यते ॥ ६० ॥ शब्दब्रह्मेति यत्प्रोक्तं तदुद्देशः प्रवर्त्यते । अतः परमवाच्यं हि स्वसंवेद्यस्वरूपतः ॥ ६१ ॥ १० प्रपञ्चसरे शब्दब्रह्मेति शब्दावगम्यमर्थ विदुर्बुधाः । स्वतोऽर्थानवबोधत्वात्प्रोक्तो नैतादृशो रवः ॥ ६२ ॥ स तु सर्वत्र संस्यूतां जाते भूताकर पुन: । ... आविर्भवति देहेषु प्राणिनामर्थविस्मृतः ॥ ६३ । प्रकृतौ कानुन्नायां गुणान्तःकरणात्मनि । देहश्चतुर्विधो ज्ञेयो जन्तोरुत्पत्तिभेदतः ॥ ६४ । औद्भिदः स्वेदजोऽण्डात्थश्चतुर्थस्तु जरायुजः । उद्भिद्य भूमिमुद्गच्छत्याद्भिदः स्थावरस्तु सः ॥ ६५ ॥ निर्दिष्टस्कन्धविटपपत्रपुष्पफलादिभिः । पञ्चभूतात्मकः सर्वः क्ष्मामधिष्ठाय जायते ॥ ६६ ॥ अम्बुयोन्यग्निपवननभसां समवायतः । स्वेदजः स्विद्यमानेभ्यो भूवह्नयद्भयः प्रजायते ॥ ६७ ॥ यूकमत्कुणकीटाणुस्त्रुट्याद्याः क्षणभङ्गुराः । अण्डजो वर्तुलीभूताच्छुक्कशोणितसंपुटात् ॥ ६८ ॥ कालेन भिन्नात्पूर्णात्मा निर्गच्छन्प्रक्रमिष्यति । अहिगोधावयो भेदशिंशुमारादिकञ्च सः ॥ ६९ ॥ 1. अहिगोधावयोभेदाः शिशुमारादिकच्छपाः. प्रथमः पटलः । जरायुजस्तु ग्राम्यातः क्रियातः स्त्र्यतिसंभवः । स जायते चतुर्विंशत्तत्त्वसंयुक्तदेहवान् ॥ ७० ॥ स्वस्थानतरच्युताच्छुक्काद्विन्दुमादाय मारुतः । गर्भाशयं प्रविशति यदा तुल्यं तदापरः ॥ ७१ ॥ आर्तवात्परमं बीजमादायास्याश्च मूलतः । यदा गर्भाशयं नेष्यत्यथ संमिश्रयेन्मरुत् ॥ ७२ ॥ मायीयं नाम योषोत्थं पौरुषं कार्मणं मलम् । आणवं नाम संपृक्तं मिलितं तन्मलद्वयम् ॥ ७३ ॥ सूक्ष्मरूपाणि तत्त्वानि चतुर्विंशन्मलद्वये । तत्र युक्तिं नयत्याशु ततस्तद्दर्भमारुतः ॥ ७४ ॥ ११ संक्षोभ्य संवर्धयति तन्मलं शोणिताधिकम् । स्त्री स्याच्छुक्लाधिकं ना स्यात्समभागं नपुंसकञ् ॥ ७५ ॥ स्वगाभिर्मरुदग्न्यद्भिः क्लेद्यते वाध्यते च तत् । सान्द्रीभूतं तदहैव मातुरङ्गुष्ठसंमितम् ॥ ७६ ॥ आयामि बुदाकारं परेऽहनि विजृम्भते । पक्षेण चतुरश्रं स्यान्मातुर्भुक्तरसात्मवत् ॥ ७७ ॥ 1. समबन्धं. १२ प्रपञ्चसारे मिलितादपि तस्मात्तु पृथगेव मलद्वयात् । किट्टभूतद्वयं पूर्व बीजयुग्मं समुन्नमेत् ॥ ७८ ॥ ऊर्ध्व तु मरुता नुन्नं तस्मादपि फलद्वयात् । उभयात्मिक्यधोवृत्ता नाडी दीर्घा भवेदृजुः ॥ ७९ ॥ अवाङ्मुखी सा तस्याश्च भवेत्पक्षद्वये द्वयम् । नाड्योस्तत्संधिबन्धाः स्युः सप्तान्या नाड्यो मताः ॥ ततो या प्रथमा नाडी सा सुषुम्नेति कथ्यते । या वामेडेति सा ज्ञेया दक्षिणा पिङ्गला स्मृता ॥ ८१ ॥ या वाममुष्क संबन्धा सा श्लिष्यन्ती सुषुम्नया । दक्षिणवृक्कमाश्रित्य धनुर्वक्रा हृदि स्थिता ॥ ८२ ॥ वामांसजन्वन्तरगा दक्षिणां नाडिकामियात् । तथा दक्षिणमुष्कोत्था नाडी या वामरन्ध्रगा ॥ ८३ ॥ अन्या धमन्यो याः प्रोक्ता गान्धारीहस्तिजिह्विका । सपूषालंबुषा चैव यशस्विन्यपि शङ्खिनी ॥ ८४ ॥ कुहूरिति च विद्वद्भिः प्रधाना व्यापिकास्तनौ । काचिन्नाडी बहिर्वक्त्रा या मातुर्हृदि बध्यते ॥ ८५ ॥ प्रथम : पटलः । यथा तत्पुष्टिमाप्नोति केदार इव कुल्यया । मातुराहाररस जैर्धातुभिः पुष्यते क्रमात् ॥ ८६ ॥ क्रमवृद्धौ परंज्योतिष्कला क्षेत्रज्ञतामियात् । सक्षेत्रज्ञं मलं तत्तु सभूतं सगुणं पुनः ॥ ८७ ॥ सदोषं दूष्यसंपन्नं जन्तुरित्यभिधीयते । फलकोशद्वयं तत्तु व्यक्तं पुंसो न तु स्त्रियः ॥ ८८ ॥ नपुंसकस्य किंचित्तु व्यक्तिरत्रोपलक्ष्यते । मध्यस्थायाः सुषुम्नायाः पर्वपञ्चकसंभवाः ॥ ८९ ॥ शाखोपशाखतां प्राप्ताः सिरालक्षत्रयात्परम् । अर्धलक्षमिति प्राहु: शरीरार्थविशारदाः ॥ ९० ॥ तद्भेदांश्च बहूनाहुस्ताभिः सर्वाभिरेव च । व्याप्नोति सर्वतो वायुर्येन देहः प्रवर्त्यते ॥ ९१ ॥ देहेऽपि मूलाधारे तु समुदेति समीरणः । नाडीभ्यामस्तमभ्येति घ्राणतो द्विषडङ्गुले ॥ ९२ ॥ अहोरात्रमिनेन्दुभ्यामूर्ध्वाधोवृत्तिरुच्यते । वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम् ॥ ९३ ॥ 1. भेदः प्रवर्तते. १३ १४ प्रपञ्चसरे अत्रापि चेतनायातोरागतिं बहुधा विदुः । रेतःशोणितजं प्राहुरेकेऽन्ये मातुराहृतान् ॥ ९४ ॥ आहाराद्रसजं प्राहुः केचित्कर्मफलं विदुः । कश्चिदस्य परं धानो व्याप्तिमेव विवक्षति ॥ ९५ ॥ कश्चित्कर्मप्रकारज्ञः पितुर्देहात्मनासकृत् । 'संबध्य मथनोद्रेकविधिना शुक्लधातुतः ॥ ९६ ॥ तत्परंधाम सौजस्कं संक्रान्तं मारुतन तु 1 ब्रूते रक्तव्यतिकृताद्दीपाद्दीपान्तरं यथा ॥ ९७ ॥ कश्चित्तु भौतिकव्याप्ते जन्मकाले वपुष्यथ । कुतश्चित्य जीवात्मा निष्पन्न इति शंसति ॥ ९८ ॥ बहुना किं पुनः पुंसः सांनिध्यात्प्रविजृंभिता । प्रकृतिर्गुणसंभिन्ना त्रिदोषात्मा' महीयसी ॥ ९९ ॥ पश्चभूतमयी सप्तधातुभिन्ना च भौतिकैः । पञ्चभिश्व गुणैर्युक्ता पञ्चेन्द्रियविचारिणी ॥ १०० ॥ पश्चेन्द्रियार्थगा भूयः पञ्च बुद्धिप्रभाविनी । पञ्चकर्मेन्द्रियगता पञ्चत्वादा प्रवर्तते ॥ १०१ ॥ 1. त्रिसध्यमथनोद्रेकविलीना: ; 2. परं 3. त्रिदोषा सा. प्रथमः पटल: । परेण धाम्ना समनुप्रबद्धा मनस्तदा सा तु महाप्रभावा । यदा तु संकल्पविकल्पकृत्या यदा पुनर्निश्विनुते तदा सा ॥ १०२ ॥ स्याद्वुद्धिसंज्ञा च यदा प्रवेत्ति ज्ञातारमात्मानमहंकृतिः स्यात् । तदा यदा सा त्वभिलीयतेऽन्त- वित्तं च निर्धारितमर्थमेषा ॥ १०३ ॥ यदा स्वयं व्यञ्जयितुं यतेत महीयसी सा करणैः क्रमेण । तदा तु बिन्दुस्फुटनोद्भवस्थ रवस्थ सम्यक्प्रविजम्भितं स्यात् ॥ १०४ ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमछकरभगवतः कृतौ प्रपञ्चसारे प्रथमः पटलः ॥ १५ द्वितीयः पटलः ॥ अथ व्यवस्थिते त्वंवं मासात्पक्षाद्दिनादपि । मुहूर्तान्नाडिकायाश्च क्षणादपि च वर्धते ॥ १ ॥ जन्तुः षडङ्गी पूर्वं स्याच्छिरः पादौ करावपि । अन्तराधिश्वेति पुनः षडङ्गेषु प्रवर्तते ॥ २ ॥ अक्षिनासास्यकर्णभ्रूकपोलचिबुकादिकम् । प्रकोष्ठकोर्परांसाद्यं कयूरूप्रपदादिकम ॥ ३ ॥ उरः कुक्षिस्तनाद्यं च ततः सर्वाङ्गवान्विभुः । कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ॥ ४ ॥ प्रसूतिसमये सोऽथ जनित्रीं कुशयन्मुहुः । संवृताम्यसुषुम्नाख्योऽवाङ्मुखोऽनिलचोदितः ॥ ५ ॥ तस्यां ग्रहिण्यां शकृतिमग्नवक्त्राक्षिनासिकः । पुराकृतानां पापानामयुतं संस्मरन्मुहुः ॥ ६ । तस्याः कायाग्निना दग्धः कुदैः क्लिन्नाङ्गबन्धनः । प्रत्युद्गारपरीतश्च तत्पायुद्वारगोचरः ॥ ७ ॥ द्वितीय: पटलः । तदा प्रक्षुभितैः स्वीयवायुभिर्दशतां गतैः । संपिण्डितशरीरस्तु मोक्षमेव किलेच्छति ॥ ८ । प्राणाद्या वायवस्तत्र पूर्वमेव कृतास्पदाः । परस्परमपानश्च प्राणश्च प्रतिबध्यते ॥ ९॥ प्रयात्यूर्ध्वं यदा प्राणस्तदापानोऽप्यधस्तथा । यदा समानः कायाग्निं संधुक्षयति पाचितुम् ॥ १० ॥ तदा तत्पाकमुक्तं तु रसमादाय धावति । व्यानो जन्तोस्तु तद्देहमापादतलमस्तकम् ॥ ११ ॥ उदानः प्राणसहितो निमेषोन्मेषकारकः । उद्गारकारको नाग उन्मीलयति कूर्मकः ॥ १२ ॥ क्षुतकृत्कृकलो देवदत्तो जृम्भणकर्मकृत् । धनंजयाख्यो देहेऽस्मिन्कुर्याद्बहुविधान्रवान् ॥ ९३ ॥ स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति । इत्यमी मारुताः प्रोक्ता दश देहाधिगामिनः ॥ १४ ॥ वह्नयश्च दशान्ये स्युस्तेषां सप्त तु धातुगाः । त्रयस्त्रिदोषगाः प्रोक्ताः स्वेदवेदान्त्रगाच ते ॥ १५ ॥ 1. दशधागतैः; 2 प्रतिबाध्यते. *P. 2 १७ १८ प्रपञ्चसारे त्वगसृड्यांसमेदोऽस्थिमज्जाशुक्लानि धातवः । दूष्याः कफपित्तेरा दोषास्तत्प्रेरको मरुत् ॥ १६ ॥ समवायी विश्वात्मा विश्वगो विश्वकर्मकृत् । स दोषो वा स वा दूष्यः क्रियातः संप्रधार्यते ॥ १७ ॥ बुभुक्षा च पिपासा च शोकमोहौ जरामृती । षडूर्मयः प्राणबुद्धिदेहधर्मे व्यवस्थिताः ॥ १८ ॥ मज्जास्थिस्नायवः शुक्लाद्रक्तात्त्वड्यांसशोणिताः । इति षट्कौशिकं नाम देहे भवति देहिनाम् ॥ १९ ॥ रसादितः क्रमात्पाकः शुक्लान्तेषु तु धातुषु । शुक्लपाकात्स्वयं भिद्येदोजो नामाष्टमी दशा ॥ २० ॥ क्षेत्रज्ञस्य तदोजस्तु केवलाश्रयमिष्यते । यथा स्नेहः प्रदीपस्य यथाभ्रमशनित्विषः ॥ २१ ॥ बहुद्वारेण कुम्भेन संवृतस्य हविर्भुजः । यथा तेजः प्रसरति समीपालोकशक्तिमत् ॥ २२ ॥ तथा देहावृतस्यापि क्षेत्रज्ञस्य महात्विषः । इन्द्रियैः संप्रवर्तन्ते स्वं स्वमर्थग्रहं प्रति ॥ २३ ॥ 1. स दोषोऽथवा दूष्यः ; 2. देहधर्मेष्वस्थिताः. द्वितीय: पटलः । नभः श्रोत्रेऽनिलश्चर्मण्यभिश्चक्षुष्यथो रसः । जिह्वायामवनिर्माण इत्थमर्थप्रवर्तनम् ॥ २४ ॥ यदा पित्तं मरुनुन्नं विलीनं प्रविलापयेत्' । धातूंस्तदा क्रमाद्रक्तं लसीकां द्रावयेत्क्षणात् ॥ २५ ॥ द्रुता सा तु लसीकाहा रोमकूपैः प्रवर्तते । बहिः सर्वत्र कणशस्तदा स्वेदः प्रतीयते ॥ २६ ॥ यदा कफो मरुत्पित्तं नोमीन (?) प्रवर्तते । ऊर्ध्वभूतं दृढो बाष्पं प्रसेकं च प्रवर्तयेत् ॥ २७ ॥ कफात्मिकास्तु विकृती: कर्णशष्कुलिपूर्विकाः । गण्डमालादिका वापि कुर्याज्जन्तोस्तु कर्मजाः ॥ २८ ॥ ग्रहणी नाम सा पात्री प्रसृताञ्जलिसंनिभा । अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ २९ ॥ तस्याधस्तात्रिकोणाभं ज्योतिराधारमुत्तमम् । विद्यते स्थानमेताद्धे मूलाधारं विदुर्बुधाः ॥ ३० ॥ अथाहृतं षड्यं वाप्याहारं कण्ठमार्गगम् । श्लेष्मणानुगतं तस्य प्रभावान्मधुरीभवेत् ॥ ३१ ॥ 1. प्रविचालयेत्; 2. एका सा तु लसीकाह्राद्रोमकूपैः ; 3. ऊर्ध्वभूतान्तको बाष्पं. १९ २० प्रपञ्चसारे तत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः । षड्रसाः कथिता भूतविकृत्या द्रव्यमाश्रिताः ॥ ३२ ॥ तथैवामाशयगतं पश्चात्पित्ताशयं व्रजेत् । तदा तस्यानुगमनात्कटुकत्वं प्रपद्यते ॥ ३३ ॥ तत्रान्त्रान्तरसंश्लिष्टं पच्यते पित्तवारिणा । पच्यमानाद्रसं भिन्नं वायू रक्तादिकां नयेत् ॥ ३४॥ त किट्टं पृथग्भन्नं ग्रहण्यां चिनुतेऽनिलः । तञ्चीयमानं विण्णाम ग्रहणीं पूरयेन्मुहुः ॥ ३५ ॥ सा शकृता पूर्णा वलिता प्रतिमुञ्चति । पुरीषं पायुमार्गेण तत्पाकेऽच्छांभसा तत: ॥ ३६ ॥ अङ्गं स्वेदवदभ्यन्तर्व्याप्तैः सूक्ष्मैः सिरामुखैः । वस्तिमापूरयेद्वायुः पूर्णे मुञ्चति धारया ॥ ३७ ॥ मूत्राशयो धनुर्वको वस्तिरित्यभिधीयते । मूत्रमित्याहुरुदकं वस्तेर्मेहननिर्गतम् ॥ ३८ ॥ अपथ्यभाजामनयोर्मार्गयोर्दोषदुष्टयोः । प्रमेहमूत्रकृच्छ्रादेर्ग्रहण्यादेश्च संभवः ॥ ३९ ॥ 1. अच्छांभसस्ततः. द्वितीयः पटलः । इत्थंभूतः स जन्तुस्तु जरायुच्छन्नगात्रवान् । अपत्यवर्त्म संगम्य सज्यते वायुना मुहुः ॥ ४० ॥ जायतेऽधिकसंविग्नो जृम्भतेऽङ्गैः प्रकम्पितैः । मूर्योद्वणं न श्वसिति भीत्या च परिरोदिति ॥ ४१ ॥ अथ पापकृतां शरीरभाजा- मुदरान्निष्क्रमितुं महान्प्रयासः । नलिनोद्भवधीविचित्रवृत्ता नितरां कर्मगतिस्तु मानुषाणाम् ॥ ४२ ॥ जायते पुनरसौ निजाङ्गकै- जृम्भते जनितभीति कम्पते । उल्बणं श्वसिति रोदिति ज्वरा- त्प्रागनेकशतदुःखभावितः ॥ ४३ ॥ मूलाधारात्प्रथममुदितो यस्तु भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुमध्यमाख्यः । वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्ना बद्धस्तस्माद्भवति पवनप्रेरितो वर्णसङ्घः ॥ ४४ ॥ २१ २२ प्रपञ्चसारे स्रोतोमार्गस्याविभक्तत्वहेतो- स्तत्रार्णानां जायते न प्रकाशः । तावद्यावत्कण्ठमूर्धादिभेदो वर्णव्यक्तिस्थानसंस्था यतोऽतः ॥ ४५ ॥ ज्ञातास्मीति यदा भावो मनोऽहंकारबुद्धिमान् । जातश्चित्पूर्वको जन्तोः स भावः क्रमवर्धितः ॥ ४६ ॥ बध्नाति मातापित्रोस्तु पूर्व बन्धुषु च क्रमात् । स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ ४७ इच्छत्रोदिति तां वीक्ष्य तत्र स्यादितरेतरम् । बन्धस्तत्राधिकर्तारमतिस्निग्धमनन्यगम् ॥ ४८ ॥ पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च । पितृव्यमातुलादींश्च समुद्वीक्ष्य प्रमोदते ॥ ४९ ॥ एवं 'संबन्धसंसारबान्धवो विस्मरिष्यति । पूर्वकर्म च गर्भस्थित्युद्भूत क्लेशमेव च ॥ ५० ॥ अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः । अवैशद्यान्मुखस्रोतो मार्गस्थाविशदाक्षरम् ॥ ५१ ॥ 1. संबन्धिसंसारबान्धवो. द्वितीयः पटलः । अप्यव्यक्तं प्रलपति यदा कुण्डलिनी तदा । मूलाधाराद्विसरति सुषुम्ना वेष्टनी मुहुः ॥ ५२ ॥ त्रिचतुः पश्वषट्सप्ताष्टमो दशम एव च । तथा द्वादशपञ्चाशद्भेदेन गुणयेत्क्रमात् ॥ ५३ ॥ यदा त्रिंशोऽथ गुणयेत्तदा 'त्रिगुणिता विभुः । शक्तिः कामाग्निनादात्मा गूढमूर्तिः प्रतीयते ॥ ५४ ॥ तदा तां तारमित्याहुरोमात्मेति बहुश्रुताः । तामेव शक्ति ब्रुवते हरेरात्मेति चापरे ॥ ५५ । २३ त्रिगुणा सा त्रिदोषा सा त्रिवर्णा सा त्रयी च सा । त्रिलोका सा त्रिमूर्तिः सा त्रिरेखा सा विशिष्यते ॥ ५६ ॥ एतेषां तारणात्तारः शक्तिस्तद्धतशक्तितः । यदा चतुर्धा गुणिता सूक्ष्मादिस्थानवाचिका ॥ ५७ ॥ वाचिका जाग्रदादीनां करणानां च सा तदा । यदा सा पञ्चगुणिता पश्चपञ्चविभेदिनी ॥ ५८ ॥ पञ्चानामक्षराणां च वर्णानां मरुतां तथा । गुणिता सायदा षोढा कोशोर्मिरसभेदिनी ॥ ५९ ॥ 1. द्विगुणिता. २४ प्रपञ्चसारे तदा षड्गुणिताख्यस्य यन्त्रस्य च विभेदिनी । यदा सा सप्तगुणिता तारहृल्लेखयोस्तदा ॥ ६० ॥ भेदैरहाद्यैः शान्तान्तैर्भिद्यते सप्तभिः पृथक् । अकारश्चाप्युकारश्च मकारो बिन्दुरेव च ॥ ६१ ॥ नादः शक्तिश्च शान्तश्च तारभेदाः समीरिताः । हकाररेफमायाश्च बिन्दुनादौ तथैव च ॥ ६२ ॥ शक्तिशान्तौ च संप्रोक्ताः शक्तेर्भेदाश्च सप्तधा । अङ्गेभ्योऽस्यास्तु सप्तभ्यः सप्तधा भिद्यते जगत् ॥ ६३ लोकाद्रिद्वीपपाताल सिन्धुग्रह मुनिस्वरैः । धात्वादिभिस्तथान्यैश्च सप्तसंख्याप्रभेदकैः ॥ ६४ ॥ यदाष्टधा सा गुणिता तदा प्रकृतिभेदिनी । अष्टाक्षरा हि वस्वाशा मातृका मूर्तिभेदिनी ॥ ६५ ॥ दशधा गुणिता नाडी मर्माशादिविभेदिनी । द्वादशात्मिक्यपि यदा तदा राश्यर्कमूर्तियुक् ॥ ६६ ॥ मन्त्रं च द्वादशार्णाख्यमभिधत्ते स्वरानपि । तत्संख्यं च तदा यन्त्रं शक्तेस्तद्गुणितात्मकम् ॥ ६७ ॥ द्वितीय: पटलः । पचाशदंशगुणिताथ यदा भवेत्सा देवी तदात्मविनिवेशितदिव्यभावा । सौषुम्नवर्त्मसुषिरोदितनादसंगा- त्पश्वाशदीरयति पङ्किश एव वर्णान् ॥ ६८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे द्वितीयः पटलः ॥ २५. तृतीयः पटलः ॥ अथोभयात्मका वर्णाः स्युरग्नीषोमात्मभेदतः । त एव स्युस्त्रिधा भूयः सोमेनाग्मिविभागशः ॥ १ ॥ स्वराख्याः षोडश प्रोक्ताः स्पर्शाह्वाः पञ्चविंशतिः । व्यापकाश्च दशैते स्युः सोमेनाग्न्यात्मकाः क्रमात् ॥ २ ॥ एषु स्वरा ह्रस्वदीर्घभेदेन द्विविधा मताः । पूर्वो ह्रस्वः परो दीर्घो बिन्दुसर्गान्तिकौ च तौ ॥ ३॥ आद्यन्तस्वरषट्कस्य मध्यगं यश्चतुष्टयम् । वर्णानामागमधनैस्तन्नपुंसकमीरितम् ॥ ४ ॥ तचतुष्कं सुषुम्नास्थे कुर्यात्प्राणेऽयनस्थितिम् । दक्षोत्तरस्थे प्राणाख्ये स्यातां दक्षोत्तरायणे ॥ ५ ॥ दक्षः सव्यस्थिते ह्रस्वदीर्घाः पञ्चोदयन्ति च । भूतभूतकलाभिस्तदुदयः प्रागुदीरितः ॥ ६ ॥ बिन्दुसग तु यौ प्रोक्तौ तौ सूर्यशशिनौ क्रमात् । तयोर्विकारविस्तारः परस्तात्संप्रवक्ष्यते ॥ ७ ॥ तृतीय: पटलः । स्पर्शाख्या अपि ये वर्णाः पञ्चपञ्चविभेदतः । भवन्ति पञ्चवर्गास्तदन्त्य आत्मा रविः स्मृतः ॥ ८ ॥ चतुर्विंशतितत्त्वस्थास्तस्माद्वर्णाः परे क्रमात् । २७ तेन स्पर्शाह्वयाः सौराः प्राणानीळाम्बुखात्मकाः ॥ ९ ॥ व्यापकाश्च द्विवर्गाः स्युस्तथा पञ्चविभेदतः । शशीनाग्न्युत्थिता यस्मात्स्वरस्पृग्व्यापकाक्षराः ॥ १० ॥ तत्रिभेदसमुद्भूता अष्टत्रिंशत्कलाः स्मृताः । स्वरैः सौम्याः स्पर्शयुग्मैः सौरा याद्यैश्च वह्निजाः ॥ ११ ॥ षोडशद्वादशदश संख्याः स्युः क्रमशः कलाः । वर्णेभ्य एव तारस्य पञ्चभेदैस्तु भूतगैः ॥ १२ ॥ सर्वगाश्च समुत्पन्नाः पञ्चाशत्संख्यकाः कलाः ' । ताभ्य एव तु तावत्यः शक्तिभिर्विष्णुमूर्तयः ॥ १३ ॥ तावत्यो मातृभिः सार्धं तेभ्यः स्यू रुद्रमूर्तयः । तेभ्य एव तु पञ्चाशत्स्युरोषधय ईरिताः ॥ १४ ॥ याभिस्तु मन्त्रिणः सिद्धिं प्राप्नुयुर्वाञ्छितार्थदाम् । अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥ १५ ॥ 1. पञ्चाशद्वर्णसंख्यकाः. २८ प्रपञ्चसरे शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना' । पूर्णा पूर्णामृताकामदायिन्यः सस्वराः कलाः ॥ १६ ॥ तपिनी तापिनी धूम्रा मरीची ज्वालिनी रुचिः । सुषुम्नाभोगदाविश्वाबोधिनीधारिणीक्षमाः ॥ १७ ॥ 'कामाद्या वसुदाः सौराः षडान्ता द्वादशेरिताः । धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी ॥ १८ ॥ सुश्रीः सुरूपा कपिला " हव्यकव्यवहे अपि । याद्यर्णयुक्ता वह्नयुत्था दश धर्मप्रदाः कलाः ॥ १९ ॥ सृष्टि ऋद्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्द्युतिः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः ॥ २० ॥ अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः । जरा च पालिनी शान्तिरैश्वरी रतिकामिके ॥ २१ ॥ वरदा ह्रादिनी प्रीतिर्दीर्घा चोकारजाः कलाः । उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ २२ ॥ तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुत्क्रोधिनी' क्रिया । उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः ॥ २३ ॥ ला; 1. प्रीतिरङ्गदा. 2. कभाद्याः ससुधाः सौर्याः षडान्ता ; 3. कम- 4. क्रोधनी. तृतीयः पटलः । मकारप्रभवा रुद्रजाताः संहृतये कलाः । २९ बिन्दोरपि चतस्रः स्युः पीतश्वेतारुणाः सिताः ॥ २४ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । इन्धिका दीपिका चैव रेचिका गोचिका परा ॥ २५ ॥ सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा । व्यापिनी व्योमरूपा चेत्यनन्ता नादसंभवाः ॥ २६ ॥ नादजाः षोडश प्रोक्ता भुक्तिमुक्तिप्रदायकाः । केशवनारायण माधवगोविन्द विष्णवः ॥ २७ । मधुसूदनसंज्ञश्च सप्तमः स्यात्त्रिविक्रमः । वामनः श्रीधरश्चैव हृषीकेशस्त्वनन्तरः ॥ २८ ॥ पद्मनाभस्तथा दामोदराह्नो वासुदेवयुक् । संकर्षणश्च प्रद्युम्नः सानिरुद्धः स्वरोद्भवाः ॥ २९ ॥ ततश्चक्री गदी शार्ङ्ग खङ्गी शङ्खी हली तथा । मुसली शूलिसंज्ञश्च भूयः पाशी च साङ्कुशी ॥ ३० ॥ मुकुन्दो 'नन्दजो नन्दी नरो नरकजिद्धरिः । कृष्णः सत्यः सात्वतश्च शौरिः शूरो जनार्दनः ॥ ३१ ॥ 1. नन्दनो. ३० प्रपञ्चसरे भूधरो विश्वमूर्तिश्च वैकुण्ठः पुरुषोत्तमः । बली बलानुजो वालो वृषन्नश्च वृषस्तथा ॥ ३२ ॥ हंसो वराहो विमलो नृसिंहो मूर्तयो हलाम् । कीर्तिः कान्तिस्तुष्टिपुष्टी धृतिः क्षान्तिः क्रिया दया ॥३३॥ मेधा च हर्षा श्रद्धाद्वा लज्जा लक्ष्मीः सरस्वती । प्रीती रतिश्च संप्रोक्ताः क्रमेण स्वरशक्तयः ॥ ३४ ॥ जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी । विजया विरजा विश्वा विनदा सुनदा' स्मृतिः ॥ ३५ ॥ ऋद्धिः समृद्धिः शुद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा । मोमा लेदिनी किन्ना वसुदा वसुधापरा ॥ ३६ ॥ 'परा परायणा सूक्ष्मा संध्या प्रज्ञा प्रभा निशा । अमोधा विद्युता चेति मूर्त्याद्याः सर्वकामदाः ॥ ३७ ॥ एकपश्वादुद्दिष्टा नमोऽन्ता वर्णपूर्विकाः । सधातुप्राणशक्त्यात्मयुक्ता यादिषु मूर्तयः ॥ ३८ ॥ श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । अशो भारभूतिश्च स्थितीश: ' स्थाणुको हरः ॥ ३९ ॥ 1. च तथा ; 2. रमा मा; 3. पारा 4. निधीशः, तिथीशः, अतिथीशः. तृतीय: पटलः । झण्डीशां भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः स्युरेताः स्वरमूर्तयः ॥ ४० ॥ ततः क्रोधीशचण्डीशपश्चान्तकशिवोत्तमाः । तथैकरुद्रकूर्मैक ने बाहुचतुराननाः ॥ ४१ ॥ अजेशशर्वसोमेशास्तथा लाङ्गलिदारुकौ । अर्धनारीश्वरश्वोमाकान्तश्चाषाढिदण्डिनौ ॥ ४२ ॥ अत्रिर्मीनच मेषश्च लोहितश्च शिखी तथा । छगलण्डद्विरण्डौ च समहाकाल चालिनौ ' ॥ ४३ ॥ भुजङ्गेशः पिनाकी च खड्गीशश्च बकस्तथा । श्वेतो भृगुश्च लकुलिः शिवः संवर्तकः स्मृतः ॥ ४४ ॥ पूर्णोदरी च विरजा तृतीया शाल्मली तथा । लोलाक्षी वर्तुलाक्षी च दीर्घघोणा तथैव च ॥ ४५ ॥ 'सुदीर्घमुखिगोमुख्यौ नवमी दीर्घजिह्विका । कुण्डोदर्यूर्ध्वकेशी' च मुखी विकृतपूर्विका ॥ ४६ ॥ सज्वालोल्कश्रियाविद्यामुख्यः स्युः स्वरशक्तयः । महाकालीसरस्वत्यौ सर्वसिद्धिसमन्विता ॥ ४७ ॥ ३१ 1. क्रोडीशः; 2. समहाकालपालिनौ ; 3. सुदीर्घा सुमुखी चैव, सुदीपा सुमुखी चैव, 4. कुण्डोदर्यूर्ध्वकेश्यौ च; 5. . मुखाः. ३२ प्रपञ्चसरे गोरी त्रैलोक्यविद्या च तथा मन्त्राणशक्तिका ' । भूतमाता लम्बोदरी द्राविणी नागरी तथा ॥ ४८ ॥ खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा । कोदरी पूतना भद्रकालीयोगिन्य एव च ॥ ४९ ॥ शङ्खिनी गर्जिनी कालरात्री कुर्दिन्य' एव च । कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ५० ॥ रेवती माधवी चैव वारुणी वायवी तथा । रक्षोऽवधारिणी चान्या तथैव सहजाह्वया ॥ ५१ ॥ लक्ष्मीश्च व्यापिनी 'मायेत्याख्याता वर्णशक्तयः । इत्युक्तस्त्रिविधो न्यासः क्रमात्सर्वसमृद्धिदः ॥ ५२ ॥ चन्दनकुचन्दनागरुकर्पूरोशीर रोगजलघुसृणाः । तक्कोलजातिमांसीमुरचोरप्रन्धिरोचनापत्राः ॥ ५३ ॥ पिप्पलबिल्वगुहारुण तृणकलवङ्काह्वकुम्भिवन्दिन्यः । सौदुम्बरी काष्मरिकास्थिराब्जद रपुष्पिकामयूरशिखाः ॥ प्लक्षाग्निमन्थसिह्मीकुशाह्वदर्भाच कृष्णदरपुष्पी । रोहिणडुण्डुमबृहतीपाटलचित्रातुलस्यपामार्गाः ॥ ५५ ॥ 1. मन्त्रात्मशक्ति के ; 2. कूर्दिन्य; 3. शैवेत्याख्याता. तृतीयः : पटलः । शतमखलताद्विरेफो विष्णुक्रान्ती मुसल्यथाञ्जलिनी । दूर्वा श्रीदेविस तथैव लक्ष्मी सदाभद्रे ॥ ५६ ॥ आदीनामिति कथिता वर्णानां क्रमवशादथौषधयः । गुलिकाकषायभस्मप्रभेदतो निखिलसिद्धिदायिन्यः ॥ यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः । येन येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥ ५८ ॥ समीरिताः समीरण सुषुम्नारन्ध्रनिर्गताः । व्यक्ति प्रयान्ति वदने कण्ठादिस्थानघट्टिताः ॥ ५९ ॥ उच्चैरुन्मार्गगो वायुरुदात्तं कुरुते स्वरम् । नीचैर्गतोऽनुदात्तं च तिर्यक् स्वरितविस्तृतिः ॥ ६० ॥ अर्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् । सव्यञ्जना हस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥ ६१ ॥ अकारेकारयोर्योगादेकारो वर्ण इष्यते । तस्यैवैकारयोगेन स्यादैकाराक्षरस्तथा ॥ ६२ ॥ 1. खरिसमीरितः. *P. 3 ३३ ३४ प्रपञ्चसारे उकारयोगात्तस्यैव स्यादोकाराहूयोऽक्षरः । तस्यैवौकारयोगेन स्यादौकाराक्षरस्तथा ॥ ६३ ॥ संध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः । ऌवर्णर्वर्णयोर्व्यक्तिर्लरोः सम्यक् प्रदृश्यते' ॥ ६४ । बिन्दुसर्गात्मनोर्व्यक्तिममसोरजपा वदेत् । कण्ठात्तु निःसरन्सर्गः प्रायोऽचामेकतः परः ॥ ६५ । नश्वर: सर्ग एव स्यात्सोष्मा सप्राणकस्तु हः । स सर्गः श्लेषितः कण्ठे वायुनाकादिमीरयेत् ॥ ६६ ॥ सर्गस्पर्शनमात्रेण कं खरस्पर्शनात्तु खम् । स्तोकगम्भीरसंस्पर्शाद्द्वघौ ङश्च बहिर्गतः ॥ ६७ ॥ ससर्गस्तालुगः सौम्यः शं च वर्गे च यं तथा । ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ६८ ॥ ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् । दन्तोष्ठाभ्यां च वं तत्तत्स्थानगोऽर्णान्समीरयेत् ॥ ६९ ॥ 1. प्रदिश्यते. तृतीय: पटलः । ३५ ह्रस्वाः पञ्च परे च संधिविकृताः पञ्चाथ बिन्द्वन्तिका; काद्याः प्राणहुताशभूकखमया याद्याश्च शार्णान्तिकाः । हान्ताः षक्षळसाः क्रमेण कथिता भूतात्मकास्ते पृथ- क्तैस्तैः पञ्चभिरेव वर्णदशकैः स्युः स्तम्भनाद्याः क्रियाः ॥ ऊदद्गादिलळा: कोर्णसौ चतुर्थार्णकावसौवारः । दृष्ट्चैव द्वितीयरक्षा वह्नेरद्वन्द्वयोनिकादिवर्षाः ॥ ७१ ॥ मरुतः कपोलबिन्दुकपञ्चमवर्णाः शहौ तथा व्योम्नः । मनुषु परेष्वपि मन्त्री करोतु कर्माणि तस्य संसिध्यै ॥ स्तम्भनाद्यमथ पार्थिवैरपा- मक्षरैश्च परिवर्षणादिकम् । दाहशोषणसशून्यतादिका- न्वह्निवायुवियदुत्थितैश्चरेत् ॥ ७३ ॥ दशभिर्दशभिरमीभि- र्नमोऽन्तिकैर्द्वन्द्वशश्च बिन्दुयुतैः । योनेमध्ये कोण- त्रितये मध्ये च संयजेन्मत्री ॥ ७४ ॥ ३६ प्रपञ्चसारे पूर्वोक्ताद्विन्दुमात्रात्स्वयमथ रखतन्मात्रतामभ्युपैता- कारादीन्व्यष्टकादीनपि तदनुगतान्पञ्चविंशत्तथैव । यादीन्संयुक्तधातूनपि गुणसहितैः पञ्चभूतैश्च ताभि- स्तन्मात्राभिर्व्यतीत्य प्रकृतिरथ हसंज्ञा भवेद्व्याप्य विश्वम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे तृतीयः पटलः ॥ चतुर्थः पटलः ॥ अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते । कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ १ ॥ प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः । षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ २ ॥ पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह । करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ३॥ ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो' बुधैः । ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥ ४ ॥ प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः । ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥ ५ ॥ एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् । ईकार षडङ्गेभ्य इतीदं षोडशांशवत् ॥ ६ ॥ येभ्यः संजज्ञिरेंशेभ्यः स्वराः षोडश सर्वगाः । तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ७ ॥ 1. क्रमते. ३८ प्रपञ्चसरे गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः । ब्रह्माण्डं प्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥ ८ ॥ नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते । एष पुंस्त्रीनियमितैर्लिङ्गैश्व सनपुंसकैः ॥ ९ ॥ रेफो मायाबीज मिति त्रिधा समभिधीयते । 'शक्तिः श्रीः संनतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥ १० ॥ क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः । नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥ ११ ॥ तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः । सा रौति सततं देवी भृङ्गी संगीतकध्वनिः ॥ १२ ॥ आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः । कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥ १३ ॥ चराचरस्य जगतो बीजत्वान्मूलमेव तत् । मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥ १४ ॥ रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः । हंकाराख्यो भवांस्तेन हरिरित्येष शब्धते ॥ १५ ॥ 1. सतिश्रीः. चतुर्थः पटलः । हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च । अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥ १६ ॥ स हंकारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता । अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥ १७ ॥ बिन्दुर्दक्षिणभागस्तु वामभागो विसर्गकः । तेन दक्षिणवामाख्यौ भानौ' पुंस्त्रीविशेषितौ ॥ १८ ॥ बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता । पुंप्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥ १९ ॥ पुंरूपं सा विदित्वा स्वं सोऽहं भावमुपागता । स एष परमात्माख्यो मनुरस्य महामनोः ॥ २० ॥ सकारं च हकारं च लोपयित्वा प्रयोजयेत् । संधिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥ २१ ॥ ताराद्विभक्ताश्च्चरमांशतः स्यु- भूतानि खादीन्यथ मध्यमांशात् । इनादितेजांसि च पूर्वभागा- च्छब्दाः समस्ताः प्रभवन्ति लोके ॥ 1. तदन्तोऽसौ हमुच्यते, तदन्तः सोऽहमुच्यते ; ३९ २२ ॥ 2. भागौ ४० प्रपञ्चसरे एवमेषा जगत्सूतिः सवितेत्यभिधीयते । यदा 'तदैति स्वैस्तत्त्वैश्वतुर्विंशतिधा भिदाम् ॥ २३ ॥ तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् । सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥ २४ ॥ तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः । चवर्गप्रभवः काव्यष्टवर्गानुधसंभवः ॥ २५ ॥ तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्वरः । यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥ २६ ॥ यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षडुर्गभेदिताः । तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥ २७ । इति संलीनसूर्याशे वर्गषट् के तु षड्गुणाः । लेखेयं तथा यत्रं स्मर्यते स्मृतिकोविदैः ॥ २८ ॥ सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी । स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥ २९ ॥ अस्यास्तु रजसा चैव तमसा च दिवानिशम् । सत्त्ववष्टब्ध बिन्द्वात्मा मेरुं चरति भास्करः ॥ ३० ॥ 1. मेरुश्चरति. चतुर्थ: पटलः । अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः । लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥ ३१ ॥ ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः । वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥ ३२ ॥ अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् । भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥ ३३॥ आद्यैर्मेषायो राशिरीकारान्तैः प्रजायते । ऋकारान्तैरुकाराद्यैर्वृषो युग्मं ततस्त्रिभिः ॥ ३४ ॥ एदैतोः कर्कटो राशिरोदौतोः सिंहसंभवः । अम: शवर्गलेभ्यश्च संजाता कन्यका मता ॥ ३५ ॥ षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे । ४१ वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥ ३६ ॥ चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः । 'स्यातामर्धाधिके पञ्चनाडिको चापकर्कटौ ॥ ३७ ॥ पादाधिका मकरयुक्सिहवृश्चिकसंज्ञकाः । पादोनो कुम्भ वृषभौ वणिक्कन्ये च पञ्चके ॥ ३८ ॥ 1. स्यातामर्धादिकौ. ४२ प्रपञ्चसारे त्रिपादोनो मीनमेषौ संख्योक्ता राशिसंश्रिता । चापनीरजयुक्वकन्याः पीताः स्युरुभयास्त्वमी ॥ ३९ ॥ वणिकरमेषाकुलीरा रक्तरोचिषः । चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥ ४० ॥ स्युः कर्कटो वृश्चिकमीनराशी विप्रा नृपाः सिंहकधन्वमेषाः । तुला सकुम्भा मिथुनं च वैश्याः कन्या वृषोऽथो मकरश्च शूद्राः ॥ ४१ ॥ अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्तन्यके बौधे कर्कटकाहृयो हिमरुचः सिंहस्तथा गोपतेः । चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ प्रहाः प्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो दर्शितः ॥ लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः । मरणं धर्मकर्मायव्यया द्वादशराशयः ॥ ४३ ॥ ततस्तदूर्ध्वभागस्थो भुवश्चक्रः समस्तथा । स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥ ४४ ॥ चतुर्थः पटलः । तदूर्ध्वभागसंस्थ: स्यात्स्वश्चक्रश्चापि तादृशः । स तु चापादिको देवश्चक्रस्त्रैनाभिकस्त्वयम् ॥ ४५ ॥ धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते । वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥ ४६ ॥ सकुम्भयुग्मवणिजो मीनकर्कट वृश्चिकाः । अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥ ४७ ॥ मूलाश्विनीमघज्येष्ठा रेवत्याश्लेषकास्तथा । याम्यपूर्वानुपूर्वाहिर्बुनिपुष्यानुराधकाः ॥ ४८ ॥ स्वाती शतभिषार्द्रा च श्रोणारोहिणिहस्तकाः । पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥ ४९ ॥ चरस्थिरोभयात्मानश्चातुर्वर्ण्यगुणात्मकाः । राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥ ५० ॥ एभ्य एव तु राशिभ्यो नक्षत्राणां च संभवः । स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥ ५१ ॥ आभ्यामश्वयुर्जाता' भरणी कृत्तिका पुनः । लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥ ५२ ॥ 1. आभ्यामश्वयुजेर्जाता. ४३ ४४ प्रपञ्चसरे एदैतोर्मृगशीर्षाद्रे तदन्ताभ्यां पुनर्वसू । अमसोः केवलो योगो रेवत्यर्थ पृथग्गतः ॥ ५३ ॥ कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः । चतः पूर्वाथ छजयोरुत्तरा झनयोस्तथा ॥ ५४ ॥ हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् । विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥ ५५ ॥ ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा । पूर्वाषाढा भतोऽन्या च संजाता श्रवणो मतः ॥ ५६ ॥ श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः । वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥ ५७ ॥ ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते । तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥ ५८ ॥ कषतो भुवनं मत्तः कषयोः संगमो भवेत् । ततः क्षकारः संजातो नृसिंहस्तस्य देवता ॥ ५९ ॥ स पुनः सहैः सार्धं परप्रोष्ठपदं गतः । कारस्कराख्यामलकोदुंबरो जम्बुसंज्ञकः ॥ ६० ॥ चतुर्थ: पटलः । खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ । पलाशः लक्षकाम्बष्ठबिल्वार्जुनविकङ्कताः ॥ ६१ ॥ वकुलः शबर: सर्जी वञ्जुलः सार्कक I शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥ ६२ ॥ आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन । सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥ ६३ ॥ तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः । तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥ ६४ ॥ अश्वियमानलधाता शशिरुद्रादिति सुरेड्यसपश्च पित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी । मित्रेन्द्रौ निर्ऋतिर्जाले विश्वे देवा हरिस्तथा वसवः वारुणोऽजैकपादहिर्बुनिः पूषा च देवता भानाम् ॥ अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिली ४५ मूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् । व्याघ्रयैणी हरिणी श्ववानरपशुः शाखामृगी स्त्री हयो मर्त्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥ ૪૬ एभ्योऽमावास्यान्ता प्रपञ्चसरे वर्तन्ते प्रतिपदादिकास्तिथयः । राशिभ्योऽथ तिथीना- मध्यर्धयुगं तु राशिरेकं स्यात् ॥ ६७ ॥ तेन विंशतिथयो द्वादशधा वर्णतो भिन्नाः । ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥ ६८ ॥ पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः । तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥ ६९ ॥ ज्ञासाम्ये सत्यपि सौम्यान्तु हासवृद्धितस्तिथयः । न समा; पक्षद्वितये त्रिंशद्भेदास्तथा हि संप्रोक्ताः ॥ ७० ॥ चतुर्थः पटलः । अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा । ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥ ७१ ॥ राशिभ्यः सदिनेभ्यः स- तिथिभ्यः शक्तिजृम्भणसमुत्थानात् । अक्षरभेदविकारा- त्करणान्यपि सप्तभेदकान्यभवन् ॥ ७२ ॥ सिंहव्याघ्रवराहाः खरगजवृषकुकुटाः प्रतिपदधा॑त् । अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥ ७३ ॥ एवं संग्रह राशिक दिनतिथिकरणप्रभेदकाः कथिताः । अस्मात्पश्वविभेदा- द्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥ ७४ ॥ ४७ ४८ वर्णाः पीतश्वेता- प्रपञ्चसारे रुणासितश्यामकास्तथा वाद्याः । इति मूलाक्षरविकृति कथितमिदं वर्णविकृतिबाहुल्यम् ॥ ७५ ॥ सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥ ७६ ॥ यां ज्ञात्वा सकलमपास्य कर्मबन्धं तद्विष्णोः परमपदं प्रयाति लोकः । तामेनां त्रिजगति जन्तुजीवभूतां हृल्लेखां जपत च नित्यमर्चयति ॥ ७७ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे चतुर्थः पटलः ॥ पञ्चमः पटलः ॥ अथ प्रवक्ष्ये विधिवन्मनूनां दीक्षाविधानं जगतो हिताय । येनोपलब्धेन समाप्नुवन्ति सिद्धिं परत्वेह च साधकेशाः ॥ १ ॥ दद्याच्च दिव्यभावं क्षिणुयाद्दुरितान्यतो भवेद्दीक्षा । मननात्तत्त्वपदस्य वायत इति मन्त्र उच्यते भयतः ॥ २ ॥ दैवादिकस्याप्यथ मानुषादेः पैत्रादिकस्याप्यथ वत्सरस्य । आदिं समारभ्य समग्र संप- द्यत्नेन दीक्षाविधिमारभेत ॥ ३ ॥ *P. 4 ५० शुभकर्मणि दीक्षायां प्रपञ्चसारे मण्डपकरणे गृहादिविधिषु तथा । विहितो वास्तुबलिः स्या द्रक्षाविघ्नोपशान्तिसंपद्भयः ॥ ४ ॥ अभवत्पुरा किल वास्तुपुमा- निति विश्रुतो जगदुपद्रवकृत् । चतुरश्रसंस्थितिरसौ निहितो निहतः क्षितौ सुरगणैर्दितिजः ॥ ५ ॥ तद्देहसंस्थिता ये देवास्ते विश्रुतात्रिपञ्चाशत् । मण्डलमध्याद्यर्च्या यथा तथोक्तक्रमेण कध्यन्ते ॥ ६ ॥ कृत्वावनिं समतां चतुरश्रसंस्था- मष्टाष्टकोद्यतपदां च सकोणसूत्राम् । तस्यां चतुष्पदसमन्वितमध्यकोष्ठे ब्रह्मा तु साधकवरेण समर्चनीयः ॥ ७ ॥ 1. निहित, पञ्चमः पटलः । ५१ प्राग्याम्यवारुणोद- ग्दिक्कोष्ठचतुष्पदेषु समभियजेत् । 'आर्याख्यं सविवस्त्र - त्संज्ञं मित्रं महीधरं क्रमशः ॥ ८ ॥ कोणद्वयार्धकोष्ठे- वर्याः सावित्रसवितृशक्राह्वाः । सेन्द्रजयरुद्र तज्जय- सापश्च तथापवत्सकोऽग्न्याद्याः ॥ ९ ॥ अः पार्श्वत्थपद- द्वन्द्वे शर्व गुहार्यमणौ च तथा । जम्भकपिलिपिञ्छाख्यौ चरकिविदार्यौ च पूतनाः प्रोक्ताः ॥ १० ॥ अर्धपदाद्यन्तासु च चतसृषु दिक्षु क्रमेण बहिरयः । वासवयमजलशशिना- मष्टाष्टौ च मन्त्रिणा विधिना ॥ ११ ॥ 1. आर्यकं. ५२ प्रपञ्चसारे ईशानाख्यः स पर्जन्यो जयन्तः शक्रभास्करौ । सत्यो वृषान्तरिक्षौ च देवताः प्रागुदीरिताः ॥ १२ ॥ अग्निः पूषा च वितथो यमश्च प्रहरक्षकः । गन्धर्वो भृङ्गराजश्च मृगो दक्षदिगाश्रिताः ॥ १३ ॥ निर्ऋतिदौवारिकश्चैव सुग्रीवो वरुणस्तथा । पुष्पदन्तासुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥ १४ ॥ वायुर्नागश्च मुख्यश्च सोमो भल्लाट एव च । अर्गलाख्योऽदितिस्तद्वद्दितिः सौम्यदिगाश्रिताः ॥ १५ ॥ इतीरितानामपि देवतानां चित्राणि कृत्वा रजसा पदानि । पयोऽन्धसा साधुबलिविधेयो द्रव्यैश्च वा तन्त्रविशेषसिद्धैः ॥ १६ ॥ भूयोभूमितले समे विरहिते लोमास्थिलोष्टादिभिः कर्तव्यं नवसप्तपञ्चकमितैर्हस्तैः परीणाहतः । युक्तं द्वारचतुष्ककल्पितपयोभूरुट् चतुस्तोरणं दर्भस्रक्परिवीतमुज्ज्वलतलं स्यात्संवृतं मण्डपम् ॥१७॥ पञ्चमः पटल: सप्ताहतो वा नवरात्रतो वा प्रागेव दीक्षादिवसाद्यथावत् । सपालिकापञ्चमुखीशराव- चतुष्टये बीज निवापमुक्तम् ॥ १८ ॥ अन्यस्मिन्भवने सुसंवृततरे शुद्धे स्थले मण्डलं कुर्यात्प्राग्वरुणायतं पदचतुष्को पेतभानूदरम् । पीतारक्तसितासितं प्रतिपदं वचादिशर्वान्तिकं याम्योदीच्यसमायतं प्रणिगदन्त्यन्ये च तन्मन्त्रिणः ॥ वैष्णव्यस्त्वथ पालिका अपि चतुर्विशाङ्गुलोच्छ्रायकाः वैरिञ्च्यो घटिकास्तु पञ्चवदना व्यष्टाङ्गुलोच्छ्रायकाः । शैवा: स्युर्द्विषडङ्गला अपि शरावाह्वा जलक्षालिता: सूत्रैश्च प्रकलय्य पङ्क्तिषु च ताः प्रोक्तक्रमाद्विन्यसेत् ॥ पृथगपि शालीतण्डुल- पूर्णासु सदर्भबद्धकूर्चासु । मृद्वालुकाकरीषैः क्रमेण पूर्णानि तानि पात्राणि ॥ २१ ॥ ५३ ५४ शालीकङ्गश्यामा- प्रपञ्चसरे तिलसर्षपमुद्गमाषनिष्पावाः । खल्वाढकीसमेता बीजानि विदुः प्ररोहयो ग्यानि ॥ २२ ॥ प्रक्षाल्य तानि निवपेदभिमन्त्रय मूल- बीजेन साधकवरस्त्वपि पात्रकेषु । विप्राशिषा च विधिवत्प्रतिपाद्यमान- शङ्खादिमुख्यतरपञ्च महास्वनैश्च ॥ २३ ॥ हारिद्राद्भिः सम्यगभ्युक्ष्य - राच्छाद्याद्भिः सिञ्चतां पश्वघोषैः । सायंप्रातः शर्वरीषु प्रदद्या- दुक्तैर्द्रव्यैस्तद्बलिं साधकेशः ॥ २४ ॥ भूतपितृयक्षनाग - ब्रह्मशिवा देवताश्च विष्ण्वन्ताः । ताभ्यः क्रमेण रात्रिषु सप्तसु वा नवसु बलिर्देयः ॥ २५ ॥ पञ्चमः पटलः । ५५ लाजतिलनक्तरजो दधिसत्वन्नानि भूतकूराख्यम् । पित्र्यं तिलतण्डुलकं सोडुम्बिकधानलाजकं याक्षम् ॥ २६ ॥ केरोदसक्तुपिष्टं नागं पद्माक्षतं च वैरिञ्च्यम् । अन्नापूपं शैवं गुलोदनं वैष्णवं च दुग्धान्नम् ॥ २७ ॥ कुसरं च वैष्णवेयं यदि नवरात्रं क्रमेण बलिरुक्तः । तारादिकैर्नमोऽन्तैः स्वैः स्वैरपि नामभिश्व बलिमन्त्रः ॥ २८ ॥ पात्राणि त्रिविधान्यपि परितः पुनरष्टदिक्षु बलिक्लप्तिः । बीजारोपणकर्म प्रथितमिदं सार्वकामिकं भवति ॥ २९ ॥ ५६ प्रपञ्चसारे प्रागेव लक्षणयुतानि च मण्टपेऽस्मि - कुण्डानि कारयतु सम्यगथो दिशासु । आखण्डलार्कभववारिपभाधिपानां दोर्मात्रकाणि विलसद्गुणमेखलानि ॥ ३० ॥ चतुरश्रमर्धशशिबिम्बविलसितमथ त्रिकोणकम् । पद्मदलरुचिरवृत्तमिति ब्रुवते सुधाविधिषु' कुण्डलक्षणम् ॥ विंशद्भिश्चतुरधिकाभिरङ्गलीभिः सूत्रेणाप्यथ परिसूत्रय भूमिभागम् । ताभिश्च प्रखनतु तावतीभिरेकां त्यक्त्वा चाङ्गुलिमपि मेखला कार्याः ॥ ३२ ॥ सत्त्वपूर्विकगुणान्विताः क्रमा- दादशाष्टचतुरङ्गुलोच्छ्रिताः । सर्वतोऽङ्गुलिचतुष्कविस्तृता मेखलाः सकलसिद्धिदा मताः ॥ ३३ ॥ 1. बुधा विधिषु पञ्चमः पटलः । योनिस्तत्पश्चिमस्यामथ दिशि चतुरश्रस्थलारब्धनाळा तन्मध्योल्लास रन्ध्रोपरिपरि वितताश्वत्थपत्रानुकारा । उत्सेधायामकाभ्यां प्रकृतिविकृतिसंज्ञाङ्गलाष्टाङ्गुला स्या- द्विस्तृत्या द्वादशार्धाङ्गुलमितनमिताम्रा निविष्टेव कुण्डे ॥ अथवा दिशि कुण्डमुत्तरस्यां प्रविदध्याच्चतुरश्रमेकमेव । गदितैरपि लक्षणैः समेता- पघनं दृष्टिमनोहरं च कान्त्या ॥ ३५ ॥ ततो मण्टपमध्ये तु स्थण्डिलं गोमयाम्बुना । उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ॥ ३६ ॥ सूत्रं प्राक् प्रत्यगात्ताग्रं - विप्राशीर्वचनैः सह । गुणितेनाभितो मत्स्यौ मध्यादारभ्य विन्यसेत् ॥ ३७ ॥ तन्मध्य स्थितयाभ्योद्गत्रं सूत्रं निधापयेत् ततो मध्यात्सपद्धस्तमानेन च दिशं प्रति ॥ ३८ ॥ सूत्रेषु मकरान्न्यस्येत्स्पष्टानन्योन्यतः समात्' । सूत्राग्रमकरेभ्यस्तु न्यसेत्कोणेषु मत्स्यकान् ॥ ३९ ॥ 1. प्रत्यगाशा; 2 क्रमात् . ५७ ५८ प्रपञ्चसार कोण मत्स्यस्थिताग्राणि दिक्षु सूत्राणि - पातयेत् । ततो भवेच्चतुष्कोष्ठं चतुरश्रं च मण्डलम् ॥ ४० ॥ तत्राग्निमारुतं सूत्रं नैर्ऋतेशं निपातयेत् । प्राग्याम्यवारुणोदीच्य सूत्राप्रमकरेषु च ॥ ४१ ॥ निहिताप्रयुगं सूत्रं चतुष्कं प्रतिपातयेत् । कृत एवं भवेयुस्ते कोणकोष्ठेषु मत्स्यकाः ॥ ४२ ॥ एषु प्राग्वारुणात्सूत्रान्याभ्योदीच्यां निपातयेत् । षट्पञ्चाशत्पदानि स्युरधिकानि शतद्वयात् ॥ ४३ ॥ यदा तदाजो विभजेत्पदानि क्रमशः सुधीः । पदैः षोडशभिर्मध्ये पद्मं वृत्तत्रयान्वितम् ॥ ४४ ॥ तैरष्टचत्वारिंशद्धी राशिः स्याद्वीथ्यशीतिभिः ॥ सद्वादशैः शतपदैः शोभायुग्द्वारकोणकम् ॥ ४५ ॥ द्वाराणि पदषट्काणि शोभाख्याः स्युश्चतुष्पदाः । चतुष्पदाश्चोपशोभाः षट्पदं कोणकं भवेत् ॥ ४६ ॥ वृत्तवीथ्योरारचयेन्मध्ये सूत्रचतुष्टयम् । । प्राग्याम्यवारुणोदीच्यसूत्राप्रमकरेषु च ॥ ४७ ॥ 1. सूत्रान्निपातयेत् ; 2. निहतं च युगं सूत्रचतुष्कं 3. तथो. पञ्चमः पटलः । निहिताप्रयुगं सूत्रं तद्भवेद्राशिमण्डलम् । कर्णिकायाः केसराणां दलसंधेर्दलस्य च ॥ ४८ ॥ दलाप्रवृत्तराशीनां वीध्याः शोभोपशोभयोः । वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ ४९ ॥ भवेन्मण्डलमध्यार्धे कर्णिका चतुरङ्गुला । त्र्यङ्गुलाः केसराच स्युः संधिश्च चतुरङ्गुला ॥ ५० ॥ तथा दलानां मानं तदप्रद्व्यङ्गुलकं भवेत् । अन्तरालं पृथग्वृत्तत्रयस्य व्यङ्गुलं भवेत् ॥ ५१ ॥ ततश्च राशिचक्रं स्यात्स्वं स्वं वर्णविभूषितम् । राशिमङ्गलकैः कुर्यात्पभिर्नवभिरेव वा ॥ ५२ । द्वात्रिंशदङ्गुलं ह्येतत्परस्तात्तावदिष्यते । वृत्तचक्रमुशन्त्येके चतुरनं च तद्विदः ॥ ५३ ॥ यदि वा वर्तुलमराः स्युश्च द्वादशराशयः । ते स्युः पिपीलिकामध्या मातुलङ्गनिभा अपि ॥ ५४ ॥ चक्रं च चतुरश्रं च त्र्यश्रा द्वादशराशयः । भवेयुः पङ्कजदलनिभा वा कथिता बुधैः ॥ ५५ ॥ ५९ 1. निहताप्रयुतं ; 2. पृथग्वृत्ते त्रयस्य ; 3. षड्भिरष्टाभिरेव वा. ६० प्रपञ्चसारे तद्वही रुचिरान्कुर्याच्चतुरान्कल्पशाखिनः । ललितान्रूढकुसुमान्फलपल्लवशोभितान् ॥ ५६ ॥ जलजैः स्थलजैर्वापि सुमनोभिः समन्वितान् । हंससारसकारण्डशुकभ्रमरकोकिलैः ॥ ५७ ॥ मयूरचक्रवाकाद्यैरारूढविटपानतान् । 'सर्वर्तु निष्कृतिकरान्विलोचनमनोहरान् ॥ ५८ ॥ तद्बहिः पार्थिवं कुर्यान्मण्डलं कृष्णकोणकम् । मण्डलानि तु तत्त्वज्ञो राश्यन्तान्येव कारयेत् ॥ ५९ ॥ राशेरन्यत्र रचयेत्प्रमोहादन्यमण्डलम् । आवाह्य देवतामन्यामर्चयेदन्यदेवताम् ॥ ६० ॥ उभाभ्यां लभते शापं मन्त्री तरलदुर्मतिः । कालात्मकस्य देवस्य राशिव्याप्तिमजानता ॥ ६१ ॥ कृतं समस्तं व्यर्थं स्यादज्ञेन ज्ञानमानिना । तस्मात्सर्वप्रयत्नेन राशीन्साधिपतीन्क्रमात् ॥ ६२ ॥ अवगम्यानुरूपाणि 'मण्डलानि च मान्यधीः । उपक्रमेदर्चयितुं होतुं वा सर्वदेवताः ॥ ६३ ॥ 1. सर्वर्तुनिर्वृतिकरान् ; 2. मण्डलानिव. पञ्चमः पटलः । रजांसि पञ्चवर्णानि पञ्चद्रव्यात्मकानि च । पीत शुक्लारुणशितिश्यामान्येतानि भूतशः ॥ ६४ ॥ हारिद्रं स्याद्रजः पीतं तण्डुलं च सितं भवेत् । तथा दोषा रजः क्षारसंयुक्तं रक्तमुच्यते ॥ ६५ ॥ कृष्णं दग्धपुलाकोत्थं श्यामं बिल्वदलादिजम् । सितेन रजसा कार्याः सीमा रेखा विपश्चिता ॥ ६६ ॥ अङ्गुलोत्सेधविस्तारा: ' सर्वमण्डलकर्मसु । पीताः स्यात्कर्णिका रक्तशुक्कुपीताश्व केसराः ॥ ६७ ॥ दलान्यच्छान्यन्तरालं श्यामचूर्णेन पूरयेत्' । सितरक्तासितैर्वर्णैर्वृत्तत्त्रयमुदीरितम् ॥ ६८ ॥ ६१ द्वारशोभोपशोभाश्राः सितरक्तनिशासिताः ॥ ६९ ॥ नानावर्णविचिता स्युश्चित्राकाराश्च वीथयः । राशिचक्रावशिष्टानि कोणानि शृणु यानि वै पीठपादानि तानि स्युररुणान्यपि तानि वा । 1 तत्तत्पादोक्तवर्णानि तत्तदाकारवन्ति वा ॥ ७० ॥ 1. अङ्गुलोत्सेधविटपाः ; 2. श्यामं चूर्णेन पूरयेत्; श्यामचूर्णेन कारयेत् . ६२ प्रपञ्चसारे अथवारुणानि च दलानि तथा दलसंधिरप्यसितरुग्भवति' । असितारुणाच्छरजसा विहितान्यपि वर्तुलानि कथयन्त्यपरे ॥ ७१ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे पञ्चमः पटलः ॥ 1. दलसंधिरप्यसितयुग्भवति. षष्ठः पटलः ॥ अथ पुनराचम्य गुरुः प्राग्वदनो विष्टरोपविष्टः सन् । प्राणायामं सलिपिन्यासं कृत्वा न्यसेत्तदृष्यादीन् ॥ १ ॥ ऋषिर्गुरुत्वाच्छिरसैव धार्य- श्छन्दोऽक्षरत्वाद्रसनागतं स्यात् । धियावगन्तव्यतया सदैव हृदि प्रदिष्टा मनुदेवता च ॥ २ ॥ ऋषिवर्णादिकौ धातू स्तो गत्या प्रापणेन च । यात्याभ्यां यत्स्वरूपं स गुरुः स्यादृषिवाचकः ॥ ३ ॥ इच्छादानार्थकौ धातू स्तश्छदाद्यश्च दादिकः । तयोरिच्छां ददातीति छन्दो मन्त्रार्णवाचकम् ॥ ४ ॥ आत्मनो देवताभावप्रधानाद्देवतेति च । पदं समस्तमन्त्रेषु विद्वद्भिः समुदीरितम् ॥ ५ ॥ ६४ प्रपञ्चसरे हृदयशिरसोः शिखायां कवचाक्ष्यस्त्रेषु सह चतुर्थीषु । नत्याहुत्या च वषड्ढुं वौषट्फट्पदैः षडङ्गविधिः ॥ ६॥ हृदयं बुद्धिगम्यत्वात्प्रणामः स्यान्नमः पदम् । क्रियते हृदयेनातो बुद्धिगम्यनमस्क्रिया ॥ ७ ॥ तुङ्गार्थत्वाच्छिरः स्वे स्वे विषयाहरणे द्विठः । शिरोमन्त्रेण चोत्तुङ्गविषयाहृतिरीरिता ॥ ८ ॥ 'शिखादेशसमुद्दिष्टा वषडित्यङ्गमुच्यते । तत्तेजोऽस्य तनुः प्रोक्ता शिखामन्त्रेण मन्त्रिणः ॥ ९ ॥ 2 कचग्रहण इत्यस्माद्धातोः कवचसंभवः । हु॑तेजस्तेजसां देहो गृह्यते कवचं ततः ॥ १० ॥ नेत्रदृष्टिः समुद्दिष्टा वौषड् दर्शनमुच्यते । दर्शनं दृशि येन स्यात्तत्तेजो नेत्रवाचकम् ॥ ११ ॥ असुत्रसादिकौ धातू स्तः क्षेपचलनार्थकौ । ताभ्यामनिष्टमाक्षिप्य चालयेत्फट्पदाग्निना ॥ १२ ॥ प्रोक्तानीत्यङ्गमन्त्राणि सर्वमन्त्रेषु सूरिभिः । पञ्चैव यस्य मन्त्रस्य भवन्त्यङ्गानि मन्त्रिणः ॥ १३ ॥ 1. शिखातेजः समुद्दिष्टा ; 2. कवग्रहण. षष्ठः पटलः । सर्वेष्वपि च ' मन्त्रेषु नेत्र लोपो विधीयते । , अङ्गुलीषु क्रमादङ्गैरङ्गुष्ठादिषु विन्यसेत् ॥ १४ ॥ कनिष्ठान्तासु तद्वाह्यतलयोः करयोः सुधीः । अस्त्रेण तालत्रितयं कृत्वा तेनैव बन्धयेत् ॥ १५ ॥ दिशो दश क्रमादङ्गषट्कं वा पञ्चकं न्यसेत् । जपारम्भे मनूनां तु सामान्येयं प्रकल्पना ॥ १६ ॥ शङ्कं सगन्धपुष्पाक्षततोयं वामतः प्रविन्यस्य । साङ्गं मन्त्रं पूजामूर्तेर्न्यस्येद्गुरूपदेशेन ॥ १७ ॥ ६५ न्यस्येश्च दक्षभागे सुमनः पात्रं तथाभितो दीपान् । अन्यत्साधनमखिलं पुरतो गन्धाक्षतादिकं मन्त्री ॥ १८ ॥ प्रथमं निजसव्यतो यथाव- त्प्रयजेद्देवमयान्महागुरून्स्वान् । गणनाथमन्यतश्च पाशा- ङ्कुशदन्ताभयहस्तमुज्ज्वलाङ्गम् ॥ १९ ॥ रक्तं धर्मे वृषतनुमथानौ हरिं श्यामवर्ण ज्ञानं रक्षो दिशि मरुति पीतं च वैराग्यसंज्ञम् । 1. तन्त्रेषु. *P.5 ६६ 1. प्रपञ्चसारे भूताकारं द्विरदतनुमैश्वर्यमीशे च कृष्णं नपूर्वैस्तैर्यजतु दिशि चित्राणि गात्राणि पीठे ॥ २० ॥ मध्येऽनन्तं पद्ममस्मिंश्च सूर्य सोमं वा तारवणैर्विभक्तैः । सत्त्वादींश्च त्रीन्गुणानात्मयुक्ता- शक्तिः किंजल्केषु मध्ये यजेच्च ॥ २१ ॥ श्वेता कृष्णा रक्ता पीता श्यामानलोपमा' शुक्ला । अञ्जनजपासमाने तेजोरूपाश्च शक्तयः प्रोक्ताः ॥ २२ ॥ विन्यस्य कर्णिकोपरि शाली- स्तदुपरि च तण्डुलानि तथा । तेषामुपरि च दर्भा- पूर्वोपरि कूर्च मक्षतोपेतम् ॥ २३ ॥ त्रिगुणेन च तन्तुरूपभाजा .. परितोऽसौ परिवेष्टितं यथावत् । .नवोपमा. षष्ठः पटलः । ६७ लघुना लघुघूपितं च कूर्चे परिकुम्भं निधातु तारजापी ॥ २४ ॥ न्य दर्भमयं कूर्चमक्षता- द्यायुतं सनवरत्नकं घटे । पूरयेत्सह कषादिकान्तगै- रक्षरौषधिविपाचितैर्जलैः ॥ २५ ॥ अथवा दशमूलपुष्पदुग्धा- ॥ पिचर्मोत्कथितैः कषायतोयैः । स्तनजद्रुमचर्मसाधितैर्वा सलिलैः संयतधीः शुभोदकैर्वा ॥ २६ ॥ शङ्खे कषायोदकपूरिते च विलोड्य सम्यग्विधिना सगन्धम् । कला : समावाह्य विनिक्षिपेत्त- त्काथोदकापूर्णमुखे च कुम्भे ॥ २७ ॥ त्रिविधं गन्धाष्टकमपि शाक्यं वैष्णवं च शैवमिति । ६८ गन्धाष्टकेन शक्तिः 1 प्रपञ्चसरे स्यात्कलशे मन्त्रिणा कृतेऽनन्ता ॥ २८ ॥ चन्दनकर्पूरागरु- कुङ्कुमकपिमांसिरोचनाचोराः । गन्धाष्टकमपि शक्तेः सांनिध्यकरं च लोकरञ्जनकृत् ॥ २९ ॥ चन्दनहीबेरागरु- कुष्ठासृगुशीरमां सिमुरमपरम् । चन्दनकर्पूरागरु- दलरुधिरकुशीतरोगजलमपरम् ॥ ३० ॥ अष्टत्रिंशत्प्रभेदेन याः कलाः प्रागुदीरिताः । गुरूपदेशक्रमतस्ता विद्वान्विनियोजयेत् ॥ ३१ ॥ याः पञ्चाशत्कलास्तारपञ्च भेदसमुत्थिताः । पञ्चपञ्चकसंभिन्ना विदुस्तास्तत्त्ववेदिनः ॥ ३२ ॥ सप्तात्मकस्य तारस्य परौ द्वौ तु वरौ यतः । ततस्तु शक्तिशान्ताख्यौ न पठ्यते परैः सह ॥ ३३ ॥ 1. ... रोगजमपरम् । षष्ठः पटलः । ६९ प्रथमप्रकृतेईसः प्रतद्विष्णुरनन्तरः । त्रियम्बकस्तृतीयः स्याच्चतुर्थस्तत्पदादिकः ॥ ३४ ॥ विष्णुर्योनिमथेत्यादिः पञ्चमः कल्प्यतां मनुः । चतुर्नवतिमन्त्रात्मदेवमावाह्य' पूर्यताम् ॥ ३५ ॥ अत्र याः पञ्च संप्रोक्ता ऋचस्तारस्य पञ्चभिः । कलाप्रभेदैश्व मिथो युज्यन्ते ताः पृथक्रमात् ॥ ३६ ॥ कुर्यात्प्राणप्रतिष्ठां च तत्र तत्र समाहितः । प्राणप्रतिष्ठामन्त्रेण पुनस्तोयं कलात्मकम् । उच्चारयन्मूलमन्त्रं कलशे संनिधापयेत् ॥ ३७ ॥ अश्वत्थचूतपनस- स्तबकैः सुबामवल्लरीयुक्तः । सुरतरुधिया पिधाय कुम्भमुखं वेष्टयीत वासोभ्याम् ॥ ३८ ॥ पुनस्तोयगतं देवं साध्यमत्रानुरूपतः । सकलीकृत्य च गुरुरुपचारान्समाचरेत् ॥ ३९ । 1. ...देवतावाह्य. प्रपञ्चसारे आसन स्वागते सार्घ्यपाद्ये साचमनीयके । मधुपर्काचमस्नानवसनाभरणानि च ॥ ४० ॥ सुगन्धसुमनोधूपदीपनैवेद्यवन्दनान् । प्रयोजयेदर्चनायामुपचारांस्तु षोडश ॥ ४१ ॥ अर्घ्यपाद्याचमनकमधुपर्काचमान्यपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ ४२ ॥ गन्धादयो निवेद्यान्ता पूजा पश्चोपचारिक । पर्यात्रिविधाः प्रोक्तास्तासामेकां समाश्रयेत् ॥ ४३ ॥ गन्धपुष्पाक्षतयवकुशाप्रतिलसर्षपाः । दूर्वा चेति क्रमादर्घ्यद्रव्याष्टकमुदीरितम् ॥ ४४ ॥ पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते । जातीलवङ्गतक्कोलैर्मतमाचमनीयकम् ॥ ४५ ॥ मधुपर्कच सक्षौद्रं दधि प्रोक्तं मनीषिभिः । शुद्धाभिरद्भिर्विहितं पुनराचमनीयकम् ॥ ४६ ॥ चन्दनागरुकर्पूरपङ्कं गन्धमिहोच्यते । अथवा लघुकाश्मीरपटीरमृगनाभिजम् ॥ ४७ ॥ षष्ठः पटलः । तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ । शस्तानि दश पुष्पाणि तथा रक्तोत्पलानि च ॥ ४८ ॥ उत्पलानि च नीलानि कुमुदानि च मालती । मल्लिकाकुन्दमन्दारनन्द्यावर्तादिकानि च ॥ ४९ ॥ पलाशपाटलीपार्थपारन्यावर्तकानि च । चम्पकानि सनागानि रक्तमन्दारकानि च ॥ ५० ॥ अशोकोद्भवबिल्वाब्जकर्णिकारोद्भवानि च । सुगन्धीनि सुरूपाणि स्वागमोक्तानि यानि वै ॥ ५१ ॥ मुकुलैः पतितैम्लनैर्जीव जन्तुदूषितैः । आघ्रातैरङ्गसंस्पृष्टैरुषितैश्चापि नार्चयेत् ॥ ५२ ॥ सगुग्गुल्वगरूशीरसिताज्य मधुचन्दनैः । साराङ्गारविनिक्षिप्तैर्मन्त्री नीचैः प्रधूपयेत् ॥ ५३ ॥ गोसर्पिषा वा तैलेन वर्त्या च लघुगर्भया । दीपितं सुरभिं शुद्धं दीपमुच्चैः प्रदापयेत् ॥ ५४ ॥ सुसितेन सुशुद्धेन पायसेन सुसर्पिषा । सितोपदंशकदलीदध्याद्यैव निवेदयेत् ॥ ५५ ॥ 1. .. संस्पृष्टैः पर्युषितैश्च ; 2. यायतेन. ७२ प्रपञ्चसारे वर्णैर्मनुप्रपुटितैः क्रमशः शतार्थै- यसक्रमादभियजेत्सकलासु मन्त्री । गन्धादिभिः प्रथमतो मनुदेवतासु त्रैलोक्यमोहनमिति प्रथितः प्रयोगः ॥ ५६ ॥ हृदयं सशिरस्तथा शिखाथो कवचं चेत्यनलादिकाश्रिषु । पुरतो नयनं दिशां क्रमात्स्या- त्पुनरस्त्रं च समर्पयेत्क्रमात् ॥ ५७ ॥ हारस्फटिककलाया- 'जनपिङ्गलवहिरोचिषो ललनाः अभयवरोद्यतहस्ताः "प्रधानतनवोऽङ्गदेवताः कथिताः ॥ ५८ ॥ आदावङ्गावरणं सकलविधानेषु पूजनीयं स्यात् । अन्ते च लोकपाला- वृतिरथ कुलिशादिकान्तं वा ॥ ५९ ॥ षष्ठः पटलः । ७३ इन्द्रानियमनिशाचर- । ..वरुणानिलशशिशिवाहिपतिविधयः । जात्यधिपतिवाहन- परिवारान्ताः क्रमेण यष्टव्याः ॥ ६० ॥ पीतः पिङ्गः कृष्णो धूमः शुक्रुश्च धूम्रसितशुक्काः । काशारुणाम्बुजाभा लोकेशा वासवादयः प्रोक्ताः ॥ ६१ ॥ वज्रः सशक्तिदण्ड: खड्गः पाशाङ्कुशौ गदाशूले । रथचरणनलिनसंज्ञे प्रोक्तान्यस्त्राणि लोकपालानाम् ॥ ६२ ॥ पीतहिमजलदगगना- "चिरप्रभारक्त कुन्दनीलरुचः । 'करवन्दारुणवर्णाः प्रोक्ताः स्युर्वर्णतोऽपि वज्राद्याः ॥ ६३ ॥ 1. अरविन्दारुण... ७४ प्रपञ्चसारे कृते निवेद्ये च ततो मण्डलं परितः क्रमात् । मङ्गलाङ्कुरपत्राणि स्थापनीयानि मन्त्रिणा ॥ ६४ ॥ उपलिप्य कुण्डमत्र स्वचरणयोग्या विलिख्य रेखाश्च । अभ्युक्ष्य प्रणव जपेन' प्रकल्पयेद्योगविष्टरं मन्त्री ॥ ६५ ॥ अथवा षट्कोणावृत- त्रिकोणके गुरुजनोपदेशेन । प्राणाग्निहोत्रविधिना- प्यावसथीयाह्वयेऽनलस्थाने ॥ ६६ ॥ 'तत्राथ सहतुमतीमथेन्द्रियाभां स्मृत्वा तां सकलजगन्मयीं च शक्तिम् । तद्योनौ मणिभवमारणेयकं वा तारेण क्षिपतु गृहोत्थमेव वाग्निम् ॥ ६७ ॥ चित्पिङ्गलपदमुक्त्वा हनदहपचयुग्मकानि सर्वज्ञम् । 1. प्रणवजलेन. आज्ञापयाभिजाये षष्ठः पटल: प्रभाष्य मनुनानलं ज्वलयेत् ॥ ६८ ॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ ६९ ॥ अनेन ज्वलितं मन्त्रेणोपतिष्ठेद्धुताशनम् । ततः प्रविन्यसेहे जिह्वामन्त्रैर्विभावसोः ॥ ७० ॥ सलिङ्गगुदमूर्धास्यनासानेत्रेषु च क्रमात् । सर्वाङ्गेषु च जिह्वाश्च वक्ष्यन्ते त्रिविधात्मकाः ॥ ७१ ॥ हिरण्या गगना रक्ता कृष्णा चैव तु सुप्रभा । बहुरूपातिरक्ता च जिह्वाः सप्तेति सान्त्रिकाः ॥ ७२ ॥ पद्मरागा सुवर्णा च तृतीया भद्रलोहिता । लोहिताख्या तथा श्वेता धूम्रिणी सकरालिका ॥ ७३ ॥ राजस्यः कथिता ह्येताः क्रमात्कल्याणरेतसः । विश्वमूर्तिस्फुलिङ्गिन्यो धूम्रवर्णा मनोजवा ॥ ७४ ॥ लोहिता च करालाख्या काली तामसजिह्निका । अनलेराधिबिन्द्वन्तसादिवान्ताक्षरान्विताः ॥ ७५ ॥ ७५ ७६ " प्रपञ्चसारे सात्त्विक्यो दिव्यपूजासु राजस्यः काम्यकर्मसु । तामस्यः क्रूरकार्येषु प्रयोक्तव्या विपश्चिता ॥ ७६ । सुराः सपितृगन्धर्वयक्षनागपिशाचिकाः । राक्षसाश्च क्रमादमेराश्रिता रसनास्वमी ॥ ७७ ॥ जिह्वासु त्रिदशादीनां तत्तत्कार्य समाप्तये । जुहुयाद्वाञ्छितां सिद्धिं दद्युस्ता देवतामयाः ॥ ७८ ॥ स्वनामसदृशाकाराः प्रायो जिह्वा हविर्भुजः । मन्त्री प्रविन्यसेद्भूयो वह्नेरङ्गानि वै क्रमात् ॥ ७९ ॥ सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस्तथा । धूमव्यापी सप्तजिह्रो धनुर्धर इतीरिताः ॥ ८० ॥ अङ्गमन्त्राः क्रमादष्टमूर्तिश्चाथ प्रविन्यसेत् । मूसपार्श्वकट्यन्धुकटिपावकेषु च ॥ ८१ ॥ प्रादक्षिण्येन विन्यस्येद्यथावद्देशिकोत्तमः । जातवेदाः सप्तजिह्वो हव्यवाहन एव च ॥ ८२ ॥ अश्वोदरजसंज्ञश्च स वैश्वानर एव च । कौमारतेजाश्च तथा 'विश्वेदेवमुखायौ ॥ ८३ ॥ 1. विश्वदेवमुखायौ. षष्ठः पटलः । स्रष्टमूर्तयो वरमये पदपूर्विकाः । प्रणवादिनमोऽन्ताश्च पुनर्दर्भचतुष्टयैः ॥ ८४ ॥ दिक्क्रमात्संपरिस्तीर्य सम्यग्गन्धादिभिर्यजेत् । मध्येच कोणषट्के च जिह्वाभिः केसरेषु च ॥ ८५ ॥ अङ्गमन्त्रैस्ततो बाह्ये अष्टाभिर्मूर्तिभिः क्रमात् । ततोऽग्निमनुनानेन मन्त्री मध्ये च संयजेत् ॥ ८६ ॥ वैश्वानरं जातवेदमुक्त्वा चेहावहेति च । लोहिताक्षपदं सर्वकर्माणीति समीरयेत् । ब्रूयाच्च साधयेत्यन्ते वह्निजायान्तिको मनुः ॥ ८७ ॥ त्रिणयनमरुणप्ताबद्धमौलिं सुशुक्लां- शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालंकृतांसं कृशानुम् ॥ ८८ ॥ जिह्वा ज्वालारुचः प्रोक्ता वराभययुतानि च । अङ्गानि मूर्तयः शक्तिस्वस्तिकोद्यतदोर्द्वयाः ॥ ८९ ॥ संस्कृतेन घृतेनाभिद्योतनोद्योतितेन च । व्याहृत्यनन्तरं तेन जुहुयान्मनुना त्रिशः ॥ ९० ॥ 1. अभिद्योतितोद्योतितेन. ७८ प्रपञ्चसरे गर्भाधानादिका वह्नेः समुद्वाहावसानिका: । क्रियास्तारेण वै कुर्यादाज्याहुत्यष्टकैः पृथक् ॥ ९९ ॥ जिह्वाङ्गमूर्तिमनुभिरेकावृत्या हुनेत्तथा । जिह्वायां मध्यसंस्थायां मन्त्री ज्वालावली तनौ ॥ ९२ ॥ 'ताराद्यैर्दशभिर्भेदैः पूर्वैः पूर्वैः समन्वितः । मनुना गाणपत्येन 'हुनेत्पूर्व दशाहुतीः ॥ ९३ ॥ जुहुयाच्च चतुर्वारं समस्तेनैव तेन तु । आज्येन संध्यमनुना पञ्चविंशतिसंख्यकम् ॥ ९४ ॥ जुहुयात्सर्वहोमेषु सुधीरनलतृप्तये । तान्त्रिकाणामयं न्यायो हुतानां समुदीरितः ॥ ९५ ॥ पुनः साध्येन मनुना हुनेदष्टसहस्रकम् । अथवाष्टशतं सर्पिः संयुक्तेन पयोन्धसा ॥ ९६ ॥ द्रव्यैर्विधानप्रोक्तैर्वा महाव्याहृतिपश्चिमम् । पुनः समापयेद्धमं परिषेकावसानिकम् ॥ ९७ ॥ भूर्भुवःस्वर्भूर्भुवस्वः पूर्वं स्वाहान्तमेव च । अग्नये च पृथिव्यै च महते च समन्वितम् ॥ ९८ ॥ 1. ताराभिर्दशभिः प्रोक्तैः ; 2. जुहुयात्; 8. जुहुयात्सर्वधर्मेषु. षष्ठः पटलः । वायवे चान्तरिक्षाय महते च समन्वितम् । आदित्याय च दिवे च महते च समन्वितम् ॥ ९९ ॥ चन्द्रमसे च दिग्भ्यश्च महते च समन्वितम् । महाव्याहृतयस्त्वेताः सर्वशो देवतामयाः ॥ १०० ॥ ब्रह्मार्पणाख्यमनुना पुनरष्टावथाहुतीः । जुहुयान्मन्त्रवर्येण कर्मबन्धविमुक्तये ॥ १०१ ॥ इतः पूर्व प्राणबुद्धिदेहधर्माधिकारतः । जाग्रत्स्वप्नसुषुप्तीनामन्तेऽवस्थास्थितीरयेत् ॥ १०२ ॥ ततश्च मनसा वाचा कर्मणेति प्रभाषयेत् । हस्ताभ्यां च तथा पद्भ्यामुदरेण तु भाषयेत् ॥ १०३ ॥ शिश्ना च यत्कृतं प्रोक्त्वा यदुक्तं यत्स्मृतं तथा । तत्सर्वमिति संभाष्य ब्रह्मार्पणपदं वदेत् ॥ १०४ ॥ भवत्वन्ते द्विठश्चायं ब्रह्मार्पणमनुर्मतः । हुते तु देशिकः पश्चान्मण्डले बलिमारभेत् ॥ १०५ ॥ नक्षत्राणां सराशीनां सवाराणां यथाक्रमम् । दद्याद्वलिं गन्धपुष्पधूपपूर्वकमादरात् ॥ १०६ ॥ ८०. प्रपञ्चसारे. ताराणामश्विनादीनां राशीः पादाधिकद्वयम् । मेषादिमुक्त्वा नक्षत्रसंज्ञां पूर्वमनन्तरम् ॥ १०७ ॥ देवताभ्यः पदं प्रोक्त्वा दिवानक्तपदं तथा । चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ॥ १०८ ॥ एवं राशौ तु संपूर्णे तस्मिंस्तद्वत्प्रयोजयेत् । तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ॥ १०९ ॥ सप्तानां करणानां च दद्यान्मीनाहुमेषयोः । अन्तराले बलिस्त्वेवं संप्रोक्तः कलशात्मकः ॥ ११० ॥ पुनर्निवेद्यमुद्धृत्य पुरोवत्परिपूज्य च । मुखवासादिकं दत्त्वा स्तुत्या तद्युक्तया पुनः । स्तुत्वा यथावत्प्रणमेद्भक्तियुक्तस्तु साधकः ॥ १११ ॥ दोर्भ्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा । 1 वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ ११२ ॥ बाहुभ्यां च सजानुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात्पूजासु प्रवराविमौ ॥ ११३ ॥ गुर्वाद्यास्तारादिका यागमन्त्रा लोकेशान्तास्ते चतुर्थीनमोऽन्ताः । षष्ठः पटलः । ८१ 'पूजायामप्यग्निकार्ये द्विठान्ता बीजैः पूजा स्वाद्विभक्त्या वियुक्तैः ॥ ११४ ॥ वाससी च पुनरङ्गुलिभूषां होमकृत्सु मुखजप्रवरेषु । ईश्वरार्पणमिति प्रतिदत्त्वा वर्धितो द्विजमुखेरितवाग्भिः ॥ ११५ ॥ नवा ततस्तनुभृते परमात्मने स्वं द्रव्यार्धमेव गुरवे चतुरंशकं वा । दत्त्वा दशांशमथवापि च वित्तशाठ्यं हित्वापयेन्निजतनुं तदधीनचेताः ॥ ११६ ॥ अथ पटुरवमुख्यवायघोषै- द्विजमुखनिष्पतदाशिषां रवेण । सुनियतमपि सुस्थितं च शिष्यं कलशजलैरभिषेचयेद्यथावत् ॥ ११७ ॥ यथा पुरा पूरितमक्षरैर्घटैः सुधामयैः शिष्यतनौ तथैव तैः । *P. 6 ८२ प्रपञ्चसारे प्रपूरयन्मन्त्रिवरोऽभिषेचये- दवाप्तये मङ्क्षु यथेष्टसंपदाम् ॥ ११८ ॥ विमले परिधाय वाससी पुनराचम्य गुरुं प्रणम्य च । निकटे समुपासतो वदे- दथ शिष्यस्य मनुं त्रिशो गुरुः ॥ ११९ ॥ गुरुणा समनुगृहीतं मन्त्रं सद्यो जपेच्छतावृत्त्या । गुरुदेवतामनूना- मैक्यं संभावयन्धिया शिष्यः ॥ १२० ॥ मन्त्रे मन्त्रगुरावपि मन्त्री मन्त्रस्य देवतायां च । त्रिषु विहितसततभक्ति: प्रेत्येह निजेप्सितं फलं लभते ॥ १२१ ॥ संक्षेपादिति गदिता हिताय दीक्षा जणां प्रवरफलप्रदा चिराय । षष्ठः पटलः । ८३ प्राप्यैनां जपविधिरादरेण कार्यों विद्वद्भिः सहुतविधि निजेष्टसिद्ध्यै ॥ १२२ ॥ . प्रोक्तेनैवं कलशविधिनैकेन वानेककुम्भै- भक्त्या यो वा सुमतिरभिषिचेन्नरो मन्त्रजापी । कामान्प्राप्नोत्ययमिह परत्रापि किं तत्र चित्रं लोकैश्चिन्त्यो न खलु मणिमन्वौषधीनां प्रभावः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे षष्ठः पटलः ॥ सप्तमः पटलः ॥ अथाक्षराणामधिदेवतायाः समस्तबोधस्थितिदीपिकायाः । अशेषदुःखप्रशमाय नृणां वक्ष्येऽजपादेः प्रवरं विधानम् ॥ १ ॥ ब्रह्मा स्यादृषिरीरितः सुमतिभिर्गायत्रमुक्तं च त- च्छन्दस्त्वेऽपि सरस्वती निगदिता तन्त्रेषु तद्देवता । आद्यन्तस्वरषट्कलघ्वपरयोरन्तस्थितैः कादिभि- वर्गेर्यान्तगतैः क्रमेण कथितान्यस्याः षडङ्गानि च ॥२॥ पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षो- देशां' भास्वत्कपर्दाकलित शशिकला मिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था- मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥३॥ 1. देहां. काननवृत्तद्वयक्षि सप्तमः पटलः । श्रुतिनोगण्डोष्ठदन्तमूर्धास्ये । दोः पत्संध्यग्रेषु च पार्श्वद्वयपृष्ठनाभिजठरेषु ॥ ४ ॥ हृद्दोर्मूलापरगल- कक्षेषु हृदादिपाणिपादयुगे । जठराननयोर्व्यापक- संज्ञा न्यस्येदथाक्षरान्क्रमशः ॥ ५ ॥ संदीक्षितो विमलधीर्गुरुणानुशिष्टो लक्षं न्यसेत्सुनियतः प्रजपेञ्च तावत् । अन्ते हुतं प्रतिहुनेन्मधुरत्रयाक्तैः शुद्धैस्तिलैरभियजेद्दिनशोऽक्षरेशीम् ॥ ६ ॥ व्योमाविः स चतुर्दशस्वरविसर्गार्णस्फुरत्कर्णिकं किञ्जल्कालिखितस्वरं प्रतिदलप्रारब्धवर्गाष्टकम् । क्ष्माबिम्बेन च सप्तमार्णवयुजाश्राशासु संवेष्टितं ८५ वर्णाब्जं शिरसि स्मृतं विषगदप्रध्वंसि मृत्युंजयम् ॥ ७ ॥ ८६ प्रपञ्चसारे प्रविधाय पद्ममिति पीठमथो कथितक्रमेण विधिनाभियजेत् । नवभिश्च शक्तिभिरमुत्र समा- वरणैः समर्चयतु वर्णतनुम् ॥ ८ ॥ मेधा प्रज्ञा प्रभा विद्या श्रीर्धृतिस्मृतिबुद्धयः । विद्येश्वरीति संप्रोक्ता भारत्या नव शक्तयः ॥ ९ ॥ अङ्गान्यादौ तदनु च कलायुग्मशश्चाष्टवर्गा- न्ब्रह्माण्यादीञ्छतमखमुखानप्यथो लोकपालान् । मुख्यैर्ग्रन्थैः प्रवरकुसुमैर्धूपदीपैर्निवेद्यै- वर्णाापी यजतु दिनशो भारतीं भक्तिनम्रः ॥ १० ॥ ब्रह्माणी माहेशी कौमारी वैष्णवी च वाराही । इन्द्राणी चामुण्डी समहालक्ष्मीति मातरः प्रोक्ताः ॥ ११ ॥ सप्तमः पटलः । ૮૭ वर्गस्वरयाद्यंशाः क्रमेण कलधौतरजतताम्राः स्युः । इति रचितं रुचकमिदं साधकसर्वार्थदायि सततं स्यात् ॥ १२ ॥ त्रिवारमम्भः परिजप्तमेतया पिबेद्दिनादावपि विद्यया सुधीः । अनेडमूकोऽपि कवित्वगर्वितः परां च कीर्ति लभतेऽर्कमासतः ॥ १३ ॥ कमलोद्भवौषधिरसेव च या पयसा च पक्कमथ सर्पिरपि । अयुताभिजप्तममुना दिनशो लिहतां कविर्भवति वत्सरतः ॥ १४ ॥ वर्णौषध्याश्रिताभिः कलशममलधीरद्भिरापूरयित्वा प्रातस्तेनाभिषिञ्चेद्दशशतपरिजप्तेन यं वापि मासम् । स स्यान्मेधेन्दिरायुःप्रशमकवियशो विश्वसंवादयुक्तो नारी वन्ध्यापि नानागुणगणनिलयं पुत्रवर्य प्रसूते ॥ १५ ॥ ८८ प्रपञ्चसरे आधारोद्यच्छक्तिबिन्दूत्थिताया वक्त्रे मूर्धेन्दुप्रसन्त्याः प्रभायाः । क्षाद्यान्तार्णान्पातयेद्वह्निसोम- प्रोतान्मन्त्री मुच्यते रोगजातैः ॥ १६ ॥ विन्यासैरथ सजपैर्हुताशनाद्यै- नैश्च प्रभजति भारतीं नरो यः । स श्रीमान्भवति च मङ्क्षु काव्यकर्ता वेलादी जयति जरापमृत्युरोगान् ॥ १७ ॥ कलाः कलानाद्भवा वदन्त्यजा: कचादिवर्णानुभवाष्टतादिकान् । पयादिकान्माक्षरजाश्च बिन्दुजा: क्रमादनन्तावधिकास्तु षादिकान् ॥ १८ ॥ कुर्यात्कलाभिराभि- मन्त्री दिनशस्तौ तथा न्यासम् । सांनिध्यकृत्समथेः प्रतिमा कलशादिषु प्रविज्ञेयः ॥ १९ ॥ सप्तम: पटलः । ८९. मन्त्रोद्धारविधाने वर्णव्यत्यास क्लप्तिरुद्दिष्टा । आभिः श्रीकण्ठादि- प्रोक्तैर्वा नामभिर्विशेषज्ञैः ॥ २० ॥ अष्टाक्षरोक्तमनुवर्यविशिष्टमूर्ति संस्मृत्य विष्णुमपि मन्त्रितमो यथावत् । वर्णैर्न्यसेदपि पुरैव च केशवादि- मूर्त्या युतैर्वपुषि भक्तिभरावनम्रः ॥ २१ ॥ रुद्रादीञ्छक्तियुतान्न्यस्ये- द्याद्यांस्त्वगादिधातुयुगान् । श्रीकण्ठादौ विद्वा- न्वर्णान्प्राग्बीज संयुतान्वापि ॥ २२ ॥ सिन्दूरकाञ्चनसमोभयभागमर्ध- नारीश्वरं गिरिसुताहरभूषचिह्नम् । पाशाभयाक्षवलयेष्टदहस्तमेवं स्मृत्वा न्यसेत्सकलवाञ्छितवस्तुसिद्धयै ॥ २३ ॥ ९० शक्त्या शक्तिश्रीभ्यां प्रपञ्चसारे शक्तिश्री क्लीभिरन्वितैर्वर्णैः । श्रीशक्तियुगशराद्यै- रथवाभिहितः समृद्धये न्यासः ॥ २४ ॥ अथानया पश्वविभेदभिन्नया प्रपञ्चयागस्य विधिः प्रवक्ष्यते । कृते तु यस्मिन्निह साधकोत्तमाः प्रयान्ति निर्वाणपदं तदव्ययम् ॥ २५ ॥ पूर्व महागणपतिं स्वविधानसिद्ध- रूपं च साङ्गमपि सावरणं विचिन्त्य । बीजेन संयुतमृचा प्रजपेत' माला- मन्त्रं निजेष्टविधयेऽवहितो यथावत् ॥ २६ ॥ स चतुश्चत्वारिंश- द्वारं बीजं तथैकवारमृचम् । प्रजपेच्चतुरावृत्त्या मालापूर्वे मनुं च मन्त्रितमः ॥ २७ ॥ 1. प्रजपेन. सप्तमः पटलः । ९१ मुनिश्छन्दो दैवत- मपि साङ्गं मातृकां च विन्यस्येत् । प्रागभिहितेन विधिना वारत्रितयं गृहांश्च सप्त तथा ॥ २८ ॥ वदने च बाहुपाद- द्वितये जठरे च वक्षसि यथावत् । अर्काद्यान्विन्यस्ये- त्क्रमेण मन्त्री स्वरादिवर्गेशान् ॥ २९ ॥ तारश्व शक्तिरजपा परमात्मबीजं वह्नेः प्रिया च गदिता इति पञ्चमन्त्राः । एभिस्त्रितीयलिपिभिः कथितः प्रपञ्च- यागाह्वयो हुतविधिः सकलार्थदायी ॥ ३० ॥ ब्रह्मा स्यादृषिरस्य च्छन्दः परमान्विता च गायत्री । सकलपदार्थसदर्थ परिपूर्ण देवता परंज्योतिः ॥ ३१ ॥ ९२ प्रपञ्चसारे जायार्हृदयमथो शिरश्च सोऽहं हंसात्मा त्वथ च शिखा स्वयं च वर्म । ताराख्यं स्वमुदितमीक्षणं तथास्त्रं प्रोक्तं स्याद्धरिहरवर्णमङ्गमेवम् ॥ ३२ ॥ अत्राकारहकाराद्यावाद्यौ शान्तान्त्यकौ मनू । । हकारश्चाप्यकारश्च बिन्दुः सर्गी च साक्षरः ॥ ३३॥ साकारश्चात्ममन्त्रः षडिन्द्रियात्मक उच्यते । सकारौकारकारा बिन्दुः पश्वार्णको मनुः ॥ ३४ ॥ करणात्मसमायुक्तः परमात्माह्वयो मनुः । स्वाकारैर्हृदीर्घाभ्यां वह्निजायामनुर्मतः । वागादीन्द्रियसंभिन्नः सोऽयं पञ्चाक्षरात्मकः ॥ ३५ ॥ ब्रह्मा बृहत्तया स्या- त्परमपदेन प्रकाशितः प्रवरः । गायकसंत्राण तो गायत्रं समुनिनिगदितं छन्दः ॥ ३६ ॥ परमन्यदतिशयं वा ज्योतिस्तेजो निरूपितेऽन्यद्यत् । सप्तम: पटल: । ९३ अतिशायि च नितरामिति कथितैवं देवता परंज्योतिः ॥ ३७ ॥ स्वेति स्वर्गः स्वेति चात्मा समुक्तो त्याहुतिर्हेति विद्याद्वतिं च । स्वर्गात्मावण्यातता धामशाखा' वह्नेर्जाया यत्र हूयेत सर्वम् ॥ ३८ ॥ स इति परततं परं तु तेज- स्त्वमिति मय्युदिते मनोऽस्य यत्र । तदिति सकलचित्प्रकाशरूपं कथितमिदं शिरसोऽपि मन्त्रमेवम् ॥ ३९ ॥ हमिति प्रकाशितोऽहं स इति च सकलप्रकाशनिर्वाणम् । अतुलमनुष्णमशीतं यत्तदितीत्थं प्रकाशितेह शिखा ॥ ४० ॥ प्रतिमध्य गुणत्रयानुबद्धं सकलं स्थावरजङ्गमाभिपूर्णम् । 1. स्वस्वर्गात्मास्यातताधामशाखा. ९४ प्रपञ्चसारे स्वगुणैर्निजबिन्दु सन्ततात्मा- खिललोकस्थितिवर्ममन्त्रमुक्तम् ॥ ४१ ॥ आद्यैस्त्रिभेदैस्तपनान्तिकैर्य- त्सृजत्यजस्रं जगतोऽस्य भावम् । तेजस्तदेतन्मनुवर्यकस्य नेत्रत्रयं सन्त उदाहरन्ति ॥ ४२ ॥ हंकाराख्या धातु- रणार्थे साधकानभीष्टानि । संहरतीह यदेत त्तेजोरूपं तदस्त्रमन्त्रं स्यात् ॥ ४३ ॥ यदा लिपिविहीनोऽयं तदात्माष्टाक्षरः स्मृतः । एतत्सर्वप्रपञ्चस्य मूलमष्टाक्षरं स्मृतम् ॥ ४४ ॥ प्रपञ्च यागस्त्वमुना कृतो न्यासविधिः स्मृतः 1 वर्णैर्देहेऽनले द्रव्यैः कुर्याद्भुतविधिं द्विधा ॥ ४५ ॥ मातृकान्यासवत्साथै लिपिनाष्टाक्षरेण तु । नित्यं न्यसेत्संयतात्मा पञ्चाशद्वारमुत्तमम् ॥ ४६ ॥ सप्तम: पटलः । पश्चज्ञानेन्द्रियाबद्धाः सर्वास्तु लिपयो मताः । नाभिरारात्तनं सर्व तत्तदिन्द्रियगोचरम् ॥ ४७ ॥ मर्तव्याशेषलोकान्तर्वर्ति यत्तेज ऐश्वरम् । नौ जुहुयात्तस्मिन्सदा सर्वत्र वर्तिनि ॥ ४८ ॥ ह्मात्मभिर्महामत्रैर्ब्रह्मविद्भिः समाहितैः । ह्माग्नौ ब्रह्महविषा हुतं ब्रह्मार्पणं स्मृतम् ॥ ४९ ॥ ९५ वं वर्णविभेदभिन्नमदृढं मांसाश्रमज्जावृतं देहं तत्क्षरमक्षरे सुविशदे सर्वत्र वर्तिन्यथ । त्वा ब्रह्महुताशने विमलधीस्तेजःस्वरूपी स्वयं भूत्वा सर्वमनुं जपेदभियजेयायेत्तथा तर्पयेत् ॥५०॥ [द्धचापि सबिन्दुकस्त्वथ कलायुक्केशवाद्यस्तथा श्रीकण्ठादियुतश्च शक्तिकमलामारैस्तथैकैकशः । यासास्ते दशधा पृथङ् निगदिताः स्युर्ब्रह्मयागान्तिकाः सर्वे साधकसिद्धिसाधनविधौ संकल्पकल्पद्रुमाः ॥ प्रपञ्च यागस्तु विशेषतो विप- त्प्रपञ्चसंसारविशेषयापकः । ९६३ प्रपञ्चसरे परश्च नित्यं भजतामयत्नतः परस्य चार्थस्य निवेदकस्तथा ॥ ५२ ॥ द्रव्यैर्यथा यैः क्रियते प्रपञ्च- यागक्रिया तानि तथैव संपत् । यास्वप्यवस्थासु च ताश्च कृत्वा प्राप्नोति यत्तत्कथयामि सर्वम् ॥ ५३ ॥ प्रोक्तक्रमेण विना- दिकमपि हुत्वा क्रमेण मन्त्रितमः । एकावृत्त्या जुहुया - त्प्रपञ्चयागाह्वयं घृतेन ततः ॥ ५४ ॥ अश्वत्थोदुम्बरजाः प्लक्षन्यग्रोधसंभवाः समिधः । तिलसर्षप दौग्धघृता- न्यष्ट द्रव्याणि संप्रदिष्टानि ॥ ५५ ॥ एतैर्जुहोति नियुताधिकलक्षसंख्यं मन्त्री ततोऽर्धमथवापि तदर्धकं यः । सप्तम: पटलः । स त्वैहिकीं सकलसिद्धिमवाप्य वाञ्छा- योग्यां पुनः परतरां च परत्र याति ॥ ५६ ॥ एकद्विकलिकचतुष्कशताभिवृत्त्या तांस्तान्समीक्ष्य विकृतिं प्रजुहोतु मन्त्री । क्षुद्रग्रहारिविषमज्वरभूतयक्ष- रक्षः पिशाचजनिते महति प्रकोपे ॥ ५७ ॥ द्वादशसहस्रमथवा तद्दिगुणं वा चतुर्गुणं वाथ । जुहुयात्क्षुद्रग्रहरिपु- विषमज्वरभूतसंभवे कोपे ॥ ५८ ॥ अयथाप्रतिपत्तिमन्त्रकाणां प्रजपात्स्यादिह विस्मृतिर्नराणाम् । शमयेदचिरात्सहस्रवृत्त्या मतिमान्वस्तुभिरेभिरेव जुह्वन् ॥ ५९ ॥ 1. पदं परतरं. *P. 7 ९७ ९८ प्रपञ्चसारे एतैः सहस्रद्वितयाभिवृत्त्या जुहोति यस्तु क्रमशो यथावत् । जयेत्क्षणेनैव स विस्मृतीश्च सापस्मृती: शापभवांश्च दोषान् ॥ ६० ॥ मधुरत्रयावसिक्तै- रेतैर्लक्षं जुहोति यो मन्त्री । तस्य सुराधिपविभवो महदृद्ध्या तृणलवायते नचिरात् ॥ ६१ ॥ लक्षं तदर्धकं वा मधुरत्रयसंयुतैर्हुनेदेतैः । अब्दत्रयादथाव त्रिभुवनमखिलं वशे कुरुते ॥ ६२ ॥ वश्यादीन्यपि कर्मा- ण्यभिकाङ्क्षन्नेभिरेव सद्दव्यैः । जुहुयात्कार्ये गुरुता- लाघवमभिवीक्ष्य योग्यपरिमाणम् ॥ ६३ ॥ सप्तम: पटल: । ९९ लक्षं तिलानां जुहुयाद्यवानां शान्त्यै श्रियेऽथो नलिनैश्च तावत् । दौग्ध्यन पुष्टयै यशसे घृतेन वश्याय जातीकुसुमैश्च लोणैः ॥ ६४ ॥ शालीतण्डुलचूर्णकैस्त्रिमधुरासिक्तैः स्वसाध्याकृतिं कृत्वाष्टोर्ध्वशताख्यमस्य शितधीः प्राणान्प्रतिष्ठाप्य च । न्यासोक्तक्रमतो निशासु जुहुयात्तां सप्तरात्रं नरो नारीं वा वशमेति मङ्क्षु विधिना तेनैव लोणेन वा ॥ पञ्चाशदौषधिविपाचितपञ्चगव्य- जाते घृतेन शतवृत्ति हुनेद्वटानौ । तावत्प्रजप्य विधिनाभिसमर्च्य सिद्धं भस्माददीत सकलाभ्युदयावहं तत् ॥ ६६ ॥ अनुदिनमनुलिंम्पेत्तेन किंचित्समद्या - तिलकमपि विदध्यादुत्तमाङ्गे क्षिपेच । अनुततदुरितापस्मारभूतापमृत्यु- ग्रहिविषरहितः स्यात्प्रीयते च प्रजाभिः ॥ ६७ ॥ १०० प्रपञ्चसारे. एकादशार्धकणिकां वरकाञ्चनस्य दद्यात्तदैव गुरवेऽथ सहस्रहोमे । अर्धोर्ध्वपचकणिकाद्विकणा च साध स्याद्दक्षिणेह कथिता मुनिभिस्त्रिधैव ॥ ६८ ॥ निजेोप्सितं दिव्यजनैः सुरद्रुमा- 1 त्समस्तमेव प्रतिलभ्यते यथा । प्रपञ्चयागादपि साधकैस्तथा करप्रचेयाः सकलार्थसंपदः ॥ ६९ ॥ अथ हितविधये विदुषां वक्ष्ये प्राणाग्निहोत्रविहितविधिम् । बद्धा पद्मासनमृजु- कायो मन्त्री विशेत्पुरोवदनः ॥ ७० ॥ शक्तेः सत्त्वनिबद्धमध्यमथ तन्मायारजोवेष्टितं प्राप्रक्षोऽनिलदिग्गताश्रजठरं मध्ये च नाभेरधः । मध्यप्राग्वरुणेन्द्रयाम्यलसितैः कुण्डैर्व्वलद्बहिभिः मूलाधारमनारतं समतलं योगी स्मरेत्सिद्धये ॥ ७१ ॥ सप्तम: पटलः । १०१ मध्येन्द्रवरुणशशियम-: दिग्गतानि क्रमेण कुण्डानि । आवसथजसभ्याहवनी- यान्वाहार्य गार्हपत्यानि ॥ ७२ ॥ चिद्रूपात्सकलप्रभाप्रभवकान्मूलप्रकृत्यात्मनः कल्पार्कात्प्रतिलोमतोऽमृतमयीं ज्योतीरुचाच्छां धिया । स्पृष्टामक्षरमालिकां तु जुहुयात्कुण्डेषु तेषु क्रमा त्कल्पान्ताग्निशिखास्फुरत्कुहरकेष्वास्रावितां वर्णशः ॥ क्षाद्यास्ते सप्तवर्गा मरकतपशु मेदाह्वनीलाभ वर्णा भूयः स्युर्विद्रुमाभाः कुलिशसमरुचः पुष्यवैडूर्यभासः । सर्वे ते पञ्चशोभी स्रवदमृतमया व्यापकाः स्पर्शसंज्ञा मुक्तामाणिक्यरूपाः सुमतिभिरुदिताश्वाष्टशः स्युः स्वराख्यः ॥ एतानि तोरमृताकरारे मन्दस्य रक्तस्य च भार्गवस्य । गुरुज्ञसोमांशुमतां क्रमेण नवानि रत्नानि विदुर्नवानाम् ॥ ७५ ॥ 1. ... आश्रावितां. १०२ प्रपञ्चसरे इत्येवं हुतविधिमन्वहं दिनादौ ये सम्यग्विदधति मन्त्रिणः शतार्धम् । ते नैरपि नांशुकैः सधान्यैः संपन्नाः सकलजगत्प्रिया भवन्ति ॥ ७६ ॥ अन्त्यशवर्गान्त्यासे' वामश्रवणान्यथावसथजाते । असितपवर्गचतुर्थी- सूक्ष्मा: ' सभ्याह्वये च सश्रोत्राः ॥ ७७ ॥ इलयुतवर्गतृतीयौ पराः सशान्तीश्च पश्चिमे वह्नौ । भृगुरेफफादिपश्चक- सद्यातिथिलोचनानि सव्येऽग्नौ ॥ ७८ ॥ मज्जात्वग्वर्गादिक- भौतिकभाराह्वयप्रतिष्ठांश्च । गाईपत्ये जुहुया - दित्युक्तं होमकर्मवर्णानाम् ॥ ७९ ॥ 1. अन्त्यशवर्गान्त्यासो; 2. सूक्ष्मान्; 3 सश्रोत्रान्. सप्तमः पटलः । व्योम्ना मध्ये स्थितेऽग्नावखिलमविरतं शब्दमैन्द्रेऽनिलेन स्पर्श स्वेनैव रूपं पुनरपरभवे सौम्यजेऽद्धी रसं च । याम्ये गन्धं पृथिव्योभयरुचिरुचिरैरक्षरौघैर्हुनेद्यो' मन्त्री स्यात्सर्ववेद्यप्रतिमथनसमुद्भासितप्रत्यगात्मा ॥ सतारशक्त्याद्यजपान्तमेवं हुत्वा महात्माथ शतार्धसंख्यम् । विन्यस्य तावच तथैव सूत्र- मात्राकृतिर्नित्यतनुश्च भूयात् ॥ ८१ ॥ कल्पादित्य मुखस्वमूलविलसत्कल्पानलान्तस्फुर- चन्द्रार्कग्रहकालभूतभुवनब्रह्मेशविष्ण्वादिकः । अव्यक्तोऽक्षरसंज्ञकोऽमृतमयस्तेजोद्वयोद्यत्प्रभो १०३ नित्यानन्दमयस्त्वनादिनिधनो यः स्यात्स हंसात्मकः ॥ अनुदिनममुना भजतां विधिनाहारक्रियासु मन्त्रविदां । प्राणाद्याः स्युर्मरुतो गाईपत्यादिकानि कुण्डानि ॥ ८३ ॥ 1. ...रुचिरेष्वक्षरोघै... १०४ प्रपञ्चसारे सप्तम्यन्तां च कुण्डाख्यामाख्यां च मरुतामपि । हिरण्या गगना रक्ता कृष्णाभिर्वर्णमीरयेत् ॥ ८४ । ससुप्रभाभिः सहिताः शुचयः पावका इति । अग्निं विहृत्य चेत्येवमात्मानमुपचर्य च ॥ ८५ ॥ ऊर्ध्वाधस्तिर्यगूर्ध्वाधस्तिर्यक्सममथो वदेत् । गच्छतूक्त्वा ठयुग्मं च पञ्चाग्नीन्संस्मरेत्ततः ॥ ॥ ८६ ॥ हृताहुतिसमुद्दीप्तशिखा संयुक्तरोचिषः । गार्हपत्यादिकं भूय उपचर्यान्तमेव च ॥ ८७ ॥ मन्त्रं सर्वमनुक्रम्य जिह्वाः संस्मृत्य सर्वशः । 1 बहुरूपां तु संकल्प्य पञ्चानलशिखायुताम् ॥ ८८ ॥ अहं वैश्वानरो भूत्वा जुहोम्यन्नं चतुर्विधम् । पचाम्येवं विधानेनेत्यापूर्ण संयतेन्द्रियः ॥ ८९ ॥ तूष्णीं हुत्वा पिधायाद्भिरुपस्पृश्य विधानतः । आरभ्य मूलाधारं स्वमामस्तकमनुस्मरेत् ॥ ९० ॥ सप्तम: पटलः । १०५ क्षेत्रज्ञसंज्ञकममुं प्रकृतिस्थमाद्यं व्याप्तद्विसप्तभुवनान्तमनन्तमेकम् । पश्वाननानिरसनापरिदत्तशुद्ध- सांनाय्यतर्पितमतर्कितमात्मरूपम् ॥ ९१ ॥ संचिन्त्य क्षरितामृताक्षरशतार्धाम्भोऽवसिक्तं हवि- स्तैर्जप्त्वा कुटिलान्तराधिरधिकं संदीप्तपश्वानलः । सायंप्रातरनेन होमविधिना भोज्यानि नित्यं भज- प्राणी न प्रमदोदरं प्रविशति प्राणाग्निहोत्री पुनः ॥ ९२ ॥ इति तव सषडङ्गवेदशास्त्रा- द्युपहितसर्वविकारसंघ माहुः । तनुरियमुदिता विरिश्व विश्व- स्थितिलयसृष्टिकरीह वर्णमाला ॥ ९३ ॥ इति जगदनुषक्तां तामिमां वर्णमालां न्यसत जपत भक्त्या जुह्वताभ्यर्चयीत । निरुपमकवितायुः कीर्तिकान्तीन्दिराप्त्यै सकलदुरितरोगोच्छित्तये मुक्तये च ॥ ९४ ॥ १०६ प्रपञ्चसरे इतीरिता सकलजगत्प्रभाविनी क्रमोत्क्रमक्रमगुणितार्णमालिका । अभीष्टसाधनविधये च मन्त्रिणां भवेन्मनुप्रतिपुटिताक्षमालिका ॥ ९५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे सप्तमः पटलः ॥ अष्टमः पटलः ॥ अथ प्रवक्ष्यामि सुदुर्लभायै विद्यां विशिष्टां त्रिपुराभिधानाम् । धात्रीप्रभेदापि जगत्यवाप्त- त्रिंशत्प्रकारा' त्रिदशाभिवन्द्या ॥ १ ॥ त्रिमूर्तिसर्गाच पुराभवत्वा- त्रयीमयत्वाच्च पुरैव देव्याः । लये त्रिलोक्या अपि पूरणत्वा- प्रायोऽम्बिकायास्त्रिपुरेति नाम ॥ २ ॥ व्योमेन्दुवह्नयधरबिन्दुभिरेकमन्य- द्रक्ताच्छकेन्द्रशिखिभिः सरमार्धचन्द्रैः । अन्यद्दयु शीतकरपावकमन्वमन्तै- बजैरमीभिरुदिता त्रिपुरेति विद्या ॥ ३ ॥ 1. सा त्रिभेदापि ; 2. त्रिंशत्प्रभेदा. १०८ प्रपञ्चसारे वागैश्वर्यातिशयदतया वाग्भवं बीजमुक्तं त्रैलोक्यक्षोभणवशताकृष्टिदं कामराजम् । शाक्तं क्ष्वेलापहरणकविताकारकं मन्त्रमेत- त्प्रोक्तं धर्मद्रविणसुखमोक्षप्रदं साधकानाम् ॥ ४ ॥ नाभेरथाचरणमा हृदयाश्च नाभि मूर्ध्नस्तथा हृदयमित्यमुना क्रमेण । बीजैस्त्रिभिर्न्यतु हस्ततले च सव्ये दक्षाये द्वितयमप्युभये तृतीयम् ॥ ५ ॥ मूर्धनि गुहृदोरपि traface च कर्णयोरास्ये 1 असद्वये च पृष्ठे कूर्परयोर्नाभिमण्डले न्यस्येत् ॥ ६ ॥ वाग्भवेन पुनरङ्गुलीष्वथो विन्यसेच्च पुनरुक्तमार्गतः । अङ्गषट्कममुना विधाय त- देवतां विशदधीर्विचिन्तयेत् ॥ ७ । अष्टमः पटल: आताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिणेलां देवीं पूर्णेन्दुवां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् । पीनोत्तुङ्गस्तनात वलिलसितविलग्नामसृक्पङ्कराज- १०९ न्मुण्डस्रङ्मण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥ ८ ॥ दीक्षां प्राप्य विशिष्टलक्षणयुजः सत्संप्रदायाद्गुरो- लब्ध्वा मन्त्रममुं जपेत्सुनियतस्तत्त्वार्धलक्षावधि । स्वाद्वक्तैश्च नवैः पलाशकुसुमैः सम्यक् समिद्धेऽनले मन्त्री भानुसहस्रकं प्रति हुनेदश्वारिसूनैरपि ॥ ९ ॥ प्राणायामैः पवित्रीकृततनुरथ मन्त्री निजाधारराज- योनिस्थां दिव्यरूपां प्रमुदितमनसाभ्यर्चयित्वोपचारैः । आबद्धा योनिमुद्रामपि निजगुदलिङ्गान्तरस्थां प्रदीप्तां .: भूयो द्रव्यैः सुशुद्धैररुणरुचिभिरित्यारभेद्वाह्यपूजाम् ॥१०॥ वामादिशक्तिसहितं परिपूज्य पीठं तत्र प्रकल्प्य विधिवन्नवयोनिचक्रम् । योनौ निधाय कलशं त्वथ मध्यगाया- मावा तां भगवतीं प्रयजेत्क्रमेण ॥ ११ ॥ ११० प्रपञ्चसरे वहेः पुरद्वितयवासवयोनिमध्य- संबद्धवहिवरुणेश समाश्रिताश्री । देव्यर्चना विहितं मुनिभिः पुरैव लोके सुदुर्लभमिदं नवयोनिचक्रम् ॥ १२ ॥ वामा ज्येष्ठा रौद्रका साम्बिकेच्छा- ज्ञानाभिख्या सक्रिया कुब्जिकाङ्क्षा । बह्वी चान्या स्याद्विषघ्नी च दूत- र्याह्ना सर्वानन्दका शक्तयः स्युः ॥ १३ ॥ प्राङ्मध्ययोन्योः पुनरन्तराले संपूजयेत्प्राग्गुरुपादपङ्किम् । पराभिधानामपराह्वयां च परापराख्यामपि वाग्भवादिम् ॥ १४ ॥ तेनैव चाङ्गानि विदिग्दिशासु मन्त्री यथोक्तक्रमतः प्रपूज्य । तन्मध्ययोनेरभितः शरांश्च संपूजयेत्पश्चममग्रभागे ॥ १५ ॥ अष्टम: पटल: १११ सुभगा भगा भगान्ते सर्पिणि भगमालिनी' अनङ्गाह्वा । तत्पूर्वकुसुमसंज्ञा तदादिके चाथ मेखलामदने ॥ १६ ॥ संपूज्य योनिषु च मातृगणं सचण्डि - कान्तर्दलेष्वभियजेदसिताङ्गकाद्यैः । तैर्भैरवैः सह सुगन्धसुपुष्पधूप- दीपादिकैर्भगवतीं प्रवरैर्निवेद्यैः ॥ १७ ॥ असिताङ्गाख्यो रुरुरपि चण्डः क्रोधाह्वयस्तथोन्मत्तः । सकपालिभीषणाख्यः संहारश्चाष्टभैरवाः कथिताः ॥ १८ ॥ इति क्रमात्या विहिताभिषेक: संप्रीणयित्वा द्रविणैर्गुरुं च । जवार्चयित्वोक्ततयाथ हुत्वा युञ्जीत योगांश्च गुरूपदिष्टान् ॥ १९ ॥ 1. भगां; 2. भगमालिनीमनङ्गाह्वा. ११२ प्रपञ्चसारे अच्छाभः स्वच्छवेषो' धरणिमयगृहे वाग्भवं लक्षमेकं यो जप्यात्तद्दशांशं विहितहुत विधिर्मन्त्रजप्ताञ्जनादिः । काव्यैर्नानार्थवृत्तैस्त्रिभुवनमखिलं पूरयेन्मन्त्रजापी मारार्त्या विहलाभिः पुनरयमनिशं सेव्यते सुन्दरीभिः ॥ रक्ताकल्पोऽरुणतरदुकूलार्तवालेपनाढ्यो ' मौनी भूद्मनि सुखनिविष्टो जपेल्लक्षमेकम् । बीजं मन्त्री रतिपतिमयं प्रोक्तहोमावसाने योऽसौ लोके स सुरमनुजैः पूज्यते सेव्यते च ॥ . ससुरासुरसिद्धयक्ष- विद्याधरगन्धर्वभुजंगचारणानाम् । प्रमदामदवेगतो विकीर्णा- भरणाः स्रस्तदुकूलकेशजालाः ॥ २२ ॥ 'अतिदुःसहमन्मथव्यथाभिः प्रथितान्तः परितापवेपिताङ्गथः । घनधर्मजतोयबिन्दुमुक्ता- फलसक्तोरुकुचान्तबाहुमूलाः ॥ २३ ॥ 1. स्वच्छभूषो ; 2. पूरयेच्च स्वकीयैः ; 3. .. लेपहृयो. 4. अतिदुःसहमन्मथाभिघातव्यथिता... अष्टम: पटलः । रोमाञ्चकञ्चुकितगात्रलताघनोद्य- दुत्तुङ्गपीनकुचकुम्भनिपीडिताङ्गथः । औत्सुक्यभारपृथुवेपथुखेदसन्न - पादारविन्दचलनस्खलनाभियाताः ॥ २४ ॥ -मारसायकनिपातदारिता रागसागरनिमग्नमूर्तयः । श्वासमारुततरङ्गिताधरा बाष्पपूरभरविह्नलेक्षणाः ॥ २५ ॥ मस्तकारचितदोर्द्वयाञ्जलि - प्राभृता हरिणशाबलोचनाः । वाञ्छितार्थकरणोद्यताच त- दृष्टिपातमभि संनमन्ति ताः ॥ २६ ॥ धरापवरके तथा जपतु लक्षमन्यं मनुं सुशुक्ककुसुमांशुकाभरणलेपनाढ्यो वशी । अमुष्य वदनादनारततयोच्चरेद्भारती ११३ विचित्रपदपद्धतिर्भवति चास्य लोको वशे ॥ २७ ॥ *P. 8 ११४ प्रपञ्चसारे पलाशपुष्पैर्मधुरत्रयाक्तै- हमं विदध्यादयुतावधिं यः । सरस्वतीमन्दिरमाशु भूया- सौभाग्यलक्ष्म्योश्च स मन्त्रजापी ॥ २८ ॥ राजीकरञ्जाह्नशमीवटोत्थैः समिरैबिल्वभवैः प्रसूनैः । त्रिस्वादुयुक्तैर्हवनक्रियाशु नरेन्द्रनारीनररञ्जनी स्यात् ॥ २९ ॥ मालतीव कुलजैर्दलैर्दलै- वन्दनाम्भसि घने निमज्जितैः । श्रीकरीकुसुमकैर्हुतक्रिया सैव चासु कविताकरी मता ॥ ३० ॥ अनुलोमविलोममन्त्रमध्य- स्थितसाध्याह्नयुतं प्रजप्य मन्त्री । पटुसंयुतया जुहोतु राज्या नरनारीनरपान्वशे विधातुम् ॥ ३१ ॥ अष्टमः पटलः । ११५ मधुरत्रयेण सह विल्वजैः फलै- ईवनक्रियाशु जनतानुरञ्जनी । अपि सैव साधकसमृद्धिदायिनी दिनशो विशिष्टकमलाकरी मता ॥ ३२ ॥ खण्डैः सुधालतोत्थै- स्त्रिमधुरयुक्तैर्जुहोतु मन्त्रितमः । सकलोपद्रवशान्त्यै जरापमृत्युप्रणोदनाय वशी ॥ ३३ ॥ फुल्लैर्बिल्वप्रसूनैस्तदभिनवदलै रक्तवाराहिपुष्पैः प्रत्ययैर्बन्धुजीवैररुणसरसिजैरुत्पलैः कैरवाहैः । नन्द्यावर्तैः सकुन्दैर्नृपतरुकुसुमैः पाटलीनागपुष्पैः स्वाद्वक्तैरिन्दिराप्त्यै जुहुत च दिनशः सर्पिषा पायसेन । मूलाधारात्स्फुरन्तीं शिखिपुरपुटवीतां प्रभां विद्युदाभा- मार्कात्तन्मध्यगेन्दोः स्रवदमृतमुचा धारया मन्त्रमय्या । सद्यः संपूर्यमाणां त्रिभुवनमखिलं तन्मयत्वेन मन्त्री ध्यायन्मुच्येत वैरूप्यकदुरितजरारोगदारिद्र्यदोषैः ॥ ३५ ॥ ११६ प्रपञ्चसारे वर्बिम्बद्वयपरिवृताधारसंस्थं समुद्य- द्वालाभं स्वरगणसमावेष्टितं वाग्भवाख्यम् । वाण्या स्वीयाद्वदनकुहरात्संततं निःसरन्त्या ध्यायेन्मन्त्री प्रततकिरणप्रावृतं दुःखशान्त्यै ॥ ३६ ॥ हृत्पद्मस्थित भानुबिम्बविलसद्योन्यन्तरालोदितं मध्याह्नार्कसमप्रभं परिवृतं वर्णै: कभाद्यन्तगैः । ध्यायेन्मन्मथराजबीजमखिलब्रह्माण्डविक्षोभकं राज्यैश्वर्यविनिन्दिनीमपि रमां दत्त्वा जगद्रञ्जयेत् ॥३७॥ मूर्भोऽथ द्वादशान्तोदितशशधरबिम्बस्थयोनौ स्फुरन्तं संवीतं व्यापकार्णैर्धवलरुचि मकारस्थितं बीजमन्त्यम् । ध्यात्वा सारस्वताच्छामृतजललुलितं दिव्यकाव्यादिकर्ता नित्यं क्ष्वेलापमृत्युग्रहदुरितविकारान्निहन्त्याशु मन्त्री ॥ योनेः परिभ्रमितकुण्डलिरूपिणीं तां रक्तामृतद्रवमुचा निजतेजसैव । व्योमस्थलं सकलमप्यभिपूर्य तस्मि न्नावेश्य मङ्क्षु वशयेद्वनिता नरांश्च ॥ ३९ ॥ अष्टम: पटलः । ११७ गुह्यस्थितं वा मदनस्य बीजं जपारुणं रक्तसुधाः स्रवन्तम् । विचिन्त्य तस्मिन्विनिवेश्य साध्यां वशीकरोत्येव 'विदग्धलोकम् ॥ ४० ॥ अन्त्यं बीजमथेन्दुकुन्दधवलं' संचिन्त्य चित्ताम्बुजे तद्भूतां धृतपुस्तकाक्षवलयां देवीं मुहुस्तन्मुखात् । उद्यन्तं निखिलाक्षरं निजमुखे नानारस स्रोतसा निर्यान्तं च निरस्तसंहृतिभयो भूयात्स वाग्वल्लभः ॥४१॥ संक्षेपतो निगदिता त्रिपुराभिधाना विद्या सजा हवना सविधानपूजा । सोपासना च सकलाभ्युदयप्रसिद्धयै वाणीरमाप्तिविधये जगतो हिताय ॥ ४२ ॥ विद्येश त्रिपुरामिति प्रतिजपन्यो वा भवेन्नित्यश- स्तद्वक्रादथ नूतनार्थविशदा वाणी सदा निःसरेत् । संपत्त्या नृपनन्दिनी ततयशः पूरा भवेदिन्दिरा तस्यासौ प्रतियाति सर्वमुनिभिः संप्रार्थनीयं पदम् ॥४३॥ 1. द्रवन्तम् ; 2. विदग्धलोकः ; 3. ० विशदं; 4. प्रतिभजन् ; ११८ मध्ये वयक्षरयोः प्रपञ्चसारे सदवदवाग्वक्षरा निचन्द्रयुगे । प्रोक्ता दशाक्षरीयं कण्वविराजौ च 'वागृषिप्रभवाः ॥ ४४ ॥ कश्रोत्रनयननासा- वदनान्धुगुदेषु विन्यसेद्वर्णान् । स्वरपुटितैरथ हल्भिः कुर्यादङ्गानि षट् क्रमान्मन्त्री ॥ ४५ ॥ अमलकमलसंस्था लेखिनीपुस्तकोद्य- त्करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा' भवतु भवभयानां भङ्गिनी भारती वः ॥ ४६ ॥ अक्षरलक्षजपान्ते जुहुयात्कमलैः सितैः पयोभ्यक्तैः । त्रिमधुरयुतैः सुशुद्धे- रयुतं नियंतात्मकस्तिलैरथ वा ॥ ४७ ॥ 1. वाटषिप्रमुखाः 2. कोटीरजूटा. अष्टम: पटलः । मातृकोक्तविधिनाक्षराम्बुजे शक्तिभिश्च विनियुज्य पूर्ववत् । पीठमन्त्रवचसा महेश्वरीं पूजयेत्प्रथममङ्गमन्त्रकैः ॥ ४८ ॥ योगा सत्या विमला ज्ञाना बुद्धि: स्मृतिस्तथा मेधा । प्रत्याभिर्मातृभ रपि लोकेशैः प्रपूजयेत्क्रमशः ॥ ४९ ॥ इति सिद्धमनुर्मनोजदूरो नचिरादेव कविर्भवेन्मनस्वी । जपहोमरतः सदावगच्छे- तां वागधिपेति गौरवेण ॥ ५० ॥ न्यासान्वितो निशितधीः प्रजपेत्सहस्र- महो मुखेऽनुदिवसं प्रपिवेत्तदापः । तन्मन्त्रिताः 'पुनरयत्नत एव वाचः सिद्धिर्भवेदभिमता परिवत्सरेण ॥ ५१ ॥ 1. अयन्त्रितमेव. ११९ १२० प्रपञ्चसरे हृदयसे स्थितोऽथ तोये रविबिम्बे प्रतिपद्य वागधीशाम् । जपतस्त्रिसहस्रसंख्यमर्वा- कविता मण्डलतो भवेत्प्रभूता ॥ ५२ ॥ पलाशबिल्वप्रसवैस्तयोश्च समिद्वरैः स्वादुयुतैश्व होम: । कवित्वसौभाग्यकरः समृद्ध- लक्ष्मीप्रदो रञ्जनकृच्चिराय ॥ ५३ ॥ चतुरङ्गुलजैः समित्प्रसूनै- जुहुयाद्यो मधुरत्रयावसिक्तैः । मनुजः समवाप्य धीविलासा- नचिरात्काव्यकृतां भवेत्पुरोगः ॥ ५४ ॥ सुविमलनखदन्तपाणिपादो मुदितमनाः परदूषणेषु मौनी हरिहरकमलोद्भवाङ्घ्रिभक्तो भवति चिराय सरस्वतीनिवासः ॥ ५५ ॥ अष्टमः पटलः । १२१. आद्यन्तप्रणवगशक्तिमध्यसंस्था वाग्भूयो भवति सरस्वतीचडेन्ता । नत्यन्तो मनुरयमीशसंख्यवर्णः संप्रोक्तो भुवि भजमानपारिजातः ॥ ५६ ॥ स सुषुम्ना भ्रूयुग- मध्ये नवके तथैव रन्ध्राणाम् । विन्यस्य मन्त्रवर्णा- कुर्यादङ्गानि षट् क्रमाद्वाचा ॥ ५७ ॥ हंसारूढा 'हरहसितहारेन्दुकुन्दावदाता वाणी मन्दस्मितयुतमुखी मौलिबद्धेन्दुलेखा । विद्या वीणामृतमयघटाक्षत्र गादीप्तहस्ता शुभ्राब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ दिनकरलक्षं प्रजपे- न्मन्त्रमिमं संयतेन्द्रियो मन्त्री । द्वादशसहस्रकमथो सितसरसिजनागचम्पकैर्जुहुयात् ॥ ५९ ॥ 1. सौषुम्ना ; 2. क्रमान्मन्त्री ; 3. भसितहरहारेन्दु ० १२२ पूजायां पार्श्वयुगे प्रपञ्चसरे ससंस्कृता प्राकृता च वाग्देव्याः । केवलवाङ्मयरूपा संपूज्याङ्गैश्व शक्तिभिस्तदनु ॥ ६० ॥ प्रज्ञा मेधा श्रुतिरपि शक्तिः स्मृत्याह्वया च वागीशी । सुमति: स्वस्तिरिहाभि- मातृभिराशेश्वरैः क्रमात्प्रयजेत् ॥ ६१ ॥ इति निगदितो वागीश्वर्याः सहोमजपार्चना- विधिरनुदिनं मन्त्री त्वेनां भजन्परिमुच्यते । -सकलदुरितैर्मेधालक्ष्मीयशोभिरवाप्यते परमपरमां भक्तिं प्राप्योभयत्र च मोदते ॥ ६२ ॥ इति मातृकाविभेदा- प्रभजन्मन्त्रत्रयं च मन्त्रितमः । प्रजपेदेनां स्तुतिमपि दिनशो वाग्देव्यनुग्रहाय बुधः ॥ ६३ ॥ 1. सुमतिस्वस्तिभिराभिः अष्टमः पटलः । १२३ अमलकमलाधिवासिनि मनसो वैमल्यदायिनि मनोज्ञे । सुन्दरगात्रि सुशीले तव चरणाम्भोरुहं नमामि सदा ॥ ६४ ॥ अचलात्मजा च दुर्गा कमला त्रिपुरेति भेदिता जगति । या सा त्वमेव वाचा- मीवर सर्वात्मना प्रसीद मम ॥ ६५ ॥ त्वञ्चरणाम्भोरुहयोः प्रणामहीनः पुनर्द्विजातिरपि । भूयादनेडमूक- स्त्वद्भक्तो भवति देवि सर्वज्ञः ॥ ६६ ॥ मूलाधारमुखोद्गत- बिसतन्तुनिभप्रभाप्रभावतया । विधृतलिपिव्राताहित- मुखकरचरणादिके प्रसीद मम ॥ ६७ ॥ 1. अयं श्लोकः प्रक्षिप्त इति कश्चिद्याख्याता. १२४ प्रपञ्चसरे वर्णतनोऽमृतवर्णे नियतमनिर्वर्णितेऽपि योगीन्द्रैः । निर्णीतिकरणदूरे वर्णयितुं देव देहि सामर्थ्यम् ॥ ६८ ॥ ससुरासुरमौलिलस- न्मणिप्रभादीपिताङ्घ्रियुगनलिने । सकलागमस्वरूपे सर्वेश्वरि संनिधिं विधेहि मयि ॥ ६९ ॥ पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते । कर्पूरामलदेहे वागीश्वर शोधयाशु मम चेतः ॥ ७० ॥ क्षौमाम्बरपरिधाने मुक्तामणिभूषणे मुदावासे । स्मितचन्द्रिकाविकासित- मुखेन्दुबिम्बेऽम्बिके प्रसीद मम ॥ ७१ ॥ अष्टमः पटलः । १२५ विद्यारूपेऽविद्या- नाशिनि विद्योतितेऽन्तरात्मविदाम् । गद्यैः सपद्यजातै- राधैर्मुनिभिः स्तुते प्रसीद मम ॥ ७२ ॥ त्रिमुखि त्रयस्वरूपे त्रिपुरे त्रिदशाभिवन्दिताङ्घ्रियुगे । त्रीक्षणविलसितवक्त्रे त्रिमूर्तिमूलात्मिके प्रसीद मम ॥ ७३ ॥ वेदात्मिके निरुक्त- ज्योतिर्व्याकरणकल्पशिक्षाभिः । सच्छन्दोभिः संतत- क्लृप्तषडङ्गेन्द्रिये प्रसीद मम ॥ ७४ ॥ त्वच्चरणसरसिजन्म- स्थिति महितधियां न लिप्यते दोषः । भगवति भक्तिमतस्त्वयि परमां परमेश्वरि प्रसीद मम ॥ ७५ ॥ १२६ बोधात्मिके बुधानां प्रपञ्चसारे हृदयाम्बुजचारुरङ्गनटनपरे । भगवति भवभङ्गकरीं भक्तिं भद्रार्थदे प्रसीद मम ॥ ७६ ॥ वागीशीस्तवमिति यो जपार्चनाहवनवृत्तिषु प्रजपेत् । स तु विमलचित्तवृत्ति- देहादि नित्यशुद्धमेति पदम् ॥ ७७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे अष्टमः पटलः ॥ नवमः पटलः ॥ 'अथाभिवक्ष्ये सकलप्रपञ्च- मूलात्मिकायाः प्रकृतेर्यथावत् । मन्त्रं तु साङ्गं सहुताभिषेक- जपार्चनाद्यं सकलार्थसिद्धये ॥ १ ॥ घनवर्त्मकृष्णगतिशान्तिबिन्दुभिः कथितः परः प्रकृतिवाचको मनुः । दुरितापहोऽर्थ सुखधर्ममोक्षदों भजतामशेषजनरञ्जनक्षमः ॥ २ ॥ शक्तिः स्यादृषिरस्य तु . गायत्री चोदिता मनोश्छन्दः । बोधस्वरूपवाची 1. संवित्प्रोक्ता च देवता गुरुभिः ॥ ३ ॥ 1. अथ प्रवक्ष्ये -१२८ प्रपञ्चसारे नेत्रकरणदिनकर- भुवनविकारस्वराग्निविन्दुयुजा । व्योम्नाङ्गषट्कक्लप्ति- जतिविभिन्नेन चापि संप्रोक्ता ॥ ४ ॥ अग्नीन्दुयोगविकृता लिपयो हि सृष्टा - स्ताभिः प्रलोमपठिताभिरिदं शरीरम् । भूतात्मकं त्वगसृगादियुतं समस्तं संव्यापयेन्निशितधीर्विधिना यथावत् ॥ ५ ॥ अन्त्यावूष्मस्वमून्वादिषु खलिपिषु' तांस्तांश्चतुर्वर्गवर्णे- वेतानम्यदस्तद्दति तदपि परेषु स्वरेषु क्रमेण । संहृत्य स्थानयुक्तं क्षपितसकलदेहो ' ललाटस्थितान्त:- प्राप्तिव्याप्तद्विसप्तादिकभुवनतलो 'यातु मद्भावमेव ॥ ६ ॥ मूलाधारात्स्फुरिततटिदाभा प्रभा सूक्ष्मरूपो- द्गच्छन्त्यामस्तकमणुतरा तेजसां मूलभूता 1 सौषुम्नाध्वाचरणनिपुणा सा सवित्रानुबद्धा ध्याता सद्योऽमृतमथ रवेः स्रावयेत्सार्धसोमात् ॥ ७ ॥ 1. मलिपिषु. 2. ललाटस्थितस्तं प्राप्य व्याप्त ० 3 याति नवम: पटलः । १२९ शिरसि निपतिता या बिन्दुधारा सुधाया भवति लिपिमयी सा ताभिरङ्गं मुखाद्यम् । विरचयतु समस्तं पातितान्तश्च तेज- स्यनल इव घृतस्योद्दीपयेदात्मतेजः ॥ ८ ॥ संहृत्य चोत्पाद्य शरीरमेवं तेजोमयं व्याप्त समस्तलोकम् । संकल्प्य शक्त्यात्मकमात्मरूपं तचिह्नमात्मन्यपि ' संदधीत ॥ ९ ॥ उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावनद्ध- द्योतन्मौलिं त्रिणेत्रां विविधमणिलसत्कुण्डलां पद्मगां च । हारमैवेयकाचीगुणमणिवलयाद्यैर्विचित्राम्बराढ्या- मम्बां पाशाङ्कुशेष्टाभयकरकमलामम्बिकां तां नम धातू द्वौ स्तो रक्षणव्यापकार्थों पाद्योऽशाद्यस्तत्प्रभावात्तयोश्च । सर्व संरक्ष्याथ सर्वात्मना यो व्याप्नोत्यंशं स्यादसौ पाशवाची ॥ ११ । 1. ० न्यथ. *P. 9 १३० प्रपञ्चसारे अं स्यादात्मा कुर्धरा कुस्तनुर्वा भागार्थः स्याच्छोऽथ वा वृत्तिवाची । भूश्चेद्भूतान्यन्यथा चेच्छरीरा- ण्याकृष्यात्मन्याहरेदङ्कुशाख्यः ॥ १२ ॥ स्मृते यथा संसृतिचक्रचङ्क्रमो- द्भवाद्धनापायसमुत्थितादपि । वियोजयत्यात्मतनुं नरं भया- तथाभयस्याभयसंज्ञिता विभोः ॥ १३ ॥ मुख्यार्थवाची वरशब्द उक्तः स्याद्वाञ्छितार्थश्च वराभिधानम् । मुख्यं त्वभीष्टं स्मृतिमात्रकेण ददाति योऽसौ वरदोऽवगम्यः ॥ १४ ॥ दीक्षाक्यै पुरोक्ते रचयतु विधिवन्मण्डलं मण्डपे त- व्यक्तं युक्तं च कान्त्या त्रिगुणितविलसत्कर्णिकं वर्णकीर्णम् । आपीतं केसरेष्वारचित हरिहरार्णैश्च मध्ये समायै- स्तैरग्रे माययाढ्यं कमलमथ बहिः प्रोक्तचिहैरुपेतम् ॥१५॥ 1. वर्णवीतम्. नवम: पटलः । शक्त्याविःसाध्यमिन्द्रानिलनिऋतिगबीजाभिबद्धं पुरोऽग्ने- स्तत्कोणोल्लासिमायं हरिहरविलसद्गण्डमेभिः समायैः । वर्णैश्वावेष्टितं तत्रिगुणितमिति विख्यातमेतत्सुयन्वं स्यादायुष्यं च वश्यं धनकरममितश्रीपदं कीर्त्तिदं च ॥ हृल्लेखाख्यां गगनां / रक्तां च करालिकां महोच्छुष्माम् । मूर्धनिवदने गुह्ये पदयोर्न्यस्येत्तदङ्गैश्च ॥ १७ ॥ गायत्रीं न्यस्तु गले स्तनेऽथ सव्ये सावित्रीं पुनरपरे सरस्वतीं च । सव्यें से सरसिजसंभवं मुकुन्दं हृदेशे पुनरपरांस शिवं च ॥ १८ ॥ अलिकांसपार्श्वकुक्षिषु पार्श्वासापरगलहृत्सु च क्रमशः । ब्रह्माण्याद्या विधिव- न्न्यस्तव्या मातरोऽष्ट मन्त्रितमैः ॥ १९ ॥ १३१ १३२ प्रपञ्चसारे सजया विजया च तथा- 'जिताह्वया चापराजिता नित्या । तदनु विलासिनिदोग्ध्रयौ 'साघोरा मङ्गला नव प्रोक्ताः ॥ २० ॥ एवं संपूज्य पीठं तदनु नव घटान्पश्च वा कर्णिकायां पत्राप्रेषु न्यसेत्काश्वनरजतताम्रोद्भवान्मार्त्तिकान्वा । एकं वा कर्णिकायां सुमतिरथ विनिक्षिप्य कुम्भं यथाव- 'संपूर्यावाहयेष्विपि विधिषु पुनर्वक्ष्यमाणक्रमेण ॥२१॥ मधुनाथ महारवैश्च साकं विधिना मध्यगतं प्रपूर्य कुम्भम् । अभिवाद्य कलाः प्रवेष्टयीत प्रवराभ्यामथ' तन्नवांशुकाभ्याम् ॥ २२ ॥ ऐन्द्रं घृतेन यमदिक्प्रभवं च दना क्षीरेण वारुणमथो तिलजेन सौम्यम् । क्षीरद्रुचर्मदशमूलकपुष्पसिद्ध- क्वाथेन कोणनिलयानपि पूरयेश्च ॥ २३ ॥ 1. जितापरा ; 2. साघोषा ; 3. त्संभूया०; 4. ०मपि. नवमः पटलः । १३३ मूत्रेणैन्द्रं गोमयेनापि याम्यं क्षीरेणाप्यं सौम्यजं चैव दना । 'मध्यप्रोक्तं सर्पिषा पश्च कुम्भा- न्संस्थाप्यापः पूरणीयाः क्रमेण ॥ २४ ॥ गोमूत्रगोमयोदक- पयोदधिघृतांशकाः क्रमात्प्रोक्ताः । एकार्धधातुसत्त्वा द्ये सर्वाणि वा समानि स्युः ॥ २५ ॥ तारभवाभिरथग्र्भिः क्रमेण संयोजयेच गव्यानि । आत्माष्टाक्षरमन्त्रै- रथ वा योज्यानि पञ्चभिः पञ्च ॥ २६ ॥ यद्येककलशक्लृप्तौ विधिरपि पञ्चाशदोषधिक्वाथैः । पूरयतु पञ्चभिर्वा गव्यैस्तोयात्मकेऽष्टगन्धाप्तिः ॥ २७ ॥ 1. मध्यप्रोत्थं ; 2. पञ्च कुम्भाः स्युश्वेदेवं . १३४ प्रपञ्चसारे 'अत्रोत्तरस्यां दिशि पङ्कजे च पलाशचर्मोत्क्कथितैः पयोभिः । संपूरणीयः कलशो यथाव- त्सुवर्णवस्त्रादियुतः सुशुद्धः ॥ २८ ॥ द्वारेषु मण्डपस्य द्वौ द्वौ ' कलशौ सुशुद्धजलपूर्णौ । संस्थाप्य च वसनाद्यैः प्रवेष्टयित्वाभिपूजनीयाः स्युः ॥ २९ ॥ ऊर्ध्वेन्द्रयाम्यसौम्य प्रत्यक्षु च भूतवर्णकाः क्रमशः । हृल्लेखाद्यास्तदनु च पूर्ववदङ्गानि पूजनीयानि ॥ ३० ॥ गायत्री शतमखजे निशाचरोत्थे सावित्री पवनगते सरस्वतीं च । ब्रह्माणं हुतभुजि वारुणे च विष्णुं -- बीजेऽग्रे समभियजेदशमैशे ॥ ३१ ॥ 1. अस्यो • ; 2. कुम्भौ; 3 बीजे:. नवम: पटलः । १३५ रक्ता रक्ताकल्पा चतुर्मुखी कुण्डिकाक्षमालेऽब्जे । दधती प्राग्बीजस्य गायत्री तादृशोऽग्निगो ब्रह्मा ॥ ३२ ॥ अरिदरगदाब्जहस्ता किरीटकेयूरहारसंभिन्ना । 'निशिचरबीजसमुत्था सावित्री वरुणगस्तथा विष्णुः ॥ ३३ ॥ टङ्काक्षाल्यभयवरा- न्दधती च श्रीक्षणेन्दुकलितजटा । वाणी वायव्यस्था विशदाकल्पा तथेश्वरस्त्वैशे ॥ ३४ ॥ ब्रह्माण्याद्यास्तद्बहि रनन्तरं वासवादिकाशेशाः । पूज्याः पूर्वोक्तरुप- चारैः सम्यङ्निजेष्टाप्त्यै ॥ ३५ ॥ 1. निशि वा १३६ प्रपञ्चसारे यदि नवकलशास्तेष्वथ संपूज्या मातरोऽष्टदिक्रमशः । इल्लेखाद्याः पूज्या मध्यादिषु पञ्च चेद्भवन्ति घटाः ॥ ३६ ॥ प्रथमं घृतजं ततः कषायं दधि पश्चात्कथितं पयः कषायम् । अथ तैलकषायकामधूत्थं द्विजवृक्षोत्कथितं ततोऽभिषिश्चेत् ॥ ३७ ॥ द्वार कुम्भघृतैरथ सलिलैः पुनरन्तरासेकम् । कुर्यान्मुखकरचरण- क्षालनमपि साचमादिकं मन्त्री ॥ ३८ ॥ विधिवत्कृताभिषेको द्वात्रिंशल्लक्षमथ जपेन्मन्त्रम् । निजकरदत्तार्थ्यामृत- जलपोषितभानुमत्प्रभोऽनुदिनम् ॥ ३९ ॥ नवमः पटलः । १३७ भूत्वा शक्तिः स्वयमथ दिनेशेन्दुवैश्वानराणा- मैक्यं कुर्वन्प्रणवमनुना शक्तिबीजेन भूयः । हिरपि समाधाय बुद्धचैव तेजो कुष्य जप्यान्मन्त्री ज्वलनहुतशिष्टान्नभुक्प्रोक्तसंख्यम् ॥ ४० ॥ अथ तु हविष्यप्राशी नक्काशी वा जपेन्मनुं त्वेवम् । परिपूर्णायां नियमित- जपसंख्यायां समारभेोमम् ॥ ४१ ॥ जपाद्दशांशं जुहुयादथाष्ट- द्रव्यैर्गुडक्षौद्रघृतावसिक्तैः । वर्णौषधीसिद्धजलाभिषेकं कृत्वा द्विजानभ्यवहारयेच्च ॥ ४२ ॥ ततोऽस्य प्रत्ययास्त्वेवं जायन्ते जपतोऽमुना । अधिष्ठितं निश्यदीपं निस्तमिस्रं गृहं भवेत् ॥ ४३ ॥ ततः कृत्वा जपह्रासं समुपासीत शक्तितः । युक्तात्मा नित्यत्येोगेन प्रागुक्तविधिनार्चयेत् ॥ ४४ ॥ १३८ प्रपञ्चसारे अश्वत्थविप्राङ्घ्रिपबिल्वनाम्नां तर्कारिक लक्षक सेव्यकानाम् । प्रसारिणीकाष्मरिरोहिणाना- मुदुम्बरीपाटलडुण्डुकानाम् ॥ ४५ ॥ पलं पलार्ध त्वथ कर्षमध तेषां तु भागः कथितः क्रमेण । एतैः श्रितेनाथ जलेन वासौ संपूरणीयः कलशो यथावत् ॥ ४६ ॥ प्रत्यब्द सेकाद्भविता शतायु- न्दिरावावहितश्च रोगैः । मासेषु जन्मस्वभिषेकतः स्या- दुर्बीपतिर्मक्षु महापृथिव्याः ॥ ४७ ॥ अर्काभस्तेजसासौ भवति नलिनजा संततं किंकरी स्या- द्रोगा नश्यन्ति दृष्ट्वा तमथ च धनधान्याकुलं तत्समीपम् । देवा नित्यं नमोsस्मै विदधति फणिनो नैव दंशन्ति पुत्राः संपन्नाः स्युः सपुत्रास्तनुविपदि परं धाम विष्णोः स भूयात् ॥ 1. भागाः कथिताः. नवमः पटलः । शक्तिप्रग्रस्तसाध्यं हरशरकलमायावृतं वह्निगेह- १३९ द्वन्द्वाश्रिप्राप्तमायं प्रतिविवरलसच्छक्तिबद्धं बहिश्च । कोणोद्दण्डदण्डि त्रिलिपि हरिहराबद्धगण्डं विलोमा- र्णावीतं कोर्युगाष्टोदरनरहरिचिन्तात्मकं षङ्गुणाख्यम् ॥ षडङ्गलप्रमाणेन वर्तुलं कर्तुरालिखेत् । षडङ्गुलावकाशेन तद्बहिश्च प्रवर्तयेत् ॥ ५० ॥ वर्तुलं तावता भूयस्तद्बहिश्च तृतीयकम् । मध्यवर्तुलमध्ये तु हृल्लेखाबीजमालिखेत् ॥ ५१ ॥ द्वितीयवर्तुलाश्लिष्टमी षच्छिलष्टषडश्रकम् । पुटितं मण्डलं स्पृशन्मध्यवर्तुलम् ॥ ५२ ॥ इन्द्राग्निरक्षोवरुणवाय्वीशान्ताश्रकं लिखेत् । षट्सु कोणान्तरालेषु हृल्लेख षट्कमालिखेत् ॥ ५३ ॥ एकैकान्तरितास्तास्तु संबध्यरितरेतरम् । शिखाभिरान्तराभिस्तु बाह्याबाह्याभिरान्तराः ॥ ५४ ॥ मध्यवर्तुलसंस्थाया इल्लेखायाः कपोलयोः । अरे साध्यनामार्ण साधकस्योत्तरे लिखेत् ॥ ५५ ॥ १४० प्रपञ्चसरे अन्तरानिश्रियोः कर्म साधकांशे समालिखेत् । हरमायाः पञ्चकृत्वः स्युर्बहिर्गर्भवर्तुलम् ॥ ५६ ॥ तद्बहिः शरमायाश्च कलमायाश्च तद्बहिः । लिखेन्मायां बिन्दुमतीं वह्नेः कोणेषु षट्स्वपि ॥ ५७ ॥ वह्नेः कोणत्रये श्रीमत्पक्षीये वितयं लिखेत् । शक्तिश्रीकामबीजानां सदण्डं साधकार्णवत् ॥ ५८ ॥ वस्तु वह्निपक्षीये तान्येवादण्डवन्ति च । संसाध्य नामवर्णानि स्पष्टनिष्टानभानि च ॥ ५९ ॥ बाह्यरेखामन्तरा स्युर्वर्णाः क्रमगताः शुभाः । तद्बहिः प्रतिलोमाश्च ताः स्युर्लेखकपाटवात् ॥ ६० ॥ ततो विदर्भितं भूमेर्मण्डलद्वयमालिखेत् । 'महादिकथनृसिंहाणै चिन्तारत्नाश्रिताश्रकम् ॥ ६१ ॥ बहिः षोडशशूलाङ्कं शोभनं व्यक्तवर्णवत् । एतद्यन्त्रं समालिख्य पद्ममारचयेत्ततः ॥ ६२ ॥ रुचिरद्वादशदलं ' षट्त्रिंशत्के सरोज्ज्वलम् । पूर्वोक्तलक्षणोपेतं शुभं दृष्टिमनोहरम् ॥ ६३ ॥ 1. वह्नेस्तु ; 2. स्युर्लेखाकपाटवत्; 8. रुचिरं ; 4. षडूिंशत्. नवम: पटलः । १४१ अभ्यर्य पीठं नवशक्तिकान्त- मङ्गानि बीजेषु च षट्सु भूयः । गाय विसावित्रिसरस्वतीश्च यजेदथ श्रीरतिपुष्टिसंज्ञाः ॥ ६४ ॥ ब्रह्माणमथ च विष्णुं महेश्वरं धनदमदनगणनाथान् । अभ्यर्चयेच्च षट्स्वपि वहेः कोणेषु तद्बहिः क्रमशः ॥ ६५ ॥ रक्तामनङ्गकुसुमां कुसुमातुरां च नित्यामनङ्गमदनां मदनातुरां च । गौरीं तथैव गगनां गगनस्य रेखां पद्मां भवप्रमथिनीं शशिशेखरां च ॥ ६६ ॥ एता द्विषट् प्रतिदलं प्रतिपूज्य शक्ती- स्तद्वाह्यतो यजतु मातृगणं क्रमेण । इन्द्रादिकान्बहिरतश्च तदायुधानि संपूज्य पूर्वविधिनामुमथाभिषिश्चेत् ॥ ६७ ॥ १४२ प्रपञ्चसारे योऽमर्चयति मुख्यविधानं सिद्धशक्तिरपि सञ्जपहोमैः । स श्रियो निलयनं त्रिदशानां वन्द्यतां व्रजति विष्णुसमानः ॥ ६८ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमच्छ्रकरभगवतः कृतौ प्रपञ्चसारे नवमः पटलः ॥ 臨 दशमः पटलः ॥ अथ वक्ष्ये संग्रहतो द्वादशगुणिताख्यमद्य यन्त्रवरम् । संपूज्य येन शक्ति भुक्तेर्मुक्तेर्व्रजेन्नरोऽनुभवम् ॥ १ ॥ व्याहृत्य वीतशक्तिज्वलन पुरयुग द्वन्द्व संध्युत्थशक्त्या - वीतं कोणात्तदुर्बीजकमनु च कपोलात्तगायत्रिमन्त्रम् । आग्नेयावीतमर्णैर्वृतमनुविगतैर्भूपुराभ्यां च रन्ध्रे क्षौचिन्तारत्नकं द्वादशगुणितमिदं यन्त्रमिष्टार्थदायि ॥ पूर्वोक्तमानक्लृप्त्या मन्त्री त्रितयं विलिख्य वृत्तानाम् । विलिखेदन्तर्वर्तुल- मनु शक्ति स्पष्टबिन्दुनिष्ठानाम् ॥ ३ ॥ द्वादशमध्यमवर्तुल- रेखा बहिरालिखे च शक्तीनाम् । १४४ प्रपञ्चसारे हरियमवरुणधनाधिप- दिक्षु द्वे द्वे च ताः क्रमेण स्युः ॥ ४ ॥ ईशाभिनिऋतिमरुतां दिक्ष्वेकैकं विलिख्य भूयश्च । बीजान्तरालनिर्गत- शूलाङ्कितकोणषट्कयुगमः ॥ ५ ॥ मण्डलयुगयुगलं स्या- दस्पृशदान्तरितवर्तुलं विशदम् । शक्ति प्रवेष्टयेश प्रतिलोमव्याहृतीभिरन्तःस्थाम् ॥ ६ ॥ रविकोणेषु दुरन्तां मायां विलिखेदयामबिन्दुमतीम् । एकैकान्तरितास्ताः परस्परं शक्तयश्च संबध्यः ॥ ७ ॥ गायत्री प्रतिलोमतः प्रविलिखेदग्नेः कपोलं बहि- द्वे द्वे चैव लिपी बहिश्च रचयेन्द्र्यस्तथा त्रिष्टुभम् । दशमः पटलः । १४५ वर्णान्प्रानुगतांश्च भूपुरयुगे सिंहाख्यचिन्तामणि लिख्याद्यन्त्रमशेषदुःखशमनायोक्तं पुरा देशिकैः ॥ ८ ॥ बहिरपि षोडशपत्र वृत्तविचित्रं च राशिवीथियुतम् । रचयेन्मण्डलमेवं पुनर्यथोक्तं निधापयेत्कलशम् ॥ ९ ॥ आदावङ्गावरणमनु हृल्लेखिकाद्याश्चतस्रो ब्रह्माण्याद्याः षोडशविकृतिद्वन्द्वसंख्याक्रमेण । भूतसृभिरथो षष्टिभिर्लोकपालै- वज्राद्यैरष्टुममपि समभ्यर्चयेद्भक्तिनम्रः ॥ १० ॥ कराली विकराली च उमा देवी सरस्वती । दुर्गा शची उषा लक्ष्मीः श्रुतिः स्मृतिधृती तथा ॥ ११ ॥ श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः । विद्याहीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥ १२ ॥ रुद्रवीर्या प्रभानन्दा पोषणी ऋद्धिदा शुभा । कालरात्री महारात्री भद्रकाली कपालिनी ॥ १३ ॥ *P. 10 १४६ प्रपञ्चसारे विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निसुम्भसुम्भमथनी महिषासुरमर्दिनी ॥ १४ ॥ इन्द्राणी चैव रुद्राणी शंकरार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ १५ ॥ अम्बिका ह्लादिनी चैव द्वात्रिंशच्छक्तयो मताः । पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च ॥ १६॥ श्रद्धा स्वाहा स्वधाख्या च मायाभिख्या वसुंधरा । त्रिलोकधात्री गायत्री सावित्री विदशेश्वरी ॥ १७ ॥ सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया । विमला सामला चैव अरुणी वारुणी तथा ॥ १८ ॥ प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च । संध्या माता सती हंसा मर्दिका वज्रिका परा ॥ १९ ॥ देवमाता भगवती देवकी कमलासना । त्रिमुखी सप्तमुख्यौ च सुरासुरविमर्दिनी ॥ २० ॥ सम्बोष्ठ्यर्ध्वकेश्यौ च बहुशिना वृकोदरी । रथरेखाह्वया चैव शशिरेखा तथापरा ॥ २१ ॥ दशमः पटल: । पुनर्गगनवेगाख्या वेगा च पवनादिका । भूयो भुवनवेगाख्या तथैव मदनातुरा ॥ २२ ॥ अनङ्गानङ्गमदना भूयश्चानङ्गमेखला । अनङ्गकुसुमा विश्वरूपासुरभयंकरी ॥ २३ ॥ अक्षोभ्यासत्यवादिन्यौ वज्ररूपा शुचिव्रता । वरदा चैव वागीशी चतुःषष्टिः प्रकीर्तिताः ॥ २४ ॥ इष्टा यथोक्तमिति तं कलशं निजं वा पुत्रं तथाप्तमपि शिष्यमथाभिषिश्चेत् । आस्तिक्ययुक्तमथ सत्यरतं वदान्यं विप्रप्रियं कुलकरं च नृपोत्तमं वा ॥ २५ ॥ विधानमेतत्सकलार्थसिद्धि- करं परं पावनमिन्दिराढ्यम् । आयुष्करं वश्यकरं रिपूणां प्रध्वंसनं मुक्तिफलप्रदं च ॥ २६ ॥ पाशाङ्कुशमध्यगया शक्त्याथ जपाचेनाहुतादियुतम् । १४७ १४८ वक्ष्ये यन्त्रविधानं प्रपञ्चसारे त्रैलोक्यप्राभृतायमानमिदम् ॥ २७ ॥ 'अष्टाशान्ता गलाविह गलय वरगाच्पूर्वपाश्चात्त्यषट्कं कोष्टोद्यत्साङ्गसाष्टाक्षरयुगयुगलाष्टाक्षराख्यं बहिश्च । मायोपेतात्मयुग्मस्वरमिलितलसत्केसरं साष्टपत्रं पद्मं तन्मध्यवर्तित्रितयपरिलसत्पाशशक्त्यङ्कुशार्णम् ॥ पाशाङ्कुशावृतमनुप्रतिलोमगैश्च वर्णै: सरोजपुटितेन घटेन चापि । आवीतमिष्टफलभद्रघटं तदेत- यत्रोत्तमं भुवि घटालनामधेयम् ॥ २९ ॥ प्राक्प्रत्यगर्गले हल- मथ पुनराग्नेयमारुते च हयम् । दक्षोत्तरे हवार्ण नैर्ऋतशैवे हरं द्विपङ्क्ति लिखेत् ॥ ३० ॥ विलिखेच कर्णिकायां पाशाङ्कुशसाध्यसंयुतां शक्तिम् । 1. अष्टाशात्तार्गलाविलयवरयुताच्पूर्व • दशम: पटल: १४९ अभ्यन्तराष्ट्रकोष्ठे- ध्वङ्गान्यवशेषितेषु चाष्टाण ॥ ३१ ॥ कोष्ठेषु षोडशस्वथ षोडशवर्ण तथा मनुं मन्त्री । पद्मस्य केसरेष्वथ युगस्वरात्मान्वितां तथा मायाम् ॥ ३२ ॥ त्रिशस्त्रिशः कर्णिकागतान्वर्णान् । पाशाङ्कुशबीजाभ्यां प्रवेष्टयेद्वाह्यतश्च नलिनस्य ॥ ३३ ॥ अनुलोमविलोमगतैः प्रवेष्टयेदक्षरैश्व तद्वाहो । तदनु घटेन सरोज- स्थितेन तद्वक्रकेऽम्बुजं च लिखेत् ॥ ३४ ॥ बिन्द्रन्तिका प्रतिष्ठा संदिष्टा पाशबीजमिति मुनिभि. । १५० प्रपञ्चसारे निजभूर्दहनाप्यायिनि- शशधरखण्डान्वितोऽङ्कुशो भवति ॥ ३५ ॥ पाशश्रीशक्तिस्वर- मन्मथशक्तीन्दिराङ्कुशाश्चेति । एकं कामिनिरञ्जिनि ठद्वयमपरं त्विहाष्टवर्ण स्यात् ॥ ३६ ॥ अथ गौरि रुद्रदयिते योगेश्वरि सकवचास्त्रठद्वितयैः । बीजादिकमिदमुक्तं शाक्तेयं षोडशाक्षरं मन्त्रम् ॥ ३७ ॥ इति कृतदलसुविभूषित- मतिरुचिरं लोकनयनचित्तहरम् । कृतोज्ज्वलं मण्डलमपि पीठाद्यं पुरेव परिपूज्य ॥ ३८ ॥ पूर्वप्रोक्तैः काथै - रेकेनापूर्य पूरयेत्कलशम् । इल्लेखाद्यङ्गाख्यौ दशमः पटलः । मात्र सुरेशादिकौ च कुलिशादिम् ॥ ३९ ॥ १५१ एवं संपूज्य देवीं कलशमनुशुभैर्गन्धपुष्पादिकैस्ता- न्ध्याज्यक्षौद्रसिक्तैस्त्रिशतमथ पृथग्दुग्धवीरुत्समिद्भिः । छ्रुत्वा दत्वा सुवर्णाशुकपशुधरणीदक्षिणार्थं द्विजेभ्यः संपूज्याचार्यवर्य वसुभिरमलधीः संयतात्माभिषिश्चेत् ॥ इति कृतकलशोऽयं सिध्यते येन पुंसा स भवति कविरेनं नित्यमालिङ्गति श्रीः । धनदिनरजनीशैस्तुल्यतेजा महिना निरुपमचरितोऽसौ देहिनां स्यात्पुरोगः ॥ ४१ ॥ जपेच्चतुर्विंशतिलक्षमेवं सुयन्त्रितो मन्त्रवरं यथावत् । हविष्यभोजी परिपूर्णसंख्ये जपे पुनर्होमविधिर्विधेयः ॥ ४२ ॥ पयोद्रुमाणां च समित्सहस्र- षट्कैर्दधिक्षौद्रघृतावसिक्तैः । १५२ प्रपञ्चसारे तिलैश्च तावज्जुहुयात्पयोक्तै- र्द्विजोत्तमानभ्यवहारयेश्च ॥ ४३ ॥ गुरुमपि परिपूज्य काञ्चनाद्यै- पति च मन्त्रमथो सहस्रमात्रम् । भजति च दिनशोऽमुमर्चनायां विधिविहितं विधिमादरेण भूयः ॥ ४४ ॥ संक्षेपतो निगदितो विधिरचनायाः शक्तेरमुं भजतु संसृतिमोचनाय । कान्त्यै श्रियै च यशसे जनरञ्जनाय सिद्ध्यै प्रसिद्धमहसोऽस्य परस्य धाम्नः ॥ ४५ ॥ गजमृगमदकाश्मीरै- मन्त्रितमः सुरभिरोचनोपेतैः । विलिखेदलक्तकरसा- लुलितैर्यन्त्राणि सकलकार्यार्थी ॥ ४६ ॥ राज्या पटुसंयुतया सपाशशक्त्यङ्कुशेन मन्त्रेण । दशम: पटलः । १५३ स्वाद्वक्तयाभिजुह्व- निश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ ४७ ॥ एभिर्विधानैर्भुवनेश्वरीं तां समर्चयित्वाथ जपंश्च मन्त्री । स्तुत्यानयाभिष्टुवतां समग्र- प्रीत्यै समस्तार्तिविभञ्जिकायाः ॥ ४८ ॥ प्रसीद प्रपञ्चस्वरूपे प्रधाने प्रकृत्यात्मिके प्राणिनां प्राणसंज्ञे । प्रणोतुं प्रभो प्रारभे प्राञ्जलिस्त्वां प्रकृत्याप्रत प्रकामप्रवृत्ते ॥ ४९ ॥ स्तुतिर्वाक्यबद्धा पदात्मैव वाक्यं पदं त्वक्षरात्माक्षरस्त्वं महेशि । ध्रुवं त्वां त्वमेवाक्षरैस्त्वन्मयैस्तो- ष्यसि त्वन्मयी वाक्प्रवृत्तिर्यतः स्यात् ॥ ५० ॥ अजाधोक्षजत्रीक्षणाश्चापि रूपं परं नाभिजानन्ति मायामयं ते । १५४ प्रपञ्चसारे स्तुवन्तीशितां त्वाममी स्थूलरूपां तदेतदम्बेह युक्तं ममापि ॥ ५१ ॥ नमस्ते समस्तेशि बिन्दुस्वरूपे नमस्ते रवत्वेन तत्त्वाभिधाने । नमस्ते महत्त्वं प्रपन्ने प्रधाने नमस्ते त्वहंकारतत्त्वस्वरूपे ॥ ५२ ॥ नमः शब्दरूपे नमो व्योमरूपे नमः स्पर्शरूपे नमो वायुरूपे । नमो रूपतेजोरसांभः स्वरूपे नमस्तेऽस्तु गन्धात्मिके भूस्वरूपे ॥ ५३ ॥ नमः श्रोत्रचर्माक्षिजिह्वाख्यनासा- सवाक्पाणिपत्पायुसोपस्थरूपे । मनोबुद्धयहंकारचित्तस्वरूपे विरूपे नमस्ते विभो विश्वरूपे ॥ ५४ ॥ रवित्वेन भूत्वान्तरात्मा दधासि प्रजाश्चन्द्रमस्त्वेन पुष्णासि भूयः । दशमः पटल: । १५५ दहस्यग्निमूर्तिं वहन्त्याहृतं वा महादेवि तेजखयं त्वत्त एव ॥ ५५ ॥ चतुर्वक्रयुक्ता लसद्धंसवाहा रजः संश्रिता ब्रह्मसंज्ञां दधाना । जगत्सृष्टिकार्य जगन्मातृभूते परं तत्पदं ध्यायसीशि त्वमेव ॥ ५६ ॥ विराजत्किरीटा लसच्चक्रशङ्खा वहन्ती च नारायणाख्यां जगत्सु । गुणं समास्थाय विश्वस्थितिं यः करोतीह सोंशोऽपि देवि त्वमेव ॥ ५७ ॥ जटाबद्धचन्द्राहिगङ्गा त्रिणेत्रा जगत्संहरन्ती च कल्पावसाने । तमः संश्रिता रुद्रसंज्ञां दधाना वहन्ती परश्वक्षमाले विभासि ॥ ५८ ॥ सचिन्ताक्षमाला सुधाकुम्भलेखा- धरा श्रीक्षणार्धेन्दुराजत्कपर्दा । १५६ प्रपञ्चसारे सुशुडांशुकाकल्पदेहा सरस्व- त्यपि त्वन्मयैवेशि वाचामधीशा ॥ ५९ ॥ लसञ्चक्रशङ्खा चलत्खङ्गभीमा नदत्सिंहवाहा ज्वलत्तुङ्गमौलिः । द्रवद्दैत्यवर्गा स्तुवत्सिद्धसंघा त्वमेवेशि दुर्गा विसर्गाविहीने ॥ ६० ॥ पुरारातिदेहार्धभागो भवानी गिरीन्द्रात्मजात्वेन यैषा विभासि । महायोगिवन्द्यां महेशासुनाथा महेश्यंबिका तत्त्वतस्त्वन्मयैव ॥ ६१ ॥ लसत्कौस्तुभोद्भासिते व्योमनीले वसन्ती च वक्षःस्थले कैटभारेः । जगद्वल्लभां सर्वलोकैकनाथां श्रियं तां महादेव्यहं त्वामवैमि ॥ ६२ ॥ अजाद्रीगुहाब्जाक्षपोत्रीन्द्रकाणां महाभैरवस्यापि चिह्नं वहन्त्यः । दशमः पटलः । विभो मातरः सप्ततद्रूपरूपाः स्फुरन्त्यस्त्वदंशा महादेवि ताश्च ॥ ६३ ॥ समुद्यद्दिवाकृत्सहस्रप्रभासा सदा संतताशेषविश्वावकाशे । सन्मौलिबद्धेन्दुरेखे सपाशा- ङ्कुशाभीत्यभीष्टात्तहस्ते नमस्ते ॥ ६४ ॥ प्रभाकीर्त्तिकान्तीन्दिरारात्रिसंध्या- क्रियाशातमिस्राक्षुधाबुद्धिमेधाः । स्तुतिर्वा मतिः संनतिः श्रीश्च शक्ति- स्त्वमेवेशि येऽन्ये च शक्तिप्रभेदाः ॥ ६५ ॥ हरे बिन्दुनादैः सशक्त्याख्यशान्तै- नमस्तेऽस्तु भेदैः प्रभिन्नैरभिन्ने । सदा सप्तपाताललोकाचलाब्धि- ग्रहद्वीपधांतुंस्वरादिस्वरूपे ॥ ६६ ॥ नमस्ते नमस्ते समस्त स्वरूपे समस्तेषु वस्तुष्वनुस्यूतशक्ते । १५७ १५८ प्रशंसा अतिस्थूलसूक्ष्मस्वरूपे मद्देशि स्मृते बोधरूपेऽप्यबोधस्वरूपे । ६७ ॥ मनोवृत्तिरस्तु स्मृतिस्ते समस्ता तथा वाक्प्रवृत्तिः स्तुतिः स्यान्महेशि । शरीरप्रवृत्तिः प्रणामक्रिया स्या- त्प्रसीद क्षमस्व प्रभो संततं मे ॥ ६८ ॥ हृल्लेखाजपविधिमर्चनाविशेषा- नेतांस्तां स्तुतिमपि नित्यमादरेण । योऽभ्यस्येत्स खलु परां श्रियं च गत्वा शुद्धं तद्व्रजति पदं परस्य धाम्नः ॥ ६९ ॥ इति हृल्लेखाविहितो विधिरुक्तः संग्रहेण सकलोऽयम् । अस्मिन्निष्णातमना मन्त्री योगी स एव भोगी च ॥ ७० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे दशमः पटलः ॥ एकादशः पटलः ॥ अथ श्रियो मन्त्रविधिः समासतो जगद्धिताय प्रतिवक्ष्यतेऽधुना । सहाङ्गभेदैः सजपार्चनाहुत- क्रमैः समभ्युद्धरणाय दुर्गतेः ॥ १ ॥ वियत्तुरीयस्तु विलोमतोऽनल- प्रदीपितो वामविलोचनाचितः । सचन्द्रखण्डः कथितो रमामनु- मनोरथावाप्तिमहासुरद्रुमः ॥ २ ॥ ऋषिर्भृगुश्छन्दसि चोदिता निचृ- त्समीरिता श्रीरपि देवता पुनः । दृगक्षिकर्णेन मनुस्वरानला- न्वितेन चास्ना विहितं षडङ्गकम् ॥ ३ ॥ १६० प्रपञ्चसारे भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयधृत करकुम्भाद्भिरासिच्यमाना । घाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रिये वः । संदीक्षितोऽथ गुरुणा मनुवर्यमेनं सम्यग्जपेन्निशितधीर्दिननाथलक्षम् । अभ्यर्चयन्नहरहः श्रियमादरेण मन्त्री सुशुद्धचरितो रहितो वधूभिः ॥ ५ ॥ जपावसाने दिनकृत्सहस्र- संख्यैः सरोजैर्मधुरत्रयाक्तैः । हुने तिलैर्वा विधिनाथ बैल्वैः समिदुरैर्मन्त्रिवरस्त्रिभिर्वा ॥ ६ ॥ रुचिराष्ट्रपत्रमथ वारिरुहं गुणवृत्तराशिचतुरश्रयुतम् । प्रविधाय पीठमपि तव यजे- नवशक्तिभिः सह रमां तु ततः ॥ ७ ॥ एकादशः पटलः । विभूतिरुन्नतिः कान्तिर्दृष्टि : ' कीर्त्तिश्च संनतिः । पुष्टिराकृष्टिऋद्धिश्च रमाया नव शक्तयः ॥ ८ । आवाह्य सम्यक्कलशे यथाव- समर्चनीया विधिना रमासौ । जप्त्वा यथाशक्ति पुनर्गुरुस्तु संसेचयेत्संयतमात्मशिष्यम् ॥ ९ ॥ अङ्गैः प्रथमावृतिरपि . मूर्तीभचतुष्कनिधियुगैरपरा । शक्तयष्टकेन चान्या चरमा ककुबीश्वरैः समभ्यर्च्य ॥ १० ॥ वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः । दमकः शललश्चैव गुग्गुलुश्च कुरण्डकः ॥ ११ ॥ १६१ बाकी विमला चैव कमला वनमालिका । विभीषिका द्राविका च शांकरी वसुमालिका ॥ १२ ॥ 1. कान्तिः सृष्टि:. *P. 11 १६२ प्रपञ्चसारे अयनैव च पूर्वसेवया परितुष्टा कमला प्रसीदति । धनधान्यसमृद्धिसंकुला- मचिरादेव च मन्त्रिणे श्रियम् ॥ १३ ॥ अम्भस्युरोजद्वयसे हि तिष्ठं- त्रिलक्षमेनं प्रजपेच्च मन्त्री । श्रियं विचिन्त्यार्कगतां यथाव- हरिद्रताया भवति प्रमुक्तः ॥ १४ ॥ वसतावुपविश्य कैटभारेः कमलावृक्षतलेऽथ वा त्रिलक्षम् । जपतोऽपि भवेच्च काङ्क्षितार्था - दधिकं वत्सरतो वसुप्रपञ्चः ॥ १५ ॥ जुहुयादशोकदहने सघृतैरपि तण्डुलैः सकलवश्यतमम् । 'खदिरानले त्रिमधुरै- रपि तैर्धनदं च राजकुलवश्यमपि ॥ १६ ॥ एकादश: पटलः । १६३ समधुरनलिनानां लक्षहो मादलक्ष्मी- परिगतमपि जन्तुं प्राप्नुयाच्छ्रीः समग्रा । घनविभवसमृद्ध्या नित्यमाह्लादयन्ती त्यजति न करुणार्द्रा तस्य सा संततिं च ॥ १७ ॥ बिल्वं श्रीसूक्तजापी निजभुवि मुखजो वर्धयित्वास्य पूर्व पत्रैस्त्रिस्वादुयुक्तैः कुसुमफलसमिद्भिस्ततस्कन्धभैदैः । तन्मूलैर्मण्डलात्प्राक्सुनियतचरितोऽसौ हुतान्निर्मलात्मा रूपं पश्येद्रमायाः कथमपि न पुनस्तत्कुले स्यादलक्ष्मीः ॥ हृदयकमलवर्णतः परस्ता- दमृतमनन्तयुगं ततश्च सिन्यै । हुतवहदयितेत्यसौ रमाया: प्रवरधनार्थिभिरर्थितो हि मन्त्रः ॥ १९ ॥ दक्षोऽस्य स्यादृषिश्छन्दसि सुमतिभिरुक्तो विरा देवता च श्रीदेवीपद्मिनीभ्यां हृदयकशिरसी विष्णुपत्न्या शिखा च । मेदोरेफाह्रदार्णैरपि च कमलरूपाक्षरैवर्मसास्त्रां ताराद्याभिर्नमोन्ताभिरिति निगदितं जातियुक्ताभिरङ्गम् ॥ १६४ प्रपञ्चसारे पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोः सरोजा देहोत्थाभिः प्रभाभिस्त्रिभुवनमखिलं भासुरा भासयन्ती । मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमञ्जीरकाची- मैवेयोर्म्यङ्गदाढ्या घृतमणिमकुटा श्रेयसे श्रीभवेद्वः ॥ २१ ॥ ध्यात्वैवं श्रियमपि पूर्वक्लप्तपीठे पद्मादौ प्रथममथार्चयेत्तदङ्गैः । अष्टाभिर्दलमनुशक्तिभिस्तदन्ते लोकेशैरिति विधिनार्चयेत्समृद्धधै ॥ २२ ॥ दीक्षातो जपतु रमारमेशभक्तो लक्षाणां दशकममुं मनुं नियत्या । स श्रीमान्बहुधनधान्यसंकुल: स- मेधावी भवति च वत्सरेण मन्त्री ॥ २३ ॥ इति मन्त्रजपातधीर्मधुर- वितयैरयुतं जुहुयात्कमलैः । परिशुद्धमना नचिरात्स पुन- लभते निजवाञ्छितमर्थचयम् ॥ २४ ॥ एकादश: पटलः । १६५ समुद्रगायामवतीर्य नद्यां स्वकण्ठमात्रे पयसि स्थितः सन् । त्रिलक्षजाप्याढ्यतमोऽब्दमात्रा- न्मन्त्री भवेन्नात्र विचारणीयम् ॥ २५ ॥ नन्द्यावर्तेर्जुहुत भगभेऽभ्यर्च्य लक्ष्मीं सहस्रं तावद्वैस्वैस्त्रिमधुरयुतैर्वा फलैः पौर्णमास्याम् । पञ्चम्यां वा सितसरसिजैः शुक्रवारेऽच्छपुष्पै- रन्यैर्मासं प्रतिहुतविधिर्वत्सरैः स्याद्धनाढ्यः ॥ २६ ॥ ताररमामायाश्रीः कमले कमलालये प्रसीदयुगम् । बीजानि तानि पुनरपि समहालक्ष्मीहृदिन्दिरामन्त्रः ॥ २७ ॥ त्रिभिस्तु व ैर्हृदयं शिरोभिः tereafter शिखा त्रिवर्णा 1 त्रिभिस्तथा वर्म चतुर्भिरखं . पृथक् त्रिबीजापुटितैस्तदङ्गम् ॥ २८ ॥ १६६ प्रपञ्चसारे हस्तोद्यद्वसुपात्रपङ्कजयुगादर्शा स्फुरन्नूपुर- ग्रैवेयाङ्गदहारकङ्कणमहामौलिज्वलत्कुण्डला । पद्मस्था परिचारिकापरिवृता शुक्लाङ्गरागांशुका देवी दिव्यगणानता भवदद्यप्रध्वंसिनी स्याद्रमा ॥२९॥ लक्षं जपेन्मनुमिमं मधुरत्रयाक्कै - बैल्वैः फलैः प्रतिहुनेदयुतं तदन्ते । : आराधयेदनुदिनं प्रतिवक्ष्यमाण- मार्गेण दुर्गतिभयाद्रहितो भवेत्सः ॥ ३० ॥ श्रीधर हृषीकेशो वैकुण्ठो विश्वरूपकः । वासुदेवादयश्चाङ्गावरणात्समनन्तरम् ॥ ३१ ॥ भारती पार्वतीचान्द्रीशचीभिरपि संयुता । दमकादिस्तृतीयानुरागाद्यैश्च चतुर्थ्यपि ॥ ३२ ॥ अनुरागो विसंवादो विजयो वल्लभो मदः । - । हर्षो बलश्च तेजश्चेत्यष्टौ बाणा महाश्रियः ॥ ३३॥ अनन्तब्रह्मपर्यन्तैः पञ्चमीन्द्रादिभिर्मता । चक्रपद्मान्तिकैः षष्ठीवजाद्यैरावृतिः श्रियः ॥ ३४ ॥ एकादश: पटलः । १६७ संपूज्यैवं श्रियमनुदिनं यो जपे मन्त्रमेनं • प्रोक्तां संख्यां सहुतविधिमयुच्छ्रिता प्राप्य लक्ष्मीम् । द्वित्रादवग्भवति पशुपुत्रादिभोगैः समृद्धो वर्षाद्देहापदि च पदमभ्येति नित्यं स विष्णोः ॥ ३५ ॥ श्रीमन्त्रेष्विति गदितेषु भक्तियुक्तः श्रीसूक्तान्यपि च जपेद्यजेद्भुनेश्च । सूक्ते तु प्रथमतरे स्वयं मुनिः स्या- दन्येषां मुनय 'इमे भवन्ति भूयः ॥ ३६ ॥ आनन्दः कर्दमचैवं चिक्लीतञ्चेन्दिरासुतः । ऋचामथो तदन्यासामृषयः समुदीरिताः ॥ ३७ ॥ आद्ये सूक्तत्रये च्छन्दोऽनुष्टुप्कांसे बृहत्यपि । तदन्त्ययोस्त्रिष्टुबाख्यां परस्तादृष्टके पुनः ॥ ३८ ॥ अनुष्टुबन्त्ये प्रस्तारपङ्क्तिश्छन्दांसि वै क्रमात् । श्रयग्नी स्यातां देवते च न्यासाङ्गविधिरुच्यते ॥ ३९ ॥ 1. अमी. १६८ मूर्धाक्षिकर्णनासा- प्रपञ्चसरे मुखगलदोर्हृदयनाभिगुह्येषु । पायूरुजानुजङ्घा- चरणेषु न्यसतु सूक्तकैः क्रमशः ॥ ४० ॥ सहिरण्मयी चं चन्द्रा- रजतहिरण्यत्रजे हिरण्याख्या । अङ्गानि जातियुञ्ज्यथ हिरण्यवर्णाह्वया तथास्त्रं स्यात् ॥ ४१ ॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च । मणिमकुट विचित्रालंकृताकल्पजातै- भवतु भुवनमाता संततं श्रीः श्रिये वः ॥ ४२ ॥ प्रारभ्याच्छां प्रतिपद्मथ प्राप्तदीक्षो वियुक्त- स्तन्वङ्गीभिस्तनुविमलवासाः सुधौतद्विजाद्यः । एकादश्यामपि परिसमाप्यार्कसाहस्रिकान्तं जापं मन्त्री प्रयजतु रमां प्राक्तनप्रोक्तपीठे ॥ ४३ ॥ एकादश: पटलः । १६९. पद्मा पद्मवर्णा पद्मथार्द्रा च तर्पयन्त्यभिधा । तृप्ता ज्वलन्त्यभिख्या स्वर्णप्राकारसंज्ञका चेति ॥ ४४ ॥ मध्ये दिशाधिपाङ्गा- वृत्योरेतास्ततश्च वज्रादीन् । प्रयजेच्चतुरावरणं निगदितमिति सूक्तकल्पितविधानम् ॥ ४५ । अन्नघृताभ्यां जुहुया- दर्चास्वष्टोत्तरं शतं मन्त्री । आवाहनासनार्घ्यक- पाद्याचमनमधुपर्कसेकानि ॥ ४६ ॥ वासोभूषणगन्धा- न्सुमनोयुतधूपदीप भोज्यानि । सोद्वासनानि कुर्या - द्भक्तियुतः पञ्चदशभिरथ मनुभिः ॥ ४७ ॥ १७० प्रपञ्चसरे व्यस्तैरपि च समस्तैः पूजायां संयतात्मकः सिद्धचै । 'पक्कैर्बिल्वसमिद्भिः पयोन्धसा सर्पिषा क्रमाज्जुहुयात् ॥ ४८ ॥ एकैकं त्रित्रिशतं द्वादश्यां भोजयीत विप्रांश्च । मन्दारकुन्दकुमुदक- नन्द्यावर्ताह्नमालतीजात्यः ॥ ४९ ॥ कहारपद्मरक्तो- त्पलकेत चम्पकादयो ग्राह्याः । परिषिचेत्त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ ५० ॥ आदित्याभिमुखो जप्यात्तावत्तावश्च तर्पयेत् । अर्चयेद्विधिना तेन दिनशो जुहुयात्त्रिशः ॥ ५१ ॥ एवं करोति षण्मासं योऽसौ स्यादिन्दिरापतिः । उद्धमात्र नलिने नवनीतं विनिक्षिपेत् ॥ ५२ ॥ 1, पद्म i एकादशः पटलः । सकर्णिके सकिञ्जल्कोदरे पत्रान्तरालके । पुनः पद्मं तदुद्धृत्य समिद्धे तु हुताशने ॥ ५३ ॥ जुहुयादन्त्ययाथच शतमष्टोत्तरं जपेत् । चत्वारिंशच्छुक्रवारैर्महाश्रीस्तस्य जायते ॥ ५४ ॥ कांसोऽस्मीत्यनया सम्यगेकादश घृताहुतीः । षण्मासं जुह्वतो नित्यं भूयात्प्रायो मन्दिरा ॥ ५५ ॥ सूतैरेतैर्जुहुत जपताभ्यर्चयीतावगाहे- त्सिश्वेद्व दिनमनु तथा संयतस्तर्पयीत । संशुद्धात्मा विविधधनधान्याकुलाभ्यन्तरोऽसौ मन्त्री सर्वैर्भुवि बहुमतः श्रीमतां स्यात्पुरोगः ॥ श्रीलक्ष्मीर्वरदा विष्णुपत्नी च सवसुप्रदा । हिरण्यरूपा सस्वर्णमालिनी रजतस्रजा ॥ ५७ ॥ ससुवर्णप्रभा स्वप्राकारा पद्मवासिनी । पद्महस्ता पद्मपूर्वप्रिया मुक्तापदादिका ॥ ५८ ॥ अलंकारा तथा सूर्या चन्द्रा बिल्वप्रियेश्वरी । भुक्तिः प्रपूर्वा मुक्तिश्च विभूत्यृद्धिसमृद्धयः ॥ ५९ ॥ १७१ १७२ प्रपञ्चसारे तुष्टिः पुष्टिश्च धनदा' तथान्या तु धनेश्वरी । श्रद्धा सभोगीनी भोगदात्री धातृविधातृके ॥ ६० ॥ द्वात्रिंशदेता : श्रीदेव्या ये मन्त्राः समुदीरिताः । तारादिका नमोन्ताश्च तैरर्चासु बलि हरेत् । तर्पयेच्च महादेवों दिनादौ मन्त्रवित्तमः ॥ ६१ ॥ नाभ्यक्तोऽद्यान्न नग्नः सलिलमवतरेन्न स्वपेद्वाशुचिः स- न्नाभ्यज्यान्नैव चाद्यात्तिलरुहलवणे केवले नैव दोषाम् । बके लिम्पेद्वन्नानृतमपि मलिनः स्यान्न बिम्बाम्बुजन्म- द्रोणान्नो धारयेत्के भुवमपि न वृथैवालिखेदिन्दिरार्थी ॥ सुविमलचरितः स्याच्छुद्धमाल्यानुलेपा- भरणवसनदेहो मुख्यगन्धोत्तमाङ्गः । सुविशदनखदन्तः शुद्धधीर्विष्णुभक्तो विमलरुचिरशय्यः स्याचिरायेन्दिरार्थी ॥ ६३ ॥ दुष्टां कष्टान्ववायां कलहकलुषितां मार्गदृष्टामनिष्टा- मन्यासक्तामसक्तामतिविपुलकृशाङ्गीमतिह्रस्वदीर्घाम् । एकादश: पटल: । रोगात भोगलोलां प्रतिपुरुषचलां राजकान्तामकान्तां काकाक्षीमेकचारां ग्रहकुसुमयुतां न स्पृशेदिन्दिरार्थी ॥ शान्तः शश्वत्स्मितमधुरपूर्वाभिभाषी दयाद्रों देवाचार्यातिथिदहनपूजारतः पुण्यशीलः । नित्यस्त्नायी नियमनिरतः प्रत्यगाशामुखाशी १७३ मन्त्री वर्णाश्रमदृढरतिः स्याच्चिरायेन्दिरार्थी ॥ ६५ ॥ श्रीमन्त्रभक्तः श्रितविष्णुदीक्षः श्रीसूक्तजापी शितधीः सुशीलः । स्वदारतुष्टो मितभाषणाशी लोकप्रियः स्याञ्चिरमिन्दिरार्थी ॥ ६६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकादशः पटलः ॥ द्वादशः पटलः ॥ अथ रमाभुवनेशिमनोभवै- स्त्रिपुटसंज्ञकमन्त्रमुदीरितम् । सकलवर्गफलाप्तियशस्करं जगति रञ्जनकृत्कविताकरम् ॥ १ ॥ बीजैस्त्रिभिर्द्विरुक्तैः कुर्यादङ्गानि साधकः सिद्ध्यै । पूर्वतरेरितयोर्वा द्वयोरथैकं तदङ्गयोः प्रभजेत् ॥ २ ॥ नवकनकभासुरोर्वी- विरचितमणिकुट्टिमे सकल्पतरौ । रनवरबद्ध सिंहा- सननिहितसरोरुहे समासीनाम् ॥ ३ ॥ द्वादश: पटल: । आबद्धरत्नमकुटां मणिकुण्डलोद्य- · स्केयूरकोर्मिरशनाह्वयनूपुराढ्याम् । ध्यायेद्धृताब्जयुगपाशकशाङ्कुरेक्षु- चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ ४ ॥ चामरमुकुरसमुद्गक- ताम्बूलकरङ्कवाहिनीभिश्च । दूतीभिः समभिवृतां पश्यन्तीं साधकं प्रसन्नद्दशा ॥ ५ ॥ योगेश्वरीमिति विचिन्त्य जपेच्च मन्त्र - मादित्यलक्षमथ मन्त्रितमो जपान्ते । श्रीराजवृक्षसमिधां सजपातवानां तावत्सहस्रसमितं मधुरैर्जुहोतु ॥ ६ ॥ अङ्गैर्लक्ष्मीहरिगिरिसुताशर्वरत्यङ्गजातैः षट्कोणस्थैधियुगयुतैस्तद्बहिर्मातृभिश्च । योषिद्रूपैर्बहिरपि यजेल्लोकपालैस्तदेत- १७५. त्प्रोक्तं देव्या अपि सुरगणैः पूजनीयं विधानम् ॥ ७ ॥ 1. लोके.. १.७६ प्रपञ्चसरे लक्ष्मीगौरीमनसिशयबीजानि कृत्वा कलायां तां वा बिन्दौ तमपि गगने तञ्च सिन्दूरवर्णम् । स्मृत्वा बुद्धया भुवनमखिलं तन्मयन्वेन मन्त्री देवान्वश्यानपि वितनुते किं पुनर्मर्त्यजातीन् ॥ ८ ॥ य इमं भजते मनुं मनस्वी विधिना वा पुनरर्चयेद्विधानम् । स तु सम्यगवाप्य दृष्टभोगा- न्परतस्तत्पदमैशमेति धाम ॥ ९ ॥ सहृदयभगवत्यै दान्तरण्यै धरार्णाः सणिधरशिवधार्णारे द्विठान्ता ध्रुवाद्याः । गदितमिति धराया मन्त्रमुत्कृष्टधात्री- सुखसुतधनधान्यप्राप्तिदं कीर्त्तिदं च ॥ १० ॥ ऋषिरपि वराह उक्त- श्छन्दो निचृदस्य देवता धरणी । मनुनामुनैव च पदैः षोढा भिन्नेन निगदितोऽङ्गविधिः ॥ ११ ॥ द्वादश: पटल: । १७७ मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा चभ्भाच्छाल्यप्रचुम्बच्छुकलसितकरा प्राप्तनीलोत्पला च । रत्नाकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना दिश्याद्विश्वंभरा वः सततमभिमतं वल्लभा कैटभारेः ॥ लक्षायता च सदशांशहुतावसाना प्रोक्ता धराहृदयमन्त्रजपक्रिया स्यात् । सर्पिष्मता सुविमलेन पयोन्धसास्य होमो विधि: सकलसिद्धिकरः किलायम् ॥ १३ ॥ पीठे विष्णोः पूजयेत्पूर्वमन्त्र- भूवह्नयम्बुप्राणसंज्ञैश्च भूतैः । शान्त्यन्ताभिः शक्तिभिः साकमाशा- पालैः पृथ्वीं संयतात्मोपचारैः ॥ १४ ॥ पुष्पैः प्रियङ्गोर्मधुरत्रयाक्तै- नीलोत्पलैर्वापि तथारुणैस्तैः । सहस्रमानं प्रतिजुह्वतः स्या- गौर्गोमती सस्यकुलाकुला च ॥ १५ ॥ *P. 12 १७८ प्रपञ्चसारे पिङ्गलां पृथुलशालिमञ्जरीं यो जुहोति मधुरत्रयोक्षिताम् । नित्यशः शतमथास्य मण्डला- द्धस्तगा भवति विस्तृता मही ॥ १६ ॥ भृगोस्तु वारे निजसाध्यभूभृ- द्विलोलिताम्भः परिपक्वमन्धः । पयोघृताक्तं जुहुयात्सहस्रं दुग्धेन वा तेन दिनावतारे ॥ १७ ॥ मासादनुभृगुवारमेष होम: संपन्नान्समुपनयेद्धरा प्रदेशान् । पुत्रान्वा पशुमहिषेष्टजुष्टपुष्टा- मिष्टामप्यनुदिनमिन्दिरां समग्राम् ॥ १८ ॥ संक्षेपतो हृदयमन्त्रविधिर्धरायाः प्रोक्तो हिताय जगतां रहितक्षमाणाम् । एनं भजन्निति धराकमलासमृद्धः स्यादत्र सिद्धिमपरत्र परां प्रयाति ॥ १९ ॥ द्वादशः पटलः । १७९ अथ पुरुषार्थचतुष्टय- सिद्धिकरी मन्त्रजापनिरतानाम् । त्वरिताख्येयं विद्या निगद्यते जपहुतार्चनाविधिभिः ॥ २० ॥ भक्तियुतानां त्वरया सिद्धिकरी चेति मन्त्रिणां सततम् । देव्यास्त्वरिताख्या स्या- त्वरितं क्ष्वेलग्रहादिहरणतया ॥ २१ ॥ वर्मद्धर्षे च तदन्त्यः शिवयुक्च रमेऽङ्गनाद्युसाधिलवम् । अन्त्यः स योनिरखा- न्तिकः सतारो मनुर्दशार्णयुतः ॥ २२ ॥ तारान्तेऽखादावपि मायाबीजं प्रयोजयेन्मन्त्री । तेन हि काङ्क्षितसिद्धि- भूयादचिरेण मन्त्रविदाम् ॥ २३ ॥ प्रपञ्चसारे कूर्मादिभ्यां द्वाभ्यां द्वाभ्यामपि पूर्वपूर्वहीनाभ्याम् । कुर्यात्सप्तभिरर्णे- रङ्गानि च षट् क्रमेण मन्त्रज्ञः ॥ २४ ॥ कालिकगलहन्नाभिक- गुरुषु जानुजङ्घन्योः पदयोः । देहे न्यासं कुर्या - न्मन्त्रेण व्यापकं समस्तेन ॥ २५ ॥ श्यामतनुमरुणपङ्कज- चरणतलां वृषलनागमञ्जीराम् । स्वर्णीशुकपरिधानां वैश्याहिद्वन्द्वमेखलाकलिताम् ॥ २६ ॥ तनुमध्यलतां पृथुल- स्तनयुगलां करविराजभयवराम् । शिखिपिञ्छनालवलयां गुञ्जाफलगुणितभूषणारुणिताम् ॥ २७ ॥ द्वादशः पटल: । १८१ नृपफणिकेयूरांतां गलविलसद्विविधमणियुताभरणाम् । द्विजनागविहितकुण्डल- मण्डितगण्डद्वयीमुकुरशोभाम् ॥ २८ ॥ शोणतराधरपल्लव- विद्रुममणिभासुरां प्रसन्नां च । पूर्णशशिबिम्बवदना- मरुणायतलोचनत्रयीनलिनाम् ॥ २९ ॥ कुश्वितकुन्तलविलस- न्मकुटाघटिताहिवैरिपिञ्छयुताम् । कैरातीं वनकुसुमो- ज्ज्वलां मयूरातपत्रकेतनिकाम् ॥ ३० ॥ सुरुचिरसिंहसनगां विभ्रमसमुदायमन्दिरां तरुणीम् । तामेनां त्वरिताख्यां ध्यात्वा कुर्याज्जपाचे नाहोमान् ॥ ३१ ॥ ૧૯૨ दीक्षां प्राप्य गुरोरथ प्रपञ्चसरे लक्षं जप्याद्दशांशकं जुहुयात् । बिल्वसमिद्भिस्त्रिमधुर- युक्ताभिः साधकः सुसंयतधीः ॥ ३२ ॥ अष्टहरिविधृतसिंहा- सने समावाह्य सरसिजे देवीम् । अङ्गैः सह प्रणीतां गायत्री पूजयेद्दिशां क्रमतः ॥ ३३ ॥ हुङ्काराख्या खेचरि चण्डेसच्छेदनी तथा क्षपणी । भूयः स्त्रियाह्वया हूं- कारीसक्षेमकारिकाः पूज्याः ॥ ३४ ॥ सश्रीबीजा लोके- शायुधभूषान्विता दलाध्रेषु । फट्कारी चाप्य शरासशरधारिणी च तद्वाह्ये ॥ ३५ ॥ द्वादश: पटलः । १८३ सस्वर्णत्रयष्ट्यौ द्वाःस्थे पूज्ये पुनर्जयाविजये । -कृष्णो बर्बर केशो लगुडधरः किंकरश्च तत्पुरतः ॥ ३६ ॥ अरुणैश्चन्द्रन कुसुमै- वनजैरपि धूपदीपनैवेद्यैः । प्रवरैश्व नृत्तगीतैः समर्चयेद्भक्तिभारनम्रतनुः ॥ ३७ ॥ जपहुतपूजाभेदै- रिति सिद्धे मन्त्रजापिनो मन्त्रे । -नारीनरनरपतयः कुर्वन्ति सदा नमस्क्रियामस्मै ॥ ३८ ॥ विद्याधर्यो यक्ष्यः ससुरासुरसिद्धचारणप्रमदाः । अप्सरसश्च विशिष्टाः साधकसक्तेन चेतसाकुलिताः ॥ ३९ ॥ १८४ प्रपञ्चसारे स्मरशरविह्वलिताङ्गयो रोमाञ्चितगात्रवल्लरीललिताः । घनघर्मबिन्दुमौक्तिक- विलसत्कुचगण्डमण्डलद्वितयाः ॥ ४० ॥ विस्पष्टजघनवक्षो- रुहदोर्मूलाः स्खलत्पदन्यासाः । मुकुलितनयनसरोजा: प्रस्पन्दितदशनवसनसंभिन्नाः ॥ ४१ ॥ थमानांशुकचिकुरा मदविवशस्खलितमन्दभाषिण्यः । मृदुतरमस्तकविरचित- नत्यञ्जलयः प्रसादकाङ्क्षिण्यः ॥ ४२ ॥ वीक्षस्व देहि वाचं परिरम्भणपरम सौख्यमस्माकम् । एहि सुरोधानादिषु रंस्यामः स्वेच्छया निरातङ्कम् ॥ ४३ ॥ द्वादशः पटल: । १८५ इत्यादि 'वाणिनीभि विलोभ्यमानो यदा न विक्रियते । मन्त्री तदेत्य वाञ्छित- मखिलं तस्मै ददाति सा देवी ॥ ४४ ॥ योनिं कुण्डस्यान्तः प्रकल्प्य तत्रानलं समाधाय । संपूज्य पूर्व विधिना जुहुयात्सर्वार्थसिद्धये मन्त्री ॥ ४५ ॥ इक्षुशकलैः समृद्धयै दूर्वाभिः स्वायुषे श्रिये धान्यैः । धान्याय यवैः पुष्ट्यै गोधूमैर्ऋद्धये तिलैर्जुहुयात् ॥ ४६ ॥ जम्बूभिः स्वर्णात्यै राजीभिः शत्रुशान्तयेऽक्षतकैः । अक्षयसिद्धचै वकुलैः कीन्यै कुन्दैर्महोदयाय तथा ॥ ४७ ॥ 1. वादिनीभि १८६ अरुणोत्पलैश्च पुष्टयै प्रपञ्चसारे मधूक जैरिष्टसिद्धयेऽशोकैः । पुत्रात्यै पाटलजै: स्त्रीसिद्धधै निम्बजैश्च विद्विष्टधै ॥ ४८ ॥ नीलोत्पलकैस्तुष्टयै चम्पकजैः कनकसिद्धये पद्मः । सह किंशुकैश्च सर्वो- पद्रवशान्त्यै स साधको जुहुयात् ॥ ४९ ॥ हुतसंख्यासाहस्री नियुता वाथायुतान्तिकी भवति । यावत्संख्यो होम- स्तावज्जप्यश्च मन्त्रिणा मन्त्रः ॥ ५० ॥ अनुमन्त्रितैश्च वारिभि- रासेकः क्ष्वेलशान्तिकृद्भवति । तज्जप्तयष्टिघातो मन्त्रितचुलुकोदकाहतिश्च तथा ॥ ५१ ॥ द्वादश: पटलः । १८७ तत्कर्णरन्ध्रजापा- त्सद्यो नश्युर्विषग्रहादिरुजः । तद्यन्त्रस्थापनमपि विषभूतादिप्रशान्तिकृद्भवति ॥ ५२ ॥ आख्यां मध्ये सतारे मनुमथ शतसंयुक्तविंशत्पुटेषु प्रादक्षिण्येन शर्वादिकमनु विलियेनावृत्ति मन्त्री । विंशद्दन्द्वाष्टशूलाकलितविरचितं यन्त्रमेतत्सुजप्तं बद्धं क्ष्वेलग्रहार्ति हरति विजयलक्ष्मीप्रदं कीर्त्तिदं च ॥ आख्यां मध्यगतानले लिखतु दिपङ्किष्वथ स्युः सहूं क्षूं चूं हूं 'करणद्विषष्टिपदके शैवादि कालीमनुम् । नैर्ऋत्यादि तथा क्रमाक्रमवृतं बाह्येऽनलैरावृतं प्रोक्तं निग्रहचक्रमन्तकपुरप्राप्तिप्रदं वैरिणाम् ॥ ५४ ॥ कालीमाररमालीका लीनमोक्षक्षमोनली । मामोदेतत देमोमा रक्षतत्वत्वतक्षरः ॥ ५५ ॥ 1. करणाद्य ० 2. क्रमाद्यम ० ૧૮૮ यमापाटटपामाय प्रपञ्चसारे माटोमोटमा । वामो भूरिरिभूमोवा टरस्त्वस्त्वरीरट ॥ ५६ ॥ वहेर्विण्णम्बनिर्यासकविषमषिभिः सीसपशुके वा शावे पाषाणके वा विलिखतु मतिमान्काकपत्रेण यन्त्रम् । वल्मीके चत्वरे वा क्षततरुविवरे वा निदध्यादराति- मृत्युं प्राप्नोति भूयादवयवविकलो व्याधितः पातितो वा ॥ चक्रे चाष्टाष्टपदे कालीशिवयातुधानखण्डाद्यम् । यमदहनानिलवीतं विलिख्य विषदण्डिमर्कटीलिप्तम् ॥ ५८ ॥ जप्तमधोमुखमेत- द्यत्र तु देशे विनिक्षिपेन्मन्त्री । तत्रोपद्रवमखिलं दिनशः सर्वात्मना भवति ॥ ५९ ॥ द्वादश: पटल: । खण्डेष्वेकाशीतिषु मध्येन्दुगसाध्यं जुंसः पूर्व दिक्स्थचतुष्पङ्गिषु शैखम् । लिख्यालक्ष्मीं शिष्टचतुःषष्ठिषु विद्वा- १८९ नीशाद्यं कन्यादि च बाह्ये त्वरिताख्याम् ॥ ६० ॥ दिग्दिक्संस्थामस्त्रपदाभिर्वषडन्तां मेदोमालावेष्टितबिम्बं घटवीतम् । पद्मस्थं तत्पङ्कजराजद्वदनान्तं प्रोक्तं चक्रं सम्यगिहानुग्रहसंज्ञम् ॥ ६१ ॥ श्रीसामायायामासाश्री सानोयाज्ञेज्ञेयानोसा । मायालीलालालीयामा याज्ञेलाललीलाज्ञेया ॥ ६२ ॥ लाक्षाभिः कुङ्कुमैर्वा विलिखतु धवले वांशुके स्वर्णपट्टे लेखिन्या स्वर्णमय्या दृढमपि गुलिकीकृत्य संधारयेद्यः । कृत्याभ्यो मृत्युतो वा ग्रहविषदुरितेभ्यो विमुक्तः स धन्यो जीवेत्स्वैः पुत्रपौत्रैरपरिमितमहासंपदा दीर्घकालम् ॥ ६३॥ १९० प्रपञ्चसारे चतुःषष्ट्यंशे वा क्रमविदथ लक्ष्मीमनुममुं शिवाद्यं नैर्ऋत्यादिकमपि चतुर्णामृतवृतम् । बहिः स्वच्छे पट्टे कनकविहिते पूर्वविधिना लिखित्वा जप्त्वा निक्षिपतु शितधीर्यत्र तदिदम् ॥६४॥ चक्रमनुग्रहसंज्ञं मन्त्री देशेऽत्र संपदो विरतम् । शुभतरफलदायिन्यो भवन्ति सस्यर्द्धिकालवृष्ट्याद्याः ॥ ६५ ॥ हुंकारे साध्यसंज्ञां विलिखतु तदधः कर्णिकायां च शिष्टा- नष्टौ वर्णान्द लेष्वारचयतु हरमायां त्रिशो 'वेष्टयित्वा । कुम्भस्थं यन्त्रमेतत्सरसिजपुटितं सर्वरक्षाप्रसिद्धयै क्लृप्तं सर्वोपसर्गप्रशमनफलदं श्रीकरं वश्यकारि ॥ ६६ ॥ इति निगदितक्लृप्त्या पूजयेत्तोतलायां मनुमनुदिनमेनं मानयन्मानवः यः । स तु जगति समग्रां संपदं प्राप्य देहा- पदि मुदिततरात्मा युक्तधीर्मुक्तिमेति ॥ ६७ ॥ 1. वेष्टयी । द्वादश: पटलः । १९१ स्मरदीर्घे धरकाग्न्यों- दीर्घाभ्यक्ष्वेलदद्रलान्त शिवाः । अभितः शक्तिनिरुद्धो द्वादशवर्णोऽयमीरितो मन्त्रः ॥ ६८ ॥ द्वाभ्यां वा चैकेन • द्वाभ्यां द्वाभ्यां तथा पुनर्द्वाभ्याम् । मन्त्राक्षरैर्विदध्या दङ्गविधि जातिसंयुतैर्मन्त्री ॥ ६९ ॥ इन्दुकलाकलितोज्ज्वलमौलि- मरमदाकुलितायुगनेत्रा । शोणितसिन्धुतरङ्गितपोत- द्योतितभानुदलाम्बुजसंस्था ॥ ७० ॥ दोघृतदाडिमसायकपाशा साङ्कुशचापकपालसमेता । शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥ ७१ ॥ 1. दीर्घेत्य • १९२ स्मृत्वा नित्यां देवी- प्रपञ्चसारे मेवं प्रजपेन्मनुं शतसहस्रम् । अयुतं जुहुयादन्ते नृपतरुसमिधां घृतेन वा सिद्धयै ॥ ७२ ॥ शाक्त पीठे पूज्या देवी कुसुमानुलेपनैररुणैः । स्वयमप्यलंकृताङ्गः सधूपदीपैर्निवेद्यताम्बूलैः ॥ ७३ ॥ हृल्लेखा केदनी नन्दा क्षोभणी मदनातुरा । निरञ्जना रागवती तथान्या मदनावती ॥ ७४ ॥ मेखला द्राविणी चैव भूयोऽन्या वेगवत्यपि । सस्मारा द्वादश प्रोक्ताः शक्तयः पत्रसंस्थिताः ॥ ७५ ॥ अद्वै: शक्तिभिराभि- र्मातृभिराशाधिपैः क्रमात्पूज्या । भक्तिभरानतवपुषा भवभयभङ्गाय मन्त्रिणाहरहः ॥ ७६ ॥ द्वादश: पटल: । १९३ दारिद्र्यरोगदुःखै- दौर्भाग्यजरापमृत्युदोषैश्च । अस्पृष्टो निरपायो जीवति मन्त्रं भजन्नमुं मनुजः ॥ ७७ ॥ इतीरिता लोकहिताय वज्र- प्रस्तारिणी मन्दिरमिन्दिरायाः । या सर्वनारीनरराजवर्ग- संमोहनी मोहनबाणभूता ॥ ७८ ॥ निद्रयोरन्तरा व्यक्किने मदाः स्युश्च वेशिरः । मायादिकस्तया वर्णद्वन्द्वैवाङ्गविधिः स्मृतः ॥ ७९ ॥ 'रक्तारक्तांशुककुसुमविलेपादिका सेन्दुमौलिः स्विद्यद्वक्त्रा मदविवशसमाघूर्णितत्रीक्षणा च । 'दोःसत्पाशाङ्कुशयुतकपालाभया पद्मसंस्था देवी पायादमितफुलदा नित्यशः पार्वती वः ॥ ८० ॥ दीक्षितः प्रजपेल्लक्षं मनुमेनं हुनेत्ततः । मधूकपुष्पैः स्वाद्वक्तैरयुतं हविषा तथा ॥ ८१ ॥ 1. रक्ताङ्गरागांशुक० 2. दोः स्य ० *P. 13 १९४ प्रपञ्चसरे पीठं पूर्ववदभ्यर्च्य तंत्रावाह्यापि पूजयेत् । अङ्गैश्व शक्तिभिर्लोकपालैर्देवीं समाहितः ॥ ८२ ॥ नित्या निरञ्जना क्लिन्ना कुदिनी मदनातुरा । मदद्रवा द्राविणी च द्रविणा शक्तयो मताः ॥ ८३ ॥ प्रजपेत्प्रमदां विचिन्त्य यां वा शयनस्थो मनुवित्सहस्रमानम् । निशि मारशिलीमुखाहताङ्गी नचिरात्सा मदविह्वला समेति ॥ ८४ ॥ नित्याभिः सदृशतरा न सन्ति लोके लक्ष्मीदा जगद्नुरञ्जनाश्च मन्वाः । तस्मात्ताशुभमतयो' भजन्तु नित्यं जापार्चाहुतसमुपासनाविशेषैः ॥ ८५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादनिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे द्वादशः पटलः ॥ 1. ञ्छितमतयो -- त्रयोदशः पटलः ॥ अथ वक्ष्यामि दुर्गाया मन्वान्साङ्गान्सदेवतान् । सजपाचहुतविधीन्प्रीत्यर्थ मन्त्रजापिनाम् ॥ १ ॥ तारो मायामरेशोऽत्रिपीठो बिन्दुसमन्वितः । स एव च विसर्गान्तो गायै नत्यन्तिको मनुः ॥ २ ॥ दुर्गास्य देवता च्छन्दो गायत्रं नारदो मुनिः । तारो माया च दुर्गायै ह्रामाद्यन्ताङ्गकल्पना ॥ ३ ॥ शङ्खारिचापशरभिन्नकरां विणेत्रां तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनुतां च दुर्गा दूर्वानिभां दुरितबर्गहरीं नमामि ॥ ४ ॥ कृताभिषेकदीक्षस्तु वसुलक्षं जपेन्मनुम् । तदन्ते जुहुयात्सर्पिः संयुक्तेन पयोन्धसा ॥ ५ ॥ अष्टसाहस्रसंख्यैस्तु तिलैर्वा मधुराप्लुतैः । पीठाचयां प्रयष्टव्याः क्रमात्तच्छक्तयो नव ॥ ६ ॥ १९६ प्रपञ्चसारे प्रभा माया जया सूक्ष्मा विशुद्धा नन्दिनी तथा । सुप्रभा विजया सर्वसिद्धिदा नवमी तथा ॥ ७ ! अर्ध्या ह्रस्वत्रयक्लीबरहितैश्च स्वरैरिमाः । तारान्ते वज्रमाभाष्य नखदंष्ट्रायुधानि च ॥ ८ ॥ महासिंहाय चेत्युक्त्वा वर्माखनतयः क्रमात् । सिंहमन्त्रोऽयमित्येवं संप्रोक्ता पीठकल्पना ॥ ९ ॥ अङ्गः स्यादावृतिः पूर्वा द्वितीया शक्तिभिः स्मृता । अष्टायुधैस्तृतीया स्याल्लोकपालैश्चतुर्थ्यपि ॥ १० ॥ तदायुधैः पञ्चमी च दुर्गायजनमीदृशम् । जया च विजया कीर्त्तिः प्रीतिश्चाथ प्रभाह्वया ॥ ११ ॥ श्रद्धा मेधा श्रुतिरपि शक्तयः स्वाक्षरादिकाः । चक्रशङ्खगदाखङ्गपाशाङ्कुशशरा धनुः ॥ १२ ॥ क्रमादष्टायुधाः प्रोक्ता दौर्गा दुर्गतिहारिणः । इत्थं दुर्गामनौ जापहुतार्चाभिः प्रसाधिते ॥ १३ ॥ मन्त्रीन्दिरावान्भवति दीर्घायुर्दुरिताश्जयेत् । यान्यानिच्छति कामान्वांस्तांस्तान्प्राप्नोति यत्नतः ॥ १४ ॥ त्रयोदशः पटलः । विधाय विधिनानेन कलशं चाभिषेचयेत् । यमसौ भूतवेतालपिशाचाद्यैर्विमुच्यते ' । राजाभिषिक्तो विधिना सपत्नानमुना जयेत् ॥ १५ ॥ अमुना विधिना कृताभिषेका ललना पुत्रमवाप्नुयाद्विनीतम् । हवनात्तिलसर्षपैः सहस्र- द्वितयैराशु भवेच गर्भरक्षा ॥ १६ ॥ अनयैव जपाभिषेकहोम- क्रियया स्यादनुरञ्जनं जनानाम् । भजतां सकलार्थसाधनार्थ मुनिवर्यैः परिकल्पितोऽयमादौ ॥ १७ ॥ उत्तिष्ठपदं प्रथमं पुरुषि ततः किंपदं स्वपिषियुक्तम् । भयमपि मेऽन्ते समुप- स्थितमित्युच्चार्य यदिपदं प्रवदेत् ॥ १८ ॥ 1. वियुज्यते । १९७ १९८ प्रपञ्चसारे शक्यमशक्यं वोक्त्वा तन्मे भगवति निगद्य शमयपदम् । प्रोक्ता ठद्वितययुतं सप्तत्रिंशाक्षरो मनुः प्रोक्तः ॥ १९ ॥ आरण्यकोऽत्यनुष्टु वनदुर्गाख्याः क्रमेण भगवत ऋष्यादिकाः स्वमनुना विहितान्यङ्गानि वाक्यभिन्नेन ॥ २० ॥ षभिश्चतुर्भिरष्टभि - रष्ट्रार्णैः षड्भिरपि च पञ्चवाणैः । जातियुतैश्च विदध्या- दङ्गानि च षट् क्रमेण विशदमतिः ॥ २१ ॥ पद्दयसंधिगुदान्ध्वा- धारोदरपार्श्वहृत्स्तनेषु गले । दोःसंधिवदननासा- कपोलटकर्णयुग्भ्रुके न्यस्येत् ॥ २२ ॥ त्रयोदशः : पटलः । हेमप्रख्यामिन्दुखण्डात्तमौलि शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गा दिव्यरूपां नमामि ॥ २३ ॥ अरिशङ्खकृपाणखेटबाणा- न्सधनुः शूलकतर्जिनीर्दधाना । भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥ २४ ॥ चक्रदरखङ्गखेटक- शरकार्मुकशूलसंज्ञककपालैः । ऋष्टिमुसलकुन्तनन्दक- वलयगदाभिण्डिपालशक्त्याख्यैः ॥ २५ ॥ उद्यद्विकृतिभुजाढ्या महिषाने सजलजलदसंकाशा । सिंहस्था वाद्मिनिभा पद्मस्था वाथ मरकतप्रख्या ॥ २६ ॥ 1. माहिषके. १९९ २०० व्याघ्रत्वक्परिधांना प्रपञ्चसारे सर्वाभरणान्विता त्रिणेत्रा च । अहिकलित नीलकुञ्चित- कुन्तलविलसत्किरीटशशिशकला ॥ २७ ॥ सर्पमयवलयनूपुर- काथ्वीकेयूरहारसंपन्ना' । सुरदितिजाभयभयदा ध्येया कात्यायनी प्रयोगविधौ ॥ २८ ॥ संयतचित्तो लक्षच- तुष्कं जप्त्वा हुनेद्दशांशेन । व्रीहितिलाज्यहविर्भिः सम्यक्संचिन्त्य भगवतीमनले ॥ २९ ॥ पीठे पूर्वप्रो के पूज्याः शक्तिभिस्तथाष्टाभिः । अष्टायुधैश्व मातृभि राशेशैः क्रमश एव दुर्गेयम् ॥ ३० ॥ 1. संभिन्ना । त्रयोदशः पटलः । २०१ आर्यादुर्गा भद्रा सभद्रकाली तथाम्बिकाख्या च । क्षेम्या सवेदगर्भा क्षेमकरी चेति शक्तयः प्रोक्ताः ॥ ३१ ॥ अरिदरकृपाणखेटक- बाणधनुः शूलसंयुतकपालाः । अष्टायुधाः क्रमोक्ताः पूर्वविधानवदथोदितं शेषम् ॥ ३२ ॥ इत्थं जपाचेनाहुत- सिद्धमनोर्मन्त्रिणः प्रयोगविधिः । विहितो नप: प्रतिदिनं निजरक्षायै शतं सहस्रं वा ॥ ३३ ॥ उद्दिश्य यद्यदेनं मनुं जपेदथ सहस्रमयुतं वा । तत्तन्मन्त्री लभ्ये- दचिरात्तदनुप्रहादसाध्यमपि ॥ ३४ ॥ *P. 13a २०२ प्रपञ्चसारे स्नात्वार्काभिमुखः स- नाभिद्वयसेऽम्भसि स्थितो मन्त्री । अष्टर्ध्वशतं प्रजपे- निजवाञ्छितसिद्धये च लक्ष्म्यै च ॥ ३५ ॥ ध्यात्वा त्रिशूलहस्तां ज्वरसर्पग्रहविपत्सु जन्तूनाम् । संस्पृश्य शिरसि जप्या- तज्जन्योपद्रवं शमयेत् ॥ ३६ ॥ अयुतं तिलैर्वोत् राजीभिर्वा हुनेत्समिद्भिर्वा । मायूरिकीभिरचिरा- त्सोऽपस्मारादिकांश्च नाशयति ॥ ३७ ॥ जुहुयाद्रोहिणसमिधा- मयुतं मन्त्री पुनः सशुङ्गानाम् । सर्वापदां विमुक्त्यै सर्वसमृद्ध प्रहादिशान्त्यै च ॥ ३८ ॥ त्रयोदशः : पटलः । २०३ आर्कैः समित्सहस्रैः प्रतिजुहुयादर्कवारमारभ्य । दशदिनतोऽर्वाग्वाञ्छित- सिद्धिर्देव्याः प्रसादतो भवति ॥ ३९ ॥ शुद्धैः सारैरिष्मै- खिदिनं वा सप्तरात्रकं वापि । प्रतिशकलं प्रतिजुहुया- न्मनुना निजवाञ्छिताप्तये मन्त्री ॥ ४० ॥ विशिखानां त्रिंशत्कं पुरो निधायाथ तीक्ष्णतैलेन । जुहुयात्सहस्रकं वा- युतमपि संख्यासु पूरितासु पुनः ॥ ४१ ॥ संपातिततैलेन व शरान्समभ्यज्य पूर्ववज्जप्यात् । तानथ शूरो धन्वी शुद्धाचारः प्रवेधयेद्वाणान् ॥ ४२ ॥ २०४ प्रतिसेनाया मध्ये प्रपञ्चसारे सा धावति सद्य एव संभ्रान्ता । भूयो गुरुं धनैरपि धान्यैः परिपूजयेच कारयिता ॥ ४३ ॥ अष्टोत्तरशतजप्तं यच्छिरसि प्रक्षिपेचिताभस्म । स तु विद्विष्टो लोकै- देशाद्देशान्तरं परिभ्रमति ॥ ४४ ॥ कारस्करस्य पलै- रष्टसहस्रैर्निपातितैर्मरुता । जुहुयात्सपादपांसुभि- रुच्चाटकरं भवेद्रिपोः सद्यः ॥ ४५ ॥ सेनां संस्तम्भयितुं विषतरुसुमनः सहस्रकं जुहुयात् । तावद्भिस्तत्पत्रै- र्जुहुयान्मन्त्री च तां निवर्तयितुम् ॥ ४६ ॥ त्रयोदशः विषतरुमयीं च शत्रोः : पटलः । २०५ प्रतिकृतिमसकृत्प्रतिष्ठितप्राणाम् । छित्त्वा च्छित्त्वा काको- लूकवसाक्तैः सहस्रमष्टौ च ॥ ४७ ॥ असितचतुर्दश्यां त- दात्रैर्जुहुयादरण्यके ऽर्धनिशि । त्रिचतुर्दशीप्रयोगा- दर्वाङ् म्रियते रिपुर्न संदेहः ॥ ४८ ॥ 'स्ववसारकोपेतै- र्जुहुयात्पत्रैरुलूकवायसयोः । म्रियतेऽरातिर्मत्त- स्तून्मत्तसमित्सहस्रहोमेन ॥ ४९ ॥ संस्थापितानिलां तां प्रतिकृतिमुष्णोदके विनिक्षिप्य । प्रजपेदुन्मादः स्या- च्छत्रोदुग्धाभिषेकतः शान्तिः ॥ ५० ॥ 1. श्ववसा २०६ रविबिम्बगतामरुणां प्रपञ्चसारे करयुगपरिक्लृप्तशूलतर्जनिकाम् । ध्यात्वायुतं प्रजप्या- न्मारयितुं सद्य एव रिपुनिवहम् ॥ ५१ ॥ असिखेटकर्कस्था क्रुद्धा मारयति सैव जपविधिना । सिंहस्था बाणधनु- ष्करा समुच्चाटयेदरीनचिरात् ॥ ५२ ॥ विषतरुसमिदयुतहुता- दथ करिणो रोगिणो भवन्त्यचिरात् । तत्पर्णैश्च विनाश- स्तेषामुच्चाटनं च तत्पुष्पैः ॥ ५३ ॥ आनित्य समिद्धोमा- द्रोगा नश्यन्ति दन्तिनामचिरात् । तत्पुष्पैर्मधुराक्तै- हमाश्च वशीभवन्ति मातङ्गाः ॥ ५४ ॥ त्रयोदशः : पटलः । २०७ त्रिमधुरयुतैरनित्यक- पत्रैर्मत्ता भवन्ति ते सद्यः । रक्षाकरस्तु करिणां तज्जापितपञ्चगव्यलेपः स्यात् ॥ ५५ ॥ आज्यतिलराज्य नित्यक- दुग्धोदकपञ्चगव्यतण्डुलकैः । सघृतैश्च प्रत्येकं सहस्रहवनं गजाश्ववर्धनकृत् ॥ ५६ ॥ द्विजभूरुहं महान्तं छित्त्वा निर्भिद्य पञ्चधा भूयः । आशाक्रमेण पञ्चा- युधा विधेयाश्च साधुशिल्पविदा ॥ ५७ ॥ शङ्खः सनन्दकोंऽरिः शार्ङ्गः कौमोदकी दिशाक्रमतः । पश्चेति पञ्चगव्ये निधाय जप्याच्च पश्ञ्चसाहस्रम् ॥ ५८ ॥ २०८ तावद्धृतेन जुहुया - प्रपञ्चसरे तेष्वथ संपात्य साधु संपातम् । पुनरपि तावज्जप्त्वा मध्याद्यवटेषु पञ्चगव्ययुतम् ॥ ५९ ॥ संस्थाप्य समीकृत्य च बलिं हरेत्तत्र तत्र तन्मन्त्रैः । पुरराष्ट्रप्रामाणां कार्या रक्षैवमेव मन्त्रविदा ॥ ६० ॥ यस्मिन्देशे विहिता रक्षेयं तत्र वर्धते महालक्ष्मीः । धनधान्यसमृद्धिः स्या- द्रिपुचोरायाश्च नैव बाधन्ते ॥ ६१ ॥ पद्मोत्पलकुमुदहुतै - नृपपत्नीब्राह्मणान्वशीकुरुते । कहारलोणहोमै - र्विट्छूद्राञ्जातिभिस्तथा ग्रामम् ॥ ६२ ॥ त्रयोदशः पटलः । २०९ अथ वारिदरगदाम्बुज- करं मुकुन्दं विचिन्त्य रविबिम्बे । व्यत्यस्तपुरुषभगवति- पदं मनुं जपतु सर्वसिद्धिकरम् ॥ ६३ ॥ साध्याख्याक्षरगर्भितं मनुममुं पत्रे लिखित्वा च त- चक्रीहस्तमृदा कृतप्रतिकृतेर्विन्यस्य मन्त्री हृदि । सप्ताहं त्वथ पुत्तलीमभिमुखे संस्थाप्य संध्यावये जप्यादष्टशतं चिराय वशतां गच्छत्यसौ निश्चयः ॥ ६४ ॥ व्रीहीणां जुहुयान्नरोऽष्टशतकं संवत्सराद्रीहिमा- गोदुग्धैः पशुमान्घृतैः कनकवान्दना च सर्वर्द्धिमान् । अन्नैरन्नसमृद्धिमांश्च मधुभिः स्याद्रनवान्दुर्वया- प्यायुष्मान्प्रतिपद्धतेन महतीं सद्यः श्रियं प्राप्नुयात् ॥ छान्तं मरुत्तुरीयवर्णयुतं सवाद्यं संवीप्स्य शूलिनिपदं च सदुष्टशब्दम् । पञ्चान्तकं सदहनं परिभाष्य हान्तं फद्विठान्तामिति शूलिनिमन्त्रमेतत् ॥ ६५ ॥ *P. 14 २१० प्रपञ्चसारे ऋषिर्दीर्घतमाश्छन्दः ककुब्दुर्गा च देवता । दुर्गा हृद्वरदा शीर्ष शिखा स्याद्विन्ध्यवासिनी ॥ ६६ ॥ वर्म चासुरमर्दिन्या युद्धपूर्वप्रिये तथा । त्रासयद्वितयं चात्रं देवसिद्ध सुपूजिते ॥ ६७ ॥ नन्दिन्यन्ते रक्षयुगं महायोगेश्वरीति च । शूलिन्याद्यं तु पञ्चाङ्गं हुंफडन्तमितीरितम् । अङ्गकर्मैव रक्षाकृत्प्रोक्तं ग्रहनिवारणम् ॥ ६८ ॥ बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान्कराब्जै- र्मेघश्यामा 'किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता कन्याभिभिन्नदैत्या भवतु भवभयध्वंसनी शूलिनी वः ॥ एवं विचिन्त्य पुनरक्षरलक्षमेनं मन्त्री जपेत्प्रतिजुहोतु दशांशतोऽन्ते । आज्येन साज्यहविषा प्रयजेच देवी- मङ्गाष्टशक्तिनिजहेतिदिशाधिनाथैः ॥ ७० ॥ 1. किरीटोल्लसितशशिकलोल्लासिता त्रयोदशः पटलः । दुर्गा च वरदा विन्ध्यवासिन्य सुरमर्दिनी । युद्धप्रिया देवसिद्धपूजिता नन्दिनी तथा ॥ ७१ ॥ महायोगेश्वरी चाष्ट शक्तयः समुदीरिताः । रथाङ्गशङ्खासिगदावाणकार्मुकसंज्ञिता: ॥ ७२ ॥ सशूलपाशा यष्टव्या दिक्क्रमादष्ट हेतयः । दीक्षा पहुताचभिः सिद्धिः कर्म समाचरेत् । आमयोन्मादभूतापस्मारक्ष्वेलशमादिकम् ॥ ७३ ॥ उद्धर्णैः प्रहरणकैरुदीर्णवेगैः शूलाद्यैनिजमथ शूलिनीं विचिन्त्य । आविश्य क्षणमित्र जप्यमानमन्त्र- स्यावृत्त्या द्रुतमपयान्ति भूतसंघाः ॥ ७४ ॥ अन्तराथ पुनरात्मरोगिणा- मम्बिकामपि निजायुधाकुलाम् । संविचिन्त्य जपतोऽरिमुद्रया विद्रवन्त्यवशविग्रहा ग्रहाः ॥ ७५ ॥ अहिमूषिकवृश्चिकादिजं वा बहुपात्कुक्कुरलूतिकोद्भवं वा । २.११ २१२ प्रपञ्चसार विषमाशु विनाशयेन्नराणां प्रतिपत्त्यैव च विन्ध्यवासिनी सा ॥ ७६ ॥ आधाय बाणे निशितेऽथ देवीं क्षेमंकरीं मन्त्रमिमं जपित्वा । तद्वेधनादेव विपक्षसेना दिशो दशाधावति नष्टसंज्ञा ॥ ७७ ॥ 'आत्मानमाय प्रतिपद्य शूल- पाशान्वितां वैरिबलं प्रविश्य । मन्त्रं जपन्नाशु परायुधानि गृह्णाति मुष्णाति च बोधमेषाम् ॥ ७८ ॥ तिलसिद्धार्थैर्जुहुया- लक्षं मन्त्री सपत्ननामयुतम् । स तु रोगाभिहतात्मा मृतिमेति न तत्र संदेहः ॥ ५९ ॥ त्रिमधुरयुक्तैश्च तिलै- रष्टसहस्रं जुहोति योऽनुदिनम् । 1. आत्मानमम्बां त्रयोदशः पटलः । अप्रतिहतास्य शक्ति- भूयात्प्रागेव वत्सरतः ॥ ८० ॥ सर्पिषाष्टशतहोमतोऽमुना वाञ्छितं सकलमब्दतो भवेत् । दुर्वया त्रियुजेप्सितं लभे- त्सम्यगष्टशतसंख्यया हुतात् ॥। ८१ ॥ क्षुरिकाकृपाणनखरा मन्त्रेणानेन साधु संजप्ताः । संपाताज्यसुसिक्ता अप्रतिहतशक्तयो भवन्ति युधि ॥ ८२ ॥ गोमयविहिताङ्गुलिकां जुहुयाच्छतमष्टपूर्वकं मन्त्री । दिवसैः सप्तभिरिष्टौ द्विष्ट्वौ च मिथो वियोगिनौ भवतः ॥ ८३ ॥ अस्पृष्टकुं गोमयमन्तरिक्षे संगृह्य जत्वा त्रिसहस्रमानम् । २१३ २१४ परे धियासतां वै निखनेन्नराणां संस्तम्भनं द्वारि चमूमुखे च ॥ ८४ ॥ पानीयान्धः पाणिमार्या प्रसन्नां ध्यात्वा ग्रामं वा पुरं वापि गच्छन् । जत्वा मन्त्रं तर्पयित्वा प्रविष्टो मृष्टं भोज्यं प्राप्नुयाद्भूत्यवगैः ॥ ८५ ॥ आर्कैर्मन्त्री त्रिमधुरयुतैरर्कसाहस्रमिध्मै- राश्वत्थैव त्वतिविशदचेतास्तिलैर्वा जुहोतु । यानुद्दिश्यावहितमनसा तन्मये सम्यगनौ ते वश्याः स्युर्विधुरितधियो नात्र कार्यो विचारः ॥ ८६ ॥ कुर्यात्प्रयोगानपि दाबदुर्गा- कल्पोदितान्वै मनुनामुना च । मन्त्री जपाचहुतितर्पणाद्या- नाल्पो हि मन्वोरनयोर्विशेषः ॥ ८७ ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे त्रयोदशः पटलः ॥ चतुर्दशः पटलः ॥ अथ कथयिष्ये मन्त्रं चतुरक्षरसंज्ञकं समासेन । प्रणवो भुवनाधीशो दण्डिखमस्यादिको विसर्गान्तः ॥ १ ॥ ऋषिरस्याजश्छन्दो गायत्रं देवता च भुवनेशी । अङ्गानि षट् क्रमेण प्रोक्तानि प्रणवशक्तिबीजाभ्याम् ॥ २ ॥ भास्वद्रत्नौघमौलिल्फुरदमृतरुचो रञ्जयश्चारु रेखां सम्यक्संतप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः । विश्वाकाशावकाशं ज्वलयदशिशिरं धर्तृ पाशाङ्कुशेष्टा- भीतीनां भङ्गितुङ्गस्तनमवतु जगन्मातुरार्क वपूर्वः ॥ २१६ प्रपञ्चसरे संदीक्षितोऽथ प्रजपेच मन्त्रं मन्त्री पुनर्लक्षचतुष्कमेनम् । पुष्पैस्तदन्ते द्विजवृक्षजातैः स्वादुप्लुतैर्वा जुहुयात्सरोजैः ॥ ४ ॥ मनोरथार्कात्मतया त्वनेन प्रवर्त्यते ऽर्येपहिता प्रपूजा । समे सुमृष्टे रचयेद्विविक्ते शुद्धे तले स्थण्डिलमङ्गणस्य ॥ ५ ॥ प्रयजेथ प्रभूतां विमलां साराह्वयां समाराध्याम् । परमसुखामग्न्यादि- वश्रिषु मध्ये च पीठक्लप्तेः प्राक् ॥ ६ ॥ हस्वत्रयक्कीबवियोजिताभि: क्रमात्कृशान्विन्दुयुताभिरभिः । सहाभिपूज्या नव शक्तयः स्युः प्रोद्योतनाः प्राज्यतरप्रभावाः ॥ ७ ॥ चतुर्दश: पटलः । दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चैव नवमी सर्वतोमुखी ॥ ८ ॥ ब्रह्माविष्णुशिवात्मकं समीर्य सौराय योगपीठाय । प्रोक्त्वेति तिमपि पुनः समापयेत्पीठमन्त्रमहिमरुचेः ॥ ९ ॥ आवाह्य हार्लेखिकमर्कमये- पाद्याचमाद्यैर्मधुपर्कयुक्तः । प्रपूजयेदावरणैः समस्त- संपन्त्यवायै तदधीनचेताः ॥ १० ॥ हृल्लेखाद्याः पञ्च च यष्ट्वाङ्गैस्तदनु मातृभिः पश्चात् । 'ओंकाराचैराशा- पालैरभ्यर्चयेत्क्रमान्मन्त्री ॥ ११ ॥ 1. अंकारा • *P. 14a २१७ २१८ प्रपञ्चसारे प्रतिपूज्य शक्तिमिति तत्र पुरः प्रणिधाय ताम्ररचितं चषकम् । प्रजपन्मनुं प्रतिगतक्रमतः प्रतिपूरयेत्सुविमलैः सलिलैः ॥ १२ ॥ अक्षत कुशयवदूर्वा- तिलसर्षपकुसुमचन्दनोपेतैः । प्रस्थमाह्यच्छिद्रं स्वैक्यं संभावयन्समाहितधीः ॥ १३ ॥ इष्ट्रा दिनेशमथ पीठगतं तथैव व्योमस्थितं परिवृतावरणं विलोक्य । अष्टोत्तरं शतमथ प्रजपेन्मनुं तं पूर्वोत्तरं निजकरेण पिधाय पात्रम् ॥ १४ ॥ भूयोऽभ्यर्च्य सुधामयं जलमथो तद्गन्धपुष्पादिभि- र्जानुभ्यामवनिं गतश्चषकमप्यामस्तकं प्रोद्धरन् । दद्यान्मण्डलबद्धदृष्टिहृदयो भक्त्यार्घ्यमोजोबल- ज्योतिर्दीप्तियशोधृतिस्मृतिकरं लक्ष्मीप्रदं भास्वते ॥ १५ । चतुर्दशः पटलः । २१९ अथ कृतपुष्पाञ्जलिर पि पुनरष्टशतं जपेन्मनुं मन्त्री । यावद्रश्मिषु भानो- र्व्याप्नोत्यम्भः सुधामयं तदपि ॥ १६ ॥ अमृतमयुजलावसिक्तगात्रो दिनपतिरप्यमृतत्वमातनोति । धनविभवसुदारमित्रपुत्रं पशुगणजुष्टमनन्तभोगयोगि ॥ १७ ॥ तस्मादिनाय दिनशो ददताहिनादौ दैन्यापनोदित नवे दिनवल्लभाय । अर्घ्य समविभवस्त्वथ वार्कवारे पारं स गच्छति भवाह्वयवारिराशेः ॥ १८ ॥ अनुदिनमर्चयितव्यः पुंसा विधिनामुनाथ वा रवये । दद्यादर्घ्यद्वयमपि कुर्याद्वा वाञ्छितार्थसमवाप्त्यै ॥ १९ ॥ २२० प्रपञ्चसारे एकीकृत्य समस्तवस्त्वनुगत्तानादित्यचन्द्रानला- वेदाद्येन गुणात्मकेन सगुणानाकृष्य हृल्लेखया । सर्वे तत्प्रतिमथ्य तावपि समावष्टभ्य हंसात्मना नित्यं शुद्धमनन्यमक्षरपदं मन्त्री भवेद्योगतः ॥ २० ॥ अथ वदाम्यजपामनुमुत्तमं सकलसंसृतियापनसाधनम् । दुरितरोगविषापहरं नृणा- मिह परत्र च वाञ्छितसिद्धिदम् ॥ २१ ॥ विष्णुपदं ससुधाकरखण्डं चन्द्रयुगावधिकं वतुरीयम् । क्षेत्रविदो मनुरेष समुक्तो यं प्रपत्यपि संततमात्मा ॥ २२ ॥ ऋष्याद्या ब्रह्मदैव्यादिगायत्री परमात्मकः । हंसाक्लीबकलादीर्घयुजाङ्गानि समाचरेत् ॥ २३ ॥ अरुणकनकवर्ण पद्मसंस्थं च गौरी- हरनियमितचिह्नं सौम्य तानूनपातम् । चतुर्दशः पटलः । २२१ भवतु भवदभीष्टावाप्तये पाशाटङ्का- भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ २४ ॥ प्रजपद्दादशलक्षं मनुमिममाज्यान्वितैश्च दौग्धान्नैः । तावत्सहस्रमानं जुहुयात्सौरे समर्चनापीठे ॥ २५ ॥ निक्षिप्य कलम स्मि- न्पूर्वोक्तानामपामथैकेन ! आपूर्य चोपचर्य च विद्वानङ्गैः प्रपूजयेत्पूर्वम् ॥ २६ ॥ ऋतवसुवरनरसंज्ञा- स्तथर्तवो बद्रि पूर्विकाजान्ताः । आशोपाशास्थेया- स्ततो दिशांपास्ततश्च वज्राद्याः ॥ २७ ॥ इति परिपूज्य च कलशं पुनरभिषिच्याथ नियमितोऽर्घ्यमपि । २२२ दद्यादिनाय चैहिक- प्रपञ्चसारे . पारत्रिक सिद्धये चिरं मन्त्री ॥ २८ ॥ इन्दुद्वयोदितसुधारसपूर्ण सार्ण- संबद्धबिन्दुसुसमेधितमादिबीजम् । संचिन्त्य यो मनुमिमं भजते मनस्वी स्वात्मैक्यतोऽथ दुरितैः परिमुच्यतेऽसौ ॥ २९ । व्योमानुगेन च सुधाम्बुमुचा सुदामा प्रद्योतमानसविनिःसृतशीत रुग्भ्याम् । आबाधिता दहनचन्द्रलसन्महोभ्यां रोगापमृत्युविषदाहरुजः प्रयान्ति ॥ ३० ॥ हंसाण्डाकाररूपं स्रुतपरमसुधं मूर्ध्नि चन्द्रं ज्वलन्तं नीत्वा सौषुन्नमार्ग निशितमतिरथ व्याप्तदेहोपगात्रम् । स्मृत्वा संजय मन्त्रं पलितविषशिरोरुग्ज्वरोन्मादभूता- पस्मारादींश्च मन्त्री हरति दुरितदौर्भाग्यदारिद्यदोषैः ॥ विधाय लिपिपङ्कजं मनुयुतोल्लसत्कर्णिकं निधाय घटमत्र पूरयतु वारिणा तन्मुखम् । चतुर्दश: : पटलः । २२३ विधाय शशिनात्ममन्त्रयुतवामदोंष्णा पुनः सुधायितरसैः स्वसाध्यमभिषेचयेत्तज्जलैः ॥ ३२ ॥ नारी नरो वा विधिनाभिषिक्तो मन्त्रेण तेनेति विषद्वयोढैः । रोगैस्तदाधिप्रभवैर्वियुक्त- श्विराय जीवेत्करणैः सुशुद्धैः ॥ ३३ ॥ करेण तेनैव जलाभिपूर्ण प्रजप्य मन्त्री करकं पिधाय । सुधायितैस्तैर्विषिणं निषिचे- द्विषं निहन्यादपि कालकूटम् ॥ ३४ ॥ गदितं निजपाणितलं विषिणः शिरसि प्रविधाय जलैः शितधीः । अचिरात्प्रतिमोचयते विषतो मतिमानथ तक्षकदष्टमपि ॥ ३५ ॥ इत्यजपामन्त्रविधिः संप्रोक्तः संग्रहेण मन्त्रिवराः । २२४ प्रपञ्चसारे यं प्राप्य सकलवसुसुख- धर्मयशोभुक्तिमुक्तिभाजः स्युः ॥ ३६ ॥ अरुणा शिखिदीर्घयुता लेखा श्वेतया युतानन्ता । प्रोक्तः प्रयोजनानां तिलकस्तु यथार्थवाचको मन्त्रः ॥ ३७ ॥ गुह्यादाचरणतलं कण्ठादागुह्यमागलं कान्तान् । विन्यस्य मन्त्रबीजा- न्क्रमेण मन्त्री करोतु चाङ्गानि ॥ ३८ ॥ मन्त्रस्य मध्यमनुना दीर्घयुजाङ्गानि चेह कथितानि । ध्यायेत्पुनरहिमकरं मन्त्री निजवाञ्छितार्थलाभाय ॥ ३९ ॥ अरुणसरोरुहसंस्थ- त्रिगरुणोऽरुणसरोजयुगलधरः । चतुर्दश: पटलः । २२५ कलिता भयवरदो द्युति- बिम्बोऽमितभूषणस्त्विनोऽवतु वः ॥ ४१ ॥ कृतसंदीक्षो मन्त्री दिनकरलक्षं जपेन्मनुं जुहुयात् । तावत्सहस्रमन्नैः सघृतैर्मधुराप्लुतैस्तिलैरथ वा ॥ ४२ ॥ प्रागभिहितेन विधिना पीठाद्यं प्रतिविधाय तत्र पुनः । विन्यस्य कलशमस्मि - न्प्रपूजयेत्तरणिमपि च सावरणम् ॥ ४३ ॥ अङ्गैः प्रथमावरणं ग्रहैर्द्वितीयं तृतीयमाशेशैः । मुख्यतरगन्धसुमनो- धूपाद्यैरात्तभक्तिनम्रमनाः ॥ ४४ ॥ प्रागादिदिशासंस्थाः शशिबुधगुरुभार्गवाः क्रमेण स्युः । *P. 15 २२६ प्रपञ्चसारे आयादिष्वषु धरणिजमन्दाहिकेतवः पूज्याः ॥ ४५ ॥ शुभ्रतिपीतशुक्ला रक्तासितधूम्रकृष्णकाः क्रमशः ! चन्द्राद्याः केत्वन्ता वामोरुन्यस्तवामकरलसिताः ॥ ४६ ॥ अपरकराभयमुद्रा- विकृतमुखोऽहिः कराहिताञ्जलियुक् । दंष्टोप्रास्यो मन्दः सुवर्णसदृशांशुकादिभूषश्च ॥ ४७ ॥ संपूज्यैव विधिना विधिवद्गोरोचनादिभिर्द्रव्यैः । दद्यादये मन्त्री निजवाञ्छितार्थलाभाय ॥ ४८ ॥ गोरोचनास्त्रतिलवैणवराजिरक्त- शीताख्यशालिकरवीरजपाकुशाग्रान् । चतुर्दशः पटलः । २२७ श्यामाकतण्डुलयुतांश्च यथाप्रलाभा- संयोज्य भक्तिभरतोऽर्घ्यविधिर्विधेयः ॥ ४९ ॥ कृत्वा मण्डलमष्टपत्वलसितं तत्कर्णिकायां तथा पत्राग्रेषु निधाय कुम्भनवकं तत्पूरयित्वा जलैः । आवाह्य क्रमशो ग्रहान्नव समाराध्याभिषेक क्रियां कुर्याद्यो वैकृतादि विलयं यान्त्यस्य लक्ष्मीर्भवेत् ॥ गृहपरिमितमिष्ट्रा पूर्वक्या दिनेशं प्रतिजुहुत निजर्क्षे वैकृते वा ग्रहाणाम् । शुभमतिरुपरागे चन्द्रभान्वोः स्वभे वा रिपुनृपजभये वा घोररूपे गदे वा ॥ ५१ ॥ अर्कद्विजाङ्घ्रिपमयूरकपिप्पलाश्च सोदुम्बराः खदिरशम्यभिधाः सदूर्वाः । दर्भाह्वयाश्च समिधोऽष्टशतं क्रमेण 'सव्याहृतीनि घृतहव्यघृतानि होमः ॥ ५२ ॥ 1. सर्पिर्हविर्धृतयुताः पृथगेव च स्युः ॥ ५२ ॥ आज्याहुत्या वादा- वन्ते च व्याहृतीभिरपि जुहुयात् । २२८ प्रपञ्चसारे सोमादीनां दिशि दिशि समाधाय वह्निं यथाव- द्धोमे सम्यक्कृतवति मुदं यान्ति सर्वे ग्रहाश्च । युद्धे सम्यग्जयमपि रुजः शान्तिमायुश्च दीर्घ कृत्वा शान्ति व्रजति पुनेरकत्व वा सर्वहोमः ॥ ५३ ॥ अमुना ' विधिना हुतार्चनाद्यैः प्रभजेद्यो दिनशो नरो दिनेशम् । मणिभिः स धनैश्च धान्यवर्यै: परिपूर्णावसथो भवेश्चिराय ॥ ५४ ॥ त्यद्यन्त आर्यसूर्यर्णा मेधारेचिकया गुणः । व्यत्ययोऽष्टाक्षरः प्रोक्तः सौरः सर्वार्थसाधकः ॥ ५५ ॥ देवभाग ऋषिः प्रोक्तो गायत्री च्छन्द उच्यते । आदित्यो देवता चास्य कथ्यन्तेऽङ्गान्यतो मनोः ॥ ५६ ॥ सत्यब्रह्माविष्णुरुद्रैः साग्निभिः सर्वसंयुतैः । तेजोज्वालामणि हुंफट्स्वाहान्तैरङ्गमाचरेत् ॥ ५७ ॥ 1. विधिनाचेनाहुतायैः. चतुर्दश: पटल: आदित्यं रविभानू भास्करसूर्यौ न्यसेत्स्वरैर्लघुभिः । सशिरोमुखहृद्गुह्यक- चरणेषु क्रमश एव मन्त्रितमः ॥ ५८ ॥ सशिरोमुखगलहृदयो- दरनाभिशिवाङ्घ्रिषु प्रविन्यस्येत् । प्रणवाद्यैरष्ट्राणैः : क्रमेण सोऽयं तदक्षरन्यासः ॥ ५९ ॥ अरुणोरुणपङ्कजे निषण्णः कमलेऽभीतिवरी करैर्दधानः । स्वरुचाहितमण्डलस्त्रिणेत्रो रविराकल्पशताकुलोऽवताद्वः ॥ ६० ॥ संदीक्षितस्तु मन्त्री मन्त्रं प्रजपेत्तु वर्णलक्षं तम् । जुहुयात्रिमधुर सिक्तै- दुग्धतरुसमिद्धरैर्वसुसहस्रम् ॥ ६१ ॥ २२९ २३० अथ वा सघृतैरन्नैः प्रपञ्चसारे समर्चयेन्नित्यशोऽर्घ्यमपि दद्यात् । पूर्वोक्त एव पीठे कुम्भं प्रणिधाय साधु संपूर्य ॥ ६२ ॥ शुद्धाद्धिररुणवासो- युगेन संवेष्टय पूजयेत्क्रमशः । अङ्गावृतैः परस्ता- दादित्याद्यैरुषादिशक्तियुतैः ॥ ६३ ॥ मातृभिररुणान्ताभि- ग्रहैः सुरैश्चान्तसूर्य परिषद्भिः । सोषा सप्रज्ञा च प्रभा च संध्या च शक्तयः प्रोक्ताः ॥ ६४ ॥ संपूज्यैवं दिनेशं पटुमतिरथ जप्त्वा च हुत्त्राभिषेकं कृत्वा दत्तेन संख्यां वसुमपि गुरवे सांशुकं भोजयेश ॥ विप्रानादित्यसंख्यानिति विदितमनुं नित्यशोऽर्घ्यं च दद्या- द्वारे वा भास्करीये शुभतरचरितो वल्लभाय ग्रहाणाम् ॥ चतुर्दश: पटलः । इतीह दिनकृन्मनुं भजति नित्यशो भक्तिमा- न्य एष निचितेन्दिरो भवति नीरुजो वत्सरात । समस्तदुरितापमृत्युरिपुभूतपीडादिका- नपास्य सुसुखी च जीवति परं च भूयात्पदम् ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे चतुर्दशः पटलः ॥ २३१ पञ्चदशः पटलः ॥ अथ चन्द्रमनुं वक्ष्ये सजपाचहुतादिकम् । हिताय मन्त्रिणां सार्घ्यविधानं च समासतः ॥ १ ॥ भृगुः ससद्यः सार्धेन्दुर्बिन्दुहीनः पुनश्च सः । विषानन्तौ मान्तनती मन्त्रोऽयं सोमदैवतः ॥ २ ॥ दीर्घभाजा स्वबीजेन कुर्यादङ्गानि वै क्रमात् । विचिन्तयेत्पुनर्मन्त्री यथावन्मन्त्रदेवताम् ॥ ३ ॥ अमलकमलसंस्थः सुप्रसन्नाननेन्दु- र्वरदकुमुदहस्तश्चारुहारादिभूषः । स्फटिकरजतवर्णो वाञ्छितप्राप्तये वो भवतु भवदभीष्टोद्दयोतिताङ्कः शशाङ्कः ॥ ४ ॥ दीक्षितः प्रजपेन्मन्त्री रसलक्षं मनुं वशी । पञ्चमीदशमीपभ्वदशीषु तु विशेषतः ॥ ५ । पश्ञ्चदशः पटलः । अयुतं प्रजपेन्मन्त्री सायाह्नेऽभ्यर्च्य भाधिपम् । पयोन्नेन हुनेद्भूयः सघृतेन सहस्रकम् ॥ ६ ॥ ससर्पिषा पायसेन षट्सहस्रं हुनेत्ततः । पीठक्लप्तौ तु सोमान्तं परिपूज्यार्चयेद्विधुम् ॥ ७ ॥ केसरेष्वङ्गपूजा स्याच्छक्तीस्तद्बहिरर्चयेत् । रोहिणीं कृत्तिकाख्यां च रेवतीं भरणीं तथा ॥ ८ ॥ राविमाद्रह्वयां ज्योत्स्नां कलां च क्रमतोऽर्चयेत् । दलायेषु ग्रहानष्टौ दिशानाथाननन्तरम् ॥ ९ ॥ सुसितैर्गन्धकुसुमैः पात्रै रूप्यमयैस्तथा । शक्तयः फुल्लकुन्दाभास्तारहारविभूषणाः ॥ १० ॥ सितमाल्याम्बरालेपा रचिताञ्जलयो मताः । इति सिद्धमनुर्मन्त्री शशिनं मूर्ध्नि चिन्तयेत् ॥ ११ ॥ त्रिसहस्रं जपेद्रात्रौ मासान्मृत्युंजयो भवेत् । हृदयाम्भोजसंस्थं तं भावयन्प्रजपन्मनुम् ॥ १२ ॥ राज्यैश्वर्य वत्सरेण प्राप्नुयादप्यकिंचनः । आहाराचारनिरतो जपेल्लक्षचतुष्टयम् ॥ १३ ॥ २३३. - २३४ प्रपञ्चसारे असंशयतरं तेन 'निधानमुपलभ्यते । घोरा ज्वरा गराः शीर्षरोगाः कृत्याश्च कामिलाः ॥ १४ ॥ तन्मन्त्रायुतजापेन नश्यन्ति सकलापदः । नित्यशः प्रजपेन्मन्त्रं पूर्णासु विजितेन्द्रियः ॥ १५ ॥ जपेन्मनुं यथाशक्ति लक्ष्मीसौभाग्यसिद्धये । त्रितयं मण्डलानां तु कृत्वा पाश्चात्त्यपौर्विकम् ॥ आसीनः पश्चिमे 2 मध्ये संस्थे द्रव्याणि विन्यसेत् । पूर्वस्मिन्पङ्कजोपेते पूर्ववत्सोममर्चयेत् ॥ १७ ॥ कायामुदये राज्ञो निजकार्य विचिन्तयेत् । संस्थाप्य राजतं तत्र चषकं परिपूरयेत् ॥ १८ ॥ गव्येन शुद्धपयसा स्पृष्टपात्रो जपेन्मनुम् । अष्टोत्तरशतावृत्त्या दद्यादर्घ्यमथेन्दवे ॥ १९ ॥ विद्यामन्त्रेण मन्त्रज्ञो यथावत्तद्द्वतात्मना । विद्याविद्यापदे प्रोक्त्वा मालिनीति च चन्द्रिणी ॥ २० ॥ चन्द्रमुख्यनिजायां च निगदेत्प्रणवादिकम् । प्रतिमासं च षण्मासात्सिद्धिमेष्यति काङ्क्षितम् ॥ २१ ॥ 1. निधानमपि लभ्यते । 2. मध्यसंस्थे. पञ्चदशः पटलः । इष्टाय दीयते कन्या कन्यां विन्देन्निजेप्सिताम् । अमितां श्रियमाप्नोति कान्ति पुत्रान्यशः पशून् । सोमार्घ्यदाता लभते दीर्घमायुश्च विन्दति ॥ २२ ॥ इति सोममन्त्रसिद्धिं प्रणिगदितः संग्रहेण मन्त्रविदाम् । उपकृतयेऽमितलक्ष्म्यै मेधायै प्रेत्य चेह संपन्त्यै ॥ २३ ॥ अथाग्निमन्त्रान्सकलार्थसिद्धि- करान्प्रवक्ष्ये जगतो हिताय । सर्ष्यादिक्लृप्तीनपि साङ्गभेदा- न्साचविशेषान्सजपादिकांश्च ॥ २४ ॥ वियतो दशमोऽर्घिसर्गयुक्तो भुवसर्गौ भृगुलान्तषोडशाचः । हुतभुग्दयिता ध्रुवादिकोऽयं मनुरुक्तः सुसमृद्धिदः कृशानोः ॥ २५ ॥ २३५ २३६ प्रपञ्चसार भृगुरपि तदृषिश्छन्दो गायत्री देवतानिरुद्दिष्टः । प्राक्प्रोक्तान्यङ्गानि 'विशः समुक्तैश्च मन्त्रवाक्यैर्वा ॥ २६ ॥ शक्तिस्वस्तिकपाशा- न्साङ्कुशवरदाभयान्दधत्रिमुखः । मकुटादिविविधभूषो- Saताश्चिरं पावकः प्रसन्नो वः ॥ २७ ॥ जपेदिमं मनुमृतुलक्षमादरा- दशांशतः प्रतिजुहुयात्पयोन्धसा । ससर्पिषाप्यसिततरैश्च षाष्टिकैः समर्चयेदथ विधिवद्विभावसुम ॥ २८ ॥ पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिङ्गिनी । रुचिरा 'कालिनी चेति कृशानोर्नव शक्तयः ॥ २९ ॥ 1. द्विश: ; 2. ज्वालिनी. पञ्चदश: पटल: । २३७ पीठे तनूनपातः प्रागङ्गैरष्टमूर्तिभिस्तदनु । भूयश्च शतमखाद्यै- विधिनाथ हिरण्यरेतसं प्रयजेत् ॥ ३० ॥ आज्यैरष्टोर्ध्वशतं प्रतिपदमारभ्य मन्त्रविद्दिनशः । चतुरो मासाञ्जुहुया- लक्ष्मीरत्यायता भवेत्तस्य ॥ ३१ ॥ शुद्धाभि: शालीभि- दिनमनुजुहुयात्तथान्दमात्रेण । शालीशालि गृहं स्या- गोमहिषाद्यैश्च संकुलं तस्य ॥ ३२ ॥ शुद्धान्नैर्धृतसिक्तैः प्रतिदिनमग्नौ समेधिते जुहुयात् । अन्नसमृद्धिर्महती स्यादस्य निकेतनेऽब्दमात्रेण ॥ ३३ ॥ २३८ जुहुयातिलैः सुशुद्धैः प्रपञ्चसरे षण्मासाज्जायते महालक्ष्मीः । कुमुदैः कहारैरपि जातकुसुमैश्च जायते सिद्धिः ॥ ३४ ॥ पालाशैः पुनरिष्मकैः सरसिजैर्बिल्वैश्च रक्तोत्पलै- दुग्धोर्वीरुह संभवैः खदिरजैर्व्याघातवृक्षोद्भवैः । दुर्वाख्यैश्च शमीविकङ्कतभवैरष्टोर्ध्वयुक्तं शतं नित्यं वा जुहुयात्प्रतिप्रतिपदं मन्त्री महासिद्धये ॥ तारं व्याहृतयश्चाग्निर्जातवेद इहावह । सर्वकर्माणि चेत्युक्त्वा साधयाग्निवधूर्मनुः ॥ ३६ ॥ ऋष्याद्याः पूर्वोक्ता मन्त्रेणाङ्गानि वर्णभिन्नेन । भूतर्तुकरण सेन्द्रिय- गुणयुग्मैजतिभेदितैस्तदपि ॥ ३७ ॥ अथ वा शक्तिस्वस्तिक- दर्भाक्षस्रक्वस्रुगभयवरान् । पञ्चदशः पटलः । २३९. दधदमिताकल्पो यो वसुरवतात्कनकमालिकालसितः ॥ ३८ ॥ वत्सरादेश्चतुर्दश्यां दिनादावेव दीक्षितः । मन्त्रं द्वादशसाहस्रं जपेत्सम्यगुपोषितः ॥ ३९ ॥ अर्चयेदङ्गमूर्तीश्च लोकेश कुलिशादिभिः । समिदाद्यममावास्यां परिशोध्य यथाविधि ॥ ४० ॥ ब्राह्मणान्भोजयित्वा च स्वयं भुक्त्वा समाहितः । परेऽह्नि प्रतिपद्येतैर्जुहुयादर्चितेऽनले ॥। ४१ ॥ मन्त्री वटसमिद्रीहितिलराजिहविघृतैः । अष्टोत्तरशतावृत्त्या हुनेदेकैकशः क्रमात् ॥ ४२ ॥ दशाहमेवं कृत्वा तु पुनरेकादशीतिथौ । शक्त्या प्रत विप्रांश्च प्रदद्याद्गुरुदक्षिणाम् ॥ ४३ ॥ सुवर्णवासोधान्यानि शोणां गां च सतर्णकाम् । पुनरष्टोत्तरं मन्त्री सहस्रं दिनशो जपेत् ॥ ४४ ॥ विधिनेति विधातुरग्निपूजा- मचिरेणैव भवेन्महासमृद्धिः । -२४० प्रपञ्चसारे धनधान्यसुवर्णरत्नपूर्णा धरणी गोवृषपुत्रमित्रकीर्णा ॥ ४५ ॥ प्रजपदथ वा सहस्रसंख्यं दिनशो वत्सरतो भवेन्महाश्रीः । जुहुयात्प्रतिवासरं शताख्यं हविषाब्देन भवेन्महासमृद्धि: ॥ ४६ ॥ पालाशैः कुसुमैर्हुनेद्दधिघृतक्षौद्राप्लुतैर्मण्डलं नित्यं साष्टशतं तथैव करवीरोत्थैः समृद्ध्यै हुनेत् । षण्मासं कपिलाघृतेन दिनशोऽप्यष्टौ सहस्रं तथा होतव्यं लभते स राजसदृशीं लक्ष्मीं यशो वा महत् ॥ उत्पूर्वात्तिष्ठशब्दात्पुरुषहरिपदे पिङ्गलान्ते निगद्य प्रोच्याथो लोहिताक्षं पुनरपि च वदेदेहि मेदान्क्रमेण । -भूयो ब्रूयात्तथा दापय शशियुगलाणश्वतुर्विंशदर्णः प्रोक्तो मन्त्रोऽखिलेष्टप्रतरणसुरसद्माङ्घ्रिपः स्यात्कृशानोः । ऋष्याद्याः स्युः पूर्वव- तुभूतदिशाविकरणयुगलार्णैः । पञ्चदशः पटलः । २४१ मूलमनुनाथ कुर्या - दङ्गानि क्रमश एव मन्त्रितमः ॥ ४९ ॥ रैमाश्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्वाकृति वर्षन्तं धनधान्यरत्ननिचयान्रन्धैः स्वकैः संततम् । ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसंभेदनं वन्दे धर्मसुखार्थमोक्षसुखदं दिव्याकृति पावकम् ॥ ५० ॥ जप्याच्च लक्षमानं मन्त्री संदीक्षितोऽथ मनुमनम् । जुहुयाच्च तदवसानं घृतसिक्तैः पायसैर्दशांशेन ॥ ५१ ॥ अङ्गैर्हुतवहमूर्तिभि- राशेशैः संयजेत्तदत्रैश्च । पावकमिति मन्त्रितमो गन्धाद्यैरनुदिनं तदुपहारैः ॥ ५२ ॥ दिनावतारे मनुमेनमन्वहं जपेत्सहस्रं नियमेन मन्त्रवित् । 1. फलदं *P. 16 २४२ प्रपञ्चसारे अवृष्यतायै यशसे श्रिये रुजां विमुक्तये युक्तमतिस्तथायुषे ॥ ५३ ॥ शालीतण्डुलकैः सितैश्च पयसा कृत्वा हविः पावकं गन्धाद्यैः परिपूज्य तेन हविषा संवर्त्य पिण्डं महत् । आज्यालोलितमेकमेव जुहुयाज्जप्त्वा मनुं मन्त्रवि साटो प्रतिपद्यथो शतमतः स्यादिन्दिरा वत्सरान् । अष्टोत्तरं शतमथो मृगमुद्रयैव मन्त्री प्रतिप्रतिपदं जुहुयात्पयन्नैिः । साज्यैर्भवेन्न खलु तत्र विचारणीयं संवत्सरात्स च निकेतनमिन्दिरायाः ॥ ५५ । अष्टशतं हविषा मन्त्रेणानेन नित्यशो जुहुयात् । षण्मासादाढ्यतमो भवति नरो नात्र संदेहः ॥ ५६ ॥ शालीभिः शुद्धाभिः प्रतिदिनमष्टोत्तरं शतं जुहुयान् । पञ्चदशः पटलः । २४३ धनधान्यसमृद्धः स्या- न्मन्त्री संवत्सरार्धमात्रेण ॥ ५७ ॥ आज्यैरयुतं जुहुया- प्रतिमासं प्रतिपदं समारभ्य । अतिमहती लक्ष्मी: स्या- दस्य तु षण्मासतो न संदेहः ॥ ५८ ॥ अरुणैः पुनरुत्पलैः शतं यो मधुराक्तैः प्रजुहोति वत्सरार्धम् । मनुनाप्यमुना दशाधिकं स प्रलभेन्मङ्कु महत्तरां च लक्ष्मीम् ॥ ५९ ॥ जातीपलाशकरवीरजपाख्यबिल्व- व्याघातकेसरकुरण्डभवैः प्रसूनैः । एकैकशः शतमथो मधुरत्रयाक्तै- जुह्वत्प्रतिप्रतिपदं श्रियमेति वर्षात् ॥ ६० ॥ खण्डैश्व सप्तदिनमप्यमृतालतोत्थै- मन्त्री हुनेगुणसहस्रमथो पयोक्तः । २४४ प्रपञ्चसारे सम्यक्समये दहनं नचिरेण जन्तु- श्चातुर्थिकादिविषमज्वरतो वियुज्यात् ॥ ६१ ॥ क्षीरद्रुमत्वगभिपक्कजलैर्यथाव- त्संपूर्य कुम्भमभिपूज्य कृशानुमव । जत्वा मनुं पुनरमुं त्रिसहस्रमानं सेकक्रिया ज्वरहरी ग्रहवैकृतघ्नी ॥ ६२ ॥ पयसि हृदयदन्ने भानुमालोक्य तिष्ठ- न्प्रजपतु च सहस्रं नित्यशो मन्वमेनम् । स दुरितमपमृत्युं रोगजातांच हित्वा व्रजति नियतसौख्यं वत्सराद्दीर्घमायुः ॥ ६३ ॥ मनुनामुनाष्टशतजप्तमथ प्रपिवेज्जलं ज्वलनदीपनकृत् । गुरु भुक्तमप्युदरगं त्वमुना परिजापितं पचति कुक्ष्यनलः ॥ ६४ ॥ हुनेदरुणपङ्कजैखिमधुराप्लुतैर्नित्यशः सहस्रमृतुमासतः पृथुतरा रमा जायते । पञ्चदशः पटलः । प्रतिप्रतिपदं हुनेदिति बुधो धिया वत्सरा- द्विनष्टवसुरम्यसौ भवति चेन्दिरामन्दिरम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे पञ्चदशः पटलः ॥ २४५ षोडशः पटलः ॥ अथ संग्रहेण कथयामि मनुमपि महागणेशितुः । यमवहितधियः समुपास्य सिद्धिमधिकां प्रपेदिरे ॥ १ ॥ तारश्रीशक्तिमारावनिगणपतिबीजानि दण्डीनि चोक्त्वा पश्चाद्विघ्नं चतुर्थ्या वरवरदमथो सर्वयुक्तं जनं च । आभाष्य क्ष्वेलमेन्तं वशमिति च तथैवानयेति द्विठान्त: प्रोक्तोऽयं गाणपत्यो मनुरखिलविभूतिप्रदः कल्पशाखी ॥ ऋषिरपि गणकोऽस्य स्या- च्छन्दोनिचृदन्त्रिता च गायत्री । सकलसुरासुरवन्दित- चरणयुगो देवता महागणपः ॥ ३ ॥ षोडशः पटलः । प्रणवादिबीजपीठ- स्थितेन दीर्घस्वरान्वितेन सता । अङ्गानि षडिध्या- न्मन्त्री विघ्नेश्वरस्य बीजेन ॥ ४ ॥ मन्दाराद्यैः कल्पक- वृक्षविशेषैर्विशिष्टतरफलदैः । शिशिरितचतुराशेऽन्त- बलातपचन्द्रिकाकुले च तले ॥ ५ ॥ ऐक्षवजलनिधिलहरी - कणजालकवाहिना च गन्धवहेन । संसेविते च सुरतरु- सुमनःश्रितमधुपपक्षचलनपरेण ॥ ६ ॥ रत्नमये मणिव- प्रवालफलपुष्पपल्लवस्य सतः । महतोऽधस्तादृतुभि- युगपत्संसेवितस्य कल्पतरोः ॥ ७ ॥ २४७ २४८ प्रपञ्चसारे सिंहमुखपादपीठग- लिपिमयपद्मे त्रिषट्कोणाल्लसिते । आसीनस्त्वेकर दो बृहदुदरो दशभुजोऽरुणतनुश्च गजवदनः ॥ ८ ॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल- व्रीह्मग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥ करपुष्करधृतकलश- स्रुतमणिमुक्ताप्रवालवर्षेण । अविरतधारां विकिर- न्परितः साधकसमग्रसंपन्त्यै ॥ १० ॥ मदजललोलुपमधुकर- मालां निजकर्णतालताडनया । निर्वासयन्मुहुर्मुहु- रमरैरसुरैश्च सेवितो युगपत् ॥ ११ ॥ षोडश: : पटलः । २४९ अग्रेऽथ बिल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुषौ गिरिजावृषाङ्कौ । पृष्ठेऽथ पिप्पलजुषौ रति पुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ १२ ॥ ध्येयौ च पद्मयुगचक्र दरैः पुरोकौ पाशाङ्कुशाख्यपरशुत्रिशिखैरथान्यौ । युग्मोत्पलेक्षुमयचापधरौ' तृतीया- वन्यौ शुकाह्नकलमाग्रगदारथाः ॥ १३ ॥ ध्येयाः षट्कोणाश्रिषु परितः पाशाङ्कुशाभयेष्ट्रकराः । सप्रमदा गणपतयो रक्ताकाराः प्रभिन्नमदविवशाः ॥ १४ ॥ अप्राश्रावामोदः प्रमोदसुमुखौ च तदभितोऽश्रियुगे । पृष्ठे च दुर्मुखाख्य- स्त्वमुमभितो विघ्नविघ्नकर्तारौ ॥ १५ ॥ 1. • शरौ २५० सव्यापसव्यभागे प्रपञ्चसारे तस्य ध्येयौ च शङ्खपद्मनिधी । मौक्तिकमाणिक्याभौ वर्षन्तौ धारया धनानि सदा ॥ १६ ॥ सिद्धिसमृद्धी चान्या कान्तिर्मदनावती मदद्रवया । द्राविणिवसुधाराख्ये वसुमत्यपि विघ्ननिधियुगप्रमदाः ॥ १७ ॥ ध्यात्वैवं विघ्नपतिं चत्वारिंशत्सहस्रसंयुक्तम् । प्रजपेल्लक्षचतुष्कं चतुः सहस्रं च दीक्षितो मन्त्री ॥ १८ ॥ दिनशः स चतुश्चत्वा- रिंशत्संख्यं प्रतर्पयेद्विघ्नम् । उक्त जपान्ते मन्त्री जुहुयाश्च दशांशतोऽष्टभिर्द्रव्यैः ॥ १९ ॥ षाडश: पटलः । २५१ मोदक थुका लाजा: ससक्तवः सेक्षुनालिकेरतिला: । कदलीफलसहितानी- त्यष्ट द्रव्याणि संप्रदिष्टानि ॥ २० ॥ अनुदिनमर्चयितव्यो जपता मनुमपि च मन्त्रिणा गणपः । प्राक्प्रोक्तपद्मपीठे सशक्तिके साधिका मनौ विधिना ॥ २१ ॥ तीव्रा ज्वालिनिनन्दे सभोगदा कामरूपिणी चोप्रा । तेजोवती च नित्या संप्रोक्ता विघ्ननाशिनी नवमी ॥ २२ । सर्वयुतं शक्तिपदं प्रोक्त्वा कमलासनाय नम इति च । आसनमन्त्रः प्रोक्तो नवशक्त्यन्ते समर्चयेदमुना ॥ २३ ॥ २५२ आद्या मिथुनैरावृति- प्रपञ्चसारे रपरा सनिधिभिरपि च षड्विन्नैः । अङ्गैरन्या मातृभि- रपरेन्द्राद्यैश्च पञ्चमी पूज्या ॥ २४ ॥ दीक्षाभिषेकयुक्तः प्रजपेत्संपूजयेदिति गणेशम् । अभिधीयतेऽस्य च पुन- गुर्वादेशेन मन्त्रिणो दीक्षा ॥ २५ ॥ मध्येच दिग्दलानां चतुष्टया प्रविन्यसेत्कलशान् । क्षीरबिल्वरोहिण- पिप्पलफलिनीत्वगुद्भवैः कथितैः ॥ २६ ॥ संपूजयेद्यथाव- त्क्रमात्समावाह्य गणपमिथुनानि । अभ्यर्च्य चोपचारै- हुत्वा विधिवत्पुनः समभिषिश्चेत् ॥ २७ ॥ षोडश: इति जपहुतार्चनाद्यैः : पटलः । २५३ सिद्धो मन्त्रेण कर्म कुर्वीत । अष्टद्रव्यैर्वान्यै- हुने तत्तत्प्रयोजनवायै ॥ २८ ॥ स्वर्णाप्त्यै मधुना च गव्यपयसा गोसिद्धये सर्पिषा लक्ष्म्यै शर्करया जुहोतु यशसे दघ्ना च सर्वर्द्धये । अन्नैरन्नसमृद्धये च सतिलैर्द्रव्याप्तये तण्डुलै- र्लाजाभिर्यशसे कुसुम्भकुसुमैः साश्वारिजैर्वाससे । पद्यैर्भूपतिमुत्पलैर्नृपवधूं तन्मन्त्रिणः कैरवै - रश्वत्थादिसमिद्भिरप्रमुखान्वर्णान्वधूः पिष्टजै: । पुत्तल्यादिभिरन्वहं च वशयेज्जुह्वन्ननावृष्टये लोणैर्वृष्टिसमृद्धये च जुहुयान्मन्त्री पुनर्वेत सैः ॥ ३० ॥ मन्त्रेणाथ पुरामुनैष चतुरावृत्त्या समातर्प्य च श्रीशक्तिस्मरभूविनायकरतीर्नाम्नैव बीजादिकम् । आमोदादिनिधिद्वयं च सचतुः पूर्व चतुर्वारकं मन्त्री तर्पणतत्परोऽभिलषितं संप्राप्नुयान्मण्डलात् ॥ २.५४ प्रपञ्चसारे अथ गजलिप्सुर्नृपति- गजवनमध्ये प्रसाधयेद्वारि । तन्निकटे तु विशालं चतुरश्रं कारयेच्च गृहवर्यम् ॥ ३२ ॥ परिवीतदृढावरणं तच्च चतुर्द्वारतोरणोल्लसितम् । तस्मिन्मण्डपa चतुरश्रामुन्नतां स्थलीं कृत्वा ॥ २२ ॥ उत्तरभागे तस्याः कुण्डं रचयेद्यथा पुरा तत्र । चापजहरिभवमानुष- चक्रप्रोक्तानथाक्षरान्मन्त्री ॥ ३४ ॥ ऊर्ध्वादिमेखलासु क्रमेण विलिखनिजेष्टसमवायै । संप्रोक्तलक्षणयुतं प्रविरचयेन्मण्डलं स्थलीमध्ये ॥ ३५ ॥ षोडशः ः पटलः । २५५ आवाह्य विघ्नेश्वरमर्चयित्वा प्रागुक्तया तत्र विधानक्लुप्त्या । निवेदयित्वा सह भक्ष्यलैयैः प्राज्यैश्च साज्यैरपि भोज्यजातैः ॥ ३६ ॥ आधाय वैश्वानरमत्र कुण्डे समर्च्य मन्त्रैः क्रमशः कृशानोः । तैरेव पूर्व जुहुयाद्भूतेन मन्त्री समृद्ध्या च ततस्त्रिवारम् ॥ ३७ ॥ तारेण लक्ष्म्यद्रिसुतास्मरक्षमा- विघ्नेशबीजैः क्रमशेोऽनुबद्धैः । पदत्रयेणापि च मन्त्रराजं विभज्य मन्त्री नवधा जुहोतु ॥ ३८ ॥ पुनः समस्तेन न्व मन्त्रवर्ण- संख्यं प्रजुह्वन्नपि सर्पिषैव । पूर्व प्रदिष्टैर्जुहुयादथाष्ट- द्रव्यैः प्रसिक्तैर्मधुरत्रयेण ॥ ३९ ॥ : -२५६ प्रपञ्चसारे सचतुश्चत्वारिंश- त्सहस्रसंख्यैश्चतुःशतैः श्रुतिभिः । दशकचतुष्कैहुत्वा चत्वारिंशद्भिरन्तरेण दिनैः ॥ ४० ॥ करिकलभाः करिणीभिः संपात्यन्तेऽवटेऽत्र गणपतिना । प्रतिदिनमभ्यवहार्य च विप्रान्संवर्धितस्तदाशीर्भिः ॥ ४१ ॥ तेषां मातङ्गानां दद्यात्पव्यांशदक्षिणां गुरव । तद्विक्रीतं वसु वा प्रसादितायाथ तद्दशांशं वा ॥ ४२ ॥ मिथुनानां गणपानां निध्योश्च तथाङ्गमातृलोकेशानाम । मन्त्री घृतेन हुत्वा- भ्यर्च्य च होमं समापयेत्सम्यक् ॥ ४३ ॥ षोडशः पटलः । २५७ 'पुनरुद्धृत्य निवेद्या- दिकं समभ्यर्च्य गणपतिं सावरणम् । उद्वास्यस्वे हृद विहरेदित्यर्चना क्रमोद्दिष्टा ॥ ४४ ॥ प्रोक्तस्त्वेवं दशभुजमनुः संग्रहेणात्र भक्तो दीक्षां प्राप्तो विधिवदद्भिजत्वाथ हुत्वार्चयित्वा । नुत्वा नत्वा दिनमनु तथा तर्पयित्वा स्वकामा- लब्ध्वा चान्ते व्रजति मुनिभिः प्रार्थनीयं पदं तत् ॥ स्मृतिपीठः पिनाकी सानुग्रहो बिन्दुसंयुतः । बीजमेतद्भुवः प्रोक्तं संस्तम्भनकरं परम् ॥ ४६ ॥ चतुरीयो विलोमेन तारादिर्बिन्दुसंयुतः । वैनो मन्त्रो हृदन्तोऽर्चाविधौ होमे द्विठान्तकः ॥ ४७ ॥ गणकः स्यादृषिश्छन्दो निचृद्विघ्नश्च देवता । बीजेन दीर्घयुक्तेन दण्डिनाङ्गक्रियेरिता ॥ ४८ ॥ रक्त रक्ताङ्गरागांशुक कुसुमयुतस्तुन्दिलश्चन्द्रमौलि - नैत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । *P. 17 २५८ प्रपञ्चसारे हस्ताग्राक्लृप्तपाशाङ्कुशरदवरदो 'नागयज्ञाभिभूषो देव: पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः ॥ दीक्षितः प्रजपेल्लक्षचतुष्कं प्राक्समीरितैः । जुहुयादष्टभिर्द्रव्यैर्यथापूर्वे दशांशतः ॥ ५० ॥ पीठे तीव्रादिभिः पद्मकर्णिकायां विनायकम् । आवाह्य पूजयेद्दिक्षु चतुर्ष्वपि यजेत्पुनः ॥ ५१ ॥ गणाधिपगणेशौ च गणनायकमेव च । गणक्रीडं कर्णिकायामङ्गैः किञ्जल्कसंस्थितैः ॥ ५२ ॥ वक्रतुण्डैकदंष्ट्रौ च महोदरगजाननौ । लम्बोदरश्च विकटो विघ्नराड्धूमवर्णकौ ॥ ५३ ॥ समर्चयेन्मातृवर्ग बाह्ये लोकेश्वरानपि । इति प्रोक्ता संग्रहेण गाणेशीयं समर्चना ॥ ५४ ॥ नालिकेरान्वितैर्मन्त्री सक्तुलाजतिलै हुनेत् । आरभ्याच्छां प्रतिपदं चतुर्थ्यन्तं चतुःशतम् ॥ ५५ ॥ दिनशः सर्ववश्यं स्यात्सर्वकामप्रदं नृणाम् । तिलतण्डुलकैर्लक्ष्मीवश्यकृच यशस्करम् ॥ ५६ ॥ 1. नागवोsहिभूषो. षोडश: पटलः । मधुरत्रयसिक्ताभिर्लाजाभिः सप्तवासरम् । जुहुयात्कन्यकार्थी वा कन्यका वा वरार्थिनी ॥ ५७ ॥ चतुर्थ्यां नालिकेरैस्तु होमः सद्यः श्रियावहः । हविषा घृतसिक्तेन सर्वकार्यार्थदो हुतः ॥ ५८ ॥ 'दध्यन्नलोण मुद्राभिहुनेन्निशि चतुर्दिनम् । इष्टार्थसिद्धधै मतिमान्सद्यः संवादसिद्धये ॥ ५९ ॥ ईदृशं गणपं ध्यात्वा मन्त्री तोयैः सुधामयैः । दिनादौ दिनशस्तस्य तर्पयेन्मस्तके सुधीः ॥ ६० ॥ चत्वारिंशच्चतुः पूर्व तत्पूर्व वा चतुःशतम् । चत्वारिंशद्दिनात्तस्य काङ्क्षिता सिद्धिरेष्यति ॥ ६१ ॥ नवनीते नवे लिख्यादनुलोमविलोमकम् । उदरस्थित साध्याख्यं तद्वीजं तत्प्रतिष्ठितम् ॥ ६२ ॥ समीरणं प्रतिष्ठाप्य जप्त्वाष्टशतसंख्यकम् । तूष्णीं प्रभक्षयेदेतत्सप्तरात्राद्वशीकरम् ॥ ६३ ॥ अन्त्यासनोऽथ सूक्ष्मो लोहितगोऽग्निः पुनः स एव स्यात् । 1. दध्यक्त ० 2. तत्प्रवेष्टितम् . २५९ २६० सादान्तेनायाण प्रपञ्चसारे नत्यन्तो मनुरयं स्वबीजाद्यः ॥ ६४ ॥ ऋषिदेव तु पूर्वे च्छन्दस्तु विराडमुष्य संप्रोक्ता । बीजे दीर्घभाजा कथितोऽङ्गविधिः क्रमेण बिन्दुमा ॥ ६५ ॥ धृतपाशाङ्कुशकल्पक- लतिकास्वरदश्च बीजपूरयुतः । शशिशकलकलितमौलि- स्त्रिलोचनोऽरुणतनुश्च गजवदनः ॥ ६६ ॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः । ध्येयोऽनायतदोः पद- सरसिरुहः संपदे सदा मनुजैः ॥ ६७ ॥ दीक्षायुक्तः प्रजपे - लक्षं मनुमेनमथ तिलैरयुतम् । षोडश: त्रिमधुरसितैर्जुहुया- : पटलः । २६१ त्पूर्वोक्तैर्वाथ वाष्टभिर्द्रव्यैः ॥ ६८ ॥ विघ्नविनायकवीराः सशूलवरदेभवक्त्रकै करदाः । लम्बोदरश्च मात- ङ्गावृत्योरन्तरा च लोकेशाः ॥ ६९ ॥ पूज्याः सितघृतपायस- हवनात्संजायते महालक्ष्मीः । केवलघृतहुत मुदितो विघ्नः सद्यो वशीकरोति जगत् ॥ ७० ॥ एकमपि नालिकेरं सचर्मलोष्टेन्धनं हुनेन्मन्त्री । दिनशश्चत्वारिंशु- नितः स तु वाञ्छितार्थमभ्येति ॥ ७१ ॥ सह पृथुकसक्तुलाजै- स्तिलैरभीष्टार्थसिद्धये जुहुयात् । २६२ सापूपनालिकेरे- प्रपञ्चसारे क्षुककदलीभिस्तथा सुमधुराभिः ॥ ७२ ॥ अष्टभिरेतैर्विहितो होमः सर्वार्थसाधको भवति । दिनशः सघृतान्नहुतो गृहयात्रायापको गृहस्थानाम् ॥ ७३ ॥ अन्वहमन्वहमादौ गणपं संतर्पयेचतुः पूर्वम् । चत्वारिंशद्वारैः शुद्धजलैरिन्दिराप्तये मन्त्री ॥ ७४ ॥ समहागणपतियुक्तै- विघ्नाद्यैर्दशभिराह्वयैर्दिनशः । तर्पणपूजाहुत विधि- रपि वाञ्छित सिद्धिदायको भवति ॥ ७५ ॥ विम्बादम्बुदवत्समेत्य सवितुः सोपानके राजतै- स्तोयं तोयजविष्टरं ध्रतलतादन्तं सपाशाङ्कुशम् । षोडशः 1: 927: 1 नासां साध्य के निधाय सुधया तद्रन्धनिर्यातया सिभ्वन्तं वपुरन्वहं गणपतिं स्मृत्वामृतैस्तर्पयेत् ॥ प्राग्भाषितानपि विधीन्विधिवद्विदध्या- न्मन्त्री विशेषविदथान्वहमादरेण । एकत्र वा 'गणपतौ मनुजाः स्वरुच्या नामानुरूपमनुमेनममी भजन्तु ॥ ७७ ॥ इति जपहुतपूजातर्पणैर्विघ्नराजं प्रभजति मनुजो यस्तस्य शुद्धिर्विशाला । भवति सधनधान्या पुत्रमित्रादियुक्ता विगतसकलविघ्ना विश्वसंवादिनी च ॥ ७८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे षोडशः पटलः ॥ २६३ सप्तदशः पटलः ॥ * अथ मन्मथमन्त्रविधिं विधिना कथयामि सहोमविधिं सजपम् । मथनस्य पुरामपि मोहकरं व्यथिताखिलसिद्धसुरादिगणम् ॥ १ ॥ अजकलाप्रथमावनिशान्तिभि- युतसुधाकरखण्ड विकासिभिः । निगदितो मनुरेष मनोभुवः सकलधर्मयशोर्थसुखावहः ॥ २ ॥ ऋष्यादिकाश्च संमो हनगायत्रीमनोभवाः प्रोक्ताः । बीजेन दीर्घभाजा कथितान्यङ्गान्यमुष्य जातियुजा ॥ ३ ॥ सप्तदश: पटलः । अरुणमरुणवासोमाल्यदामाङ्गरागं स्वकरकलितपाशं साङ्कुशास्त्रेषुचापम् । मणिमयमकुटाद्यैर्दीप्तमाकल्पजातै- ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ ४ ॥ तरणिलक्षममुं मनुमादरा- त्समभिजप्य हुनेश्च दशांशकैः । तदनु किंशुकजैः प्रसवैः शुभै- त्रिमधुरार्द्रतरैर्निजसिद्धये ॥ ५ ॥ मोहिनी क्षोभिणी त्रासी स्तम्भिन्याकर्षिणी तथा । द्राविणीह्लादिनी क्लिन्नाक्लेदिन्यः स्मरशतयः ॥ ६ ॥ आशान्तिद्वयवाम- श्रुतिसर्गैर्द्रयुगकलबलैश्च ससैः । शोषणमोहनसंदी- पनतापनमादनान्यजेत्क्रमशः ॥ ७ ॥ . अनङ्गरूपा सानङ्गमदनानङ्गमन्मथा । अनङ्गकुसुमानङ्गकुसुमातुरसंज्ञका ॥ ८ ॥ २६५. २६६ प्रपञ्चसरे अनङ्गशिशिरानङ्गमेखलानङ्गदीपिका । अङ्गाशापालयोर्मध्ये बाणानङ्गावृतीर्यजेत् ॥ ९॥ आलिख्यात्कर्णिकायामनलपुरपुटे मारबीजं ससाध्यं तद्रन्ध्रेष्वङ्गषट्कं बहिरपि गुणशो मारणाय त्रिवर्णान् । - मालामन्त्रं दलाग्रेष्वपि गुहमुखश: पार्थिवाश्रिष्वनङ्गं कुर्याद्यन्त्रं तदेतद्भुवनमपि वशे का कथा मानवेषु ॥ १० ॥ प्रोक्त्वाथ कामदेवा- य विद्महे तदनु पुष्पबाणाय । तथा च धीमह्यन्ते तन्नोऽनङ्गः प्रचोदयाद्वायत्री ॥ ११ ॥ नत्यन्ते कामदेवाय प्रोक्त्वा सर्वजनं वदेत् । प्रियायेति तथा सर्वजनसंमोहनाय च ॥ १२ ॥ वीप्सयित्वा ज्वलपदं प्रज्वलं च प्रभाषयेत् । पुनः सर्वजनस्येति हृदयं मम चेत्यथ ॥ १३ ॥ वशमुक्त्वा कुरूं वीप्स्य कथयेद्वह्निवल्लभाम् । प्रोक्तो मदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ १४ ॥ सप्तदश: पटलः । २६७ इति यन्त्रक्लृप्तकलशो बहुश: कतमं नरं न परिमोहयति । प्रमदावनीश्वरसभानगरा- दिकमाश्वनपि वशे कुरुते ॥ १५ ॥ वक्ष्ये विधानमन्य- न्मनोभवस्याथ मोहनं जगतः । येनार्चितः स देवो वाञ्छितमखिलं करोति मन्त्रविदाम् ॥ १६॥ अमृतोद्भवा मकरके- तनश्च संकल्पजाह्वयाक्षररूपौ' । इक्षुधनुर्धरपुष्प - राख्यावङ्गानि वहिजायान्तानि ॥ १७ ॥ अरुणतरवसनमाल्या- नुलेपनाभरणमिषुशरासधरम् । न्यस्तशरबीजदेहो ध्यायेदात्मानमङ्गजं रुचिरम् ॥ १८ ॥ 1. क्षतरूप. २६८ प्रपञ्चसारे अङ्गबाणावृतेरूर्ध्वं पूज्याः षोडश शक्तयः । युवतिर्विप्रलम्भा च ज्योत्स्ना सुश्रूदद्रवा ॥ १९ ॥ सुरता वारुणी लोला कान्तिः सौदामिनी तथा । कामच्छत्रा चन्द्रलेखा शुकी च मदनाह्वया ॥ २० ॥ 'योनिर्मायावती चेति शक्तयः स्युर्मनोभुवः । शोको मोहो विलासश्च विभ्रमो मदनातुरः ॥ २१ ॥ अपत्रपो युवा कामी चूतपुष्पो रतिप्रियः । ग्रीष्मस्तपान्त ऊर्जश्व हेमन्तः शिशिरो मदः ॥ २२ ॥ चतुर्थ्यामावृतौ पूज्याः स्युर्मारपरिचारकाः । परभृत्सारसौ चैव शुकमेघाह्वयौ तथा ॥ २३ ॥ अपाङ्गभ्रूविलासौ द्वौ हावभावौ स्मरप्रियाः । माधवी मालती चैव हरिणाक्षी मदोत्कटा । एताश्वामरहस्ताः स्युः पूज्याः कोणेषु संस्थिताः ॥ २४ ॥ हृल्लेखया स्वनाम्ना च शक्त्यादीनां समर्चनम् । इन्द्राद्यैः सप्तमी पूज्या स्मरार्चाविधिरीदृश: ॥ २५ ॥ 1. मायामयी सप्तदश: पटलः । मदनविधानमितीत्थं प्रोक्तं योऽनेन पूजयेद्विधिना । स तु सकललोक पूज्यो भवेन्मनोज्ञश्च मन्दिरं लक्ष्म्याः ॥ २६ ॥ विलसदहंकारतनु- मनः शिवो विभ्रमास्पदीभूतः । बुद्धिशरीरां नारीं नरः सदा चित्तयोनिमभिगच्छेत् ॥ २७ ॥ इति मदनयोगरत्या' यो रमयेन्नित्यशो निजां वनिताम् । स तु भुक्तिमुक्तिकामी वनिताजनहृदयमोहनो भवति ॥ २८ ॥ आत्मानं मदनं ध्यायेदाशुशुक्षणिरूपिणम् । तद्वीजा शिवज्वालातनुं तन्वीतनुं तथा ॥ २९ ॥ सुधामयीं च तद्योनिं नवनीतमयं स्मरेत् । संगच्छेञ्च शिवज्वालालीढं तद्धृदयादिकम् ॥ ३० ॥ 1. • क्लृप्त्या. २६९ २७० प्रपञ्चसारे आलिङ्गेदग्निसंस्पर्शद्रुततद्रूपकामृतम् । रसनाशिखया कर्षेत्तद्दन्तवसनामृतम् ॥ ३१ ॥ कुसुमात्रधिया बाह्ये स्पृशेत्कररुहैरपि । हानिं न कुर्याज्जीवस्य मन्त्री विशदमानसः ॥ ३२ ॥ रतावथोऽधोमध्योर्ध्वक्रमेणैवं समाहितम् । निजप्रियां भजेदेवं सा मारशरविह्वला । छायेवानपगा तस्य भवेदेवं भवान्तरे ॥ ३३ ॥ साध्याख्या कामवर्णैः प्रतिपुटितलसत्कर्णिकं पत्रराज- त्तारर्त्विक्पक्षजाष्टादशसमिदृतुगण्डान्तगान्ताक्षराढ्यम् । आशाशूलाङ्कितं तद्विपतिरिपुदले सम्यगालिख्य सेरं मारं जस्वास्य यामाशयति वशगता सा भवेत्सद्य एव ॥ हंसारूढो मदन- त्रैलोक्यक्षोभको भवेदाशु । द्युतो रञ्जनकृत्स्या- जीवोपेतस्तथायुषे शस्तः ॥ ३५ ॥ सप्तदश: पटलः । २७१ तारयुजा त्वमुनाग्नौ हुत्वा संपातितेन चाज्येन । संभोजयेत्पतिं स्वं वनिता स नितान्तरञ्जितो भवति ॥ ३६ ॥ दध्यक्ताभिर्जुहुया- ल्लाजाभिः कन्यकां समाकाङ्क्षन् । कन्यापि वरं लभते · विधिना नित्यानुरक्तममुनैव ॥ ३७ ॥ अभिनवैः सुमनोभिरशोकजै- दधितिलैर्विहिता हवनक्रिया । परमवश्यकरी परिकाङ्क्षिता- मपि लभेदचिरादिव कन्यकाम् ॥ ३८ ॥ अभीष्टदायी स्मरणादपि स्मर- स्तथा जपादनया विशेषतः । प्रसादतोऽस्याखिललोकवर्तिन- विराय वश्याश्च भवन्ति मन्त्रिणः ॥ ३९ ॥ 1. मभिवहे ० -२७२ प्रपञ्चसरे कृङा मध्यगताः ष्णाय गोव्यर्णा यल्लमध्यगाः । गोपीजनवकाराः स्युर्भाय स्वाहास्मरादिकाः ॥ ४० ॥ ऋषिस्तु नारदोऽस्य स्याद्गायत्रं छन्द इष्यते । मन्त्रस्य देवता कृष्णस्तदङ्गविधिरुच्यते ॥ ४१ ॥ मूलमन्त्र चतुर्वर्णचतुष्केण द्विकेन च । प्रोक्तान्यङ्गानि भूयोऽमुं चिन्तयेद्देवकीसुतम् ॥ ४२ ॥ अव्यान्मीलत्कलापद्युतिरहिरिपु पिञ्छोल्लसत्केशजालो गोपीनेत्रोत्पलाराधितललितवपुर्गोपगोबृन्दवीतः । श्रीमद्वक्त्रारविन्द प्रति हसितशशाङ्काकृतिः पीतवासा देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः ॥ अयुतद्वितयावधिर्जपः स्या दरुणैरम्बुरुहैर्हृतो दशांशैः । मुरजिद्विहिते तु पीठवर्ये दिनशो नन्दसुतः समर्चनीय: 118811 अङ्गाशेडुजायैः परिवृत्य च पायसेन सुसितेन । सप्तदश: पटलः । २७३ हैयङ्गवीन कदली- फलदधिभिः प्रीणयेच्च गोविन्दम् ॥ ४५ ॥ जुहुयाद्दुग्धहविर्भि- र्विमलैः सर्पिः सितोपलोपेतैः । इष्टतुष्ट लक्ष्मी समावहेत्सद्य एव गोविन्दः ॥ ४६ ॥ बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालनद्ध- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ त्रन्यं देवैर्मुकुन्दं विकसितकरवन्दाभमिन्दीवराक्षं गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिच्छाकलन सुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं यजतु च दिनशो मध्यमेऽह्नो रमायै ॥ विक्रान्त्या ध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै- रावीतं नारदाद्यैर्मुनिभिरनुदिनं तत्त्वनिर्णीतिहेतोः । *P. 18 २७४ प्रपञ्चसारे सायाह्ने निर्मलं तं निरुपममजरं पूजयेन्नीलभासं मन्त्री विश्वोदयस्थित्यपहरणपरं मुक्तिदं वासुदेवम् ॥ ४९ ॥ त्रिकालमेवं प्रविचिन्त्य शार्ङ्गिणं प्रपूजयेद्यो मनुजो महामनाः । स धर्ममर्थ सुसुखं श्रियं परा- मवाप्य देहापदि मुक्तिमाप्नुयात् ॥ ५० ॥ ग्रामं गच्छन्नगरमपि वा मन्त्रजापी मनुष्यो देवेशं तं मुखमनु मुहुस्तर्पयेद्दुग्धबुद्धधा । शुद्धैस्तोयैः स तु बहुरसोपेतमाहारजातं दद्यान्नित्यं प्रचुरधनधान्यांशुकाद्यैर्मुकुन्दः ॥ ५१ ॥ भिक्षावृत्तिर्दिनमनु तमेवं विचिन्त्यात्मरूपं गोपस्त्रीभ्यो मुहुरपहरन्तं मनोभिः सहैव । लीलावृत्त्या ललितललितैश्चेष्टितैर्दुग्धसर्पि- दध्याद्यं वा स पुनरमितामेति भिक्षां गृहेभ्यः ॥ ५२ ॥ ध्यानी मन्त्री मन्त्रजापी च नित्यं यद्यद्वाञ्छन्यत्र यत्र प्रयाति । सप्तदश: पटलः । तत्तत्प्राप्त्वा तत्र तत्र प्रकामं प्रीतः क्रीडेद्देववन्मानुषेषु ॥ ५३ ॥ एवं देवं पूजयन्मन्त्रमेनं जप्यान्मन्त्री सर्वलोकप्रियः स्यात् । इष्टान्कामान्प्राप्य संपन्नवृत्ति- र्नित्यं शुद्धं तत्परं धाम भूयात् ॥ ५४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे सप्तदशः पटलः ॥ २७५ अष्टादशः पटलः ॥ अथ प्रणवसंज्ञकं प्रतिवदामि मन्त्रं परं सजापमपि सार्चनं सहुतक्लृप्ति सोपासनम् । अशेषदुरितापहं विविधकामकल्पद्रुमं विमुक्तिफलसिद्धिदं विमल योगिसंसेवितम् ॥ १॥ आद्यस्वरः समेतो- प्रोक्तः मरेण ससप्तमश्च बिन्दुयुतः । कः स्यात्प्रणवमनु- स्त्रिमात्रिकः सर्वमन्त्रसमवायी ॥ २ ॥ मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता । अक्कीबैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात्स्वरे- मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ॥ ३॥ अष्टादशः पटलः । २७७ विष्णुं भास्वत्किरीटाङ्गदवलययुगाकल्पहारोदराङ्घ्रि- श्रोणीरूपं सर्वक्षोमणिमकरमहाकुण्डलामण्डिताङ्गम् । हस्तोद्यञ्चक्रशङ्खाम्बुजगदममलं पीतकौशेयमाशा- विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ४ ॥ दीक्षितो मनुमिमं शतलक्षं संजपेत्प्रतिहुनेश्च्च दशांशम् । पायसैर्धृतयुतैश्च तदन्ते विप्रभूरुहभवा: समिधो सर्पिः पायसशाली- वा ॥ ५ ॥ तिलसमिदाद्यैरनेन यो जुहुयात् । ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं नचिरात् ॥ ६ ॥ अभ्यर्च्य वैष्णवमथो विधिनैव पीठ- मावाह्य तत्र सकलार्थकरं मुकुन्दम् । अङ्गैः समूर्तियुगशक्तियुगैः सुरेन्द्र- वज्रादिकैर्यजतु मन्त्रिवरः क्रमेण ॥ ७ ॥ 1. श्रोणीभूषं. २७८ प्रपञ्चसारे वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः । स्फटिकस्वर्णदूर्वेन्द्रनीलाभा वर्णतो मताः ॥ ८ ॥ चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः । किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ ९ ॥ सशान्तिश्रीसरस्वत्यौ रतिश्चाश्रिदलाश्रिताः । अच्छपद्मरजोदुग्धदूर्वावर्णाः स्वलंकृताः ॥ १० ॥ आत्मान्तरात्मपरमज्ञानात्मानस्तु मूर्तयः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च शक्तयः ॥ ११ ॥ ज्वलज्ज्वालासमाभाः स्युरात्माद्या 'मूर्तिशक्तयः । इति पश्चावरणकं विधानं प्रणवोद्भवम् ॥ १२ ॥ इत्थं मन्त्री तारममुं जापहुताच- भेदैरङ्गीकृत्य च योगानपि युञ्ज्यात् । यै: संलब्ध्वा चेह समग्रां श्रियमन्ते शुद्धं विष्णोर्धाम परं प्राप्स्यति योगी ॥ १३ । 1. शक्तिमूर्तयः. अष्टादशः पटलः । २७९ करपादमुखादिविहीनमना- रतदृश्यमनन्यगमात्मपदम् । यमिहात्मनि पश्यति तत्त्वविद- स्तमिमं किल योगमिति ब्रुवते ॥ १४ ॥ योगाप्तिदूषणपरं त्वथ कामकोप- लोभप्रमोहमदमत्सरतेति षट्कम् । वैरं जयेत्सपदि योगविदेनमङ्ग- र्योगस्य धीरमतिरष्टभिरिष्टदैश्च ॥ १५ ॥ यमनियमासनपवना- यामाः प्रत्याहृतिश्च धारणया । ध्यानं चापि समाधिः प्रोक्तान्यङ्गानि योगयोग्यानि ॥ १६ ॥ सत्यमहिंसा समता धृतिरस्तेयं क्षमार्जवं च तथा । वैराग्यमिति यमः स्या- त्स्वाध्यायतपोऽर्चनाव्रतानि तथा ॥ १७ ॥ २८० संतोषश्च सशौच प्रपञ्चसरे नियमः स्यादासनं च पञ्चविधम् । पद्मस्वस्तिकभद्रक- वज्रकवीराह्वयं क्रमात्तदपि ॥ १८ ॥ रेचकपूरककुम्भक- भेदात्रिविधः प्रभञ्जनायामः । मुश्चेद्दक्षिणयानिल- मथानयेद्वामया च मध्यमया ॥ १९ ॥ संस्थापयेच नाड्ये- त्येवं प्रोक्तानि रेचकादीनि । षोडशतद्दिगुणचतुः- षष्टिकमात्राणि तानि च क्रमश: ॥ २० ॥ चित्तात्मैक्यधृतस्य प्राणस्य स्थानसंहतिः स्थानात् । प्रत्याहारो ज्ञेय- चैतन्ययुतस्य सम्यगनिलस्य ॥ २१ ॥ अष्टादश: पटलः । २८१ स्थानस्थापनकर्म प्रोक्ता स्याद्धारणेति तत्त्वज्ञैः । यो मनसि देवताया भावः स्यात्तस्य मन्त्रिणः सम्यक् ॥ २२ ॥ संस्थापयेश्च तत्रे- त्येवं ध्यानं वदन्ति तत्त्वविदः । सत्तामात्रं नित्यं शुद्धमपि निरञ्जनं च यत्प्रोक्तम् ॥ २३ ॥ तत्प्रविचिन्त्य स तस्मिं- श्चित्तलयः स्यात्समाधिरुद्दिष्टः । अष्टाङ्गैरिति कथितैः पुनराशु निगृह्यतेऽरिरात्मविदा ॥ २४ ॥ अथ वा शोषणदहन- लावनभेदेन शोधिते देहे । पञ्चाशद्भिर्मात्रा- भेदैर्विधिवत्समायमेत्प्राणान् ॥ २५ ॥ *P. 18a २८२ प्रपञ्चसारे पञ्चाशदात्मकोऽपि च कलाप्रभेदेन तार उद्दिष्टः । तावन्मात्रायमना- त्कलाश्च विवृता भवन्ति तत्त्वविदा ॥ २६ ॥ पूर्वमिडाया वदने विचिन्तयेद्धूम्रमानिलं बीजम् । तेनागतेन देहं प्रशोषयेत्सान्तराधिकरचरणम् ॥ २७ ॥ पिङ्गलया प्रतिमुञ्चे- तथैव कार्शानवेन रक्तरुचा । प्रतिदा पूर्वविधिना मुश्चेन्नैशाकरेण सुसितेन ॥ २८ ॥ संपूरयेत्सुधामय- जलशीकरवर्षिणा तनुं सकलाम् । निर्माय मानसेन च परिपूर्ण मनाश्विरं भूयात् ॥ २९ ॥ अष्टादशः पटलः । सुजीर्णमितभोजनः सुखसमात्तनिद्रादिकः सुशुद्धतलसद्गृहे विरहिते च शीतादिभिः । पटाजिनकुशोत्तरे सुविशदे च मृद्वासने २८३ निमीलितविलोचनः प्रतिविशेत्सुखं प्राङ्मुखः ॥। ३० ॥ प्रसारितं वामकरं निजाङ्के निधाय तस्योपरि दक्षिणं च । ऋजुः प्रसन्नो विजितेन्द्रियः स- न्नाधारमत्यन्तसमं स्मरेत्स्वम् ॥ ३१ ॥ तन्मध्यगतं प्रणवं प्रणवस्थं बिन्दुमपि च बिन्दुगतम् । नादं विचिन्त्य तारं यथावदुञ्चारयेत्सुषुम्नान्तम् ॥ ३२ ॥ तन्मध्यगतं शुद्धं शब्दब्रह्मातिसूक्ष्मतन्तुनिभम् । तेजः स्मरेच्च तारा- त्मकमपि मूलं चराचरस्य सदा ॥ ३३ ॥ २८४ ओंकारो गुणबीजं प्रपञ्चसारे प्रणवस्तारो ध्रुवश्च वेदादिः । आदिरुमध्यो मपरो नामन्यस्य त्रिमात्रिकश्च तथा ॥ ३४ ॥ अस्य तु वेदादित्वा- त्सर्वमनूनां प्रयुज्यतेऽथादौ । योनिश्च सर्वदेहे भवति च स ब्रह्म सर्वसंवादे ॥ ३५ ॥ ऋक् च तदाद्यादिः स्या- तन्मध्यान्तं यजुश्च मान्तादि: । सामापि तस्य भेदा बहवः प्रोक्ता हि लोकवेदेषु ॥ ३६ ॥ उच्चार्योच्चार्य च तं क्रमान्नयेदुपरि षड्वयान्तान्तम् । मनसा स्मृते यदास्मि- न्मनो लयं याति तावद्भ्यस्येत् ॥ ३७ ॥ 1. मान्तानि । सामानि. अष्टादश: पटलः । २८५ अथ वा बिन्दुं वर्तुल- मावतैस्त्रिभिरुपेतमेवमिव । प्रातं रविबिम्बेन च समभ्यसेत्स्रुतसुधामयं तेजः ॥ ३८ ॥ अपमृत्यु रोगपापजि- दचिरेण सुसिद्धिदो नृणां योगः । अथ वा मूलाधारो- त्थिता प्रभा बिसविभेदतन्तुनिभा ॥ ३९ । वदनामृतकरबिम्ब- स्यूता ध्यातामृताम्बुलवलुलिता । स्थावरजङ्गमविषह- द्योगोऽयं नात्र संदेहः ॥ ४० ॥ अथ वा त्रिवळयबिन्दुग- धाम प्रणवेन संनदूर्ध्वम् पीतोर्णातन्तुनिभं सौषुनेनैव वर्त्मना योगी ॥ ४१ ॥ २८६ तस्मिन्निधाय चित्तं प्रपञ्चसारे विलयं गमयेद्दिनेश संख्यान्ते । पुनरावृत्तिविहीनं निर्वाणपदं व्रजेत्तदभ्यासात् ॥ ४२ ॥ अथ वादिबीजमौ पुन- रुमपि विषे तमपि संहरेद्विन्दौ । बिन्दु नादे तमपि च शक्तौ शक्ति तथैव शान्ताख्ये ॥ ४३ ॥ तेजस्यनन्यगे चिति निर्द्वन्द्वे निष्कले सदानन्दे । सूक्ष्मे च सर्वतोमुख- करपदनयनादिलक्षणालक्ष्ये ॥ ४४ ॥ स्वात्मनि संहृत्यैवं करणेन्द्रियवर्गनिर्गमापेतः । निर्लीन पुण्यपापो निरुच्छ्सन्ब्रह्मभूत एव स्यात् ॥ ४५ ॥ अष्टादश: पटल: । २८७ अथ वा योगोपेताः पञ्चावस्थाः क्रमेण विज्ञाय । ताभिर्युञ्जीत सदा योगी सद्यः प्रसिद्धये मुक्तेः ॥ ४६ ॥ जाग्रत्स्वप्नसुषुप्ती तुरीयतदतीतको पुनस्तासु । स्वैरिन्द्रियैर्यदात्मा भुङ्क्ते भोगान्स जागरां भवति ॥ ४७ ॥ संज्ञारहितैरपि तै- स्तस्यानुभवो भवेत्पुनः स्वप्नः । आत्मनिरुद्युक्ततया नैराकुल्यं भवेत्सुषुप्तिरपि ॥ ४८ ॥ पश्यति परं यदात्मा निस्तमसा तेजसा तुरीयं तत् । आत्मपरमात्मपदयो- रभेदतो व्याप्नुयाद्यदा योगी ॥ ४९ ॥ २८८ तच्च तुरीयातीतं प्रपञ्चसारे तस्यापि भवन्न दूरतो मुक्ति: । अथ वा सूक्ष्माख्यायां पश्यन्त्यां मध्यमाख्यवैखर्योः ॥ ५० ॥ ससुषुन्नाप्रकयोरपि युञ्जीयाज्जाप्रदादिभिः पवनम् । बीजोच्चारो जाग्र- द्विन्दुः स्वप्नः सुषुप्तिरपि नादः ॥ ५१ ॥ शक्त्यात्मना तुरीयः शान्ते लय आत्मनस्तुरीयान्तम् । अङ्गुष्ठगुल्फजङ्घा- जानुद्वितयं च सीवनी मेढ्रम् ॥ ५२ ॥ नाभिर्हृदयं ग्रीवा सलम्बिकामं तथैव नासाग्रम् । भ्रूमध्यललाटामसु- षुम्नायं द्वादशान्तमित्येवम् ॥ ५३ ॥ अष्टादशः पटलः । २८९ उत्क्रान्तौ परकाय- प्रवेशने चागतो पुनः स्वतन 1 स्थानानि धारणाया: प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः ॥ ५४ ॥ स्थानेष्वष्वात्ममन:- समीरसंयोगकर्मणोऽभ्यासात् । अचिरेणोत्क्रान्त्याद्या भवन्ति संसिद्धयः प्रसिद्धतराः ॥ ५५ ॥ कण्ठे भ्रूमध्ये हृदि नाभौ सर्वाङ्गके स्मरेत्क्रमशः । छवरसमीरखवर्णै- रनिलमहाकालवञ्चनेयं स्यात् ॥ ५६ ॥ अवनिजलानलमारुत- विहायसां शक्तिभिश्च तद्विम्बैः । सारूप्यमात्मनश्च प्रतिनीत्वा तत्तदाशु जयति सुधीः ॥ ५७ ॥ *P. 19 २९० एवं प्रोक्तयोंगे- प्रपञ्चसारे रायोजयतोऽन्वह तथात्मानम् । अचिरेण भवति सिद्धि: समस्त संसारमोचनी नित्या ॥ ५८ ॥ इति योगमार्गभेदैः प्रतिदिनमारूढयोगयुक्तधियः । सिद्धय उपलक्ष्यन्ते मोक्षपुरीसंप्रवेशनद्वारा: ॥ ५९ ॥ कम्पः पुलकानन्दौ वैमल्यस्थैर्यलाघवानि तथा । सकलप्रकाशवित्ते- त्यष्टावस्थाः प्रसूचकाः सिद्धेः ॥ ६० ॥ त्रैकाल्यज्ञानह मनोज्ञता च्छन्दतो मरुद्रोधः । नाडीसंक्रमणविधि- र्वाक्सिद्धिर्देहश्च देहाप्तिः ॥ ६१ ॥ अष्टादशः पटलः । २९१ ज्योतिः प्रकाशनं चे- त्यष्टौ स्युः प्रत्ययायुजः सिद्धेः । अणिमा महिमा च तथा लघिमा गरिमेशिता वशित्वं च ॥ ६२ ॥ प्राप्तिः प्राकाम्यं चे- त्यष्टैश्वर्याणि योगयुक्तस्य । अश्वर्यसमेत जीवन्मुक्तः प्रवक्ष्यते योगी । योगानुभवमहामृत- रसपानानन्दनिर्भरः सततम् ॥ ६३ ॥ इत्येवं प्रणवविधिः समीरितोऽयं भक्त्या तं प्रभजति यो जपादिभेदैः । संप्राप्नोत्यनुतत नित्यशुद्धबुद्धं तद्विष्णोः परमतरं पदं नराग्र्यः ॥ ६४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे अष्टादशः पटलः ॥ एकोनविंशः पटलः ॥ अथ पुनरभित्रक्ष्ये मन्त्रमष्टाक्षराख्यं सकलदुरितदुःखध्वान्तसंभेदभानुम् । प्रणवहृदयनारावर्णतोऽन्ते यणार्णौ पर इति समुद्दिष्टोऽयमिष्टार्थदायी ॥ १ ॥ तारः शक्त्युत्थतया निर्दिष्टः सोऽहमर्थकः पूर्वम् । नार्णः प्रतिषेधार्थो मोकारश्चायमर्थको भवति ॥ २ ॥ सलिलानलपवनधरा: क्रमेण नारायणाक्षराः प्रोक्ताः । चरमेरस्तु विभक्ति- व्यक्त्यर्थं दर्शितस्तदर्थार्थे ॥ ३ ॥ एकोनविंशः पटलः । ऋषिरस्य मनोः साध्यनारायण इतीरितः । छन्दश्च देवी गायत्री परमात्मा च देवता ॥ ४ ॥ अथ क्रुद्ध महावीर सहस्रपदादिकैः । २९३ उल्कैजीतियुतैः कुर्यात्पश्वाङ्गानि मनोः क्रमात् ॥ ५ ॥ अष्टाक्षरेण व्यस्तेन कुर्याद्वाष्टाङ्गकं सुधीः । सहच्छिरः शिखावर्मनेत्रास्त्रोदरपृष्ठके ॥ ६ । अघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज - त्केयूरं कौस्तुभाभाशबलरुचिरहारं सपीताम्बरं च । नानारत्नांशुभिन्नाभरणशतयुजं श्रीधराश्लिष्टपार्श्व वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्धं मुकुन्दम् ॥ संदीक्षितो मनुममुं प्रतिजतुमिच्छ- कुर्यान्निजेन वपुषैव तु योगपीठम् । अंसोरुयुग्मपदमानननाभिमूल- पार्श्वद्वयैर्विहितगात्रसमुज्ज्वलं च ॥ ८ ॥ मध्येऽनन्ताद्यैरपि संज्ञानात्मान्तिकैर्यजेन्मन्त्री । २९४ पीठाख्य मन्त्र पश्चिम- प्रपञ्चसरे मथ गन्धाद्यैश्च सम्यगुपचारैः ॥ ९ ॥ प्रणवं हृदयं चैव प्रोक्त्वा भगवतेपदम् । विष्णवे च समाभाष्य सर्वभूतात्मनेपदम् ॥ १० ॥ वासुदेवाय सर्वात्मसंयोगपदमुञ्चरेत् । योगपद्मपदं प्रोक्त्वा ततः पीठात्मने नमः ॥ ११ ॥ अस्त्रमन्त्रप्रबद्धाशो मन्त्रवर्णास्तनौ न्यसेत् । विन्यस्तैयैर्भवेन्मन्त्री मन्त्रवर्णात्मको हरिः ॥ १२ ॥ आधारहृद्वदनदोः पदमूलनाभौ कण्ठे सनाभिहृदयस्तनपार्श्वपृष्ठे । कास्येक्षणश्रवणगन्धवहे च दो: प- त्संध्यङ्गुलीषु हृदि धातुषु सानिषु ॥ १३ ॥ मूर्वेक्षणास्य हृदयोदरसोरुजङ्घा- पादद्वयेषु लिपिशो न्यसतु क्रमेण । गण्डांसकोरुचरणेषु रथाङ्गशङ्ख- श्रीमद्दाम्बुजपदेषु समाहितात्मा ॥ १४ ॥ एकोनविंशः पटलः । २९५ ततोऽष्टाक्षरपूर्त्यर्थं स्मर्तव्यो द्वादशाक्षरः । मन्त्रो द्वादशमूर्तीस्तु तत्प्रभिन्नास्तनौ न्यसेत् ॥ १५ ॥ अष्टप्रकृत्यात्मकश्च संप्रोक्तोऽष्टाक्षरो मनुः । अष्टानां प्रकृतीनां च चतुर्णामात्मनामपि ॥ १६ । द्वादशानां तु संयोगो मन्त्रः स्याद्वादशाक्षरः । आदित्या द्वादश प्रोक्ता युक्ता द्वादशमूर्तिभिः ॥ १७ ॥ केशवादिप्रदिष्टानां मूर्तीनां द्वादशादितः । आदिस्वरयुता न्यस्येत्ताः स्युर्द्वादश मूर्तयः ॥ १८ ॥ ललाटोदरहृत्कण्ठदक्षपार्श्वासतद्गले । तथा वामत्रये पृष्ठे ककुदोश्च यथाक्रमम् ॥ १९ ॥ द्वादशाक्षरमन्त्रं च मन्त्रविन्मूर्ध्नि विन्यसेत् । मूर्धस्थो वासुदेवस्तु व्याप्नोति सकलां तनुम् ॥ २० ॥ पुनस्तत्प्रतिपत्यर्थ किरीटादिमनुं जपेत् । किरीटकेयूरहारपदान्याभ्राष्य मन्त्रवित् ॥ २१ ॥ मकारान्ते कुण्डलं च चक्रशङ्खगदादिकम् । अब्जहस्तपदं प्रोक्त्वा पीताम्बरधरेति च ॥ २२ ॥ २९६ प्रपञ्चसरे श्रीवत्साङ्कतमाभाष्य वक्षःस्थलमधो वदेत् । श्रीभूमिसहितं स्वात्मज्योतिर्द्वयमथो वदेत् ॥ २३ ॥ 'दीप्तिमुक्ताकरायेति सहस्रादित्यतेजसे । हृदन्तः प्रणवादिः स्यात्किरीटादिमनुः स्वयम् ॥ २४ कृत्वा स्थण्डिलमस्मि - निक्षिप्य निजासिकां समुपविश्य । पीठादिकं निजाङ्ग प्रपूज्य गन्धादिभिः सुशुद्धमनाः ॥ २५ ॥ सद्वादशाक्षरान्तं प्रपूज्य विधिवत्किरीटमन्त्रेण कुर्यात्पुष्पाञ्जलिमप निजदेहे पञ्चशोऽथ वा त्र्यशः ॥ २६ ॥ इति दीक्षितविहितविधिः संप्रोक्तोऽष्टाक्षरस्य मन्त्रस्य । शुद्धानां विमलधियां दीक्षा प्रतिवक्ष्यतेऽथ संक्षेपात् ॥ २७ ॥ 1. दीप्तिमुक्त्वा धरायेति. एकोनविंश: पटलः । कृत्वा त्रिगुणितादीनामेकं मण्डल मुज्ज्वलम् । आत्मा नोक्तविधिना शक्तिभिः पीठमर्चयेत् ॥ २८ ॥ विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः । ही सत्या तथेशानानुग्रहा नवमी तथा ॥ २९ ॥ निधाय कलां तत्र पश्चगव्येन पूरयेत् । पयोभिर्वा गवां प्रोक्तः कथितैर्वाष्टगन्धकैः ॥ ३० ॥ अष्टाक्षराङ्गरष्टाष्टवर्णैरष्टाक्षरान्वितैः । दलमूले यजेद्भूयो वासुदेवादिकान्क्रमात् । सशक्तिकांस्ततो बाह्ये संपूज्या हरितय: ॥ ३१ ॥ चक्रसशङ्खगदाम्बुज- कौस्तुभशार्ङ्गः सखङ्गवनमालाः । रक्ताच्छपीतकनक- श्यामलकृष्णद्युशुक्कुभासः स्युः ॥ ३२ ॥ २९७ ध्वजश्च वैनतेयश्च शङ्खपद्मौ दिगाश्रिताः । विनायकौ तथा दुर्गाविष्वक्सेनौ विदिग्गताः ॥ ३३ ॥ 1. काथैर्वा शोधितोदकैः. २९८ प्रपञ्चसारे ध्वजः श्यामो विपो रक्तो निधी शुकारुणप्रभौ । अरुणश्यामलश्यामपीता विघ्नादयो मताः ॥ ३४ ॥ इन्द्रादयस्तद्बहिश्च पूज्या गन्धादिभिः क्रमात् । इति विष्णोर्विधानं तु पञ्चावरणमुच्यते ॥ ३५ । एवमभ्यर्चिते विष्णावुपचारैस्तु पूर्ववत् । अग्निमाधाय कुण्ड तु ब्रह्मयागसमीरितैः ॥ ३६ ॥ जुहुयादष्टभिर्द्रव्यैर्मनुनाष्टाक्षरेण तु । पृथगष्टशतावृत्त्या हुत्वा दत्वा बलिं ततः ॥ ३७ ॥ अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्ववन्मनुम् । द्वात्रिंशल्लक्षमानेन स तु मन्त्रं जपेत्ततः । तदर्धसंख्यकं वापि शुद्धाचारो जितेन्द्रियः ॥ ३८ ॥ पद्मासनः प्राग्वदनोऽप्रलापी तन्मानसस्तर्ज निवर्जिताभिः । अक्षस्रजो वाकुलिभिर्जपेत नातिद्रुतं नातिविलम्बितं च ॥ ३९ ॥ एकोनविंश: पटलः । प्रागीरितैरपि जुहोतु दशांशकं वा ब्रध्यैः शुभैः सरसिजैर्मधुराप्लुतैर्वा । : रत्नांशुकप्रवरकाश्चनगोमहीभि- धन्यैर्यथाविभवतः प्रयजेद्ररूंश्च ॥ ४० ॥ विप्रान्प्रत विभवैरथ मन्त्रजापी संह्लादयेज्जपविधिं च ततः क्रमेण । नित्याचना च विहिता विधिनामुनैव २९९ प्रोक्तक्रमेण विदधात्वथ वात्मपूजाम् ॥ ४१ ॥ इति जपहुतार्चनायै- मन्त्री योऽष्टाक्षरं समभ्यस्येत् । स त्वैहिकीं च सिद्धिं • संप्राप्यान्ते प्रयाति परमपदम् ॥ ४२ ॥ अङ्गानि पूर्व स्वथ मूर्तिशक्ती : सकेशवादींश्च पुरंदरादीन् । समर्चयेद्यस्तु विधानमेत- नरोऽचिरात्काङ्क्षितमेति कामम् ॥ ४३ ॥ ३०० प्रपञ्चसारे यष्टव्यः स्याद्वासुदेवादिरादौ चक्राद्याः केत्वादिकाः केशवाद्या: इन्द्राद्याश्वेत्येवमेव प्रदिष्टं तुष्टायुः श्रीकीर्त्तिसिद्ध विधानम् ॥ ४४ ॥ स वासुदेवादिकमर्चयित्वा भूयो ध्वजादींश्च पुरंदरादीन् । क्रमेण विद्वान्विधिनार्चयीत- त्ययं क्रमश्र विदशाभिपूज्यः ॥ ४५ ॥ इत्युक्तविधिचतुष्कं पूजयितुरथैकमपि यथाशक्ति । अचिरेण भवति लक्ष्मी- स्तगता सकलवर्गसिद्धिकरी ॥ ४६ ॥ अष्टाक्षराक्षराष्ट्रक- मूर्तिविधानानि भेदभिन्नानि । वक्ष्याम्यर्चयितॄणां वाञ्छित सकलार्थ साधनानि सदा ॥ ४७ ॥ एकोनविंश: पटलः । सिन्दूरकुन्दकरविन्दकबन्धुजीवं- रमीरपद्ममकरन्दरुचः क्रमेण । नीलोत्पलाम्बुरुहरागसमानवर्णाः स्युर्मूर्तयोऽष्ट कथिता मनुवर्णजाताः ॥ ४८ ॥ अरिदर गदाब्जहस्ताः सर्वास्तु नकार मोर्णयोर्मन्त्री । शङ्खारिगदाब्जकरे लक्षणमन्यत्समानरूपं स्यात् ॥ ४९ ॥ या मूर्तिरर्च्यतेऽस्य व्रजन्ति परिवारितां तदवशिष्टाः । अवशिष्टेऽन्त्येऽथांशे स्वयं च परिवारितां प्रयाति तदा ॥ ५० ॥ इयमेवावृतिरधिका ध्रुवजे ध्रुवजात्पुरा समुद्दिष्टात् । भवति विधानादिति पुन - रेषां प्रथमं विधानमुद्दिष्टम् ॥ ५१ ॥ ३०१ ३०२ प्रपञ्चसारे अथ द्वितीयाक्षरतोऽङ्गतोऽन्ते' वर्णाष्टमूर्तीरपि मूर्तिशक्तीः । यजेद्विधाने च सके लोक- पालादिका नुक्तविधानक्लृप्त्या ॥ ५२ ॥ मोकारजे रतिधृती च सकान्तितुष्टि- पुष्टिस्मृतीरपि च दीप्त्यभिधां च कीर्त्तिम । केत्वादिकं च सशतक्रतुपूर्वकं च संपूजयेद्विमलधीः पुनरन्वितोऽन्ते ॥ ५३ । नाकारजेऽङ्गतोऽन्ते प्रपूजयेन्मूर्तिशक्तिलोकेशान । रावर्णजेऽङ्गमूर्ति- श्रीभूमायामनोन्मनीस्तदनु ॥ ५४ ॥ ह्री श्री रतिः सपुष्टि - मोहनिमाये महादियोगाद्ये । माये च तृतीयावृति- रन्यदशेषं पुरैव निर्दिष्टम् ॥ ५५ ॥ 1. •जेऽङ्गतो. एकोनविंश: : पटलः । ३०३ यकारजेऽरिशङ्खौ च सगदाहलशार्ङ्गकाः । मुसल उङ्गशूलौ च तृतीया साक्षरोद्भवे ॥ ५६ ॥ शेषो वासुकितक्षक- कार्कोटकपङ्कजमहापद्माः । वरपाल गुलिकसंज्ञा- स्तृतीयमन्यत्समं विधानेऽन्त्ये ॥ ५७ ॥ अङ्गैः प्रथमावरणं मूर्तिभिरपि शक्तिभिर्द्वितीयमपि । अन्यैः केशव केत्वा- दिभ्यां स्यात्पञ्चमं च मत्स्याद्यैः ॥ ५८ ॥ मत्स्यः कूर्मवराहौ नृसिंहकुब्ज विरामकृष्णाश्च । कल्कि: सानन्तात्मा • पुनरमृतात्मा च षष्ठमहिपाद्यैः ॥ ५९ ॥ सप्तममपि लोकेशै- रष्टममपि तदायुधैश्च संप्रोक्तम् । ३०४ प्रागुक्तं विधाने- प्रपञ्चसार ब्वालक्ष्यं नोक्तमत्र यत्तदपि ॥ ६० । अष्टाक्षराक्षरविधानचतुष्कयुग्मं प्रोक्तक्रमण विधिनाभियजेद्य एनम् । भक्त्या मुकुन्दमनुजापरतां नराग्ज्य: प्राप्नोति वाञ्छितमयत्नत एव कामम् इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकोनविंशः पटलः ॥ ६१